मार्तण्ड रस्यवेर्भार्या तनया विश्वकर्मणः ।
संज्ञा नाम महाभाग तस्यां भानुरजीजनत् ॥ ७७.१ ॥
मनुं प्रख्यातयशसमनेकज्ञानपारगम् ।
विवस्वतः सुतो यस्मात्तस्माद्वैवस्वतस्तु सः ॥ ७७.२ ॥
संज्ञा च रविणा दृष्टा निमीलयति लोचने ।
यतस्ततः सरोषोर्ऽकः संज्ञां निष्ठुरमब्रवीत् ॥ ७७.३ ॥
मयि दृष्टे सदा यस्मात्कुरुषे नेत्रसंयमम् ।
तस्माज्जनिष्यसे मूढे प्रजासंयमनं यमम् ॥ ७७.४ ॥

मार्कण्डेय उवाच

ततः सा चपलां दृष्टिं देवी चक्रे भयाकुला ।
विलोलितदृशं दृष्ट्वा पुनराह च तां रविः ॥ ७७.५ ॥
यस्माद्विलोलिता दृष्टिर्मयि दृष्टे त्वयाधुना ।
तस्माद्विलोलां तनयां नदीं त्वं प्रसविष्यसि ॥ ७७.६ ॥

मार्कण्डेय उवाच

ततस्तस्यान्तु संजज्ञे भर्तृशापेन तेन वै ।
यमश्च यमुना चेयं प्रख्याता सुमहानदी ॥ ७७.७ ॥
सापि संज्ञा रवेस्तेजः सेहे दुः खेन भामिनी ।
असहन्ती च सा तेजश्चिन्तयामास वै तदा ॥ ७७.८ ॥
किङ्करोमि क्व गच्छामि क्व गतायाश्च निर्वृतिः ।
भवेन्मम कथं भर्ता कोपमर्कश्च नैष्यति ॥ ७७.९ ॥
इति संचिन्त्य बहुधा प्रजापतिसुता तदा ।
बहु मेने महाभागा पितृसंश्रयमेव सा ॥ ७७.१० ॥
ततः पितृगृहे गन्तुं कृतबुद्धिर्यशस्विनी ।
छायामयीमात्मतनुं निर्ममे दयितां रवेः ॥ ७७.११ ॥
ताञ्चोवाच त्वया वेश्मन्यत्र भानोर्यथा मया ।
तथा सम्यगपत्येषु वर्तितव्यं यथा रवौ ॥ ७७.१२ ॥
पृष्टयापि न वाच्यन्ते तथैतद्गमनं मम ।
सैवास्मि नाम संज्ञेति वाच्यमेतत्सदा वचः ॥ ७७.१३ ॥

छायसंज्ञोवाच

आकेशग्रहणाद्देवि ! आशापाच्च वचस्तव ।
करिष्ये कथयिष्यामि वृत्तन्तु शापकर्षणात् ॥ ७७.१४ ॥
इत्युक्ता सा तदा देवी जगाम भवनं पितुः ।
ददर्श तत्र त्वष्टारं तपसा धूतकल्मषम् ॥ ७७.१५ ॥
बहुमानाच्च तेनापि पूजिता विश्वकर्मणा ।
तस्थौ पितृगृहे सा तु कञ्चित्कालमनिन्दिता ॥ ७७.१६ ॥
ततस्तां प्राह चार्वङ्गी पिता नातिचिरोषिताम् ।
स्तुत्वा च तनयां प्रेमबहुमानपुरः सरम् ॥ ७७.१७ ॥
त्वान्तु मे पश्यतो वत्से दिनानि सुबहून्यपि ।
मुहूर्तार्धसमानि स्युः किन्तु धर्मो विलुप्यते ॥ ७७.१८ ॥
बान्धवेषु चिरं वासो नारीणां न यशस्करः ।
मनोरथो बान्धवानां नार्या भर्तृगृहे स्थितिः ॥ ७७.१९ ॥
सा त्वं त्रैलोक्यनाथेन भर्त्रा सूर्येण सङ्गता ।
पितृगेहे चिरं कालं वस्तुं नार्हसि पुत्रिके ॥ ७७.२० ॥
सा त्वं भर्तृगृहं गच्छ तुष्टोऽहं पूजितासि मे ।
पुनरागमनं कार्यं दर्शनाय शुभे मम ॥ ७७.२१ ॥

