मार्चमासस्य प्रवचनानि
== मार्च 1 ==
मार्च १
सम्पाद्यताम्प्रापञ्चिकस्य स्थितिः कथं वर्तते?
सम्पाद्यताम्सर्वैः सत्पुरुषैः भवरोगस्य निश्चितोपायः कथितः वर्तते। सर्वे सत्पुरुषाः स्वस्वस्थाने महान्तः एव सन्ति। परं तेषु समर्थरामदासैः स्वस्थानं न त्यक्त्वा विषयिजनानां चित्तं कुत्र लिप्तं वर्तते इति दृष्ट्वा रोगनिदानं कृतम्। अस्माकं मुख्यरोगः वर्तते यद् दुःखमयः संसारः सुखरूपेण अस्माभिः भाव्यते इति। रोगः ज्ञातः परं औषधिः न स्वीकृतः चेद् रोगः कथं गच्छेत्?यथा रोगः तथा औषधिः। अजीर्णेन उदरे विद्यमाना वेदना क्षुधया इति मत्वा यदि अधिकं भुक्तं तर्हि कथं योग्यम्? संसारः दुःखमयः इति यः चिन्तयति तस्य कृते एव परमार्थः। कश्चन मद्यपः मद्यपाने सर्वस्वं नाशयति। मद्यप्रभावे अविद्यमाने सः भानं प्राप्नोति। दारपुत्राणां चिन्तां करोति। प्रपञ्चः सम्यक् करणीयः इति मन्यते। परं तस्य बुद्धिः मार्गं न प्राप्नोति। तदनु सः पुनः मद्यम् एतावत् पिबति यद् आत्मानमेव विस्मरति। स्वनाशमेव करोति। एतादृशी एव प्रापञ्चिकस्य स्थितिः । आरम्भे प्रपञ्चः सम्यग् इति मन्यते। सः तस्मिन् रमते। गच्छता कालेन सः श्रान्तः भवति। उत्साहः न्यूनायते। ‘परमार्थं कथं करिष्ये?’ इति सः चिन्तयति। परं अग्रे सः बलेन प्रपञ्चं करोति। अन्ते हीनावस्थायां म्रियते। यः जगतः घातं करोति, सः कयाचित् दृष्ट्या समीचीनः, यतः हि जगत् स्वात्मानं रक्षेत्। परं यः आत्मघातं करोति तस्य रक्षणं कः कुर्यात्? सः बहु असमीचीनः। केवलं प्रापञ्चिकः एतादृशः आत्मघातकः वर्तते। मिथ्याज्ञानानन्तरमपि तस्मिन् एव सः सुखं मन्यते। देवेन यन्निर्मितं तद् मम सुखार्थमेव निर्मितम् इति मत्वा आजीवनं तस्मिन् एव आत्मानं बध्नाति। तदेव पुनः पुनः कुर्वन्नपि मनुष्यः कथं जामितः न भवति? ह्यस्तनकार्यम् एव अद्य कुर्मः। वयं न जानीमः, परं ते एव विषयाः भवन्ति। तदेव भोजनं, तदेव सेवा, तदेव धनार्जनं, सर्वं तदेव। तथापि मनुष्यः किमर्थं जामितः न भवति? यतः हि विषयाः अतिमधुराः स्युः अथ वा लोभस्य तृप्तिः न विद्येत। एतयोः मध्ये द्वितीयं कारणमेव सत्यम्। अस्माकं लोभः न तृप्तः एव। विषये सुखं विद्यते इति अस्माभिः कल्पना कृता। सा नैकवारम् अनुभूता। तथापि अद्यापि अस्माकं कल्पनायाः सत्यासत्यतां न अवगच्छामः। इदं सर्वं विचित्रम् एव।
***यः प्रपञ्चे प्राप्तान् अनुभवान् न गणयति, स कथमपि सुज्ञः न भवति।***
सम्पाद्यताम्मार्च 2
सम्पाद्यताम्मनुष्यः जगति कथं वर्तेत?
सम्पाद्यताम्वस्तुतः जगति मम हिताहितं कुर्वाणः यः क: अपि वर्तते सः अहम् एव। ‘अहं कर्ता’ इति भावनया फलभोगस्य इच्छा विद्यते। मनुष्यः चिन्तयति यत् किमपि दुःखं न भवेत्। रोगः न भवेत्। परं तथापि सः दुःखं रोगंवा परिहर्तुं न शक्नोति। इत्युक्ते ‘अहं कर्ता’ इति या अस्मदीया भावना सा पूर्णतः मिथ्या। विना स्वामित्वं वयं शास्तुम् इच्छामः एतदर्थं किं वदामः?तदनु प्रापञ्चिकसत्पुरुषयोः मध्ये भेदः वर्तते यत् सत्पुरुषाः कर्तृत्वं रामाय यच्छन्ति, प्रापञ्चिकाः आत्मने स्वीकुर्वन्ति। रामः कर्ता इति चिन्तयामः चेत् सुखं, कल्याणं च सर्वम् प्राप्तम् एव। तस्मै सर्वं ददातु, आनन्देन भवतु च। तदेव हितकरम्। मधुरं भोक्तुं मा यच्छतु इति यदि वैद्यः कथयति तर्हि रुग्णस्य इच्छानुरूपं वयं दद्मः चेत्तस्य अहितमेव भवेत्। तद्वत् विषयलोभेन विषयाधीनाः भवामः चेद् अस्माकम् अहितम् एव भवेत्। रुग्णेन जनेन त्रीणिकार्याणि करणीयानि। एकं कुपथ्यं न करणीयं, पथ्यं पालनीयं, औषधिः स्वीकरणीयः। तथैव भवरुग्णेन अपि त्रीणिकार्याणि करणीयानि – एकं कुसङ्गतिः, अनाचारः, मिथ्याभाषणं, द्वेषः, मत्सरः च इति एतेषां परिहरणं, द्वितीयं सत्सङ्गतिः. सद्ग्रन्थवाचनं,सद्विचारः सदाचारः च इति एतेषाम् अङ्गीकरणं, तृतीयं सर्वेभ्यः महत्त्वपूर्णं च नामस्मरणम्। इदमेव औषधिसेवनम्। साधनं वयसि न अवलम्बितम्। मम मरणसमयं न जानामि। वयसा अहं ज्येष्ठः इत्येव चिन्तनीयम्। मम जिह्वा नामोच्चारणे आसक्ता भवेत्। आरम्भे सा विस्मरेत्। परं अग्रे स्वाभाविकं स्मरेत्। तदनु भगवदस्तित्वस्य भानमागच्छेत्। साधनेईषद् बलप्रयोग: भवेदेव,नियमः स्वल्पः करणीयः, परं सः प्राणैः अपि रक्षणीयः। नियमम् अधिकं कुर्मः चेत् तम् उल्लङ्घितुं मनः चिन्तयति। नामस्मरणम् इत्युक्ते भगवन्तं प्रति चलनम्। साधने उन्नतानाम् अस्माकं पुनः अधोगतिः न भवेद् इति अवधातव्यम्।नामविषय़े सिषाधयिषायाःह्रासस्य विविधानि कारणानि सन्ति। दैनन्दिनः प्रपञ्चः, व्यवहारः, स्मृतिः, भविष्यचिन्ता, चेति। तथापि अस्माकं नामस्मरणम् आग्रहेण प्रवर्तनीयम्। नामजपे रुचिम् उत्पादयितुं नामोच्चारणमेव करणीयम्। देवस्य यत् किमपि अत्यन्तं प्रियं वर्तते तत् तस्य नाम। तस्य जपनेन सः आत्मीयः भवेत्। देवः भवता निश्चयेन मिलेत्। यथा घनीभूतं जलं हिमं भवति तथा नामस्मरणेन श्रद्धा घनीभवेत्। श्रद्धया देवस्य कृते मेलनम् अपरिहार्यम्। त्रिवेणीसङ्गमः इत्युक्ते देवः, भक्तः, तथा नाम। यत्र देवः तत्र भक्तः, नाम च वर्तते एव। यत्र भक्तः तत्र नामदेवौ च।
***भवन्तः भगवत्प्रेम्णा परिपूर्णाः भवन्तु। परस्परं प्रेम वर्धयन्ताम्।***
सम्पाद्यताम्मार्च 3
सम्पाद्यताम्यावद् आवश्यकं तावद् एव प्रपञ्चः करणीयः।
सम्पाद्यताम्बहवः जना उपोद्योगं कुर्वन्ति। इत्युक्ते तेषाम् कश्चन मुख्योद्योगः वर्तते। पूरकरूपेण अन्यम् उद्योगमपि ते कुर्वन्ति। तेषां सर्वम् अवधानं मुख्ये उद्योगे एव संलग्नं वर्तते। उपोद्योगेन मुख्योद्योगे विघ्नः भवति चेद् उपोद्योगः पिधातव्यः। उपोद्योगस्य लाभहानिं विशेषास्थया ते न पश्यन्ति। प्रत्येकं जनेन परमार्थः मुख्योद्योगः इति मत्वा प्रपञ्चः उपोद्योगरूपेण करणीयः। इत्युक्ते प्रपञ्चे भवतः लाभहानेः परिणामः भगवदनुसन्धाने न भवेत्। परमार्थे प्रपञ्चस्य विघ्नः न भवेत् इति एतया युक्त्या वर्तनीयम्। शाकस्य कृते यथा लवणं तथा परमार्थस्य कृते प्रपञ्चः। लवणं नास्ति चेत् शाकं रुचिहीनं भवति। लवणमधिकं चेत् शाकं खादितुं न शक्नुमः। तद्वत् प्रपञ्चपरमार्थयोः सम्बन्धः। केषाञ्चन कृते अभ्यासेन लवणम् अधिकम् आवश्यकम्, तद्वत् प्रपञ्चस्य येषाम् अधिकोभ्यासः तेषां विषयः भिन्नः। परं ये प्रपञ्चं नूतनम् आरभन्ते, तैः तु सः अल्पत्वेन करणीयः। भगवन्तं पुरतः संस्थाप्य वर्तनीयम्। प्रपञ्चे व्यवहारः पालनीयः खलु, परं प्रपञ्चः न सर्वः। भगवद्विस्मरणं केनापि कारणेन भवेत् तन्न योग्यम्। प्रपञ्चे तद् अधिकसुखसाधनत्वेन दुःखेन वा भवेत्। प्रत्येकं जनः प्रपञ्चम् अपेक्षते, परं तं वयम् महत्तरं मन्यामहे,तेन सर्वं भ्रष्टं भवति। प्रपञ्चः अपेक्ष्यते परं दुःखं नापेक्ष्यते इति मूर्खता एव। शिशुः भवति चेत् सः रुग्णायते एव। प्रपञ्चः केन परिहृतः? भगवता उत्पन्न एषः प्रपञ्चः केन वा परिहृतः? तदनु केवलं प्रपञ्चः न तापदायकः। सङ्कुचितः प्रपञ्चः तापदायकः। यथा वयम् एकस्मात् कोशात् निष्कास्य धनं अन्यस्मिन् कोशे स्थापयामः तथा प्रपञ्चे रतं मनः भगवति योजयामः। तेनैव समाधानं विद्यते। पतिपत्न्योः ध्येयं यदि एकं तर्हि तयोःप्रपञ्चः सुखकारकः भवति।यः विलासेन प्रपञ्चं करोति तस्य चतुर्विंशतिः घण्टाः अपि अपर्याप्ताः। परं यः यावद् अत्यावश्यकं तावद् एव करोति तस्यत्रिचतुर्घण्टाः पर्याप्ताः। प्रपञ्चे कर्तव्यं न परिहर्तव्यं परं तस्मिन् आसक्त्या निग्रहणं मास्तु। अस्माकं व्यवहारकर्तव्यं मनःपूर्वकं सम्यक् कृत्वा तस्य फलं रामाय समर्पणीयम्। रामनामोच्चारं यावत्शक्यं कृत्वा स्वमनः तस्मिन् योजयितुं तस्यैव प्रार्थना करणीया।
***प्रपञ्चःनाम भग्नवस्तूनां समीकरणार्थं यन्त्रागारः। तत्र भग्नवस्तूनि यावन्ति अधिकानि तावान् शिक्षितुम् अधिकः अवसरः।***
सम्पाद्यताम्मार्च 4
सम्पाद्यताम्प्रपञ्चस्वरूपं ज्ञात्वा नामस्मरणे अवस्थातव्यम्।
