व्यवहाराध्यायः
साधारणव्यवहारमातृकाप्रकरणम्

अभिषेकादिगुणयुक्तस्य राज्ञः प्रजापालनं परमो धर्मः । तच् च दुष्टनिग्रहम् अन्तरेण न संभवति । दुष्टपरिज्ञानं च न व्यवहारदर्शनम् अन्तरेण संभवति । तद् व्यवहारदर्शनम् अहर् अहः कर्तव्यम् इत्य् उक्तं :

व्यवहारान् स्वयं पश्येत् सभ्यैः परिवृतोऽन्वहम् । इति । (या०ध० १.३६०)

स च व्यवहारः कीदृशः कतिविधः कथं चेतीतिकर्तव्यताकलापो नाभिहितः । तदभिधानाय द्वितीयोऽध्याय आरम्भ्यते "व्यवहारान्" इति ।

व्यवहारान् नृपः पश्येद् विद्वद्भिर् ब्राह्मणैः सह ।
धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः ॥ या०ध०२.१

अन्यविरोधेन स्वात्मसंबन्धितया कथनं व्यवहारः । यथा कश्चिद् इदं क्षेत्रादि मदीयम् इति कथयति, अन्योऽपि तद्विरोधेण मदीयम् इति । तस्यानेकविधत्वं दर्शयति बहुवचनेन । नृप इति न क्षत्रियमात्रस्यायं धर्मः किं तु प्रजापालनाधिकृतस्यान्यस्यापीति दर्शयति । पश्येद् इति पूर्वोक्तस्यानुवादो धर्मविशेषविधानार्थः । विद्वद्भिर् वेदव्याकरणादिधर्मशास्त्राभिज्ञैः । ब्राह्मणैर् न क्षत्रियादिभिः । ब्राह्मणैः सहेति तृतीयानिर्देशाद् एषाम् अप्राधान्यम् । "सहयुक्तेऽप्रधाने" इति स्मरणात् (ढ़ाण् २.३.१९) । अतश् चादर्शनेऽन्यथादर्शने वा राज्ञो दोषो न ब्राह्मणानाम् । यथाह मनुः ।

"अदण्ड्यान् दण्डयन् राजा दण्ड्यांश् चैवाप्य् अदण्डयन् ।
अयशो महद् आप्नोति नरकं चैव गच्छति ॥" इति । (या०ध० ८.१२८)

कथम् । धर्मशास्त्रानुसारेण नार्थशास्त्रानुसारेण । देशादिसमयधर्मस्यापि धर्मशास्त्राविरुद्धस्य धर्मशास्त्रविषयत्वान् न पृथगुपादानम् । तथा च वक्ष्यति :

निजधर्माविरोधेन यस् तु सामयिको भवेत् ।

सोऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश् च यः ॥ इति । (या०ध० २.१८६)

क्रोधलोभविवर्जित इति । धर्मशास्त्रानुसारेणेति सिद्धे क्रोधलोभविवर्जित इति वचनम् आदरार्थम् । क्रोधोऽमर्षः । लोभो लिप्सातिशयः ॥ २.१ ॥

सभ्यांश् चाह ।

श्रुताध्ययन्संपन्ना धर्मज्ञाः सत्यवादिनः ।
राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ॥ या०ध०२.२

किं च श्रुताध्ययनसंपन्नाः श्रुतेन मीमांसाव्याकरणादिश्रवणेन अध्ययनेन च वेदाध्ययनेन संपन्नाः । धर्मज्ञाः धर्मशास्त्रज्ञाः । सत्यवादिनः सत्यवचनशीलाः । रिपौ मित्रे च ये समाः रागद्वेषादिरहिताः । एवंभूताः सभासदः सभायां संसदि यथा सीदन्त्य् उपविशन्ति तथा दानमानसत्कारे राज्ञा कर्तव्याः । यद्य् अपि श्रुताध्ययनसंपन्ना इत्य् अविशेषेणोक्तं तथापि ब्राह्मणा एव । यथाह कात्यायनः :

"स तु सभ्यैः स्थिरैर् युक्तः प्राज्ञैर् मौलैर् द्विजोत्तमैः ।
धर्मशास्त्रार्थकुशलैर् अर्थशास्त्रविशारदैः ॥" इति । (का०स्मृ० ५७)

ते च त्रयः कर्तव्याः बहुवचनस्यार्थवत्त्वात्,

"यस्मिन् देशे निषीदन्ति विप्रा वेदविदस् त्रयः ।" (मा०ध० ८.११)

इति मनुस्मरणाच् च । बृहस्पतिस् तु सप्त पञ्च त्रयो वा सभासदो भवन्तीत्याह ।

"लोकवेदज्ञधर्मज्ञाः सप्त पञ्च त्रयोऽपि वा ।
यत्रोपविष्टा विप्राः स्युः सा यज्ञसदृशी सभा ॥" इति । (बृ०स्मृ० १.५९)

न च ब्राह्मणैः सहेति पूर्वश्लोकोक्तानां ब्राह्मणानां श्रुताध्ययनसंपन्ना इत्यादिविशेषणम् इति मन्तव्यम्, तृतीयाप्रथमान्तनिर्दिष्टानां विशेषणविशेष्यभावासंभवात्, विद्वद्भिर् इत्य् अनेन पुनरुक्तिप्रसङ्गाच् च । तथा च कात्यायनेन ब्राह्मणानां सभासदां च स्पष्टं भेदो दर्शितः :

"सप्राड्विवाकः सामात्यः सब्राह्मणपुरोहितः ।
ससभ्यः प्रेक्षको राजा स्वर्गे तिष्टति धर्मतः ॥" इति । (का०स्मृ० ५६)

तत्र ब्राह्मणा अनियुक्ताः सभासदस् तु नियुक्ता इति भेदः । अत एवोक्तम् :

"नियुक्तो वानियुक्तो वा धर्मज्ञो वक्तुम् अर्हति ।" इति ।

तत्र नियुक्तानां यथावस्थितार्थकथनेऽपि यदि राजान्यथा करोति तदासौ निवारणीयोऽन्यथा दोषः । उक्तं च कात्यायनेन ।

"अन्यायेनापि तं यान्तं येऽनुयान्ति सभासदः ।
तेऽपि तद्भागिनस् तस्माद् बोधनीयः स तैर् नृपः ॥" इति । (का०स्मृ० ७५)

अनियुक्तानां पुनर् अन्यथाभिधानेऽनभिधाने वा दोषो न तु राज्ञोऽनिवारणे,

"सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् ।
अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी ॥" (मा०ध० ८.१३)

इति मनुस्मरणात् । रिपौ मित्रे चेति चकाराल् लोकरञ्जनार्थं कतिपयैर् वणिग्भिर् अप्य् अधिष्ठितं सदः कर्तव्यम् । यथाह कात्यायनः :

"कुलशीलवयोवृत्तवित्तवद्भिर् अमत्सरैः ।
वणिग्भिः स्यात् कतिपयैः कुलभूतैर् अधिष्ठितम् ॥" इति ॥ (का०स्मृ० ५८) ॥२.२ ॥

व्यवहारान् नृपः पश्येद् इत्य् उक्तम् । तत्रानुकल्पम् आह ।

अपश्यता कार्यवशाद् व्यवहारान् नृपेण तु ।
सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित् ॥ या०ध०२.३

कार्यान्तरव्याकुलतया व्यवहारान् अपश्यता नृपेण पूर्वोक्तैः सभ्यैः सह सर्वधर्मवित्, सर्वान् धर्मशास्त्रोक्तान् सामयिकांश् च धर्मान् वेत्ति विचारयतीति सर्वधर्मवित्, ब्राह्मणो न क्षत्रियादिर् नियोक्तव्यो व्यवहारदर्शने । तं च कात्यायनोक्तगुणविशिष्टं कुर्यात् । यथाह ।

"दान्तं कुलीनं मध्यस्थम् अनुद्वेगकरं स्थिरम् ।
परत्र भीरुं धर्मिष्ठम् उद्युक्तं क्रोधवर्जितम् ॥" इति । (का०स्मृ० ६४)

एवंभूतब्राह्मणासंभवे क्षत्रियं वैश्यं वा नियुञ्जीत न शूद्रम् । यथाह कात्यायनः ।

"ब्राह्मणो यत्र न स्यात् तु क्षत्रियं तत्र योजयेत् ।
वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ॥" इति । (का०स्मृ० ६७)

नारदेन त्व् अयम् एव मुख्यो दर्शितः ।

"धर्मशास्त्रं पुरस्कृत्य प्राड्विवाकमते स्थितः ।" (ना०स्मृ० १.२९)

न स्वमते स्थितः । राजा चारचक्षुषा परसैन्यं पश्यतीतिवत् । तस्य चेयं यौगिकी संज्ञा । अर्थिप्रत्यर्थिनौ पृच्छतीति प्राट्, तयोर् वचनं विरुद्धम् अविरुद्धं च सभ्यैः सह विविनक्ति विवेचयति वेति विवाकः । प्राट् चासौ विवाकश् च प्राड्विवाकः । उक्तं च ।

"विवादानुगतं पृष्ट्वा ससभ्यस् तत् प्रयत्नतः ।
विचारयति येनासौ प्राड्विवाकस् ततः स्मृतः ॥" इति ॥ २.३ ॥

प्राड्विवाकादयः सभ्या यदि रागादिना स्मृत्यपेतं व्यवहारं विचारयन्ति तदा राज्ञा किं कर्तव्यम् इत्य् अत आह ।

रागाल् लोभाद् भयाद् वापि स्मृत्यपेतादिकारिणः ।
सभ्याः पृथक् पृथग् दण्ड्या विवादाद् द्विगुणं दमम् ॥ या०ध०२.४

अपि च, पूर्वोक्ताः सभ्या रजसो निरङ्कुशत्वेन तदभिभूता रागात् स्नेहातिशयाल् लोभाल् लिप्सातिशयाद् भयात् संत्रासात् स्मृत्यपेतं स्मृतिविरुद्धं आदिशब्दाद् आचारापेतं कुर्वन्तः पृथक् पृथग् एकैकशो विवादाद् विवादपराजयनिमित्ताद् दमाद् द्विगुणं दमं दण्ड्याः न पुनर् विवादास्पदीभूताद् द्रव्यात् । तथा सति स्त्रीसंग्रहणादिषु दण्डाभावप्रसङ्गः । रागलोभभयानाम् उपादानं रागादिष्व् एव द्विगुणो दमो नाज्ञानमोहादिष्व् इति नियमार्थम् । न च "राजा सर्वस्येष्टे ब्राह्मणवर्जम्" (गौ०ध० ११.१) इति गौतमवचनान् न ब्राह्मणा दण्ड्या इति मन्तव्यम्, तस्य प्रशंसार्थत्वात् । यत् तु षड्भिः परिहार्यो राज्ञाऽवध्यश् चाबन्ध्यश् चादण्ड्यश् चाबहिष्कार्यश् चापरिवाद्यश् चापरिहार्यश् चेति तद् अपि स एष बहुश्रुतो भवति लोकवेदवेदाङ्गविद् वाकोवाक्येतिहासपुराणकुशलस् तदपेक्षस् तद्वृत्तिश् चाष्टचत्वारिंशत्संस्कारैः संस्कृतस् त्रिषु कर्मस्व् अभिरतः षट्सु वा समयाचारिकेष्व् अभिविनीत इति प्रतिपादितबहुश्रुतविषयं न ब्राह्मणमात्रविषयम् ॥ २.४ ॥

व्यवहारविषयम् आह ।

स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः ।
आवेदयति चेद् राज्ञे व्यवहारपदं हि तत् ॥ या०ध०२.५

धर्मशास्त्रसमयाचारविरुद्धेन मार्गेण परैर् आधर्षितोऽभिभूतो यद् राज्ञे प्राड्विवाकाय वा आवेदयति विज्ञापयति चेद् यदि तद् आवेद्यमानं व्यवहारपदं प्रतिज्ञोत्तरसंशयहेतुपरामर्शप्रमाणनिर्णयप्रयोजनात्मको व्यवहारस् तस्य पदं विषयस् तस्य चेदं सामान्यलक्षणम् । स व द्विविधः । शङ्काभियोगस् तत्त्वाभियोगश् चेति । यथाह नारदः ।

"द्व्यभियोगस् तु विज्ञेयः शङ्कातत्त्वाभियोगतः ।
शङ्काऽसतां तु संसर्गात् तत्त्वं होढाभिदर्शशनात् ॥" इति । (ना०स्मृ०मा० १.२२)

होढा लोप्त्रं । लिङ्गम् इति यावत् । तेन दर्शनं साक्षाद् वा दर्शनं होढाभिदर्शनं तस्मात् । तत् त्व् आभियोगोऽपि द्विविधः । प्रतिषेधात्मको विध्यात्मकश् चेति । यथा मत्तो हिरण्यादिकं गृहीत्वा न प्रयच्छति । क्षेत्रादिकं ममायम् अपहरतीति च । उक्तं च कात्यायनेन :

"न्याय्यं स्वं नेच्छते कर्तुम् अन्याय्यं वा करोति यः ।" इति । (का०स्मृ० १३९)

स पुनश् चाष्टादशधा भिद्यते । यथाह मनुः :

"तेषाम् आद्यम् ऋणादानं निक्षेपोऽस्वामिविक्रयः ।
संभूय च समुत्थानं दत्तस्यानपकर्म च ॥
वेतनस्यैव चादानं संविदश् च व्यतिक्रमः ।
क्रयविक्रयानुशयो विवादः स्वामिपालयोः ॥
सीमाविवादधर्मश् च पारुष्ये दण्डवाचिके ।
स्तेयं च साहसं चैव स्त्रीसंग्रहणम् एव च ॥
स्त्रीपुंधर्मो विभागश् च द्यूतम् आह्वय एव च ।
पदान्य् अष्टादशैतानि व्यवहारस्थिताव् इह ॥" इति ॥ (मा०ध० ८.४–७)

एतान्य् अपि साध्यभेदेन पुनर् बहुत्वं गतानि । यथाह नारदः :

"एषाम् एव प्रभेदोऽन्यः शतम् अष्टोत्तरं भवेत् ।
क्रियाभेदान् मनुष्याणां शतशाखो निगद्यते ॥" इति ॥ (ना०स्मृ०मा० १.२०)

"आवेदयति चेद् राज्ञे" इत्य् अनेन स्वयम् एवागत्यावेदयति न राजप्रेरितस् तत्पुरुषप्रेरितो वेति दर्शयति । यथाह मनुः :

"नोत्पादयेत् स्वयं कार्यं राजा नाप्य् अस्य पूरुषः ।
न च प्रापितम् अन्येन ग्रसेतार्थं कथंचन ॥" इति ॥ (मा०ध० ८.४३)

परैर् इति परेण पराभ्यां परैर् इत्य् एकस्यैकेन द्वाभ्यां बहुभिर् वा व्यवहारो भवतीति दर्शयति ॥ यत् पुनः,

"एकस्य बहुभिः सार्धं स्त्रीणां प्रेष्यजनस्य च ।
अनादेयो भवेद् वादो धर्मविद्भिर् उदाहृतः ॥" (ध०को० ११४)

इति नारदवचनं तद् भिन्नसाध्यद्वयविषयम् । "आवेदयति चेद् राज्ञे" इत्य् अनेनैव राज्ञा पृष्टो विनीतवेष आवेदयेत् । आवेदितं च युक्तं चेन् मुद्रादिना प्रत्यर्थ्याह्वानम् अकल्पादीनां चानाह्वानम् इत्याद्य् अर्थसिद्धम् इति नोक्तम् । स्मृत्यन्तरे तु स्पष्टार्थम् उक्तम् । यथा :

"काले कार्यार्थिनं पृच्छेद् गृणन्तं पुरतः स्थितम् ।
किं कार्यं का च ते पीडा मा भैषीर् ब्रूहि मानव ॥
केन कस्मिन् कदा कस्मात् पृच्छेद् एवं सभागतम् ।
एवं पृष्टः स यद् ब्रूयात् स सभ्यैर् ब्राह्मणैः सह ॥
विमृश्य कार्यं न्याय्यं चेद् आह्वानार्थम् अतः परम् ।
मुद्रां वा निक्ष्पेत् तस्मिन् पुरुषं वा समादिशेत् ॥
अकल्पबालस्थविरविषमस्थक्रियाकुलान् ।
कार्यातिपातिव्यसनिनृपकार्योत्सवाकुलान् ।
मत्तोन्मत्तप्रमत्तार्तान् भृत्यान् नाह्वानयेन् नृपः ॥
न हीनपक्षां युवतिं कुले जातां प्रसूतिकाम् ।
सर्ववर्णोत्तमां कन्यां ता ज्ञातिप्रभुकाः स्मृताः ॥
तदधीनकुटुम्बिन्यः स्वैरिण्यो गणिकाश् च याः ।
निष्कुला याश् च पतितास् तासाम् आह्वानम् इष्यते ॥
कालं देशं स विज्ञाय कार्याणां च बलाबले ।
अकल्पादीन् अपि शनैर् यानैर् आह्वानयेन् नृपः ॥
ज्ञात्वाभियोगं येऽपि स्युर् वने प्रव्रजितादयः ।
तान् अप्य् आह्वानयेद् राजा गुरुकारेष्व् अकोपयन् ॥" इति ।

आसेधव्यवस्थाप्य् अर्थसिद्धैव नारदेनोक्ता :

"वक्तव्येऽर्थे ह्य् अतिष्ठन्तम् उत्क्रामन्तं च तद्वचः ।
आसेधयेद् विवादार्थी यावद् आह्वानदर्शनम् ॥
स्थानासेधः कालकृतः प्रवासात् कर्मणस् तथा ।
चतुर्विधः स्याद् आसेधो नासिद्धस् तं विलङ्घयेत् ॥
आसेधकाल आसिद्ध आसेधं योऽतिवर्तते ।
स विनेयोऽन्यथाकुर्वन् नासेद्धा दण्डभाग् भवेत् ॥
नदीसन्तारकान्तारदुर्देशोपप्लवादिषु ।
आसिद्धस् तं परासेधम् उत्क्रामन् नापराध्नुयात् ॥
निर्वेष्टुकामो रोगार्तो यियक्षुर् व्यसने स्थितः ।
अभियुक्तस् तथान्येन राजकार्योद्यतस् तथा ॥
गवां प्रचारे गोपालाः सस्यावापे कृषीवलाः ।
शिल्पिनश् चापि तत्कालम् आयुधीयाश् च विग्रहे ॥" इति । (ना०स्मृ०मा० १.४१–४६)

आसेधो राजाज्ञयाऽवरोधः । अकल्पादयः पुत्रादिकम् अन्यं वा सुहृदं प्रेषयेयुः, न च ते परार्थवादिनः,

"यो न भ्राता न च पिता न पुत्रो न नियोगकृत् ।
परार्थवादी दण्ड्यः स्याद् व्यवहारेषु विब्रुवन् ॥" (ना०स्मृ०मा० २.२३)

इति नारदवचनात् ॥ २.५ ॥

प्रत्यर्थिनि मुद्रालेख्यपुरुषाणाम् अन्यतमेनानीते किं कुर्याद् इत्य् अत आह ।

प्रत्यर्थिनोऽग्रतो लेख्यं यथावेदितम् अर्थिना ।
समामासतदर्धाहर्नामजात्यादिचिह्नितम् ॥ या०ध०२.६

अर्थ्यते इत्य् अर्थः साध्यः, सोऽस्यास्तीत्य् अर्थी, तत्प्रतिपक्षः प्रत्यर्थी, तस्याग्रतः पुरतो लेख्यं लेखनीयम् । यथा येन प्रकारेण पूर्वम् आवेदनकाले आवेदितं तथा । न पुनर् अन्यथा, अन्यथावादित्वेन व्यवहारस्य भङ्गप्रसङ्गात् ।

"अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः ।
आहूतः प्रपलायी च हीनः पञ्चविधः स्मृतः ॥" इति । (ना०स्मृ०मा० २.३३)

आवेदनकाल एवार्थिवचनस्य लिखितत्वात् पुनर्लेखनम् अनर्थकम् इत्य् अत आह समामासेत्यादि । संवत्सरमासपक्षतिथिवारादिना, अर्थिप्रत्यर्थिनामब्राह्मणजात्यादिचिह्नितम् । आदिशब्देन द्रव्यतत्संख्यास्थानवेलाक्षमालिङ्गादीनि गृह्यन्ते ॥ यथोक्तम् :

"अर्थवद् धर्मसंयुक्तं परिपूर्णम् अनाकुलम् ।
साध्यवद् वाचकपदं प्रकृतार्थानुबन्धि च ॥
प्रसिद्धम् अविरुद्धं च निश्चितं साधनक्षमम् ।
संक्षिप्तं निखिलार्थं च देशकालाविरोधि च ॥
वर्षर्तुमासपक्षाहोवेलादेशप्रदेशवत् ।
स्थानावसथसाध्याख्याजात्याकारवयोयुतम् ॥
साध्यप्रमाणसंख्यावद् आत्मप्रत्यर्थिनामवत् ।
परात्मपूर्वजानेकराजनामभिर् अङ्कितम् ॥
क्षमालिङ्गात्मपीडावत् कथिताहर्तृदायकम् ।
यदावेदयते राज्ञे तद् भाषेत्य् अभिधीयते ॥" इति ।

भाषा प्रतिज्ञा पक्ष इति नार्थान्तरम् । आवेदनसमये कार्यमात्रं लिखितं, प्रत्यर्थिनोऽग्रतः समामासादिविशिष्टं लिख्यत इति विशेषः । संवत्सरविशेषणं यद्य् अपि सर्वव्यवहारेषु नोपयुज्यते तथाप्य् आधिप्रतिग्रहक्रयेषु निर्णयार्थम् उपयुज्यते,

"आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा ।"

इति वचनात् । अर्थव्यवहारोऽपि एकस्मिन् संवत्सरे यत्संख्याकं यद्द्रव्यं यतो येन गृहीतं प्रत्यर्पितं च पुनर् अन्यस्मिन् वत्सरे तद्द्रव्यं तत्संख्याकं ततस् तेन गृहीतं याच्यमानो यदि ब्रूयात्, सत्यं गृहीतं प्रत्यर्पितं चेति । वत्सरान्तरे गृहीतं प्रत्यर्पितं नास्मिन् वत्सरे इत्य् उपयुज्यते । एवं मासाद्य् अपि योज्यम् । देशस्थानादयः पुनः स्थावरेष्व् एवोपयुज्यन्ते,

"देशश् चैव तथा स्थानं संनिवेशस् तथैव च ।
जातिः संज्ञाधिवासश् च प्रमाणं क्षेत्रनाम च ॥
पितृपैतामहं चैव पूर्वराजानुकीर्तनम् ।
स्थावरेषु विवादेषु दशैतानि निवेशयेत् ॥"

इति स्मरणात् । देशो मध्यदेशादिः । स्थानं वाराणस्यादि । संनिवेशस् तत्रैव पूर्वापरदिग्विभागपरिच्छिन्नः सम्यङ्निविष्टो गृहक्षेत्रादिः । जातिर् अर्थिप्रत्यर्थिनोर् ब्राह्मणत्वादिः । संज्ञा च देवदत्तादिः । अधिवासः समीपदेशनिवासी जनः । प्रमाणं निवर्तनादि भूपरिमाणम् । क्षेत्रनाम शालिक्षेत्रं क्रमुकक्षेत्रं कृष्णभूमः पाण्डुभूम इति । पितुः पितामहस्य च नामार्थिप्रत्यर्थिनोः । पूर्वेषां त्रयाणाम् राज्ञां नामकीर्तनं चेति । समामासादीनां यस्मिन् व्यवहारे यावद् उपयुज्यते तत्र तावल् लेखनीयम् इति तात्पर्यार्थः । एवं पक्षलक्षणे स्थिते पक्षलक्षणरहितानां पक्षवदवभासमानानां पक्षाभासत्वं सिद्धम् एवेति योगीश्वरेण न पृथक् पक्षाभासा उक्ताः । अन्यैस् तु विस्पष्टार्थम् उक्ताः ।

"अप्रसिद्धं निराबाधं निरर्थं निष्प्रयोजनम् ।
असाध्यं वा विरुद्धं वा पक्षाभासं विवर्जयेत् ॥" इति । (का०स्मृ० १४०)

अप्रसिद्धं मदीयं शशविषाणं गृहीत्वा न प्रयच्छतीत्यादि । निराबाधं अस्मद् गृहदीपप्रकाशेनायं स्वगृहे व्यवहरतीयादि । निरर्थं अभिधेयरहितं कचटतपगजडदबेत्यादि । निष्प्रयोजनं यथायं देवदत्तोऽस्मद्गृहसंनिधौ सुस्वरम् अधीत इत्यादि । असाध्यं यथाहं देवदत्तेन सभ्रूभङ्गम् उपहसित इत्यादि । एतत् साधनासंभवाद् असाध्यम् । अल्पकालत्वान् न साक्षिसंभवो लिखितं दूरतोऽल्पत्वान् न दिव्यम् इति । विरुद्धं यथाहं मूकेन शप्त इत्यादि । पुरराष्ट्रादिविरुद्धं वा ।

"राज्ञा विवर्जितो यश् च यश् च पौरविरोधकृत् ।
राष्ट्रस्य वा समस् तस्य प्रकृतीनां तथैव च ॥
अन्ये वा ये पुरग्राममहाजनविरोधकाः ।
अनादेयास् तु ते सर्वे व्यवहाराः प्रकीर्तिताः ॥" इति ॥

यत् तु,

"अनेकपदसंकीर्णः पूर्वपक्षो न सिध्यति ।" (का०स्मृ० १३६)

इति तत्र यद्य् अनेकवस्तुसंकीर्ण इत्य् उच्यते तदा न दोषः, मदीयम् अनेन हिरण्यं वासो रूपकादि वापहृतम् इत्येवंविधस्यादुष्टत्वात् । ऋणादानादिपदसंकरे पक्षाभास इति चेत् तद् अपि न । मदीया रूपका अनेन वृद्ध्या गृहीताः सुवर्णं चास्य हस्ते निक्षिप्तम्, मदीयं क्षेत्रम् अयम् अपहरति इत्यादीनां पक्षत्वम् इष्यत एव । किं तु क्रियाभेदात् क्रमेण व्यवहारो न युगपद् इत्य् एतावत् । यथाह कात्यायनः :

"बहुप्रतिज्ञं यत् कार्यं व्यवहारे सुनिश्चितम् ।
कामं तद् अपि गृह्णीयाद् राजा तत्त्वबुभुत्सया ॥" इति । (का०स्मृ० १३७)

तस्माद् अनेकपदसंकीर्णः पूर्वपक्षो युगपन् न सिध्यतिति तस्यार्थः । अर्थिग्रहणात् पुत्रपित्रादिग्रहणं तेषाम् एकार्थत्वात् । नियुक्तस्यापि नियोगेनैव तदेकार्थत्वाक्षेपात्,

"अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा ।
यो यस्यार्थे विवदते तयोर् जयपराजयौ ॥" (ना०स्मृ०मा० २.२२)

इति स्मरणात् नियुक्तजयपराजयौ मूलस्वामिनोर् एव । एतच् च भूमौ फलके वा पाण्डुलेखेन लिखित्वा आवापोद्धारेण विशोधितं पश्चात् पत्रे निवेशयेत्,

"पूर्वपक्षं स्वभावोक्तं प्राड्विवाकोऽभिलेखयेत् ।
पाण्डुलेखेन फलके ततः पत्रे विशोधितम् ॥" (का०स्मृ० १३१)

इति कात्यायनस्मरणात् । शोधनं च यावद् उत्तरदर्शनं कर्तव्यं नातः परम्, अनवस्थाप्रसङ्गात् । अत एव नारदेनोक्तम्,

"शोधयेत् पूर्ववादं तु यावन् नोत्तरदर्शनम् ।
अवष्टब्धस्योत्तरेण निवृत्तं शोधनं भवेत् ॥" इति । पूर्वपक्षमशोधयित्वैव यद् ओत्तरं दापयन्ति सभ्यास् तदा "रागाल् लोभाद्" (या०ध० २.४) इत्युक्तदण्डेन सभ्यान् दण्डयित्वा पुनः प्रतिज्ञापूर्वकं व्यवहारः प्रवर्तनीयो राज्ञेति ॥ २.६ ॥

एवं शोधितपत्रारूढे पूर्वपक्षे किं कर्तव्यम् इत्य् अत आह ।

श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसंनिधौ । या०ध०२.७अब्

श्रुतो भाषार्थो येन प्रत्यर्थिनाऽसौ श्रुतार्थः तस्योत्तरं पूर्वपक्षाद् उत्तररत्र भवतीत्य् उत्तरं लेख्यं लेखनीयम् । पूर्वावेदकस्यार्थिनः संनिधौ समीपे उत्तरं च यत् पूर्वोक्तस्य निराकरणं तद् उच्यते । यथाह ।

"पक्षस्य व्यापकं सारम् असंदिग्धम् अनाकुलम् ।
अव्याख्यागम्यम् इत्य् एतद् उत्तरं तद्विदो विदुः ॥" इति ।

पक्षस्य व्यापकं निराकरणसमर्थम् । सारं न्याय्यं न्यायाद् अनपेतम् । असंदिग्धं संदेहरहितम् । अनाकुलं पूर्वापराविरुद्धम् । अव्याख्यागम्यम् अप्रसिद्धपदप्रयोगेण दुःश्लिष्टविभक्तिसमाससाध्याहाराभिधानेन वा अन्यदेशभाषाभिधानेन वा यद् व्याख्येयार्थं न भवति तत् सद् उत्तरम् ॥ तच् च चतुर्विधम् : संप्रतिपत्तिर् मिथ्या प्रत्यवस्कन्दनं पूर्वन्यायश् चेति । तथाह कात्यायनः :

"सत्यं मिथ्योत्तरं चैव प्रत्यवस्कन्दनं तथा ।
पूर्वन्यायविधिश् चैवम् उत्तरं स्याच् चतुर्विधम् ॥" इति । (का०स्मृ० १६५)

तत्र सत्योत्तरं यथा । रूपकशतं मह्यं धारयतीत्युक्ते सत्यं धारयाम् इति । यथाह :

"साध्यस्य सत्यवचनं प्रतिपत्तिर् उदाहृता ।" इति । (का०स्मृ० १६८)

मिथ्योत्तरं तु नाहं धारयामीति । तथा च कात्यायनः :

"अभियुक्तोऽभियोगस्य यदि कुर्याद् अपह्नवम् ।
मिथ्या तत् तु विजानीयाद् उत्तरं व्यवहारतः ॥" इति ॥ (का०स्मृ० १६७)

तच् च मिथ्योत्तरं चतुर्विधम् ।

"मिथ्यैतन् नाभिजानामि तदा तत्र न संनिधिः ।
अजातश् चास्मि तत्काल इति मिथ्या चतुर्विधम् ॥" इति । (ना०स्मृ०मा० २.५ ; का०स्मृ० १६९)

प्रत्यवस्कन्दनं नाम सत्यं गृहीतं प्रतिदत्तं प्रतिग्रहेण लब्धम् इति वा । यथाह नारदः :

"अर्थिना लेखितो योऽर्थः प्रत्यर्थी यदि तं तथा ।
प्रपद्य कारनं ब्रूयात् प्रत्यवस्कन्दनं स्मृतम् ॥" इति ।

प्राङ्न्यायोत्तरं तु यत्राभियुक्त एवं ब्रूयाद् अस्मिन्न् अर्थेऽनेनाहम् अभियुक्तस् तत्र चायं व्यवहारमार्गेण पराजित इति । उक्तं च कात्यायनेन :

"आचारेणावसन्नोऽपि पुनर् लेखयते यदि ।
सोऽभिधेयो जितः पूर्वं प्राङ्न्यायस् तु स उच्यते ॥" इति । (का०स्मृ० १७१)

एवम् उत्तरलक्षणे स्थिते उत्तरलक्षणरहितानाम् उत्तरवद् अवभासमानानाम् उत्तराभासत्वम् अर्थसिद्धम् । स्पष्टीकृतं च स्मृत्यन्तरे :

"संदिग्धम् अन्यत् प्रकृताद् अत्यल्पम् अतिभूरि च ।
पक्षैकदेशव्याप्य् अन्यत् तथा नैवोत्तरं भवेत् ॥
यद् व्यस्तपदम् अव्यापि । निगूढार्थं तथाकुलम् ।
व्याख्यागम्यम् असारं च नोत्तरं स्वार्थसिद्धये ॥" इति । (chf. का०स्मृ० १७५)

तत्र संदिग्धं : सुवर्णशतम् अनेन गृहीतम् इत्य् उक्ते सत्यं गृहीतं सुवर्णशतं माषशतं वेति । प्रकृताद् अन्यत् : यथा सुवर्णशताभियोगे पणशतं धारयामीति । अत्यल्पम् : सुवर्णशताभियोगे पञ्चशतं धारयामीति । अतिभूरि : सुवर्णशताभियोगे द्विशतं धारयामीति । पक्षैकदेशव्यापि : हिरण्यवस्त्राद्यभियोगे हिरण्यं गृहीतं नान्यद् इति । व्यस्तपदं : ऋणादानाभियोगे पदान्तरेणोत्तरम् यथा सुवर्णशताभियोगे अनेन अहं ताडित इति । अव्यापि : देशस्थानादिविशेषणव्यापि : यथा मध्यदेशे वाराणस्यां पूर्वस्यां दिशि क्षेत्रम् अनेनापहृतम् इति पूर्वपक्षे लिखिते क्षेत्रम् अपहृतम् इति । निगूड्ःार्थं : यथा सुवर्णशताभियोगे किम् अहम् एव अस्मै धारयामीत्य् अत्र ध्वनिना प्राड्विवाकः सभ्यो वा अर्थी वा अन्यस्मै धारयतीति सूचयतीति निगूढार्थम् । आकुलं पूर्वापरविरुद्धम् : यथा सुवर्णशताभियोगे कृते सत्यं गृहीतं न धारयामीति । व्याख्यागम्यं : दुःश्लिष्टविभक्तिसमाससाध्याहाराभिधानेन व्याख्यागम्यम्, अदेशभाषाभिधानेन वा । यथा सुवर्णशतविषये पितृऋणाभियोगे गृहीतशतवचनात् सुवर्णानां पितुर् न जानामीति । अत्र गृहीतशतस्य पितुर् वचनात् सुवर्णानां शतं गृहीतम् इति न जानामीति । असारं : न्यायविरुद्धम् यथा सुवर्णशतम् अनेन वृद्ध्या गृहीतं वृद्धिर् एव दत्ता न मूलम् इत्य् अभियोगे सत्यं वृद्धिर् दत्ता न मूलं गृहीतम् इति । उत्तरम् इत्य् एकवचननिर्देशाद् उत्तराणां संकरो निरस्तः । यथाह कात्यायनः :

"पक्षैकदेशे यत् सत्यम् एकदेशे च कारणम् ।
मिथ्या चैवैकदेशे च संकरात् तद् अनुत्तरम् ॥" इति । (का०स्मृ० १८९)

अनुत्तरत्वे च कारणं तेनैवोक्तम् :

"न चैकस्मिन् विवादे तु क्रिया स्याद् वादिनोर् द्वयोः ।
न चार्थसिद्धिर् उभयोर् न चैकत्र क्रियाद्वयम् ॥" इति । (का०स्मृ० १९०)

मिथ्याकारणोत्तरयोः संकरे अर्थिप्रत्यर्थिनोर् द्वयोर् अपि क्रिया प्राप्नोति :

"मिथ्या क्रिया पूर्ववादे कारणे प्रतिवादिनि ।"

इति स्मरणात् । तद् उभयम् एकस्मिन् व्यवहारे विरुद्धम् । यथा सुवर्णं रूपकशतं चानेन गृहीतम् इत्य् अभियोगे सुवर्णम् न गृहीतं रूपकशतं गृहीतं प्रतिदत्तं चेति । कारणप्राङ्न्यायसंकरे तु प्रत्यर्थिन एव क्रियाद्वयम् :

"प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत् क्रियाम् ।" इति ।

यथा सुवर्णं गृहीतं प्रतिदत्तं रूपके व्यवहारमार्गेन पराजित इति । अत्र च प्राङ्न्याये जयपत्रेण वा प्राङ्न्यायदर्शिभिर् वा भावयितव्यम् । कारणोक्तौ तु साक्षिलेख्यादिभिर् भावयितव्यम् इति विरोधः । एवम् उत्तरत्रयसंकरेऽपि द्रष्टव्यम् । यथानेन सुवर्णं रूपकशतं वस्त्राणि च गृहीतानीत्य् अभियोगे सत्यं सुवर्णं गृहीतं प्रतिदत्तं रूपकशतं न गृहीतं वस्त्रविषये तु पूर्वन्यायेन पराजित इति । एवं चतुःसंकरेऽपि । एतेषां चानुत्तरत्वं यौगपद्येन तस्यांशस्य तेन तेन विनाऽसिद्धेः क्रमेणोत्तरत्वम् एव । क्रमश् चार्थिनः प्रत्यर्थिनः सभ्यानां चेच्छया भवति । यत्र पुनर् उभयोः संकरस् तत्र यस्य प्रभूतार्थविषयत्वं तत्क्रियोपादानेन पूर्वं व्यवहारः प्रवर्तयितव्यः पश्चाद् अल्पविषयोत्तरोपादानेन च व्यवहारो द्रष्टव्यः । यत्र च संप्रतिपत्तेर् उत्तरान्तरस्य च संकरस् तत्रोत्तरान्तरोपादानेन व्यवहारो द्रष्टव्यः, संप्रतिपत्तौ क्रियाभावात् । यथा हारीतेन,

"मिथ्योत्तरं कारणं च स्याताम् एकत्र चेद् उभे ।
सत्यं वापि सहान्येन तत्र ग्राह्यं किम् उत्तरम् ॥"

इत्य् उक्त्वोक्तम् :

"यत् प्रभूतार्थविषयं यत्र वा स्यात् क्रियाफलम् ।
उत्तरं तत्र तज् ज्ञेयम् असंकीर्णम् अतोऽन्यथा ॥"

संकीर्णं भवतीति शेषः । शेषापेक्षया ऐच्छिकक्रमं भवतीत्य् अर्थः । तत्र प्रभूतार्थं : यथा अनेन सुवर्णं रूपकशतं वस्त्राणि च गृहीतानीत्य् अभियोगे सुवर्ण रूपकशतं च न गृहीतं वस्त्राणि तु गृहीतानि प्रतिदत्तानि चेति । अत्र मिथ्योत्तरस्य प्रभूतविषयत्वाद् अर्थिनः क्रियाम् आदाय प्रथमं व्यवहारः प्रवर्तयितव्यः पश्चाद् वस्त्रविषयो व्यवहारः । एवं मिथाप्राङ्न्यायसंकरे कारणप्राङ्न्यायसंकरे च योजनीयम् । तथा तस्मिन्न् एवाभियोगे सत्यं सुवर्णं रूपकशतं च गृहीतं प्रति दास्यामि वस्त्राणि तु न गृहीतानि गृहीतानि प्रतिदत्तानीति वा वस्त्रविषये पूर्वं पराजित इति चोत्तरे संप्रतिपत्तेर् भूरिविषयत्वेऽपि तत्र क्रियाभावान् मिथ्याद्युत्तरक्रियाम् आदाय व्यवहारः प्रवर्तयितव्यः । यत्र तु मिथ्याकारणोत्तरयोः कृत्स्नपक्षव्यापित्वम् यथा : शृङ्गग्राहिकया कश्चिद् वदति इयं गौर् मदीया अमुकस्मिन् काले नष्टा अद्यास्य गृहे दृष्टेति । अन्यस् तु मिथ्यैतत्, प्रदर्शितकालात् पूर्वम् एवास्मद्गृहे स्थिता मम गृहे जाता चेति वदति । इदं तावत् पक्षनिराकरणसमर्थत्वान् नानुत्तरम्, नापि मिथ्यैव कारणोपन्यासात्,। नापि कारणम् एकदेशस्याप्य् अभ्युपगमाभावात् । तस्मात् सकारणं मिथ्योत्तरम् इदम् । अत्र च प्रतिवादिनः क्रिया, "कारणे प्रतिवादिनि" इति वचनात् । ननु "मिथ्या क्रिया पूर्ववादे" इति पूर्ववादिनः कस्मात् क्रिया न भवति, तस्य शुद्धमिथ्याविषयत्वात् । "कारणे प्रतिवादिनि" इत्य् एतद् अपि कस्माच् छुद्धकारणविषयं न भवति । नैतत् । सर्वस्यापि कारणोत्तरस्य मिथ्यासहचरितरूपत्वाच् छुद्धकारणोत्तरस्याभावात् । प्रसिद्धकारणोत्तरे प्रतिज्ञातार्थैकदेशस्याभ्युपगमेनैकदेशस्य मिथ्यात्वम्, यथा सत्यं रूपकशतं गृहीतं न धारयामि प्रतिदत्तत्वाद् इति । प्रकृतोदाहर्णे तु प्रतिज्ञातार्थैकदेशस्याप्यभ्युपगमो नास्तीति विशेषः ॥ एतच् च हारीतेन स्पष्टम् उक्तम् ।

"मिथ्याकारणयोर् वापि ग्राह्यं कारणम् उत्तरम् ।" इति ।

यत्र मिथ्याप्राङ्न्याययोः पक्षव्यापित्वम्, यथा रूपकशतं धारयतीत्य् अभियोगे मिथ्यैतद् अस्मिन्न् अर्थे पूर्वम् अयं पराजित इति । अत्रापि प्रतिवादिन एव क्रिया :

"प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत् क्रियाम् ।"

इति वचनात्, शुद्धस्य प्राङ्न्यायस्याभावाद् अनुत्तरत्वप्रसङ्गात्, संप्रतिपत्तेर् अपि साध्यत्वेनोपदिष्टस्य पक्षस्य सिद्धत्वोपन्यासेन साध्यत्वनिराकरणत्वाद् एवोत्तरत्वम् । यदा तु कारणप्राङ्न्यायसंकरः, यथा शतम् अनेन गृहीतम् इत्य् अभियुक्तः प्रतिवदति सत्यं गृहीतं प्रतिदत्तं चेत्य् अस्मिन्न् एवार्थे प्राङ्न्यायेनायं पराजित इति । तत्र प्रतिवादिनो यथारुचीति न क्वचिद् वादिप्रतिवादिनोर् एकस्मिन् व्यवहारे क्रियाद्वयप्रसङ्ग इति निर्णयः ॥

एवम् उत्तरे पत्रे निवेशिते साध्यसिद्धेः साधनायत्तत्त्वात् साधननिर्देशं कः कुर्याद् इत्य् अपेक्षित आह ।

ततोऽर्थी लेखयेत् सध्यः प्रतिज्ञातार्थसाधनम् ॥ या०ध०२.७च्द्

तत उत्तरानन्तरम् अर्थी साध्यवान् सद्य एवानन्तर्म् एव लेखयेत् । प्रतिज्ञातः साध्यः स चासाव् अर्थश् चेति प्रतिज्ञातार्थः तस्य साधनं साध्यतेऽनेनेति साधनं प्रमाणम् । अत्र "सद्यो लेखयेत्" इति वदता उत्तराभिधाने कालविलम्बनम् अप्य् अङ्गीकृतम् इति गम्यते । तच् चोत्तरत्र विवेचयिष्यते । "अर्थी प्रतिज्ञातार्थसाधनं लेखयेत्" इति वदता यस्य साध्यम् अस्ति स प्रतिज्ञातार्थसाधनं लेखयेद् इत्य् उक्तं अतश् च प्राङ्न्यायोत्तरे प्राङ्न्यायस्यैव साध्यत्वात् प्रत्यर्थ्य् एवार्थी जात इति स एव साधनं लेखयेत् । कारणोत्तरेऽपि कारणस्यैव साध्यत्वात् कारणवाद्य् एवार्थीति स एव लेखयेत् । मिथ्योत्तरे तु पूर्ववाद्य् एवार्थी स एव साधनं निर्दिशेत् । ततोऽर्थी लेखयेद् इति वदता अर्थ्य् एव लेखयेन् नान्य इत्य् उक्तम् । अतश् च संप्रतिपत्त्युत्तरे साध्याभावेन भाषोत्तरत्वादिनोर् द्वयोर् अप्य् अर्थित्वाभावात् साधननिर्देश एव नास्तीति तावतैव व्यवहारः परिसमाप्यत इति गम्यते । एतद् एव हारीतेन स्पष्टम् उक्तम् :

"प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत् क्रियाम् ।
मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत् ॥" इति ॥ २.७ ॥

तत्सिद्धौ सिद्धिम् आप्नोति विपरीतम् अतोऽन्यथा । या०ध०२.८अब्

तस्य साधनस्य प्रमाणस्य वक्ष्यमाणलिखितसाक्ष्यादिलक्षणस्य सिद्धौ निर्वृत्तौ सिद्धिं साध्यस्य जयलक्षणां प्राप्नोति । अतोऽस्मात् प्रकाराद् अन्यथा प्रकारान्तरेण साधनासिद्धौ विपरीतं साध्यस्यासिद्धिं पराजयलक्षणाम् आप्नोतीति संबन्धः ॥

