प्रमुखा विकल्पसूचिः उद्घाट्यताम्

त्रयोविंशोऽध्यायः

पुत्रावूचतुः

स राजपुत्रः संप्राप्य वेगादात्मपुरं ततः ।
पित्रोर्ववन्दिषुः पादौ दिदृक्षुश्च मदालसाम् ॥ २३.१ ॥
ददर्श जनमुद्विग्नमप्रहृष्टमुखं पुरः ।
पुनश्च विस्मिताकारं प्रहृष्टवदनं ततः ॥ २३.२ ॥
अन्यमुत्फुल्लनयनं दिष्ट्या दिष्ट्येतिवादिनम् ।
परिष्वजन्तमन्योन्यमतिकौतूहलान्वितम् ॥ २३.३ ॥
चिरं जीवोरुकल्याण ! हतास्ते परिपन्थिनः ।
पित्रोः प्रह्लादय मनस्तथास्माकमकण्टकम् ॥ २३.४ ॥

पुत्रावूचतुः

इत्येवं वादिभिः पौरैः पुरः पृष्ठे च संवृतः ।
तत्क्षणप्रभवानन्दः प्रविवेश पितुर्गृहम् ॥ २३.५ ॥
पिता च तं परिष्वज्य माता चान्ये च बान्धवाः ।
चिरं जीवेति कल्याणीर्ददुस्तस्मै तदाशिषः ॥ २३.६ ॥
प्रणिपत्य ततः सोऽथ किमेतदिति विस्मितः ।
पप्रच्छ पितरं तात ! सोऽस्मै सम्यक्तदुक्तवान् ॥ २३.७ ॥
स भार्यां तां मृतां श्रुत्वा हृदयेष्टां मदालसाम् ।
पितरौ च पुरो दृष्ट्वा लज्जाशोकाब्धिमध्यगः ॥ २३.८ ॥
चिन्तयामास सा बाला मां श्रुत्वा निधनं गतम् ।
तत्याज जीवितं साध्वी धिङ्मां निष्ठुरमानसम् ॥ २३.९ ॥
नृशंसोऽहमनार्योऽहं विना तां मृगलोचनाम् ।
मत्कृते निधनं प्राप्तां यज्जीवाम्यतिनिर्घृणः ॥ २३.१० ॥
पुनः स चिन्तयामास परिसंस्तभ्य मानसम् ।
मोहोद्गममपास्याशु निः श्वस्योच्छवस्य चातरः ॥ २३.११ ॥
मृतेति सा मन्निमित्तं त्यजामि यदि जीवितम् ।
किं मयोपकृतं तस्याः श्लाघ्यमेतत्तु योषिताम् ॥ २३.१२ ॥
यदि रोदिमि वा दीनो हा प्रियेति ! वदन्मुहुः ।
तथाप्यश्लाघ्यमेतन्नो वयं हि पुरुषाः किल ॥ २३.१३ ॥
अथ शोकजडो दीनोऽसृजा हीनो मलान्वितः ।

विपक्षस्य भविष्यामि ततः परिभवास्पदम् ॥ २३.१४ ॥
मयारिशातनं कार्यं राज्ञः शुश्रुषणं पितुः ।
जीवितं तस्य चायत्तं सन्त्याज्यं तत्कथं मया ॥ २३.१५ ॥
किन्त्वत्र मन्ये कर्तव्यस्त्यागो भागस्य योषितः ।
स चापि नोपकाराय तन्वङ्ग्याः किन्तु सर्वथा ॥ २३.१६ ॥
मया नृशंस्यं कर्तव्यं नोपकार्यपकारि च ।
या मदर्थेऽत्यजत्प्राणांस्तदर्थेऽल्पमिदं मम ॥ २३.१७ ॥

पुत्रावूचतुः

इति कृत्वा मतिं सोऽथ निष्पाद्योदकदानिकम् ।
क्रियाश्चानन्तरं कृत्वा प्रत्युवाच ऋतध्वजः ॥ २३.१८ ॥