सम्पाद्यताम्अस्माकं जीवनं कियद् अस्थिरं वर्तते तद् युद्धकाले सम्यग् ज्ञायते। एतादृशे क्षुब्धताकाले न भेतव्यम्। चिन्ताम् अकृत्वा शान्तचित्तेन भगवन्नामस्मरणे कर्तव्यं करणीयम्। चिन्तायाः कृते न किमपि कारणम् अपेक्ष्यते। यतोहि सा हृदयसमीपे एव वर्तते। चिन्ता करणीया एव इति यदि भावः तर्हि कमपि विषयं सा न त्यजति। चिन्तया शरीरः मनः च पीड्येते। यः चिन्तां न करोति तेन भगवत्प्राप्तिः कृता इति मन्तव्यम्। भगवति पूर्णतः विश्वस्य चिन्ताकरणं निःशेषं त्यजन्तु। श्रीमत: दरिद्रस्य वा यस्य कस्यापि जन्मपत्रिकायां सर्वे ग्रहाः भवन्ति तथा जातस्य प्रत्येकं प्राणिनः कृते सर्वे विकाराः भवन्ति एव। भगवदवताराः सत्पुरुषाः वा भवन्तु, तेषाम् अपि विकाराः भवन्ति एव। अर्थात् एतैः सह प्रेम, दया, शान्तिः, क्षमा इत्यादयः गुणाः अपि तेषां जीवने वर्तन्ते। ग्रहाः अस्मिन् जन्मनि,परं विकाराः पूर्वजन्मतः आयान्ति। विकारवशेन न भूत्वा इत्युक्ते तेषाम् विकाराणां नियमनं कृत्वा गुणसंवर्धनम् एव प्रपञ्चे मनुष्येन पठनीयम्। कुटुम्बव्यवहारे प्रत्येकं सदस्येन स्वस्थानं ज्ञात्वा वर्तनीयम्। पुत्रप्रेम्णा यस्य विश्वासः वर्तते यद्‘आत्मना कथितं पुत्रः कुर्याद् एव’ सः वास्तवः पिता। पित्रा कथितं चेद् ‘आत्मना करणीयमेव’ इति यस्य एषणा सः एव पुत्रः। पितुः धनं पुत्रस्य अनीत्या वर्तनार्थं न। पुत्रः यदि अनीत्या वर्तते तर्हि पित्रा धनं न दातव्यम्। उपवेशनम् अवगत्य अश्वः व्रात्यतां करोति, तद्वत् पितुः सत्त्वं ज्ञात्वा पुत्रः व्यवहरति। गृहिणी स्वयं पाचयित्वा गृहजनान् भोजयति। तस्मिन्नेव प्रेम वर्तते। प्रत्येकं गृहिण्या गृहे स्वल्पं वा कार्यं करणीयम्। वस्तुतः विवाहे बहूनि बन्धनानि सन्ति। यतो हि विवाहःअतिपवित्रविषय़ः। यः तारुण्ये सहजतया नीतिनियमैः व्यवहरति, तस्य वृद्धत्वं दुःखदायकं न भवेत्। अद्य तेन साधुव्यवहारस्य निश्चयः कृतः चेत् पूर्वतनं सर्वं नश्यति। भगवान् प्रतिदिनम् अवसरं ददाति। अद्य परिष्कृतः, ह्यस्तनदोषः पुनः न कृतः, चेत् पूर्वतनं (पापं)नश्येत्। एषः एव अवसरः।
***सुज्ञेन ज्ञात्वा, अज्ञेन श्रद्धया च बन्धनानि पालनीयानि।***
सम्पाद्यताम्मार्च 5
सम्पाद्यताम्भगवन्नामस्मरणं कदापि न त्यक्तव्यम्।
सम्पाद्यताम्जगति सर्वथा अवितथम् अस्तित्वम् च एकमेव भवेत्। तं वयं ‘भगवान्’ इति वदामः। भगवान् अतिसूक्ष्मः। अतः मनुष्यः तस्य चिन्तनं कर्तुं न शक्नोति। मनुष्यचिन्तनं शब्दमयम्। विचारभूमिकायां भगवच्चिन्तनं कर्तुं शब्दः एव साधनम्। तमेव सत्पुरुषाः‘नाम’ इति वदन्ति। यस्मिन् अन्तःकरणे नाम वर्तते, इत्युक्ते भगवत्प्रेम, आस्तिक्यबुद्धिः, भावः, श्रद्धा च वर्तन्ते, तस्मिन् भगवान् विशेषत्वेन प्रकटीभवति। भगवद्विषये आस्तिक्यबुद्धिः इत्युक्ते स्वविषये नास्तिक्यबुद्धिः। एकस्मिन् कोशे खड्गद्वयं स्थातुं न शक्नोति तथैव एकस्मिन् अन्तःकरणे भगवान् तथा च अहंकारः द्वावपि उषितुं न शक्नुतः। सत्पुरुषाः भगवता सह तद्रूपाः सन्ति। भगवन्नामस्मरणम् इत्युक्ते स्वकर्तृत्वाभिमानस्य न्यूनीकरणम्। नामस्मरणस्य प्रेम उद्भवति चेत् कर्तृत्वाभिमानः न्यूनीभवति एव। कर्तृत्वं भगवते समर्पयामः चेत् स्वेच्छा नावशिष्यते। यत्र इच्छा नास्ति तत्र यशोऽपयशसोः महत्त्वं नावशिष्यते। कदा सुखं, कदा दुःखं कदाचिद् यशः,कदाचिद् अपयशःचेति प्रपञ्चस्य धर्मः एव इति ज्ञात्वा आयुषि घटमानाः घटनाः तस्य इच्छया, सत्तया च घटन्ते इति भानं यस्य अन्तःकरणे उद्भवति तेन वास्तवं भगवदस्तित्वं ज्ञातम्। ‘नाहं, सः एव सत्यः’ इति वक्तुम् अपि ‘अहं’ नावशिष्यते, सा एव वास्तवा पूर्णावस्था। तत्र ‘अहं तं जानामि’ इति संभावनाअपि न विद्यते। सत्पुरुषान् अवगन्तुं तैः मेलितुं च सततं भगवन्नामस्मरणम् आवश्यकम्। नामस्मरणसमये सदाचरणं न त्यक्तव्यम्, नीतिमर्यादाः न उल्लङ्घनीयाः, निराशेन न भवितव्यम्, देहः न पीडनीयः। कदापि भगवन्नाम न त्यक्तव्यम्। कर्तव्यफलं प्रारब्धाधीनम् अतः लब्धे फले एव समाधानं मन्यव्यम्। किं बहुना भगवत्प्रभुत्वेन एव सर्वाणि सूत्राणि कम्पन्ते अतः प्रारब्धम् अपि तस्य निरीक्षायां कार्यं करोति। नामजपनम् इत्युक्ते सर्वस्वदानम्। वरिष्ठाधिकारिणः स्वनाममुद्रां कुर्वन्ति।सा मुद्रा यस्य हस्ते अस्ति, सः तया मुद्रया, अधिकारिवत् कार्यं कारयति। तथैव भगवद्विषये अपि वर्तते। स्वयं भगवान् यत् कार्यं करोति तदेव तस्य नामापि करोति।
***भगवन्नामस्मरणम् एकदा आरभते चेत्, कोऽपि अन्तरायःउद्भवितुं न अर्हति।***
सम्पाद्यताम्मार्च 6
सम्पाद्यताम्वासनायाः प्राबल्यम्।
सम्पाद्यताम्भवन्तः मम निरूपणं विस्मरन्ति इति सुष्ठु। किमपि समीचीनं वस्तु लभते चेत् सुखप्रदम् इत्येतत् स्मृत्वापि तत् लब्धुं न प्रयतते इति नितराम् अयोग्यम्। पापमेव इदम्। अज्ञात्वा न कृतं तर्हि न पापं, परं ज्ञात्वापि अकरणेन अत्यन्तं पापम्। वस्तुतः प्रयत्नकरणम् अस्माकम् अधीनं वर्तते। वय़ं श्रुण्मः यद्‘अन्ते या मतिः सा एव गतिः’। मृत्युसमये यादृशी वासना तादृशं पुनर्जन्म लभते। अतः वासनायां जन्म, वासनायाम् एव अस्माकम् अन्तः। अतः तां कथं दूरीकर्तुं शक्नुमः? कश्चन जनः कृष्णः तर्हि स्ववर्णम् अपाकर्तुं न शक्नोति। तद्वत् वासना मनुष्यस्य सहजगुणः। तं परिवर्तयितुं न शक्नुमः। तदनु वयं कदापि वासनातः मोक्षं प्राप्तुं न शक्नुमः किम्? मनुष्यस्य अन्येभ्यः प्राणिभ्यः यदि किमपि भिन्नं वर्तते तर्हि साध्वसाधुभेदावगमनबुद्धिः। ज्ञात्वापि वयं वासनायै, अहंतायै च आधारं दद्मः। अत्रैव वयं प्रमदामः। अस्माकम् अहंकारः एतादृशः दृढः जातः वर्तते यत् सर्वं वयं मदीयम् इत्येव मन्यामहे। मम दाराः, मम पुत्रः, मम गृहं, मम मम इति कियत् वदामः। एतेन ममत्वकारणेन अहंता वर्धते, यद् यद् मनोनुकूलं सुखदायकं च तत् सर्वमपेक्ष्यते, दुःखदायकं तिरस्क्रियते च। अर्थात् जगति कोऽपि सुखमात्रं लब्धुं न शक्नोति, इति विद्यते चेदपि अहंकारबलिभूतः सुखलुब्धः च मनुष्यः आजीवनं साध्वसाधुकार्याणि कुर्वन् भवति। तदनुकूला वासना तस्य जायते। वासना इत्युक्ते अभिमानः अहंता वा। एतेन अहंकारः एव यदि वासनायाः मूलाधिष्ठानं तर्हि सः परिहर्तव्यः नु? वस्तुतः मनुष्यस्य अहंकारः एतावान् दृढः गभीरः च वर्तते यत् तस्य निर्मूलनार्थं सूक्ष्मम् अस्त्रम् अपेक्ष्यते। नामजपसदृशं सूक्ष्मास्त्रं नान्यद् विद्यते। तत् परमेश्वरस्य अतिनिकटं वर्तते। परं तथापि वयं तत् रुच्या, निष्ठया च न कुर्मः। सर्वं जानीमः परम् अलसः अस्माकं शरीरे व्याप्तः। भगवान् कर्ता इति यः अहोरात्रम् अनुसन्दधाति तस्य एव अहंकारः विलीयेत इति मनसि निधाय वयं भगवन्नाम जपामः। मनसा भगवदीयेन भूत्वा अवस्थानम् इति एव भक्तेः रहस्यम्। यद् अपेक्ष्यते तत् सः एव याचनीयः। याचितं सः दद्यात् नु? ददाति चेद् उत्तमं परं यदि न ददाति तर्हि तदेव अस्माकं हिताय इति सत्यं मनसा मन्तव्यम्। एतां भावनां वर्धयितुं ‘भगवान् दाता’ इति विचिन्त्य यावत्शक्यं तस्य नामस्मरणं करणीयम्।
*** यः नामजपे अवस्थितः तस्य वासनाक्षयः जातः।***
सम्पाद्यताम्मार्च 7
सम्पाद्यताम्प्रपञ्चे विद्यमानं सातत्यं स्वल्पं वा भगवते योजनीयम्।
सम्पाद्यताम्विवाहकरणं वयं सामान्यतः प्रपञ्चम् इति मन्यामहे। विवाहः अतिपवित्रा संस्था। तस्मिन् द्वयोः जीवयोः उद्धारः। यथा गुरुशिष्ययोः सम्बन्धः यद् द्वयोः एकम् एव मतं वर्तते, तथैव पतिपत्न्योः सम्बन्धः भवेत्। पत्नी स्वसर्वस्वं पत्यै ददाति अत्रैव वास्तवं पवित्रत्वं विद्यते। विवाहपावित्र्यं यदि नश्येत् तर्हि अस्माकं धर्मस्य अधिष्ठानम् एव उत्पतेत् इति ज्ञातव्यम्। वयं मन्यामहे यत् विवाहः कृतः चेत् सुखं लभ्यते एव। यद् यत् परमेश्वरेण निर्मितं, तत् तद् मम सुखार्थमेव इति वयं वदामः। वस्तुतः एकमेव वस्तु सर्वैः स्वीकरणीयम् इति वदामः चेत् सर्वे एकम् एव कथं लभेरन्? भार्या वदति मया षोडशवर्षाणि मातृगृहे तपः आचरितम्, अधुना पत्याश्रिता तदनु आर्यपुत्रेण मह्यं सुखं दातव्यम्। पुत्राः चिन्तयन्ति अस्माकं पुण्येन पित्रा एतादृशं वेतनं लभ्यते, तेन अस्माकं लालनं करणीयमेव नु? वास्तविकं यत् सुखार्थमेव प्रत्येकं जीवः परिश्राम्यति। परं वास्तवं सुखं यस्मिन् विद्यते तस्मिन् वयं दुर्लक्ष्यं कुर्मः। प्रपञ्चे सुखार्थं वयं सातत्येन प्रयतामहे तस्य चतुर्थाशं सातत्यं भगवतः कृते योजयामः चेद् अस्माकं कार्यं भवेत्। आनन्दप्राप्त्यर्थं यत् साधनं वयं कुर्मः तदेव अयोग्यम्। तात्कालिकाय सुखाय साम्प्रतं वयं परिश्रमान् कुर्महे, तस्माद् दुःखमेव लभ्यते। अतः तथा अकृत्वा शाश्वतसुखार्थं किमपि साधनं करणीयम्। जगति प्रत्येकं विषये बन्धनं वर्तते। प्रत्येकं विषयस्य नियमाः सन्ति। तेषाम् उल्लङ्घनं इत्युक्ते अनवस्था। कुटुम्बे प्रत्येकं सदस्यस्य कर्तव्यं निश्चितं, तदनुरूपं सर्वे व्यवहरन्ति चेद् गृहस्य विशिष्टा पद्धतिः वर्तते इति वदन्ति। यस्मिन् गृहे साध्वी पद्धतिः वर्तते तद् गृहं सुखि भवेत्। चिन्तयन्तु, अस्माभिः गृहं निर्मितम्। द्वाराणि कृतानि। वातायनानि कृतानि। छ्द्यांगवाक्षाः कृताः। परं गवाक्षाः यदि चिन्तयन्ति यद् अस्माभिः किमर्थं लघुरूपं धरणीयम्। वयमपि द्वारसमं भविष्यामः। ते द्वारसदृशाः जाताः। वातायनैः अपि तथैव चिन्तितम्। तानि अपि द्वारसदृशानि जातानि। तदा गृहस्य का स्थितिः भवेत्? इदं यथा अयोग्यं तथा गृहे प्रत्येकं सदस्यः स्वमतमेव सत्यम् इति मन्यते, ज्येष्ठानां विषये अनादरः वर्तते चेत् तस्य गृहस्य नाशः सपदि एव भवेत्।
