प्रमुखा विकल्पसूचिः उद्घाट्यताम्


पञ्चदशोऽध्यायः

यमकिङ्कर उवाच

पतितात्प्रतिगृह्यार्थं खरयोनिं व्रजेद्द्विजः ।
नरकात्प्रतिमुक्तस्तु कृमिः पतितयाजकः ॥ १५.१ ॥
उपाध्यायव्यलीकन्तु कृत्वा श्वा भवति द्विजः ।
तज्जायां मनसावाञ्छन् तद्द्रव्यञ्चाप्यसंशयम् ॥ १५.२ ॥
गर्दभो जायते जन्तुः पित्रोश्चाप्यवमानकः ।
मातापितरावाक्रुश्य शारिका सम्प्रजायते ॥ १५.३ ॥
भ्रातुः पत्न्यवमन्ता च कपोतत्वं प्रपद्यते ।
तामेव पीडयित्वा तु कच्छपत्वं प्रपद्यते ॥ १५.४ ॥
भर्तृपिण्डमुपाश्नन् यस्तदिष्टं न निषेवते ।
सोऽपि मोहसमापन्नो जायते वानरो मृतः ॥ १५.५ ॥
न्यासापहर्ता नरकाद्विमुक्तो जायते कृमिः ।
असूयकश्च नरकान्मुक्तो भवति राक्षसः ॥ १५.६ ॥
विश्वासहन्ता च नरो मीनयोनौ प्रजायते ।
धान्यं यवांस्तिलान्माषान् कुलत्थान् सर्षपांश्चणान् ॥ १५.७ ॥
कलायान कलमान्मुद्गान् गोधूमानतसीस्तथा ।
शस्यान्यन्यानि वा हृत्वा मोहाज्जन्तुरचेतनः ॥ १५.८ ॥
सञ्जायते महावक्त्रो मूषिको बभ्रुसन्निभः ।
परदाराभिमर्षात्तु वृको घोरोऽभिजायते ॥ १५.९ ॥
श्वा शृगालो वको गृध्रो व्याडः कङ्कस्तथा क्रमात् ।
भ्रातृभार्याञ्च दुर्बुद्धिर्यो धर्षयति पापकृत् ॥ १५.१० ॥
पुंस्कोकिलत्वमाप्नोति स चापि नरकाच्च्युतः ।
सखिभार्यां गुरोर्भार्यां राजभार्याञ्च पापकृत् ॥ १५.११ ॥
प्रधर्षयित्वा कामात्मा शूकरो जायते नरः ।
यज्ञदानविवाहानां विघ्रकर्ता भवेत्कृमिः ॥ १५.१२ ॥
पुनर्दात्च कन्यायाः कृमिरेवोपजायते ।
देवतापितृविप्राणामदत्वा योऽन्नमश्नुते ॥ १५.१३ ॥
प्रमुक्तो नरकात्सोऽपि वायसः सम्प्रजायते ।
ज्येष्ठं पितृसमं वापि भ्रातरं योऽवमन्यते ॥ १५.१४ ॥
नरकात्सोऽपि विभ्रष्टः क्रौञ्चयोनौ प्रजायते ।
शूद्रश्च ब्राह्मणरिं गत्वा कृमियोनौ प्रजायते ॥ १५.१५ ॥
तस्यामपत्यमुत्पाद्य काष्ठान्तः कीटको भवेत् ।
शूकरः कृमिको मद्गुश्चण्डालश्च प्रजायते ॥ १५.१६ ॥
अकृतज्ञोऽधमः पुंसां विमुक्तो नरकान्नरः ।
कृतघ्रः कृमिकः कीटः पतङ्गो वृश्चिकस्तथा ॥ १५.१७ ॥
मत्स्यस्तु वायसः कूर्मः पुक्कसो जायते ततः ।
अशस्त्रं पुरुषं हत्वा नरः सञ्जायते खरः ॥ १५.१८ ॥
कृमिः स्त्रीवधकर्ता च बालहन्ता च जायते ।
भोजनं चोरयित्वा तु मक्षिका जायते नरः ॥ १५.१९ ॥
तत्राप्यस्ति विशेषो वै भोजनस्य शृणुष्व तत् ।
ह्त्वान्नन्तु स मार्जारो जायते नरकाच्च्युतः ॥ १५.२० ॥
तिलपिण्याकसंमिश्रमन्नं हृत्वा तु मूषिकः ।
घृतं हृत्वा च नकुलः काको मद्गुरजामिषम् ॥ १५.२१ ॥
मत्स्यमांसापहृत्काकः श्येनो मार्गामिषापहृत् ।
वीचीकाकस्त्वपहृते लवणे दधनि कृमिः ॥ १५.२२ ॥
चोरयित्वा पयश्चापि बलाका सम्प्रजायते ।
यस्तु चोरयते तैलं तैलपायी स जायते ॥ १५.२३ ॥