ऋतध्वज उवाच


यदि सा मम तन्वङ्गी न स्याद्भार्या मदालसा ।
अस्मिन् जन्मनि नान्या मे भवित्री सहचारिणी ॥ २३.१९ ॥
तामृते मृगशावाक्षीं गन्धर्वतनयामहम् ।
न भोक्ष्ये योषितं काञ्चिदिति सत्यं मयोदितम् ॥ २३.२० ॥
सद्धर्मचारिणीं पत्नीं तां मुक्त्वा गजगामिनीम्,।
काञ्चिन्नाङ्गीकरिष्यामीत्येतत्सत्यं मयोदितम् ॥ २३.२१ ॥

पुत्रावूचतुः

परित्यज्य च स्त्रीभोगान् तात ! सर्वंस्तया विना ।
क्रीडन्नास्ते समं तुल्यैर्वयस्यैः शीलसम्पदा ॥ २३.२२ ॥
एतत्तस्य परं कार्यं तात ! तत्केन शक्यते ।
कर्तुमत्यर्थदुष्प्राप्यमीश्वरैः किमुतेतरैः ॥ २३.२३ ॥


जड उवाच

इति वाक्यं तयोः श्रुत्वा विमर्शमगमत्पिता ।
विमृश्य चाह तौ पुत्रौ नागराट्प्रहसन्निव ॥ २३.२४ ॥

नागराडश्वतर उवाच

यद्यशक्यमिति ज्ञात्वा न करिष्यन्ति मानवाः ।
कर्मण्युद्यममुद्योगहान्या हानिस्ततः परम् ॥ २३.२५ ॥
आरभेत नरः कर्म स्वपौरुषमहापयन् ।
निष्पत्तिः कर्मणो दैवे पौरुषे च व्यवस्थिता ॥ २३.२६ ॥
तस्मादहं तथा यत्नं करिष्ये पुत्रकावितः ।
तपश्चर्यां समास्थाय यथैतत्साध्यतेऽचिरात् ॥ २३.२७ ॥

जड उवाच

एवमुक्त्वा स नागेन्द्रः प्लक्षावतरणं गिरेः ।
तीर्थं हिमवतो गत्वा तपस्तेपे सुदुश्चरम् ॥ २३.२८ ॥
तुष्टाव गीर्भिश्च ततस्तत्र देवीं सरस्वतीम् ।
तन्मना नियताहारो भूत्वा त्रिषवणाप्लुतः ॥ २३.२९ ॥

अश्वतर उवाच

जगद्धात्रीमहं देवीमारिराधयिषुः शुभाम् ।
स्तोष्ये प्रणम्य शिरसा ब्रह्मयोनिं सरस्वतीम् ॥ २३.३० ॥
सदसद्देवि ! सत्किञ्चिन्मोक्षवच्चार्थवत्पदम् ।
तत्सर्वं त्वय्यसंयोगं योगवद्देवि ! संस्थितम् ॥ २३.३१ ॥
त्वमक्षरं परं देवि ! यत्र सर्वं प्रतिष्ठितम् ।
अक्षरं परमं देवि ! संस्थितं परमाणुवत् ॥ २३.३२ ॥
अक्षरं परमं ब्रह्म विश्वञ्चैतत्क्षरात्मकम् ।
दारुण्यवस्थितो वह्निर्भौमाश्च परमाणवः ॥ २३.३३ ॥
तथा त्वयि स्थितं ब्रह्म जगच्चेदमशेषतः ।
ओङ्काराक्षरसंस्थानं यत्तु देवि ! स्थिरास्थिरम् ॥ २३.३४ ॥
तत्र मात्रात्रयं सर्वमस्ति यद्देवि नास्ति च ।
त्रयो लोकास्त्रयो वेदास्त्रैविद्यं पावकत्रयम् ॥ २३.३५ ॥
त्रीणि ज्योतींषि वर्णाश्च त्रयो धर्मागमास्तथा ।
त्रयो गुणास्त्रयः शब्दस्त्रयो वेदास्तथाश्रमाः ॥ २३.३६ ॥
त्रयः कालास्तथावस्थाः पितरोऽहर्निशादयः ।
एतन्मात्रात्रयं देवि ! तव रूपं सरस्वति ॥ २३.३७ ॥
विभिन्नदर्शिनामाद्या ब्रह्मणो हि सनातनाः ।