***अस्माकं गृहे शुद्धः शान्तः पवित्रः च परिवेशः भवेत्।***
सम्पाद्यताम्मार्च 8
सम्पाद्यताम्प्रपञ्चे विद्यमानेभ्यः अपूर्णेभ्यः विषयेभ्यः कदापि समाधानं न लभ्येत।
सम्पाद्यताम्सर्वेषु अनुभवेषु आत्मप्रचीतिःएव सत्या। अन्यैः बहवः अनुभवाः कथिताः, परं स्वेन प्राप्तः अनुभवः महत्त्वपूर्णः। आत्मप्रचीतिद्वारा जागृतिः लभ्येत, भावः वर्धेत, साधनं वेगेन भवेत्, भगवत्प्राप्तिः शीघ्रं भवेत् च। सत्पुरुषैः बहवः विषयाः अस्मभ्यं कथिताः।यथा ते देवम् इष्टवन्तः तथा वयम् इच्छामः किम्? प्रपञ्चे वयं भगवन्तम् अपेक्षामहे किम्? अस्माभिः चिन्तनीयं यद् वयं ज्येष्ठा जाताः, विद्यां प्राप्तवन्तः, सेवावृत्तिं प्राप्तवन्तः, विवाहः जातः, कन्यापुत्राः लब्धाः, गृहं निर्मितं, परं इतोऽपि वयं किमपि इच्छामः एव। एषा इच्छा कदा समाप्नुयात्? वयं सेवावृत्तिं कुर्मः। कश्चन अधिवक्तृत्वं, कश्चन वैद्यकं च करोति। सेवावृत्तिकर्ता स्वामी आत्मानं विना कमपि अन्यं कर्मकरं न लभेत इति मत्वा कार्यं न करोति। पक्षकारः अन्यम् अधिवक्तारं न लभेत इति चिन्तयित्वा कोऽपि अधिवक्तृत्वं न करोति। सेवावृत्तिकर्ता, वैद्यः, अधिवक्ता वा केवलं कर्मणः कृते कर्म इति मत्वा न करोति, अपि तु स्वयं सुखं लभेय इति ईर्ष्यया सः कार्यं करोति। परं वयं पश्यामः सर्वं कृतम्, आयुः अपि समाप्तं, तथापि किमपि अवशिष्टं वर्तते एव। पूर्णता न लभ्यते। किमपि वस्तु लब्धं चेद् अधुना किमपि कर्तव्यं न, इति मनः न मन्यते एव। ‘अधुना किमपि नावश्यकं, यत् प्राप्तं तस्मिन् अहं सुखी अस्मि’ इति कदापि मन्यते किम्? अग्रे कथं भवेत् सर्वं कथं रक्षणीयं, अस्मिन् वर्धनं कथं भवेद् इति चिन्ता सदैव वर्तते। विवाहः निश्चितः चेत् प्रपञ्चस्य चिन्ता समाप्ता इति भाव्यते किम्? विवाहानन्तरं पञ्चवर्षाणि पुत्रः न जातः चेत् चिन्ता, बहवः पुत्राः जाताः तथापि चिन्ता। अतः अस्य प्रपञ्चस्य विषयाः अपूर्णाः। ततः समाधानं लभ्येत इति कथं शक्यम्?एकस्मात् विषयात् अन्यः सततं निर्मीयते एव। सर्वान् सुखदविषयान् संहृत्य अपि समाधानं न लभ्येत। अपूर्णविषयेभ्यः पूर्णस्वरूपं समाधानं कथं प्राप्तुं शक्नुमः? चिन्तयन्तु, कस्मिञ्श्चित् मनोरुग्णालये द्विशतं उन्मत्ताः सन्ति। कश्चन वदेद् यद् इतोपि शतम् उन्मत्तान् आनयामः चेद् एकः सुज्ञः जायेत इति एतत् कदापि शक्यं किम्?
***मनुष्यस्य कियद् वर्तते चेत् पर्याप्तम् इति तु न निश्चितम्। वर्तमानायां परिस्थित्याम् अस्माभिः समाधानं मन्यते चेद् यद् विद्यते तत् पर्याप्तम्।***
सम्पाद्यताम्मार्च 9
सम्पाद्यताम्मध्यमस्थितिजनानां सङ्गतिः साधु।
सम्पाद्यताम्कस्मिञ्श्चिद् ग्रामे चोराणां सभा आसीत्। केचन अवदन्, “हत्वा एव हरणं करणीयम्”। केषाञ्चन मतमासीत् यद्वृथा हननं मास्तु केवलं हरणं कुर्मः। हरणं करणीयमिति तु सर्वेषां ध्येयम्। अस्माकं तथैव वर्तते। एकः वदति ‘व्यवहारदृष्ट्या प्रपञ्चः करणीयः’, अपरः वदति ‘योग्यायोग्यं दृष्ट्वा प्रपञ्चः करणीयः’, अन्यः भणति ‘स्वस्वार्थं साधयित्वा प्रपञ्चः करणीयः’, परं देवम्अधिष्ठायप्रपञ्चः करणीयः इति कः अपि न वदति। सर्वे प्रपञ्चम् आग्रहेण इच्छन्ति, परं देवः वर्तते चेद् भवतु नाम इति वदन्ति,इत्युक्ते ‘प्रपञ्च: एव सत्यः’ इति ते मन्यन्ते। देवस्य विषये तेषां मनसि संशयः विद्यते। वृत्तिः कियन्ती अपि अस्थिरा भवेत् ते अनुमन्यन्ते। अभानः मद्यपः मनःपूतं गीतं गायति। अपरः मद्यपः तं वदति,“अयि भो, कीदृशं गीतं गायति? भवता किमपि न ज्ञायते”। केनचित् कालेन सः एव प्रश्नः प्रथमेन अपरः पृष्टः। तद्वत् प्रपञ्चे अस्थिरवृत्तिजनाः कानि अपि मतानि प्रतिपादयन्ति, परस्परान् दूषयन्ति च। प्रपञ्चे एतादृशः अस्माकं व्यवहारो भवति। बन्धनानि मा सन्तु इति वदन्तो जना मूर्खाः एव। बन्धनान् विना समाजो न भवितुम् अर्हति। वस्तुतो बहु कष्टं नास्ति चेत् सेवावृत्तिः यथा स्वामिनः कृते सुखदा तथैव वृत्तिकरस्य अपि सुखदा वर्तते। प्रत्युत स्वामित्वे एव बहु पीडा। व्यवहारे अन्येषां कौटिल्यं ज्ञायेत तावदेव कौटिल्यम् अस्मासु भवेत्। अस्माभिः कौटिल्यं न करणीयम्। जनान् वञ्चयितुम् अस्मास्भिः कूटता, कुटिलता वा न करणीया। जनाः अस्मान् न वञ्चयेयुः इत्येव व्यवहारकौशलम् अपेक्ष्यते। व्यवहारतो मध्यमस्थितिजनाः मया अधिकाः मिलिताः। एतादृशाः जनाः व्यवहारार्थं सङ्गत्यर्थं च उत्तमाः। यतो हि सर्वतः ते मध्यमाः। तेषां पापं मध्यमम्, पुण्यं मध्यमम्, परमार्थः अपि मध्यमः। एतादृशो जनः प्रसङ्गे ऋणी भवति चेन्न हानिः। परं ऋणं तावदेव भवेद् यत्सः मासाभ्यन्तरे प्रत्यर्पयितुं शक्नुयात्।
***नीतिधर्मेण आचरणं शक्येत, कन्यापुत्राणां रक्षणं शक्येत, प्रतिष्ठया जीवनं शक्येतच इति एतावद् धनं वर्तते चेत् सः मनुष्यः श्रीमान्।***
सम्पाद्यताम्मार्च 11
सम्पाद्यताम्अहन्तां त्यक्त्वा प्रपञ्चेप्राप्ते लाभहानी सोढुं शक्येते।
सम्पाद्यताम्प्रपञ्चः परमेश्वरप्राप्त्यां विघ्नः न कदापि भवितुमर्हति। पश्यामः, यत् प्रपञ्चे बहुभिः जनैः सह विविधस्वरूपेण अस्माकं सम्बन्धः आयाति। मातापितरौ, दारपुत्राः, स्वसाभ्रातरः, अन्ये आप्ताः, मित्राणि, इतरे जनाः च इति, एतेषां उत्तम उपयोगः करणीयः चेद्, एतैः सर्वैः सह व्यवहारकरणसमये स्वकार्याणि हरिस्मरणसूत्रे योजयित्वा कुर्याम। तेन सर्वैः सह सम्बन्धाः स्नेहपूर्णाः भवेयुः। प्रपञ्चः अतिसुखकरो भवेत्। न्यूनातिन्यूनं सःतापदायको निश्चयेन न भवेत्। एतैः सर्वैः सह अस्माकं सम्बन्धानां भञ्जनाय अस्माकम् अभिमानः, अहंता च विशेषत्वेन कारणे भवतः। एषः अभिमानो न केवलं श्रीमतां भवति, दरिद्रानपि सः न त्यजति। वयं पुराणे पठितवन्तः यत् हिरण्यकश्यपुम् अङ्के स्वीकृत्य यदा भगवान् तस्य उदरं विदारयितुम् आरब्धवान् तदा हिरण्यकश्यपोः हस्तः अभिमानेन खड्गं प्रति गतः। साक्षात् भगवन्तं पुरतः दृष्ट्वापि सः हस्तौ प्रणामार्थं न उन्नीतवान्। अभिमानस्य कियान् आवेगः। दरिद्राः जनाः अपि अभिमानाधीनाः दृश्यन्ते। कदाचित् कश्चन भिक्षुकः कस्यचिद् गृहमागत्य भिक्षां याचितवान्। तदा सः गृहस्वामी उक्तवान्, “अरे, कस्मिन् समये आगन्तव्यमिति भवान् जानाति न वा?” तदा सः भिक्षुकः अवदत्, “गच्छतु गच्छतु। भवतः एकस्य गृहं नास्ति, ग्रामे शताधिकानि गृहाणि सन्ति।” पश्यन्तु, अभिमानमूलं कियत् गभीरं गतं वर्तते। अभिमानः क्षेत्रे उद्भूतकत्तृणसदृशः वर्तते। कत्तृणस्य समूलनाशं विना सम्यक् सस्यं न लभेदेव। तथैव अभिमानस्य समूलनाशं विना परमेश्वरकृपायाः सस्यं प्राप्तुं न शक्नुमः। पनसकर्तनसमये एकम् अवधानम् अपेक्ष्यते। हस्ते तैलं संयुज्य तत् कर्तनीयम्, अष्ठीलाः निष्कासनीयाः च। तेन क्षीरात् पीडा हस्ते न भवति, बीजानि झटिति लभ्यन्तेच। तथैव नाम जपन् प्रपञ्चव्यवहारं कुर्मः चेद् अभिमानस्य विषयवासनानां वा रसस्पर्शो न भवति परमेश्वरकृपाफलं लभ्यते च। एतम् अहंकारं देहाभिमानं च त्यजामः चेत् प्रपञ्चे विद्यमाने लाभहानी हसन्त: क्रीडन्त: च सोढुं शक्नुमः। शिशवः वर्षाकाले कर्गजनौकाः कृत्वा जले मुञ्चन्ति, ताः तरन्ति तर्हि हसन्ति निमज्जन्ति तर्हि अपि हसन्ति, तथैव प्रपञ्चे सुखदुःखानि आनन्देन स्वीकरणीयानि। एकेन नामस्मरणेन एव एतत् सिद्ध्येत्।
*** नामस्मरणम् इत्युक्ते ‘त्वमसि, अहं नास्मि’ इति एषा स्थितिः।***
सम्पाद्यताम्मार्च 12
सम्पाद्यताम्प्रपञ्चे रामः कर्ता इति भावना रक्षणीया।
सम्पाद्यताम्परमात्मा आनन्दस्वरूपः। भगवतः आनन्दः उपाधिरहितः। भगवतः हास्यमुखस्य ध्यानं करणीयम्। प्रत्येकं विषये मनुष्य आनन्दं पश्यति। उष्णकाले वायुः वहति चेत् सः आनन्दम्अनुभवति। वृष्टिः आयाति चेद् अधुना शैत्यम् आगच्छेद् इति सः चिन्तयति। केनापि प्रकारेण सः आनन्दं सङ्गृह्णाति। क्षुधासमये सः अन्नं भुङ्क्ते चेत् पूर्णौदरः सः आनन्दम् अनुभवेत् परं विषं खादेत् चेद् मरणं प्राप्नुयात्। अस्माकं तथैव भवति। वयं विषयाद् आनन्दं प्राप्तुं प्रयतामहे, परं सः बाधते। रुग्णस्य उदरे कृमिषु जातेषु, तस्मै यदि बहूनि व्यञ्जनानि भोजितानि तर्हि तानि शरीराय न पोषकाणि। कृमयो वर्धन्ते एव। तद्वत् सत्कर्माणि कुर्वद्भिः अस्माभिः मनसि यदि विषयप्रेम रक्षितं तर्हि विषयाः एव संवर्धन्ते, समाधानं न लभ्यते। एतदर्थं कर्तव्यबुद्ध्या कर्म करणीयम्। तेन तत् कर्म न बाधते। मनुष्यः आजन्म यमुद्योगं करोति तस्मिन् सः तद्रूपायते। अधिवक्ता तस्य वृत्तिकर्मणि एतादृशः तद्रूपः भवति यत् मृत्युसमये अपि सः वादमेव करोति। सेवावृत्तिकर्ता सेवावृत्तौ एतादृशः तद्रूपः भवति यत् स्वप्ने अपि आत्मानं सेवापरम् एव मन्यते। कर्म कथं करणीयम्? तर्हि तस्मात् भिन्नं भूत्वा। विवाहसमारम्भः गन्तव्यः, लड्डुकाः खादनीयाः, परं तानि मम आत्मनः न सन्ति, परेषां सन्ति, इति धारणा अपेक्ष्यते। विवाहः अस्माकं पुत्रकन्यानां नेति मत्वावर्तनीयम्, अन्यथा उद्वाह्यपितुः चिन्ता भवेत्, वरदक्षिणा लभ्येत न वा इत्यत्र एव अवधानं भवेत्। तेन मनस्तापः एव भवेत्। कर्म विना न कोऽपि तिष्ठति। कमपि दण्डनार्थं वदामः यत् भवता न किञ्चिदपि कम्पनीयम्। पक्ष्मणी, हस्तौ, पादौ वा किमपि न कम्पनीयम्, तर्हि तस्य तद् न शक्यम्। यद् वा तद् वा किमपि कर्म भवेदेव। भगवता एतादृशी रचना कृता यत् कर्म विना गतिरेव नास्ति। परं तानि कर्माणि ‘रामः कर्ता’ इति विस्मृत्य कुर्मः चेद् बाधकानि वर्तन्ते। मृत्युपर्यन्तं मनुष्यः अग्रिमजन्मनः सिद्धताम् एव कुर्वन् वर्तते। अतः देहेन कर्मकरणसमये ‘नाहं कर्ता’ इति मत्वा कर्म करणीयम्। कर्म विना मनः न रमते। वृथा वयं फलाकांक्षां कुर्वन्तः भवामः। फलाकांक्षां त्यक्त्वा कर्म कुर्मः चेत् कर्मकाले एव समाधानं लभ्यते।