एवं व्यवहाररूपम् अभिधायोपसंहरति ।

चतुष्पाद् व्यवहारोऽयं विवादेषूपदर्शितः ॥ या०ध०२.८च्द्

"व्यवहारान् नृपः पश्येद्" (या०ध० २.१) इत्य् उक्तो व्यवहारः । सोऽयम् इत्थं चतुष्पाच् चतुरंशकल्पनया "विवादेषु" ऋणादानादिषु "उपदर्शितो" वर्णितः । तत्र "प्रत्यर्थिनोऽग्रतो लेख्यम्" इति भाषापादः प्रथमः । "श्रुतार्थस्योत्तरं लेख्यम्" इत्य् उत्तरपादो द्वितीयः । "ततोऽर्थी लेख्ययेत् सद्यः" इति क्रियापादस् तृतीयः । "तत्सिद्धौ सिद्धम् आप्नोति" इति साध्यसिद्धिपादश् चतुर्थः । यथोक्तम् :

"परस्परं मनुष्याणां स्वार्थविप्रतिपत्तिषु ।
वाक्यन्यायाद् व्यवस्थानं व्यवहार उदाहृतः ॥
भाषोत्तरक्रियासाध्यसिद्धिभिः क्रमवृत्तिभिः ।
आक्षिप्तचतुरंशस् तु चतुष्पाद् अभिधीयते ॥" इति ।

संप्रतिपत्त्युत्तरे तु साधनानिर्देशाद् भाषार्थस्यासाध्यत्वाच् च न साध्यसिद्धिलक्षणः पादोऽस्तीति द्विपात्त्वम् एव । उत्तराभिधानानन्तरं सभ्यानाम् अर्थिप्रत्यर्थिनोः कस्य क्रिया स्याद् इति परामर्शलक्षणस्य प्रत्याकलितस्य योगीश्वरेण व्यवहारपादत्वेनानभिधानाद् व्यवहर्तुः संबन्धाभावाच् च न व्यवहारपादत्वम् इति स्थितम् ॥ २.८ ॥

इति साधारणव्यवहारमातृकाप्रकरणम्
असाधारणव्यवहारमातृकाप्रकरणम्

एवं सर्वव्यवहारोपयोगिनीं व्यवहारमातृकाम् अभिधायाधुना क्वचिद् व्यवहारविशेषे कंचिद् विशेषं दर्शयितुम् आह ।

अभियोगम् अनिस्तीर्य नैनं प्रत्यभियोजयेत् । या०ध०२.९अब्

अभियुज्यत इत्य् अभियोगोऽपराधः । तम् अभियोगम् अनिस्तीर्य अपरिहृत्य एनम् अभियोक्तारं न प्रत्यभियोजयेद् अपराधेन न संयोजयेत् । यद्य् अपि प्रत्यवस्कन्दनं प्रत्यभियोगरूप्रम् तथापि स्वापराधपरिहारात्मकत्वान् नास्य प्रतिषेधविषयत्वम् । अतः स्वाभियोगानुपमर्दनरूपस्य प्रत्यभियोगस्यायं निषेधः । इदं प्रत्यर्थिनम् अधिकृत्योक्तम् ।

अथ अर्थिनं प्रत्य् आह ।

अभियुक्तं च नान्येन नोक्तं विप्रकृतिं नयेत् ॥ या०ध०२.९च्द्

अन्येनाभियुक्तम् अविस्तीर्णाभियोगम् अन्योऽर्थी नाभियोजयेत् । किं च । उक्तम् आवेदनसमये यद् उक्तं तद् विप्रकृतिं विरुद्धभावं न नयेन् न प्रापयेत् । एतद् उक्तं भवति : यद् वस्तु येन रूपेणावेदनसमये निवेदितं तद् वस्तु तथैव भाषाकालेऽपि लेखनीयं नान्यथेति ॥

ननु "प्रत्यर्थिनोऽग्रतो लेख्यं यथावेदितम् अर्थिना" इत्य् अत्रैवेदम् उक्तं । किम् अर्थं पुनर् उच्यते "नोक्तं विप्रकृतिं नयेद्" इति ।

उच्यते । "यथावेदितम् अर्थिना" इत्य् अनेन आवेदनसमये यद् वस्तु निवेदितं तद् एव भाषासमयेऽपि तथैव लेखनीयम् । एकस्मिन्न् अपि पदे न वस्त्वन्तरम् इत्य् उक्तम् । यथानेन रूपकशतं वृद्ध्या गृहीतम् इत्य् आवेदनसमये प्रतिपाद्य प्रत्यर्थिसंनिधौ भाषासमये वस्त्रशतं वृद्ध्या गृहीतम् इति न वक्तव्यम् । तथा सति पदान्तरागमनेऽपि वस्त्वन्तरगमनाद् धीनवादी दण्ड्यः स्याद् इति । "नोक्तं विप्रकृतिं नयेद्" इत्य् अनेनैकवस्तुत्वेऽपि पदान्तरगमनं निषिध्यते । यथा रूपकशतं वृद्ध्या गृहीत्वायं न प्रयच्छतीत्य् आवेदनकालेऽभिधाय भाषाकाले रूपकशतं बलाद् अपहृतवान् इति वदतीति । तत्र वस्त्वन्तरगमनं निषिद्धम् इह तु पदान्तरगमनं निषिध्यत इति न पौनरुक्त्यम् । एतद् एव स्पष्टीकृतं नारदेन :

"पूर्वपादं परित्यज्य योऽन्यम् आलम्बते पुनः ।
पदसंक्रमणाज् ज्ञेयो हीनवादी स वै नरः ॥" इति । (ना०स्मृ०मा० २.२४)

हीनवादी दण्ड्यो भवति न प्रकृताद् अर्थाद् धीयते । अतः प्रत्यर्थिनोऽर्थिनश् च प्रमादपरिहारार्थम् एवायम् "अभियोगम् अनिस्तीर्य" इत्याद्युपदेशो न प्रकृतार्थसिद्ध्यसिद्धिविषयः । अत एव वक्ष्यति "छलं निरस्य भूतेन व्यवहारान् नयेन् नृपः" (या०ध० २.१९) इति । एतच् चार्थव्यवहारे द्रष्टव्यम् । मन्युकृते तु व्यवहारे प्रमादाभिधाने प्रकृताद् अपि व्यवहाराद् धीयत एव । यथाह नारदः :

"सर्वेष्व् अर्थविवादेषु वाक्छले नावसीदति ।
परस्त्रीभूम्यृणादाने शास्योऽप्य् अर्थान् न हीयते ॥" इति । (ना०स्मृ०मा० २.२५)

अस्यार्थः : सर्वेष्व् अर्थविवादेषु न मन्युकृतेषु वाक्छले प्रमादाभिधानेऽपि नावसीदति न पराजीयते । न प्रकृताद् अर्थाद् धीयत इत्य् अर्थः । अत्रोदाहरणं परस्त्रीत्यादि । परस्त्रीभूम्यृणादने प्रमादाभिधानेन दण्ड्योऽपि यथा प्रकृताद् अर्थान् न हीयते एवं सर्वेष्व् अर्थविवादेष्व् इति । अर्थविवादग्रहणान् मन्युकृतविवादेषु प्रमादाभिधाने प्रकृताद् अप्य् अर्थाद् धीयत इति गम्यते । यथाऽहम् अनेन शिरसि पादेन ताडित इत्य् आवेदनसमयेऽभिधाय भाषाकाले हस्तेन पादेन वा ताडित इति वदन् न केवलं दण्ड्यः, पराजीयते च ॥ २.९ ॥

"अभियोगम् अनिस्तीर्य नैनं प्रत्यभियोजयेद्" इत्यस्यापवादम् आह ।

कुर्यात् प्रत्यभियोगं च कलहे साहसेषु च । या०ध०२.१०अब्

कलहे वाग्दण्डपारुष्यात्मके साहसेषु विषशस्त्रादिनिमित्तप्राणव्यापादनादिषु प्रत्यभियोगसंभवे स्वाभियोगम् अनिस्तीर्याप्य् अभियोत्तारं प्रत्यभियोजयेत् । नन्व् अत्रापि पूर्वपक्षानुपमर्दनरूपत्वेनानुत्तरत्वात् प्रत्यभियोगस्य प्रतिज्ञान्तरत्वे युगपद्व्यवहारासंभवः समानः । सत्यम् । नात्र युगपद्व्यवहाराय प्रत्यभियोगोपदेशोऽपि तु न्यूनदण्डप्राप्तये अधिकदण्डनिवृत्तये वा । तथाहि । अनेनाहं ताडितः शप्तो वा इत्य् अभियोगे पूर्वम् अहम् अनेन ताडितः शप्तो वा इति प्रत्यभियोगे दण्डाल्पत्वम् । यथाह नारदः :

"पूर्वम् आक्षारयेद् यस् तु नियतं स्यात् स दोषभाक् ।
पश्चाद् यः सोऽप्य् असत्कारी पूर्वे तु विनयो गुरुः ॥" इति । (ना०स्मृ० १५–१६.१०)

यदा पुनर् द्वयोर् युगपत्ताडनादिप्रवृत्तिस् तत्राधिकदण्डनिवृत्तिः ।

"पारुष्ये साहसे वापि युगपत्संप्रवृत्तयोः ।
विशेषश् चेन् न लभ्येत विनयः स्यात् समस् तयोः ॥" इति । (ना०स्मृ० १५–१६.९)

एवं युगपद्व्यवहारप्रवृत्त्यसंभवेऽपि कलहादौ प्रत्यभियोगोऽर्थवान् ऋणादानादिषु तु निरर्थक एव ॥

अर्थिप्रत्यर्थिनोर् विधिम् उक्त्वा ससभ्यस्य सभापतेः कर्तव्यम् आह ।

उभयः प्रतिभूर् ग्राह्यः समर्थः कार्यनिर्णये ॥ या०ध०२.१०च्द्

उभयोर् अर्थिप्रत्यर्थिनोः सर्वेषु विवादेषु — निर्णयस्य कार्यं कार्यनिर्णयः, आहिताग्न्यादिषु पाठात् कार्यशब्दस्य पूर्वनिपातः — निर्णयस्य यत् कार्यं च साधितधनदानं दण्डदानं च तस्मिन् समर्थः प्रतिभूः — प्रतिभवति तत्कार्यं तद्वद् भवतीति प्रतिभूर् — ग्राह्यः ससभ्येन सभापतिना । तस्यासंभवेऽर्थिप्रत्यर्थिनो रक्षणे पुरुषा नियोक्तव्याः । तेभ्यश् च ताभ्यां प्रतिदिनं वेतनं देयम् । तथाह कात्यायनः ।

"अथ चेत् प्रतिभूर् नास्ति कार्ययोगस् तु वादिनः ।
स रक्षितो दिनस्यान्ते दद्याद् भृत्याय वेतनम् ॥" इति ॥ २.१० ॥ (का०स्मृ० ११७)

अर्थिप्रत्यर्थिनोर् निर्णयकार्ये ससभ्येन सभापतिना प्रतिभूर् ग्राह्य इत्य् उक्तम् । किं तन्निर्णयकार्यं यस्मिन् प्रतिभूर् गृह्यत इत्य् अपेक्षित आह ।

निह्नवे भावितो दद्याद् धनं राज्ञे च तत्समम् ।
मिथ्याभियोगी द्विगुणम् अभियोगाद् धनं वहेत् ॥ या०ध०२.११

अर्थिना निवेदितस्याभियोगस्य प्रत्यर्थिनापह्नवे कृते यद्य् अर्थिना साक्ष्यादिभिर् भावितोऽङ्गीकारितः प्रत्यर्थी तदा दद्याद् धनं प्रकृतम् अर्थिने राज्ञे च तत्समम् अपलापदण्डम् । अर्थार्थी भावयितुं न शक्नोति तदा स एव मिथ्याभियोगी जात इत्य् अभियोगाद् अभियुक्तधनाद् द्विगुणं धनं राज्ञे दद्यात् । प्राङ्न्याये प्रत्यवस्कन्दने चेदम् एव योजनीयम् । तत्रार्थ्य् एवापह्नववादीति प्रत्यर्थिना भावितो राज्ञे प्रकृतधनसमं दण्डं दद्यात् । अथ प्रत्यर्थी प्राङ्न्यायं कारणं वा भावयितुं न शक्नोति तदा स एव मिथाभियोगीति राज्ञे द्विगुणं धनं दद्यात्, अर्थिने च प्रकृतं धनं । संप्रतिपत्त्युत्तरे तु दण्डाभाव एव । एतच् च ऋणादानविषयम् एव । पदान्तरेषु तत्र तत्र दण्डाभिधानाद् अधनव्यवहारेष्व् अस्यासंभवाच् च न सर्वविषयम् । राज्ञाऽधमर्णिको दाप्य इत्य् अस्य ऋणादानविषयत्वेऽपि तत्रैव विशेषं वक्ष्यामः । यद् वैतद् एव सर्वव्यवहारविषयत्वेनापि योजनीयम् । कथम् । अभियोगस्य निह्नवेऽभियुक्तेन कृते यद्य् अभियोक्त्रा साक्ष्यादिभिर् भावितोऽभियुक्तस् तदा तत्समं तत्र तत्र प्रतिपदोक्तम् एव । चशब्दोऽवधारणे । धनं दण्डं दद्याद् राज्ञ इत्य् अनुवादः । अथाभियोक्ता अभियोगं वक्तुं न शक्नोति तदा मिथ्याभियोगीति प्रतिपदोक्तं धनं दण्डं द्विगुणं दद्याद् इति विधीयते । अत्रापि प्राङ्न्याये प्रत्यवस्कन्दने च पूर्ववद् एव योजनीयम् ॥ २.११ ॥

"ततोऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम्" इति वदता उत्तरपादलेखने कालप्रतीक्षणं दर्शितम् । तत्रापवादम् आह ।

साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियाम् ।
विवादयेत् सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥ या०ध०२.१२

साहसं विषशस्त्रादिनिमित्तं प्राणव्यापादनादि । स्तेयं चौर्यम् । पारुष्यं वाग्दण्डपारुष्यं वक्ष्यमाणलक्षणम् । गौर् दोग्ध्री । अभिशापः पातकाभियोगः । अत्ययः प्राणधनातिपातस् तस्मिन् । द्वन्द्वैकवद्भावाद् एकवचनम् । स्त्रियां कुलस्त्रियां दास्यां च कुलस्त्रियां चारित्रविवादे दास्यां स्वत्वविवादे । विवादयेद् उत्तरं दापयेत् । सद्य एव न कालप्रतीक्षणं कुर्यात् । अन्यत्र विवादान्तरेषु काल उत्तरदानकाल इच्छया अर्थिप्रत्यर्थिसभ्यसभापतीनां स्मृत उक्तः ॥ २.१२ ॥

दुष्टलक्षणम् आह ।

देशाद् देशान्तरं याति सृक्किणी परिलेढि च ।
ललाटं स्विद्यते चास्य मुखं वैवर्ण्यम् एति च ॥ या०ध०२.१३

परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषते ।
वाक्चक्षुः पूजयति नो तथोष्ठौ निर्भुजत्य् अपि ॥ या०ध०२.१४

स्वभावाद् विकृतिं गच्छेद् मनोवाक्कायकर्मभिः ।
अभियोगे च साक्ष्ये वा दुष्टः स परिकीर्तितः ॥ या०ध०२.१५

मनोवाक्कायकर्मभिर् यः स्वभावाद् एव न भयादिनिमित्ताद् विकृतिं विकारं याति गच्छत्य् असाव् अभियोगे साक्ष्ये वा दुष्टः परिकीर्तितः । तां विकृतिं विभज्य दर्शयति । देशाद् देशान्तरं याति न क्वचिद् अवतिष्ठते । सृक्किणी ओष्ठप्रत्यन्तौ परिलेढि जिह्वाग्रेण स्पर्शयति घट्टयतीति कर्मणो विकृतिः । अस्य ललाटं स्विद्यते स्वेदबिन्द्वङ्कितं भवति, मुखं च वैवर्ण्यं विवर्णत्वं पाण्डुत्वं कृष्णत्वं वा एति गच्छतीति कायस्य विकृतिः । परिशुष्यत्स्खलद्वाक्यः परिशुष्यत् सगद्गदं स्खलद् व्यत्यस्तं वाक्यं यस्य स तथोक्तः । विरुद्धं पूर्वापरविरुद्धं बहु च भाषत इति वाचोविकृतिः । परोक्तां वाचं प्रतिवचनदानेन न पूजयति चक्षुर् वा प्रतिवीक्षणेन न पूजयतीति मनसो विकृतेर् लिङ्गम् । तथा ओष्ठौ निर्भुजति वक्रयतीत्य् अपि कायस्य विकृतिः । एतच् च दोषसंभावनामात्रम् उच्यते न दोषनिश्चयाय । स्वाभाविकनैमित्तिकविकारयोर् विवेकस्य दुर्ज्ञेयत्वात् । अथ कश्चिन् निपुणमतिर् विवेकं प्रतिपद्येत तथापि न पराजयनिमित्तं कार्यं भवति । न हि मरिष्यतो लिङ्गदर्शनेन मृतकार्यं कुर्वन्ति । एवम् अस्य पराजयो भविष्यतीति लिङ्गाद् अवगतेऽपि न पराजयनिमित्तकार्यप्रसङ्गः ॥ २.१३ ॥ २.१४ ॥ २.१५ ॥

किं च ।

संदिग्धार्थं स्वतन्त्रो यः साधयेद् यश् च निष्पतेत् ।
न चाहूतो वदेत् किंचिद् धीनो दण्ड्यश् च स स्मृतः ॥ या०ध०२.१६

संदिग्धम् अर्थम् अधमर्णेनानङ्गीकृतम् एव यः स्वतन्त्रः साधननिरपेक्षः साधयत्य् आसेधादिना स हीनो दण्ड्यश् च भवति । यश् च स्वयं संप्रतिपन्नं साधनेन वा साधितं याच्यमानो निष्पतेत् पलायते यश् चाभियुक्तो राज्ञा चाहूतः सदसि न किंचिद् वदति सोऽपि हीनो दण्ड्यश् च स्मृत इति संबध्यते । "अभियोगे च साक्ष्ये वा दुष्टः स परिकीर्तितः" इति प्रस्तुतत्वाद् धीनपरिज्ञानमात्रम् एव मा भूद् इति दण्ड्यग्रहणम् । दण्ड्यश् चापि शास्योऽप्य् अर्थान् न हीयत इत्य् अर्थाद् अहीनत्वदर्शनाद् अत्र तन् मा भूद् इति हीनग्रहणम् ॥ २.१६ ॥

अथ यत्र द्वाव् अपि युगपद् धर्माधिकारिणं प्राप्तौ भाषावादिनौ । तद् यथा । कश्चित् प्रतिग्रहेण क्षेत्रं लब्ध्वा कंचित् कालम् उपभुज्य कार्यवशात् सकुटुम्बो देशान्तरं गतः । अन्योऽपि तद् एव क्षेत्रं प्रतिग्रहेण लब्ध्वा कंचित् कालम् उपभुज्य देशान्तरं गतः । ततो द्वाव् अपि युगपद् आगत्य मदीयम् इदं क्षेत्रं मदीयम् इदं क्षेत्रम् इति परस्परं विवदमानौ धर्माधिकारिणं प्राप्तौ तत्र कस्य क्रियेत्य् आकाङ्क्षित आह ।

साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः ।
पूर्वपक्षेऽधरीभूते भवन्त्य् उत्तरवादिनः ॥ या०ध०२.१७

उभयत उभयोर् अपि वादिनोः साक्षिषु संभवत्सु साक्षिणः पूर्ववादिनः पूर्वस्मिन् काले मया प्रतिग्रहीतम् उपभुक्तं चेति यो वदत्य् असौ पूर्ववादी न पुनर् यः पूर्वं निवेदयति तस्य साक्षिणः प्रष्टव्याः । यदा त्व् अन्य एवं वदति सत्यम् अनेन पूर्वं प्रतिगृहीतम् उपभुक्तं च किं तु राज्ञेदम् एव क्षेत्रम् अस्माद् एव क्रयेण लब्ध्वा मह्यं दत्तम् इत्य् अनेन वा प्रतिग्रहेण लब्ध्वा मह्यं दत्तम् इति तत्र पूर्वपक्षोऽसाध्यतयाधरीभूतस् तस्मिन् पूर्वपक्षेऽधरीभूते उत्तरकालं प्रतिगृहीतम् उपभुक्तं चेति वादिनः साक्षिणः प्रष्टव्या भवन्ति । प्राङ्न्यायकारणोक्तौ पूर्वपक्षेऽधरीभूते उत्तरवादिनः साक्षिणो भवतीति व्याख्यानम् अयुक्तम् । अस्यार्थस्य "ततोऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम्" (या०ध० २.७) इत्य् अनेनैवोक्तत्वात् पुनरुक्तिप्रसङ्गात् । पूर्वव्याख्यानम् एव स्पष्टीकृतं नारदेन :

"मिथ्या क्रिया पूर्ववादे कारणे प्रतिवादिनि ।
प्राङ्न्यायविधिसिद्धौ तु जयपत्रं क्रिया भवेत् ॥" (ध०को० १.२२१)

इत्य् उक्त्वा,

"द्वयोर् विवदतोर् अर्थे द्वयोः सत्सु च साक्षिषु ।
पूर्वपक्षो भवेद् यस्य भवेयुस् तस्य साक्षिणः ॥" (ना०स्मृ० १.१४५)

इति वदता । एतस्य च पूर्वव्यवहारविलक्षणत्वाद् भेदेनोपन्यासः ॥ २.१७ ॥

अपि च ।

सपणश् चेद् विवादः स्यात् तत्र हीनं तु दापयेत् ।
दण्डं च स्वपणं चैव धनिने धनम् एव च ॥ या०ध०२.१८

यदि विवादो व्यवहारः सपणः पणनं पणस् तेन सह वर्तत इति सपणः स्यात् तदा तत्र तस्मिन् सपणे व्यवहारे हीनं पराजितं पूर्वोक्तं दण्डं स्वकृतं पणं राज्ञे अर्थिने च विवादास्पदीभूतं धनं दापयेद् राजा । यत्र पुनर् एकः कोपावेशवशाद् यद्य् अहम् अत्र पराजितो भवामि तदा पणशतं दास्यामीति प्रतिजानीते अन्यस् तु न किंचित् प्रतिजानीते तत्रापि व्यवहारः प्रवर्तते । तस्मिंश् च प्रवृत्ते पणप्रतिज्ञावादी यदि हीयते तदा स एव सपणं दण्डं दाप्यः । अन्यस् तु पराजितो दण्डं दाप्यः न पणम्, स्वपणं चेति विशेषोपादानात् । यत्र त्व् एकः शतं अन्यस् तु पञ्चशतं प्रतिजानीते तत्रापि पराजये स्वकृतम् एव पणं दाप्यौ । "सपणश् चेद् विवादः स्याद्" इति वदता पणरहितोऽपि विवादो दर्शित इति ॥ २.१८ ॥

किं च ।

छलं निरस्य भूतेन व्यवहारान् नयेन् नृपः ।
भूतम् अप्य् अनुपन्यस् तं हीयते व्यवहारतः ॥ या०ध०२.१९

छलं प्रमाद् आभिहितं निरस्य परित्यज्य भूतेन वस्तुतत्त्वानुसारेण व्यवहारान् नयेद् अन्तं नृपः । यस्माद् भूतम् अपि वस्तुतत्त्वम् अप्य् अनुपन्यस्तम् अनभिहितं हीयते हानिम् उपगच्छति व्यवहारतो व्यवहारेण साक्ष्यादिभिः । तस्माद् भूतानुसरणं कर्तव्यम् । यथार्थिप्रत्यर्थिनौ सत्यम् एव वदतस् तथा ससभ्येन सभापतिना यतितव्यं सामादिभिर् उपायैः । तथा सति साक्ष्यादिनैरपेक्ष्येणैव निर्णयो भवति । अथ सर्वथापि भूतानुसरणं न शक्यते कर्तुं तथा सति साक्ष्यादिभिर् निर्णयः कार्य इत्य् अनुकल्पः । यथोक्तम् ।

"भूतच्छलानुसारित्वाद् द्विगतिः समुदाहृतः ।
भूतं तत्त्वार्थसंयुक्तं प्रमादाभिहितं छलम् ॥" इति । (ना०स्मृ०मा० १.२४)

तत्र भूतानुसारी व्यवहारो मुख्यः छलानुसारीस्वनुकल्पः । साक्षिलेख्यादिभिर् व्यवहारनिर्णये कदाचिद् वस्त्वनुसरणं भवति कदाचिन् न भवति, साक्ष्यादीनां व्यभिचारस्यापि संभवात् ॥ २.१९ ॥

"भूतम् अप्य् अनुपन्यस्तं हीयते व्यव्हारतः" इत्य् अत्र उदाहरणम् आह ।

निह्नुते लिखितं नैकम् एकदेशे विभावितः ।
दाप्यः सर्वं नृपेणार्थं न ग्राह्यस् त्व् अनिवेदितः ॥ या०ध०२.२०

नैकम् अनेकं सुवर्णरजतवस्त्रादि लिखितम् अभियुक्तम् अर्थिना प्रत्यर्थी यदि सर्वम् एव निहुनुतेऽपजानीते तदार्थिनैकदेशे हिरण्ये साक्ष्यादिभिः प्रत्यर्थी भावितोऽङ्गीकारितः सर्वं रजताद्यर्थं पूर्वलिखितं दाप्योऽर्थिने नृपेण । न ग्राह्यस् त्व् अनिवेदितः पूर्वं भाषाकाले अनिवेदितः पश्चाद् अर्थिना पूर्वं मया विस्मृत इति निवेद्यमानो न ग्राह्यो न दापयित्व्यो नृपेण । एतच् च न केवलं वाचनिकम् । एकदेशे प्रत्यर्थिनो मिथ्यावादित्वनिश्चयाद्, एकदेशान्तरेऽपि मिथ्यावादित्वसंभवात्, अर्थिनश् चैकदेशे सत्यवादित्वनिश्चयाद्, एकदेशान्तरेऽपि सत्यवादित्वसंभवात्, एवं तर्कापरनामसंभावनाप्रत्ययानुगृहीताद् अस्माद् एव योगीश्वरवचनात् सर्वं दापनीयं नृपेणेति निर्णयः । एवं च तर्कवाक्यानुसारेण निर्णये क्रियमाणे वस्तुनोऽन्यथात्वेऽपि व्यवहारदर्शिनां न दोषः । तथा च गौतमः : "न्यायाधिगमे तर्कोऽभ्युपायस् तेनाभ्युह्य यथास्थानं गमयेत्" (गौ०ध० ११.२३–२४) इत्य् उक्त्वा, "तस्माद् राजाचार्याव् अनिन्द्यौ" (गौ०ध० ११.३२) इत्य् उपसंहरति । न चैकदेशभावितोऽनुपादेयवचनः प्रत्यर्थीत्य् एतावद् इह गम्यते, "एकदेशविभावितो नृपेण सर्वं दाप्यः" इति वचनात् । यत् तु कात्यायनेनोक्तम् :

"अनेकार्थाभियोगेऽपि यावत् संसाधयेद् धनी ।
साक्षिभिस् तावद् एवासौ लभते साधितं धनं ॥" इति । (का०स्मृ० ४७३)

तत् पुत्रादिदेयपित्राद्यृणविषयम् । तत्र हि बहून् अर्थान् अभियुक्तः पुत्रादिर् न जानामीति प्रतिवदन् निह्नववादी न भवतीत्य् एकदेशविभावितोऽपि न क्वचिद् असत्यवादीति "निह्नुते लिखितं नैकम्" इति शास्त्रं तत्र न प्रवर्तते, निह्नवाभावाद् अपेक्षिततर्काभावाच् च । "अनेकार्थाभियोगेऽपि" इति कात्यायनवचनं तु सामान्यविषयम्, विशेषशास्त्रस्य विषयं निह्नवोत्तरं परिहृत्याज्ञानोत्तरे प्रवर्तते ।

ननु,

"ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् ।
ऊने वाप्य् अधिके वार्थे प्रोक्ते साध्यं न सिध्यति ॥" (का०स्मृ० ३९६)

इति वदता कात्यायनेन अनेकार्थाभियोगे साक्षिभिर् एकदेशे भावितेऽधिके वा भाविते साध्यं सर्वम् एव न सिध्यतित्युक्तम् । तथा सत्य् एकदेशे भाविते अभावितैकदेशसिद्धिः कुतस्त्या । उच्यते । लिखितसर्वार्थसाधनतयोपन्यस्तैः साक्षिभिर् एकदेशाभिधानेऽधिकाभिधाने वा कृत्स्नम् एव साध्यं न सिध्यतिति तस्यार्थः । तत्रापि निश्चितं न सिध्यतिति वचनात् पूर्ववत् संशय एवेति प्रमाणान्तरस्यावसरोऽस्त्य् एव, "छलं निरस्य" इति नियमात् । साहसादौ तु सकलसाध्यसाधनतयोद्दिष्टैः साक्षिभिर् एकदेशेऽपि साधिते कृत्स्नसाध्यसिद्धिर् भवत्य् एव । तावतैव साहसादेः सिद्धत्वात्, कात्यायनवचनाच् च :

"साध्यार्थांशेऽपि गदिते साक्षिभिः सकलं भवेत् ।
स्त्रीसंगे साहसे चौर्ये यत् साध्यं परिकीर्तितम् ॥" इति ॥ (का०स्मृ० ३९७) २.२० ॥

ननु "निह्नुते लिखितं नैकम्" इतीयं स्मृतिस्, तथा "अनेकार्थाभियोगेऽपि" इतीयम् अपि स्मृतिर् एव । तत्रानयोः स्मृत्योः परस्परविरोधे सति, इतरेतरबाधनाद् अप्रामाण्यं कस्मान् न भवति विषयव्यवस्था किम् इत्य् आश्रीयते, इत्य् अत आह ।

स्मृत्योर् विरोधे न्यायस् तु बलवान् व्यवहारतः । या०ध०२.२१अब्

यत्र स्मृत्योः परस्परतो विरोधस् तत्र विरोधपरिहाराय विषयव्यवस्थापनादाव् उत्सर्गापवादालक्षणो न्यायो बलवान् समर्थः । स च न्यायः कुतः प्रत्येतव्य इत्य् अत आह, "व्यवहारतः" इति । व्यवहाराद् वृद्धव्यवहाराद् अन्वयव्यतिरेकलक्षणाद् अवगम्यते । अतश् च प्रकृतोदाहरणेऽपि विषयव्यवस्थैव युक्ता । एवम् अन्यत्रापि विषयस्व्यवस्थाविकल्पादि यथासंभवं योज्यम् ॥

एवं सर्वत्र प्रसङ्गेऽपवादम् आह ।

अर्थशास्त्रात् तु बलवद् धर्मशास्त्रम् इति स्थितिः ॥ या०ध०२.२१च्द्

"धर्मशास्त्रानुसारेण" (या०ध० २.१) इत्य् अनेनैवौशनसाद्यर्थशास्त्रस्य निरस्तत्वात्, धर्मशास्त्रान्तर्गतम् एव राजनीतिलक्षणम् अर्थशास्त्रम् इह विवक्षितम् । अर्थशास्त्रधर्मशास्त्रस्मृत्योर् विरोधे अर्थशास्त्राद् धर्मशास्त्रं बलवद् इति स्थितिर् मर्यादा । यद्य् अपि समानकर्तृकतया अर्थशास्त्रधर्मशास्त्रयोः स्वरूपगतो विशेषो नास्ति तथापि प्रमेयस्य धर्मस्य प्राधान्याद् अर्थस्य चाप्राधान्याद् धर्मशास्त्रं बलवद् इत्य् अभिप्रायः । धर्मस्य च प्राधान्यं शास्त्रादौ दर्शितम् । तस्माद् धर्मशास्त्रार्थशास्त्रयोर् विरोधेऽर्थशास्त्रस्य बाध एव न विषयव्यवस्था नापि विकल्पः । किम् अत्रोदाहरणम् । न तावत्,

"गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।
आततायिनम् आयान्तं हन्याद् एवाविचारयन् ॥
नाततायिवधे दोषो हन्तुर् भवति कश्चन ।
प्रच्छन्नं वा प्रकाशं वा मन्युस् तं मन्युम् ऋच्छति ॥" (मा०ध० ८.३५०–५१) तथा,

"आततायिनम् आयान्तम् अपि वेदान्तगं रणे ।
जिघांसन्तं जिघांसीयान् न तेन ब्रह्महा भवेत् ।" (व०ध० ३.१७)

इत्याद्य् अर्थशास्त्रम् ।

"इयं विशुद्धिर् उदिता प्रमाप्याकामतो द्विजम् ।
कामतो ब्राह्मणवधे निष्कृतिर् न विधीयते ॥" (मा०ध० ११.८९)

इत्यादि धर्मशास्त्रम् । तयोर् विरोधे धर्मशास्त्रं बलवद् इति युक्तं ॥ अनयोर् एकविषयत्वासंभवेन विरोधाभावान् न बलाबलचिन्तावतरति । तथा हि,

"शस्त्रं द्विजातिभिर् ग्राह्यं धर्मो यत्रोपरुध्यते ।" (मा०ध० ८.३४८)

इत्य् उपक्रम्य,

"आत्मनश् च परित्राणे दक्षिणानां च संगरे ।
स्त्रीविप्राभ्युपपत्तौ च घ्नन् धर्मेण न दण्डभाक् ॥" (मा०ध० ८.३४९)

इत्य् आत्मरक्षणे दक्षिणादीनां यज्ञोपकरणानां च रक्षणे युद्धे च स्त्रीब्राह्मणहिंसायां च"आततायिनम् अकूटशस्त्रेण घ्नन् न दण्डभाक्" इत्य् उक्त्वा तस्यार्थवादार्थम् इदम् उच्यते, "गुरुं वा बालवृद्धौ वा" इत्यादि । गुर्वादीन् अत्यन्तावध्यान् अप्य् आततायिनो हन्यात् किम् उतान्यान् इति । वाशब्दश्रवणाद् अपि वेदान्तगम् इत्य् अत्र अपिशब्दश्रवणान् न गुर्वादीनां वध्यत्वप्रतीतिः,

"नाततायिवधे दोषोऽन्यत्र गोब्राह्मणवधात् ।"

इति सुमन्तुवचनाच् च,

"आचार्यं च प्रवक्तारं मातरं पितरं गुरुम् ।
न हिंस्याद् ब्राह्मणान् गाश् च सर्वांश् चैव तपस्विनः ॥" (मा०ध० ४.१६२)

इति मनुवचनाच् च । आचार्यादीनाम् आततायिनां हिंसाप्रतिषेधेनेदं वचनम् अर्थवन् नान्यथा, हिंसामात्रप्रतिषेधस्य सामान्यशास्त्रेणैव सिद्धत्वात् । "नाततायिवधे दोषो हन्तुर् भवति कश्चन" इत्य् एतद् अपि ब्राह्मणादिव्यतिरिक्तविषयम् एव । यतः,

"अग्निदो गरदश् चैव शस्त्रपाणिर् धनापहः ।
क्षेत्रदारहरश् चैव षड् एते ह्य् आततायिनः ॥" (व०ध० ३.१६)

तथा,

"उद्यतासिर् विषाग्निश् च शापोद्यतकरस् तथा ।
आथर्वणेन हन्ता च पिशुनश् चापि राजनि ॥
भार्यातिक्रमकारी च रन्ध्रान्वेषणतत्परः ।
एवमाद्यान् विजानीयात् सर्वान् एवाततायिनः ॥" (का०स्मृ० ८०२–३)

इति सामान्येनाततायिनो दर्शिताः । अतश् च ब्राह्मणादय आततायिनश् च आत्मादित्राणार्थं हिंसानभिसंधिना निवार्यमाणाः प्रमादाद् यदि विपद्येरंस् तत्र लघुप्रायश्चित्तं राजदण्डाभावश् चेति निश्चयः । तस्माद् अन्यद् इहोदाहरणं वक्तव्यम् ।

उच्यते,

हिरण्यभूमिलाभेभ्यो मित्रलब्धिर् वरा यतः ।

अतो यतेत तत्प्राप्तौ । (या०ध० १.३५१)

इत्य् अर्थशास्त्रम् ।

धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः । (या०ध० २.१)

इति धर्मशास्त्रम् । तयोः क्वचिद् विषये विरोधो भवति । यथा : चतुष्पाद्व्यवहारे प्रवर्तमाने एकस्य जयेऽवधार्यमाणे मित्रलब्धिर् भवति न धर्मशास्त्रम् अनुसृतं भवति । अन्यस्य जयेऽवधार्यमाणे धर्मशास्त्रम् अनुसृतं भवति मित्रलब्धिर् विपरीता । तत्रार्थशास्त्राद् धर्मशास्त्रं बलवत् । अत एव, "धर्मार्थसंनिपाते अर्थग्राहिण एतद् एव" (आ०ध० १.२४.२३) इति प्रायश्चित्तस्य गुरुत्वं दर्शितम् आपस्तम्बेन । एतद् एवेति द्वादशवार्षिकं प्रायश्चित्तं परामृश्यते ॥ २.२१ ॥

"ततोऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम्" इत्य् उत्कम् । किं तत्साधनम् इत्य् अपेक्षित आह ।

प्रमाणं लिखितं भुक्तिः साक्षिणश् चेति कीर्तितम् ।
एषाम् अन्यतमाभावे दिव्यान्यतमम् उच्यते ॥ या०ध०२.२२

प्रमीयते परिच्छिद्यतेऽनेनेति प्रमाणम् । तच् च द्विविधं मानुषं दैविकं चेति । तत्र मानुषं त्रिविधं लिखितं भुक्तिः साक्षिणश् चेति । कीर्तितं महर्षिभिः । तत्र लिखितं द्विविधं शासनं चीरकं चेति । शासनम् उक्तलक्षणम् । चीरकं तु वक्ष्यमाणलक्षणम् । भुक्तिर् उपभोगः । साक्षिणो वक्ष्यमाणस्वरूपप्रकाराः । ननु लिखितस्य साक्षिणां च शब्दाभिव्यक्तिद्वारेण शब्देऽन्तर्भावाद् युक्तं प्रामाण्यम् । भुक्तेस् तु कथं प्रामाण्यम् । उच्यते : भुक्तिर् अपि कैश्चिद् विशेषणैर् युक्ता स्वत्वहेतुभूतक्रियादिकम् अव्यभिचाराद् अनुमापयन्त्य् अनुपपद्यमाना वा कल्पयन्ति इत्य् अनुमानेऽर्थापत्तौ चान्तर्भवतीति प्रमाणम् एव । एषां लिखितादीनां त्रयाणाम् अन्यतमस्याप्य् अभावे दिव्यानां वक्ष्यमाणस्वरूपभेदानाम् अन्यतमं जातिदेशकालद्रव्याद्यपेक्षया प्रमाणम् उच्यते । मानुषाभाव एव दिव्यस्य प्रामाण्यम् अस्माद् एव वचनाद् अवगम्यते । दिव्यस्य स्वरूपप्रामाण्ययोर् आगमगम्यत्वात् । अतश् च यत्र परस्परविवादेन युगपद् धर्माधिकारिणं प्राप्तयोर् एको मानुषीं क्रियाम् अपरस् तु दैवीम् अवलम्बते तत्र मानुष्य् एव ग्राह्या । यथाह कात्यायनः :

"यद्य् एको मानुषीं ब्रूयाद् अन्यो ब्रूयात् तु दैविकीम् ।
मानुषीं तत्र गृह्णीयान् न तुन् दैवीं क्रियां नृपः ॥" इति । (का०स्मृ० २१८)

यत्रापि प्रधानैकदेशसाधनं मानुषं संभवति तत्रापि न दैवम् आश्रयणीयम् । यथा रूपकशतम् अनया वृद्ध्या गृहीत्वा अयं न प्रयच्छतीत्य् अभियोगापह्नवे, ग्रहणे साक्षिणः सन्ति नो संख्यायां वृद्धिविशेषे वा, अतो दिव्येन भावयामीत्य् उक्ते तत्रैकदेशविभावितन्यायेनापि संख्यावृद्धिविशेषसिद्धेर् न दिव्यस्यावकाशः । उक्तं च कात्यायनेन ।

"यद्य् एकदेशव्याप्तापि क्रिया विद्येत मानुषी ।
सा ग्राह्या न तु पूर्णापि दैविकी वदतां नृणाम् ॥" इति । (का०स्मृ० २१९)

यत् तु,

"गूढसाहसिकानां तु प्राप्तं दिव्यैः परिक्षणम् ।" (का०स्मृ० २३०)

इति तद् अपि मानुषासंभवकृतनियमार्थम् । यद् अपि नारदेनोक्तम् :

"अरण्ये निर्जने रात्राव् अन्तर्वेश्मनि साहसे ।
न्यासस्यापह्नवे चैव दिव्या संभवति क्रिया ॥" (ना०स्मृ०मा० २.३०)

इति, तद् अपि मानुषासंभव एव । तस्मान् मानुषाभाव एव दिव्येन निर्णय इत्य् औत्सर्गिकम् । अस्य चापवादो दृश्यते :

"प्रक्रान्ते साहसे वादे पारुष्ये दण्डवाचिके ।
बलोद्भूतेषु कार्येषु साक्षिणो दिव्यम् एव च ॥" इति । (का०स्मृ० २२९)

तथा लेख्यादीनाम् अपि क्वचिन् नियमो दृश्यते । यथा :

"पूगश्रेणीगणादीनां या स्थितिः परिकीर्तिता ।
तस्यास् तु साधनं लेख्यं न दिव्यं न च साक्षिणः ॥" (का०स्मृ० २२५)

तथा :

"द्वारमार्गक्रियाभोगजलवाहादिषु क्रिया ।
भुक्तिर् एव गुर्वी स्यान् न दिव्यं न च साक्षिणः ॥" (का०स्मृ० २२६)

तथा :

"दत्तादत्तेऽथ भृत्यानां स्वामिनां निर्णये सति ।
विक्रयादानसंबन्धे क्रीत्वा धनम् अनिच्छति ॥
द्यूते समाह्वये चैव विवादे समुपस्थिते ।
साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम् ॥" इति ॥ (का०स्मृ० २२७–८) ॥ २.२२ ॥

उभयत्र प्रमाणसद्भावे प्रमाणगतबलाबलविवेके चासति पूर्वापरयोः कार्ययोः कस्य बलीयस्त्वम् इत्य् अत आह ।

सर्वेष्व् अर्थविवादेषु बलवत्य् उत्तरा क्रिया । या०ध०२.२३अब्

ऋणादिषु सर्वेष्व् अर्थविवादेषु उत्तरा क्रिया क्रियत इति क्रिया कार्यं बलवती । उत्तरकार्ये साधिते तद्वादी विजयी भवति । पूर्वकार्ये सिद्धेऽपि तद्वादी पराजीयते । तद् यथा : कश्चिद् ग्रहणेन धारणं साधयति कश्चित् प्रतिदानेनाधारणं तत्र ग्रहणप्रतिपादनयोः प्रमाणसिद्धयोः प्रतिदानं बलवद् इति प्रतिदानवादी जयी भवति । तथा पूर्वं द्विकं शतं गृहीत्वा कालान्तरे त्रिकं शतम् अङ्गीकृतवान् तत्रोभयत्र प्रमाणसद्भावेऽपि त्रिकशतग्रहणं बलवत् । पश्चाद्भावित्वात् पूर्वाबाधेनानुत्पत्तेः । उक्तं च "पूर्वाबाधेन नोत्पत्तिर् उत्तरस्य हि सेत्स्यति" इति ॥

अस्यापवादम् आह ।

आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा ॥ या०ध०२.२३च्द्

आध्यादिषु त्रिषु पूर्वम् एव कार्यं बलवत् । तद् यथा : एकम् एव क्षेत्रम् अन्यस्याधिं कृत्वा किम् अपि गृहीत्वा पुनर् अन्यस्याप्य् आधाय किम् अपि गृह्णाति तत्र पूर्वस्यैव तद् भवति नोत्तरस्य । एवं प्रतिग्रहे क्रये च ।

ननु आहितस्य तदानीम् अस्वत्वात् पुनर् आधानम् एव न संभवति । एवं दत्तस्य क्रीतस्य च दानक्रयौ नोपपद्येते । तस्माद् इदं वचनम् अनर्थकम् ।

उच्यते : अस्वत्वेऽपि यदि मोहात् कश्चिल् लोभाद् वा पुनर् आधानादिकं करोति तत्र पूर्वं बलवद् इति न्यायमूलम् एवेदं वचनम् इत्य् अचोद्यम् ॥ २.२३ ॥

भुक्तेः कैश्चिद् विशेषणैर् युक्तायाः प्रामाण्यं दर्शयिष्यन् कस्याश्चिद् भुक्तेः कार्यान्तरम् आह ।

पश्यतो ब्रुवतो भूमेर् हानिर् विंशतिवार्षिकी ।
परेण भुज्यमानाया धनस्य दशवार्षिकी ॥ या०ध०२.२४

परेणासंबन्धेन भुज्यमानां भुवं धनं वा पश्यतोऽब्रुवतः "मदीयेयं भूः न त्वया भोक्तव्या" इत्यप्रतिषेधयतः तस्या भूमेर् विंशतिवार्षिक्य् अप्रतिरवं विंशतिवर्षोपभोगनिमित्ता हानिर् भवति । धनस्य तु हस्त्यश्वादेर् दशवार्षिकी हानिः ।