सोमसंस्था हविः संस्थाः पाकसंस्थाश्च सप्त याः ॥ २३.३८ ॥
तास्त्वदुच्चारणाद्देवि ! क्रियन्ते ब्रह्मवादिभिः ।
अनिर्देश्यं तथा चान्यदर्धमात्रान्वितं परम् ॥ २३.३९ ॥
अविकार्यक्षयं दिव्यं परिणामविवर्जितम् ।
तवैतत्परमं रूपं यन्न शक्यं मयोदितुम् ॥ २३.४० ॥
न चास्ये न च तज्जिह्वा ताम्रोष्ठादिभिरुच्यते ।
इन्द्रोऽपि वसवो ब्रह्मा चन्द्रार्कौ ज्योतिरेव च ॥ २३.४१ ॥
विश्वावासं विश्वरूपं विश्वेशं परमेश्वरम् ।
सांख्यवेदान्तवादोक्तं बहुशाखास्थिरीकृतम् ॥ २३.४२ ॥
अनादिमध्यनिधनं सदसन्न सदेव यत् ।
एकन्त्वनेकं नाप्येकं भवभेदसमाश्रैतम् ॥ २३.४३ ॥
अनाख्यं षड्गुणाख्यञ्च वर्गाख्यं त्रिगुणाश्रयम् ।
नानाशक्तिमतामेकं शक्तिवैभविकं परम् ॥ २३.४४ ॥
सुखासुखं महासौख्यरूपं त्वयि विभाव्यते ।

एवं देवि ! त्वया व्याप्तं सकलं निष्कलञ्च यत् ।
अद्वैतावस्थितं ब्रह्म यच्च द्वैते व्यवस्थितम् ॥ २३.४५ ॥
येऽर्था नित्या ये विनश्यन्ति चान्ये
ये वा स्थूला ये च सूक्ष्मातिसूक्ष्माः ।
ये वा भूमौ येऽन्तरीक्षेऽन्यतो वा
तेषां तेषां त्वत्त एवोपलब्धिः ॥ २३.४६ ॥
यच्चामूर्तं यच्च मूर्तं समस्तं
यद्वा भूतेष्वेकमेकञ्च किञ्चित् ।
यद्दिव्यस्ति क्ष्मातले खेऽन्यतो वा
त्वत्सम्बद्धं त्वत्स्वरैर्व्यञ्जनैश्च ॥ २३.४७ ॥

जड उवाच

एवं स्तुता तदा देवी विष्णोर्जिह्वा सरस्वती ।
प्रत्युवाच महात्मानं नागमश्वतरं ततः ॥ २३.४८ ॥

सरस्वत्युवाच

वरं ते कम्बलभ्रातः प्रयच्छाम्युरगाधिप ! ।
तदुच्यतां प्रदास्यामि यत्ते मनसि वर्तते ॥ २३.४९ ॥

अश्वतर उवाच

सहायं देहि देवि ! त्वं पूर्वं कम्बलमेव मे ।
समस्तस्वरसम्बन्धमुभयोः संप्रयच्छ च ॥ २३.५० ॥

सरस्वत्युवाच

सप्त स्वरा ग्रामरागाः सप्त पन्नगसत्तम ! ।
गीतकानि च सप्तैव तावतीश्चापि मूर्च्छनाः ॥ २३.५१ ॥
तालाश्चैकोनपञ्चाशत्तथा ग्रामत्रयञ्च यत् ।
एतत्सर्वं भवान् गाता कम्बलश्च तथानघ ! ॥ २३.५२ ॥
ज्ञास्यसे मत्प्रसादेन भुजगेन्द्रापरं तथा ।
चतुर्विधं पदं तालं त्रिः प्रकारं लयत्रयम् ॥ २३.५३ ॥
गतित्रयं तथा तालं मया दत्तं चतुर्विधम् ।
एतद्भवान्मत्प्रसादात्पन्नगेन्द्रापरञ्च यत् ॥ २३.५४ ॥
अस्यान्तर्गतमायत्तं स्वरव्यञ्जनसंमितम् ।
तदशेषं मया दत्तं भवतः कम्बलस्य च ॥ २३.५५ ॥
तथा नान्यस्य भूर्लोके पाताले चापि पन्नग ।
प्रणेतारौ भवन्तौ च सर्वस्यास्य भविष्यतः ।
पाताले देवलोके च भूर्लोके चैव पन्नगौ ॥ २३.५६ ॥