***प्रपञ्चे सर्वेषां कृते सर्वं करणीयं परमहं ‘रामस्य एव’ इति सततं स्मर्तव्यम् इत्युक्ते तस्य नामस्मरणं करणीयम्।***
सम्पाद्यताम्मार्च13
सम्पाद्यताम्परमात्मनि सम्पूर्णा निष्ठा अपेक्ष्यते।
सम्पाद्यताम्मातुः कृते रोदन् बालकः मातृमेलनं विना रोदनं न स्थगयति। तद्वत् समाधानार्थं आनन्दार्थं च परिश्राम्यन् जीवः परमेश्वरप्राप्तिं विना शान्त: भवितुं नार्हति। अतः प्रपञ्चचिन्ताम् अकृत्वा परमेश्वरप्राप्तिः कथं भवेत् इति अवधार्यताम्। भगवति सम्पूर्णनिष्ठां विना अस्माकं प्रपञ्चचिन्ता न दूरीभवति। सर्वस्य जगतः पालनकर्ता अस्माकं पालनं किमर्थं न कुर्यात्? प्रत्येकं विषयः तस्यैव प्रभुत्वेन भवति इति संस्मरामः चेत् प्रपञ्चः कदापि न बाधते। एकां भगवन्निष्ठाम् अन्तिमश्वासपर्यन्तं रक्षन्तु। अस्माभिः पुराणेषु पठितं यद् भीष्मेण पाण्डवान् हन्तुं प्रतिज्ञा कृता। सा तु भीष्मप्रतिज्ञा, मिथ्या कथं भवेत्? सर्वे पाण्डवाः चिन्ताकुलाः। परं द्रौपद्याः निष्ठा बहु दृढा। सा अवदत्,“वयं श्रीकृष्णं पृच्छामः”। सा सर्वं वृत्तान्तं तं कथितवती। श्रीकृष्णः अभणत्, “भीष्मप्रतिज्ञा अनृता कथं भवेत्? तथापि वयं प्रयत्नं कृत्वा पश्यामः। द्रोपदी, अधुना भवती इदं करोतु। रात्रौ भीष्माचार्यस्य आश्रमं गच्छतु। तत्र केवलं संन्यासिनः स्त्रियः च अनुमताः। अहं भवत्या सह आश्रमपर्यन्तम् आगच्छामि”। तदनन्तरं द्रोपदीं स्वीकृत्यश्रीकृष्णः भीष्माचार्यस्य आश्रमपर्यन्तं गतवान्। बहिः एव तस्याः आभूषणानि इतरवस्तूनि च पालयन् अतिष्ठत्। अन्तः गमनसमये श्रीकृष्णः ताम् अकथयत्, ‘’भीष्माचार्यः अधुना निद्रासिद्धतां कुर्वन् अस्ति। भवति अन्तः गत्वा कङ्कणानि वादयन् तं नमस्करोतु”। तथा द्रौपदी अन्तः गत्वा नमस्कृतवती। सः झटिती तस्यै आशीर्वादं दत्तवान्, “अखण्डसौभाग्यवती भव”। अनन्तरं सः द्रौपदीं दृष्टवान्, उक्तवान् च, “द्रौपदी, एषा भवत्याः मतिः निश्चितं न। भवत्या सह क: वर्तते, वदतु।”। सा अवदत्, “मया सह सेवकः वर्तते। सः बहिः वर्तते। भीष्माचार्यः बहिः आगत्य दृष्टवान्, श्रीकृष्णं पर्यचिनोत् च। परं कार्यं जातमासीत्। अतः वदामि यत् परमात्मनि पूर्णा निष्ठा आवश्यकी। परम् अस्माकम् अभिमानस्य अन्तरायः भवति। एषः अभिमानः सर्वेषां कृते घातकः। तं निवारयितुं परमात्मा पुनः पुनः अवतीर्णवान्। इदम् अभिमानस्य कत्तृणं नाशयितुं भगवन्नामसदृशः अन्यः उपायः नास्ति। नाम्नि प्रल्हादस्य यथा निष्ठा आसीत् तथैव भवेत्। सः नाम श्रद्धया निर्विषयो भवितुं जपितवान्। वयं तं विषयार्थं न जपामः। नाम्नः परं नान्यत् सत्यम्। अस्मिन् जन्मनि नामजपनेन शान्तिसमाधानयोः ऱत्नागारं लभ्येत।
- नामस्मरणे स्त्रीपुरुषाः, श्रीमद्दरिद्राः, च इति एतादृशाः भेदाः न सन्ति। केवलं श्रद्धया स्मरन्तु।****
मार्च 14
सम्पाद्यताम्प्रपञ्चविषयेममत्वं भगवद्विषयेभवेत्।
सम्पाद्यताम्प्रेम सर्वेषु जन्मतः एव वर्तते। एष मम पुत्रः, मम कन्या चेति एतयोः प्रेमकरणाय पाठनं नापेक्षते। ‘अस्मदीयः’ इति मन्यामहे चेत् प्रेम स्वाभाविकम् उत्पद्यते।परमिदं प्रेम अपि स्वार्थि। ‘पुत्रः मम वचनं न अङ्गीकरोति’ इति वयम् आक्षेपं कुर्मः। तस्मिन् यदि अस्माकं सत्यं प्रेम विद्यते तर्हि एतादृशः आक्षेपःअस्माभिः न क्रियते। परम् अस्माकम्‘एषः मम नाङ्गीकरोति’ इति अहंकारः स्वार्थः च विद्येते। कश्चन गृहस्थो मया मिलितः। अहं पृष्टवान्,“पुत्रस्यविवाहः कदा विद्यते?” सः उक्तवान्,“श्वः।”“कथं व्यवहरति?” मया पृष्टम्। “षण्मासानन्तरं कथयिष्यामि” सः उदतरत्। स्वार्थि प्रेम एतादृशम् अशाश्वतम्। कथयन्तु, एतेन स्वार्थिप्रेम्णा सुखं कथं लभ्येत? प्रपञ्चे कर्तव्यबुद्ध्या वर्तनीयम्। तेन पुत्रो मम वचनं न स्वीकरोति इति प्रश्न एव नोत्पद्येत। सत्यं यत्, प्रपञ्चः प्रयोगशालासदृशः। शिक्षणं पूर्णं कर्तुं प्रयोगशालायां काञ्श्चन मासान् साक्षात् कार्यं करणीयं भवति। तत्र उत्पादनस्य हेतुः न विद्यते। केवलं पाठनमेव तत्र अपेक्ष्यते। तत्र केवलं पठनीयम्। तस्य कियान् अर्थलाभो भवेत् इति न चिन्तनीयम्। तद्वत् प्रपञ्चं परमार्थस्य प्रयोगशालां मन्यन्ताम्। अद्ययावत् अस्माकम् अनुभवं पश्यामः चेद् अस्माभिः कृतमिति स्वल्पमेव विद्यते। अतः परिस्थितिः विषये बहु चिन्ताम् अकृत्वा स्वकर्तव्यं सम्यक् करणीयम्। अस्माकं वृत्तौ परिणामो न भवेत्। प्रत्येकं घटनायै योग्यः समयः अपेक्षित:। अतः कर्तव्यबुद्ध्या वर्तित्वा,“भगवन्, एष प्रपञ्चो भवत: इच्छया प्रवर्तते” इति वदामः। तेन सहजं भगवत्प्रेम लभ्येत। प्रपञ्चे यद् ममत्वं तद् भगवति योजयामः। गृहजनेषु निस्स्वार्थबुद्ध्या प्रीणीमः तेन परमार्थः अपि सहजं लभ्येत। आत्मीयतायाः भगवति योजनेन भगवति प्रेम भवेत्। एतदर्थम् अन्यत् किमपि न करणीयम्। एषा आत्मीयता उद्भवेद् इति एतदर्थं,‘भगवन्तं विना मम कार्यं न भवति’ इति भावः अपेक्ष्यते। एतदर्थं तस्य निरन्तरं सहवासः लभ्येत इति प्रयत्नाः करणीयाः। तस्य नामस्मरणेन इदं सहजं शक्यम्।
*** पठितं विस्मरेत्, दृष्टं विस्मरेत्,कृतं विस्मरेत्, परम् अन्तकरणे दृढं धृतं भगवन्नाम कदापि न विस्मरेत्।***
सम्पाद्यताम्मार्च 15
सम्पाद्यताम्उपाधिविरहितः अहम् इत्युक्ते भगवान्।
सम्पाद्यताम्ब्रह्मनिरूपणं कर्तुं न शक्नुमः। शर्करायाः आस्वादनेन विना माधुर्यं नावगम्यते। मर्यादायां शब्दैः भाषितुं शक्नुमः। अनृतेन ऋतस्य परीक्षा क्रियते। तथैव येन माया ज्ञाता तेन ब्रह्म ज्ञातमेव। परम् अहमेव मायारूपो जातः चेत् तां कथम् अवगच्छामः। सत्ये छाया पतिता। सा एव माया जाता। वस्तु यथा वर्तते तथा न दृश्यते, विपरीतं दृश्यते, सा माया। मायया निगृहीताः चेत् सत्यं परमात्मस्वरूपं ब्रह्म च कथं ज्ञातुं शक्नुमः? या जायते, म्रियते च सा माया। माया विकृतायते,भनक्ति च। शाश्वतानन्दाद् या अपाकरोति सा माया। भगवतः या दूरीकरोति सा माया। येन शाश्वतं सुखं लभते, यद् मायानिग्रहणात् विमोचनमार्गं दर्शयति तदेव सत्यं तत्त्वज्ञानम्। एको भगवान् एव सत्यस्वरूपः। तदर्थं यद यत् करणीयं तत् सत्यम्। ‘अहं देवस्य’ इति ज्ञानमेव आत्मनिवेदनम्। आत्मनिवेदनम्, इत्युक्ते देवस्य अभिज्ञानम्, इत्युक्ते मायायाः अपाकरणम्। वस्तुतः उपाधिविरहितः अहमेव भगवान्। उपाधिरहितम् अवस्थानमेव भगवद्रूपत्वम्। तटात् नदीं प्रति गमनसमये एकं स्थानं वर्तते यत्र सिकता समाप्नोति जलमारभते। एतस्याः रेखायाः प्राक् सिकता, परं जलं च वर्तेते। एषा मध्यमा स्थितिः इत्युक्ते तुर्यावस्था। अत्र ‘अहं ब्रह्म’ अस्मि इति भानं वर्तते। निर्गुणपरमात्मा तथा एषा सर्वा सृष्टिः इति एतयोः संयोजने शृङ्खला वर्तते ओङ्कारः।अतः परमार्थे केनापि साधनेन जडस्य निरासं कृत्वा अन्ते ओङ्कारपर्यन्तं आगन्तव्यम् भवति। दशजनेषु नवजनान् एषः न, एषः न इति त्यक्त्वा अवशिष्टः दशमः एव सत्यः, तथा इदं न इदं न इति मत्वा अवशिष्टं यद् तदेव ब्रह्म। गीतायां भगवान् अर्जुनं वदति, ‘यदि भवान् ज्ञानी तर्हि समाधानेन तिष्ठतु। तथा नास्ति तर्हि ज्ञानवार्तां न करोतु। कस्यचिद् ज्ञानिजनस्य श्रुणोतु, तथा व्यवहरतु च’। अस्य सरलः अर्थः विद्यते, यत् अस्माभिः सत्पुरुषाः शरणं गन्तव्याः। सम्पूर्णसृष्टिदृष्ट्या वयं तथा अस्माकं प्रयत्नाः कःपदार्थाः। वास्तविकं वयं निमित्तमात्रम्। अतः अस्माकम् आयुषि अस्माकं विहितानि साध्वसाधूनि कर्माणि ईश्वरस्य मनोगतमेव इति मन्तव्यम्।
***आचरणं विना वेदान्तो नोपकारी।***
सम्पाद्यताम्मार्च 16
सम्पाद्यताम्प्रपञ्चविषयिणी आसक्तिः कथं न्यूनीभवेत्?