मधु हृत्वा नरो दंशः पूपं हृत्वा पिपीलिकः ।
चोरयित्वा तु निष्पावान् जायते गृहगोलकः ॥ १५.२४ ॥
आसवं चोरयित्वा तु तित्तिरित्वमवाप्नुयात् ।
अयो हृत्वा तु पापात्मा वायसः सम्प्रजायते ॥ १५.२५ ॥
हृते कांस्ये च हारीतः कपोतो रुप्यभाजने ।
हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ॥ १५.२६ ॥
पत्रोर्णं चोरयित्वा तु क्रकरत्वञ्च गच्छति ।
कोषकारश्च कौषेये हृते वस्त्रेऽभिजायते ॥ १५.२७ ॥
दुकूले शार्ङ्गकः पापो हृते चैवांशुके शुकः ।
तथैवाजाविकं हृत्वा वस्त्रं क्षौमं च जायते ॥ १५.२८ ॥
कार्पासिके हृते क्रौञ्चो वाल्कहर्ता बकस्तथा ।
मयूरो वर्णकान् हृत्वा शाकपत्रं च जायते ॥ १५.२९ ॥
जीवज्जीवकतां याति रक्तवस्त्रापहृन्नरः ।
छुच्छुन्दरिः शुभान् गन्धान् वासो हृत्वा शशो भवेत् ॥ १५.३० ॥
षण्ढः फलापहरणात्काष्ठस्य घुणकीटकः ।
पुष्पापहृद्दरिद्रश्च पङ्गुर्यानापहृन्नरः ॥ १५.३१ ॥
शाकहर्ता च हारीतस्तोयहर्ता च चातकः ।
भूहर्ता नरकान् गत्वा रौरवादीन् सुदारुणान् ॥ १५.३२ ॥
तृणगुल्मलतावल्लित्वक्सारतरुतां क्रमात् ।
प्राप्य क्षीणाल्पपापस्तु नरो भवति वै ततः ॥ १५.३३ ॥
कृमिः कीटः पतङ्गोऽथ पक्षी तोय चरो मृगः ।
गोत्वं प्राप्य च चण्डालपुक्कसादि जुगुप्सितम् ॥ १५.३४ ॥
पङ्ग्वन्धो वधिरः कुष्ठी यक्ष्मणा च प्रपीडितः ।
मुखरोगाक्षिरोगैश्च गुदरोगैश्च बाध्यते ॥ १५.३५ ॥
अपस्मारी च भवति शूद्रत्वं च स गच्छति ।
एष एव क्रमो दृष्टो गोसुवर्णापहारिणाम् ॥ १५.३६ ॥
विद्यापहारिणश्चोग्रा निष्क्रयभ्रंशिनो गुरोः ।
जायामन्यस्य पुरुषः पारख्यां प्रतिपादयन् ॥ १५.३७ ॥
प्राप्नोति षण्ढतां मूढो यातनाभ्यः परिच्युतः ।
यः करोति नरो होममसमिद्धे विभावसौ ॥ १५.३८ ॥
सोऽजिर्णव्याधिदुः खार्तो मन्दाग्निः संप्रजायते ।
परनिन्दा कृतघ्रत्वं परमर्मावघट्टनम् ॥ १५.३९ ॥
नैष्ठुर्यं निर्घृणत्वञ्च परदारोपसेवनम् ।
परस्वहरणाशौचं देवतानाञ्च कुत्सनम् ॥ १५.४० ॥
निकृत्या कञ्चनं नृणां कार्पण्यं च नृणां वधः ।
यानि च प्रतिषिद्धानि तत्प्रवृत्तिश्च सन्तता ॥ १५.४१ ॥
उपलक्ष्याणि जानीयान्मुक्तानां नरकादनु ।
दया भूतेषु संवादः परलोकप्रतिक्रिया ॥ १५.४२ ॥
सत्यं भूतहितार्थोक्तिर्वेदप्रामाण्यदर्शनम् ।
गुरुदेवर्षिसिद्धर्षिपूजनं साधुसङ्गमः ॥ १५.४३ ॥
सत्क्रियाभायसनं मैत्रीमिति बुध्यते पण्डितः ।
अन्यानि चैव सद्धर्मङ्क्रियाभूतानि यानि च ॥ १५.४४ ॥
स्वर्गच्युतानां लिङ्गानि पुरुषाणामपापिनाम् ।
एतदुद्देशतो राजन् भवतः कथितं मया ॥ १५.४५ ॥
स्वकर्मफलभोक्तॄणां पुण्यानां पापिनां तथा ।
तदेह्यन्यत्र गच्छामो दृष्टं सर्वं त्वयाधुना ।
त्वया दृष्टो हि नरकस्तदेह्यन्यत्र गम्यताम् ॥ १५.४६ ॥