जड उवाच

इत्युक्त्वा सा तदा देवी सर्वजिह्वा सरस्वती ।
जगामादर्शनं सद्यो नागस्य कमलेक्षणा ॥ २३.५७ ॥
तयोश्च तद्यथावृत्तं भ्रात्रोः सर्वमजायत ।
विज्ञानमुभयोरग्र्यं पदतालस्वरादिकम् ॥ २३.५८ ॥
ततः कैलासशैलेन्द्रशिखरस्थितमीश्वरम् ।
गीतकैः सप्तभिर्नागौ तन्त्रीलयसमन्वितौ ॥ २३.५९ ॥
आरिराधयिषू देवमनङ्गाङ्गहरं हरम् ।
प्रचक्रतुः परं यत्नमुभौ संहतवाक्कलौ ॥ २३.६० ॥
प्रातर्निशायां मध्याह्ने सन्ध्ययोश्चापि तत्परौ ।
तयोः कालेन महता स्तूयमानो वृषध्वजः ॥ २३.६१ ॥
तुतोष गीतकैस्तौ च प्राहेशो गृह्यतां वरः ।
ततः प्रणम्याश्वतरः कम्बलेन समं तदा ॥ २३.६२ ॥
व्यज्ञापयन्महादेवं शितिकण्ठमुमापतिम् ।
यदि नौ भगवान् प्रीतो देवदेवस्त्रिलोचनः ॥ २३.६३ ॥
ततो यथाभिलषितं वरमेनं प्रयच्छ नौ ।
मृता कुवलयाश्वस्य पत्नी देव ! मदालसा ॥ २३.६४ ॥
तेनैव वयसा सद्यो दुहितृत्वं प्रयातु मे ।
जातिस्मरा यथा पूर्वं तद्वत्कान्तिसमन्विता ।
योगिनी योगमाता च मद्गेहे जायतां भव ॥ २३.६५ ॥


महादेव उवाच

यथोक्तं पन्नगश्रेष्ठ ! सर्वेमेतद्भविष्यति ।
मत्प्रसादादसन्दिग्धं श्रुणु चेदं भुजङ्गम ॥ २३.६६ ॥
श्राद्धे तु समनुप्राप्ते मध्यमं पिण्डमात्मना ।
भक्षयेथाः फणिश्रेष्ठ ! शुचिः प्रयतमानसः ॥ २३.६७ ॥
भक्षिते तु ततस्तस्मिन् भवतो मध्यमात्फणात् ।
समुत्पत्स्यति कल्याणी तथारूपा यथामृता ॥ २३.६८ ॥
कामञ्चेममभिध्याय कुरु त्वं पितृतर्पणम् ।
तत्क्षणादेव सा सुभ्रूः श्वसतो मध्यमात्फणात् ॥ २३.६९ ॥
समुत्पत्स्यति कल्याणी तथारूपा यथामृता ।
एतच्छ्रुत्वा ततस्तौ तु प्रणिपत्य महेश्वरम् ॥ २३.७० ॥
रसातलं पुनः प्राप्तौ परितोषसमन्वितौ ।