ननु एतद् अनुपपन्नम् । न ह्य् अप्रतिषेधात् स्वत्वम् अपगच्छति । अप्रतिषेद्धस्य दानविक्रियादिवत् स्वत्वनिवृत्तिहेतुत्वस्य लोकशास्त्रयोर् अप्रसिद्धत्वात् । नापि विंशतिवर्षोपभोगात् स्वत्वम्, उपभोगस्य स्वत्वेऽप्रमाणत्वात्, प्रमाणस्य च प्रमेयप्रत्यनुत्पादकत्वात्, रिक्थक्रयादिषु स्वत्वकारकहेतुष्व् अपाठाच् च । तथा हि : "स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु, ब्राह्मणस्यादिकं लब्धम्, क्षत्रियस्य विनिर्जितम्, निर्विष्टं वैश्यशूद्रयोः" (गौ०ध० १०.३९–४२) इत्य् अष्टाव् एव स्वत्वकारकहेतून् गौतमः पठति, न भोगम् । न चेदम् एव वचनं विंशतिवर्षोपभोगस्य स्वत्वोत्पत्तिहेतुत्वं प्रतिपादयतीति युक्तम् । स्वत्वस्य स्वत्वहेतूनां च लोकप्रसिद्धत्वेन शास्त्रैकसमधिगम्यत्वाभावात् । एतच् च विभागप्रकरणे निपुणतरम् उपपादयिष्यते । गौतमवचनं तु नियमार्थम् ॥ अपि च :

"अनागमं तु यो भुङ्क्ते बहून्य् अब्दशतान्य् अपि ।
चौरदण्डेन तं पापं दण्डयेत् पृथिवीपतिः ॥" (ना०स्मृ० १.७६* अद्दितिओन्)

इत्य् एतद् अनागमोपभोगस्य स्वत्वहेतुत्वे विरुध्यते । न च "अनागमं तु यो भुङ्क्ते" इत्य् एतत् परोक्षभोगविषयम् । पश्यतोऽब्रुवत इति प्रत्यक्षभोगविषयम् इति युक्तं वक्तुम्, अनागमं तु यो भुङ्क्ते इत्य् अविशेषाभिधानात्,

"नोपभोगे बलं कार्यम् आहर्त्रा तत्सुतेन वा ।
पशुस्त्रीपुरुषादीनाम् इति धर्मो व्यवस्थितः ॥" (का०स्मृ० ३१६)

इति कात्यायनवचनाच् च, समक्षभोगे च हानिकारणाभावेन हानेर् असंभवात् ।

न चैतन् मन्तव्यम् : आधिप्रतिग्रहक्रयेषु पूर्वस्याः क्रियायाः प्राबल्याद् अपवादेन भूविषये विंशतिवर्षोपभोगयुक्ताया धनविषये दशवर्षोपभोगयुक्ताया उत्तरस्याः क्रियायाः प्राबल्यम् अनेनोच्यत इति । यतस् तेषूत्तरैव क्रिया तत्त्वतो नोपपद्यते स्वम् एव ह्य् आधेयं देयं विक्रेयं च भवति । न चाहितस्य दत्तस्य विक्रीतस्य वा स्वत्वम् अस्ति । अस्वस्य दाने प्रतिग्रहे च दण्डः स्मर्यते :

"अदेयं यश् च गृह्णाति यश् चादेयं प्रयच्छति ।
उभौ तौ चौरवच् छास्यौ दाप्यौ चोत्तमसाहसम् ।"। इति । (मा०ध०, chf. ध०को० ७९६)

तथाध्यादीनां त्रयाणाम् अपवादत्वेऽस्य श्लोकस्याधिसीमादीनाम् उत्तरश्लोकेऽपवादो नोपपद्यते । तस्माद् भूम्यादीनां हानिर् अनुपपन्नैव । नापि व्यवहारहानिः । यतः,

"उपेक्षां कुर्वतस् तस्य तूष्णीं भूतस्य तिष्टतः ।
काले विपन्ने पूर्वोक्ते व्यवहारो न सिध्यति ॥" (ना०स्मृ० १.७१)

इति नारदेनोपेक्षालिङ्गाभावकृता व्यवहारहानिर् उक्ता न तु वस्त्वभावकृता । तथा मनुनापि,

"अजडश् चेद् अपौगण्डो विषयश् चास्य भुज्यते ।
भग्नं तद् व्यवहारेण भोक्ता तद् धनम् अर्हति ॥" (मा०ध० ८.१४८)

इति व्यवहारतो भङ्गो दर्शितो न वस्तुतः । व्यवहारभङ्गश् चैवम् : भोक्ता किल वदति, "अजडोऽयम् अपौगण्डोऽबालोऽयमस्य संनिधौ विंशतिवर्षाण्यप्रतिरवं मया भुक्तं तत्र बहवः साक्षीनः सन्ति । यद्य् अस्य स्वम् अन्यायेन मया भुज्यते तदायं किम् इत्य् एतावन्तं कालम् उदास्ते" इति तत्र चायं निरुत्तरो भवतीति । एवं निरुत्तरस्यापि वास्तवो व्यवहारो भवत्य् एव, "छलं निरस्य भूतेन व्यवहारान् नयेन् नृपः" इति नियमात् । अथ मतम् । यद्य् अपि न वस्तुहानिर् नापि व्यवहारहानिस् तथापि पश्यतोऽप्रतिषेधतो व्यवहारहानिशङ्का भवतीति तन् निवृत्तये तूष्णीं न स्थातव्यम् इत्य् उपदिश्यत इति । तच् च न, स्मार्तकालाया भुक्तेर् हानिशङ्काकारणत्वाभावात्, तूष्णीं न स्थातव्यम् इत्य् एतावन् मात्राभिधित्सायां विंशतिग्रहणम् अविवक्षितं स्यात् । अथोच्यते । विंशतिग्रहणम् ऊर्ध्वं पत्रदोषोद्भावननिराकरणार्थम् । यथाह कात्यायनः :

"शक्तस्य संनिधाव् अर्थो यस्य लेख्येन भुज्यते ।
विंशतिवर्षाण्य् अतिक्रान्तं तत्पत्रं दोषवर्जितम् ॥" इति । (का०स्मृ० २९९)

तद् अपि न, आध्यादिष्व् अपि विंशतेर् ऊर्ध्वं पत्रदोषोद्भावननिराकरणस्य समत्वेनाधिसीमेत्याद्यपवादासंभवात् । यथाह कात्यायनः :

"अथ विंशतिवर्षाण्य् आधिर् भुक्तः सुनिश्चितः ।
तेन लेख्येन तत्सिद्धिर् लेख्यदोषविवर्जिता ॥" (का०स्मृ० ३००)

तथा :

"सीमाविवादे निर्णीते सीमापत्रं विधीयते ।
तस्य दोषाः प्रवक्तव्या यावद् वर्षाणि विंशतिः ॥" इति । (का०स्मृ० ३०१)

एतेन "धनस्य दशवर्षिकी" इत्य् एतद् अपि प्रत्युक्तम् । तस्माद् अस्य श्लोकस्य सत्योऽर्थो वक्तव्यः ।

उच्यते । भूमेर् धनस्य च फलहानिर् इह विवक्षिता न वस्तुहानिर् नापि व्यवहारहानिः । तथा हि, निराक्रोशं विंशतिवर्षोपभोगाद् ऊर्ध्वं यद्य् अपि स्वामी न्यायतः क्षेत्रं लभते तथापि फलानुसरणं न लभते, अप्रतिषेधलक्षणात् स्वापराधाद् अस्माच् च वचनात् । परोक्षभोगे तु विंशतेर् ऊर्धम् अपि फलानुसरणं लभत एव, "पश्यते" इति वचनात् । प्रत्यक्षभोगे च, साक्रोशे अब्रुवत इति वचनात् । विंशतेः प्राक् प्रय्तक्षे निराक्रोशे च लभते, विंशतिग्रहणात् ।

ननु तद् उत्पन्नस्यापि फलस्य स्वत्वात् तद्धानिर् अनुपपन्नैव ।

बाढम् । तस्य स्वरूपाविनाशेन तथैवावस्थाने यथा तदुत्पन्नपूगपनसवृक्षादीनां यत् पुनस् तदुत्पन्नम् उपभोगान् नष्टं तत्र स्वरूपनाशाद् एव स्वत्वनाशः,

"अनागमं तु यो भुङ्क्ते बहून्यब्दशतान्य् अपि ।
चौरदण्डेन तं पापं दण्ड्येत् पृथिवीपतिः ॥" (ना०स्मृ० १.७६* अद्दितिओन्)

इत्य् अनेन वचनेन निष्क्रयरूपेण गणयित्वा चौरवत् तत्समं द्रव्यदानं प्राप्तं हानिर् विंशतिवार्षिकित्य् अनेनापोद्यते । राजदण्डः पुनर् अस्त्य् एव विंशतेर् ऊर्ध्वम् अप्य् अनागमोपभोगाद् अपवादाभावाच् च । तस्मात् स्वाम्य् उपेक्षालक्षणस्वापराधाद् अस्माच् च वचनाद् विंशतेर् ऊर्ध्वं फलं नष्टं न लभत इति स्थितम् । एतेन धनस्य दशवार्षिकीत्य् एतद् अपि व्याख्यातम् ॥ २.२४ ॥

अस्यापवादम् आह ।

आधिसीमोपनिक्षेपजडबालधनैर् विना ।
तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैर् अपि ॥ या०ध०२.२५

आधिश् च सीमा च उपनिक्षेपश् च आधिसीमोपनिक्षेपाः । जडश् च बालश् च जडबालौ तयोर् धने जडबालधने आधिसीमोपनिक्षेपाश् च जडबालधने च आधिसीमोपनिक्षेपजडबालधनानि तैर् विना । उपनिक्षेपो नाम रूपसंख्याप्रदर्शनेन रक्षणार्थं परस्य हस्ते निहितं द्रव्यम् । यथाह नारदः ।

"स्वं द्रव्यं यत्र विस्रम्भान् निक्षिपत्य् अविशङ्कितः ।
निक्षेपो नाम तत् प्रोक्तं व्यवहारपदं बुधैः ॥" इति । (ना०स्मृ० २.१)

उपनिधानम् उपनिधिः । आध्यादिषु पश्यतोऽब्रुवतोऽपि भूमेर् विंशतेर् ऊर्ध्वं धनस्य च दशभ्यो वर्षेभ्य ऊर्ध्वम् अप्य् उपचयहानिर् न भवति, पुरुषापराधस्य तथाविधस्याभावात्, उपेक्षाकारणस्य तत्र तत्र संभवात् । तथा हि : आधेर् आधित्वोपाधिक एव भोग इत्य् उपेक्षायाम् अपि न पुरुषापराधः । सीम्नश् चिरकृततुषाङ्गारादिचिह्नैः सुसाध्यत्वाद् उपेक्षा संभवति । उपनिक्षेपोपनिध्योर् भुक्तेः प्रतिषिद्धत्वात्, प्रतिषेधातिक्रमोपभोगे च सोदयफललाभाद्, उपेक्षोपपत्तिः । जडबालयोर् जडत्वाद् बालत्वाद् उपेक्षा युक्तैव । राज्ञो बहुकार्यव्याकुलत्वात् । स्त्रीणाम् अज्ञानाद् अप्रागल्भ्याच् च । श्रोत्रियस्याध्ययनाध्यापनतदर्थविचारानुष्ठानव्याकुलत्वाद् उपेक्षा युक्तैव । तस्माद् आध्यादिषु सर्वत्रोपेक्षाकारणसंभवात् समक्षभोगे निराक्रोशे च न कदाचिद् अपि फलहानिः ॥ २.२५ ॥

आध्यादिषु दण्डविशेषप्रतिपादनार्थम् आह ।

आध्यादीनां विहर्तारं धनिने दापयेद् धनम् ।
दण्डं च तत्समं राज्ञे शक्त्यपेक्षम् अथापि वा ॥ या०ध०२.२६

य NSP ओमित्स् य आध्यादीनां श्रोत्रियद्रव्यपर्यन्तानां चिरकालोपभोगबलेनापहर्तारं विवादास्पदीभूतं धनं स्वामिने दापयेद् इत्य् अनुवादः । दण्डं च तत्समं विवादास्पदीभूतद्रव्यसमं राज्ञे दापयेद् इति विधिः । यद्य् अपि गृहक्षेत्रादिषु तत्समो दण्डो न संभवति तथापि,

मर्यादायाः प्रभेदे च सीमातिक्रमणे तथा । (या०ध० २.१५५)

इत्यादिर् वक्ष्यमाणो दण्डो द्रष्टव्यः । अथ तत्समदण्डेनापहर्तुर् दमनं न भवति बहुधनत्वेन तदा शक्त्यपेक्षं धनं दापयेत् । यावता तस्य दर्पोपशमो भवति तावद् दापयेत्, "दण्डो दमनाद् इत्य् आहुस् तेनादान्तान् दमयेत्" (गौ०ध० ११.२८) इति दण्डग्रहणस्य दमनार्थत्वात् । यस्य तु तत्समम् अपि द्रव्यं नास्ति सोऽपि यावता पीड्यते तावद् दाप्यः । यस्य पुनः किम् अपि धनं नास्त्य् असौ धिग्दण्डादिना दमनीयः । तथा च मनुः ।

"धिग्दण्डं प्रथमं कुर्याद् वाग्दण्डं तदनन्तरम् ।
तृतीयं धनदण्डं तु वधदण्डम् अतः परम् ॥" इति । (मा०ध० ८.१२९)

वधदण्डोऽपि शारीरो ब्राह्मणव्यतिरिक्तानां दशधा दर्शितः । तथाह मनुः ।

"दश स्थानानि दण्डस्य मनुः स्वायंभुवोऽब्रवीत् ।
त्रिषु वर्णेषु यानि स्युर् अक्षतो ब्राह्मणो व्रजेत् ॥
उपस्थम् उदरं जिह्वा हस्तौ पादौ च पञ्चमम् ।
चक्षुर् नासा च कर्णौ च धनं देहस् तथैव च ॥" इति । (मा०ध० ८.१२४-२५)

एतेषां यन् निमित्तापराधस् तत्रैवोपस्थादौ निग्रहः कार्य इति द्रष्टव्यम् । कर्म वा कारयितव्यो बन्धनागारं वा प्रवेशयितव्यः । यथोक्तं कात्यायनेन ।

"धनदानासहं बुद्ध्वा स्वाधीनं कर्म कारयेत् ।
अशक्तौ बन्धनागारं प्रवेश्यो ब्राह्मणादृते ॥" इति । (का०स्मृ० ४७९)

ब्राह्मणस्य पुनर् द्रव्याभावे कर्मवियोगादीनि प्रयोज्यानि । यथाह गौतमः : "कर्मवियोगविख्यापननिर्वासनाङ्ककरणादीन्य् अवृत्तौ" (गौ०ध० १२.४७–४८) इति । नारदेनापि ।

"वधः सर्वस्वहरणं पुरान् निर्वासनाङ्कने ।
तदङ्गच्छेद इत्य् उक्तो दण्ड उत्तमसाहसः ॥
अविशेषेण सर्वेषाम् एव दण्डविधिः स्मृतः ॥" (ना०स्मृ० १४.७–८)

इत्य् उक्त्वोक्तम् :

"वधाद् ऋते ब्राह्मणस्य न वधं ब्राह्मणोऽर्हति ॥" इति ।

"शिरसो मुण्डनं दण्डस् तस्य निर्वासनं पुरात् ।
ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन च ॥" इति ॥ (ना०स्मृ० १४.८–९)

अङ्कने च व्यवस्था दर्शिता :

"गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः ।
स्तेये तु श्वपदं कार्यं ब्रह्महण्य् अशिराः पुमान् ॥" इति । (ना०स्मृ० १९.५१)

यत् तु, "चक्षुर्निरोधः ब्राह्मणस्य" (आ०ध० २.२७.१७) इत्य् आपस्तम्बवचनं ब्राह्मणस्य पुरान् निर्वासनसमये वस्त्रादिना चक्षुर् निरोधः कर्तव्य इति तस्यार्थो, न तु चक्षुर् उद्धरणम्, "अक्षतो ब्राह्मणो व्रजेत्", (मा०ध० ८.१२४) "न शारीरो ब्राह्मणे दण्डः" (गौ०ध० १२.४६) इत्यादिमनुगौतमादिवचनविरोधाद् इत्य् अलं प्रसङ्गेन ॥ २.२६ ॥

स्वत्वाव्यभिचारित्वेन भोगस्य स्वत्वे प्रामाण्यम् उक्तम् । भोगमात्रस्य स्वत्वव्यभिचारित्वात् कीदृशो भोगः प्रमाणम् इत्य् अत आह ।

आगमोऽभ्यधिको भोगाद् विना पूर्वक्रमागतात् ॥ या०ध०२.२७अब्

स्वत्वहेतुः प्रतिग्रहक्रयादिर् आगमः । स भोगाद् अप्य् अधिको बलीयान्, स्वत्वबोधने भोगस्यागमस्यापेक्षत्वात् । यथाह नारदः ।

"आगमेन विशुद्धेन भोगो याति प्रमाणताम् ।
अविशुद्धागमो भोगः प्रामाण्यं नैव गच्छति ॥" इति । (ना०स्मृ० १.७६* अद्दितिओन्)

न च भोगमात्रात् स्वत्वावगमः, परकीयस्याप्य् अपहारादिनोपभोगसंभवात् । अत एव,

"भोगं केवलतो यस् तु कीर्तयेन् नागमं क्वचित् ।
भोगच्छलापदेशेन विज्ञेयः स तु तस्करः ॥" (ना०स्मृ० १.७६* अद्दितिओन्)

इति स्मर्यते । अतश् च सागमो दीर्घकालो निरन्तरो निराक्रोशः प्रत्यर्थिप्रत्यक्षश् चेति पञ्चविशेषणयुक्तो भोगः प्रमाणम् इत्य् उक्तं भवति । तथा च स्मर्यते ।

"सागमो दीर्घकालश् चाविच्छेदोऽपरवोज्झितः ।
प्रत्यर्थिसंनिधानोऽपि परिभोगोऽपि पञ्चधा ॥" इति । (ण्, का०स्मृ० : ध०को० ४०६, ४१६)

क्वचिच् चागमननिरपेक्षस्यापि भोगस्य प्रामाण्यम् इत्य् आह "विना पूर्वक्रमागताद्" इति । पूर्वेषां पित्रादीनां त्रयाणां क्रमः पूर्वक्रमः, तेनागतो यो भोगस् तस्माद् विना आगमोऽभ्यधिक इति संबन्धः । स पुनर् आगमाद् अभ्यधिकः । आगमनिरपेषः प्रमाणम् इत्य् अर्थः । तत्राप्य् आगमोऽज्ञातनिरपेक्षो न सत्तानिरपेषः । सत्ता तु तेनैवावगम्यत इति बोद्धव्यम् । "विना पूर्वक्रमागताद्" इत्य् एतच् चास्मार्तकालप्रदर्शनार्थम् । "आगमोऽभ्यधिको भोगाद्" इति च स्मार्तकालविषयम् । अतश् च स्मरणयोग्ये काले योग्यानुपलब्ध्या आगमाभावनिश्चयसंभवाद् आगमज्ञानसापेक्षस्यैव भोगस्य प्रामाण्यम् । अस्मार्ते तु काले योग्यानुपलब्ध्यभावेनागमाभावनिश्चयासंभवाद् आगमज्ञाननिरपेक्ष एव संततो भोगः प्रमाणम् । एतद् एव स्पष्टीकृतं कात्यायनेन ।

"स्मार्तकाले क्रिया भूमेः सागमा भुक्तिर् इष्यते ।
अस्मार्तेऽनुगमाभावात् क्रमात् त्रिपुरुषगता ॥" इति । (का०स्मृ० ३२१)

स्मार्तश् च कालो वर्षशतपर्यन्तः, "शतायुर् वै पुरुषः" इति श्रुतेः । अनुगमाभावाद् इति योग्यानुपलब्ध्यभावेनागमाभावनिश्चयाभावाद् इत्य् अर्थः । अतश् च वर्षशताधिको भोगः संततोऽप्रतिरवः प्रत्यर्थिप्रत्यक्षश् चागमाभावे वानिश्चितेऽव्यभिचाराद् आक्षिप्तागमः स्वत्वं गमयति । अस्मार्तेऽपि कालेऽनागमस्मृतिपरम्परायां सत्यां न भोगः प्रमाणम् । अत एव,

"अनागमं तु यो भुङ्क्ते बहून्य् अब्दशतान्य् अपि ।
चौरदण्डेन तं पापं दण्डयेत् पृथिवीपतिः ॥" (ना०स्मृ० १.७६* अद्दितिओन्)

इत्य् उक्तम् । न च "अनागमं तु यो भुङ्क्ते" इत्य् एकचननिर्देशात् "बहून्य् अब्दशतान्य् अपि" इत्य् अपिशब्दप्रयोगात् प्रथमस्यैव पुरुषस्य निरागमे चिरकालोपभोगेऽपि दण्डविधानम् इति मन्तव्यम्, द्वितीते तृतीये वा पुरुषे निरागमस्य भोगस्य प्रामाण्यप्रसङ्गात् । न चैतद् इष्यते,

"आदौ तु कारणं दानं मध्ये भुक्तिस् तु सागमा ।" (ध०को० ४०९)

इति नारदस्मरणात् । तस्मात् सर्वत्र निरागमोपभोगे "अनागमं तु यो भुङ्क्ते" इत्य् एतद् द्रष्टव्यम् । यद् अपि,

"अन्यायेनापि यद् भुक्तं पित्रा पूर्वतरैस् त्रिभिः ।
न तच् छक्यम् अपाहर्तुं क्रमात् त्रिपुरुषागतम् ॥" (ना०स्मृ० १.७८* अद्दितिओन्)

इति, तद् अपि पित्रा सह पूर्वतरैस् त्रिभिर् इति योज्यम् । तत्रापि "क्रमात् त्रिपुरुषागतम्" इत्य् अस्मार्तकालोपभोगलक्षणम् । त्रिपुरुषविवक्षायाम् एकवर्षाभ्यन्तरेऽपि पुरुषत्रयातिक्रमसंभवात्, द्वितीये वर्षे निरागमस्य भोगस्य प्रामाण्यप्रसण्गः । तथा सति,

"स्मार्तकाले क्रिया भूमेः सागमा भुक्तिर् इष्यते ।" (का०स्मृ० ३२१)

इति स्मृतिविरोधः । "अन्यायेनापि यद् भुक्तम्" इत्य् एतच् चान्यायेनापि भुक्तम् अपहर्तुं न शक्यं किं पुनर् अन्यायानिश्चये इत् व्याख्येयम्, अपिशब्दश्रवणात् । यच् चोक्तं हारीतेन ।

"यद् विनागमम् अत्यन्तं भुक्तं पूर्वैस् त्रिभिर् भवेत् ।
न तच् छक्यम् अपाहर्तुं क्रमात् त्रिपुरुषागतम् ॥"

इति, तत्राप्य् अत्यन्तम् आगमं विनेति । अत्यन्तम् उपलभ्यमानम् आगमं विनेति व्याख्येयं, न पुनर् आगमस्वरूपं विनेति । आगमस्वरूपाभावे भोगशतेनापि न स्वत्वं भवतीत्य् उक्तम् । "क्रमात् त्रिपुरुषागतम्" इत्य् एतद् उकतार्थम् ।

ननु स्मरणयोग्ये काले भोगस्यागमसापेक्षस्य प्रामाण्यम् अनुपपन्नम् । तथा हि, यद्य् आगमः प्रमाणान्तरेणावगतस् तदा तेनैव स्वत्वावगमान् न भोगस्य स्वत्वे आगमे वा प्रामाण्यम् । अथ प्रमाणान्तरेणागमो नावगतः कथं तद्विशिष्टो भोगः प्रमाणम् ।

उच्यते । प्रमाणान्तरेणावगतागमसहित एव निरन्तरो भोगः कालान्तरे स्वत्वं गमयति । अवगतोऽप्यागमो भोगरहितो न कालान्तरे स्वत्वं गमयितुम् अलम्, मध्ये दानविक्रयादिना स्वत्वापगमसंभवात् । इति सर्वम् अनवद्यम् ॥

आगमसापेक्षो भोगः प्रमाणम् इत्य् उक्तम् । आगमस् तर्हि भोगनिरपेक्ष एव प्रमाणम् इत्य् अत आह ।

आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥ या०ध०२.२७च्द्

यस्मिन्न् आगमे स्वल्पापि भुक्तिर् भोगो नास्ति तस्मिन्न् आगमे बलं संपूर्णं नैवास्ति । अयम् अभिसंधिः । स्वस्वत्वनिवृत्तिः परस्वत्वापादनं च दानम् । परस्वत्वापादनं च परो यदि स्वीकरोति तदा संपद्यते नान्यथा । स्वीकारश् च त्रिविधः । मानसो वाचिकः कायिकश् चेति । तत्र मानसो ममेदम् इति संकल्परूपः । वाचिकस् तु ममेदम् इत्याद्य् अभिव्याहारोल्लेखी सविकल्पकः प्रत्ययः । कायिकः पुनर् उपादानाभिमर्शनादिरूपोऽनेकविधः । तत्र च नियमः स्मर्यते :

"दद्यात् कृष्णाजिनं पृष्ठे गां पुच्छे करिणम् करे ।
केसरेषु तथैवाश्वं दासीं शिरसि दापयेत् ॥" इति ।

आश्वलायनोऽप्य् आह : "अनुमन्त्रयेत प्राण्य् अभिमृशेद् वप्राणि कन्यां च" इति । तत्र हिरण्यवस्त्रादाव् उदकदानानन्तरम् एवोपादानादिसंभवात्, त्रिविधोऽपि स्वीकारः संपद्यते । क्षेत्रादौ पुनः फलोपभोगव्यतिरेकेण कायिकस्वीकारासंभवात्, स्वल्पेनाप्य् उपभोगेन भवितव्यम् अन्यथा दानक्रयादेः संपूर्णता न भवतीति फलोपभोगलक्षणकायिकस्वीकारविकल आगमो दुर्बलो भवति तत्सहिताद् आगमात् । एतच् च द्वयोः पूर्वापरकालापरिज्ञाने, पूर्वापरकालपरिज्ञाने तु विगुणोऽपि पूर्वकालागम एव बलीयान् इति । अथ वा, "लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिपुरुषागतम्" इत्य् उक्तम् । एतेषां समवाये कुत्र कस्य वा प्राबल्यम् इत्य् अत्रेदम् उपतिष्ठते :

आगमोऽभ्यधिको भोगाद् विना पूर्वक्रमागतात् ।

आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥ (या०ध० २.२७) इति ।

अयम् अर्थः । आद्ये पुरुषे साक्षिभिर् भावित आगमो भोगाद् अप्य् अधिको बलवान्, पूर्वक्रमागताद् भोगाद् विना । स पुनः पूर्वक्रमागतो भोगाश् चतुर्थपुरुषे लिखितेन भाविताद् आगमाद् बलवान् । मध्ये तु भोगरहिताद् आगमात् स्तोकभोगसहितोऽप्य् आगमो बलवान् इति । एतद् एव नारदेन स्पष्टीकृतम् :

"आदौ तु कारणं दानं मध्ये भुक्तिस् तु सागमा ।
कारणं भुक्तिर् एवैका संतता या चिरन्तनी ॥" इति ॥ (ध०को० ४०९) २.२७ ॥

"पश्यतोऽब्रुवतः" (या०ध० २.२४) इत्य् अत्र विंशतिवर्षोपभोगाद् ऊर्ध्वं भूमेर् धनस्यापि दशवर्षोपभोगाद् ऊर्ध्वं फलानुसरणं न भवतीत्युक्तम् । तत्र फलानुसरणवद् दण्डानुसरणम् अपि न भविष्यतीत्य् आशङ्क्य पुरुषव्यवस्थया प्रामाण्यव्यवस्थया च दण्डव्यवस्थां दर्शयितुम् आह ।

आगमस् तु कृतो येन सोऽभियुक्तस् तम् उद्धरेत् ।
न तत्सुतस् तत्सुतो वा भुक्तिस् तत्र गरीयसी ॥ या०ध०२.२८

येन पुरुषेण भूम्यादेर् आगमः स्वीकारः कृतः स पुरुषः कुतस् ते क्षेत्रादिकम् इत्य् अभियुक्तस् तस्यागमं प्रतिग्रहादिकं लिखितादिभिर् उद्धरेत् भावयेत् । अनेन चाद्यस्य पुरुषस्यागमम् अनुद्धरतो दण्ड इत्य् उक्तं भवति । तत्सुतो द्वितीयोऽभियुक्तो नागमम् उद्धरेत् किं तु अविच्छिन्नाप्रतिरवसमक्षभोगम् । अनेन चागमम् अनुद्धरतो द्वितीयस्य न दण्डोऽपि तु विशिष्टं भोगम् अनुद्धरतो दण्ड इति प्रतिपादितम् । तत्सुतस् तृतीयो नागमं नापि विशिष्टं भोगम् उद्धरेद्, अपि तु क्रमागथं भोगमात्रम् । अनेनापि तृतीयस्य क्रमायातभोगानुद्धरणे दण्डो नागमानुद्धरणे न विशिष्टभोगानुद्धरणे चेत्य् अभिहितम् । तत्र तयोर् द्वितीयतृतीययोर् भुक्तिर् एव गरीयसी । तत्रापि द्वितीये गुरुस् तृतीये गरीयसीति विवेक्तव्यम् । त्रिष्व् अप्य् आगमानुद्धरणेऽर्थहानिः समानैव, दण्डे तु विशेष इति तात्पर्यार्थः । उक्तं च हारीतेन ।

"आगमस् तु कृतो येन स दण्ड्यस् तम् अनुद्धरम् ।
न तत्सुतस् तत्सुतो वा भोग्यहानिस् तयोर् अपि ॥" इति ॥ २.२८ ॥

अस्मार्तकालोपभोगस्यागमज्ञाननिरपेक्षस्य प्रामाण्यम् उक्तम्, "विना पूर्वक्रमागताद्" इत्य् अत्र तस्यापवादम् आह ।

योऽभियुक्तः परेतः स्यात् तस्य रिक्थी तम् उद्धरेत् ।
न तत्र कारणं भुक्तिर् आगमेन विना कृता ॥ या०ध०२.२९

यदा पुनर् आहर्त्रादिर् अभियुक्तोऽकृतव्यवहारनिर्णय एव परेतः स्यात् परलोकं गतो भवेत् तदा तस्य रिक्थी पुत्रादिस् तम् आगमम् उद्धरेत् । यस्मात् तत्र तस्मिन् व्यवहारे भुक्तिर् आगमरहिता साक्ष्यादिभिः साधितापि न प्रमाणम् । पूर्वाभियोगेन भोगस्य सापवादत्वात् । नारदेनाप्य् उक्तम् ।

"तथारूढविवादस्य प्रेतस्य व्यवहारिणः ।
पुत्रेण सोऽर्थः संशोध्यो न तं भोगो निवर्तयेत् ॥" इति ॥ (ना०स्मृ० १.८०) २.२९ ॥

अनिर्णीतव्यवहारे व्यवहर्तरि प्रेते व्यवहारो न नवर्तत इति स्थितम् । निर्णीतेऽपि व्यवहारे स्थिते च व्यवहर्तारि व्यवहारः क्वचित् प्रवर्तते क्वचिन् न प्रवर्तत इति व्यवस्थासिद्धये व्यवहारदर्शिनां बलाबलम् आह ।

नृपेणाधिकृताः पूगाः श्रेणयोऽथ कुलानि च ।
पूर्वं पूर्वं गुरु ज्ञेयं व्यवहारविधौ नृणाम् ॥ या०ध०२.३०

नृपेण राज्ञा अधिकृताः व्यहारदर्शने नियुक्ताः, "राज्ञा सभासदः कार्याः" इत्यादिनोक्ताः पूगाः समूहाः । भिन्नजातीनां भिन्नवृत्तीनाम् एकस्थाननिवासिनां यथा ग्रामनगरादयः । श्रेणयो नानाजातीनाम् एकजातीयकर्मोपजीविनां सम्घाताः । यथा हेडाबुकादीनां ताम्बूलिककुविन्दचर्मकारादीनां च । कुलानि ज्ञातिसंबन्धिबन्धूनां समूहाः । एतेषां नृपाधिकृतादीनां चतुर्णां पुर्वं पुर्वं यद् यत् पूर्वं पठितं तत् तद् गुरु बलवज् ज्ञेयं वेदितव्यम् । नृणां व्यवहर्तॄणां व्यवहारविधौ व्यवहारदर्शनकार्ये एतद् उक्तं भवति । नृपाधिकृतैर् निर्णीते व्यवहारे पराजितस्य यद्य् अप्य् असंतोषः कुदृष्टिबुद्ध्या भवति तथापि न पूगादिषु पुनर् व्यवहारो भवति । एवं पूर्गनिर्णीतेऽपि न श्रेण्यादिगमनम् । तथा श्रेणिनिर्णीते कुलगमनं न भवति । कुलनिर्णीते तु श्रेण्यादिगमनं भवति । श्रेणिनिर्णीते पूगादिगमनम् । पूगनिर्णीते नृपधिकृतगमनं भवतीति । नारदेन पुनर् नृपाधिकृतैर् निर्णीतेऽपि व्यवहारे नृपगमनं भवतीत्य् उक्तम् :

"कुलानि श्रेणयश् चैव गणाश् चाधिकृता नृपः ।
प्रतिष्ठा व्यवहाराणां गुर्व् एषाम् उत्तरोत्तरम् ॥" इति । (ना०स्मृ०मा० १.७)

तत्र च नृपगमने सोत्तरसभ्येन राज्ञा पूर्वैः सभ्यैः सपणे व्यवहारे निर्णीयमाने यद्य् असौ कुदृष्टवादी पराजितस् तदासौ दण्ड्यः । अथासौ जयति तदाधिकृताः सभ्या दण्ड्याः ॥ २.३० ॥

दुर्बलैर् व्यवहारदर्शिभिर् दृष्टो व्यवहारः परावर्तते प्रबलदृष्टस् तु न निवर्तत इत्य् उक्तम् । इदानीं प्रबलदृष्टोऽपि व्यवहारः कश्चिन् निवर्तत इत्य् आह ।

बलोपाधिविनिर्वृत्तान् व्यवहारान् निवर्तयेत् ।
स्त्रीनक्तमन्तरागारबहिःशत्रुकृतांस् तथा ॥ या०ध०२.३१

बलेन बलात्कारेण उपाधिना भयादिना विनिर्वृत्तान् निष्पन्नान् व्यवहारान् निवर्तयेत् । तथा स्त्रीभिः । नक्तं रात्राव् अस्त्रीभिर् अपि । अन्तरागारे गृहाभ्यन्तरे बहिर् ग्रामादिभ्यः शत्रुभिश् च कृतान् व्यवहारान् निवर्तयेद् इति संबन्धः ॥ २.३१ ॥

असिद्धव्यवहारिण आह ।

मत्तोन्मत्तार्तव्यसनिबालभीतादियोजितः ।
असंबद्धकृतश् चैव व्यवहारो न सिध्यति ॥ या०ध०२.३२

अपि च । मत्तो मदनीयद्रव्येण । उन्मत्त उन्मादेन पञ्चविधेन वातपित्तश्लेष्मनिपातग्रहसंभवेन उपसृष्टः । आर्तो व्याध्यादिना । व्यसनम् इष्टवियोगानिष्टप्राप्तिजनितं दुखं तद्वान् व्यसनी । बालो व्यवहारायोग्यः । भीतोऽरातिभ्यः । आदिग्रहणात् पुरराष्ट्रादिविरुद्धः ।

"पुरराष्ट्रविरुद्धश् च यश् च राज्ञा विसर्जितः ।
अनादेयो भवेद् वादो धर्मविद्भिर् उदाहृतः ॥" (ध०को० ११५ अस् fरोम् ना०स्मृ०)

इति मनुस्मरणात् । एतैर् योजितः कृतो व्यवहारो न सिध्यतिति । अनियुक्तासंबद्धकृतोऽपि व्यवहारो न सिध्यतिति संबन्धः । यत् तु स्मरणम् :

"गुरोः शिष्ये पितुः पुत्रे दम्पत्योः स्वामिभृत्ययोः ।
विरोधे तु मिथस् तेषां व्यवहारो न सिध्यति ॥" (ध०को० ११४)

इति तद् अपि गुरुशिष्यादीनाम् आत्यन्तिकव्यवहारप्रतिषेधपरं न भवति । तेषाम् अपि कथंचिद् व्यवहारस्येष्टत्वात् । तथा हि "शिष्यशिष्टिर् अवधेन, अशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्याम्, अन्येन घ्नन् राज्ञा शास्यः" (गौ०ध० २.४२–४४) इति गौतमस्मरणात्, "नोत्तमाङ्गे कथंचन" (मा०ध० ८.३००) इति मनुस्मरणाच् च । यदि गुरुः कोपावेशवशान् महता दण्डेनोत्तमाङ्गे ताडयति तदा "स्मृतिव्यपेतेन मार्गेणाधर्षितः" (या०ध० २.५) शिष्यो यदि राज्ञे निवेदयति, तदा भवत्य् एव व्यवहारपदम् । तथा, "भूर् या पितामहोपात्ता" (या०ध० २.१२१) इत्यादिवचनात् पितामहोपात्ते भूम्यादौ पितापुत्रयोः स्वाम्ये समाने, यदि पिता विक्रयादिना पितामहोपात्तं भूम्यादि नाशयति, तदा पुत्रो यदि धर्माधिकारिणं प्रविशति तदा पितापुत्रयोर् अपि भवत्य् एव व्यवहारः । तथा,

दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके ।

गृहीतं स्त्रीधनं भर्ता नाकामो दातुम् अर्हति ॥ (या०ध० २.१४७)

इति स्मरणाद् दुर्भिक्षादिव्यतिरेकेण यदि स्त्रीधनं भर्ता व्ययीकृत्य विद्यमानधनोऽपि याच्यमानो न ददाति, तदा दम्पत्योर् अपीष्यत एव व्यवहारः । तथा भक्तदासस्य स्वामिना सह व्यवहारं वक्ष्यति । गर्भदासस्यापि गर्भदासादीन् अधिकृत्य,

"यश् चैषां स्वामिनं कश्चिन् मोचयेत् प्राणसंशयात् ।
दासत्वात् स विमुच्येत पुत्रभागं लभेत च ॥" (ना०स्मृ० ५.२८)

इति नारदोक्तत्वात्, तदमोचने पुत्रभागादाने च स्वामिना सह व्यवहारः केन वार्यते । तस्माद् दृष्टादृष्टयोः श्रेयस्करो न भवति गुर्वादिभिर् व्यवहार इति प्रथमं शिष्यादयो निवारणीयाः राज्ञा ससभ्येनेति "गुरोः शिष्ये" इत्यादिश्लोकस्य तात्पर्यार्थः । अत्यन्तनिर्बन्धे तु शिष्यादीनाम् अप्य् उक्तरीत्या प्रवर्तनीयो व्यवहारः । यद् अपि,

"एकस्य बहुभिः सार्धं स्त्रीणां प्रेष्यजनस्य च ।
अनादेयो भवेद् वादो धर्मविद्भिर् उदाहृतः ॥" (ध०को० ११४)

इति नारदवचनम्, तत्रैकस्यापि, "गणद्रव्यं हरेद् यस् तु संविदं लङ्घयेच् च यः" (या०ध० २.१८७), तथा, "एकं घ्नन्तं बहूनां च" (या०ध० २.२२१) इत्यादिस्मरणाद् एकार्थैर् बहुभिः सार्धं व्यवहार इष्यते एवेति भिन्नार्थैर् बहुभिर् एकस्य युगपद्व्यवहारो न भवतीति द्रष्टव्यम् । स्त्रीणाम् इत्य् अपि गोपशौण्डिकादिस्त्रीणां स्वातन्त्र्याद् व्यवहारो भवत्य् एवेति तदन्यासां सकलस्त्रीणां पतिषु जीवत्सु तत्पारतन्त्र्याद् अनादेयो व्यवहार इति व्याख्येयम् । प्रेष्यजनस्य चेत्य् एतद् अपि प्रेष्यजनस्य स्वामिपारतन्त्र्यात् स्वार्थव्यवहारोऽपि स्वाम्यनुज्ञयैव व्यवहारो नान्यथेति व्याख्येयम् ॥ २.३२ ॥

परावर्त्यं व्यवहारम् उक्त्वा इदानीं परावर्त्यं द्रव्यम् आह ।

प्रनष्टाधिगतं देयं नृपेण धनिने धनम् ।
विभावयेन् न चेल् लिङ्गैस् तत्समं दण्डम् अर्हति ॥ या०ध०२.३३

प्रनष्टं हिरण्यादि शौल्किकस्थानपालादिभिर् अधिगतं राज्ञे समर्पितं यत् तद् राज्ञा धनिने दातव्यम्, यदि धनी रूपसंख्यादिभिर् लिङ्गैर् भावयति । यदि न भावयति तदा तत्समं दण्ड्यः, असत्यवादित्वात् । अधिगमस्य स्वत्वनिमित्तत्वात् स्वत्वे प्राप्ते तत्परावृत्तिर् अनेनोक्ता । अत्र च कालावधिं वक्ष्यति :

शौल्किकैः स्थानपालैर् वा नष्टापहृतम् आहृतम् ।

अर्वाक् संवत्सरात् स्वामी हरेत परतो नृपः ॥ इति (या०ध० २.१७३) ।

मनुना पुनः संवत्सरत्रयम् अवधित्वेन निर्दिष्टम् :

"प्रनष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् ।
अर्वाक् त्र्यबाद् धरेत् स्वामी परतो नृपतिर् हरेत् ॥" इति । (मा०ध० ८.३०)

तत्र वर्षत्रयपर्यन्तम् अवश्यं रक्षणीयम् । तत्र यदि संवत्सराद् अर्वाक् स्वाम्य् आगच्छेत् तदा कृत्स्नम् एव दद्यात् । यदा पुनः संवत्सराद् ऊर्ध्वम् आगच्छति तदा षड्भागं रक्षणमूल्यं गृहीत्वा शेषं स्वामिने दद्यात् । यथाह :

"आददीताथ षड्भागं प्रनष्टाधिगतान् नृपः ।
दशमं द्वादशं वापि सतां धर्मम् अनुस्मरन् ॥" इति । (मा०ध० ८.३३)

तत्र प्रथमे वर्षे कृत्स्नम् एव दद्यात्, द्वितीये द्वादशं भागं, तृतीये दशमं, चतुर्थादिषु षठं भागं गृहीत्वा शेषं दद्यात् । राजभागस्य चतुर्थोऽंशोऽधिगन्त्रे दातव्यः । स्वाम्यनागमे तु कृत्स्नस्य धनस्य चतुर्थम् अंशम् अधिगन्त्रे दत्त्वा शेषं राजा गृह्णीयात् । तथाह गौतमः "प्रनष्टस्वामिकम् अधिगम्य संवत्सरं राज्ञा रक्ष्यम्, ऊर्ध्वम् अधिगन्तुश् चतुर्थोऽंशो राज्ञः शेषम्" इति (गौ०ध० १०.३६–३८) । अत्र संवत्सरम् इत्य् एकवचनम् अविवक्षितम्, "राजा त्र्यब्दं निधापयेत्" (मा०ध० ८.३०) इति स्मरणात् । "हरेत परतो नृपः" इत्य् एतद् अपि स्वामिन्य् अनागते त्र्यब्दाद् ऊर्ध्वं व्ययीकरणाभ्यनुज्ञापरम् । ततः परम् आगते तु स्वामिनि व्ययीभूतेऽपि द्रव्ये राजा स्वांशम् अवतार्य तत्समं दद्यात् । एतच् च हिरण्यादिविषयम् । गवादिविषये वक्ष्यति : "पणान् एकशफे दद्यात्" इत्यादिना (या०ध० २.१७४) ॥ २.३३ ॥

रथ्याशुल्कशालादिनिपतितस्य सुवर्णादेर् नष्टस्याधिगमे विधिम् उक्त्वा अधुना भूमौ चिरनिखातस्य सुवर्णादेर् निधिशब्दवाच्यस्याधिगमे विधिम् आह ।

राजा लब्ध्वा निधिं दद्याद् द्विजेभ्योऽर्धं द्विजः पुनः ।
विद्वान् अशेषम् आदद्यात् स सर्वस्य प्रभुर् यतः ॥ या०ध०२.३४

इतरेण निधौ लब्धे राजा षष्ठांशम् आहरेत् ।
अनिवेदितविज्ञातो दाप्यस् तं दण्डम् एव च ॥ या०ध०२.३५

उक्तलक्षणं निधिं राजा लब्ध्वा अर्धं ब्राह्मणेभ्यो दत्त्वा शेषं कोशे निवेशयेत् । ब्राह्मणस् तु विद्वान् श्रुताध्ययनसंपन्नः सदाचारो यदि निधिं लभेत तदा सर्वम् एव गृह्णीयात्, यस्माद् असौ सर्वस्य जगतः प्रभुः । इतरेण तु राजविद्वद्ब्राह्मणव्यतिरिक्तेन अविद्वद्ब्राह्मणक्षत्रियादिना निधौ लब्धे राज षष्ठांशम् अधिगन्त्रे दत्त्वा शेषं निधिं स्वयम् आहरेत् । यथाह वसिष्ठः "अप्रज्ञायमानं वित्तं योऽधिगच्छेद् राजा तद् धरेत् षष्ठम् अंशम् अधिगन्त्रे दद्यात्" (व०ध० ३.१३) इति । गौतमोऽपि "निध्यधिगमो राजधनं भवति, न ब्राह्मणस्याभिरूपस्य, अब्राह्मणो व्याख्याता षष्ठम् अंशं लभेतेत्य् एके" (गौ०ध० १०.४३–४५) इति । अनिवेदित इति कर्तरि निष्ठा । अनिवेदितश् चासौ विज्ञातश् च राज्ञेऽप्य् अनिवेदितविज्ञातः यः कश्चिन् निधिं लब्ध्वा राज्ञे न निवेदितवान् विज्ञातश् च राज्ञा स सर्वं निधिं दाप्यो दण्डं च सक्त्यपेक्षया । अथ निधेर् अपि स्वाम्य् आगत्य रूपसंख्यादिभिः स्वत्वं भावयति तदा तस्मै राजा निधिं दत्वा षष्ठं द्वादशं वांशं स्वयम् आहरेत् । यथाह मनुः ।