पुत्र उवाच

ततस्तमग्रतः कृत्वा स राजा गन्तुमुद्यतः ।
ततश्च सर्वैरुत्क्रुष्टं यातनास्थायिभिर्नृभिः ॥ १५.४७ ॥
प्रसादं कुरु भूपेति तिष्ठ तावन्मुहूर्तकम् ।
त्वदङ्गसङ्गी पवनो मनो ह्लादयते हि नः ॥ १५.४८ ॥
परितापञ्च गात्रेभ्यः पीडाबाधाश्च कृत्स्नशः ।
अपहन्ति नरव्याघ्र यदां कुर महीपते ॥ १५.४९ ॥
एतच्छ्रुत्वा वचस्तेषां तं याम्यपुरुषं नृपः ।
पप्रच्छ कथमेतेषामाह्लादो मयि तिष्ठति ॥ १५.५० ॥
किं मया कर्म तत्पुण्यं मर्त्यलोके महत्कृतम् ।
आह्लाददायिनी व्युष्टिर्येनेयं तदुदीरय ॥ १५.५१ ॥

यमपुरुष उवाच

पितृदेवातिथिप्रैष्यशिष्टेनान्नेन ते तनुः ।
पुष्टिमभ्यागता यस्मात्तद्गतं च मनो यतः ॥ १५.५२ ॥
ततस्त्वद्गात्रसंसर्गो पवनो ह्लाददायकः ।
पापकर्मकृतो राजन् यातना न प्रबाधते ॥ १५.५३ ॥
अश्वमेधादयो यज्ञास्त्वयेष्टा विधिवद्यतः ।
ततस्त्वद्दर्शनाद्याम्या यन्त्रशस्त्राग्निवायसाः ॥ १५.५४ ॥
पीडनच्छेददाहादिमहादुः खस्य हेतवः ।
मृदुत्वमागता राजन् तेजसापहतास्तव ॥ १५.५५ ॥

राजोवाच

न स्वर्गे ब्रह्मलोके वा तत्सुखं प्राप्यते नरैः ।
यदार्तजन्तुनिर्वाणदानोत्थमिति मे मतिः ॥ १५.५६ ॥
यदि मत्सन्निधावेतान् यातना न प्रबाधते ।
ततो भद्रमुखात्राहं स्थास्ये स्थाणुरिवाचलः ॥ १५.५७ ॥

यमपुरुष उवाच

एहि राजन् प्रगच्छामो निजपुण्यसमर्जितान् ।
भुङ्क्ष्व भोगानपास्येह यातनाः पापकर्मणाम् ॥ १५.५८ ॥