तथा च कृतवान् श्राद्धं स नागः कम्बलानुजः ॥ २३.७१ ॥
पिण्डञ्च मध्यमं तद्वद्यथावदुपभुक्तवान् ।
तञ्चापि ध्यायः कामं ततः सा तनुमध्यमा ॥ २३.७२ ॥
जज्ञे निश्वसतः सद्यस्तद्रूपा मध्यमात्फणात् ।
न चापि कथयामास कस्यचित्स भुजङ्गमः ॥ २३.७३ ॥
अन्तर्गृहे तां सुदतीं स्त्रीभिर्गुप्तामधारयत् ।
तौ चानुदिनमागम्य पुत्रौ नागपतेः सुखम् ॥ २३.७४ ॥
ऋतध्वजेन सहितौ चिक्रीडातेऽमराविव ।
एकदा तु सुतौ प्राह नागराजो मुदान्वितः ॥ २३.७५ ॥
यन्मया पूर्वमुक्तन्तु क्रियते किं न तत्तथा ।
स राजपुत्रो युवयोरुपकारी ममान्तिकम् ॥ २३.७६ ॥
कस्मान्नानीयते वत्सावुपकाराय मानदः ।
एवमुक्तौ ततस्तेन पित्रा स्नेहवता तु तौ ॥ २३.७७ ॥
गत्वा तस्य पुरं सख्यू रेमाते तेन धीमता ।
ततः कुवलयाश्वं तौ कृत्वा किञ्चित्कथान्तरम् ॥ २३.७८ ॥
अब्रूतां प्रणयोपेतं स्वगेहगमनं प्रति ।
तावाह नृपपुत्रोऽसौ नन्विदं भवतोर्गृहम् ॥ २३.७९ ॥
धनवाहनवस्त्रादि यन्मदीयं तदेव वाम् ।
यत्तु वां वाञ्छितं दातुं धनं रत्नमथापि वा ॥ २३.८० ॥
तद्दीयतां द्विजसुतौ यदि वां प्रणयो मयि ।
एतावताहं दैवेन वञ्चितोऽस्मि दुरात्मना ॥ २३.८१ ॥
यद्भवद्भ्यां ममत्वं नो मदीये क्रियते गृहे ।
यदि वां मत्प्रियं कार्यमनुग्राह्योऽस्मि वां यदि ॥ २३.८२ ॥
तद्धने मम गेहे च ममत्वमनुकल्प्यताम् ।

युवयोर्यन्मदीयं तन्मामकं युवयोः स्वकम् ॥ २३.८३ ॥
एतत्सत्यं विजानीतं युवां प्राणा बहिश्चराः ।
पुनर्नैवं विभिन्नार्थं वक्तव्यं द्विजसत्तमौ ॥ २३.८४ ॥
मत्प्रसादपरौ प्रीत्या शापितौ हृदयेन मे ।
ततः स्नेहार्द्रवदनौ तावुभौ नागनन्दनौ ॥ २३.८५ ॥
ऊचतुर्नृपतेः पुत्रं किञ्चित्प्रणयकोपितौ ।
ऋतध्वज ! न सन्देहो यथैवाह भवानिदम् ॥ २३.८६ ॥
तथैव चास्मन्मनसि नात्र चिन्त्यमतोऽन्यथा ।
किन्त्वावयोः स्वयं पित्रा प्रोक्तमेतन्महात्मना ॥ २३.८७ ॥
द्रष्टुं कुवलयाश्वं तमिच्छामीति पुनः पुनः ।
ततः कुवलयाश्वोऽसौ समुत्थाय वरासनात् ।
यथाह तातेति वदन् प्रणाममकरोद्भुवि ॥ २३.८८ ॥

कुवलयाश्व उवाच


धन्योऽहमतिपुण्योऽहं कोऽन्योऽस्ति सदृशो मया ।
यत्तातो मामभिद्रष्टुं करोति प्रवणं मनः ॥ २३.८९ ॥
तदुत्तिष्ठत गच्छामस्ताताज्ञां क्षणमप्यहम् ।
नातिक्रान्तुमिहेच्छामि पद्भ्यां तस्य शपाम्यहम् ॥ २३.९० ॥

जड उवाच

एवमुक्त्वा ययौ सोऽथ सह ताभ्यां नृपात्मजः ।
प्राप्तश्च गोमतीं पुण्यां निर्गम्य नगराद्बहिः ॥ २३.९१ ॥
तन्मध्येन ययुस्ते वे नागेन्द्रनृपनन्दनाः ।
मेने च राजपुत्रोऽसौ पारे तस्यास्तयोर्गृहम् ॥ २३.९२ ॥
ततश्चाकृष्य पातालं ताभ्यां नीतो नृपात्मजः ।
पाताले ददृशे चोभौ स पन्नगकुमारकौ ॥ २३.९३ ॥
फणामणिकृतोद्योतौ व्यक्तस्वस्तिकलक्षणौ ।
विलोक्य तौ सुरूपाङ्गौ विस्मयोत्फुल्ललोचनः ॥ २३.९४ ॥
विहस्य चाब्रवीत्प्रेम्णा साधु भो द्विजसत्तमौ ।
कथयामासतुस्तौ च पितरं पन्नगेश्वरम् ॥ २३.९५ ॥
शान्तमश्वतरं नाम माननीयं दिवौकसाम् ।
रमणीयं ततोऽपस्यत्पातालं स नृपात्मजः ॥ २३.९६ ॥
कुमारैस्तरुणैर्वृद्धैरुरगैरुपशोभितम् ।
तथैव नागकन्याभिः क्रीडन्तीभिरितस्ततः ॥ २३.९७ ॥
चारुकुण्डलहाराभिस्ताराभिर्गगनं यथा ।
गीतशब्दैस्तथान्यत्र वीणावेणुस्वनानुगैः ॥ २३.९८ ॥
मृदङ्गपणवातोद्यं हारिवेश्मशताकुलम् ।
वीक्षमाणः स पातालं ययौ शत्रुजितः सुतः ॥ २३.९९ ॥
सह ताभ्यामभीष्टाभ्यां पन्नगाभ्यामरिन्दमः ।
ततः प्रविश्य ते सर्वे नागराजनिवेशनम् ॥ २३.१०० ॥
ददृशुस्ते महात्मानमुरगाधिपतिं स्थितम् ।
दिव्यमाल्याम्बरधरं मणिकुण्डलभूषणम् ॥ २३.१०१ ॥