सम्पाद्यताम्साम्प्रतम् अस्माकं स्थितिः कथं जाता, इति पश्यन्तु। प्रपञ्चं वयं न त्यक्तुं शक्नुमः, भगवत्प्रेम इच्छामः।प्रपञ्चविषयकं प्रेम न त्यक्त्वा भगवत्प्रेम लभेमहि इति अस्माकम् इच्छा वर्तते। वस्तुतः प्रपञ्चविषयकम् अस्माकं प्रेम व्यभिचारि वर्तते। प्रेम एतादृशं वर्तते यत् तद् एकस्मिन् स्थाने एव स्थातुं शक्नोति। एकस्मिन् कोशे यथा खड्गद्वयं स्थातुं न शक्नोति तथैव अस्माकं प्रेम स्थानद्वये भवितुं नार्हति। अस्माकं वास्तवं सुखं भगवत्समीपे एव वर्तते। तत् प्राप्तुं प्रपञ्चत्यागः न अपेक्षितः। प्रपञ्चविषयिकी आसक्तिः मुख्यतः नश्येत्। शास्त्रेषु अपि इदमेव कथितं वर्तते। शास्त्रम् अनुभवैः एव निर्मितम्। अस्माकम् अनुभवंशास्त्रनिकषैः न परीक्षामहे। प्रपञ्चस्य वास्तवं मूल्यज्ञानं विना तद्विषयिकी अस्माकम् आसक्तिः न्यूना न भवेत्। प्रपञ्चे सुखं नास्ति इति अवगत्य अपि तस्य आसक्तिः न नश्यति। तां नाशयितुं विद्यमानः उपायः अस्माभिः द्रष्टव्यः। प्रपञ्चस्य अस्माकं कृते कियती आवश्यकता वर्तते? कश्चन जनः अटनसमये हस्ते यष्टिं गृह्णाति। यष्टिः तस्य भूषणं न। भगवन्तं प्रति गन्तुम् आधारार्थमेव प्रपञ्चस्य आवश्यकता वर्तते। प्रपञ्चेतस्य आसक्तिः न्यूनीभूय भगवत्प्रेम उद्भवितुं शास्त्रैः विहितानि बन्धनानि अस्माभिः पालनीयानि।तदर्थम् अस्माकं आचारः, विचारः, उच्चारः च सम्यक् करणीयाः। अस्माकं संस्कारानुगुणं वयं व्यवहरामः चेद् वयं निवृत्तिपराः भवामः यतो हि अस्माकं प्रवृत्तिः निवृत्तिपरा एव वर्तते इत्यत्र न कोपि संशयः। अधुना इतः परं वयं रामस्य नाम्ना प्रपञ्चस्य वाणिज्यं कुर्मः, येन लाभहानी तस्य एव भवेताम्। प्रपञ्चे सदाचारः अपेक्ष्यते। सदाचारः अधिष्ठानमेव। नीतिधर्मस्य आचरणं भवेत्। नीतिधर्मबन्धनानि अस्माकं विकाराणां नियन्त्रणार्थं वर्तन्ते। विचाराः अत्यन्तपवित्राः भवेयुः। कस्यापि द्वेषः मत्सरः च न करणीयौ, अहितं न चिन्तनीयं च। उच्चाराः सदैव रक्षणीयाः। सदा सर्वैः सह मधुरं भाषणीयम्। यया जिह्वया वयं भगवन्नाम उच्चरामः तया कस्यापि अन्तःकरणं न दूषणीयम् इति दक्षता आवश्यकी। अन्तःकरणदूषणसमये तत्र वसन्तं भगवन्तमेव वयं दूषयामः इति अवध्यायेयुः।
***प्रपञ्चे रतम् अस्माकं मनः ततः वियोज्य भगवति योजयामः। तेन एव समाधानं लभ्येत।***
सम्पाद्यताम्मार्च 17
सम्पाद्यताम्चिन्ता अस्मान् भगवतः दूरं नयति।
सम्पाद्यताम्सत्वगुणे भगवान् वर्तते, अतः तेन मार्गेण वयं गच्छामः। भगवान् अस्मान् प्रति आगच्छेद् एतदर्थं सर्वाणि कर्माणि सम्यक् कृत्वापि भगवदर्पणबुद्ध्या करणीयानिइति अपेक्ष्यते। व्यवहारः न त्यक्तव्यः। प्रयत्नाः पूर्णशक्त्या करणीयाः। परं तेन सह मनो भगवति कथं लगेद् इति द्रष्टव्यम्। वयं प्रपञ्चस्य यथा चिन्तां कुर्मः तथा देवस्य कुर्मः चेद् बहु किमपि भवेत्। वयं कियत् पराधीनाः स्मः तद् रुग्णावस्थायां ज्ञायते, तदनु अस्माकं हस्ते कियान् अधिकारः वर्तते इति अवगत्य स्थातव्यम्। चिन्ताम् अकृत्वा अपि प्रयत्नाः न भवन्ति इति न। प्रत्युत प्रयत्ना द्विगुणिताः करणीयाः, परं फलितं भगवदिच्छया एव इति एतया भावनया समाधानं मन्तुम् आदौ पठनीयम्। स्वविषये वयं चिन्तां कुर्मः, यतो हि अस्मद् दुःखिनः जनान् वयं न पश्यामः। कश्चन वदति जनानां देयस्य मम चिन्ता, अन्यो वदति जनेभ्य आयस्य मम चिन्ता, तृतीयो वदति मम पुत्रकन्यानां चिन्ता। परं चिन्तानाम् अस्मिन् कोलाहले आत्मनः चिन्ता कस्यापि न। स्मृतिभिः श्वस्तनभयेन च वयं चिन्तां कुर्मः। एषा चिन्ता अस्मान् भगवतो दूरं करोति। श्वस्तनचिन्तया अद्यतना रोटिका न मधुरायते। एतदर्थं किं करणीयम्? एकः एव रामबाणोपायः। अद्यारभ्य चिन्ताकरणं पूर्णतः त्यक्त्वा तावान् समयः नामस्मरणे यापनीयः। कश्चन जनो मां प्रति आक्षेपं कृतवान्, ‘एषः मम पुत्रः कस्यापि चिन्तां न करोति। हसन् क्रीडन् दिनं यापयति। अग्रे अस्य कथं भवेत्?’ अहमुक्तवान्, ‘प्रथमदृष्टिक्षेपे भवतः वचनं सत्यं भासते। परं वस्तुतः तद् न सत्यम्। भवद्भिः अद्ययावत् चिन्तां कृत्वा किं लब्धम्? शारीरीकीं मानसिकीं च पीडां सोढ्वा भगवान् विस्मृतः। एतावत् ननु? तदेव भवतः पुत्रं किमर्थं पाठयन्ति? तेन स्वकर्तव्यं सम्यक् करणीयम्, आनन्देन स्थातव्यं, चिन्ता न करणीया च इति एव अहं कथयिष्यामि। भवन्तः प्रपञ्चचिन्तां कुर्वन्ति तावत् देवसेवां कुर्वन्ति इति कथं वक्तव्यम्? भवति चेद् भवतु, न भवति चेद् न भवतु, इति एतादृशी मनोवस्था यस्य वर्तते, तस्यैव चिन्ता अपगच्छति।
*** येन भगवान् आत्मीयः कृतः, तस्य चिन्ता समाप्ता।***
सम्पाद्यताम्मार्च 18
सम्पाद्यताम्प्ररपञ्चे भगवतः अनुसन्धानं भवतु।
सम्पाद्यताम्भवन्त: एतावन्तः अत्र सम्मिलिताः, तेषु कश्चन मां कथयेत् यद् अस्माकं सर्वे परिश्रमाः किमर्थं प्रवर्तन्ते? प्रत्येकं जनः सुखार्थमेव परिश्राम्यति। प्रपञ्चे सुखं लभ्येत इति सर्वे मन्यन्ते, तदर्थमेव यः कोपि प्रयतते। परम् अद्ययावत् केनापि प्रपञ्चे सुखं प्राप्तंकिम्? यः प्राप्तवान् सः कथयेत्। कश्चन वदति मम समीपे धनं वर्तते, सन्तानं नास्ति। कश्चन दारिद्र्येण रोदिति। किमपि, किमपि प्रत्येकं कथयति, वदति च यद् मम इच्छापूर्त्यनन्तरमहं सुखी भविष्यामि। परं सा पूर्यते चेद् अपरा इच्छा आयाति एव। इत्युक्ते अस्माकं लोभः कदापि न तृप्यति। मृगजलं पीत्वा कथं कः अपि तृप्तो भवेत्? प्रपञ्चः एव मिथ्या, तत: कथं सुखं याच्यते? एतस्य तात्पर्यं प्रपञ्चः त्यक्तव्यः इति न, परं सः सुखकरः कथं भवेत् इति द्रष्टव्यम्। अहं निश्चयेन वदामि यत् प्रपञ्चः यदि सुखमयः करणीयः तर्हि तदर्थं एक: एव उपायः। प्रपञ्चः न मम सः रामस्य इति वक्तव्यम्। इदं दर्शने बहु सरलं परम् आचरणार्थं बहु कठिनम्। तत् परमात्मकृपां विना न सिद्ध्यति। एतदर्थं रामाय अनन्यभावेन शरणं गन्तव्यम्। तेन तस्य कृपा लभ्येत। तस्य कृपायै देहबुद्धेः बन्धनंन करोतु। सर्वं विस्मृत्य भगवतः आर्ततया याच्ञा करणीया। भगवत्कृपा अस्मासु वर्तते इति वक्तव्यम्। सा सदैव कार्यरता। अस्माकं शङ्कया सा न आच्छादनीया। भगवन्तं प्रार्थयामहे, “भगवन्, अहं सर्वथा भवदीयः। मम प्रपञ्चः भवत: एव, भवतः भक्तिः कथं करणीया तद् अहं न जानामि। भवान् मह्यं मार्गं दर्शयतु। भवान् यत् करिष्यति तस्मिन् अहं सम्मिलितः अस्मि”। एतादृशी प्रार्थना मनसा करणीया। तदनु यस्यां परिस्थित्यां स स्थापयति तस्याम् आनन्देन स्थातव्यम्। भवन्तः एतावन्ति कष्टानि कृत्वा मया मेलनार्थम् आगच्छन्ति, परं रिक्तहस्तेन प्रतिगच्छन्ति इति दृष्ट्वा मनसि खेद उत्पद्यते। मम समीपे यद् वर्तते तद् व्यावहारिकजगति कुत्रापि न लभ्येत। तदस्ति भगवन्नामप्रेम। यत् सत्पुरुषैः कथितं तदेव अहं कथयामि। तदेव सत्यम् इति मनसा मन्यन्ताम्। सत्यं, रामो भवत: सर्वान् सुखिनः कुर्यात्। भवद्भ्यः मम आशीर्वादः अस्तु यद् भवन्तः नामप्रेम इत्युक्ते भगवत्प्रेम निश्चयेन लभेरन्।
*** सुखेन प्रपञ्चं कुर्वन्तु, परं भगवदनुसन्धानम् अनुवर्तयन्तु।***
सम्पाद्यताम्मार्च 19
सम्पाद्यताम्प्रपञ्चे परस्परं प्रेमभावः कथं वर्धेत?