"ममायम् इति यो ब्रूयान् निधिं सत्येन मानवः ।
तस्याददीत षड्भागं राजा द्वादशम् एव वा ॥" इति । (मा०ध० ८.३५)

अंशविकल्पस् तु वर्णकालाद्यपेक्षया वेदितव्यः ॥ २.३४ ॥ २.३५ ॥

चौरहृतं प्रत्य् आह ।

देयं चौरहृतं द्रव्यं राज्ञा जानपदाय तु ।
अददद् धि समाप्नोति किल्बिषं यस्य तस्य तत् ॥ या०ध०२.३६

चौरैर् हृतं द्रव्यं चौरेभ्यो विजित्य जानपदाय स्वदेशनिवासिने यस्य तत् द्रव्यं तस्मै राज्ञा दातव्यम् । हि यस्माद् अददद् अप्रयच्छन् यस्य तद् अपहृतं द्रव्यं तस्य किल्बिषम् आप्नोति । तस्य चौरस्य च । यथाह मनुः :

"दातव्यं सर्ववर्णेभ्यो राज्ञा चौरैर् हृतं धनम् ।
राजा तद् उपयुञ्जानश् चौरस्याप्नोति किल्बिषम् ॥" इति । (मा०ध० ८.४०)

यदि चौरहस्ताद् आदाय स्वयम् उपभुङ्क्ते तदा चौरस्य किल्बिषम् आप्नोति । अथ चौरहृतम् उपेक्षते तदा जानपदस्य किल्बिषम् । अथ चौरहृताहरणाय यतमानोऽपि न शक्नुयाद् आहर्तुं तदा तावद् धनं स्वकोशाद् दद्यात् । यथाह गौतमः "चौरहृतम् अवजित्य यथास्थानं गमयेत्, कोशाद् वा दद्यात्" )गौ०ध० १०.४६–४७) इति । कृष्णद्वैपायनोऽपि :

"प्रत्याहर्तुं न शक्तस् तु धनं चौरैर् हृतं यदि ।
स्वकोशात् तद् धि देयं स्याद् अशक्तेन महीक्षिता ॥" इति ॥ (म०भा० १२.७६.१०) २.३६ ॥

इत्य् असाधारणव्यवहारमातृअकाप्रकरणम्
अथ ऋणादानप्रकरणम्

साधारणासाधारणरूपां व्यवहारमातृकाम् अभिधायाधुनाष्टादशानां व्यवहारपदानाम् आद्यम् ऋणादानपदं दर्शयति "अशीतिभागो वृद्धिः स्यात्" इत्यादिना "मोच्य आधिस् तदुत्पन्ने प्रविष्टे द्विगुणे धने" इत्येवम् अन्तेन (या०ध० २.३७–६४) । तच् च ऋणादानं सप्तविधम् । ईदृशम् ऋणं देयं ईदृशम् अदेयम्, अनेनाधिकारिणा देयम्, अस्मिन् समये देयम्, अनेन प्रकारेण देयम् इत्य् अधमर्णे पञ्चविधम् । उत्तमर्णे दानविधिः, आदानविधिश् चेति द्विविधम् इति । एतच् च नारदेन स्पष्टीकृतम् :

"ऋणं देयम् अदेयं च येन यत्र यया च यत् ।
दानग्रहणधर्माभ्याम् ऋणादानम् इति स्मृतम् ॥" इति । (ना०स्मृ० १.१)

तत्र प्रथमम् उत्तमर्णस्य दानविधिम् आह तत्पूर्वकत्वाद् इतरेषाम् ।

अशीतिभागो वृद्धिः स्यान् मासि मासि सबन्धके ।
वर्णक्रमाच् छतं द्वित्रिचतुःपञ्चकम् अन्यथा ॥ या०ध०२.३७

मासि मासि प्रतिमासं बन्धकं विश्वासार्थं यद् आधीयते, आधिर् इति यावत् । बन्धकेन सह वर्तत इति सबन्धकः प्रयोगस् तस्मिन् सबन्धके प्रयोगे प्रयुक्तस्य द्रव्यस्य अशीतितमो भागो वृद्धिर् धर्म्या भवति । अन्यथा बन्धकरहिते प्रयोगे वर्णानां ब्राह्मणादीनां क्रमेण द्वित्रिचतुःपञ्चकं शतं धर्म्यं भवति । ब्राह्मणेऽधमर्णे द्विकं शतं क्षत्रिये त्रिकं वैश्ये चतुष्कं शूद्रे पञ्चकं मासि मासीत्य् एव द्वौ वा त्रयो वा चत्वारो वा पञ्च वा द्वित्रिचतुःपञ्चा अस्मिन् शते वृद्धिर् दीयते इति द्वित्रिचतुःपञ्चकं शतम् । "संख्याया अतिशदन्तायाः कन्" (ढ़ाण् ५.१.२२) इत्यनुवृत्तौ, "तद् अस्मिन् वृद्ध्यायलाभशुल्कोपदादीयते" (ढ़ाण् ५.१.४७) इति कन् । additional verse in some mss : वृद्धेर् वृद्धिश् चक्रवृद्धिः प्रतिमासं तु कालिका । इच्छाकृता कारिता स्यात् कायिका कायकर्मणा ॥ इयं च वृद्धिर् मासि गृह्यत इति कालिका । इयम् एव वृद्धिर् दिवसगणनया विभज्य प्रतिदिवसं गृह्यमाणा कायिका भवति । तथा च नारदेन :

"कायिका कालिका चैव कारिता च तथा परा ।
चक्रवृद्धिश् च शास्त्रेषु तस्य वृद्धिश् चतुर्विधा ॥" (ना०स्मृ० १.८७)

इत्य् उक्त्वा, उक्तम् :

"कायाविरोधिनी शश्वत् पणपादादिकायिका ।
प्रतिमासं स्रवन्ती या वृद्धिः सा कालिका मता ॥
वृद्धिः सा कारिता नामाधमर्णेन स्वयं कृता ।
वृद्धेर् अपि पुनर् वृद्धिश् चक्रवृद्धिर् उदाहृता ॥" इति ॥ (ना०स्मृ० १.८८–८९) २.३७ ॥

ग्रहीतृविशेषेण प्रकारान्तरम् आह ।

कान्तारगास् तु दशकं सामुद्रा विंशकं शतम् । या०ध०२.३८अब्

कान्तारम् अरण्यं तत्र गच्छतीति कान्तारगाः । ये वृद्ध्या धनं गृहीत्वाधिकलाभार्थम् अतिगहनं प्राणधनविनाशशङ्कास्थानं प्रविशन्ति ते दशकं शतं दद्युः । ये च समुद्रगास् ते विंशकं शतं मासि मासीत्य् एव । एतद् उक्तं भवति : कान्तारगेभ्यो दशकं शतं सामुद्रेभ्यश् च विंशकम् उत्तमर्ण आदद्यान् मूलविनाशस्यापि शङ्कितत्वाद् इति ॥

इदानीं कारितां वृद्धिम् आह ।

दद्युर् वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु ॥ या०ध०२.३८च्द्

सर्वे वा ब्राह्मणादयोऽधमर्णा अबन्धके सबन्धके वा स्वकृतां स्वाभ्युपगतवृद्धिं सर्वासु जातिषु दद्युः । क्वचिद् अकृतापि वृद्धिर् भवति । तथाह नारदः ।

"न वृद्धिः प्रीतिदत्तानां स्याद् अनाकारिता क्वचित् ।
अनकारितम् अप्य् ऊर्ध्वं वत्सरार्धाद् विवर्धते ॥" इति । (ना०स्मृ० १.९६)

यस् तु याचितकं गृहीत्वा देशान्तरं गतस् तं प्रति कात्यायनेनोक्तम् ।

"यो याचितकम् आदाय तम् अदत्त्वा दिशं व्रजेत् ।
ऊर्ध्वं संवत्सरात् तस्य तद् धनं वृद्धिम् आप्नुयात् ।"। इति । (का०स्मृ० ५०२)

यश् च याचितकम् आदाय याचित्ऽप्य् अदत्त्वा देशान्तं व्रजति तं प्रति तेनैवोक्तम् ।

"कृतोद्धारम् अदत्त्वा यो याचितस् तु दिशं व्रजेत् ।
ऊर्ध्वं मासत्रयात् तस्य तद् धनं वृद्धिम् आप्नुयात् ॥" इति । (का०स्मृ० ५०३)

यः पुनः स्वदेशे स्थित एव याचितो याचितकं न ददाति तं याचनकालाद् आरभ्याकारितां वृद्धिं दापयेद् राजा । यथाह ।

"स्वदेशेऽपि स्थितो यस् तु न दद्याद् याचितः क्वचित् ।
तं ततोऽकारितां वृद्धिम् अनिच्छन्तं च दापयेत् ॥" इति । (का०स्मृ० ५०४)

अनाकारितवृद्देर् अपवादो नारदेनोक्तः ।

"पण्यमूल्यं भृतिर् न्यासो दण्डो यश् च प्रकल्पितः ।
वृथादानाक्षिकपणा वर्धन्ते नाविवक्षिताः ॥" इति । (ना०स्मृ० ४.७)

अविवक्षिता अनाकारिता इति ॥ २.३८ ॥

अधुना द्रव्यविशेषे वृद्धिविशेषम् आह ।

सन्ततिस् तु पशुस्त्रीणां । या०ध०२.३९अब्

पशुस्त्रीणां सन्ततिर् एव वृद्धिः । पशूनां स्त्रीणां पोषणासमर्थस्य तत्पुष्टिसन्ततिकामस्य प्रयोगः संभवति । ग्रहणं च क्षीरपरिचर्यार्थिनः ।

अधुना प्रयुक्तस्य द्रव्यस्य वृद्धिग्रहणम् अन्तरेणापि चिरकालावस्थितस्य कस्य द्रव्यस्य कियती परा वृद्धिर् इत्य् अपेक्षित आह ।

रसस्याष्टगुणा परा । या०ध०२.३९च्द्

वस्त्रधान्यहिर्ण्यानां चतुस्त्रिद्विगुणा परा ॥ या०ध०२.३९एf

रसस्य तैलघृतादेर् वृद्धिग्रहणम् अन्तरेण चिरकालावस्थितस्य स्वकृतया वृद्ध्या वर्धमानस्याष्टगुणा वृद्धिः परा । नातः परं वर्धते । तथा वस्त्रधान्यहिर्ण्यानां यथासंख्यं चतुर्गुणा त्रिगुणा द्विगुणा वृद्धिः परा । वसिष्ठेन तु रसस्य त्रैगुण्यम् उक्तम् : "द्विगुणम् हिरण्यं त्रिगुणम् धान्यं । धान्येनैव रसा व्याख्याताः, पुष्पमूलफलानि च । तुलाधृतम् अष्टगुणम्" इति (व०ध० २.४४–४७) । मनुना तु धान्यस्य पुष्पमूलफलादीनां च पञ्चगुणत्वम् उक्तम् :

"धान्ये शदे लवे वाह्ये नातिक्रामति पञ्चताम् ।" इति । (मा०ध० ८.१५१)

शदः क्षेत्रफलं पुष्पमूलफलादि । लवो मेषोर्णाचमरीकेशादिः । वाह्यो बलीवर्दतुरगादिः । धान्यशदलववाह्यविषया वृद्धिः पञ्चगुणत्वं नातिक्रामतीति । तत्राधमर्णयोग्यतावशेन दुर्भिक्षादिकालवशेन च व्यवस्था द्रष्टव्या । एतच् च सकृत्प्रयोगे सकृदाहरणे च वेदितव्यम् । पुरुषान्तरसंक्रमणेन प्रयोगान्तरकरणे तस्मिन्न् एव वा पुरुषे रेकसेकाभ्यां अनेकशः प्रयोगान्तरकरणे सुवर्णादिकं द्वैगुण्याद्य् अतिक्रम्य पूर्ववद् वर्धते । सकृत्प्रयोगेऽपि प्रतिदिनं प्रतिमासं प्रतिसंवत्सरं वा वृद्ध्याहरणेऽधमर्णदेयस्य द्वैगुण्यसंभवात् पूर्वाहृतवृद्ध्या सह द्वैगुण्यम् अतिक्रम्य वर्धत एव । यथाह मनुः :

"कुसीदवृद्धिर् द्वैगुण्यं नात्येति सकृद् आहृता ।" इति । (मा०ध० ८.१५१)

सकृदाहितेत्य् अपि पाठोऽस्ति । उपचयार्थं प्रयुक्तं द्रव्यं कुसीदं तस्य वृद्धिः कुसीदवृद्धिः सा द्वैगुण्यं नात्येति नातिक्रामति । यदि सकृदाहिता सकृत्प्रयुक्ता । पुरुषान्तरसंक्रमणादिना प्रयोगान्तकरणे द्वैगुण्यमत्येति । सकृदाहृतेति पाठे तु शनैः शनैः प्रतिदिनं प्रतिमासं प्रतिसंवत्सरं वाधमर्णाद् आहृता द्वैगुण्यम् अत्येतीति व्याख्येयम् । तथा गौतमेनाप्युक्तम् "चिरस्थाने द्वैगुण्यं प्रयोगस्य" (गौ०ध० १२.३१) इति । प्रयोगस्येत्य् एकवचननिर्देशात् प्रयोगान्तरकरणे द्वैगुण्यातिक्रमोऽभिप्रेतः । चिरस्थान इति निर्देशात् शनैः शनैर् वृद्धिग्रहणे द्वैगुण्यातिक्रमो दर्शितः ॥ २.३९ ॥

ऋणप्रयोगधर्मा उक्ताः । सांप्रतं प्रयुक्तस्य धनस्य ग्रहणधर्मा उच्यन्ते ।

प्रपन्नं साधयन्न् अर्थं न वाच्यो नृपतेर् भवेत् ।
साध्यमानो नृपं गच्छेद् दण्ड्यो दाप्यश् च तद् धनम् ॥ या०ध०२.४०

प्रपन्नम् अभ्युपगतम् अधमर्णेन धनं साक्ष्यादिभिर् भावितं वा साध्ययन् प्रत्याहरन् धर्मादिभिर् उपायैर् उत्तमर्णो नृपतेर् न वाच्यो निर्वारणीयो न भवति ॥ धर्मादयश् चोपाया मनुना दर्शिताः :

"धर्मेण व्यवहारेण छलेनाचरितेन च ।
प्रयुक्तं साधयेद् अर्थं पञ्चमेन बलेन च ॥" इति । (मा०ध० ८.४९)

धर्मेण प्रीतियुक्तेन सत्यवचनेन । व्यवहारेण साक्षिलेख्याद्युपायेन । छलेन उत्सवादिव्याजेन भूषणादिग्रहणेन । आचरितेन अभोजनेन । पञ्चमेनोपायेन बलेन निगडबन्धनादिना उपचयार्थं प्रयुक्तं द्रव्यम् एतैर् उपायैर् आत्मसात्कुर्याद् इति । "प्रपन्नं साधयन्न् अर्थं न वाच्यः" इति वदन् अप्रतिपन्नं साधयन् राज्ञा निवारणीय इति दर्शयति । एतद् एव स्पष्टीकृतं कात्यायनेन ।

"पीडयेद् यो धनी कश्चिद् ऋणिकं न्यायवादिनम् ।
तस्माद् अर्थात् स हीयेत तत्समं चाप्नुयाद् दमम् ॥" इति । (का०स्मृ० ५८९)

यस् तु धर्मादिभिर् उपायैः प्रपन्नम् अर्थं साध्यमानो याच्यमानो नृपं गच्छेद् राजानम् अभिगम्य साधयन्तम् अभियुङ्क्ते स दण्ड्यो भवति, शक्त्यनुसारेण धनिने तद्धनं दाप्यश् च । राज्ञा दापने च प्रकारा दर्शिताः ।

"राजा तु स्वामिने व्प्रं सान्त्वेनैव प्रदापयेत् ।
देशाचारेण चान्यांस् तु दुष्टान् संपीड्य दापयेत् ॥
रिक्थिनं सुहृदं वापि छलेनैव प्रदापयेत् ॥" इति । (का०स्मृ० ४७७–७८)

साध्यमानो नृपं गच्छेन्न् इत्य् एतत् स्मृत्याचारव्यपेतेनेत्य् अस्य प्रत्युदाहरणं बोद्धव्यम् ॥ २.४० ॥

बहुषूत्तमर्णिकेषु युगपत् प्राप्तेष्व् एकोऽधमर्णिकः केन क्रमेण दाप्यो राज्ञेत्य् अपेक्षित आह ।

गृहीतानुक्रमाद् दाप्यो धनिनाम् अधमर्णिकः ।
दत्त्वा तु ब्राह्मणायैव नृपतेस् तदनन्तरम् ॥ या०ध०२.४१

समानजातीयेषु धनिषु येनैव क्रमेण धनं गृहीतं तेनैव क्रमेणाधमर्णिको राज्ञा दाप्यः । भिन्नजातीयेषु तु ब्राह्मणादिक्रमेण ॥ २.४१ ॥

यदा पुनर् उत्तमर्णो दुर्बलः प्रतिपन्नम् अर्थं धर्मादिभिर् उपायैः साधयितुम् अशक्नुवन् राज्ञा साधितार्थो भवति तदाऽधमर्णस्य दण्डम् उत्तमर्णस्य च भृतिदानम् आह ।

राज्ञाधमर्णिको दाप्यः साधिताद् दशकं शतम् ।
पञ्चकं च शतं दाप्यः प्राप्तार्थो ह्य् उत्तमर्णिकः ॥ या०ध०२.४२

अधमर्णिको राज्ञा प्रतिपन्नार्थात् साधिताद् दशकं शतं दाप्यः । प्रतिपन्नस्य साधितार्थस्य दशमम् अंशं राजाऽधमर्णिकाद् दण्डरूपेण गृह्णीयाद् इत्यर्थः । उत्तमर्णस् तु प्राप्तार्थः पञ्चकं शतं भृतिरूपेण दाप्यः । साधितार्थस्य विंशतितमं भागम् उत्तमर्णाद् राजा भृत्यर्थं गृह्णीयाद् इत्य् अर्थः । अप्रतिपन्नार्थसाधने तु दण्डविभागो दर्शितः "निह्नवे भावितो दद्यात्" (या०ध० २.५) इत्यादिना ॥ २.४२ ॥

सधनम् अधमर्णिकं प्रत्युक्तम् । अधुना निर्धनम् अधमर्णिकं प्रत्याह ।

हीनजातिं परिक्षीणम् ऋणार्थं कर्म कारयेत् ।
ब्राह्मणस् तु परिक्षीणः शनैर् दाप्यो यथोदयम् ॥ या०ध०२.४३

ब्राह्मणादिर् उत्तमर्णो हीनजातिं क्षत्रियादिजातिं परिक्षीणं निर्धनम् ऋणार्थं ऋणनिवृत्त्यर्थं कर्म स्वकर्म स्वजात्यनुरूपं कारयेत् तत्कुटुम्बाविरोधेन । ब्राह्मणस् तु पुनः परिक्षीणो निर्धनः शनैः शनैः यथोदयं यथासंभवम् ण्र्णं दाप्यः । अत्र च हीनजातिग्रहणं समानजातेर् अप्य् उपलक्षणम् । अतश् च समानजातिम् अपि परिक्षीणं यथोचितं कर्म कारयेत् । ब्राह्मणग्रहणं च श्रेयोजातेर् उपलक्षणम् । अतश् च क्षत्रियादिर् अपि परिक्षीणो वैश्यादेः शनैः शनैर् दाप्यो यथोदयम् । एतद् एव मनुना स्पष्टीकृतम् ।

"कर्मणापि समं कुर्याद् धनिकेनाधमर्णिकः ।
समोऽपकृष्टजातिश् च दद्याच् छ्रेयांस् तु तच् छनैः ॥" इति । (मा०ध० ८.१७७)

उत्तमर्णेन समं निवृत्तोत्तमर्णाधमर्णव्यपदेशम् आत्मानम् अधमर्णः कर्मणा कुर्याद् इत्य् अर्थः ॥ २.४३ ॥

मध्यस्थस्थापितं न वर्धते ।

दीप्यमानं न गृह्णाति प्रयुक्तं यः स्वकं धनम् ।
मध्यस्थस्थापितं चेत् स्याद् वर्धते न ततः परम् ॥ या०ध०२.४४

किं च, उपचयार्थं प्रयुक्तं धनं अधमर्णेन दीयमानम् उत्तमर्णो वृद्धिलोभाद् यदि न गृह्णाति, तदाधमर्णेन मध्यमहस्ते स्थापितं यदि स्यात्, तदा ततः स्थापनाद् ऊर्ध्वं न वर्धते । अथ स्थापितम् अपि याच्यमानो न ददाति ततः पूर्ववद् वर्धत एव ॥ २.४४ ॥

इदानीं देयम् ऋणं यदा येन च देयं तद् आह ।

अविभक्तैः कुटुम्बार्थे यद् ऋणं तु कृतं भवेत् ।
दद्युस् तद् रिक्थनः प्रेते प्रोषिते वा कुटुम्बिनि ॥ या०ध०२.४५

अविभक्तैर् बहुभिः कुटुम्बार्थम् एकैकेन वा यद् ऋणं कृतं तद् ऋणं कुटुम्बी दद्यात् । तस्मिन् प्रेते प्रोषिते वा तद्रिक्थिनः सर्वे दद्युः ॥ २.४५ ।

येन देयम् इत्य् अत्र प्रत्युदाहरणम् आह ।

न योषित् पतिपुत्राभ्यां न पुत्रेण कृतं पिता ।
दद्याद् ऋते कुटुम्बार्थान् न पतिः स्त्रीकृतं तथा ॥ या०ध०२.४६

पत्या कृतम् ऋणं योषिद् भार्या नैव दद्यात् । पुत्रेण कृतं योषिन् माता न दद्यात् । तथा पुत्रेण कृतम् पिता न दद्यात् । तथा भार्याकृतं पतिर् न दद्यात् । कुटुम्बार्थाद् ऋत इति सर्वशेषः । अतश् च कुटुम्बार्थं येन केनापि कृतं तत् कुटुम्बिना देयम् । तदभावे तद्दायहरैर् देयम् इत्य् उक्तम् एव ॥ २.४६ ॥

"पुत्रपौत्रैर् ऋणं देयम्" (या०ध० २.५०) इति वक्ष्यति । तस्य पुरस्ताद् अपवादम् आह ।

सुराकामद्यूतकृतं दण्डशुल्कावशिष्टकम् ।
वृथादानं तथैवेह पुत्रो दद्यान् न पैतृकम् ॥ या०ध०२.४७

सुरापानेन यत्कृतम् ऋणं कामकृतं स्त्रीव्यसननिमित्तं द्यूते पराजयनिमित्तं दण्डशुल्कयोर् अविशिष्टं वृथादानं धूर्तबन्दिमल्लादिभ्यो यत् प्रतिज्ञातम्,

"धूर्ते बन्दिनि मल्ले च कुवैद्ये कितवे शठे ।
चाटचारणचौरेषु दत्तं भवति निष्फलम् ॥" (ध०को० ७१५)

इति स्मरणात् । एतद् ऋणं पित्रा कृतं पुत्रादिः शौण्डिकादिभ्यो न दद्यात् । अत्र दण्डशुल्कावशिष्टकम् इत्य् अवशिष्टग्रहणात् सर्वं दातव्यम् इति न मन्तव्यम्,

"दण्डं वा दण्डशेषं वा शुल्कं तच्छेषम् एव वा ।
न दातव्यं तु पुत्रेण यच् च न व्यावहारिकम् ॥" (ध०को० ७१४)

इत्य् औशनसस्मरणात् । गौतमेनाप्य् उक्तम् "मद्यशुल्कद्यूतकामदण्डा न पुत्रान् अध्यावहेयुः" इति (गौ०ध० १२.४१) । न पुत्रस्योपरि भवन्तीत्यर्थः । अनेनादेयम् ऋणम् उक्तम् ॥ २.४७ ॥

"न पतिः स्त्रीकृतं तथा" (या०ध० २.४६) इत्यस्यापवादम् आह ।

गोपशौण्डिकशैलूषरजकव्याधयोषिताम् ।
ऋणं दद्यात् पतिस् तासां यस्माद् वृत्तिस् तदाश्रया ॥ या०ध०२.४८

गोपो गोपालः । शौण्डिकः सुराकारः । शैलूषो नटः । रजको वस्त्राणां रञ्जकः । व्याधो मृगयुः । एतेषां योषिद्भिर् यद् ऋणं कृतं तत् तत्पतिभिर् देयम् । यस्मात् तेषां वृत्तिर् जीवनं तदाश्रया योषिदधीना । "यस्माद् वृत्तिस् तदाश्रया" इति हेतुव्यपदेशाद् अन्येऽपि ये योषिदधीनजीवनास् तेऽपि योषित्कृतम् ऋणं दद्युर् इति गम्यते ॥ २.४८ ॥

"पतिकृतं भार्या न दद्यात्" (या०ध० २.४६) इत्य् अस्यापवादम् आह ।

प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत् कृतम् ।
स्वयं कृतं वा यद् ऋणं नान्यत् स्त्री दातुम् अरहति ॥ या०ध०२.४९

मुमूर्षुणा प्रवत्स्यता वा पत्या नियुक्तया ऋणदाने यत् प्रतिपन्नं तत् पतिकृतम् ऋणं देयम् । यच् च पत्या सह भार्यया ऋणं कृतं तद् अपि भर्त्रभावे भार्यया अपुत्रया देयम् । यच् च स्वयं कृतं ऋणं तद् अपि देयम् ।

ननु प्रतिपन्नादि त्रयं स्त्रिया देयम् इति न वक्तव्यम् संदेहाभावात् ।

उच्यते :

"भार्या पुत्रश् च दासश् च त्रय एवाधनाः स्मृताः ।
यत् ते समधिगच्छन्ति यस्यैते तस्य तद् धनम् ॥" (मा०ध० ८.४१६)

इति वचनान् निर्धन्त्वेन प्रतिपन्नादिष्व् अदानाशङ्कायाम् इदम् उच्यते, "प्रतिपन्नं स्त्रिया देयम्" इत्यादि । न चानेन वचनेन स्त्र्यादीनां निर्धनत्वम् अभिधीयते, पारतन्त्र्यमात्रप्रतिपादनपरत्वात् । एतच् च विभागप्रकरणे स्पष्टीकरिष्यते ।

"नान्यत् स्त्री दातुम् अर्हति" इत्य् एतत् तर्हि न वक्तव्यम्, विधानेनैवान्यत्र प्रतिषेधसिद्धेः ।

उच्यते : "प्रतिपन्नं स्त्रिया देयं पत्या वा सह यत्कृतअम्" इत्य् एतयोर् अपवादार्थम् उच्यते । अन्यत् सुराकामादिवचनोपात्तं प्रतिपन्नम् अपि पत्या सह कृतम् अपि न देयम् इति ॥ २.४९ ॥

पुनर् अपि यद् ऋणं दातव्यं येन च दातव्यं यत्र च काले दातव्यं तत् त्रितयम् आह ।

पितरि प्रोषिते प्रेते व्यसनाभिप्लुतेऽपि वा ।
पुत्रपौत्रैर् ऋणं देयं निह्नवे साक्षिभावितम् ॥ या०ध०२.५०

पिता यदि दातव्यम् ऋणम् अदत्त्वा प्रेतो दूरदेशं गतोऽचिकित्सनीयव्याध्याद्यभिभूतो वा तदा तत्कृतम् ऋणम् आख्यापनेऽवश्यं देयं पुत्रेण पौत्रेण वा पितृधनाभावेऽपि पुत्रत्वेन पौत्रत्वेन च, तत्र क्रमोऽप्य् अयम् एव : पित्रभावे पुत्रः पुत्राभावे पौत्र इति पुत्रेण पौत्रेण वा निह्नवे कृते अर्थिना साक्ष्यादिभिर् भावितम् ऋणं देयं पुत्रपौत्रैर् इत्य् अन्वयः । अत्र पितरि प्रोषित इत्य् एतावद् उक्तम् कालविशेषस् तु नारदेनोक्तो द्रष्टव्यः ।

"नार्वाक् संवत्सराद् विंशात् पितरि प्रोषिते सुतः ।
ऋणं दद्यात् पितृव्ये वा ज्येष्ठे भातर्य् अथापि वा ॥" इति । (ना०स्मृ० १.११)

प्रेतेऽप्य् अप्राप्तव्यवहारकालो न दद्यात् । प्राप्तव्यवहारकालस् तु दद्यात् । स च कालस् तेनैव दर्शितः ।

"गर्भस्तैः सदृशो ज्ञेय आष्टमाद् वत्सराच् छिशुः ।
बाल आ षोडशाद् वर्षात् पौगण्डश् चेति शब्द्यते ॥
परतो व्यवहारज्ञः स्वतन्त्रः पितरावृते ॥" इति । (ना०स्मृ० १.३१–३२)

यद्य् अपि पितृमरणाद् ऊर्ध्वं बालोऽपि स्वन्त्रन्त्रो जातस् तथापि नर्णभाग् भवति । यथाह ।

"अप्राप्तव्यवहारश् चेत् स्वतन्त्रोऽपि हि नर्णभाक् ।
स्वातन्त्र्यं हि स्मृतं ज्येष्ठे ज्यैष्ठ्यं गुणवयःकृतम् ॥" इति । (ना०स्मृ० १.२७)

तथा आसेधाह्वाननिषेधश् च दृश्यते ।

"अप्राप्तव्यवहारश् च दूतो दानोन्मुखो व्रती ।
विषमस्थाश् च नासेध्या न चैतान् आह्वयेन् नृपः ॥" इति । (ना०स्मृ० १.४७)

तस्मात् ।

"अतः पुत्रेण जातेन स्वार्थम् उत्सृज्य यत्नतः ।
ऋणात् पिता मोचनीयो यथा नो नरकं व्रजेत् ॥" इति । (ना०स्मृ० १.६)

पुत्रेण व्यवहाराज्ञतया जातेन निष्पन्नेनेति व्याख्येयम् । श्राद्धे तु बालस्याप्य् अधिकारः "न ब्रह्माभिव्याहारयेद् अन्यत्र स्वधानिनयनात्" (गौ०ध० २.५) इति गौतमस्मरणात् । पुत्रपौत्रैर् इति बहुवचननिर्देशाद् बहवः पुत्रा यदि विभक्ताः स्वांशानुरूपेण ऋणं दद्युः । अविभक्ताश् चेत् संभूयसमुत्थानेन गुणप्रधानभावेन वर्तमानानां प्रधानभूत एव वा दद्याद् इति गम्यते । यथाह नारदः ।

"अत ऊर्ध्वं पितुः पुत्रा ऋणं दद्युर् यथांशतः ।
अविभक्ता विभक्ता वा यस् तां चोद्वहते धुरम् ॥" इति । (ना०स्मृ० १.२)

अत्र च यद् यपि पुत्रपौत्रैर् ऋणं देयम् इत्य् अविशेषेणोक्तं तथापि पुत्रेण यथा पिता सवृद्धिकं ददाति तथैव देयम् । पौर्त्रेण तु समं मूलम् एव दातव्यं न वृद्धिर् इति विशेषोऽवगन्तव्यः,

"ऋणम् आत्मीयवत् पित्र्यं देयं पुत्रैर् विभवितम् ।
पैतामहं समं देयम् अदेयं तत्सुतस्य तु ॥" (बृ०स्मृ० १.१०.११४)

इति बृहस्पतिस्मरणात् । अत्र विभावितम् इत्य् अविशेषोपादानात् साक्षिविभावितम् इत्य् अत्र साक्षिग्रहणं प्रमाणोपलक्षणम् । समण् यावद् गृहीतं तावद् एव देयं न वृद्धिः । तत्सुतस्य प्रपौत्रस्यादेयम् अगृहीतधनस्य । एतच् चोत्तरश्लोके स्पष्टीक्रियते ॥ २.५० ॥

ऋणापाकरणे ऋणी तत्पुत्रः पौत्र इति त्रयः कर्तारो दर्शितास् तेषां समवाये क्रमोऽपि दर्शितः । इदानीं कर्त्रन्तरसमवाये च क्रमम् आह ।

रिक्थग्राह ऋणं दाप्यो योषिद्ग्राहस् तथैव च ।
पुत्रोऽनन्याश्रितद्रव्यः पुत्रहीनस्य रिक्थिनः ॥ या०ध०२.५१

अन्यदीयं द्रव्यम् अन्यस्य क्रयादिव्यतिरेकेण यत् स्वीयं भवति तद् रिक्थम् । विभागद्वारेण रिक्थं गृह्णातीति रिक्थाग्राहः स ऋणं दाप्यः । एतद् उक्तं भवति । यो यदीयं द्रव्यं रिक्थरूपेण गृह्णाति स तत्कृतम् ऋणं दाप्यो न चौरादिः । योषितं भार्यां गृह्णातीति योषिद्ग्राहः स तथैवर्णं दाप्यः । यो यदीयां योषितं गृह्णाति स तत्कृतम् ऋणं दाप्यः । योषितोऽविभाज्यद्रव्यत्वेन रिक्थव्यपदेशानर्हत्वाद् भेदेन निर्देशः । पुत्रश् चानन्याश्रितद्रव्य ऋणं दाप्यः । अन्यम् आश्रितम् अन्याश्रितं मातृपितृसंबन्धिद्रव्यं यस्यासाव् अन्याश्रितद्रव्यः न अन्याश्रितद्रव्योऽनन्याश्रितद्रव्यः पुत्रहीनस्य रिक्थिन ऋणं दाप्य इति संबन्धः । एतेषां समवाये क्रमश् च पाठक्रम एव रिक्थग्राह ऋणं दाप्यस् तदभावे योषिद्ग्राहस् तदभावे पुत्र इति ।

नन्व् एतेषां समवाय एव नोपपद्यते,

"न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः ।" (मा०ध० ९.१८५)

इति पुत्रे सत्य् अन्यस्य रिक्थग्रहणासंभवात् । योषिद् ग्राहोऽपि नोपपद्यते,

"न द्वितीयश् च साध्वीनां क्वचिद् भर्तोपदिश्यते ।" (मा०ध० ५.१६२)

इति स्मरणात् । तथा तदृणं पुत्रो दाप्य इत्य् अप्य् अयुक्तम्, "पुत्रपौत्रैर् ऋणं देयम्" (य़्ष्ह् २.५०) इत्य् उक्तत्वात् । "अनन्याश्रितद्रव्यः" इति विशेषणम् अप्य् अर्थकम्, पुत्रे सति द्रव्यस्यान्याश्रयणासंभवात्, संभवे च रिक्थग्राह इत्य् अनेनैव गतार्थत्वात् । पुत्रहीनस्य रिक्थिन इत्य् एतद् अपि न वक्तव्यम् । पुत्रे सत्य् अपि रिक्थग्राह ऋणं दाप्य इति स्थितम् । असति पुत्रे रिक्थग्राहः सुतरां दाप्य इति सिद्धम् एवेति ।

अत्रोच्यते : पुत्रे सत्य् अप्य् अन्यो रिक्थग्राही संभवति । क्लीबान्धबधिरादीनां पुत्रत्वेऽपि रिक्थहरत्वाभावात् । तथा च क्लीबादीन् अनुक्रम्य "भर्तव्याः स्युर् निरंशकाः" (या०ध० २.१४०) इति वक्ष्यति । तथा "सवर्णापुत्रो प्य् अन्यायवृत्तिर् न लभेतैकेषाम्" (गौ०ध० २८.४०) इति गौतमस्मरणात् । अतश् च क्लीबादिषु पुत्रेषु सत्सु अन्यायवृत्ते च सवर्णापुत्रे सति रिक्थाग्राही पितृव्यतत्पुत्रादिः । योषिद्ग्राहो यद्य् अपि शास्त्राविरोधेन न संभवति तथाप्य् अतिक्रान्तनिषेधः पूर्वपतिकृतर्णापाकरणाधिकारी भवत्य् एव । योषिद्ग्राहो यश् चतसृणां स्वैरिणीनाम् अन्तिमां गृह्णाति, यश् च पुनर्भुवां तिसृणां प्रथमाम् । यथाह नारधः :

"परपूर्वाः स्त्रियस् त्व् अन्याः सप्त प्रोक्ता यथाक्रमम् ।
पुनर्भूस् त्रिविधा तासां स्वैरिणी तु चतुर्विधा ॥
कन्यैवाक्षतयोनिर् या पाणिग्रहणदूषिता ।
पुनर्भूः प्रथमा प्रोक्ता पुनःसंस्कारकर्मणा ॥" (ना०स्मृ० १२.४५–४६)

"देशधर्मान् अवेक्ष्य स्त्री गुरुभिर् या प्रदीयते ।
उत्पन्नसाहसान्यस्मै सा द्वितीया प्रकीर्तिता ॥" (ना०स्मृ० १२.५२)

उत्पन्नसाहसा उत्पन्नव्यभिचारा ।

"असत्सु देवरेषु स्त्री बान्धवैर् या प्रदीयते ।
सवर्णाय सपिण्डाय सा तृतीया प्रकीर्तिता ॥
स्त्रीप्रसूताऽप्रसूता वा पत्याव् एव तु जीवति ।
कामात् समाश्रयेद् अन्यं प्रथमा स्वैरिणी तु सा ॥" (ना०स्मृ० १२.४८–४९)

"कौमारं पतिम् उत्सृज्य या त्व् अन्यं पुरुषं श्रिता ।
पुनः पत्युर् ग्रहं यायात् सा द्वितीया प्रकीर्तिता ॥" (ना०स्मृ० १२.४७)

"मृते भर्तरि तु प्राप्तान् देवरादीन् अपास्य या ।
उपगच्छेत् परं कामात् सा तृतीया प्रकीर्तिता ॥
प्राप्ता देशाद् धनक्रीता क्षुत्पिपासातुरा च या ।
तवाहम् इत्य् उपगता सा चतुर्थी प्रकीर्तिता ॥" (ना०स्मृ० ५०–५१)

"अन्तिमा स्वैरिणीनां या प्रथमा च पुनर्भुवाम् ।
ऋणं तयोः पतिकृतं दद्याद् यस् ताम् उपाश्रितः ॥" इति । (ध०को० ७०२)

तथान्योऽपि योषिद्ग्राह ऋणापाकरणेऽधिकारी तेनैव दर्शितः ।

"या तु सप्रधनैव स्त्री सापत्या वान्यम् आश्रयेत् ।
सोऽस्या दद्याद् ऋणं भर्तुर् उत्सृजेद् वा तथैव ताम् ॥" (ना०स्मृ० १.१८)

प्रकृष्टेन धनेन सह वर्तत इति सप्रधना । बहुधनेति यावत् । तथा ।

"अधनस्य ह्य् अपुत्रस्य मृतस्योपैति यः स्त्रियम् ।
ऋणं वोढुः स भजते सैव चास्य धनं स्मृतम् ॥" इति । (ना०स्मृ० १९)

पुत्रस्य पुनर् वचनं क्रमार्थम् । "अनन्याश्रितद्रव्यः" इति बहुषु पुत्रेषु रिक्थाभावेऽप्य् अंशग्रहणयोग्यस्यैवर्णापाकरणेऽधिकारो नायोग्यस्यान्धादेर् इत्य् एवम् अर्थम् । पुत्रहीनस्य रिक्थिन इत्य् एतद् अपि पुत्रपौत्रहीनस्य प्रपौत्रादयो यदि रिक्थं गृह्णन्ति तदा ऋणं दाप्या नान्यथेत्य् एवम् अर्थम् । पुत्रपौत्रौ च रिक्थग्रहणाभावेऽपि दाप्याव् इत्य् उक्तम् । यथाह नारदः ।

"क्रमाद् अव्याहतं प्राप्तं पुत्रैर् यन् नर्णम् उद्धृतम् ।
दद्युः पैतामहं पौत्रास् तच् चतुर्थान् निवर्तते ॥" (ना०स्मृ० १.४)

इति सर्वं निरवद्यम् ॥

यद् वा योषिद्ग्राहाभावे पुत्रो दाप्य इत्य् उउक्तं । पुत्राभावे योषिद्ग्राहो दाप्य इत्य् उच्यते । पुत्रहीनस्य रिक्थिन इति रिक्थशब्देन योषिद् एवोच्यते, "सैव चास्य धनं स्मृतम्" (ना०स्मृ० १.१९) इति स्मरणात्,

"यो यस्य हरते दारान् स तस्य हरते धनम् ।" (ना०स्मृ० १.१८* अद्दितिओन्)

इति च ॥

ननु योषिद्ग्राहाभावे पुत्र ऋणं दाप्यः पुत्राभावे योषिद्ग्राह इति परस्परविरुद्धम् । उभयसद्भावे न कश्चिद् दाप्य इति ।

नैष दोषः । अन्तिमस्वैरिणीग्राहिणः प्रथम्पुनर्भूग्राहिणः सप्रधनस्त्रीहारिणश् चाभावे पुत्रो दाप्यः । पुत्राभावे तु निर्धननिरपत्ययोषिद्ग्राही दाप्य इति । एतद् एवोक्तं नारदेन ।

"धनस्त्रीहारिपुत्राणाम् ऋणभाग्यो धनं हरेत् ।
पुत्रोऽसतोः स्त्रीधनिनोः स्त्रीहारी धनिपुत्रयोः ॥" इति । (ना०स्मृ० १.२०)

धनस्त्रीहारिपुत्राणां समवाये यो धनं हरेत् स ऋणभाक् । पुत्रोऽसतोः स्त्रीधनिनोः स्त्री च धनं च स्त्रीधने ते विद्येते ययोस् तौ स्त्रीधनिनौ तयोः स्त्रीधनिनोर् असतोः पुत्र एव ऋणभाक् भवति । धनिपुत्रयोर् असतोः स्त्रीहार्य् एवर्णभाक् । स्त्रीहार्यभावे पुत्र ऋणभाक् पुत्राभावे स्त्रीहारीति विरोधाभासपरिहारः पूर्ववत् । पुत्रहीनस्य रिक्थिन इत्य् अस्यान्या व्याख्या : एते धनस्त्रीहारिपुत्रा ऋणं कस्य दाप्या इत्य् अपेक्षायाम् उत्तमर्णस्य दाप्यास् तदभावे तत्पुत्रादेः पुत्राद्यभावे कस्य दाप्या इत्य् अपेक्षायाम् इदम् उपतिष्ठते "पुत्रहीनस्य रिक्थिनः" इति । पुत्राद्यन्वयहीनस्योत्तमर्णस्य यो रिक्थी रिक्थग्रहणयोग्यः सपिण्डादिस् तस्य रिक्थिनो दाप्याः । तथा च नारदेन,

"ब्राह्मणस्य तु यद्देयं सान्वयस्य च नास्ति चेत् ।
निर्वपेत् तत्सकुल्येषु तदभावेऽस्य बन्धुषु ॥" (ना०स्मृ० १.९९)

इत्य् अभिहितम् ।

"यदा तु न सकुल्याः स्युर् न च संबन्धिबान्धवाः ।
तदा दद्याद् द्विजेभ्यस् तु तेष्व् असत्स्व् अप्सु निक्षिपेत् ॥" इति ॥ (ना०स्मृ० १.१००) २.५१ ॥

अधुना पुरुषविशेषे ऋणग्रहणं प्रतिषेधयन् प्रसङ्गाद् अन्यद् अपि प्रतिषेधति ।

भ्रातॄणाम् अथ दम्पत्योः पितुः पुत्रस्य चैव हि ।
प्रातिभाव्यम् ऋणं साक्ष्यम् अविभक्ते न तु स्मृतम् ॥ या०ध०२.५२

प्रतिभुवो भावः प्रतिभाव्यं । भ्रातॄणां दम्पत्योः पितापुत्रयोश् चाविभक्ते द्रव्ये द्रव्यविभागात् प्राक् प्रातिभाव्यम् ऋणं साक्ष्यं च न स्मृतं मन्वादिभिः । अपि तु प्रतिषिद्धं, साधारणधनत्वात्, प्रातिभाव्यसाक्षित्वयोः पक्षे द्रव्यव्ययावसानत्वात्, ऋणस्य चावश्यप्रतिदेयत्वात् । एतच् च परस्परानुमतिव्यतिरेकेण । परस्परानुमत्या त्व् अविभक्तानाम् अपि प्रातिभाव्यादि भवत्य् एव । विभागाद् ऊर्ध्वं तु प्रस्परानुमतिव्यतिरेकेणापि भवति ॥

ननु दम्पत्योर् विभागात् प्राक् प्रातिभाव्यादिप्रतिषेधो न युज्यते, तयोर् विभागाभावेन विशेषणानर्थक्यात् । विभागाभावश् च आप्स्तम्बेन दर्शितः : "जायापत्योर् न विभागो विद्यते" (आ०ध० २.१४.१६) इति ।