स्वच्छमुक्ताफललताहारिहारोपशोभितम् ।
केयूरिणं महाभागमासने सर्वकाञ्चने ॥ २३.१०२ ॥
मणिविद्रुमवैदूर्यजालान्तरितरूपके ।
स ताभ्यां दर्शितस्तस्य तातोऽस्माकमसाविति ॥ २३.१०३ ॥
वीरः कुवलयाश्वोऽयं पित्रे चासौ निवेदितः ।
ततो ननाम चरणौ नागेन्द्रस्य ऋतध्वजः ॥ २३.१०४ ॥
तमुत्थाप्य बलाद्गाढं नागेन्द्रः परिषस्वजे ।
मूर्ध्नि चैनमुपाघ्राय चिरं जीवेत्युवाच सः ॥ २३.१०५ ॥
निहतामित्रवर्गश्च पित्रोः सुश्रूषणं कुरु ।
वत्स ! धन्यस्य कथ्यन्ते परोक्षस्यापि ते गुणाः ॥ २३.१०६ ॥

भवतो मम पुत्राभ्यामसामान्या निवेदिताः ।
त्वमेवानेन वर्धेथा मनोवाक्कायचेष्टितैः ॥ २३.१०७ ॥
जीवितं गुणिनः श्लाघ्यं जीवन्नेव मृतोऽगुणः ।
गुणवान्निर्वृतिं पित्रोः शत्रुणां हृदयज्वरम् ॥ २३.१०८ ॥
करोत्यात्महितं कुर्वन् विश्वासञ्च महाजने ।
देवताः पितरो विप्रा मित्रार्थिविकलादयः ॥ २३.१०९ ॥
बान्धवाश्च तथेच्छन्ति जीवितं गुणिनश्चिरम् ।
परिवादनिवृत्तानां दुर्गतेषु दयावताम् ।
गुणिनां सफलं जन्म संश्रितानां विपद्गतैः ॥ २३.११० ॥

जड उवाच

एवमुक्त्वा स तं वीरं पुत्राविदमथाब्रवीत् ।
पूजां कुवलयाश्वस्य कर्तुकामो भुजङ्गमः ॥ २३.१११ ॥

स्नानादिकक्रमं कृत्वा सर्वमेव यथाक्रमम् ।
मधुपानादिसम्भोगमाहारञ्च यथेप्सितम् ॥ २३.११२ ॥
ततः कुवलयाश्वेन हृदयोत्सवभूतया ।
कथया स्वल्पकं कालं स्थास्यामो हृष्टचेतसः ॥ २३.११३ ॥
अनुमेन च तन्मौनो वचः शत्रुजितः सुतः ।
तथा चकार नृपतिः पन्नगानामुदारधीः ॥ २३.११४ ॥
समेत्य तैरात्मजभूपनन्दनैर्
महोरगाणामधिपः स सत्यवाक् ।
मुदान्वितोऽन्नानि मधूनि चात्मवान्
यथोपयोगं बुभुजे स भोगभुक् ॥ २३.११५ ॥

इति श्रीमार्कण्डेयपुराणे मदालसोपाख्याने कुवलयाश्वपातालगमनं नाम त्रयोविंशोऽध्यायः