सम्पाद्यताम्निसर्गतः प्रेम प्रत्येकं जने प्राणिनि च वर्तते। प्रेम विना मनुष्यः जीवितुमेव न शक्नोति। प्रेम्णा सर्वं जगत्वशीकर्तुं शक्नुमः। प्रेमकरणे धनं न व्येति, कष्टं न भवति च। परम् अनुभवेन प्रेमकरणं तथा बहु सरलं न दृश्यते। यतो हि प्रत्येकं व्यक्तेः स्वभावः भिन्नः, रुचिः भिन्ना, दैवयोगेन प्राप्ता ऋणानुबन्धा: भिन्नाः च।विचारानुकूलजनेषु वयं सहजं प्रीणीमः, विरोधिषु प्रेम न भवति, किं बहुना द्वेषः एव उत्पद्यते। किमर्थम्? यतो हि स्वपरयोः विचाररुचिविषये समञ्जनं न विद्यते। स्वल्पं विचारं कुर्मः चेद् दृश्यते यद् येन कारणेन वयम् अन्यान् द्विष्मः तेन कारणेन अन्ये अपि अस्मान् द्विषन्ति। उदाहरणार्थं कश्चन विषयः मह्यं न अरोचत,अन्यस्मै अरोचत, तर्हि इदमेव कारणं तस्य द्वेषं कर्तुं पर्याप्तम्। तदनु एतेन एव न्यायेन अन्यः मम अपि द्वेषं कर्तुं शक्नोति ननु!‘पिण्डे पिण्डे मतिः भिन्ना’ इति लोकोक्तिः वर्तते। स्वभावानुसारं प्रत्येकं जनस्य रुचिः भिन्ना वर्तते एव। अतः द्वेषबुद्धिं नाशयितुं जनानां स्वभावभिन्नता अस्माभिः स्वीकरणीया। प्रीणातुं सर्वप्रियविषयः अवधातव्यः। प्रेमपाठं पठितुम् आरम्भः स्वगृहतः करणीयः। गृहजनाः, परिवेशिनः, ग्रामवासिनः एतेन क्रमेण प्रियाणां परिघः वर्धनीयः। एतेन प्रकारेण प्रेमवर्धनेन सर्वं वातावरणं प्रेममयं भवेत्। सर्वैः सह निष्कपटप्रेम्णा वर्तनीयम्। न केवलं भाषणे, अस्माकं दृष्टौ अपि प्रेम भवेत्। अस्माकं भाषणं मधुरं भवेत्। सहजतया व्यवहरणीयम्। गृहे अमुकं करोतु अथ वा न करोतु इति हठः मास्तु। यथा भवति तथा भवेत्। देहः प्रारब्धाय अर्पणीयः। तदेव मह्यं बहु रोचते। प्रेम कर्तुं दारिद्र्यं न विक्षेपयति। धनिकेन बहु किमपि दातव्यं न भवति। यथा मातापुत्रयोः प्रेम विद्यते तथा भगवता सह प्रेम लभ्येत। येन भगवतः प्रेम लब्धं सःसृष्टिं कौतुकेन पश्येत्। भगवत्प्रेम कस्यापि साधनस्य प्राणः वर्तते। तं याचितुं भगवत्प्रार्थना प्रतिदिनं करणीया। तस्य अनुसन्धाने सदा स्थातव्यम्।
***गृहे बहिः वा प्रेम्णा शासनं भवेत्, न तु भयेन।***
सम्पाद्यताम्मार्च21
सम्पाद्यताम्मनुष्येण कियदपि प्राप्तं चेदपि तस्य लोभः न न्यूनायते।
सम्पाद्यताम्जगति प्रकारद्वयस्य रोगौ मनुष्यं सदा पीडयतः। एकः ‘क्षुधा न जायते’ इति। कियत: अपि औषधीन् स्वीकुर्यात् परिणामो न लभ्यते एव। एतादृशस्य जनस्य पञ्चपक्वान्नभोजनेन अपि किम्? सः वदति ‘भोजनार्थं बहु किमपि विद्यते। परं बुभुक्षा एव नास्ति। किं करवाणि?’ अपरो रोगो वर्ततेयद्‘कियदपि भुक्तं चेदपि इच्छा न समाप्नोति एव’। किमपि खादति तर्हि तद् भस्मायते। अस्माकं तथैव वर्तते। परम् अस्माकं द्वावपि रोगौ विद्येते। एतावान् परमार्थप्रसारः जातः। भजनं पूजनं च प्रवर्तेते। परमस्माकं तस्य किमपि प्रेम न वर्तते। तस्य रुचिः अपि नास्ति। अस्माकं तस्य वास्तवा बुभुक्षा एव नास्ति। प्रत्युत भगवान् अस्मभ्यं कल्पनापेक्षया अधिकम् अददात्। पत्नी, पुत्राः, उद्योगः, गृहं,भवनम्, इत्यादयः कियन्तः विषयाः, येभ्यः अस्माभिः सुखमपेक्षितम्, तेन पूरिताः। तथापि अस्माकं लोभः एतान् सर्वान् भस्मीकृत्य अवशिष्यते एव। परमेश्वरप्रेममात्रं न लभते। एतादृशं कियत्कालं प्रवर्तेत? वयं नीतिधर्मेण व्यवहरामः, अस्माकं वर्तनम् असाधुः न। एतादृशं दर्शनीयं साधुत्वम्, उत्तानपरिष्करणं च कथं लाभाय? मानवजीवनं सुखि भवति चेत् सः वास्तवः परिष्कारः। परं साम्प्रतं स्थितिं दृष्ट्वा, परिष्काराः यावन्तः अधिकाः, मनुष्यः तावान् समाधानरहितः इति एव ज्ञायते। परमेश्वरप्रेमप्राप्तिं विना, इतरविषयलोभनाशं विना च न कोपि लाभः। तीर्थयात्राः, पूजाः, भजनं च केवलं परमार्थस्मरणं दद्युः। परम् अन्तरङ्गं परिष्कृतं भवेदेव इति न। अपरिष्कृते अन्तरङ्गे सति,इतरविषयैः न कोपि लाभः। प्रतिवर्षं वयं देवदर्शनार्थं गच्छामः। आजीवनं गमिष्यामः। परं परमेश्वरप्रेम न लभ्यते एव। वस्तुतः कियद् लभ्यते चेद् मनुष्यस्य पर्याप्तं भवेद् इति न निश्चितम्। विद्यमानायां परिस्थित्यां समाधानं मन्यते चेद् यद् विद्यते तत् पर्याप्तं भवति। परमार्थं सम्यग् ज्ञात्वा यः आचरति, तेन सः शीघ्रं लभ्यते। एतेन जनेन प्रपञ्चं त्यक्त्वा गन्तव्यमिति एतस्य कारणमेव न विद्यते। मनसि भगवत्प्रेम न विद्यते चेदपि बाह्यतः तस्य पूजा करणीया। नामस्मरणं च करणीयम्। आदौ बलेन स्मर्तव्यम्, अभ्यासेन स्वभावो भवेत्। एतेन स्मरणेन अग्रे ध्यासो भवेत्। अहं पूर्वतनो न, अधुना ‘अहं भगवतः’ इति भावः अपेक्ष्यते।
*** यस्य लोभः वासना च न पूर्णा, सः आशाबद्धः। तेन सः न समाहितः।***
सम्पाद्यताम्मार्च 22
सम्पाद्यताम्भगवन्तं स्मृत्वा प्रपञ्चं कुर्मः चेत् सः सम्यग् भवेत्।
सम्पाद्यताम्कदाचिद् नारदः श्रीकृष्णं पृष्टवान्, “भवन्तः कुत्र लभ्येरन्?” तदनु श्रीकृष्णः अवदत्,“नारद, अहं न वैकुण्ठे, न रुक्मिणीसमीपे, अहं तु भक्तैः सह लभ्येय”। भक्ताः देवं विना कथं विद्यन्ते ननु? देवाय देवत्वं कैः आनीतम्? भक्ताः न भवन्ति, तर्हि देवः कथं भवितुमर्हति? देवः वर्तते इति यः मन्यते, सः एव देवस्य अस्तित्वं जानाति। नास्तिकस्य देवः क्व? तं पृच्छामः, “भवदीयाः के के जगति सन्ति?” सः उत्तरेत्,“अत्र ये ये विद्यन्ते भ्रातरः, भगिन्यः, पत्नी, पुत्राः, आप्ताः, तथैव प्रपञ्चे यानि यानि वस्तूनि अपेक्ष्यन्ते तानि सर्वाणि ममैव सन्ति”। तदनु देवस्य किम्? येन विश्वं निर्मितं तमेव विस्मरामः,तथा यद् निर्मितं तद् अस्मदीयं नु?एषः परमार्थः कथं भवेत्? अतो देव वर्तते इति भावयित्वा देवाय द्वारम् उद्घाटयन्तु, येन सः भवत्समीपे सदैव वसेत्। भावनया देवः आत्मीयः करणीयः। यत्रकुत्रापि भवन्तो गच्छन्ति तत्र देवम् आत्मना सह नयन्तु। तेन भवतां कृते न कापि भीतिः। रामम् आत्मना सह नयनम् इति वचनं जनान् विचित्रं भासेत, परं नास्तिकानां विषये अस्माकं किमपि कर्तव्यं न विद्यते। यः देवासक्तः जातः तस्य प्रपञ्चः नष्टः इति केचन वदन्ति। परं येन प्रपञ्चः निर्मितः तं विस्मृत्य प्रपञ्चः कथं सम्यग् भवेत्? कदापि न शक्यम्। तस्य स्मरणेन एव सः सम्यग् भवितुमर्हति। प्रपञ्चं त्यक्त्वा परमार्थः न भवितुमर्हति। प्रपञ्चं कुर्वन्तु परं तस्मिन् आसक्तिः मास्तु। भवन्तः जडभरतस्य कथां जानन्ति। गृहं त्यक्त्वा गतः भरतः आश्रमे मृगे आसक्त जा तः। मृगाः वा जनाः वा आसक्तिः द्वयोरपि समाना। यावद् आसक्तिः न गता तावत् परमार्थो व्यर्थः। आसक्तित्यागार्थं प्रयतन्ताम्। ‘मम रामो मां परितः सदैव वर्तते’ इति भावयन्तु। कश्चन अपृच्छत्,‘भवन्तः सर्वान् मानसपूजां कर्तुं सूचयन्ति, परम् एको रामः सर्वै सह कथं भवितुमर्हति?’। मया उक्तं भवान् मानसपूजां करोतु, भवतः समीपे सः भवेत्। सः तु सर्वव्याप्तः अतः तस्य गमनागमनं न वर्तते। अस्माभिः सः द्रष्टव्यः। भगवतो नामस्मरणं देहलीदीप: इव। तेन भगवान् प्रपञ्चः च द्वावपि प्रकाश्येते।
*** देवाय सर्वं समर्प्य निश्चिन्तता एव अनुसन्धानम्।***
सम्पाद्यताम्मार्च 23
सम्पाद्यताम्प्रपञ्चे भगवान् अपेक्ष्यते इति मन्तव्यम्।
सम्पाद्यताम्प्रत्येकं जनः सुखमिच्छति। भगवत्कृपा आत्मनि भवेत्, नामप्रेम भवेत् च इत्यपि अपेक्ष्यते। परम् एतादृशं वयं नानुभवामः। जगति कोपि सुखी समाधानी च न दृश्यते। किमर्थम् एतादृशं वर्तते? वयं सदाचारेण वर्तामहे, इति मन्यामहे। भगवत्पूजनं, भजनं च वयं सर्वे कुर्मः, परं समाधानं किमर्थं न लभामहे। एतस्य सत्यं कारणं विद्यते यद् भगवन्तं विना न किमपि प्रवर्तते इति अस्माभिः अद्यापि न मन्यते। भगवन्तं विना मम जीवनं न प्रवर्तेत, मम समाधानार्थं तस्य अतीव आवश्यकता विद्यते इति मनसा वयं न मन्यामहे एव। प्रपञ्चे धनधान्यमपेक्ष्यते, दारपुत्राः अपेक्ष्यन्ते कृषिभूमिः आवश्यकी, उद्योगो, वैभवं च आवश्यकं तथैव भगवान् अपि अपेक्ष्यते इति वयं चिन्तयामः। प्रपञ्चस्थितिः कथमपि भवेत्, भगवान् अपेक्ष्यते एव इति सिषाधयिषया मनसा च न चिन्तयामः।साम्प्रतं समाधानं लभ्येत इति आशया वयं प्रपञ्चं कुर्मः परम् एतावन्तं प्रपञ्चं कृत्वा कियत् समाधानं लब्धम् इति विमर्शं कुर्वन्तु। विविक्तदेशं गत्वा चिन्तयन्तु, बाल्यकालाद् अद्ययावत् कृतेन परिश्रमेण कियत् समाधानं प्राप्तमिति समालोचनं कुर्वन्तु, निश्चिन्वन्तु च। अधुना एतावन्ति वर्षाणि प्रपञ्च: कृत: परं स: अस्मभ्यं सुखं न यच्छति इति अनुभूयापि तं त्यक्तुं वयं न इच्छामः। प्रपञ्चे वयं सुखं लभामहे इति कल्पना एव नश्येत्। प्रपञ्चः अस्मभ्यं शाश्वतं समाधानं दातुं न शक्नोति इति एकदा निश्चयो भवति, दृढो निश्चयो भवति चेद् भगवत: आवश्यकतां वयं मन्यामहै। तदनन्तरं तस्य प्राप्त्यर्थं करणीये प्रयत्ने जगत् परिस्थितिः च न विक्षेपयिष्यतः। भगवान् मम आवश्यक: एव इति चिन्तनेन निश्चिते सति तस्य प्रेम अस्मासु आविर्भवेत् इति भावः उत्पत्स्यते? भगवत्प्रेम लब्धुं त्रयो मार्गाः। प्रथमः सत्सङ्गतिः, द्वितीयः सद्विचाराणां जोषणं, तृतीयः अखण्डनामस्मरणम्। तेषु यः शक्यः सः अनुसरणीयः।