मार्कण्डेय उवाच

इत्युक्ता सा तदा पित्रा तथेत्युक्त्वा च सा मुने ।
संपूजयित्वा पितरं जगामाथोत्तरान् कुरून् ॥ ७७.२२ ॥
सूर्यतापमनिच्छन्ती तेजसस्तस्य बिभ्यती ।
तपश्चचार तत्रापि वडवारूपधारिणी ॥ ७७.२३ ॥
संज्ञेयमिति मन्वानो द्वितीयायामहस्पतिः ।
जनयामास तनयौ कन्याञ्चैकां मनोरमाम् ॥ ७७.२४ ॥
छायासंज्ञा त्वपत्येषु यथा स्वेष्वतिवत्सला ।
तथा न संज्ञाकन्यायां पुत्रयोश्चान्ववर्तत ॥ ७७.२५ ॥
लालनाद्युपभोगेषु विशेषमनुवासरम् ।
मनुस्तत्क्षान्तवानस्य यमस्तस्या न चक्षमे ॥ ७७.२६ ॥
ताडनाय च वै कोपात्पादस्तेन समुद्यतः ।
तस्याः पुनः क्षान्तिमता न तु देहे निपातितः ॥ ७७.२७ ॥
ततः शशाप तं कोपाच्छायासंज्ञा यमं द्विज ।
किञ्चित्प्रस्फुरमाणौष्ठी विचलत्पाणिपल्लवा ॥ ७७.२८ ॥
पितुः पत्नीममर्यादं यन्मां तर्जयसे पदा ।
भुवि तस्मादयं पदास्तवाद्यैव पतिष्यति ॥ ७७.२९ ॥

मार्कण्डेय उवाच

इत्याकर्ण्य यमः शापं मात्रा दत्तं भयातुरः ।
अभ्येत्य पितरं प्राह प्रणिपातपुरः सरम् ॥ ७७.३० ॥

यम उवाच

तातैतन्महदाश्चर्यं न दृष्टमिति केनचित् ।
माता वात्सल्यमुत्सृज्य शापं पुत्रे प्रयच्छति ॥ ७७.३१ ॥
यथा मनुर्ममाचष्टे नेयं मता तथा मम ।
विगुणेष्वपि पुत्रेषु न माता विगुणा भवेत् ॥ ७७.३२ ॥

मार्कण्डेय उवाच

यमस्यैतद्वचः श्रुत्वा भगवांस्तिमिरापहः ।
छायासंज्ञां समाहूय पप्रच्छ क्व गतेति सा ॥ ७७.३३ ॥
सा चाह तनया त्वष्टुरहं संज्ञा विभावसो ।
पत्नी तव त्वयापत्यान्येतानि जनितानि मे ॥ ७७.३४ ॥
इत्थं विवस्वतः सा तु बहुशः पृच्छतो यदा ।
नाचचक्षे ततः क्रुद्धो भास्वांस्तां शप्तुमुद्यतः ॥ ७७.३५ ॥
ततः सा कथयामास यथावृत्तं विवस्वतः ।
विदितार्थश्च भगवान् जगाम त्वष्टुरालयम् ॥ ७७.३६ ॥
ततः स पूजयामास तदा त्रैलोक्यपूजितम् ।
भास्वन्तं परया भक्त्या निजगेहमुपागतम् ॥ ७७.३७ ॥
संज्ञां पृष्टस्तदा तस्मै कथयामास विश्वकृत् ।
आगतैवेह मे वेश्म भवतः प्रेषितेति वै ॥ ७७.३८ ॥
दिवाकरः समाधिस्थो वडवारूपधारिणीम् ।
तपश्चरन्तीं ददृशे उत्तरेषु कुरुष्वथ ॥ ७७.३९ ॥
सौम्यमूर्तिः शुभाकारो मम भर्ता भवेदिति ।
अभिसन्धिञ्च तपसो बुबुधेऽस्या दिवाकरः ॥ ७७.४० ॥
शातनं तेजसो मेऽद्य क्रियतामिति भास्करः ।
तञ्चाह विश्वकर्माणं संज्ञायाः पितरं द्विज ॥ ७७.४१ ॥
संवत्सरभ्रमेस्तस्य विश्वकर्मा करवेस्ततः ।
तेजसः शातनञ्चक्रे स्तूयमानश्च दैवतैः ॥ ७७.४२ ॥

इति श्रीमार्कण्डेयपुराणे वैवस्वतमन्वन्तरे सप्तसप्ततितमोऽध्यायः