सत्यम् । श्रौतस्मार्ताग्निसाध्येषु कर्मसु तत्फलेषु च विभागो विद्यते इत्य् उक्त्वा किम् इति न विद्यते इत्य् अपेक्षायां, हेतुम् उक्तवान् "पाणिग्रहणाद् धि सहत्वं कर्मसु तथा पुण्यफलेषु च" (आ०ध० २.१४.१७–१८) इति । हि यस्मात् पाणिग्रहणाद् आरभ्य कर्मसु सहत्वं श्रूयते "जायापत्य् अग्निम् आदधीयाताम्" इति । तस्माद् आधाने सहाधिकाराद्, आधानसिद्धाग्निसाध्येषु कर्मसु सहाधिकारः । तथा "कर्म स्मार्तं विवाहाग्नौ" (या०ध० १.९७) इत्यादिस्मरणाद् विवाहसिद्धाग्निसास्हेष्व् अपि कर्मसु सहाधिकार एव । अतश् चोभयविधाग्निनिरपेक्षेषु कर्मसु पूर्तेषु जायापत्योः पृथग् एवाधिकारः संपद्यते । तथा पुण्यानां फलेषु स्वर्गादिषु जायापत्योः सहत्वं श्रूयते : "दिवि ज्योतिर् अजरम् आरभेताम्" इत्यादि । येषु पुण्यकर्मसु सहाधिकारस् तेषां फलेषु सहत्वम् इति बोद्धव्यं, न पुनः पूर्तानां भर्त्रनुज्ञयानुष्ठितानां फलेष्व् अपि ।

ननु द्रव्यस्वामित्वेऽपि सहत्वम् उक्तम् : "द्रव्यपरिग्रहेषु च, न हि भर्तुर् विप्रवासे नैमित्तिके दाने स्तेयम् उपदिशन्ति" (आ०ध० २.१४.१९–२०) इति ।

सत्यम् । द्रव्यस्वामित्वं पत्न्या दर्शितम् अनेन न पुनर् विभागाभावः । यस्माद् द्रव्यपरिग्रहेषु चेत् युक्त्या तत्र कारणम् उक्तम् : "भर्तुर् विप्रवासे नैमित्तिकेऽवश्यकर्तव्ये दानेऽतिथिभोजनभिक्षाप्रदानादौ हि यस्मान् न स्तेयम् उपदिशन्ति मन्वादयस् तस्माद् भार्त्याया अपि द्रव्यस्वामित्वम् अस्त्य् अन्यथा स्तेयं स्यात्" इति । तस्माद् भर्तुर् इच्छया भार्याया अपि द्रव्यविभागो भवत्य् एव न स्वेच्छया । यथा वक्ष्यति :

यदि कुर्यात् समान् अंशान् पत्न्यः कार्याः समांशिकाः । इति । (या०ध० २.११५) २.५२ ॥

अधुना प्रातिभाव्यं निरूपयितुम् आह ।

दर्शने प्रत्यये दाने प्रातिभाव्यं विधीयते ।
आद्यौ तु वितथे दाप्याव् इतरस्य सुता अपि ॥ या०ध०२.५३

प्रातिभाव्यं नाम विश्वासार्थं पुरुषान्तरेण सह समयः । तच् च विषयभेदात् त्रिधा भिद्यते । यथा : दर्शने दर्शनापेक्षायां एनं दर्शयिष्यामीति । प्रत्यये विश्वासे मत्प्रत्ययेनास्य धनं प्रयच्छ नायं त्वां वञ्चयिष्यते यतोऽमुकस्य पुत्रोऽयं उर्वराप्रायभूर् अस्य ग्राह्मवरो वास्तीति । दाने यद्य् अयं न ददाति तदानीम् अहम् एव दास्यामीति । "प्रातिभाव्यं विधीयते" इति प्रत्येकं संबध्यते । आद्यौ तु दर्शनप्रत्ययप्रतिभुवौ वितथे अन्यथाभावे अदर्शने विश्वासव्यभिवारे च दाप्यौ राज्ञा प्रस्तुतं धनम् उत्तमर्णस्य । इतरस्य दानप्रतिभुवः सुता अपि दाप्याः ॥ वितथ इत्य् एव शाठ्येन निर्धनत्वेन वाऽधमर्णेऽप्रतिकुर्वति "इतरस्य सुता अपि" (या०ध० २.११९) इति वदता पूर्वयोः सुता न दाप्या इत्य् उक्तम् । सुता इति वदता न पौत्रा दाप्या इति दर्शितम् ॥ २.५३ ॥

एतद् एव स्पष्टीकर्तुम् आह ।

दर्शनप्रतिभूर् यत्र मृतः प्रात्ययिकोऽपि वा ।
न तत्पुत्रा ऋणं दद्युर् दद्युर् दानाय यः स्थितः ॥ या०ध०२.५४

यदा तु दर्शनप्रतिभूः प्रात्ययिको वा प्रतिभूर् दिवं गतस् तदा तयोः पुत्राः प्रातिभाव्यायातं पैतृकम् ऋणं न दद्युः । यस् तु दानाय स्थितः प्रतिभूर् दिवं गतस् तस्य पुत्रा दद्युर् न पौत्राः । ते च मूलम् एव दद्युर् न वृद्धिम्,

"ऋणं पैतामहं पौत्रः प्रातिभाव्याहतं सुतः ।
समं दद्यात् तत्सुतौ तु न दाप्याव् इति निश्चयः ॥" (ध०को० ६७६)

इत् व्यासवचनात् । प्रातिभाव्यव्यतिरिक्तं पैतामहम् ऋणं पौत्रः समं यावद् गृहीतं तावद् एव दद्यान् न वृद्धिम् । तथा तत्सुतोऽपि प्रातिभाव्यागतं पित्र्यम् ऋणं समम् एव दद्यात् । तयोः पौत्रपुत्रयोः सुतौ पौत्रप्रपौत्रौ च प्रातिभाव्यायातम् अप्रातिभाव्यं च ऋणं यथाक्रमम् अगृहीतधनौ न दाप्याव् इति । यद् अपि स्मरणम् :

"खादको वित्तहीनः स्याल् लग्नको वित्तवान् यदि ।
मूलं तस्य भवेद् देयं न वृद्धिं दातुम् अर्हति ॥" (ध०को० ६६१=ःारीत)

इति, तद् अपि लग्नकः प्रतिभूः, खादकोऽधमर्णः । लग्नको यदि वित्तवान् मृतस् तदा तस्य पुत्रेण मूलम् एव दातव्यं न वृद्धिर् इति व्याख्येयम् । यत्र दर्शनप्रतिभूः प्रत्ययप्रतिभूर् वा बन्धकं पर्याप्तं गृहीत्वा प्रतिभूर् जातस्, तत्र तत्पुत्रा अपि तस्माद् एव बन्धकात् प्रातिभाव्यायातम् ऋणं दद्युर् एव । यथाह कात्यायनः :

"गृहीत्वा बन्धकं यत्र दर्शनेऽस्य स्थितो भवेत् ।
विना पित्रा धनात् तस्माद् दाप्यः स्यात् तदृणं सुतः ॥" इति । (का०स्मृ० ५३४)

दर्शनग्रहणं प्रत्ययस्योपलक्षणम् । विना पित्रा पितरि प्रेते दूरदेशं गते वेति ॥ २.५४ ॥

यस्मिन्न् अनेकप्रतिभूसंभवस् तत्र कथं दाप्यस्, तत्राह ।

बहवः स्युर् यदि स्वांशैर् दद्युः प्रतिभुवो धनम् ।
एकच्छायाश्रितेष्व् एषु धनिकस्य यथारुचि ॥ या०ध०२.५५

यद्य् एकस्मिन् प्रयोगे द्वौ बहवो वा प्रतिभुवः स्युस् तदर्णं संविभज्य स्वांशेन दद्युः । एकच्छायाश्रितेषु प्रतिभूषु एकस्याधमर्णस्य छाया सादृश्यं तम् आश्रिता एकच्छायाश्रिताः । अधमर्णो यथा कृत्स्नद्रव्यदानाय स्थितस् तथा दाने प्रतिभुवोऽपि प्रत्येकं कृत्स्नद्रव्यदानाय स्थिताः एवं दर्शने प्रत्यये च तेष्व् एकच्छायाश्रितेषु प्रतिभूषु सत्सु धनिकस्योत्तमर्णस्य यथारुचि यथाकामम् । अतश् च धनिको वित्ताद्यपेक्षायां स्वार्थं यं प्रार्थयते स एव कृत्स्नं दाप्यो नांशतः । एकच्छायाश्रितेषु यदि कश्चिद् देशान्तरं गतस् तत् पुत्रश् च संनिहितस् तदा धनिकेच्छया सर्वं दाप्यः । मृते तु कस्मिंश्चित् तत्सुतः स्वपित्रंशम् अवृद्धिकं दाप्यः । यथाह कात्यायनः :

"एकच्छायाप्रविष्टानां दाप्यो यस् तत्र दृश्यते ।
प्रोषिते तत्सुतः सर्वं पित्रंशं तु मृते समम् ॥" इति ॥ (का०स्मृ० ५३८) २.५५ ॥

प्रातिभाव्यर्णदानविधिम् उक्त्वा प्रतिभूदत्तस्य प्रतिक्रियाविधिम् आह ।

प्रतिभूर् दापितो यत् तु प्रकाशं धनिनो धनम् ।
द्विगुणं प्रतिदातव्यम् ऋणिकैस् तस्य तद् भवेत् ॥ या०ध०२.५६

यद् द्रव्यं प्रतिभूस् तत् पुत्रो वा धनिकेनोपपीडितः प्रकाशं सर्वजनसमक्षं राज्ञा धनिनो दापितो न पुनर् द्वैगुण्यलोभेन स्वयम् उपैत्य दत्तम् । यथाह नारदः :

"यं चार्थं प्रतिभूर् दद्याद् धनिकेनोपपीडितः ।
ऋणिकस् तं प्रतिभुवे द्विगुणं प्रतिपादयेत् ॥" इति । (ना०स्मृ० १.१०७)

ऋणिकैर् अधमर्णैस् तस्य प्रतिभुवस् तद् द्रव्यं द्विगुणं प्रतिदातव्यं स्यात् । तच् च कालविशेषम् अनपेक्ष्य सद्य एव द्विगुणं दातव्यम्, वचनारम्भसामर्थ्यात् । एतच् च हिर्णयविषयम् ।

ननु इदं प्रतिभूर् इति वचनं द्वैगुण्यमात्रं प्रतिपादयति, तच् च पूर्वोक्तकालकल्पक्रमाबाधेनाप्य् उपपद्यते । यथा जातेष्टिविधानं शुचित्वाबाधेन । अपि च सद्यः सवृद्धिकदानपक्षे पशुस्त्रीणां सद्यः संतत्यभावान् मूल्यदानम् एव प्राप्नोतीति ।

तद् असत्, "वस्त्रधान्यदिर्ण्यानां चतुस्त्रिद्विगुणा परा" (या०ध० २.३९) इत्य् अनेनैव कालकल्पक्रमेण द्वैगुण्यादिसिद्धेः । द्वैगुण्यमात्रविधाने चेदं वचनम् अनर्थकं स्यात् । पशुस्त्रीणां तु कालक्रमपक्षेऽपि संतत्यभावे स्वरूपदानम् एव । यदा प्रतिभूर् अपि द्रव्यदानानन्तरं कियतापि कालेनाधमर्णेन संघटते तदा संततिर् अपि संभवत्य् एव । यद् वा पूर्वसिद्धसंतत्या सह पशुस्त्रियो दास्यन्तीति न किंचिद् एतत् ।

अथ प्रातिभाव्यं प्रीतिकृतम् । अतश् च प्रतिभुवा दत्तं प्रीतिदत्तम् एव । न च प्रीतिदत्तस्य याचनात् प्राग् वृद्धिर् अस्ति । यथाह :

"प्रीतिदत्तं तु यत् किंचिद् वर्धते न त्व् अयाचितम् ।
याच्यमानम् अदत्तं चेद् वर्धते पञ्चकं शतम् ॥" इति । (ना०स्मृ० १.९६* अद्दितिओन्)

अतश् चाप्रीतिदत्तस्यायाचितस्यापि दानदिवसाद् आरभ्य यावद् द्विगुणं कालक्रमेण वृद्धिर् इत्य् अनेन वचनेनोच्यते इति ।

तद् अप्य् असत्, अस्यार्थस्यास्माद् वचनाद् अप्रतीतेर्, द्विगुणं प्रतिदातव्यम् इत्य् एतावद् इह प्रतीयते । यस्मात् कालक्रमम् अनपेक्ष्यैव द्विगुणं प्रतिदातव्यं वचनारम्भसामर्थ्याद् इति सुष्ठूक्तम् ॥ २.५६ ॥

प्रतिभूदत्तस्य सर्वत्र द्वैगुण्ये प्राप्तेऽपवादम् आह ।

संततिः स्त्रीपशुष्व् एव धान्यं त्रिगुणम् एव च ।
वस्त्रं चतुर्गुणं प्रोक्तं रसश् चाष्टगुणस् तथा ॥ या०ध०२.५७

हिरण्यद्वैगुण्यवत् कालानादरेणैव स्त्रीपश्वादयः प्रतिपादितवृद्ध्या दाप्याः । श्लोकस् तु व्याख्यात एव । यस्य द्रव्यस्य यावती वृद्धिः पराकाष्ठोक्ता तद् द्रव्यं प्रतिभूदत्तं खादकेन तया वृद्ध्या सह कालविशेषम् अनपेक्ष्यैव सद्यो दातव्यम् इति तात्पर्यार्थः । यदा तु दर्शनप्रतिभूः संप्रतिपन्ने काले अधमर्णं दर्शयितुम् असमर्थस् तदा तद्गवेषणाय तस्य पक्षत्रयं दातव्यम् । तत्र यदि तं दर्शयति तदा भोक्तव्योऽन्यथा प्रस्तुतं धनं दाप्यः,

"नष्टस्यान्वेषणार्थं तु दाप्यं पक्षत्रयं परम् ।
यद्य् असौ दर्शयेत् तत्र मोक्तव्यः प्रतिभूर् भवेत् ॥
काले व्यतीते प्रतिभूर् यदि तं नैव दर्शयेत् ।
निबन्धं दापयेत् तं तु प्रेते चैष विधिः स्मृतः ॥" (का०स्मृ० ५३२–३३)

इति कात्यायनवचनात् । लग्नके विशेषनिषेधश् च तेनैवोक्तः :

"न स्वामी न च वै शत्रुः स्वामिनाधिकृतस् तथा ।
निरुद्धो दण्डितश् चैव संदिग्धश् चैव न क्वचित् ॥
नैव रिक्थी न मित्रं च न चैवात्यन्तवासिनः ।
राजकार्यनियुक्ताश् च ये च प्रव्रजिता नराः ॥
न शक्तो धनिने दातुं दण्डं राज्ञे च तत्समम् ।
जीवन् वापि पिता यस्य तथैवेच्छाप्रवर्तकः ॥
नाविज्ञातो ग्रहीतव्यः प्रतिभूः स्वक्रियां प्रति ॥" इति । (का०स्मृ० ११४–१६)

संदिग्धोऽभिशस्तः । अत्यन्तवासिनो नैष्ठिकब्रह्मचारिणः । इति प्रतिभूविधिः ॥ २.५७ ॥

धनप्रयोगे विश्वासहेतू द्वौ प्रतिभूर् आधिश् च । यथाह नारदः :

"विश्रंभहेतू द्वाव् अत्र प्रतिभूर् आधिर् एव च ।" इति । (ना०स्मृ० १.१०३)

तत्र प्रतिभूर् निरूपितः । इदानीम् आधिर् निरूप्यते । आधिर् नाम गृहीतस्य द्रव्यस्योपरि विश्वासार्थम् अधमर्णेनोत्तमर्णोऽधिक्रियते आधीयत इत्य् आधिः । स च द्विविधः कृतकालोऽकृतकालश् च । पुनश् चैकैकशो द्विविधः गोप्यो भोग्यश् च । यथाह नारदः :

"अधिक्रियत इत्याधिः स विज्ञेयो द्विलक्षणः ।
कृतकालेऽपनेयश् च यावद् देयोद्यतस् तथा ॥
स पुनर् द्विविधः प्रोक्तो गोप्यो भोग्यस् तथैव च ॥" इति । (ना०स्मृ० १.१०८–०९)

कृतकाले आधानकाल एवामुष्मिन्काले दीपोत्सवादौ मयायम् आधिर् मोक्तव्योऽन्यथा तवैवाधिर् भविष्यतीत्य् एवं निश्चिते काले उपनेय आत्मसमीपं नेतव्यः । मोचनीय इत्य् अर्थः । देयं दानम् । देयम् अनतिक्रम्य यावद् देयम् । उद्यतः नियतः स्थापित इत्य् अर्थः । यावद् देयम् उद्यतो यावद् देयोद्यतः गृहीतधनप्रत्यर्पणावधिर् अनिरूपितकाल इत्य् अर्थः । गोप्यो रक्षणीयः ।

एवं चतुर्विधस्याधेर् विशेषम् आह ।

आधिः प्रणश्येद् द्विगुणे धने यदि न मोक्ष्यते ।
काले कालकृतो नश्येत् फलभोग्यो न नश्यति ॥ या०ध०२.५८

प्रौक्ते धने स्वकृतया वृद्ध्या कालक्रमेण द्विगुणीभूते यद्य् आधिर् अधमर्णेन द्रव्यदानेन न मोक्ष्यते तदा नश्यति । अधर्मर्णस्य धनं प्रयोक्तुः स्वं भवति । कालकृतः कृतकाल आहिताग्न्यादिषु पाठात् कालश्ब्दस्य पूर्वनिपातः । स तु काले निरूपिते प्राप्ते नश्येत् द्वैगुण्यात् प्राग् ऊर्ध्वं वा । फलभोग्यः फलं भोग्यं यस्यासौ फलभोग्यः क्षेत्रारामादिः स कदाचिद् अपि न नश्यति । कृतकालस्य गोप्यस्य भोग्यस्य च तत्कालातिक्रमे नाश उक्तः "काले कालकृतो नश्येद्" इति । अकृतकालस्य भोग्यस्य नाशाभाव उक्तः "फलभोग्यो न नश्यति" इति । पारिशेष्याद् आधिः प्रणश्येद् इत्य् एतद् अकृतकालगोप्याधिविषयम् अवतिष्ठते । द्वैगुण्यातिक्रमेण निरूपितकालातिक्रमेण च विनाशे चतुर्दशदिवसप्रतीक्षणं कर्तव्यं बृहस्पतिवचनात् :

"हिरण्ये द्विगुणीभूते पूर्णे काले कृतावधेः ।
बन्धकस्य धनी स्वामी द्विसप्ताहं प्रतीक्ष्य च ॥
तदन्तरा धनं दत्त्वा ऋणी बन्धम् अवाप्नुयात् ॥" इति ॥ (बृ०स्मृ० १.१०.४८–४९)

ननु आधिः प्रणश्येद् इत्य् अनुपपन्नम्, अधमर्णस्य स्वत्वनिवृत्तिहेतोर् दानविक्रयादेर् अभावात्, धनिनश् च स्वत्वहेतोः प्रतिग्रहक्रयादेर् अभावात्, मनुवचनविरोधाच् च :

"न चाधेः कालसंरोधान् निसर्गोऽस्ति न विक्रयः ।" इति । (मा०ध० ८.१४३)

कालेन संरोधः कालसंरोधश् चिरकालम् अवस्थानं तस्मात् कालसंरोधाच् चिरकालावस्थानाद् आधेर् न निसर्गोऽस्ति नान्यत्राधीकरणम् अस्ति न च विक्रयः । एवाम् आधीकरणविक्रयप्रतिषेधाद् धनिनः स्वत्वाभावोऽवगम्यत इति ।

उच्यते : आधीकरणम् एव लोके सोपाधिकस्वत्वनिवृत्तिहेतुः । आधिस्वीकारश् च सोपाधिकस्वत्वापत्तिहेतुः प्रसिद्धः । तत्र धनद्वैगुण्ये निरूपितकालप्राप्तौ च द्रव्यदानस्यात्यन्तनिवृत्तेर् अनेन वचनेनाधमर्णस्यात्यन्तिकी स्वत्वनिवृत्तिर् उत्तमर्णस्य चात्यन्तिकं स्वत्वं भवति । न च मनुवचनविरोधः । यतः मनुः :

"न त्व् एवाधौ सोपकारे कौसीदीं वृद्धिम् आप्नुयात् ।" इति । (मा०ध० ८.१४३)

भोग्याधिं प्रस्तुत्य, इदम् उच्यते :

"न चाधेः कालसंरोधान्निसर्गोऽस्ति न विक्रयः ।" इति । (मा०ध० ८.१४३)

भोग्यस्याधेश् चिरकालावस्थानेऽप्य् आधीकरणविक्रयनिषेधेन धनिनः स्वत्वं नास्तीति । इहाप्य् उक्तं फलभोग्यो न नश्यतीति गोप्याधौ तु पृथग् आरब्धं मनुना (८।१४४)

"न भोक्तव्यो बलाद् आधिर् भुञ्जानो वृद्धिम् उत्सृजेत् ।" इति । (मा०ध० ८.१४४)

इहापि वक्ष्यते : "गोप्याधिभोगे नो वृद्धिर्" इति । "आधिः प्रणश्येद् द्विगुणो" इति तु गोप्याधिं प्रत्युच्यत इति सर्वम् अविरुद्धम् ॥ २.५८ ॥

किं च ।

गोप्याधिभोगे नो वृद्धिः सोपकारे च हापिते ।
नष्टो देयो विनष्टश् च दैवराजकृताद् ऋते ॥ या०ध०२.५९

गोप्याधेस् ताम्रकटाहादेर् उपभोगेन वृद्धिर् भवति । अल्पेऽप्य् उपभोगे महत्य् अपि वृद्धिर् हातव्या, स्मयातिक्रमात् । तथा सोपकारे उपकारकारिणि बलीवर्दताम्रकटाहादौ भोग्याधौ सवृद्धिके हापिते हानिं व्यवहाराक्षमत्वं गमिते नो वृद्धिर् इति संबन्धः । नष्टो विकृतिं गतः ताम्रकटाहादिश् छिद्रभेदनादिना पूर्ववत् कृत्वा देयः । तत्र गोप्याधिर् नष्टश् चेत् पूर्ववत् कृत्वा देयः । उपभुक्तोऽपि चेद् वृद्धिर् अपि हातव्या । भोग्याधिर् यदि नष्टस् तदा पूर्ववत् कृत्वा देयः । वृद्धिसद्भावे वृद्धिर् अपि हातव्या । विनष्ट आत्यन्तिकं नाशं प्राप्तः सोऽपि देयो मूल्यादिद्वारेण । तद्दाने सवृद्धिकं मूल्यं लभते । यदा न ददाति तदा मूलनाशः,

"विनष्टे मूलनाशः स्याद् दैवराजकृताद् ऋते ।" (ना०स्मृ० १.११०)

इति नारदवचनात् । "दैवराजकृतादृते" : दैवम् अग्न्युदकदेशोपप्लवादि । दैवकृताद् विनाशाद् विना । तथा स्वापराधरहिताद् राजकृतात् । दैवराजकृते तु विनाशे सवृद्धिकं मूल्यं दातव्यम् अधमर्णेनाध्यन्तरं वा । यथाह :

"स्त्रोतसापहृते क्षेत्रे राज्ञा चैवापहारिते ।
आधिर् अन्योऽथ कर्तव्यो देयं वा धनिने धनम् ॥" इति । (ध०को० ६६१)

तत्र "स्त्रोतसापहृते" इति दैवकृतोपलक्षणम् ॥ २.५९ ॥

अपि च ।

आधेः स्वीकर्णात् सिद्धी रक्ष्यमाणोऽप्य् असारताम् ।
यातश् चेद् अन्य आधेयो धनभाग् वा धनी भवेत् ॥ या०ध०२.६०

आधेर् भोग्यस्य कोऽप्य् अस्य च स्वीकरणाद् उपभोगाद् आधिग्रहणसिद्धिर् भवति न साक्षिलेख्यमात्रेण नाप्य् उद्देशमात्रेण । यथाह नारदः :

"आधिस् तु द्विविधः प्रोक्तो जङ्गमः स्थावरस् तथा ।
सिद्धिर् अस्योभयस्यापि भोगो यद्य् अस्ति नान्यथा ॥" इति । (ना०स्मृ० १.११९)

अस्य च फलम् :

आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा । इति । (या०ध० २.२३)

या स्वीकारान्ता क्रिया सा पूर्वा बलवती । स्वीकाररहिता तु पूर्वापि न बलवतीति । स चाधिः प्रयत्नेन रक्ष्यमाणोऽपि कालवशेन यद्य् असारताम् अविकृत एव सवृद्धिकमूल्यद्रव्यापर्याप्तां गतस् तदाधिर् अन्यः कर्तव्यो धनिने धनं वा देयम् । रक्ष्यमाणोऽप्य् असारताम् इति वदता आधिः प्रयत्नेन रक्षणीयो धनिनेति ज्ञापितम् ॥ २.६० ॥

"आधिः प्रणश्येद् द्विगुणे" (या०ध० २.५८) इत्य् अस्यापवादम् आह ।

चरित्रबन्धककृतं सवृद्ध्या दापयेद् धनम् ॥
सत्यंकारकृतं द्रव्यं द्विगुणं प्रतिदापयेत् ॥ या०ध०२.६१

चरित्रं शोभनाचरितं चरित्रेण बन्धकं चरित्रबन्धकं तेन यद् द्रव्यम् आत्मसात्कृतं पराधीनं वा कृतम् । एतद् उक्तं भवति : धनिनः स्वच्छाशयत्वेन बहुमूल्यम् अपि द्रव्यम् आधीकृत्याधमर्णेनाल्पम् एव द्रव्यम् आत्मसात्कृतम् । यदि वाधमर्णस्य स्वच्छाशयत्वेनाल्पमूल्यम् आधिं गृहीत्वा बहुद्रव्यम् एव धनिनाधमर्णाधीनं कृतम् इति । तद् धनं स नृपो वृद्ध्ह्या सह दापयेत् । अयमाशयः : एवं च बन्धकं द्विगुणीभूतेऽपि द्रव्ये न नश्यति किं तु द्रव्यम् एव द्विगुणं दातव्यम् इति । तथा सत्यंकारकृतं । करणं कारः । भावे घञ् । सत्यस्य कारः सत्यंकारः : "कारे सत्यागदस्य" (ढ़ाण् ६.३.७०) इति मुम् । सत्यंकारेण कृतं सत्यंकारकृतम् । अयम् अभिसन्धिः : यदा बन्धकार्पणसमय एवेत्थं परिभाषितं : "द्विगुणीभूतेऽपि द्रव्ये मया द्विगुणं द्रव्यम् एव दातव्यं नाधिनाशः" इति, तदा तद्द्विगुणं दापयेद् इति । अन्योऽर्थः । चरित्रम् एव बन्धकं चरित्रबन्धकं । चरित्रशब्देन गङ्गास्नानाग्निहोत्रादिजनितम् अपूर्वम् उच्यते । यत्र तद् एवाधीकृत्य यद् द्रव्यम् आत्मसाकृतं, तत्र तद् एव द्विगुणीभूतं दातव्यं नाधिनाश इति । आधिप्रसङ्गाद् अन्यद् उच्यते सत्यंकारकृतम् इति । क्रयविक्रयादिव्यवस्थानिर्वाहाय यदङ्गुलीयकादि परहस्ते कृतं तद् व्यवस्थातिक्रमे द्विगुणं दातव्यम् । तत्रापि येनाङ्गुलीयकाद्यर्पितं स एव चेद् व्यवस्थातिवर्ती तेन तद् एव दातव्यम् । इतरश् चेद् व्यवस्थातिवर्ती तदा तद् एवाङ्गुलीयकादि द्विगुणं प्रतिदापयेद् इति ॥ २.६१ ॥

किं च ।

उपस्थितस्य भोक्तव्य आधिः स्तेनोऽन्यथा भवेत् ।
प्रयोजकेऽसति धनं कुलेऽन्यस्याधिम् आप्नुयात् ॥ या०ध०२.६२

धनदानेनाधिमोक्षणायोपस्थितस्याधिर् मोक्तव्यो धनिनो न वृद्धिलोभेन स्थापयितव्यः । अन्यथा अमोक्षणे स्तेनश् चौरवद् दण्ड्यः स्यात् । असंनिहिते पुनः प्रयोक्तरि कुले तद् आप्तहस्ते सवृद्धिकं धनं विधायाधमर्णकः स्वीयं बन्धकं गृह्णीयात् ॥ २.६२ ॥

अथ प्रयोक्ताप्य् असंनिहितस् तद् आप्ताश् च धनस्य ग्रहीतारो न सन्ति ,यदि वा असंनिहिते प्रयोक्तर्य् आधिविक्रयेण धनदित्साधमर्णस्य तत्र किं कर्तव्यम् इत्य् अपेक्षित आह ।

तत्कालकृतमूल्यो वा तत्र तिष्ठेद् अवृद्धिकः । या०ध०२.६३अब्

तस्मिन् काले यत् तस्याधेर् मूल्यं तत् परिकल्प्य तत्रैव धनिनि तम् आधिं वृद्धिरहितं स्थापयेन् न तत ऊर्ध्वं विवर्धते । यावद् धनी धनं गृहीत्वा तम् आधिं मुञ्चति, यावद् वा तन्मूल्यद्रव्यम् ऋणे प्रवेशयति ॥

यदा तु द्विगुणीभूतेऽपि धने द्विगुणं धनम् एव ग्रहीतव्यं, न त्व् आधिनाश इति विचारितम् ऋणग्रहणकाल एव तदा द्विगुणीभूते द्रव्ये असंनिहिते वाधमर्णे धनिना किं कर्तव्यम् इत्य् अत आह ।

विना धारणकाद् वापि विक्रीणीत ससाक्षिकम् ॥ या०ध०२.६३च्द्

धारणकाद् अधमर्णाद् विना अधमर्णेऽसंनिहिते साक्षिभिस् तदाप्तैश् च सह तम् आधिं विक्रीय तद् धनं गृह्णीयाद् धनी । वाशब्दो व्यवस्थितविकल्पार्थः । यदर्णग्रहणकाले द्विगुणीभूतेऽपि धने धनम् एव ग्रहीतव्यं न त्व् आधिनाश इति न विचारितं, तदा "आधिः प्रणश्येद् द्विगुणे" (या०ध० २.५८) इत्य् आधिनाशः । विचारिते त्व् अयं पक्ष इति ॥ २.६३ ॥

भोग्यादौ विशेषम् आह ।

यदा तु द्विगुणीभूतम् ऋणम् आधौ तदा खलु ।
मोच्य आधिस् तद् उत्पन्ने प्रविष्टे द्विगुणे धने ॥ या०ध०२.६४

यदा प्रयुक्तं धनं स्वकृतया वृद्ध्या द्विगुणीभूतं तदाधौ कृते तदुत्पन्ने आध्युत्पन्ने द्रव्ये द्विगुणे धनिनः प्रविष्टे धनिनाधिर् मोक्तव्यः । यदि वादाव् एवाधौ दत्ते द्विगुणीभूते द्रव्ये त्वयाधिर् मोक्तव्य इति परिभाषया कारणान्तरेण वा भोगाभावेन यदा द्विगुणीभूतम् ऋणं तदा आधौ भोगार्थं धनिनि प्रविष्टे तद् उत्पन्ने द्रव्ये द्विगुणे सत्य् आधिर् मोक्तव्यः । अधिकोपभोगे तद् अपि देयम् । सर्वथा सवृद्धिकमूलर्णापाकरणार्थाध्युपभोगविषयम् इदं वचनम् । तम् एनं क्षयाधिम् आचक्षते लौकिकाः । यत्र तु वृद्ध्यर्थ एवाध्युपभोग इति परिभाषा तत्र द्वैगुण्यातिक्रमेऽपि यावन् मूलदानं तावद् उपभुङ्क्त एवाधिम् । एतद् एव स्पष्टीकृतं बृहस्पतिना :

"ऋणी बन्धम् अवाप्नुयात् ।
फलभोग्यं पूर्णकालं दत्त्वा द्रव्यं तु सामकम् ॥
यदि प्रकर्षितं तत् स्यात् तदा न धनभाग् धनी ।
ऋणी च न लभेद् बन्धं परस्परमतं विना ॥" इति । (बृ०स्मृ० १.१०.१२५–२६)

अस्यार्थः : फलं भोग्यं यस्यासौ फलभोग्यः बन्ध आधिः । स च द्विविधः सवृद्धिकमूलापाकरणार्थो वृद्धिमात्रापाकरणार्थश् च । तत्र च सवृद्धिमूलापाकरणार्थं बन्धं पूर्णकालं पूर्णः कालो यस्यासौ पूर्णकाल्सस् तम् आप्नुयाद् ऋणी । यदा सवृद्धिकं मूलं फलद्वारेण धनिनः प्रविष्टं तदा बन्धम् आप्नुयाद् इत्य् अर्थः । वृद्धिमात्रापाकरणार्थं तु बन्धकं सामकं दत्त्वाप्नुयाद् ऋणी । समं मूलं समम् एव सामकम् । अस्यापवादम् आह "यदि प्रकर्षितं तत् स्यात्" । तत् बन्धकं प्रकर्षितम् अतिशयितं वृद्धेर् अप्य् अधिकफलं यदि स्यात् तदा न धनभाग् धनी सामकं न लभते धनी । मूलम् अदत्त्वैव ऋणी बन्धम् अवाप्नुयाद् इति यावत् । अथ त्व् अप्रकर्षितं तद् बन्धकं वृद्धयेऽप्य् अपर्याप्तं तदा सामकं दत्त्वापि बन्धं न लभेताधमर्णः । वृद्धिशेषम् अपि दत्त्वैव लभेतेत्य् अर्थः । पुनर् उभयत्रापवादम् आह : "परस्परमतं विना" उत्तमर्णाधमर्णयोः परस्परानुमत्यभावे यदि प्रकर्षितम् इत्य् आद्य् उक्तम् । परस्परानुमतौ तत् कृष्टम् अपि बन्धकं यावन् मूलदानं तावद् उपभुङ्क्ते धनी निकृष्टम् अपि मूलमात्रदानेनैवाधमर्णो लभत इति ॥ २.६४ ॥

इति ऋणादानप्रकरणम्
अथ उपनिधिप्रकरणम्

उपनिधिं प्रत्य् आह ।

वासनस्थम् अनाख्याय हस्तेऽन्यस्य यद् अर्प्यते ।
द्रव्यं तद् औपनिधिकं प्रतिदेयं तथैव तत् ॥ या०ध०२.६५

निक्षेपद्रव्यस्याधारभूतं द्रव्यान्तरं वासनं करण्डादि तत्स्थं वासनस्थं यद् द्रव्यं रूपसंख्यादिविशेषम् अनाख्याय अकथयित्वा मुद्रितम् अन्यस्य हस्ते रक्षणार्थं विस्रम्भाद् अर्प्यते स्थाप्यते तद् द्रव्यम् औपनिधिकम् उच्यते । यथाह नारदः :

"असंख्यातम् अविज्ञातं समुद्रं यन् निधीयते ।
तज् जानीयाद् उपनिधिं निक्षेपं गणितं विदुः ॥" इति ।

"प्रतिदेयं तथैव तत्" । यस्मिन् स्थापितं तेन यथैव पूर्वमुद्रादिचिह्नितम् अर्पितं तथैव स्थापकाय प्रतिदेयं प्रत्यर्पणीयम् ॥ २.६५ ॥

प्रतिदेयम् इत्य् अस्यापवादम् आह ।

न दाप्योऽपहृतं तं तु राजदैविकतस्करैः । या०ध०२.६६अब्

तम् उपनिधिं राज्ञा दैवेनोदकादिना तस्करैर् वापहृतं नष्टं न दाप्योऽसौ यस्मिन्न् उपहितं । धनिन एव तद् द्रव्यं नष्टं यदि जिह्मकारितं न भवति । यथाह नारदः :

"ग्रहीतुः सह योऽर्थेन नष्टो नष्टः स दायिनः ।
दैवराजकृते तद्वन् न चेत् तज् जिह्मकारितम् ॥" इति ॥ ना०स्मृ० २.६)

अस्यापवादम् आह ।

भ्रेषश् चेन् मार्गितेऽदत्ते दाप्यो दण्डं च तत्समम् ॥ या०ध०२.६६च्द्

स्वामिना मार्गिते याचिते यदि न ददाति तदा तदुत्तरकालं यद्य् अपि राजादिभिर् भ्रेषो नाशः संजातस् तथापि तद् द्रव्यं मूल्यकल्पनया धनिने ग्रहीता दाप्यो राज्ञे च तत्समं दण्डम् ॥ २.६६ ॥

भोक्तारं प्रति दण्डम् आह ।

आजीवन्खेच्छया दण्ड्यो दाप्यस् तं चापि सोदयम् । या०ध०२.६७अब्

यः स्वेच्छया स्वाम्यननुज्ञयोपनिहितं द्रव्यम् आजीवन्न् उपभुङ्क्ते व्यवहरति वा प्रयोगादिना लाभार्थम् असाव् उपभोगानुसारेण लाभानुसारेण च दण्ड्यस् तं चोपनिधिं सोदयम् उपभोगे सवृद्धिकं व्यवहारे सलाभं धनिने दाप्यः । वृद्धिप्रमाणं च कात्यायनेनोक्तम् ।

"निक्षेपं वृद्धिशेषं च क्रयं विक्रयम् एव च ।
याच्यमानो न चेद् दद्याद् वर्धते पञ्चकं शतम् ॥" इति । (ना०स्मृ० ५०५–०६)

एतच् च भक्षिते द्रष्टव्यम् । उपेक्षाज्ञाननष्टे तु तेनैव विशेषो दर्शितः :

"भक्षितं सोदयं दाप्यः समं दाप्य उपेक्षितम् ।
किंचिन् न्यूनं प्रदाप्यः स्याद् द्रव्यम् अज्ञाननाशितम् ॥" इति । (ना०स्मृ० ५९७)

किंचिन् न्यूनम् इति चतुर्थांशहीनम् ।

उपनिधेर् धर्मान् याचितादिष्व् अतिदिशति ।

याचितान्वाहितन्यासनिपेक्षादिष्व् अयं विधिः ॥ या०ध०२.६७च्द्

विवाहाद्युत्सवेषु वस्त्रालंकारादि याचित्वानीतं याचितम् । यद् एकस्य हस्ते निहितं द्रव्यं तेन्याप्य् अनु पश्चाद् अन्यहस्ते स्वामिने देहीति निहितं तद् अन्वाहितम् । न्यासो नाम गृहस्वामिनेऽदर्शयित्वा तत्परोक्षम् एव गृहजनहस्ते प्रक्षेपो गृहस्वामिने समर्पणीयम् इति । समक्षं तु समर्पणं निक्षेपः । आदिशब्देन सुवर्णकारादिहस्ते कटकादिनिर्माणाय न्यस्तस्य सुवर्णादेः प्रतिन्यासस्य च परस्परयोजनापेक्षया त्वयेदं मदीयं रक्षणीयं मयेदं त्वदीयं रक्ष्यते इति न्यस्तस्य ग्रहणम् । यथाह नारदः :

"एष एव विधिर् दृष्टो याचितान्वाहितादिषु ।
शिल्पिषूपनिधौ न्यासे प्रतिन्यासे तथैव च ॥" इति । (ना०स्मृ० २.७)

एतेषु याचितान्वाहितादिष्वयं विधिर् उपनिधेर् यः प्रतिदानादिविधिः स एव वेदितव्यः ॥ २.६७ ॥

इति उपनिधिप्रकरणम्
अथ साक्षिप्रकरणम्

"प्रमाणं लिखितं भुक्तिः साक्षिणश् चेति कीर्तितम्" इत्य् उक्तम् । तत्र भुक्तिर् निरूपिता । सांप्रतं साक्षिस्वरूपं निरूप्यते । साक्षी च साक्षाद् दर्शनाच् छ्रवणाच् च भवति । यथाह मनुः :

"समक्षदर्शनात् साक्ष्यं श्रवणाच् चैव सिध्यति ।" इति । (मा०ध० ८.७४)

स च द्विविधः कृतोऽकृतश् चेति । साक्षित्वेन निरूपितः कृतः । अनिरूपितोऽकृतः । तत्र कृतः पञ्चविधोऽकृतश् च षड्विध इत्य् एकादशविधः । यथाह नारदः :

"एकादशविधः साक्षी शास्त्रे दृष्टो मनीषिभिः ।
कृतः पञ्चविधो ज्ञेयः षड्विधोऽकृत उच्यते ॥" इति । (ना०स्मृ० १.१२९)

तेषां च भेदस् तेनैव दर्शितः :

"लिखितः स्मारितश् चैव यदृच्छाभिज्ञ एव च ।
गूढश् चोत्तरसाक्षी च साक्षी पञ्चविधः स्मृतः ॥" इति । (ना०स्मृ० १.१३०)

लिखितादीनां च स्वरूपं कात्यायनेनोक्तम् :

"अर्थिना स्वयम् आनीतो यो लेख्ये संनिवेश्यते ।
स साक्षी लिखितो नाम स्मारितः पत्रकाद् ऋते ॥" इति । (का०स्मृ० ३७१)

स्मारितः पत्रकाद् ऋत इत्य् अस्य विवरणं तेनैव कृतम् :

"यस् तु कार्यप्रसिद्ध्यर्थं दृष्ट्वा कार्यं पुनः पुनः ।
स्मार्यते ह्य् अर्थिना साक्षी स स्मारित इहोच्यते ॥" इति । (का०स्मृ० ३७२)

यस् तु यदृच्छयागतः साक्षी क्रियते स यदृच्छाभिज्ञः । अनयोः पत्रानारूढत्वेऽपि भेदस् तेनैव दर्शितः :

"प्रयोजनार्थम् आनीतः प्रसङ्गाद् आगतश् च यः ।
द्वौ साक्षिणौ त्व् अलिखितौ पूर्वपक्षस्य साधकौ ॥" इति । (का०स्मृ० ३७३)

तथा :

"अर्थिना स्वार्थसिद्ध्यर्थं प्रत्यर्थिवचनं स्फुटम् ।
यः श्राव्यते स्थितो गूढो गूढसाक्षी स उच्यते ॥" इति । (का०स्मृ० ३७४)

तथा :

"साक्षिणाम् अपि यः साक्ष्यम् उपर्य् उपरि भाषते ।
श्रवणाच् छ्रावणाद् वापि स साक्ष्य् उत्तरसंज्ञितः ॥" इति । (का०स्मृ० ३७५)

षड्विधस्याप्य् अकृतस्य भेदो नारदेन दर्शितः :

"ग्रामश् च प्राड्विवाकश् च राजा च व्यवहारिणाम् ।
कार्येष्व् अधिकृतो यः स्याद् अर्थिना प्रहितश् च यः ॥
कुल्याः कुलविवादेषु विज्ञेयास् तेऽपि साक्षिणः ॥" इति । (ना०स्मृ० १.१३१–३२)

प्राड्विवाकग्रहणं लेखकसभ्योपलक्षणार्थम् ।

"लेखकः प्राड्विवाकश् च सभ्याश् चैवानुपूर्वशः ।
नृपे पश्यति तत् कार्यं साक्षिणः समुदाहृताः ॥" इति ॥ (का०स्मृ० ३५५)

तेऽपि साक्षिणः कीदृशाः कियन्तश् च भवन्तीत्य् अत आह ।

तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः ।
धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः ॥ या०ध०२.६८

त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्तक्रियापराः ।
यथाजाति यथावर्णं सर्वे सर्वेषु वा स्मृताः ॥ या०ध०२.६९

तस्पस्विनस् तपःशीलाः । दानशीला दाननिरताः । कुलीना महाकुलप्रसूताः । सत्यवादिनः सत्यवदनशीलाः । धर्मप्रधाना नार्थकामप्रधानाः । ऋजवोऽकुटिलाः । पुत्रवन्तो विद्यमानपुत्राः । धनान्विता बहुसुवर्णादिधनयुक्ताः । श्रौतस्मार्तक्रियापराः नित्यनैमित्तिकानुष्ठानरताः । एवंभूताः पुरुषास् त्र्यवराः साक्षिणो भवन्ति । त्रयोऽवरा न्यूना येषां ते त्र्यवराः त्रिभ्योऽर्वाक् न भवन्ति । परतस् तु यथाकामं भवन्तीत्य् अर्थः । जातिम् अन्तिक्रम्य यथाजाति । जातयो मूर्धावसिक्ताद्या अनुलोमजाः प्रतिलोमजाश् च । तत्र मूर्धावसिक्तानां मूर्धावसिक्ताः साक्षिणो भवन्ति । एवम् अम्बष्ठादिष्व् अपि द्रष्टव्यम् । वर्णम् अनतिक्रम्य यथावर्णम् । वर्णा ब्राह्मणादयः । तत्र ब्राह्मणानां ब्राह्मणा एवोक्तलक्षणा उक्तसंख्याकाः साक्षिणो भवन्ति । एवं क्षत्रियादिष्व् अपि द्रष्टव्यम् । तथा स्त्रीणां साक्ष्यं स्त्रिय एव कुर्युः । यथाह मनुः : "स्त्रीणां साक्ष्यं स्त्रियः कुर्युः" इति (मा०ध० ८.६८) । सजातिसवर्णासंभवे सर्वे मूर्धावसिक्तादयो ब्राह्मणादयश् च सर्वेषु मूर्धावसिक्तादिषु ब्राह्मणादिषु च यथासंभवं साक्षिणो भवन्ति । उक्तलक्षणानां साक्षिणाम् असंभवे प्रतिषेधरहितानाम् अन्येषाम् अपि साक्षित्वप्रतिपादनार्थम् असाक्षिणो वक्तव्याः । ते च पञ्चविधा नारदेन दर्शितः :

"असाक्ष्य् अपि हि शास्त्रेषु दृष्टः पञ्चविधो बुधैः ।
वचनाद् दोषतो भेदात् स्वयमुक्तिर् मृतान्तरः ।" इति । (ना०स्मृ० १.१३७)