*** भगवन्तम् इच्छामः इत्यत्रैव सर्वं रहस्यम्।***
सम्पाद्यताम्मार्च 24
सम्पाद्यताम्परमार्थस्य साधनरूपेण प्रपञ्च: उपयोक्तव्यः।
सम्पाद्यताम्अस्माकं वास्तवं समाधानं भगवत्समीपे वर्तते। तत्प्राप्तुं भगवति प्रेम अपेक्ष्यते। तत्कथं लभामहे इत्येतत् चिन्तयामः।वास्तविकं मातुः पुत्रे स्वाभाविकं प्रेम विद्यते। ‘पुत्रे प्रेम कुरु’ इति पाठनस्यावश्यकता न विद्यते। तद्वत् भगवति अस्माकं प्रेम अपेक्ष्यते। मनुष्यजन्मनः सार्थकता भगवत्प्राप्तिः। ईश्वरेण एतावती सृष्टिः निर्मिता। परं मनुष्यदेहनिर्माणेन तस्य महान् आनन्दःजातः। स अमन्यत, ‘नूनं, अस्यां योन्यां जातः मम प्रेम लब्ध्वा मां परिचिनोतुं शक्नुयात्’। तथापि मनुष्यः सहजं भगवतिन प्रीणाति। मनुष्यप्राणी सदा आनन्दार्थं परिश्राम्यति। तदनु अनेन परिश्रमेण सः भगवत्प्रेम किमर्थं न लभते? अहं मन्ये यं प्राप्तुं वयं परिश्राम्यामः तद् ध्येयम् अस्माभिः सम्यग् न निश्चीयते। शाश्वतम् आनन्दं येन लब्धुं शक्नुमः तादृशंध्येयं भवेत्। एतावता कष्टेन परिश्रमेण वयम् आनन्दं प्राप्तुं न शक्नुमः तर्हि अस्माकं ध्येयमेव दोषपूर्णमिति वक्तुं का हानिः? भवन्तः कथयन्तु, अधुना प्रपञ्चं वयं इच्छामः। प्रपञ्चे विद्यमानानि वस्तूनि अस्मभ्यं सुखं दद्युः इति वयं मन्यामहे, तदर्थं वयम् अनिशं प्रयतामहे च। वस्तुतः अस्माकं परिश्रमाः वस्तुने न, तस्माद् वयम् आनन्दं लप्स्यामहे इति कल्पनया वयं वस्तु इच्छामः। वस्तुनः समाधानं लभ्येत इति एषा कल्पना एव नश्येत्। साम्प्रतं प्रपञ्चे वयं समाधानं प्राप्स्यामः इति एषा कल्पना एव नष्टव्या। एषा प्रपञ्चस्य एषणा यावद् वर्तते तावद् वयं भगवत: दासत्वं न लब्धुं शक्नुमः; शाश्वतं समाधानं न प्राप्स्यामहे च। ‘त्वं जगदिच्छां त्यज; अहं तुभ्यं शाश्वतानन्दं ददामि’ इति भगवान् अस्मान् वदति। एषा जगदिच्छा, इदं प्रपञ्चप्रेम च कथं; विलीयेत? प्रपञ्चत्यागं विना भगवत्प्रेम लब्धुमेव न शक्नुमः नु? प्रपञ्चत्यागस्य अद्य अस्माकं सिद्धता नास्ति। तम् अत्यक्त्वापि वयं भगवतः कथं भवितुं शक्नुमः इति एतस्य मार्गः सत्पुरुषैः कथितः वर्तते। तेन मार्गेण गन्तव्यम्। यथा एकस्मात् कोशाद् धनं अपरस्मिन् कोशे स्थापयामः तथा प्रपञ्चे रतं मनो भगवति योजनीयम्। भगवन्तं प्रार्थयामहे यत्, ‘देव, प्रारब्धेन आगच्छन्त: भोगाः आगच्छेयुः, परं भवतः अनुसन्धानं न भञ्ज्यात्’।
*** दीपेन ज्वलनीयं चेत् सततं तैलं स्थापनीयम्। तद्वद् भगवतः अनुसन्धानार्थं सततं नामस्मरणं करणीयम्।***
सम्पाद्यताम्मार्च 25
सम्पाद्यताम्प्रपञ्चं केवलं कर्तव्यकर्म इति मत्वा कुर्वन्तु।
सम्पाद्यताम्कश्चन जनो धूम्रपाने बहु आसक्त आसीत्। रुग्णे जाते तेन वैद्यः उक्तः, यदि भवान् मह्यं औषधिं ददाति तर्हि अपि अहं धूम्रपानं न त्यजामि। वैद्यः बहु चतुरः। सः तस्मै एकां गुलिकां दत्त्वा उक्तवान् धूम्रपानसमये भवान् एतां मुखे धरतु। गुलिकया धूम्रपानविषं तं न बाधते स्म। अस्माभिः प्रपञ्चे तथैव वर्तनीयम्। प्रपञ्चः अस्मभ्यं सुखं दद्यात् इति एषा कल्पना एव नष्टव्या। तेन प्रपञ्चविषये लोभो न्यूनीभवेत्। तदनु केवलं कर्तव्यार्थं वयं प्रपञ्चं करिष्यामः। यावद् वयं प्रपञ्चे रताः तावत् कदापि समाधानं प्राप्तुं न शक्नुमः। प्रारब्धेन प्रपञ्चः आगतः, सः कर्तव्यकर्मरूपेण करणीयः, न तु सुखं लभ्येत इति कल्पनया। प्रापञ्चिकाः स्वभावतः विचित्राः। सत्यं वदामः चेत् तेभ्यः न रोचते। वास्तविकं अस्माकं प्रपञ्चिनां संहतिः कार्यार्थमेव । यथा रेलयाने बहवः प्रवासिनः कार्यार्थम् एकत्र आयान्ति तथा प्रपञ्चे वयं एकत्र स्मः। पञ्चभिः जनैः मिलितैः प्रपञ्चो भवति। तत्र प्रत्येकं जनः स्वार्थी विद्यते। एक: एव सुखं कथं लभेत? केवलः प्रपञ्चः तापदायकः न, सङ्कुचितः प्रपञ्चः तापदः। अस्माकं वास्तवं समाधानं भगवत्समीपे विद्यते इति दृढं मत्वा प्रपञ्चे वर्तनीयम्। यथा वाणिज्यं लाभार्थं कुर्वन्ति, लाभः न भवति चेद् वाणिज्यं व्यर्थम्, तद्वत् समाधानार्थं प्रपञ्चं कुर्मः। तन्न लभते चेत् प्रपञ्चलोभेन किम्? भवतः असमाधानस्य निश्चितं कारणं वदतु इति वदामः चेत् कोपि निश्चयेन वक्तुं न शक्नुयात्। एतस्य अर्थः विद्यते यत् तत्त्वदृष्ट्या समाधानं किमपि न अपेक्षते। परमिदं कोपि नाङ्गीकरोति। विद्यमानायां परिस्थित्यां समाधानं न स्थिरीभवति, इप्सितं वस्तु लभते चेदपि वयं पूर्णत्वेन सुखिनः न भवामः। कारागृहे निबद्धः सुखमनुभवितुं कथं शक्नुयात्? तद्वत् प्रपञ्चिनः अवस्था वर्तते। वस्तुतः प्रपञ्चे समाधानं आनन्द: च न लभ्येते इति सर्वेपि जानन्ति, परं नागरिकाः अभिमानेन, ग्रामिणः अज्ञानेन यथायोग्यं न व्यवहरन्ति। प्रपञ्चे स्थित्वापि भगवत्प्रेम समाधानं च कथं लभेमहि इति एतस्य आदौ चिन्तनं करणीयम्। नामस्मरणेन देहप्रेम सहजं नश्येत्। तदनु देहेन रचिते प्रपञ्चे प्रेम अपि न्यूनीभवेत्। अग्रे सः सर्वत्र परमेश्वरमेव पश्येत्।
*** प्रपञ्चः सुखमयः करणीयः इति एषः एव परमार्थः।***
सम्पाद्यताम्मार्च 26
सम्पाद्यताम्प्रपञ्चे विद्यमानं विषयसुखं न वास्तवं सुखम्।
सम्पाद्यताम्मनुष्यः जगति कियानपि महान् भवेत् तस्य प्रपञ्चे किमपि न्यूनं वर्तते एव। न्यूनतां विना न प्रपञ्चः। कश्चन प्रापञ्चिकः वदेत् मम प्रपञ्चः पूर्णः वर्तते, परं यत् प्रवर्तते तत् सदैव प्रवर्तेत; अस्मिन् किमपि न्यूनं तु न भवेत् ननु? इति आशङ्का तस्य मनसि वर्तते एव। अतः तस्मिन् अपि पूर्णं सुखं न विद्यते। कश्चन अतिविषय़ी चिन्तारहितः भवेत्। मदिराधीनः राज्ञः अपि गणनां नकरोति। तस्य वस्त्रभानमपि न वर्तते। सः स्वमत्ततायां आनन्दे च वर्तते। परम् इदं सर्वं यावत् तस्य मत्तता न विलीयते तावत्। विषयेण प्राप्तं सुखं परावलम्बि, विषये अवलम्बितं वर्तते। विषयाः नश्वराः,कदाचिद् अस्मत् गच्छन्ति एव। न्यूनातिन्यूनं अस्माभिः तेभ्यः गन्तव्यमेव। अपरं च विषयसुखम् इन्द्रियाधीनम्। इन्द्रियेषु विकलेषु सुखं कथं लभ्येत? श्वः अहं मरिष्ये इति ज्ञायते चेत् के विषयाः अस्मभ्यं सुखं दद्युः? सारांशेन विषयेषु सुखं न विद्यते। यद् सुखं भासते तद् आत्मनि एव वर्तते। तद् विषयेभ्यः लभ्यते इति अस्माकं वञ्चना एव भवति। तर्हि सुखं क्व विद्यते? बहूनि वस्तूनि प्रचुरं लभ्यन्ते, तर्हि भृशं सुखं लभ्येत इति भ्रमः एव। वास्तवं भृशं सुखं यद् विद्यते तद् शाश्वतं सनातनं सुखम्। तत् सनातनवस्तुसमीपे एव इत्युक्ते भगवत्समीपे वर्तते। अस्मत्सदृशं पशूनामपि विषयसुखं वर्तते। तेषु तथा अस्मासु कः भेदः? कोहं कुतः आयातः इति चिन्तनमेव सारासारचिन्तनम्। प्रपञ्चे अपि वयं चिन्तयामः। क्व अस्माकं लाभः क्व हानिः इति पश्यामः एव। परं यदि सर्वमेव असारं सारः कुतः कथमागच्छेत्?विद्यमानायां परिस्थित्यां वयं समाधानं न मन्यामहे। ततोपि अधिकां सुखकरीं स्थितिमिच्छामः। देवभक्तिः सत्पुरुषसङ्गः इति एतौ विषयौ वयं विषयप्राप्त्यर्थं कुर्मः। तेन अस्माकं एषा सेवा भक्तिः च विषयाणां वा सत्पुरुषाणां वा?देवः सत्पुरुषाः इति एतयोः उपयोगम् इतरवस्तुसदृशं विषयप्राप्तिसाधनरूपेण वयं कुर्मः ननु? बिडालः पुरतः मार्गम् उत्तरति तर्हि कार्यं न भवेत् इति भगवतः सूचना इति मत्वा वयं प्रत्यागच्छामः। परं एका भार्या म्रियते चेद् अपरां प्राप्तुं प्रयतामहे। सारांशेन अस्माकं ध्येयं विषयाः एव, तान् लब्धुं वयं परिश्राम्यामः। वस्तुतः यः मनुष्यः प्रपञ्चानुभवान् न गणयति सः कथमपि प्रबुद्धः न भवति।
*** प्रपञ्चे सुखित्वम् इत्युक्ते भगवदीयत्वम्।***
सम्पाद्यताम्मार्च 27
सम्पाद्यताम्प्रपञ्चे विद्यमानं सुखदुःखं केवलं भाने विद्यते।