राजोवाच

तस्मान्न तावद्यास्यामि यावदेते सुदुः खिताः ।
मत्सन्निधानात्सुखिनो भवन्ति नरकौकसः ॥ १५.५९ ॥
धिक्तस्य जीवनं पुंसः शरणार्थिनमातुरम् ।
यो नार्तमनुगृह्णाति वैरिपक्षमपि ध्रुवम् ॥ १५.६० ॥
यज्ञदानतपांसीह परत्र च न भूतये ।
भवन्ति तस्य यस्यार्तपरित्राणे न मानसम् ॥ १५.६१ ॥
नरस्य यस्य कठिनं मनो बालातुरादिषु ।
वृद्धेषु च न तं मन्ये मानुषं राक्षसो हि सः ॥ १५.६२ ॥
एतेषां सन्निकर्षात्तु यद्यग्निपरितापजम् ।
तथोग्रगन्धजं वापि दुः खं नरकसम्भवम् ॥ १५.६३ ॥
क्षुत्पिपासाभवं दुः खं यच्च मूर्च्छाप्रदं महत् ।
एतेषां त्राणदानन्तु मन्ये स्वर्गसुखात्परम् ॥ १५.६४ ॥
प्राप्स्यन्त्यार्ता यदि सुखं बहवो दुः खिते मयि ।
किन्नु प्राप्तं मया न स्यात्तस्मात्त्वं व्रज माचिरम् ॥ १५.६५ ॥

यमपुरुष उवाच

एष धर्मश्च शक्रश्च त्वां नेतुं समुपागतौ ।
अवश्यमस्माद्गन्तव्यं तस्मात्पार्थिव ! गम्यताम् ॥ १५.६६ ॥

धर्म उवाच

नयामि त्वामहं स्वर्गं त्वया सम्यगुपासितः ।
विमानमेतदारुह्य मा विलम्बस्व गम्यताम् ॥ १५.६७ ॥

राजोवाच

नरके मानवा धर्म पीड्यन्तेऽत्र सहस्रशः ।
त्राहीति चार्ताः क्रन्दन्ति मामतो न व्रजाम्यहम् ॥ १५.६८ ॥

इन्द्र उवाच

कर्मणा नरकप्राप्तिरेतेषां पापकर्मिणाम् ।
स्वर्गस्त्वयापि गन्तव्यो नृप ! पुण्येन कर्मणा ॥ १५.६९ ॥

राजोवाच

यदि जानासि धर्म ! त्वं त्वं वा शक्र ! शचीपते ।
मम यावत्प्रमाणन्तु शुभं तद्वक्तुमर्हथः ॥ १५.७० ॥

धर्म उवाच

अब्बिन्दवो यथाम्भोधौ यथा वा दिवि तारकाः ।
यथा वा वर्षता धारा गड्गायां सिकता यथा ॥ १५.७१ ॥
असंख्येया महाराज यथा बिन्द्वादयो ह्यपाम् ।
तथा तवापि पुण्यस्य संख्या नैवोपपद्यते ॥ १५.७२ ॥
अनुकम्पामिमामद्य नारकेष्विह कुर्वतः ।
तदेव शतसाहस्त्रं संख्यामुपगतं तव ॥ १५.७३ ॥
तद्गच्छ त्वं नृपश्रेष्ठ तद्भाक्तुममरालयम् ।
एतेऽपि पापं नरके क्षपयन्तु स्वकर्मजम् ॥ १५.७४ ॥

राजोवाच

कथं स्पृहां करिष्यन्ति मत्सम्पर्केषु मानवाः ।
यदि सत्सन्निधावेषामुकत्कर्षो नोपजायते ॥ १५.७५ ॥
तस्माद्यत्सुकृतं किञ्चिन्ममास्ति त्रिदशाधिप ।
तेन मुच्यन्तु नरकात्पापिनो यातनां गताः ॥ १५.७६ ॥

इन्द्र उवाच

एवमूर्ध्वतरं स्थानं त्वयावाप्तं महीपते ।
एतांश्च नरकात्पश्य विमुक्तान् पापकारिणः ॥ १५.७७ ॥

पुत्र उवाच

ततोऽपतत्पुष्पवृष्टिस्तस्योपरि महीपतेः ।
विमानञ्चाधिरोप्यैनं स्वर्लोकमनयद्धरिः ॥ १५.७८ ॥
अहञ्चान्ये च ये तत्र यातनाभ्यः परिच्युताः ।
स्वकर्मफलनिर्दिष्टं ततो जात्यन्तरं गताः ॥ १५.७९ ॥
एवमेते समाख्याता नरका द्विजसत्तम ।
येन येन च पापेन यां यां योनिमुपैति वै ॥ १५.८० ॥
तत्तत्सर्वं समाख्यातं यथा दृष्टं मया पुरा ।
पुरानुभवजं ज्ञानमवाप्यावितथं तव ।
अतः परं महाभाग किमन्यत्कथयामि ते ॥ १५.८१ ॥

इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादो नाम पञ्चदशोऽध्यायः