के पुनर् वचनाद् असाक्षिण इत्य् अत आह :

"श्रोत्रियास् तापसा वृद्धा ये च प्रव्रजितादयः ।
असाक्षिणस् ते वचनान् नात्र हेतुर् उदाहृतः ॥" इति । (ना०स्मृ० १.१४०)

तापसा वानप्रस्थाः । आदिशब्देन पित्रा विवदमानादीनां ग्रहणम् । यथाह शङ्खः : "पित्रा विवदमानगुरुकुलवासिपरिव्राजकवानप्रस्थनिर्ग्रन्था असाक्षिणः" इति । दोषाद् असाक्षिणो दर्शिताः :

"स्तेनाः साहसिकाश् चण्डाः कितवा वञ्चकास् तथा ।
असाक्षिणस् ते दुष्टत्वात् तेषु सत्यं न विद्यते ॥" इति । (ना०स्मृ० १.१४१)

चण्डाः कोपनाः । कितवा द्यूतकृतः । भेदाद् असाक्षिणां च स्वरूपं तेनैव दर्शितम् :

"साक्षिनां लिखितानां च निर्दिष्टानां च वादिना ।
तेषाम् एकोऽन्यथावादी भेदात् सर्वे न साक्षिणः ॥" इति ।

तथा स्वयमुक्तिस्वरूपं चोक्तम् :

"स्वयमुक्तिर् अनिर्दिष्टः स्वयम् एवैत्य यो वदेत् ।" (ना०स्मृ० १.१३९)

"सूचीत्य् उक्तः स शास्त्रेषु न स साक्षित्वम् अर्हति ॥" इति । (ना०स्मृ० १.१४३)

मृतान्तरस्यापि लक्षणम् उक्तम् :

"योऽर्थः श्रावयितव्यः स्यात् तस्मिन्न् असति चार्थिनि ।
क्व तद् वदतु साक्षित्वम् इत्य् असाक्षी मृतान्तरः ॥" इति । (ना०स्मृ० १.१४४)

येनार्थिना प्रत्यर्थिना वा साक्षिणां योऽर्थः श्रावयितव्यो भवेद् यूयम् अत्रार्थे साक्षिण इति तस्मिन्न् अर्थिनि प्रत्यर्थिनि वा असति मृतेऽर्थे चानिवेदिते, साक्षी क्व कस्मिन्न् अर्थे कस्य वा कृते साक्ष्यं वदत्व् इति मृतान्तरः साक्षी न भवति । यत्र तु मुमूर्षुणा स्वस्थेन वा पित्रा पुत्रादयः श्राविता अस्मिन्न् अर्थेऽमी साक्षिण इति तत्र मृतान्तरोऽपि साक्षी । यथाह नारदः :

"मृतान्तरोऽर्थिनि प्रेते मुमूर्षुश्राविताद् ऋते ।" (ना०स्मृ० १.१३९)

तथा ।

"श्रावितोऽनातुरेणापि यस् त्व् अर्थो धर्मसंहितः ।
मृतेऽपि तत्र साक्षी स्यात् षट्सु चान्वाहितादिषु ॥" इति ॥ (ना०स्मृ० १.८४) २.६८ ॥ २.६९ ॥

तान् एतान् असाक्षिणो दर्शयति ।

स्त्रीबालवृद्धकितवमत्तोन्मत्ताभिशस्तकाः ।
रङ्गावतारिपाखण्डिकूटकृद्विकलेन्द्रियाः ॥ या०ध०२.७०

पतिताप्तार्थसंबन्धिसहायरिपुतस्कराः ।
साहसी दृष्टदोषश् च निर्धूताद्यास् त्व् असाक्षिणः ॥ या०ध०२.७१

स्त्री प्रसिद्धा । बालोऽप्राप्तव्यवहारः । वृद्धोऽशीतिकावरः । वृद्धग्रहणं वचननिषिद्धानाम् अन्येषाम् अपि श्रोत्रियादीनाम् उपलक्षणार्थम् । कितवोऽक्षदेवी । मत्तः पानादिना । उन्मत्तो ग्रहाविष्टः । अभिशस्तोऽभियुक्तो ब्रह्महत्यादिना । रङ्गावतारी चारणः । पाखण्डिनो निर्ग्रन्थप्रभृतयः । कूटकृत् कपटलेख्यादिकारी । विकलेन्द्रियः श्रोत्रादिरहितः । पतितो ब्रह्महादिः । आप्तः सुहृत् । अर्थसंबन्धी विप्रतिपद्यमानार्थसंबन्धी । सहाय एककार्यः । रिपुः शत्रुः । तस्करः स्तेनः । साहसी बलावष्टम्भकारी । दृष्टदोषो दृष्टविरुद्धवचनः । निर्धूतो बन्धुभिस् त्यक्तः । आद्यशब्दाद् अनेषाम् अपि स्मृत्यन्तरोक्तानां दोषाद् असाक्षिणां भेदाद् असाक्षिणां स्वयमुक्तेर् मृतान्तरस्य च ग्रहणम् । एते स्त्रीबालादयः साक्षिणो न भवन्ति ॥ २.७० ॥ २.७१ ॥

त्र्यवराः साक्षीनो ज्ञेया इत्य् अस्यापवादम् आह ।

उभयानुमतः साक्षी भवत्य् एकोऽपि धर्मवित् । या०ध०२.७२अब्

ज्ञानपूर्वकनित्यनैमित्तिककर्मानुष्ठायी धर्मवित् । स एकोऽप्य् उभयानुमतश् चेत् साक्षी भवति । अपिशब्दबलाद् द्वाव् अपि । यद्य् अपि "श्रौतस्मार्तक्रियापराः" (या०ध० २.६९) इति त्र्यवराणाम् अपि धर्मवित्त्वं समानं तथापि तेषाम् उभयानुमत्यभावेऽपि साक्षित्वं भवति । एकस्य द्वयोर् वोभयानुमत्यैव साक्षित्वं भवतीत्यर्थवत् त्र्यवरग्रहणम् ।

"तपस्विनो दानशीलाः" (या०ध० २.६८) इत्य् अस्यापवादम् आह ।

सर्वः साक्षी संग्रहणे चौर्यपारुष्यसाहसे ॥ या०ध०२.७२च्द्

संग्रहणादीनि वक्ष्यमाणलक्षणानि तेषु सर्वे वचननिषिद्धास् तपःप्रभृत्गुणरहिताश् च साक्षिणो भवन्ति । दोषाद् असाक्षिणो भेदाद् असाक्षिणः स्वयमुक्तिश् चात्रापि साक्षिणो भवन्ति सत्याभावाद् इति हेतोर् अत्रापि विद्यमानत्वात् ।

"मनुष्यमारणं चौर्यं परदाराभिमर्शनम् ।
पारुष्यम् उभयं चेति साहसं स्याच् चतुर्विधम् ॥" (ना०स्मृ० १४.१* अद्दितिओन्)

इति वचनाद्, यद्य् अपि स्त्रीसंग्रहणचौर्यपारुष्याणां साहसत्वं तथापि तेषां स्वबलावष्टम्भेन जनसमक्षं क्रियमाणानां साहसत्वम् । रहसि क्रियमाणानां तु संग्रहणादिशब्दवाच्यत्वम् इति तेषां साहसात् पृथग् उपादानम् ॥ २.७२ ॥

साक्षिश्रावणम् आह ।

साक्षिणः श्रावयेद् वादिप्रतिवादिसमीपगान् । या०ध०२.७३अब्

अर्थिप्रत्यर्थिसंनिधौ साक्षिणः समवेतान् "नासमवेताः पृष्टाः प्रब्रूयुः" (गौ०ध० १३.५) इति गौतमवचनात्, वक्ष्यमाणं श्रावयेत् । तत्रापि कात्यायनेन विशेषो दर्शितः :

"सभान्तः साक्षिणः सर्वान् अर्थिप्रत्यर्थिसंनिधौ ।
प्राड्विवाको नियुञ्जीत विधिनानेन सान्त्वयन् ।
देवब्राह्मणसंनिध्ये साक्ष्यं पृच्छेद् ऋतं द्विजान् ।
उदङ्मुखान् प्राङ्मुखान् वा पूर्वाह्णे वै शुचिः शुचीन् ॥
आहूय साक्षिणः पृच्छेन् नियम्य शपथैर् भृशम् ।
समस्तान् विदिताचारान् विज्ञातार्थान् पृथक्पृथक् ॥" इति । (का०स्मृ० ३४२, ३४४–४५)

तथा ब्राह्मणादिषु श्रावणे मनुना नियमो दर्शितः :

"सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः ।
गोबीजकाञ्चनैर् वैश्यं शूद्रं सर्वैस् तु पातकैः ॥" इति । (मा०ध० ८.११३)

ब्राह्मणम् अन्यथा ब्रुवतः सत्यं ते नश्यतीति शापयेत् । क्षत्रियं वाहनायुधानि तव विफलानीति । गोबीजकाञ्चनादीनि तव विफलानि भविष्यन्तीति वैश्यम् । शूद्रम् अन्यथा ब्रुवतस् तव सर्वाणि पातकानि भविष्यन्तीति शापयेत् । अत्र चापवादस् तेनैव दर्शितः :

"गोरक्षकान् वाणिजकांस् तथा कारुकुशीलवान् ।
प्रेष्यान् वार्धुषिकांश् चैव विप्रान् शूद्रवद् आचरेत् ॥" इति । (मा०ध० ८.१०२)

विप्रग्रहणं क्षत्रियवैश्ययोर् उपलक्षणार्थम् । कुशीलवा गायकाः । प्रतिवादिना साक्षिदूषणे दत्ते प्रत्यक्षयोग्यदूषणेषु बाल्यादिषु तथैव निर्णयः । अयोग्येषु तु तद्वचननाल् लोकतश् च निर्णयो न साक्ष्यन्तरेणेति नानवस्था । यदि साक्षिदोषम् उद्भाव्य साधयितुं न शक्नोति प्रतिवादी तदासौ सारानुसारेण दण्ड्यः । अथ साधयति तदा न साक्षिणः । यथाह ।

"असाधयन् दमं दाप्यो दूषणं साक्षिणां स्फूटम् ।
भाविते साक्षिणो वर्ज्याः साक्षिधर्मनिराकृताः ॥" इति । (ध०को० ३४५)

उद्दिष्टेषु च सर्वेषु साक्षिषु दुष्टेष्व् अर्थी यदा क्रियान्तरनिरपेक्षस् तदा पराजितो भवति,

"जितः स विनयं दाप्यः शास्त्रदृष्टेन कर्मणा ।
यदि वादी निराकाङ्क्षः साक्षिसत्ये व्यवस्थितः ॥" (बृ०स्मृ० १.५.२७)

इति स्मरणात् । साकाङ्क्षश् चेत् क्रियान्तरम् अवलम्बेतेत्य् अभिप्रायः ॥

कथं श्रावयेद् इत्य् अत आह ।

ये पातककृतां लोका महापातकिनां तथा ॥ या०ध०२.७३च्द्

अग्निदानां च ये लोका ये च स्त्रीबालघातिनाम् ।
स तान् सर्वान् अवाप्नोति यः साक्ष्यम् अनृतं वदेत् ॥ या०ध०२.७४

सुकृतं यत् त्वया किंचिज् जन्मान्तरशतैः कृतम् ।
तत् सर्वं तस्य जानीहि यं पराजयसे मृषा ॥ या०ध०२.७५

पातकोपपातकमहापातककारिणाम् अग्निदानां स्त्रीबालघातिनां च ये लोकास् तान् सर्वान् असाव् आप्नोति यः साक्ष्यम् अनृतं वदति । तथा जन्मान्तरशतैर् यत् सुकृतं कृतं तत् सर्वं तस्य भवति यस् तेऽनृतवदनेन पराजितो भवतीति श्रावयेद् इति संबन्धः । एतच् च शूद्रविषयं द्रष्टव्यम्, "शूद्रम् सर्वैस् तु पातकैः" (मा०ध० ८.१२३) इति शूद्रे सर्वपातकश्रावणस्य विहितत्वात् । गोरक्षकादिद्विजातिविषयं च, "गोरक्षकान् वाणिजकान्" (मा०ध० ८.१०२) इत्य् उक्तत्वात् । अन्यस्यानेकजन्मार्जितसुकृतसंक्रमणस्य महापातकादिफलप्राप्तेश् चानृतवचनमात्रेणानुपपत्तेः साक्षिसंत्रासार्थम् इदम् उच्यते । यथाह नारदः :

"पुराणैर् धर्मवचनैः सत्यमाहात्म्यकीर्तनैः ।
अनृतस्यापवादैश् च भृशम् उत्त्रासयेद् इमान् ॥" इति ॥ (ना०स्मृ० १.१८२)

यदा तु श्राविताः साक्षिणः कथंचिन् न ब्रूयुस् तदा किं कर्तव्यम् इत्य् अत आह ।

अब्रुवन् हि नरः साक्ष्यम् ऋणं सदशबन्धकम् ।
राज्ञा सर्वं प्रदाप्यः स्यात् षट्चत्वारिंशकेऽहनि ॥ या०ध०२.७६

यः साक्ष्यम् अङ्गीकृत्य श्रावितः सन् कथंचिन् न वदति स राज्ञा सर्वं सवृद्धिकम् ऋणं धनिने दाप्यः सदशबन्धकं दशमांशसहितम् । दशमांशश् च राज्ञो भवति,

राज्ञाधमर्णिको दाप्यः साधिताद् दशकं शतं । (या०ध० २.४२)

इत्युक्तत्वात् । एतच् च षट्चत्वारिंशकेऽहनि प्रापते वेदितव्यम् । ततोऽर्वाग् वदन् न दाप्य इदं च व्याध्याद्युपप्लवरहितस्य । यथाह मनुः :

"त्रिपक्षाद् अब्रुवन् साक्ष्यम् ऋणादिषु नरोऽगदः ।
तद् ऋणं प्राप्नुयात् सर्वं दशबन्धं च सर्वशः ॥" इति । (मा०ध० ८.१०७)

अगद इति राजदैवोपप्लवविरहोपलक्षणम् ॥ २.७६ ॥

यस् तु जानन्न् अपि साक्ष्यम् एव नाङ्गीकरोति दौरात्म्यात् तं प्रत्य् आह ।

न ददाति हि यः साक्ष्यं जानन्न् अपि नराधमः ।
स कूटसाक्षिणां पापैस् तुल्यो दण्डेन चैव हि ॥ या०ध०२.७७

यः पुनर् नराधमो विप्रतिपन्नम् अर्थं विशेषतो जानन्न् अपि साक्ष्यं न ददाति नाङ्गीकरोति स कूटसाक्षिणां तुल्यः पापैः कृत्वा दण्डेन च । कूटसाक्षिणां च दण्डं वक्ष्यति । कूटसाक्षिणश् च दण्डयित्वा पुनर् व्यवहारः प्रवर्तनीयः ।

कृतोऽपि वा कौटसाक्ष्ये विदिते निवर्तनीयः । यथाह मनुः :

"यस्मिन् यस्मिन् विवादे तु कौटसाक्ष्यं कृतं भवेत् ।
तत् तत् कार्यं निवर्तेत कृतं चाप्यकृतं भवेत् ॥" इति ॥ (मा०ध० ८.११७)

साक्षिविप्रतिपत्तौ कथं निर्णय इत्य् अत आह ।

द्वैधे बहूनां वचनं समेषु गुणिनां तथा ।
गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तमाः ॥ या०ध०२.७८

साक्षिणां द्वैधे विप्रतिपत्तौ बहूनां वचनं ग्राह्यम् । समेषु समसंख्येषु द्वैधे ये गुणिनस् तेषां वचनं प्रमाणम् । यदा पुनर् गुणिनां विप्रतिपत्तिस् तदा ये गुणवत्तमाः श्रुताध्ययनतदर्थानुष्ठानधनपुत्रादिगुणसंपन्नास् तेषां वचनं ग्राह्यम् । यत्र तु गुणिनः कतिपये इतरे च बहवस् तत्रापि गुणिनाम् एव वचनं ग्राह्यम्,

उभयानुमतः साक्षी भवत्य् एकोऽपि धर्मवित् । (या०ध० २.७२)

इति गुणातिशयस्य मुख्यत्वात् । यत् तु "भेदाद् असाक्षिणः" इत्य् उक्तं, तत् सर्वसामेनागृह्यमाणविशेषविषयम् ॥ २.७८ ॥

साक्षिभिश् च कथम् उक्ते जयः कथं वा पराजय इत्य् अत आह ।

यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् ।
अन्यथावादिनो यस्य ध्रुवस् तस्य पराजयः ॥ या०ध०२.७९

यस्य वादिनः प्रतिज्ञां द्रव्यजातिसंख्यादिविशिष्टां साक्षिणः सत्यां वदन्ति सत्यम् एवं जानीमो वयम् इति स जयी भवति । यस्य पुनर् वादिनः प्रतिज्ञाम् अन्यथा वैपरीत्येन मिथ्यैतद् इति वदन्ति तस्य पराजयो ध्रुवो निश्चितः । यत्र तु प्रतिज्ञातार्थस्य विस्मरणादिना भावाभावौ साक्षिणो न प्रतिपादयन्ति तत्र प्रमाणान्तरेण निर्णयः कार्यः । न च राज्ञा साक्षिनः पुनः पुनः प्रष्टव्याः । स्वभावोक्तम् एव वचनं ग्राह्यम् । यथाह ।

"स्वभावोक्तं वचस् तेषां ग्राह्यं यद् दोषवर्जितम् ।
उक्ते तु साक्षिणो राज्ञा न प्रष्टव्याः पुनः पुनः ॥" इति ॥ २.७९ ॥

"अन्यथावादिनो यस्य ध्रुवस् तस्य पराजयः" (या०ध० २.७९) इत्य् अस्यापवादम् आह ।

उक्तेऽपि साक्षिभिः साक्ष्ये यद्य् अन्ये गुणवत्तमाः ।
द्विगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्वसाक्षिणः ॥ या०ध०२.८०

पूर्वोक्तलक्षनैः साक्षिभिः साक्ष्ये स्वाभिप्राये प्रतिज्ञातार्थावैपरीत्येनाभिहिते यद्य् अन्ये पूर्वेभ्यो गुणवत्तमाः द्विगुणा वा अन्यथा प्रतिज्ञातार्थाननुगुण्येन साक्ष्यं ब्रूयुस् तदा पूर्वे साक्षिणः कूटा मिथ्यावादिनो भवेयुः ।

ननु एतद् अनुपपन्नम् अर्थिप्रत्यर्थिसभ्यसभापतिभिः परीक्षितैः प्रमाण्भूतैः साक्षिभिर् निगदिते प्रमाणान्तरान्वेषणेऽनवस्थादोषप्रसङ्गात्,

"निर्णिक्ते व्यवहारे तु प्रमाणम् अफलं भवेत् ।
लिखितं साक्षिणो वापि पूर्वम् आवेदितं न चेत् ॥
यथा पक्वेषु धान्येषु निष्फलाः प्रावृषो गुणाः ।
निर्णिक्तव्यवहाराणां प्रमाणम् अफलं तथा ॥" (ना०स्मृ०मा० १.५३–५४)

इति नारदवचनाच् च ।

उच्यते । यदार्थी प्रतिज्ञातार्थस्यान्तरात्मसाक्षित्वेनानाविष्कृतदोषाणाम् अपि साक्षिणां वचनम् अर्थविसंवादित्वेनाप्रमाणं मन्यमानः साक्षिष्व् अपि दोषं कल्पयति तदा प्रमाणान्तरान्वेषणं केन वार्यते । उक्तं च – "यस्य च दुष्टं करणं यन् न च मिथ्येति प्रत्ययः स एवासमीचीनः" इति । यथा चक्षुरादिकरणदोषानध्यवसायेऽप्य् अर्थविसंवादात् तज्जनितस्य ज्ञानस्याप्रामाण्येन करणदोषकल्पना तथेहापि, साक्षिपरीक्षातिरेकेण वाक्यपरीक्षोपदेशाच् च :

"साक्षिभिर् भाषितं वाक्यं सह सभ्यैः परीक्षयेत् ।" इति । (का०स्मृ० ३४०)

कात्यायानेनाप्य् उक्तं :

"यदा शुद्धा क्रिया न्यायात् तदा तद्वाक्यशोधनम् ।
शुद्धाच् च वाक्याद्यः शुद्धः स शुद्धोऽर्थे इति स्थितिः ॥" इति । (का०स्मृ० ४०९)

क्रिया साक्षिलक्षणा "नार्थसंबन्धिनो नाप्ताः" (मा०ध० ८.६४) इति न्यायाद् यदा शुद्धा तदा तद्वाक्यशोधनं साक्षिवाक्यशोधनं कर्तव्यम् । वाक्यशुद्धिश् च सत्यार्थप्रतिपादनेन, "सत्येन शुध्यते वाक्यं" इति स्मरणात् । एवं शुद्धायाः क्रियायाः शुद्धवाक्याच् च यः शुद्धोऽवगतोऽर्थः स शुद्धस् तथाभूत इति स्थितिर् ईदृशी मर्यादा न्यायविदाम् । कारणदोषबाधकप्रत्ययाभावे सत्य् अवितथ एवार्थ इत्य् अर्थः ।

ननु स्वयम् अर्थिना प्रमाणीकृतान् साक्षिणोऽतिक्रम्य कथं क्रियान्तरं प्रमाणीक्रियते ।

नैष दोषः । यतः,

"क्रियां बलवतीं मुक्त्वा दुर्बलां योऽवलम्बते ।
स जयेऽवधृते सभ्यैः पुनस् तां नाप्नुयात् क्रियाम् ॥" (का०स्मृ० २२१)

इति कात्यायनेन जयावधारणोत्तरकालं क्रियान्तरपरिग्रहनिषेधाज् जयावधारणात् प्राक् क्रियान्तरपरिग्रहो दर्शितः । नारदेनापि,

"निर्णिक्ते व्यवहारे तु प्रमाणम् अफलं भवेत् ।" (ना०स्मृ०मा० १.५३)

इति वदता जयावधारणोत्तरकालम् एव प्रमाणान्तरं निषिद्धं न प्राग् अपि । तस्माद् उक्तेऽपि साक्षिभिः साक्ष्येऽपरितुष्यता क्रियान्तरम् अङ्गीकर्तव्यम् इति स्थितम् । एवं स्थिते यद्य् अभिहितवचनेभ्यः साक्षिभ्यो गुणवत्तमा द्विगुणा वा पूर्वनिर्दिष्टा असन्निहिताः साक्षिणः सन्ति तदा त एव प्रमाणीकर्तव्याः -- "स्वभावेनैव यद् ब्रूयुस् तद् ग्राह्यं व्यावहारिकम्" (मा०ध० ८.७८) इत्यस्य सर्वव्यव्हारशेषत्वात्,

"निर्णिक्ते व्यवहारे तु प्रमाणम् अफलं भवेत् ।
लिखितं साक्षिणो वापि पूर्वम् आवेदितं न चेत् ॥" (ना०स्मृ०मा० १.५३)

इति नारदवचनाच् च । पूर्वनिर्दिष्टानाम् असंभवे त्व् अनिर्दिष्ता अपि तथाविधाः साक्षिण एव ग्राह्या न दिव्यम्,

"संभवे साक्षिणां प्राज्ञो वर्जयेद् दैविकीं क्रियाम् ।" (का०स्मृ० २१७)

इति स्मरणात् । तेषाम् असंभवे दिव्यं प्रमाणीकर्तव्यम् । अतः परम् अपरितुष्यताप्य् अर्थिना न प्रमाणान्तरम् अन्वेषणीयम् अवचनाद् इति परिसमापनीयो व्यवहारः । यत्र तु प्रत्यर्थिनः स्वप्रत्ययविसंवादित्वेन साक्षिवचनस्याप्रामाण्यं मन्यमानस्य साक्षिषु दोषारोपणेनापरितोषस् तत्र प्रत्यर्थिनः क्रियोपन्यासावसराभावात् सप्ताहावधिकदैविकराजिकव्यसनोद्भवेन साक्षिपरीक्षणं कर्तव्यम् । तत्र च साक्षिणो दोषावधारणे विवादास्पदीभूतम् ऋणं दाप्याः, सारानुसारेण दण्डनीयाश् च । अथ दोषानवधारणं तदा प्रत्यर्थिना तावता संतोष्टव्यम् । यथाह मनुः ।

"यस्य दृश्येत सप्ताहाद् उक्तवाक्यस्य साक्षिणः ।
रोगोऽग्निर् ज्ञातिमरणम् ऋणं दाप्यो दमं च सः ॥" इति । (मा०ध० ८.१०८)

एतच् च,

यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् । (या०ध० २.७९)

इत्य् अस्य परितुष्यत्प्रत्यर्थिविषयेऽपवादो द्रष्टव्यः । केचित् तु "उक्तेऽपि साक्षिभिः साक्ष्ये" इत्य् एतद् वचनम् अर्थिना निर्दिष्टेषु साक्षिष्व् अर्थ्यनुकूलम् अभिहितवत्सु यदि प्रत्यर्थी गुणवत्तमान् द्विगुणान् वान्यान् साक्षिणः पूर्वोक्तविपरीतं संवादयति तदा पूर्ववादिनः साक्षिणः कूटा इति व्याचक्षते । तद् असत्, प्रत्यर्थिनः क्रियानुपपत्तेः । तथा हि । अर्थी नाम साध्यस्यार्थस्य निर्देष्टा, तत्प्रतिपक्षतदभाववादी प्रत्यर्थी पत्राभावस्य भावसिद्धिसापेक्षसिद्धित्वाद् भावस्य चाभावसिद्धिनिरपेक्षसिद्धित्वाद् भावस्यैव साध्यत्वं युक्तम्, अभावस्य स्वरुपेण साक्ष्यादिप्रमेयत्वाभावात् । अतश् चार्थिन एव क्रिया युक्ता । अपि चोत्तरानुसारेण सर्वत्रैव क्रिया नियता स्मर्यते ।

"प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत् क्रियाम् ।
मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत् ॥" इति । (बृ०स्मृ० १.३.१३)

न चैकस्मिन् व्यवहारे द्वयोः क्रिया,

"न चैकस्मिन् विवादे तु क्रिया स्याद् वादिनोर् द्वयोः ।" (का०स्मृ० १९०)

इति स्मरणात् । तस्मात् प्रतिवादिनः साक्षिणो गुणवत्तमा द्विगुणा वान्यथा ब्रूयुर् इत्य् अनुपपन्नम् । अथ मतम् । यत्र द्वाव् अपि भावप्रतिज्ञावादिनौ मदीयम् इदं दायादप्राप्तम् इति प्रतिज्ञावादिनोः पूर्वापरकालविभागानाकलितम् एव वदतस् तत्र द्वयोः साक्षिषु सत्सु कस्य साक्षिणो ग्राह्या इत्य् आकाङ्क्षायां,

"द्वयोर् विवदतोर् अर्थे द्वयोः सस्तु च साक्षिषु ।
पूर्वपक्षो भवेद् यस्य भवेयुस् तस्य साक्षिणः ॥" (ना०स्मृ० १.१४५)

इति वचनेन यः पूर्वं निवेदयति तस्य साक्षिणो ग्राह्या इति स्थिते तस्यापवादः “उक्तेऽपि साक्षिभिः साक्ष्ये” इति । अतश् च पूर्वोत्तरयोर् वादिनोः समसंख्येषु समगुणेषु साक्षिणो गुणवत्तमा द्विगुणा वा तदा प्रतिवादिनः साक्षिणः प्रष्टव्याः । एवं च नाभावस्य साध्यता । उभयोर् अपि भाववादित्वात्, चतुर्विधोत्तरविलक्षणत्वाच् च प्रकृतोदाहरणे न क्रियाव्यवस्था । एकस्मिन् व्यवहारे तु यथैकस्यार्थिनः क्रियाद्वयं परमते तथा वादिप्रतिवादिनोः क्रियाद्वयेऽप्य् अविरोध इति । तद् अप्य् आचार्यो नानुमन्यते “उक्तेऽपि साक्षिभिः साक्ष्ये” इत्य् अपिशब्दाद् अर्थात् प्रकरणाद् वास्यार्थस्यानवगमाद् इत्य् अलं प्रसङ्गेन ॥ २.८० ॥

कूटसाक्षिणो दर्शितास् तेषां दण्डम् आह ।

पृथक् पृथग् दण्डनीयाः कूटकृत् साक्षिणस् तथा ।
विवादाद् द्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः ॥ या०ध०२.८१

यो धनदानादिना कूटान् साक्षिणः करोतीति स कूटकृत् साक्षिणश् च ये तथा कूटास् ते विवादान् नाम विवादपराजयात् पराजये यो दण्डस् तत्र तत्रोक्तस् तं दण्डं द्विगुणं पृथक् पृथग् एकैकशो दण्डनीयाः । ब्राह्मणस् तु विवास्यो राष्ट्रान् निर्वास्यो न दण्डनीयः । एतच् च लोभादिकारणविशेषापरिज्ञाने अनभ्यासे च वेदितव्यम् । लोभादिकारणविशेषपरिज्ञानेऽभ्यासे च मनुनोक्तम् ।

"लोभात् सहस्रं दण्ड्यः स्यान् मोहात् पूर्वं तु साहसम् ।
भयाद् द्वौ मध्यमौ दण्डौ मैत्र्यात् पूर्वं चतुर्गुणम् ॥
कामाद् दशगुणं पूर्वं क्रोधात् तु त्रिगुणं परम् ।
अज्ञानाद् द्वे शते पूर्णे बालिश्याच् छतम् एव तु ॥" इति । (मा०ध० ८.१२०–२१)

तत्र लोभोऽर्थलिप्सा । मोहो विपर्ययज्ञानम् । भयं संत्रासः । मैत्री स्नेहातिशयः । कामः स्त्रीव्यतिकराभिलाषः । क्रोधोऽमर्षः । अज्ञानम् अस्फुटज्ञानम् । बालिश्यं ज्ञानानुत्पादः । सहस्रादिषु ताम्रिकाः पणा गृह्यन्ते । तथा ।

"कौटसाक्ष्यं तु कुर्वाणांस् त्रीन् वर्णान् धार्मिको नृपः ।
प्रवासयेद् दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥" इति । (मा०ध० ८.१२३)

एतच् चाभ्यासविषयम् । कुर्वाणान् इति वर्तमाननिर्देशात् । त्रीन् वर्णान् क्षत्रियादीन् पूर्वोक्तं दण्डयित्वा प्रवासयेन् मारयेत्, अर्थशास्त्रे प्रवासशब्दस्य मारणे प्रयोगात्, अस्य चार्थशास्त्ररूपत्वात् । तत्रापि प्रवासनम् ओष्टच्छेदनं जिह्वाच्छेदनं प्राणवियोजनं च कौटसाक्ष्यविषयानुसारेण द्रष्टव्यम् । ब्राह्मणं तु दण्डयित्वा विवासयेत् स्वराष्ट्रान् निष्कासयेत् । यद् वा विवासयेत् वाससो विगतो विवासाः । विवाससं करोतीति णिचि कृते "णाविष्टवत् प्रातिपदिकस्य" इति टिलोपे रूपम् । नग्नी कुर्याद् इत्य् अर्थः । अथ वा वसत्य् अस्मिन्न् इति वासो गृहम् । विवासयेत् भग्नगृहं कुर्याद् इत्यर्थः । ब्राह्मणस्यापि लोभादिकारणविशेषापरिज्ञानेऽनभ्यासे च तत्र तत्रोक्तो दण्ड एव । अभ्यासे त्व् अर्थदण्डो विवासनं च । तत्रापि जातिद्रव्यानुबन्धाद्यपेक्षया विवासनं नग्नीकरणं गृहभङ्गो देशान् निर्वासनं चेति व्यवस्था द्रष्टव्या । लोभादिकारणविशेषापरिज्ञानेऽनभ्यासे चाल्पविषये कौटसाक्ष्ये ब्राह्मणस्यापि क्षत्रियादिवद् अर्थदण्ड एव । महाविषये तु देशान् निर्वासनम् एव । अत्राप्य् अभ्यासे सर्वेषाम् एव मनूक्तं द्रष्टव्यम् । न च ब्राह्मणस्यार्थदण्डो नास्तीति मन्तव्यम् । अर्थदण्डाभावे शारीरदण्डे च निषिद्धे स्वल्पेऽप्य् अपराधे नग्नीकरणगृहभङ्गाङ्ककरणविप्रवासनं दण्डाभावो वा प्रसज्येत,

"चतुर्णाम् अपि वर्णानां प्रायश्चित्तम् अकुर्वताम् ।
शारीरं धनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् ॥" (मा०ध० ९.२३६)

इति स्मरणाच् च । तथा ।

"सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद् व्रजन् ।" (मा०ध० ८.३७८)

इति स्मरणात् । यत् तु शङ्खवचनम् : "त्रयाणां वर्णानां धनापहारवधबन्धक्रिया विवासनाङ्ककरणं ब्राह्मणस्य" इति, तत्र धनापहारः सर्वस्वापहारो विवक्षितो वधसाहचर्यात्,

"शारीरस् त्व् अवरोधादिर् जीवितान्तः प्रकीर्तितः ।
काकिण्यादिस् त्व् अर्थदण्डः सर्वस्वान्तस् तथैव च ॥" (ना०स्मृ० १९.६१)

इति वधसर्वस्वहरणयोः सहपाठात् । यद् अप्य् उक्तम्,

"राष्ट्राद् एनं बहिः कुर्यात् समग्रधनम् अक्षतम् ।" (मा०ध० ८.३८०)

इति तत् प्रथमकृतसाहसविषयं न सर्वविषयम् । शारीरस् तु ब्राह्मणस्य न कदाचिद् भवति,

"न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अपि स्थितम् ।" (मा०ध० ८.३८०)

इति सामान्येन मनुस्मरणात् । तथा मनुः ।

"न ब्राह्मणवधाद् भूयान् अधर्मो विद्यते भुवि ।
तस्माद् अस्य वधं राजा मनसापि न चिन्तयेत् ॥" इति ॥ (मा०ध० ८.३८१) २.८१ ॥

अपि च ।Bएfओरे अपि च, NSP and Pandeya adds : जानतः साक्ष्यानङ्गीकारे आह ।

यः साक्ष्यं श्रावितोऽन्येभ्यो निह्नुते तत् तमोवृतः ।
स दाप्योऽष्टगुणं दण्डं ब्राह्मणं तु विवासयेत् ॥ या०ध०२.८२

यस् तु साक्षित्वम् अङ्गीकृत्यान्यैः साक्षिभिः सह साक्ष्यं श्रावितः सन् निगदनकाले तमोवृतो रागाद्याक्रान्तचित्तस् तत्साक्ष्यम् अन्येभ्यः साक्षिभ्यो निह्नुते नाहम् अत्र साक्षी भवामीति स विवादपराजये यो दण्डस् तं दण्डम् अष्टगुणं दाप्यः । ब्राह्मणं पुनर् अष्टगुणद्रव्यदण्डदानासमर्थं विवासयेत् । विवासनं च नग्नीकरणगृहभङ्गदेषनिर्वासनलक्षणं विशयानुसारेण द्रष्टव्यम् । इतरेषं त्व् अष्टगुणद्रव्यदण्डदानासंभवे स्वजात्युचितकर्मकरणनिगडबन्धनकारागृहप्रवेशादि द्रष्टव्यम् । एतच् च पूर्वश्लोकेऽप्य् अनुसर्तव्यम् । यदा सर्वे साक्ष्यं निह्नुवते तदा सर्वे समानदोषाः । यदा तु साक्ष्यम् उक्त्वा पुनर् अन्यथा वदन्ति तदानुबन्धाद्यपेक्षया दण्ड्याः । यथाह कात्यायनः ।

"उक्त्वान्यथा ब्रुवाणाश् च दण्ड्याः स्युर् वाक्छलान्विताः ।" इति । (का०स्मृ० ४०६)

न चान्येनोक्ताः साक्षिणोऽन्येन रहस्य् अनुसर्तव्याः । यथाह नारदः ।

"न परेण समुद्दिष्टम् उपेयात् साक्षिणं रहः ।
भेदयेन् नैव चान्येन हीयेतैवं समाचरन् ॥" इति ॥ (ना०स्मृ० १.१४७) २.८२ ॥

साक्षिणाम् अवचनम् असत्यवचनं च सर्वत्र प्रतिषिद्धम् । तद् अपवादार्थम् आह ।

वर्णिनां हि वधो यत्र तत्र साक्ष्य् अनृतं वदेत् । या०ध०२.८३अब्

यत्र वर्णिनां शूद्रविट्क्षत्रविप्रानां सत्यवचनेन वधः संभाव्यते तत्र साक्ष्य् अनृतं वदेत् सत्यं न वदेत् । अनेन च सत्यवचनप्रतिषेधेन साक्षिणः पूर्वप्रतिषिद्धम् असत्यवचनम् अवचनं चाभ्यनुज्ञायते । यत्र शङ्काभियोगादौ सत्यवचने वर्णिनो वधोऽनृतवचने न कस्यापि वधस् तत्रानृतवचनम् अभ्यनुज्ञायते । यत्र तु सत्यवचनेऽर्थिप्रत्यर्थिनोर् अन्यतरस्य वधोऽसत्यवचने चान्यतरस्य वधस् तत्र तूष्णींभावाभ्यनुज्ञा राजा यद्य् अनुमन्यते । अथ राजा कथम् अप्य् अकथने न मुञ्चति तदा भेदाद् असाक्षित्वं कर्तव्यम् । तस्याप्य् असंभवे सत्यम् एव वदितव्यम् । असत्यवचने वर्णिवधदोषोऽसत्यवचनदोषश् च । सत्यवचने तु वर्णिवधदोष एव । तत्र च यथाशास्त्रं प्रायश्चित्तं कर्तव्यम् ॥

तर्ह्य् असत्यवचने तूष्णींभावे च शास्त्राभ्यनुज्ञानात् प्रत्यवायाभाव इत्य् अत आह ।

तत्पावनाय निर्वाप्यश् चरुः सारस्वतो द्विजैः ॥ या०ध०२.८३च्द्

तत्पावनाय अनृतवचनावचननिमित्तप्रत्यवायपरिहाराय सारस्वतश् चरुर् द्विजैर् एकैकशो निर्वाप्यः कर्तव्यः । सरस्वती देवता अस्येति सारस्वतः । अनवस्रावितान्तरूष्मपक्वौदने चरुशब्दः प्रसिद्धः । इहायम् अभिसन्धिः : साक्षिणाम् अनृतवचनम् अवचनं च यन् निषद्धं तद् इहाभ्यनुज्ञातम् । यत् तु,

"नानृतं वदेत् ।" (मा०ध० ८.९३)

"अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी ।" (मा०ध० ८.१३)

इति सामान्येनानृतवचनम् अवचनं च प्रतिषिद्धं तदतिक्रमनिमित्तम् इदं प्रायश्चित्तम् । न च मन्तव्यं साक्षिणाम् अनृतवचनावचनाभ्यनुज्ञानेऽपि साधारणानृतवचनावचनप्रतिषेधातिक्रमनिमित्तप्रत्यवायस्य तादवस्थ्याद् अभ्यनुज्ञावचनम् अनर्थकम् इति । यतः साक्ष्यनृतवचनावचनयोर् भूयान् प्रत्यवायः साधारणानृतवचनावचनयोर् अल्पीयान् इत्य् अर्थवद् अभ्यनुज्ञावचनम् । यद्य् अपि भूयसः प्रत्यवायस्य निवृत्त्या आनुषङ्गिकस्याल्पीयसः प्रत्यवायस्य निवृत्तिर् अन्यत्र तथापीहाभ्यनुज्ञावचनात् प्रायश्चित्तविधानाच् च भूयसो निवृत्त्याल्पीयान् अप्य् आनुषङ्गिकोऽपि प्रत्यवायो न निवर्तत इति गम्यते । एतद् एवान्यत्र प्रश्नेषु वर्णिवधाशङ्कायां पान्थादीनाम् अनृतवचनावचनाभ्यनुज्ञानं वेदितव्यम् । न च तत्र प्रायश्चित्तम् अस्ति प्रतिषेधान्तराभावात् । निमित्तान्तरेण कालान्तरेऽर्थतत्त्वावगमेऽपि साक्षिनाम् अन्येषां च दण्डाभावोऽस्माद् एव वचनाद् अवगम्यत इति ॥ ८३ ॥

इति साक्षिप्रकरणम्
अथ लेख्यप्रकरणम्

भुक्तिसाक्षिणौ निरूपितौ । सांप्रतं लेख्यं निरूप्यते । तत्र लेख्यं द्विविधं शासनं जानपदं चेति । शासनं निरूपितम् । जानपदम् अभिधीयते । तच् च द्विविधम् स्वहस्तकृतम् अन्यकृतं चेति । तत्र स्वहस्तकृतम् असाक्षिकं अन्यकृतं ससाक्षिकम् । अनयोश् च देशाचारानुसारेण प्रामाण्यम् । यथाह नारदः ।

"लेख्यं तु द्विविधं ज्ञेयं स्वहस्तान्यकृतं तथा ।
असाक्षिमत् साक्षिमच् च सिद्धिर् देशस्थितेस् तयोः ॥" इति । (ना०स्मृ० १.११५)

तत्रान्यकृतम् आह ।

यः कश्चिद् अर्थो निष्णातः स्वरुच्या तु परस्परम् ।
लेख्यं तु साक्षिमत् कार्यं तस्मिन् धनिकपूर्वकम् ॥ या०ध०२.८४

धनिकाधमर्णयोर् योऽर्थो हिरण्यादिः परस्परं स्वरुच्या इयता कालेनैतावद् देयम् इयती च प्रतिमासं वृद्धिर् इति निष्णातो व्यवस्थितः तस्मिन्न् अर्थे कालान्तरे विप्रतिपत्तौ वस्तुतत्त्वनिर्णयार्थं लेख्यं साक्षिमद् उक्तलक्षणसाक्षियुक्तं धनिकपूर्वकं धनिकः पूर्वो यस्मिंस् तद्धनिकपूर्वकम् । धनिकनामलेखनपूर्वकम् इति यावत् । कार्यं कर्तव्यम् । उक्तलक्षणाः साक्षिणो वा कर्तव्याः,

"कर्ता तु यत् कृतम् कार्यं सिद्ध्यर्थं तस्य साक्षिणः ।
प्रवर्तन्ते विवादेषु स्वकृतम् वाथ लेख्यकम् ॥"

इति स्मरणात् ॥ २.८४ ॥

अपि च ।

समामासतदर्धाहर्नामजातिस्वगोत्रकैः ।
सब्रह्मचारिकात्मीयपितृनामादिचिह्नितम् ॥ या०ध०२.८५

समा संवत्सरः । मासश् चैत्रादि । तदर्धं पक्षः शुक्लः कृण्णो वा । अहस् तिथिः प्रतिपदादिः । नाम धनिकर्णिकयोः । जातिर् ब्राह्मणत्वादिः । स्वगोत्रं वासिष्टादिगोत्रम् । एतैः समादिभिश् चिह्नितम् । तथा सब्रह्मचारिकं बह्वृचादिशाखाप्रयुक्तं गुणनाम बह्वृचः कठ इति । आत्मीयपितृनाम धनिकर्णिकपितृनाम । आदिग्रहणाद् द्रव्यजातिसंख्याचारादेर् ग्रहणम् । एतैश् च चिह्नितं लेख्यम् कार्यम् इति गतेन संबन्धः ॥ २.८५ ॥

किं च ।

समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् ।
मतं मेऽमुकपुत्रस्य यद् अत्रोपरि लेखितम् ॥ या०ध०२.८६

धनिकाधमर्णयोर् योऽर्थः स्वरुच्या व्यवस्थितस् तस्मिन्न् अर्थे समाप्ते लिखिते ऋण्य् अधमर्णो नामात्मीयं स्वहस्तेनास्मिंल् लेख्ये यद् उपरि लेखितं तन् ममामुकपुत्रस्य मतम् अभिप्रेतम् इति निवेशयेत् पत्रे विलिखेत् ॥ २.८६ ॥

तथा ।

साक्षिणश् च स्वहस्तेन पितृनामकपूर्वकम् ।
अत्राहम् अमुकः साक्षी लिखेयुर् इति ते समाः ॥ या०ध०२.८७

तस्मिंल् लेख्ये ये साक्षिणो लिखितास् तेऽप्य् आत्मीयपितृनामलेखनपूर्वकं अस्मिन्न् अर्थेऽयम् अमुको देवत्तः साक्षीति स्वहस्तेनैकैकशो लिखेयुः । ते च समाः संख्यातो गुणतश् च कर्तव्याः । यद्य् अधमर्णः साक्षी वा लिपिज्ञो न भवति तदाधमर्णोऽन्येन साक्षी च साक्ष्यन्तरेण सर्वसाक्षिसंनिधौ स्वमतं लेखयेत् । यथाह नारदः :

"अलिपिज्ञ ऋणी यः स्यात् स्वमतं तु स लेखयेत् ।
साक्षी वा साक्षिणान्येन सर्वसाक्षिसमीपतः ॥" इति ॥ (ध०को० ३५७) २.८७ ॥

अपि च ।

उभयाभ्यर्थितेनैतन् मया ह्य् अमुकसूनुना ।
लिखितं ह्य् अमुकेनेति लेखकोऽन्ते ततो लिखेत् ॥ या०ध०२.८८

ततो लेखक उभाभ्यां धनिकाधमर्णिकाभ्याम् प्रार्थितेन मयामुकेन देवदत्तेन विष्णुमित्रसूनुना एतल् लेख्यं लिखितम् इत्य् अन्ते लिखेत् ॥ २.८८ ॥