सम्पाद्यताम्प्रापञ्चिकानां मनः एका शङ्का आयाति यद् असत्यव्यवहारेण यदि सुखिनः भवितुं शक्नुमः, तर्हि तेन व्यवहारेण का हानिः? सन्मार्गी जनो दुःखी कथं भवति इति शङ्का मनसिजायते। अहं देवाद् भीत्वा व्यवहृतवान्। किमर्थम्? तर्हि प्रपञ्चं सुखकरं कर्तुम्। देवाय एतावतः परिश्रमान् कृत्वापि यदि सुखिनः भवितुं न शक्नुमःतर्हि क: लाभः? कियत् विचित्रम्! बालक्रीडायां गृहं निर्मातुं अभियन्तारः आह्वानीयाः, तादृशम् इदं दृश्यते। प्रपञ्चे दक्षता अपेक्ष्यते। सा यदि अस्माभिः न रक्षिता तर्हि देवः किं कुर्यात्? भगवतः साधनरूपेण वयं उपयोगं कुर्मः अनन्तरं तमेव दूषयामः, साध्यं तु दूरे एव तिष्ठेत्। भगवान् विषयभोगान् दद्यात् परं तैः सह लग्नं दुःखमपि दद्यात्। कश्चन मारुतिं उक्त्वा चौर्यं करोति स्म। अनन्तरं स निगृहीतो दण्डितः च तद् दण्डनमपि मारुतिसम्मत्या एव ननु? कोहम् इति यावद् वयं न जानीमः तावद् वैभवशिखरमपि लभ्येत, समाधानं प्राप्तुं न शक्नुमः। यस्मात् प्रपञ्चो निर्मितः सः ज्ञातव्यः। देह: एव न सत्यं, तर्हि तस्योपरि रचितं भवनं कथं सत्यं भवेत्? योजनं कृत्वा वयं प्रपञ्चं कुर्मः, तर्हि तस्मिन् न्यूनता आयाति एव। अङ्गारघर्षणेन श्वेतवर्णो लभ्येत इति वल्गना यथा मूर्खता तथैव प्रपञ्चे सुखं लभ्येत इति वचनं विद्यते। सुखदुःखं भाने विद्यते। यावद् लब्धव्यं तावद् लभ्यते एव, परमस्माकम् इच्छानिच्छा अस्माकं वासना गता चेत्सुखदुःखं विलीयते। वासनां हन्तुं भगवदधिष्ठानमेव एकः उपायः। वासना लालितकुक्कुरवद् वर्तते। केवलं हड् हड् इति करणेन सा दूरं न गच्छति। परं तदपि सम्यगेव। अस्माभिः एव सा लालिता अत: एव सा भगवत्पूजासमये देवगृहमायाति। अस्तु, सुष्ठुवासनाम् एव अन्त: अनुमन्यामहे तर्हि असमीचीना वासना अपि मन्दम् अन्त: आयाति। अपि च असाधुवासनायां साधुवासनां हन्तुं बलं विद्यते। यतो हि वयं स्वयम् असाधुवासनया सह स्मः। वासना केनापि उपायेन तृप्ता भवितुं न शक्नोति वयं यदि भगवत्समीपे निवसामः तर्हि एव सा नश्यति। अहं न कर्ता परमेश्वरः कर्ता इति एतया भावनया विना मनो भगवते अर्पितं न भवेत्। तद्असमर्प्य फलापेक्षा न निर्गच्छेत्। फलापेक्षा न नश्येत् चेद् जीवः न शान्तिं लभेत।
*** वासना इत्युक्ते अस्माकं देवविरुद्धा इच्छा।***
सम्पाद्यताम्मार्च 28
सम्पाद्यताम्भगवतः स्मृतिः कर्तव्यजागृतिः च।
सम्पाद्यताम्प्रत्येकं जनः भाषणे ‘अहं’‘मम’ च इति पौनःपुन्येन वदति, इत्युक्ते तस्य द्वयोः विषये कानिचित् कर्तव्यानि सन्ति। ‘मम’ शब्दार्थे शरीरं तथा च तत्सम्बन्धिनः सर्वे विषयाःसमाविष्टाः। जीवने ‘अहम्’ इति एतस्य कर्तव्यं परमेश्वरप्राप्तिः वर्तते। देहस्य कर्तव्यं देहसम्बन्धिनः प्रत्येकं जनविषये वर्तते। देहकर्तव्ये धर्मशास्त्रनीत्याधारेण सम्बन्धितेन जनेन सह करणीयस्य आचरणस्य समावेशः वर्तते, इत्युक्ते येन यथा अस्माकं सम्बन्धः तेन सह तथा स्वकर्तव्यं सम्यग् आचरणीयम्। कर्तव्यमित्युक्ते प्रतिफलापेक्षां विना यस्मिन् विषये यत् करणं योग्यं तत् सम्यक् करणीयम्। मनुष्येण‘अहं तथा देह:’ इति द्वयोः विषये स्वकर्तव्यानि युगपत् सम्यग् आचरणीयानि। ‘अहंकर्तव्यं करिष्यामि, परं देहेन कथमपि व्यवहरिष्यामि’ इति न योग्यम्। यतो हि, चिन्तयन्तु, सेवावृत्तिरतः जनः किमर्थं सेवां करोति इति पश्यामः चेत् तां कर्तुम् अन्यः कोऽपि नास्ति इति न; परं सेवावृत्त्या प्राप्तं धनं सः गृहकार्यार्थम् उपयुङ्क्ते। तेन सेवावृत्तिः कृता परं ततः प्राप्तं धनं गृहे न दत्तं तर्हि सेवया न कोऽपि लाभः।तद्वत् अहं-कर्तव्यम् इत्युक्ते भगवदनुसन्धानं कृतं, परं देहकर्तव्यम् इत्युक्ते सदाचरणं, सम्बन्धिजनैः सह कर्तव्यानि च न कृतानि तर्हि धनं गृहे न दत्तमिति भवेत्। अतः प्रत्येकं जनेन भगवत्स्मृतिः, कर्तव्यजागृतिः च रक्षणीये। एतया दृष्ट्या कुत्र प्रमादः भवति इति एतस्य शोधनं वर्धापनदिने कृत्वा स्वोन्नतिः करणीया। यथा भोजनसमये परितः सुगन्धः, मुखे मधुरः कवलः च यथा भवेत् तथा अस्माकं वाणी बहिर्मधुरा भवेत्, अन्तरङ्गे भगवतः मधुरनामस्मरणं भवेत् च इत्युक्ते अस्माभिः अन्तर्बाह्यं मधुरेण भवितव्यम्। यथा कश्चन गायकः बहून् आलापान् गायति, परम् अन्ते समम् आयाति तद्वद् भगवन्तम् अवधाय अस्माभिः किमपि कृतं तर्हि चिन्ता नास्ति। परं समं विस्मृत्य न कोऽपि लाभः। अत्र ऊर्ध्वकवादकः भगवान् एव। तस्यैव तालः सम्यक् प्रवर्तते। तम् अनुसृत्य इत्युक्ते तस्य स्मरणे, यः गायकः गायति सः सम्यग् गायति, अन्ते समम् आयाति च।
***फलापेक्षां विहाय कर्म इत्युक्ते कर्तव्यम्।***
सम्पाद्यताम्मार्च 29
सम्पाद्यताम्प्रपञ्चे अस्माभिः साक्षित्वेन व्यवहर्तव्यम्।
सम्पाद्यताम्सत्यस्य परिचयःइत्युक्ते परमार्थः। असत्यं सत्यम् इति मननं प्रपञ्चः। वयं वस्तु पश्यामः तत् तथैव भवेत् इति न, परं तत् किमपि न इत्यपि न,तत् तु किमपि वर्तते। एकया दृष्ट्या सत्यम् एतादृशं वर्तते यत् प्रत्येकं जनः तत्र यान् गुणान् योजयति, ते सर्वे गुणाः तस्मिन् वर्तन्ते एव, अपि च ततः अपि कतिपये गुणाः तस्मिन् वर्तन्ते। अतः तद् निर्गुणम्। अन्यया दृष्ट्या प्रत्येकं जनः यं गुणं तत्र योजयति,कल्पनया एव तस्मिन् वर्तते इति वयं वदामः, अतः तद् गुणातीतं वर्तते। एतेन अर्थेन अपि तद् निर्गुणमेव। यथा अस्माकं देहस्य रचना वर्तते तथा सर्वसृष्ट्याः अपि रचना वर्तते। देहे विद्यमानाः पञ्चकोशाः सृष्ट्यामपि वर्तन्ते। भेदाः ये देहे ते मूर्ताः।ते सृष्ट्याम् अमूर्ताः। भगवान् एकाकी न रमते, अतः सः बहुविधः जातः। तस्य एषः गुणः मनुष्येणापि स्वीकृतः। विलासार्थं वयं विस्तरामः। भेदः यद् भगवान् वर्धिते विस्तरे साक्षित्वेन स्थितः, वयं विस्तरेलिप्ताः। भगवान् सुखदुःखातीतः। वयं तु दुःखे पतिताः। विस्तराद् इत्युक्ते परिस्थितितः यः बहिः तिष्ठति,सः दुःखं न अनुभवेत्। वस्तुतःविस्तराद् बहिः स्थातुमेव सर्वे परिश्रमाः। विस्तरः दुःखदः न भवेद् इति, यदि इच्छामः तर्हि अस्माभिः साक्षित्वेन स्थातुं पठनीयम्। वयं जगति विस्तरम् आनन्दार्थं वर्धयामहे, परं भगवन्तं विहाय विद्यमानः आनन्दः कारणे अवलम्बित:, अतः यदा कारणानि नश्यन्ति तदा सः अपि विलीयते। एतदर्थं सः आनन्दः नश्वरः। वास्तवः आनन्दः क्व लभ्यते इति द्रष्टव्यः। जीवनम् इत्युक्ते शरीरे चैतन्यम्। चैतन्यं केवलं सच्चिदानन्दात्मकं विद्यते। अतः यावद्वयं जीवामः तावद् स्वाभाविकेन आनन्देन भवितव्यमेव। एतम् आनन्दं वयं भुञ्जेमहि। ब्रह्मानन्दः सुषुप्तिः च एतयोः मध्ये भेदः वर्तते। ब्रह्मानन्दः अस्तित्वेन वर्तते सुषुप्त्यानन्दः नास्तित्वेन वर्तते। निद्रितः चेत् किं गच्छति, जागरितः चेद् किम् आयाति इति नित्यम् अनुभवेन अपि वयं न जानीमः। भगवतः इच्छया सर्वं प्रवर्तते, सः एव सर्वं करोति इति एतादृश्या भावनया सदृशं समाधानम् न विद्यते। कर्मकरणे आनन्दः, न तु फले फलाशये वा। नामस्मरणकृतौ शाश्वतानन्दस्य सहजं लाभः भवेत्।
*** भगवत्स्मरणे कर्तव्यं कृतं चेद् जीवने आनन्दः उत्पद्यते।***
सम्पाद्यताम्मार्च 31
सम्पाद्यताम्आत्मानं परिष्करोतु, तदनुसारेण जगदपि परिष्कुर्यादेव।
सम्पाद्यताम्‘वयमेव सर्वकर्तारः’ इति वयं मन्यामहे। तदनु दुःखं भवति चेत् खिन्नाः भवामः। यस्य फलम् अस्माकं हस्ते न विद्यते तत् कर्म मया कृतमिति वचने कः पुरुषार्थः? अहं भगवतः कर्म भगवते समर्पयामि इति वदामः। एतस्यापि अभिमानः वर्तते। जगति सात्विकवृत्त्या व्यवहरन्तः जनाः बहवः सन्ति। परं तान् अपि एषः अभिमानःन मुञ्चति। केवलं कर्मणा परमार्थः न लभ्यते ननु। ‘नाहं कर्ता’ इति ज्ञायते चेत् सर्वं सिद्ध्यति। अविद्यमानं कर्तृत्वं स्वीकृत्य मनुष्यः सुखी दुःखी वा भवति। कर्त्रे कर्तृत्वं दत्त्वा अस्माभिः सुखदुःखातीतत्वेन भवितव्यम्। यः प्रकोष्ठे सुखं मन्यते, सः काराबद्धः। सः वस्तुतः सुखे स्यादिति वयं मन्यामहे। देहातीतं किमपि न विद्यते, विषये एव सर्वं सुखं विद्यते चेति यदि वयं मन्यामहे तर्हि तद् बद्धजनसदृशमेव ननु! कदाचिद् बाह्यजगत्स्पर्शः भवति चेत् काराबद्धजीवनं सुखकरमिति सः न मन्येत। तथैव भगवतःआनन्दस्पर्शः जातः चेद् मनुष्यः विषये न लीनः भवेत्। चित्तं वयं निर्विषयं कर्तुं न शक्नुमः, परं तद् भगवति योजयितुं न शक्नुमः इति न। व्रात्यम् अश्वं यथा समञ्जनेन चालयामः तथा मनोविषये करणीयं भवेत्। यदा वृत्तिः परिवर्तते तदा सावधानेन भवितव्यम्। भगवत्स्मरणं विस्मरति चेद् मनः अस्वस्थं भवेत्। अधुना अप्रियं नामस्मरणं बलेन कारयामः चेत्प्रियविषयाः निर्गच्छन्ति। प्रपञ्चसमस्यां परिहरामः तर्हि परमार्थसमस्येभ्यः किमर्थं बिभीमः। यदि वयं विवेकेन सुखिनः भवितुं न शक्नुमः तर्हि सुखं कदापि न प्राप्स्यामः। केवलं गिरिवनं गत्वा परमार्थः सिद्ध्यति किम्? तथा भवति चेद् मर्कटानामपि सिद्ध्येत्। अधस्तनप्राणिनः विकारनियमनस्य चिन्तनमपि कर्तुं न शक्नुवन्ति। परं मनुष्यः साध्वसाधू जानाति। सः सारासारविचारं कर्तुं शक्नोति। एषा तस्य उपरि भगवत्कृपा एव। जगत्परिष्कारकार्ये न भवितव्यम्। तदर्थं विशिष्टजनाः जायन्ते। स्वपुत्रः अपि भवेत् तं योग्यकथनं पर्याप्तम्, परम्‘अहं तं सम्यक् करिष्यामि एव’ इति भ्रमः मास्तु। आत्मानं परिष्करोतुजगदपि परिष्कुर्यात्।