सांप्रतं स्वकृतं लेख्यम् आह ।

विनापि साक्षिभिर् लेख्यं स्वहस्तलिखितं तु यत् ।
तत्प्रमाणं स्मृतं लेख्यं बलोपधिकृताद् ऋते ॥ या०ध०२.८९

यल् लेख्यं स्वहस्तेन लिखितम् अधमर्णेन तत् साक्षिभिर् विनापि प्रमाणं स्मृतं मन्वादिभिः । बलोपधिकृताद् ऋते बलेन बलात्कारेण उपधिना छललोभक्रोधभयमदादिलक्षणेन यत् कृतं तस्माद् विना । नारदोऽप्य् आह ।

"मत्ताभियुक्तस्त्रीबालबलात्कारकृतं च यत् ।
तद् अप्रमाणं लिखितं भयोपधिकृतं तथा ॥" इति । (ना०स्मृ० १.११७)

तच् चैतत् स्वहस्तकृतं परहस्तकृतं च यल् लेख्यं देशाचारानुसारेण सबन्धकव्यवहारेऽबन्धकव्यवहारे च युक्तम् अर्थक्रमापरिलोपेन लिप्यक्षरापरिलोपेन च लेख्यम् इत्य् एतावत् न पुनः साधुशब्दैर् एव, प्रातिस्विकदेशभाषयापि लेखनीयम् । यथाह नारदः ।

"देशाचाराविरुद्धं यद् व्यक्ताधिविधिलक्षणम् ।
तत् प्रमाणं स्मृतं लेख्यम् अविलुप्तक्रमाक्षरम् ॥" इति । (ना०स्मृ० १.११६)

विधानं विधिः, आधेर् विधिर् आधिविधिर् आधीकरणं, तस्य लक्षणं गोप्याधिभोग्याधिकालकृतमित्यादि, तद् व्यक्तं विस्पष्टं यस्मिंस् तद् व्यक्ताधिविधिलक्षणम् । अविलुप्तक्रमाक्षरं अक्षराणां क्रमः क्रमश् चाक्षराणि च क्रमाक्षराण्य् अविलुप्तानि क्रमाक्षराणि यस्मिंस् तद् अविलुप्तक्रमाक्षरं । तद् एवंभूतं लेख्यं प्रमाणम् । राजशासनवन् न साधुशब्दनियमोऽत्रेत्य् अभिप्रायः ॥ २.८९ ॥

लेख्यप्रसङ्गेन लेख्यारूढम् अप्य् ऋणं त्रिभिर् एव देयम् इत्य् आह ।

ऋणं लेख्यकृतं देयं पुरुषैस् त्रिभिर् एव तु । या०ध०२.९०अब्

यथा साक्ष्यादिकृतम् ऋणं त्रिभिर् एव देयं तथा लेख्यकृतम् अप्य् आहर्तृतत्पुत्रतत्पुत्रैस् त्रिभिर् एव देयं न चतुर्थादिभिर् इति नियम्यते ।

ननु पुत्रपौत्रैर् ऋणं देयम् इत्य् अविशेषेण ऋणमात्रं त्रिभिर् एव देयम् इति नियतम् एव ।

बाढम् । अस्यैवोत्सर्गस्य पत्रारूढर्णविषये स्मृत्यन्तरप्रभवाम् अपवादशङ्काम् अपनेतुम् इदं वचनम् आरब्धम् । तथा हि पत्रलक्षणम् अभिधाय कात्यायनेनाभिहितम् :

"एवं कालम् अतिक्रान्तं पितॄणां दाप्यते ऋणम् ।" इति । (ध०को० ७०९)

इत्थं पत्रारूढम् ऋणम् अतिक्रान्तकालम् अपि पितॄणां संबन्धि दाप्यते । अत्र पितॄणाम् इति बहुवचननिर्देशात् कालम् अतिक्रान्तम् इति वचनाच् चतुर्थादिर् दाप्य इति प्रतीयते । तथा हारीतेनापि :

"लेख्यं यस्य भवेद् धस्ते लाभं तस्य विनिर्दिशेत् ।" इति ।

अत्रापि यस्य हस्ते लेख्य(पत्र)म् अस्ति तस्यर्णलाभे इति सामान्येन चतुर्थादिभ्योऽप्य् ऋणलाभोऽस्तीति प्रतीयते । अतश् चैतद् आशङ्कानिवृत्त्यर्थम् एतद् वचनम् इत्य् उक्तम् । वचनद्वयं च योगीश्वरवचनानुसारेण योजनीयम् ॥

अस्यापवादम् आह ।

आधिस् तु भुज्यते तावद् यावत् तन् न प्रदीयते ॥ या०ध०२.९०च्द्

संबन्धकेऽपि पत्रारूढम् ऋणं त्रिभिर् एव देयम् इति नियमाद् ऋणापाकरणानधिकारेणाध्याहरणेऽप्य् अनधिकारप्राप्ताव् इदम् उच्यते । यावच् चतुर्थेन पञ्चमेन वा ऋणं न दीयते तावद् एवाधिर् भुज्यत इति वदता सबन्धकर्णापाकरणे चतुर्थादेर् अप्य् अधिकारो दर्शितः ।

ननु एतद् अप्य् उक्तम् एव "फलभोग्यो न नश्यति" (या०ध० २.५८) इति ।

सत्यम् । तद् अप्य् एतस्मिन्न् असत्य् अपअवादवचने पुरुषत्रयविषयम् एव स्याद् इति सर्वम् अनवद्यम् ॥ २.९० ॥

प्रासङ्गिकं परिसमाप्य प्रकृतम् एवानुसरति ।

देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा ।
भिन्ने दग्धेऽथवा छिन्ने लेख्यम् अन्यत् तु कारयेत् ॥ या०ध०२.९१

व्यवहाराक्षमे पत्रे पत्रान्तरं कुर्याद् इति विधीयते । व्यवहाराक्षमत्वं चात्यन्तव्यवहितदेशान्तरस्थे पत्रे दुर्लेख्ये दुष्टानि संदिह्यमानान्य् अवाचकानि वा लेख्यानि लिप्यक्षराणि पदानि वा यस्मिंस् तत् दुर्लेख्यं तस्मिन् दुर्लेख्ये, नष्टे कालवशेन, उन्मृष्टे मषीदौर्बल्यादिना मृदितलिप्यक्षरे, हृते तस्करादिभिः, भिन्ने विदलिते, दग्धे प्रज्वलिते, छिन्ने द्विधाभूते सति पत्रं द्विर्भवति । एतच् चार्थिप्रत्यर्थिनोः परस्परानुमतौ सत्याम् । विमत्यां तु व्यवहारप्राप्तौ देशान्तरस्थपत्रानयनायाध्वापेक्षया कालो दातव्यः । दुर्देशावस्थिते नष्टे वा पत्रे साक्षिभिर् एव व्यवहारनिर्णयः कार्यः । यथाह नारदः ।

"लेख्ये देशान्तरन्यस्ते शीर्णे दुर्लिखिते हृते ।
सतस् तत्कालकरणम् असतो द्रष्टदर्शणम् ॥" इति । (ना०स्मृ० १.१२२)

सतो विद्यमानस्य पत्रस्य देशान्तरस्थस्यानयनाय कालकरणं कालावधिर् दातव्यः । असतां पुनर् अविद्यमानस्य पत्रस्य पूर्वं ये द्रष्टारः साक्षिणस् तैर् दर्शनं व्यवहारपरिसमापनं कार्यम् । यदा तु साक्षिणो न सन्ति तदा दिव्येन निर्णयः कार्यः,

"अलेख्यसाक्षिके दैवीं व्यवहारे विनिर्दिशेत् ।" (का०स्मृ० २२४)

इति स्मरणात् । एतच् च जानपदं व्यवस्थापत्रम् । राजकीयम् अपि व्यवस्थापत्रम् ईदृशम् एव भवति । इयांस् तु विशेषः :

"राज्ञः स्वहस्तसंयुक्तं स्वमुद्राचिह्नितं तथा ।
राजकीयं स्मृतं लेख्यं सर्वेष्व् अर्थेषु साक्षिमत् ॥" इति । (का०स्मृ० २५८)

तथान्यद् अपि राजकीयं जयपत्रकम् वृद्धवसिष्टेनोक्तम् ।

"यथोपन्यस्तसाध्यार्थसंयुक्तं सोत्तरक्रियम् ।
सावधारणकं चैव जयपत्रकम् इष्यते ॥
प्राड्विवाकादिहस्ताङ्कं मुद्रितं राजमुद्रया ।
सिद्धेऽर्थे वादिने दद्याज् जयिने जयपत्रकम् ॥" इति । (ध०को० ३७८)

तथा सभासदोऽपि मतं मेऽमुकपुत्रस्येति स्वहस्तं दद्युः,

"सभासदश् च ये तत्र स्मृतिशास्त्रविदः स्थिताः ।
यथालेख्यविधौ तद्वत् स्वहस्तं दद्युर् एव ते ॥" (का०स्मृ० २६३(

इति स्मरणात् । सभासदां च परस्परानुमतिव्यतिरेकेण न व्यवहारो निःशल्यो भवति । यथाह नारदः :

"यत्र सभ्यो जनः सर्वः साध्व् एतद् इति मन्यते ।
स निःशल्यो विवादः स्यात् सशल्यस् त्व् अन्यथा भवेत् ॥" इति । (ना०स्मृ०मा० ३.१६)

एतच् चतुष्पाद्व्यवहार एव,

"साधयेत् साध्यम् अर्थं यच् चतुष्पादान्वितं च यत् ।
राजमुद्रान्वितं चैव जयपत्रकम् इष्यते ॥" (बृ०स्मृ० १.६.२८)

इति स्मरणात् । यत्र तु हीनता, यथा,

"अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः ।
आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः ॥" (ना०स्मृ०मा० २.३३)

इति, तत्र न जयपत्रकम् अस्त्य् अपि तु हीनपत्रकम् एव । तच् च कालान्तरे दण्डप्राप्त्यर्थे जयपत्रं तु प्राङ्न्यायविधिसिद्ध्यर्थम् इति विशेषः ॥ २.९१ ॥

लेख्यसंदेहे निर्णयनिमित्तान्य् आह ।

संदिग्धलेख्यशुद्धिः स्यात् स्वहस्तलिखितादिभिः ।
युक्तिप्राप्तिक्रियाचिह्नसंबन्धागमहेतुभिः ॥ या०ध०२.९२

शुद्धम् अशुद्धं वेति संदिग्धस्य लेख्यस्य शुद्धिः स्वहस्तलिखितादिभिः स्यात् । स्वहस्तेन लिखितं यल् लेख्यान्तरं तेन शुद्धिः । यदि सदृशान्य् अक्षराणि भवन्ति तदा शुद्धिः स्याद् इत्य् अर्थः । आदिशब्दात् साक्षिलेखकस्वहस्तलिखितान्तरसंवादाच् छुद्धिर् इति । युक्त्या प्राप्तिर् युक्तिप्राप्तिः । देशकालपुरुषाणां द्रव्येण सह संबन्धः प्राप्तिः । अस्मिन् देशेऽस्मिन्कालेऽस्य पुरुषस्येदं द्रव्यं घटत इति युक्तिप्राप्तिः । क्रिया तत्साक्ष्युपन्यासः । चिह्नम् असाधारणं श्रीकारादि । संबन्धोऽर्थिप्रत्यर्थिनोः पूर्वम् अपि परस्परविश्वासेन दानग्रहणादिसंबन्धः । आगमोऽस्यैतावतोऽर्थस्य संभावितः प्राप्त्युपायः । एते एव हेतवः । एभिर् हेतुभिः संदिग्धलेख्यस्य शुद्धिः स्याद् इत्य् अन्वयः । यदा तु लेख्यसंदेहे निर्णयो न जायते तदा साक्षिभिर् निर्णयः कार्यः । यथाह कात्यायनः :

"दूषिते पत्रके वादी तदारूढांस् तु निर्दिशेत् ।" इति । (का०स्मृ० २८३)

साक्षिसंभवविषयम् इदं वचनं । साक्ष्यसंभवविषयं तु हारीतवचनम् :

"न मयैतत् कृतं पत्रं कूटम् एतेन कारितम् ।
अधरीकृत्य तत् पत्रम् अथो दिव्येन निर्णयः ॥" इति ॥ (ध०को० ३७४) २.९२ ॥

एवं शोधिते पत्रे ऋणे च दातव्ये प्राप्ते, यदा कृत्स्नम् एव ऋणं दातुम् असमर्थस् तदा किं कर्तव्यम् इत्य् अत आह ।

लेख्यस्य पृष्ठेऽभिलिखेद् दत्त्वा दत्त्वर्णिको धनम् ।
धनी वोपगतं दद्यात् स्वहस्तपरिचिह्नितम् ॥ या०ध०२.९३

यदाधमर्णिकः सकलम् ऋणं दातुम् असमर्थस् तदा शक्त्यनुसारेण दत्त्व पूर्वकृतस्य लेख्यस्य पृष्ठेऽभिलिखेत् एतावन् मया दत्तम् इति । उत्तमर्णो वा उपगतं प्राप्तं धनं तस्यैव लेख्यस्य पृष्ठे दद्याद् अभिलिखेत् "एतावन् मया लब्धम्" इति । कथम् । स्वहस्तपरिचिह्नितं स्वहस्तलिखिताक्षरचिह्नितम् । यद् वोपगतं प्रवेशपत्रं स्वहस्तलिखितचिह्नितम् अधमर्णायोत्तमर्णो दद्यात् ॥ २.९३॥

ऋणे तु कृत्स्ने दत्ते, लेख्यं किं कर्तव्यम् इत्य् अत आह ।

दत्त्वर्णं पाटयेल् लेख्यं शुद्ध्यै वान्यत् तु कारयेत् । या०ध०२.९४अब्

क्रमेण सकृद् एव वा कृत्स्नम् ऋणं दत्त्वा पूर्वकृतं लेख्यं पाटयेत् । यदा तु दुर्गदेशावस्थितं लेख्यं नष्टं वा तदा शुद्ध्या अधमर्णत्वनिवृत्त्यर्थम् अन्यल् लेख्यं कारयेद् उत्तमर्णेनाधमर्णः । पूर्वोक्तक्रमेणोत्तमर्णो विशुद्धिपत्रम् अधमर्णाय दद्याद् इत्य् अर्थः ॥

ससाक्षिके ऋणे कृत्स्ने दातव्ये, किं कर्तव्यम् इत्य् अत आह ।

साक्षिमच् च भवेद् यद् वा तद् दातव्यं ससाक्षिकम् ॥ या०ध०२.९४च्द्

यत् तु ससाक्षिकम् ऋणं तत् पूर्वसाक्षिसमक्षम् एव दद्यात् ॥ २.९४ ॥

इति लेख्यप्रकरणम्
अथ दिव्यप्रकरणम्

लिखितसाक्षिभुक्तिलक्षणं त्रिविधं मानुषं प्रमाणम् उक्तम् । अथावसरप्राप्तं दिव्यं प्रमाणम् अभिधास्यन् "तुलाग्न्यापः" इत्यादिभिर् आद्यैः पञ्चभिः श्लोकैर् दिव्यमातृकां कथयति । तत्र तावद् दिव्यान्य् उपदिशति ।

तुलाग्न्यापो विषं कोशो दिव्यानीह विशुद्धये । या०ध०२.९५अब्

तुलादीनि कोशान्तानि पञ्च दिव्यानीह धर्मशास्त्रे विशुद्धये संदिग्धस्यार्थस्य संदेहनिवृत्तये दातव्यानीति ॥

ननु अन्यत्रान्यान्य् अपि तण्डुलादीनि दिव्यानि सन्ति,

"धटोऽग्निर् उदकं चैव विषं कोशस् तथैव च ।
तण्डुलाश् चैव दिव्यानि सप्तमस् तप्तमाषकः ॥" (ध०को० ४६२ ; chf. बृ०स्मृ० १.८.३)

इति पितामहस्मरणात् ।

अतः कथम् एतावन्त्य् एवेत्य् अत आह ।

महाभियोगेष्व् एतानि । या०ध०२.९५च्

एतानि महाभियोगेष्व् एव नान्यत्रेति नियम्यते न पुनर् इमान्य् एव दिव्यानीति । महत्त्वावधिं च वक्ष्यति ।

ननु अल्पाभियोगेऽपि कोश इष्यते "कोशम् अल्पेऽपि दापयेत्" इति स्मरणात् ।

सत्यम् । कोशस्य तुलादिषु पाठो न महाभियोगेष्व् एवेति नियमार्थः, किं तु सावष्टम्भाभियोगेऽपि प्राप्त्यर्थः । अन्यथा शङ्काभियोगे एव स्यात्,

"अवष्टम्भाभियुक्तानां धटादीनि विनिर्दिशेत् ।
तण्डुलाश् चैव कोशश् च शङ्कास्व् एव न संशयः ॥" (पि०स्मृ० ३६ ; ध०को० ४६२)

इति स्मरणात् ॥

महाभियोगेषु शङ्कितेषु सावष्टम्भेषु चाविशेषेण प्राप्ताव् अपवादम् आह ।

शीर्षकस्थेऽभियोक्तरि ॥ या०ध०२.९५द्

एतानि तुलादीन्य् अभियोक्तरि शीर्षकस्थेऽभियुक्तस्य भवन्ति । शीर्षकं शिरोव्यवहारस्य चतुर्थः पादो जयपराजयलक्षणस् तेन च दण्डो लक्ष्यते तत्र तिष्टतीति शीर्षकस्थः तत्प्रयुक्तदण्डभाग् इत्य् अर्थः ॥ २.९५ ॥

"ततोऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनं" (या०ध० २.७) इति भावप्रतिज्ञावादिन एव क्रियेति व्यवस्था दर्शिता । तद् अपवादम् आह ।

रुच्या वान्यतरः कुर्याद् इतरो वर्तयेच् छिरः । या०ध०२.९६अब्

रुच्याभियोत्रभियुक्तयोः परस्परसंप्रतिपत्त्यान्यतरोऽभियुक्तोऽभियोक्ता वा दिव्यं कुर्यात् । इतरोऽभियुक्तोऽभियोक्ता वा शिरः शारीरम् अर्थदण्डं वा वर्तयेद् अङ्गीकुर्यात् । अयम् अभिसन्धिः । न मानुषप्रमाणवद् दिव्यं प्रमाणं भावैकगोचरं अपि तु भावाभावावविशेषेण गोचरयति । अतश् च मिथ्योत्तरे प्रत्यवस्कन्दने प्राङ्न्याये वार्थिप्रत्यर्थिनोर् अन्यतरस्येच्छया दिव्यं भवतीति ॥

अल्पाभियोगे महाभियोगे शङ्कासावष्टम्भयोर् अप्य् अविशेषेण कोशो भवतीत्य् उक्तं, तुलादीनि विषान्तानि तु महाभियोगेष्व् एव सावष्टम्भेष्व् एवेति च नियमो दर्शितः । तत्रावष्टम्भाभियोगेष्व् एवेत्य् अस्यापवादम् आह ।

विनापि शीर्षकात् कुर्यान् नृपद्रोहेऽथ पातके ॥ या०ध०२.९६च्द्

राजद्रोहाभिशण्कायां ब्रह्महत्यादिपातकाभिशण्कायां च शिरःस्थायिना विनापि तुलादीनि कुर्यात् महाचौर्याभिशण्कायां च । यथाह :

"राजभिः शङ्कितानां च निर्दिष्टानां च दस्युभिः ।
आत्मशुद्धिपराणां च दिव्यं देयं शिरो विना ॥" इति । (ध०को० ४५४ : णारद)

तण्डुलाः पुनर् अल्पचौर्यशङ्कायाम् एव,

"चौर्ये तु तण्डुला देया नान्यत्रेति विनिश्चयः ।" (पि०स्मृ० १६३ ; ध०को० ४६३)

इति पितामहवचनात् । तप्तमाषस् तु महाचौर्याभिशण्कायाम् एव,

"चौर्यशण्काभियुक्तानां तप्तमाषो विधीयते ।" (ध०को० ४६३ : ढ़ितामह)

इति स्मरणात् । अन्ये पुनः शपथा अल्पार्थविषयाः,

"सत्यं वाहनशस्त्राणि गोबीजकनकानि च ।
देवतापितृपादांश् च दत्तानि सुकृतानि च ॥" (ना०स्मृ० २०.२)

"स्पृशेच् छिरांसि पुत्राणां दाराणां सुहृदां तथा ।
अभियोगेषु सर्वेषु कोशपानम् अथापि वा ॥
इत्य् एते शपथाः प्रोक्ता मनुना स्वल्पकारणे ॥" (ध०को० ४४१)

इति नारदस्मरणात् ॥ यद्य् अपि मानुषप्रमाणानिर्णेयस्य निर्णायकं यत् तद् दिव्यम् इति लोकप्रसिद्ध्या शपथानाम् अपि दिव्यत्वं तथापि कालान्तरनिर्णयनिमित्तत्वेन समनन्तरनिर्णयनिमित्तेभ्यो धटादिभ्यो दिव्येभ्यो भेदत्वव्यपदेशो ब्राह्मणपरिव्राजकवत् । कोशस्य तु शपथत्वेऽपि धटादिषु पाठो महाभियोगविषयत्वेनावष्टम्भाभियोगविषयत्वेन च धटादिसाम्यान् न तु समनन्तरनिर्णयनिमित्तत्वेन । तण्डुलानां तप्तमाषस्य च समनन्तरनिर्णयनिमित्तत्वेऽप्य् अल्पविषयत्वेन शङ्काविषयत्वेन च धटादिवैलक्षण्यात् तेष्व् अपाठ इति संतोष्टव्यम् । एतानि च दिव्यानि शपथाश् च यथासंभवम् ऋणादिषु विवादेषु प्रयोक्तव्यानि । यत् तु पितामहवचनम् :

"स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत् ।" (पि०स्मृ० ३९ ; ध०को० २३२)

इति, तद् अपि लिखितसामन्तादिसद्भावे दिव्यानि परिवर्जयेद् इति व्याख्येयम् ।

ननु विवादान्तरेष्व् अपि प्रमाणान्तरसंभवे दिव्यानाम् अनवकाश एव ।

सत्यम् । ऋणादिषु विवादेषु उक्तलक्षणसाक्ष्युपन्यासेऽर्थिना कृतेऽपि प्रत्यर्ती यदि दण्डाभ्युपगमावष्टम्भेन दिव्यम् अवलम्बते तदा दिव्यम् अपि भवति । साक्षिणाम् आशयदोषसंभवाद् दिव्यस्य च निर्दोषत्वेन वस्तुतत्त्वविषयत्वात् तल्लक्षणत्वाच् च धर्मस्य । यथाह नारदः :

"तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिणि ।
दैवसाध्ये पौरुषेयीं न लेख्यं वा प्रयोजयेत् ॥" इति । (ना०स्मृ०मा० १.११)

स्थावरेषु च विवादेषु प्रत्यर्थिना दण्डावष्टम्भेन दिव्यावलम्बने कृतेऽपि सामन्तादिदृष्टप्रमाणसद्भावे न दिव्यं ग्राह्यम् इति विकल्पनिराकरणार्थं "स्थावरेषु विवादेषु" इत्यादिपितामहवचनं नात्यन्तिकदिव्यनिराकरणार्थम् । लिखितसामन्ताद्यभावे स्थावरविवादेष्व् अनिर्णयप्रसङ्गात् ॥ २.९६ ॥

किं च ।Bएfओरे किं च, NSP and Pandeya add दिव्ये साधारणविधिः ।

सचैलं स्नातम् आहूय सूर्योदय उपोषितम् ।
कारयेत् सर्वदिव्यानि नृपब्राह्मणसंनिधौ ॥ या०ध०२.९७

पूर्वेद्युर् उपोषितम् उदिते सूर्ये सचैलं स्नातं दिव्यग्राहिणम् आहूय नृपस्य सभ्यानां ब्राह्मणानां च संनिधौ सर्वाणि दिव्यानि कारयेत् प्राड्विवाकः ।

"त्रिरात्रोपोषिताय स्युर् एकरात्रोषिताय वा ।
नित्यं दिव्यानि देयानि शुचये चार्द्रवाससे ॥" (पि०स्मृ० ५३ ; ध०को० ४६८)

इत्य् उपवासविकल्पः पितामहेनोक्तो बलवदबलवन्महाकार्याल्पकार्यविषयत्वेन व्यवस्थितो द्रष्टव्यः । उपवासनियमश् च कारयितुः प्राड्विवाकस्यापि,

"दिव्येषु सर्वकार्याणि प्राड्विवाकः समाचरेत् ।
अध्वरेषु यथाध्वर्युः सोपवासो नृपाज्ञया ॥" (पि०स्मृ० ५४ ; ध०को० ४६५)

इति पितामहवचनात् ॥ अत्र यद्य् अपि सूर्योदय इत्य् अविशेषेणोक्तं तथापि शिष्टसमाचाराद् भानुवासरे दिव्यानि देयानि । तत्रापि,

"पूर्वाह्नेऽग्निपरीक्षा स्यात् पूर्वाह्ने च धटो भवेत् ।
मध्याह्ने तु जलं देयं धर्मतत्त्वम् अभीप्सता ॥
दिवसस्य तु पूर्वाह्ने कोशशुद्धिर् विधीयते ।
रत्रौ तु पश्चिमे यामे विषं देयं सुशीतलम् ॥" (पि०स्मृ० ४५–४६ ; ध०को० ४६५)

इति पितामहोक्तो विशेषो द्रष्टव्यः । अनुक्तकालविशेषाणां तण्डुलतप्तमाषप्रभृतीनां पूर्वाह्न एव प्रदानम्,

"पूर्वाह्ने सर्वदिव्यानां प्रदानं परिकीर्तितम् ।" (ना०स्मृ० २०.१२* अद्दितिओन्)

इति सामान्येन नारदस्मरणात् । अहनि त्रिधा विभक्ते पूर्वो भागः पूर्वह्नो मध्यमो मध्याह्न उत्तरोऽपराह्नः । तथापरोऽपि कालविशेषो विधिप्रतिषेधमुखेन दर्शितः । विधिमुखस् तावत्,

"अग्नेः शिशिरहेमन्तौ वर्षाश् चैव प्रकीर्तिताः ।
शरद्ग्रीष्मेषु सलिलं हेमन्ते शिशिरे विषम् ॥
चैत्रो मार्गशिरश् चैव वैशाखश् च तथैव च ।
एते साधारणा मासा दिव्यानाम् अविरोधिनः ॥
कोशस् तु सर्वदा देयस् तुला स्यात् सार्वकालिकी ॥" इति । (ध०को० ४६४ ; णारद)

कोशग्रहणं सर्वशपथानाम् उपलक्षणम् । तण्डुलानां पुनर् विशेषानभिधानात् सार्वकालिकत्वम् । प्रतिषेधमुखोऽपि,

"न शीते तोयशुद्धिः स्यान् नोष्णकालेऽग्निशोधनम् ।
न प्रावृषि विषं दद्यात् प्रवाते न तुलां तथा ॥"(NDm २०.८* addition)

"नापराह्ने न सन्ध्यायां न मध्याह्ने कदाचन ॥" इति । (ना०स्मृ०, C ३२०)

"न शीते तोयशुद्धिः स्याद्" इत्य् अत्र शीतशब्देन हेमन्तशिशिरवर्षाणां ग्रहणम् । "नोष्णकालेऽग्निशोधनम्" इत्य् अत्रोष्णकालशब्देन ग्रीष्मशरदोः विधानलब्धस्यापि पुनर् निषेध आदरार्थः । प्रयोजनं तु वक्ष्यते ॥ २.९७ ॥

अधिकारिव्यवस्थाम् आह ।

तुलास्त्रीबालवृद्धान्धपङ्गुब्राह्मणरोगिणाम् ।
अग्निर् जलं वा शूद्रस्य यवाः सप्त विषस्य वा ॥ या०ध०२.९८

स्त्री स्त्रीमात्रं जातिवयोवस्थाविशेषानादरेण । बाल आषोडशाद् वर्षाज् जातिविशेषानादरेण । वृद्धोऽशीतिकावरः । अन्धो नेत्रविकलः । पङ्गुः पादविकलः । ब्राह्मणो जातिमात्रम् । रोगी व्याधितः । एतेषां शोधनार्थं तुलैवेति नियम्यते । अग्निः फालस् तप्तमाषश् च क्षत्रियस्य । जलम् एव वैश्यस्य । वाशब्दोऽवधारणे । विषस्य यवा उक्तपरिमाणाः सप्तैव शूद्रस्य शोधनार्थं भवन्ति । ब्राह्मणस्य तुलाविधानात् "शूद्रस्य यवाः सप्त विषस्य वा" इति विषविधानाद् अग्निर् जलं वेति क्षत्रियवैश्यविषयम् उक्तम् । एतद् एव स्पष्टीकृतं पितामहेन :

"ब्राह्मणस्य धटो देयः क्षत्रियस्य हुताशनः ।
वैश्यस्य सलिलं प्रोक्तं विषं शूद्रस्य दापयेत् ॥" इति । (पि०स्मृ० ४०)

यत् तु स्त्र्यादीनां दिव्याभावस्मरणम्,

"सव्रतानां भृशार्तानां व्याधितानां तपस्विनाम् ।
स्त्रीणां च न भवेद् दिव्यं यदि धर्मस् त्व् अपेक्षितः ॥" (पि०स्मृ० ४४)

इति, तत् "रुच्या वान्यतरः कुर्यात्" (या०ध० २.९६) इति विकल्पनिवृत्त्यर्थम् । एतद् उक्तं भवति : अवष्टम्भाभियोगेषु स्त्र्यादीनाम् अभियोक्तृत्वेऽभियोज्यानाम् एव दिव्यं, एतेषाम् अभियोज्यत्वेऽप्य् अभियोक्तॄणाम् एव दिव्यम् । परस्पराभियोगे तु विकल्प एव । तत्रापि तुलैवेति कात्यायनवचनेन नियम्यते । तथा महापातकादिशङ्काभियोगे स्त्र्यादीनां तुलैवेति एतच् च वचनं सर्वदिव्यसाधारणेषु मार्गशिरश्चैत्रवैशाखेषु स्त्र्यादीनां सर्वदिव्यसमवधाने नियामकतयार्थवत् । न च सर्वकालं स्त्रीणां तुलैवेति,

"स्त्रीणां तु न विषं प्रोक्तं न चापि सलिलं स्मृतम् ।
धटकोशादिभिस् तासाम् अन्तस् तत्त्वं विचारयेत् ॥" (ना०स्मृ० २०.४८* add ध०को० ४५२)

इति विषसलिलव्यतिरिक्तधटकोशाग्न्यादिभिः शुद्धिविधानात् । एवं बालादिष्व् अपि योजनीयम् । तथा ब्राह्मणादीनाम् अपि न सार्वकालिकस् तुलादिनियमः,

"सर्वेषाम् एव वर्णानां कोशशुद्धिर् विधीयते ।
सर्वाण्य् एतानि सर्वेषां ब्राह्मणस्य विषं विना ॥" (पि०स्मृ० ४१)

इति पितामहस्मरणात् । तस्मात् साधारणे काले बहुदिव्यसमवधाने तुलादिनियमार्थम् एवेदं वचनम् । कालान्तरे तु तत्तत्कालविहितं सर्वेषाम् । तथाहि वर्षास्व् अग्निर् एव सर्वेषाम् । हेमन्तशिशिरयोस् तु क्षत्रियादित्रयाणाम् अग्निविषयोर् विकल्पः । ब्राह्मणस्य त्व् अग्निर् एव न कदाचिद् विषम्, "ब्राह्मणस्य विषम् विना" इति प्रतिषेधात् । ग्रीष्मशरदोस् तु सलिलम् एव । येषां तु व्याधिविशेषेणाग्न्यादिनिषेधः,

"कुष्टिनां वर्जयेद् अग्निं सलिलं श्वासकासिनाम् ।
पित्तश्लेष्मवतां नित्यं विषं तु परिवर्जयेत् ॥" (ना०स्मृ० B ५.११८)

इति तेषाम् अग्न्यादिकालेऽपि साधारणं तुलाद्य् एव दिव्यं भवति । तथा,

"तोयम् अग्निर् विषं चैव दातव्यं बलिनां नृणाम् ।" (ध०को० ४६४ : ढ़ितामह)

इति वचनाद् दुर्बलानाम् अपि सर्वथा विधिप्रतिषेधाद् ऋतुकालानतिक्रमेण जातिवयोवस्थाश्रितानि दिव्यानि देयानि ॥ २.९८ ॥

"महाभियोगेष्व् एतानि" (या०ध० २.९५) इत्य् उक्तम् । तत्राभियोगस्य यदपेक्षं महत्त्वं तद् इदानीम् आह ।

नासहस्राद् धरेत् फालं न विषं न तुलां तथा । या०ध०२.९९अब्

पणसहस्राद् अर्वाक् फालं विषं तुलां वा न कारयेत् । मध्यवर्ति जलम् अपि । यथोक्तम् :

"तुलादीनि विषान्तानि गुरुष्व् अर्थेषु दापयेत् ।" इति । (ध०को० ४७१)

अत्र कोशस्याग्रहणं "कोशम् अल्पेऽपि दापयेत्" इत्य् अल्पाभियोगेऽपि तस्य स्मरणात् । एतानि चत्वारि दिव्यानि पणसहस्राद् ऊर्ध्वम् एव भवन्ति नार्वाग् इत्य् अर्थः ॥

ननु अर्वाग् अप्य् अग्न्यादीनि पितामहेन दर्शितानि :

"सहस्रे तु धटं दद्यात् सहस्रार्धे तथायसम् ।
अर्धस्यार्धे तु सलिलं तस्यार्धे तु विषं स्मृतम् ॥" इति । (पि०स्मृ० ४७)

सत्यम् । तत्रेत्थं व्यवस्था : यद्द्रव्यापहारे पातित्यं भवति तद्विषयं पितामहवचनं, इतरद्रव्यविषयं योगीश्वरवचनम् इति । एतच् च वचनद्वयं स्तेयसाहसविषयम् । अपह्नवे तु विशेषो दर्शितः कात्यायनेन :

"दत्तस्यापह्नवो यत्र प्रमाणं तत्र कल्पयेत् ।
स्तेयसाहसयोर् दिव्यं स्वल्पेऽप्य् अर्थे प्रदापयेत् ॥
सर्वद्रव्यप्रमाणं तु ज्ञात्वा हेम प्रकल्पयेत् ।
हेमप्रमाणयुक्तं तु तदा दिव्यं नियोजयेत् ॥
ज्ञात्वा संख्यां सुवर्णानां शतनाशे विषं स्मृतम् ।
अशीतेस्तु विनाशे वै दद्याच् चैव हुताशनम् ॥
षष्ट्या नाशे जलं देयं चत्वारिंशति वै धटम् ।
विंशद्दशविनाशे तु कोशपानं विधीयते ॥
पञ्चाधिकस्य वा नाशे ततोऽर्धार्धस्य तण्डुलाः ।
ततोऽर्धार्धविनाशे हि स्पृशेत् पुत्रादिमस्तकान् ॥
ततोऽर्धार्धविनाशे हि लौकक्यश् च क्रियाः स्मृताः ।
एवं विचारयन् राजा धर्मार्थाभ्यां न हीयते ॥" इति । (का०स्मृ० ४१६–२१)

"ज्ञात्वा संख्या सुवर्णानाम्" इत्य् अत्र सुवर्णशब्दः "षोडश माषाः सुवर्णः" (या०ध० १.३६३) इत्युक्तप्रिमाणवचनः । नाशशब्दश् चात्रापह्नववचनः । "नासहस्राद् धेर्त् फालम्" इत्य् अत्र तु ताम्रिकपणसहस्रं बोद्धव्यम् ॥

ननु नृपद्रोहे महापातके चैतानि दिव्यान्युक्तानि, तत् कथं नासहस्राद् धरेत् फालम् इत्य् अत्राह ।

नृपार्थेष्व् अभिशापे च वहेयुः शुचयः सदा ॥ या०ध०२.९९च्द्

नृपद्रोहे महापातकाभियोगे च सदा द्रव्यसंख्याम् अनपेक्ष्यैवैतानि दिव्यानि वदेयुः कुर्युर् उपवासादिना शुचयः सन्तः । तथा देशविशेषोऽपि नारदेनोक्तः ।

"सभाराजकुलद्वारदेवायतनचत्वरे ।
निधेयो निश्चलः पूज्यो धूपमाल्यानुलेपनैः ॥" इति । (ना०स्मृ० २०.१२* add)

निधेयो धटः । व्यवस्था च कात्यायनेनोक्ता ।

"इन्द्रस्थानेऽभिशस्तानां महापातकिनां नृणाम् ।
नृपद्रोहे प्रवृत्तानां राजद्वारे प्रयोजयेत् ॥
प्रातिलोम्यप्रसूतानां दिव्यं देयं चतुष्पथे ।
अतोऽन्येषु सभामध्ये दिव्यं देयं विदुर् बुधाः ॥" (का०स्मृ० ४३४–३५)

"अस्पृश्याधमदासानां म्लेच्छानां पापकारिणाम् ।
प्रातिलोम्यप्रसूतानां निश्चयो न तु राजनि ।
तत्प्रसिद्धानि दिव्यानि संशये तेषु निर्दिशेत् ॥" इति ॥ (का०स्मृ० ४३३) २.९९ ॥

इति दिव्यमातृका ॥

एवं सर्वदिव्योपयोगिनीं दिव्यमातृकाम् अभिधायेदानीं धतादिदिव्यानां प्रयोगम् आह ।

तुलाधारणविद्वद्भिर् अभियुक्तस् तुलाश्रितः ।
प्रतिमानसमीभूतो रेखां कृत्वावतारितः ॥ या०ध०२.१००

त्वं तुले सत्यधामासि पुरा देवैर् विनिर्मिता ।
तत् सत्यं वद कल्याणि संशयान् मां विमोचय ॥ या०ध०२.१०१

यद्य् अस्मि पापकृन् मातस् ततो मां त्वम् अधो नय ।
शुद्धश् चेद् गमयोर्ध्वं मां तुलाम् इत्य् अभिमन्त्रयेत् ॥ या०ध०२.१०२

तुलाया धारणं तोलनं ये विदन्ति सुवर्णकारप्रभृतयस् तैः प्रतिमानेन मृदादिना समीभूतः समीकृतस् तुलाम् आश्रितोऽधिरूढोऽभियुक्तोऽभियोक्ता वा दिव्यकारी रेखां कृत्वा येन संनिवेशेन प्रतिमानसमीकरणदशायां शिक्यतलेऽवस्थितस् तस्मिन् पाण्दुलेखेनाङ्कयित्वावतारितस् तुलाम् अभिमन्त्रयेत् प्रार्थयेद् अनेन मन्त्रेण । हे तुले त्वं सत्यस्य स्थानम् असि । पुरा आदिसृष्टौ देवैर् हिरण्यगर्भप्रभृतिभिर् विनिर्मितोत्पादिता । तत् तस्मात् सत्यं संदिग्धस्यार्थस्य स्वरूपं वद दर्शय कल्याणि शोभने अस्मात् संशयान् मां विमोचय । हे मातः यद्य् अहं पापकृद् असत्यवाद्य् अस्मि ततो मं त्वम् अधो नय । अथ शुद्धः सत्यवाद्य् अस्मि ततो माम् ऊर्ध्वं गमयेति । प्राड्विवाकस्य तुलाभिमन्त्रणमन्त्रः स्मृत्यन्तरोक्तः । अयम् तु दिव्यकारिणः । जयपराजयलक्षणं तु मन्त्रलिङ्गाद् एवावगम्यत इति न पृथग् उक्तम् । धटनिर्माणं पुनर् आरोहणाद्यर्थसिद्धम् एव पितामहनारदादिभिः स्पष्टीकृतम् । तद् यथा :

"छित्त्वा तु यज्ञियं वृक्षं यूपवन् मन्त्रपूर्वकम् ।
प्रणम्य लोकपालेभ्यस् तुला कार्या मनीषिभिः ॥
मन्त्रः सौम्यो वानस्पत्यश् छेदने जप्य एव च ।
चतुरस्रा तुला कार्या दृढा ऋज्वी तथ एव च ॥
कटकानि च देयानि त्रिषु स्थानेषु चार्थवत् ।
चतुर्हस्ता तुला कार्या पादौ चोपरि तत्समौ ।
अन्तरं तु तयोर् हस्तौ भवेद् अध्यर्धम् एव च ।
हस्तद्वयं निखेयं तु पादयोर् उभयोर् अपि ॥
तोरणे च तथा कार्ये पार्श्वयोर् उभयोर् अपि ।
धटाद् उच्चतरे स्यातां नित्यं दशभिर् अङ्गुलैः ॥
अवलम्बौ च कर्तव्यौ तोरणाभ्याम् अधोमुखौ ।
मृन्मयौ सूत्रसंबद्धौ धटमस्तकचुम्बिनौ ॥
प्राङ्मुखो निश्चलः कार्यः शुचौ देशे धटस् तथा ।
शिक्यद्वयं समासज्य पार्श्वयोर् उभयोर् अपि ॥
प्राङ्मुखान् कल्पयेद् दर्भाञ् शिक्ययोर् उभयोर् अपि ।
पश्चिमे तोलयेत् कर्तॄन् अन्यस्मिन् मृत्तिकां शुभाम् ॥
पिटकं पूरयेत् तस्मिन्न् इष्टकाग्रावपांसुभिः ।" (पि०स्मृ० ८४–९३)

अत्र च मृत्तिकेष्टकाग्रावपांसूनां विकल्पः ।

"परीक्षका नियोक्तव्यास् तुलामानविशारदाः ॥
वणिजो हेमकारा श्च कांस्यकारास् तथैव च ।
कार्यः परीक्षकैर् नित्यम् अवलम्बसमो धटः ॥
उदकं च प्रदातव्यं धटस्योपरि पण्डितैः ।
यस्मिन् न प्लवते तोयं स विज्ञेयः समो धटः ॥
तोलयित्वा नरं पूर्वं पश्चात् तम् अवतार्य तु ।
धटं तु कारयेन् नित्यं पताकाध्वजशोभितम् ॥
तत आवाहयेद् देवान् विधिनानेन मन्त्रवित् ।
वादित्रतूर्यघोषैश् च गन्धमाल्यानुलेपनैः ॥
प्राङ्मुखः प्राञ्जलिर् भूत्वा प्राड्विवाकस् ततो वदेत् ।" (पि०स्मृ० ९४–९९)

"एह्य् एहि भगवन् धर्म अस्मिन् दिव्ये समाविश ॥
सहितो लोकपालैश् च वस्वादित्यमरुद्गणैः ।
आवाह्य तु धटे धर्मं पश्चाद् अङ्गानि विन्यसेत् ॥
इन्द्रं पूर्वं तु संस्थाप्य प्रेतेशं दक्षिणे तथा ।
वरुणं पश्चिमे भागे कुबेरं चोत्तरे तथा ॥
अग्न्यादिलोकपालांश् च कोणभागेषु विन्यसेत् ।
इन्द्रः पीतो यमः श्यामो वरुणः स्फटिकप्रभः ॥
कुबेरस् तु सुवर्णाभो वह्निश् चापि सुवर्णभः ।
तथाइव निरृतिः श्यामो वायुर् धूम्रः प्रशस्यते ॥
ईशानस् तु भवेद् रक्त एवं ध्यायेत् क्रमाद् इमान् ।
इन्द्रस्य दक्षिणे पार्श्वे वसून् आराधयेद् बुधः ॥
धरो ध्रुवस् तथा सोम आपश् चैवानिलोऽनलः ।
प्रत्यूषश् च प्रभासश् च वसवोऽष्टौ प्रकीर्तिताः ॥
देवेशेशानयोर् मध्य आदित्यानां तथा गणम् ।
धातार्यमा च मित्रश् च वरुणोऽंशुर्भगस् तथा ॥
इन्द्रो विवस्वान् पूषा च पर्जन्यो दशमः स्मृतः ।
ततस् त्वष्टा ततो विष्णुर् अजघन्यो जघन्यजः ॥
इत्य् एते द्वादशादित्या नामभिः परिकीर्तिताः ।
अग्नेः पश्चिमभागे तु रुद्राणाम् अयनं विदुः ॥
वीरभद्रश् च शम्भुश् च गिरिशश् च महायशाः ।
अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः ॥
भवनाधीश्वरश् चैव कपाली च विशां पतिः ।
स्थाणुर् भवश् च भगवान् रुद्रास् त्व् एकादश स्मृताः ॥
प्रेतेशरक्षोमध्ये तु मातृस्थानं प्रकल्पयेत् ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥
वाराही चैव माहेन्द्री चामुण्डा गणसंयुता ।
निरृतेर् उत्तरे भागे गणेशायतनं विदुः ॥
वरुणस्योत्तरे भागे मरुतां स्थानम् उच्यते ।
पवनः स्पर्शनो वायुर् अनिलो मारुतस् तथा ॥
प्राणः प्राणेशजीवौ च मरुतोऽष्टौ प्रकीर्तिताः ।
धटस्योत्तरभागे तु दुर्गाम् आवाहयेद् बुधः ॥
एतासां देवतानां तु स्वनाम्ना पूजनं विदुः ।
भूषावसानं धर्माय दत्त्वा चार्घ्यादिकं क्रमात् ॥
अर्घ्यादिपश्चाद् अङ्गानां भूषान्तम् उपकल्पयेत् ।
गन्धादिकां नैवेद्यान्तां परिचर्यां प्रकल्पयेत् ॥" इति । (पि०स्मृ० ५७–७४)

अत्र च तुलां पताकाध्वजालंकृतां विधाय तस्याम् एह्य् एहीति मन्त्रेण धर्मम् आवाह्य धर्मायार्घ्यं कल्पयामि नम इत्यादिना प्रयोगेणार्घ्यपाद्याचमनीयमधुपर्काचमनीयस्नानवस्त्रयज्ञोपवीताचमनीय-मुकुटकटकादिभूषान्तं दत्त्वा इन्द्रादीनां दुर्गान्तानां प्रणवाद्यैः स्वनामभिश् चतुर्थ्यन्तैर् नमोन्तैर् अर्घ्यादिभूषान्तं पदार्थानुसमयेन दत्त्वा धर्माय गन्धपुष्पधूपदीपनैवेद्यादि दत्त्वा इन्द्रादीनां गन्धादीनि पूर्ववद् दद्यात् । गन्धपुष्पाणि च धटपूजायां रक्तानि कार्याणि । यथाह नारदः ।

"रक्तैर् गन्धैश् च माल्यैश् च दध्यपूपाक्षतादिभिः ।
अर्चयेत् तु धटं पूर्वं ततः शिष्टांस् तु पूजयेत् ॥" इति । (ध०को० ४७५)

इन्द्रादीनां तु विशेषानभिधानाद् यथालाभं रक्तैर् अन्यैर् वा पूजनम् इति पूजाक्रमः । एतच् च सर्वं प्राड्विवाकः कुर्यात् । यथोक्तम् ।

"प्राड्विवाकस् ततो विप्रो वेदवेदाङ्गपारगः ।
श्रुतवृत्तोपसंपन्नः शान्तचित्तो विमत्सरः ॥
सत्यसंधः शुचिर् दक्षः सर्वप्राणिहिते रतः ।
उपोषितः शुद्धवासाः कृतदन्तानुधावनः ॥
सर्वासां देवतानां च पूजां कुर्याद् यथाविधि ॥" (ध०को० ४७५ : णारद)

तथा ऋत्विग्भिश् चतुर्भिश् चतसृषु दिक्षु लौकिकाग्नौ होमः कार्यः । यथाह ।

"चतुर्दिक्षु तथा होमः कर्तव्यो वेदपारगैः ।
आज्येन हविषा चैव समिद्भिर् होमसाधनैः ॥
सावित्र्या प्रणवेनाथ स्वाहान्तेनैव होमयेत् ॥" (पि०स्मृ० ७५–७६)

प्रणवादिकां गायत्रीम् उच्चार्य पुनः स्वाहाकारान्तं प्रणवम् उच्चार्य समिदाज्यचरून् प्रत्येकम् अष्टोत्तरशतं जुहुयाद् इत्य् अर्थः । एवं हवनान्तां देवपूजां विधायानन्तरम् अभियुक्तम् अर्थं वक्ष्यमाणमन्त्रसहितं पत्रे लिखित्वा तत् पत्रं शोध्य शिरोगतं कुर्यात् । यथाह ।

"यद् अर्थम् अभियुक्तः स्याल् लिखित्वा तं तु पत्रके ।
मन्त्रेणानेन सहितं तत् कार्यं तु शिरोगतम् ॥" (पि०स्मृ० ७७)

मन्त्रश् चायम् :

"आदित्यचन्द्राव् अनिलोऽनलश् च द्यौर् भूमिर् आपो हृदयं यमश्च ।
अहश् च रात्रिश् च उभे च संध्ये धर्मश् च जानाति नरस्य वृत्तम् ॥" इति । (पि०स्मृ० ७८)

एतच् च धर्मावाहनादि शिरसि पत्रारोपणान्तम् अनुष्ठानकाण्डं सर्वदिव्यसाधारणम् । यथोक्तम् ।

"इमं मन्त्रविधिं कृत्स्नं सर्वदिव्येषु योजयेत् ।
आवाहनं च देवानां तथैव परिकल्पयेत् ॥" इति । (पि०स्मृ० ५८)

अनन्तरं प्राड्विवाको धटम् आमन्त्रयेत्,

"धटम् आमन्त्रयेच् चैव विधिनानेन शास्त्रवित् ।" (पि०स्मृ० ९९, note ; ध०को० ४८२)

इति स्मरणात् । मन्त्राश् च दर्शिताः :

"त्वं धट ब्रह्मणा सृष्टः परीक्षार्थं दुरात्मनाम् ।
धकाराद् धर्ममूर्तिस् त्वं टकारात् कुटिलं नरम् ॥
धृतो भावयसे यस्माद् धटस् तेनाभिधीयसे ।
त्वं वेत्सि सर्वजन्तूनां पापानि सुकृतानि च ॥
त्वम् एव देव जानीषे न विदुर् यानि मानवाः ।
व्यवहाराभिशस्तोऽयं मानुषः शुद्धिम् इच्छति ॥
तदेनं संशयाद् अस्माद् धर्मतस् त्रातुम् अर्हसि ॥" इति । (पि०स्मृ० १००–३)

शोध्यस् तु "त्वं तुले" इत्यादिना पूर्वोक्तेन मन्त्रेण तुलाम् आमन्त्रयेत् । अनन्तरं प्राड्विवाकः शिरोगतपत्रकं शोध्य यथास्थानं निवेश्य च धटम् आरोपयति,

"पुनर् आरोपयेत् तस्मिञ् छिरोवस्थितपत्रकम् ।" (ध०को० ४८४)

इति स्मरणात् । आरोपितं च विनाडीपञ्चकं यावत् तथैवावस्थापयेत् । तत्कालपरीक्षां च ज्योतिःशास्त्राभिज्ञः कुर्यात् ।

"ज्योतिर्विद् ब्राह्मणः श्रेष्टः कुर्यात् कालपरीक्षणं ।
विनाड्यः पञ्च विज्ञेयाः परीक्षाकालकोविदैः ॥" (पि०स्मृ० १०४)

इति स्मरणात् । दशगुर्वक्षरोञ्चारणकालः प्राणः । षट्प्राणा विनाडी । उक्तं च ।

"दशगुरुवर्णः प्राणः षट् प्राणाः स्याद् विनाडिका तासाम् ।
षष्ट्या घटी घटीनां षष्ट्याहः स्वाग्निभिर् दिनैर् मासः ॥" इति । (ध०को० ५३६, note)

तस्मिंश् च काले शुद्ध्यशुद्धिपरीक्षणार्थं शुचयः पुरुषा राज्ञा नियोक्तव्याः । ते च शुद्ध्यशुद्धी कथयन्ति । यथोक्तं पितामहेन ।

"साक्षिणो ब्राह्मणाः श्रेष्टा यथादृष्टार्थवादिनः ।
ज्ञानिनः शुचयोऽलुब्धा नियोक्तव्या नृपेण तु ॥
शंसन्ति साक्षिणः श्रेष्टाः शुद्ध्यशुद्धी नृपे तदा ॥" इति । (पि०स्मृ० १०५–६)

शुद्ध्यशुद्धिनिर्णयकारणं चोक्तम् ।

"तुलितो यदि वर्धेत स शुद्धः स्यान् न संशयः ।
समो वा हीयमानो वा न स शुद्धो भवेन् नरः ॥" इति । (ना०स्मृ० २०.१२ पि०स्मृ० १०७)

यत् तु पितामहवचनम् ।

"अल्पदोषः समो ज्ञेयो बहुदोषस् तु हीयते ।" इति । (पि०स्मृ० १०८)

तत्र यद्य् अप्य् अभियुक्तस्यार्थस्याल्पत्वं बहुत्वं च न दिव्येनावधारयितुं शक्यते तथापि सकृद् अमितपूर्वत्वेनाल्पत्वम् असकृन् मतिपूर्वत्वेन च महत्त्वम् इति दण्डप्रायश्चित्ताल्पत्वमहत्त्वम् अवधार्यते । यदा चानुपलक्ष्यमाणदृष्टकारण एव कक्षादीनां छेदो भङ्गो वा भवति तदाप्य् अशुद्धिर् एव ।

"कक्षच्छेदे तुलाभङ्गे धटकर्कटयोस् तथा ।
रज्जुच्छेदेऽक्षभङ्गे वा तथैवाशुद्धिम् आदिशेत् ॥" (ना०स्मृ० C–२८४)

इति स्मरणात् । कक्षं शिक्यतलम् । कर्कटौ तुलान्तयोः शिक्याधाराव् ईषद्वक्राव् आयसकीलकौ कर्कटशृङ्ग्संनिभौ । अक्षः पादस्तम्भयोर् उपरि निविष्टस् तुलाधारपट्टः । यदा तु दृश्यमानकारणक एषां भङ्गस् तदा पुनर् आरोपयेत्,

"शिक्यादिच्छेदभङ्गेषु पुनर् आरोपयेन् नरम् ।" (ना०स्मृ०–B ५.१३०)

इति स्मरणात् । ततश् च ।

"ऋत्विक्पुरोहिताचार्यान् दक्षिणाभिश् च तोषयेत् ।
एवं कारयिता राजा भुक्त्वा भोगान् मनोरमान् ॥
महतीं कीर्तिम् आप्नोति ब्रह्मभूयाय कल्पते ॥" (पि०स्मृ० ७९–८०)

यदा तूक्तलक्षणं धटं तथैव स्थापयितुम् इच्छति तदा वायसाद्युपघातनिरासार्थं कपाटादिसहितां शालां कुर्यात्,

"विशालाम् उन्नतां शुभ्रां घटशालां तु कारयेत् ।
यत्रस्था नोपहन्येत श्वभिश् चण्डालवायसैः ॥
तत्रैव लोकपालादीन् सर्वान् दिक्षु निवेशयेत् ।
त्रिसन्ध्यं पूजयेद् एतान् गन्धमाल्यानुलेपनैः ॥
कपाटबीजसंयुक्तां परिचारकरक्षिताम् ।
मृत्पानीयाग्निसंयुक्ताम् अशून्यां कारयेन् नृपः ॥" (पि०स्मृ० ८१–८३)

इति स्मरणात् । बीजानि यवव्रीह्यादीनि ॥ २.१०० ॥ २.१०१ ॥ २.१०२ ॥

इति धटविधिः ॥

इदानीं क्रमप्राप्तम् अग्निदिव्यम् आह ।

करौ विमृदितव्रीहेर् लक्षयित्वा ततो न्यसेत् ।
सप्ताश्वत्थस्य पत्राणि तावत् सूत्रेण वेष्टयेत् ॥ या०ध०२.१०३

दिव्यमातृकोक्तसाधारणधर्मेषु सत्सु तुलाविधानोक्तधर्मावाहनादिशिरःपत्रारोपणान्ते च विध्यन्ते सत्य् अयम् अग्निविधौ विशेषः । विमृदितव्रीहेर् विमृदिता विघर्षिता व्रीहयः कराभ्यां येनासौ विमृदितव्रीहिस् तस्य करौ लक्षयित्वा तिलकालकव्रणकिणादिस्थनेष्व् अलक्तकरसादिनाङ्कियत्वा । यथाह नारदः ।

"हस्तक्षतेषु सर्वेषु कुर्याद् धंसपदानि तु ।" इति । (ना०स्मृ० C–३०१)

अन्तन्तरं सप्ताश्वत्थस्य पर्णानि हस्तयोर् अञ्जलीकृतयोर् न्यसेत्,

"पत्रैर् अञ्जलिम् आपूर्य आश्वत्थैः सप्तभिः समैः ।" (ध०को० ४९० : णारद)

इति स्मरणात् । तानि च हस्तसहितानि सूत्रेण तावद् वेष्टयेत् । यावन्त्य् अश्वत्थपर्णानि सप्तकृत्वो वेष्टयेद् इत्य् अर्थः । सूत्राणि च सप्त शुक्लानि भवन्ति,

"वेष्टयीत सितैर् हस्तौ सप्तभिः सूत्रतन्तुभिः ।" (ध०को० ४९०)

इति नारदवचनात् । तथा सप्त शमीपत्राणि सप्तैव दूर्वापत्राणि चाक्षतांश् च दध्यक्तान् अक्षतांश् चाश्वत्थपत्राणाम् उपरि विन्यसेत्,

"सप्त पिप्पलपत्राणि शमीपत्राण्य् अथाक्षतान् ।
दूर्वायाः सप्त पत्राणि दध्यक्तांश् चाक्षतान् न्यसेत् ॥"

इति स्मरणात् । तथा कुसुमानि च विन्यसेत्,

"सप्त पिप्पलपत्राण्य् अक्षतान् सुमनो दधि ।
हस्तयोर् निक्षिपेत् तत्र सूत्रेणावेष्टनं तथा ॥" (ध०को० ४९८)

इति पितामहवचनात् । सुमनसः पुष्पाणि । यद् अपि स्मरणम्,

"अयस् तप्तं तु पाणिभ्याम् अर्कपत्रैस् तु सप्तभिः ।
अन्तर्हितं हरन् शुद्धस् त्व् अदग्धः सप्तमे पदे ॥" (ध०को० ४९८ : ःारीत)

इति, तद् अश्वत्थपत्राभावेऽर्कपत्रविषयं वेदितव्यम् । अश्वत्थपत्राणां पितामहप्रशंसावचनेन मुख्यत्वावगमात् :

"पिप्पलाज् जायते वह्निः पिप्पलो वृक्षराट् स्मृतः ।
अतस् तस्य तु पत्राणि हस्तयोर् विन्यसेद् बुधः ॥" इति ॥ (पि०स्मृ० ११९) २.१०३ ॥

कर्तुर् अग्न्यभिमन्त्रणम् आह ।

त्वम् अग्ने सर्वभूतानाम् अन्तश् चरसि पावक ।
साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यं कवे मम ॥ या०ध०२.१०४

हे अग्ने, त्वं सर्वभूतानां जरायुजाण्डजस्वेदजोद्भिज्जानाम् अन्तः शरीराभ्यन्तरे चरसि उपभुक्तान्नपानादीनां पाचकत्वेन वर्तसे । पावक शुद्धिहेतो कवे क्रान्तदर्शिन् साक्षिवत् पुण्यपापेभ्यः सत्यं ब्रूहि । पुण्यपापेभ्य इति ल्यब्लोपे पञ्चमी । पुण्यपापान्य् अवेक्ष्य सत्यं ब्रूहि दर्शयेत्य् अर्थः । अयःपिण्डे त्रिभिस् तापैः संतप्ते संदंशेन पुरत आनीते कर्ता पश्चिममण्डले प्राङ्मुखस् तिष्ठन् अनेन मन्त्रेणाग्निं अभिमन्त्रयेत् । यथाह नारदः ।

"अग्निवर्णम् अयःपिण्डं सस्फुलिङ्गम् सुरञ्जितम् ।
तापे तृतीये संताप्य ब्रूयात् सत्यपुरस्कृतम् ॥" इति । (ना०स्मृ०–C २८९, २९०)

अस्यार्थः : लोहशुद्ध्यर्थं सुतप्तं लोहपिण्डम् उदके निक्षिप्य पुनः संताप्योदके निक्षिप्य ट्र्तीये तपे संताप्य संदंशेन गृहीत्वा पुरत आनीते सत्यपुरस्कृतं सत्यशब्दयुक्तं "त्वम् अग्ने सर्वभूतानाम्" इत्यादिमन्त्रं कर्ता ब्रूयाद् इति ॥ प्राड्विवाकस् तु मण्डलभूभागाद् दक्षिणप्रदेशे लौकिकम् अग्निम् उपसमाधाय "अग्नये पावकाय स्वाहा" इत्य् आज्येनाष्टोत्तरशतवारं जुहुयात्,

"शान्त्यर्थं जुहुयाद् अग्नौ घृतम् अष्टोत्तरं शतम् ।" (ध०को० ४९६ : ढ़ितामह)

इति स्मरणात् । हुत्वा च तस्मिन्न् अग्नाव् अयःपिण्डं पक्षिप्य तस्मिंस् ताप्यमाने धर्मावाहनादिहवनान्तं पूर्वोक्तं विधिं विधाय तृतीये तापे वर्तमाने अयःपिण्डम् अग्निम् एभिर् मन्त्रैर् अभिमन्त्रयेत् :

"त्वम् अग्ने वेदाश् चत्वारस् त्वं च यज्ञेषु हूयसे ।
त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम् ॥
जठरस्थो हि भूतानां ततो वेत्सि शुभाशुभम् ।
पापं पुनासि वै यस्मात् तस्मात् पावक उच्यते ॥
पापेषु दर्शयात्मानम् अर्चिष्मान् भव पावक ।
अथ वा शुद्धभावेषु शीतो भव हुताशन ॥
त्वम् अग्ने सर्वदेवानाम् अन्तश् चरसि साक्षवत् ।
त्वम् एव देव जानीषे न विदुर् यानि मानवाः ।
व्यवहाराभिशस्तोऽयं मानुषः शुद्धिम् इच्छति ।
तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम् अर्हसि ॥" इति ॥ (पि०स्मृ० १२३–२७) २.१०४ ॥

अपि च ।

तस्येत्य् उक्तवतो लौहं पञ्चाशत्पलिकं समम् ।
अग्निवर्णं न्यसेत् पिण्डं हस्तयोर् उभयोर् अपि ॥ या०ध०२.१०५

तस्य कर्तुर् इत्य् उक्तवतः "त्वम् अग्ने सर्वभूतानाम्" इत्यादिभिर् मन्त्रैर् अभिमन्त्रणं कृतवतो लौहं लोहविकारं पिण्डं पञ्चाशत्पलिकं पञ्चाशत्पलसंमितं समम् अस्ररहितम्, सर्वतश् च समं वृत्तं श्लक्ष्णं तथाष्टाङ्गुलायामम् ।

"अस्रहीनं समं कृत्वा अष्टाङ्गुलम् अयोमयम् ।
पिण्डं तु तापयेद् अग्नौ पञ्चाशत्पलिकं समम् ॥" (पि०स्मृ० १२१)

इति पितामहस्मरणात् । अग्निवर्णम् अग्निसदृशम् उभयोर् हस्तयोर् अश्वत्थपत्रदधिदूर्वाद्यन्तरितयोर् न्यसेन् निक्षिपेत् प्राड्विवाकः ॥ २.१०५ ॥

ततः किं कुर्याद् इत्य् अत आह ।

स तम् आदाय सप्तैव मण्डलानि शनैर् व्रजेत् । या०ध०२.१०६अब्

स पुरुषस् तं तप्तलोहपिण्डं अञ्जलिना गृहीत्वा सप्त मण्डलानि शनैर् व्रजेत् । एवकारेण मण्डलेष्व् एव पदन्यासं मण्डलान् अतिक्रमणं च दर्शयति । यथाह पितामहः ।

"न मण्डलम् अतिक्रामेन् नाप्य् अर्वाक् स्थापयेत् पदम् ।" इति । (पि०स्मृ० १२९)

सप्तैव मण्डलानि शनैर् व्रजेद् इत्य् उक्तम् । तत्रैकैकं मण्डलं किंप्रमाणकं मण्डलयोर् अन्तरं च कियत्प्रमाणकम् इत्य् अत आह ।

षोडशाङ्गुलकं ज्ञेयं मण्डलं तावद् अन्तरम् ॥ या०ध०२.१०६च्द्

षोडश अङ्गुलानि यस्य तत् षोडशाङ्गुलकम् । षोडशाङ्गुलप्रमाणं मण्डलं बोद्धव्यम् । मण्डलयोर् अन्तरम् मध्यं च तावद् एव षोडशाङ्गुलकम् एव । "सप्त मण्डलानि व्रजेद्" इति वदता प्रथमम् अवस्थानमण्डलम् एकमुक्तम् । अतश् चाष्टमण्डलानि षोडशाङ्गुलकानि मण्डलानाम् अन्तराणि मध्यानीत्य् अर्थः । मण्डलान्तराणि तु सप्त तावत् प्रमाणानि । एतद् एव नारदेन परिसंख्यायोक्तम् ।

"द्वात्रिंशदङ्गुलं प्राहुर् मण्डलान् मण्डलान्तरम् ।
अष्टाभिर् मण्डलैर् एवम् अङ्गुलानां शतद्वयम् ।" (ना०स्मृ०–C २८५–६)

"चत्वारिंशत् समधिकं भूमेर् अङ्गुलमानतः ॥" इति । (ध०को० ४८९)

अयम् अर्थः । अवस्थानमण्डलात् षोडशाङ्गुलान् मण्डलान्तरम् अन्यन् मण्डलम् । द्वितीयाद्य् एकम् एकं द्वात्रिंशदङ्गुलं सान्तरालं तद् एवम् अवस्थानमण्डलं षोडशाङ्गुलम् । गन्तव्यानि च सप्त मण्डलानि सान्तरालानि द्वात्रिंशदङ्गुलानि । एवम् अष्टाभिर् मण्डलैश् चत्वारिंदशधिकं शतद्वयं भूमेर् अङ्गुलम् आनतोऽङ्गुलमानम् इति सार्वविभक्तिकस् तसिः । अस्मिंस् तु पक्षेऽवस्थानमण्डलं षोडशाङ्गुलं विधाय द्वात्रिंशदङ्गुलप्रमाणानां सप्तानां सान्तरालमण्डलभूभागानाम् एकम् एकं भूभागां द्विधा विभज्यान्तरालभूभागान् षोडशाङ्गुलप्रमाणान् विहाय मण्डलभूभागेषु षोडशाङ्गुलप्रमाणेषु गन्तृपदप्रमाणानि सप्त मण्डलानि कार्याणि । तथा तेनैवोक्तम्।

"मण्डलस्य प्रमाणं तु कुर्यात् तत्पदसंमितम् ।" इति ।

यत् तु पितामहेनोक्तम्,

"कारयेन् मण्डलान्य् अष्टौ पुरस्तान् नवमं तथा ।
आग्नेयं मण्डलं चाद्यं द्वितीयं वारुणं स्मृतम् ॥
तृतीयं वायुदैवत्यं चतुर्थं यमदैवतम् ।
पञ्चमं त्व् इन्द्रदैवत्यं षष्टं कौबेरम् उच्यते ॥
सप्तमं सोमदैवत्यं सावित्रं त्व् अष्टमं तथा ।
नवमं सर्वदैवत्यम् इति दिव्यविदो विदुः ॥
द्वात्रिंशदङ्गुलं प्राहुर् मण्डलान् मण्डलान्तरम् ।
अष्टाभिर् मण्डलैर् एवम् अङ्गुलानां शतद्वयम् ॥
षट्पञ्चाशत्समधिकं भूमेस् तु परिकल्पना ।
कर्तुः पदसमं कार्यं मण्डलं तु प्रमाणतः ॥
मण्डले मण्डले देयाः कुशाः शास्त्रप्रचोदिताः ॥" (पि०स्मृ० १०९–१६)

इति, तत्र नवमं सर्वदैवत्यम् अपरिमिताङ्गुलप्रमाणं मण्डलं विहायाष्टाभिर् मण्डलैर् अष्टाभिश् चान्तरालैः प्रत्येकं षोडशाङ्गुलप्रमाणैर् अङ्गुलानां षट्पञ्चाशदधिकं शतद्वयं संपद्यते । तत्रापि गन्तव्यानि सप्तैव मण्डलानि । यतः प्रथमे तिष्ठति नवमे क्षिपतीति न विरुध्यते । अङ्गुलप्रमाणं च :

"तिर्यग् यवोदराण्य् अष्टाव् ऊर्ध्वा वा व्रीहयस् त्रयः ।
प्रमाणम् अङ्गुलस्योक्तं वितस्तिर् द्वादशाङ्गुला ॥
हस्तो वितस्तिद्वितयं दण्डो हस्तचतुष्टयम् ।
तत्सहस्रद्वयं क्रोशो योजनं तच्चतुष्टयम् ॥" (ध०को० ५३४)

इति बोद्धव्यम् ॥ २.१०६ ॥

सप्त मण्डलानि गत्वा किं कर्तव्यम् इत्य् अत आह ।

मुक्त्वाग्निं मृदितव्रीहिर् अदग्धः शुद्धिम् आप्नुयात् । या०ध०२.१०७अब्

अष्टमे मण्डले स्थित्वा नवमे मण्डलेऽग्नितप्तम् अयःपिण्डं त्यक्त्वा व्रीहीन् कराभ्यां मर्दयित्वादग्धहस्तश् चेच् छुद्धिम् आप्नुयात् । दग्धहस्तश् चेद् अशुद्ध इत्य् अर्थसिद्धम् । यस् तु संत्रासात् प्रस्खलन् हस्ताभ्याम् अन्यत्र दह्यते तथाप्य् अशुद्धो न भवति । यथाह कात्यायनः ।

"प्रस्खलन्न् अभिशस्तश् चेत् स्थानाद् अन्यत्र दह्यते ।
अदग्धं तं विदुर् देवास् तस्य भूयोऽपि दापयेत् ॥" इति । (का०स्मृ० ४४१)

अन्तरा पतिते पिण्डे संदेहे वा पुनर् हरेत् ॥ या०ध०२.१०७च्द्

यदा गच्छतोऽन्तराष्टममण्डलाद् अर्वाग् एव पिण्डः पतति दग्धादग्धत्वे वा संशयस् तदा पुनर् हरेद् इत्य् अर्थप्राप्तम् उक्तम् । तत्र चायम् अनुष्ट्ःानक्रमः । पूर्वेद्युर् भूशुद्धिं विधायापरेद्युर् मण्डलानि यथाशास्त्रं निर्माय मण्डलाधिदेवताश् च मन्त्रैस् तत्र तत्र संपूज्याग्निम् उपसमाधाय शान्तिहोमं निर्वर्त्याग्नाव् अयःपिण्डं निधाय धर्मावाहनादिसर्वदेवतापूजां हवनान्तां निर्वर्त्य उपोषितस्य स्नातस्यार्द्रवाससः पश्चिमे मण्डले तिष्ठतो व्रीहिमर्दनादिकरसंस्कारं विधाय प्रतिज्ञापत्रं समन्त्रकं कर्तुः शिरसि बद्ध्वा प्राड्विवाकस् तृतीये तापेऽग्निम् अभिमन्त्र्य तप्तम् अयःपिण्डं संदेशेन गृहीत्वा कर्त्रभिमन्त्रितं तस्याञ्जलौ निदध्यात् । सोऽपि मण्डलानि सप्त गत्वा नवमे मण्डले प्रक्षिप्यादग्धः शुद्धो भवतीति ॥ २.१०७ ॥

इत्यग्निविधिः ॥

संप्रत्य् उदकविधिम् आह ।

सत्येन माभिरक्ष त्वं वरुणेत्य् अभिशाप्य कम् ।
नाभिदघ्नोदकस्थस्य गृहीत्वोरू जलं विशेत् ॥ या०ध०२.१०८

हे वरुण सत्येन माम् अभिरक्ष त्वम् इत्य् अनेन मन्त्रेण कम् उदकम् अभिशाप्याभिमन्त्र्य नाभिदघ्नोदकस्थस्य नाभिप्रमाणोदकस्थितस्य पुरुषस्योरू गृहीत्वा शोध्यो जलं प्रविशेत् जले निमज्जेत् । एतच् च वरुणपूजायां सत्याम्,

"गन्धमाल्यैः सुरभिभिर् मधुक्षीरघृतादिभिः ।
वरुणाय प्रकुर्वीत पूजाम् आदौ समाहितः ॥" (ना०स्मृ० ५०१)

इति नारदस्मरणात् । तथा साधारणधर्मेषु धर्मावाहनादिसकलदेवतापूजाहोमसमन्त्रकप्रतिज्ञापत्रशिरोनिवेशनान्तेषु सत्सु च । तथा,

"तोय त्वं प्राणिनां प्राणः सृष्टेर् आद्यं तु निर्मितम् ।
शुद्धेश् च कारणं प्रोक्तम् द्रव्याणां देहिनां तथा ॥
अतस् त्वं दर्शयात्मानं शुभाशुभपरिक्षणे ॥" (पि०स्मृ० १३९–४०)

इति प्राड्विवाकेनोदकाभिमन्त्रणे कृते शोध्यः "सत्येन माभिरक्ष त्वं वरुण" इति जलं प्रार्थयेत् । उदकस्थानानि च नारदेनोक्तानि ।

"नदीषु तनुवेगासु सागरेषु वहेषु च ।
ह्रदेशु देवखातेषु तडागेषु सरःसु च ॥" इति । (ना०स्मृ०–C ३०५)

तथा पितामहेनापि ।

"स्थिरतोये निमज्जेत न ग्राहिणि न चाल्पके ।
तृणशैवालरहिते जलौकामत्स्यवर्जिते ॥
देवखातेषु यत् तोयं तस्मिन् कुर्याद् विशोधनम् ।
आहार्यं वर्जयेन् नित्यं शीघ्रगासु नदीषु च ॥
आविशेत् सलिले नित्यम् ऊर्मिपङ्कविवर्जिते ।" इति । (पि०स्मृ० १३४–३६)

आहार्यं तडागादिभ्य आहृतं ताम्रकटाहादिक्षिप्तं जलम् । नाभिप्रमाणोदकस्थश् च यज्ञियवृक्षोद्भवां धर्मस्थूणाम् अवष्टभ्य प्राङ्मुखस् तिष्ठेत्,

"उदके प्राङ्मुखस् तिष्ठेद् धर्मस्थूणां प्रगृह्य च ।" (ध०को० ५०५)

इति स्मरणात् ॥ २.१०८ ॥

ततः किं कर्तव्यम् इत्य् अत आह ।

समकालम् इषुं मुक्तम् आनीयान् यो जवी नरः ।
गते तस्मिन् निमग्नाङ्गं पश्येच् चेच् छुद्धिम् आप्नुयात् ॥ या०ध०२.१०९

निमज्जनसमकालं गते तस्मिन् जविन्य् एकस्मिन् पुरुषे अन्यो जवी शरपातस्थानस्थितः पूर्वमुक्तम् इषुम् आनीय जले निमग्नाङ्गं यदि पश्यति तदा स शुद्धो भवति । एतद् उक्तं भवति : त्रिषु शरेषु मुक्तेष्व् एको वेगवान् मध्यमशरपातस्थानं गत्वा तम् आदाय तत्रैव तिष्ठति । अन्यस् तु पुरुषो वेगवान् शरमोक्षस्थाने तोरणमूले तिष्ठति । एवं स्थितयोस् तृतीयस्यां करतालिकायां शोध्यो निमज्जति । तत्समकालम् एव तोरणमूलस्थितोऽपि द्रुततरं मध्यशरपातस्थानं गच्छति । शरग्राही च तस्मिन्प्राप्ते द्रुततरं तोरणमूलं प्राप्यान्तर्जलगतं यदि न पश्यति तदा शुद्धो भवतीति । एतद् एव स्पष्टीकृतं पितामहेन ।

"गन्तुश् चापि च कर्तुश् च समं गमनमज्जनम् ।
गच्छेत् तोरणमूलात् तु लक्ष्यस्थानं जवी नरः ॥
तस्मिन् गते द्वितीओऽपि वेगाद् आदाय सायकम् ।
गच्छेत् तोरणमूलं तु यतः स पुरुषो गतः ॥
आगतस् तु शरग्राही न पश्यति यदा जले ।
अन्तर्जलगतं सम्यक् तदा शुद्धं विनिर्दिशेत् ॥" इति । (ढ़िढ् १४२–४४)

जविनोश् च पुरुषयोर् निर्धारणं कृतं नारदेन ।

"पञ्चाशतो धावकानां यौ स्याताम् अधिकौ जवे ।
तौ च तत्र नियोक्तव्यौ शरानयनकारणात् ॥" इति । (ध०को० ५०१ ; ना०स्मृ० २०.२६* add)

तोरणं च निमज्जनसमीपस्थाने समे शोध्यकर्णप्रमाणोच्छ्रितं कार्यम्,

"गत्वा तु तज् जलस्थानं तटे तोरणम् उच्छ्रितम् ।
कुर्वीत कर्णमात्रं तु भूमिभागे समे शुचौ ॥" (ध०को० ५००)

इति नारदस्मरणात् । शरत्रयं वैणवं च धनुर् मङ्गलद्रव्यैः श्वेतपुष्पादिभिः प्रथमं संपूजयेत्,

"शरान् संपूजयेत् पूर्वं वैणवं च धनुस् तथा ।
मङ्गलैर् धूपपुष्पैश् च ततः कर्म समाचरेत् ॥" (पि०स्मृ० १३३)

इति पितामहवचनात् ।धनुषः प्रमाणं लक्ष्यस्थानं च नारदेनोक्तम् ।

"क्रूरं धनुः सप्तशतं मध्यमं षट्शतं स्मृतम् ।
मन्दं पञ्चशतं ज्ञेयम् एष ज्ञेयो धनुर्विधिः ॥
मध्यमेन तु चापेन प्रक्षिपेच् च शरत्रयम् ।
हस्तानां तु शते सार्धे लक्ष्यं कृत्वा विचक्षणः ॥
न्यूनाधिके तु दोषः स्यात् क्षिपतः सायकांस् तथा ॥" इति । (ध०को० ५०१)

अङ्गुलानां सप्ताधिकं शतं सप्तशतं क्रूरं धनुः । एवं षट्शतं पञ्चशतं च । एवं चैकादशाङ्गुलाधिकं हस्तचतुष्टयं क्रूरस्य धनुषः प्रमाणम्, मध्यमस्य दशाङ्गुलाधिकम्, मन्दस्य नवाङ्गुलाधिकम् इत्य् उक्तं भवति । शराश् चानायसाग्रा वैणवाः कार्याः,

"शरांश् चानायसाग्रांस् तु प्रकुर्वीत विशुद्धये ।
वेणुकाण्डमयांश् चैव क्षेप्ता तु सुदृढं क्षिपेत् ॥" (का०स्मृ० ४४२)

इति स्मरणात् । क्षेप्ता क्षत्रियस् तद्वृत्तिर् वा ब्राह्मणः सोपवासो नियोक्तव्यः । यथाह ।

"क्षेप्ता च क्षत्रियः प्रोक्तस् तद्वृत्तिर् ब्राह्मणोऽपि वा ।
अक्रूरहृदयः शान्तः सोपवासस् ततः क्षिपेत् ॥" इति । (पि०स्मृ० १४१)

त्रिषु मुक्तेषु मध्यमः शरो ग्राह्यः,

"तेषाम् च प्रोषितानां च शराणां शास्त्रचोदनात् ।
मध्यमस् तु शरो ग्राह्यः पुरुषेण बलीयसा ॥" (पि०स्मृ० १३४ note ; ध०को० ५०४)

इति वचनात् । तत्रापि पतनस्थानाद् आनेतव्यो न सर्पणस्थानात्,

"शरस्य पतनं ग्राह्यं सर्पणं तु विवर्जयेत् ।
सर्पन् सर्पन् शरो यायाद् दूराद् दूरतरं यतः ।" (पि०स्मृ० १४६)

इति वचनात् । वाते च प्रवायति विशमादिदेशे च शरमोक्षो न कर्तव्यः,

"इषुं न प्रक्षिपेद् विद्वान् मारुते चातिवायति ।
विषमे भूप्रदेशे च वृक्षस्थानसमाकुले ॥
तृणगुल्मलतावल्लीपङ्कपाषाणसंयुते ॥" (पि०स्मृ० १४७–४८)

इति पितामहवचनात् । "निमग्नाङ्गं पश्येच् चेच् छुद्धिम् आप्नुयात्" (या०ध० २.१०९) इति वदता उन्मज्जिताङ्गस्याशुद्धिर् दर्शिता । स्थानान्तरगमने चाशुद्धिः पितामहेनोक्ता,

"अन्यथा न विशुद्धिः स्याद् एकाङ्गस्यापि दर्शनात् ।" इति ।

"स्थानाद् वान्यत्र गमनाद् यस्मिन् पूर्वं निवेशितः ॥" इति

"एकाङ्गस्यापि दर्शनाद्" इति च, कर्णाद्यभिप्रायेण,

"शिरोमात्रं तु दृश्येत न कर्णौ नापि नासिका ।
अप्सु प्रवेशने यस्य शुद्धं तम् अपि निर्दिशेत् ॥" (पि०स्मृ० १४५)

इति विशेषाभिधानात् । अयम् अत्र प्रयोगक्रमः : उक्तलक्षणजलाशयसंनिधाव् उक्तलक्षणं तोरणं विधाय उक्तप्रमाणे देशे लक्ष्यं निधाय तोरणसंनिधौ सशरं धनुः संपूज्य जलाशये वरुणम् आवाह्य पूजयित्वा तत्तीरे धर्मादिंश् च देवान् हवनान्तम् इष्ट्वा शोध्यस्य शिरसि प्रतिज्ञापत्रम् आबध्य प्राड्विवाको जलम् अभिमन्त्रयेत् "तोय त्वं प्राणिनां प्राणः" इत्यादिना मन्त्रेण । अथ शोध्यः "सत्येन" इत्यादिना मन्त्रेण जलम् अभिमन्त्र्य गृहीतस्थूणस्य नाभिमात्रोदकावस्थितस्य बलीयसः पुरुषस्य समीपम् उपसर्पति । अथ शरेषु त्रिषु मुक्तेषु मध्यमशरपातस्थाने मध्यमं शरं गृहीत्वा जविन्य् एकस्मिन् पुरुषे स्थिते अन्यस्मिंश् च तोरणमूले स्थिते प्राड्विवाकेन तालत्रये दत्ते युगपद्गमनमज्जनम् अथ शरानयनम् इति ॥ २.१०९ ॥

इत्य् उदकविधिः ॥

इदानीं विषविधानम् आह ।

त्वं विष ब्रह्मणः पुत्रः सत्यधर्मे व्यवस्थितः । या०ध०२.११०अब्

त्रायस्वास्माद् अभीशापात् सत्येन भव मेऽमृतम् ॥ २.११०च्द् एवम् उक्त्वा विषं शार्ङ्गं भक्षयेद् धिमशैलजम् ।
यस्य वेगैर् विना जीर्येच् छुद्धिं तस्य विनिर्दिशेत् । या०ध०२.१११

"त्वं विष" इत्यादिमन्त्रेण विषम् अभिमन्त्र्य कर्ता विषं हिमशैलजं शृङ्गभवं भक्षयेत् । तच् च भक्षितं सत् यस्य विषवेगैर् विना जीर्यति स शुद्धो भवति । विषवेगो नाम धातोर् धात्वन्तरप्राप्तिः ।

"धतोर् धात्वन्तरप्राप्तिर् विषवेग इति स्मृतः ।"

इति वचनात् । धातवश् च त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्राणीति सप्त । एवं च सप्तैव विषवेगा भवन्ति । तेषां च लक्षणानि पृथग् एव विषतन्त्रे कथितानि :

"वेगो रोमाञ्चमाद्यो रचयति विषजः स्वेदवक्त्रोपशोषौ
तस्योर्ध्वम् तत्परौ द्वौ वपुषि जनयतो वर्णभेदप्रवेपौ ।
यो वेगः पञ्चमोऽसौ नयति विवशतां कण्ठभङ्गं च हिक्कां
षष्ठो निःश्वासमोहौ वितरति च मृतिं सप्तमो भक्षकस्य ॥" इति ।

अत्र च महादेवस्य पूजा कर्तव्या । यथाह नारदः ।

"दद्याद् विषं सोपवासो देवब्राह्मणसंनिधौ ।
धूपोपहारमन्त्रैश् च पूजयित्वा महेश्वरम् ॥" इति । (ध०को० ५०८)

प्राड्विवाकः कृतोपवासो महादेवं पूजयित्वा तस्य पुरतो विषं व्यवस्थाप्य धर्मादिपूजां हवनान्तां विधाय प्रतिज्ञापत्रं शोध्यस्य शिरसि निधाय विषम् अभिमन्त्रयते,

"त्वं विष ब्रह्मणा सृष्टं परीक्षार्थं दुरात्मनाम् ।
पापानां दर्शयात्मानं शुद्धानाम् अमृतं भव ॥
मृत्युमूर्ते विष त्वं हि ब्रह्मणा परिनिर्मितम् ।
त्रायस्वैनं नरं पापात् सत्येनास्यामृतं भव ॥" इति । (पि०स्मृ० १५२–५३)

एवम् अभिमन्त्र्य दक्षिणाभिमुखावस्थिताय दद्यात्,

"द्विजानां संनिधाव् एव दक्षिणाभिमुखे स्थिते ।
उदङ्मुखः प्राङ्मुखो वा विषं दद्यात् समाहितः ॥" (ध०को० ५०८)

इति नारदवचनात् । विषं च वत्सनाभादि ग्राह्यम्,

"शृङ्गिणो वत्सनाभस्य हिमजस्य विषस्य वा ॥" (पि०स्मृ० १४९)

इति पितामहवचनात् । वर्ज्यानि च तेनैवोक्तानि :

"चारितानि च जीर्णानि कृत्रिमाणि तथाइव च ।
भूमिजानि च सर्वाणि विषाणि परिवर्जयेत् ॥" इति । (पि०स्मृ० १५०)

तथा नारदेनापि :

"भ्रष्टं च चारितं चैव धूपितं मिश्रितं तथा ।
कालकूटम् अलाबुं च विषं यत्नेन वर्जयेत् ॥" इति । (ना०स्मृ० २०.३४)

कालश् च नारदेनोक्तः :

"तोलयित्वेप्सितं काले देयं तद् धि हिमागमे ।
नापराह्ने न मध्याह्ने न संध्यायां तु धर्मवित् ॥" इति । (ध०को० ५०७)

कालान्तरे तूक्तप्रमाणाद् अल्पं देयम्,

"वर्षे चतुर्यवा मात्रा ग्रीष्मे पञ्चयवा स्मृता ।
हेमन्ते सा सप्तयवा शरद्य् अल्पा ततोऽपि हि ॥" (ध०को० ५०८)

इति स्मरणात् । अल्पेति षड्यवेत्य् अर्थः । हेमन्तग्रहणेन शिशिरस्यापि ग्रहणम् । "हेमन्तशिशिरयोः समासेन" इति श्रुतेः । वसन्तस्य च सर्वदिव्यसाधारणत्वात् तत्रापि सप्त यवा विषं च घृतप्लुतं देयं नारदवचनात् :

"विषस्य पलषड्भागाद् भागो विंशतिमस् तु यः ।
तम् अष्टभागहीनं तु शोध्ये दद्याद् घृतप्लुतम् ॥" इति । (ना०स्मृ० २०.३७)

पलं चात्र चतुःसुवर्णकम् । तस्य षष्टो भागो दश माषाः दश यवाश् च भवन्ति । "त्रियवं त्व् एककृष्णलम् पञ्चकृष्णलको माषः" इत्य् एको माषः पञ्चदश यवा भवन्ति । एवं दशानां माषाणां यवाः सार्धशतं भवन्ति । पुर्वे च दश यवा इति षष्ट्यधिकं शतं यवाः पलस्य षष्ट्ःो भागस् तस्माद् विंशतितमो भागोऽष्टौ यवास् तस्याष्टभाग एकयवः तेन हीनं विंशतितमं भागं सप्तयवं घृतप्लुतं शोध्ये दद्यात् । घृतं च विषात् त्रिंशद्गुणं ग्राह्यम्,

"पूर्वाह्ने शीतले देशे विषं देयं तु देहिनाम् ।
घृते नियोजितं श्लक्ष्णं पिष्टं त्रिंशद्गुणान्वितम् ॥" (का०स्मृ० ४५०)

इति कात्यायनवचनात् । त्रिंशद्गुणेन घृतेनान्वितं विषम् । शोध्य च कुहकादिभ्यो रक्षणीयः,

"त्रिरात्रं पञ्चरात्रं वा पुरुषैः स्वैर् अधिष्टितम् ।
कुहकादिभयाद् राजा रक्षयेद् दिव्यकारिणम् ॥
ओषधीर् मन्त्रयोगांश् च मणीन् अथ विषापहाम् ।
कर्तुः शरिरसंस्थांस् तु गूढोत्पन्नान् परीक्षयेत् ॥" (पि०स्मृ० १५४–५५)

इति पितामहस्मरणात् । तथा विषम् अपि रक्षणीयम्,

"शार्ङ्गं हैमवतं शस्तं गन्धवर्णरसान्वितम् ।
अकृत्रिमम् असंमूढम् अमन्त्रोपहतं च यत् ॥" (ध०को० ५०७ ; ना०स्मृ०–आ३४)

इति नारदस्मरणात् । तथा विषे पीते यावत् करतालिकाशतपञ्चकं तावत् प्रतीक्षणीयोऽनन्तरं चिकित्सनीयः । यथाह नारदः ।

"पञ्चतालशतं कालं निर्विकारो यदा भवेत् ।
तदा भवति संशुद्धस् ततः कुर्याच् चिकित्सितम् ॥" इति । (ध०को० ५०९)

पितामहेन तु दिनान्तोऽवधिर् उक्तोऽल्पमात्राविषयः ।

"भक्षिते तु यदा स्वस्थो मूर्च्छाच् छर्दिविवर्जितः ।
निर्विकारो दिनस्यान्ते शुद्धं तम् अपि निर्दिशेत् ॥" इति । (ढ़िढ् १५६)

अत्र च प्राड्विवाकः सोपवासो महादेवं संपूज्य तत्पुरतो विषं स्थापयित्वा धर्मादीन् इष्ट्वा शोध्यस्य शिरसि प्रतिज्ञापत्रं निधाय विषम् अभिमन्त्र्य दक्षिणाभिमुखस्थिताय विषं प्रयच्छति । स च शोध्यो विषम् अभिमन्त्र्य भक्षयतीति क्रमः ॥ २.११० ॥ २.१११ ॥

इति विषविधानम् ॥

अथ कोशविधिम् आह ।

देवान् उग्रान् समभ्यर्च्य तत्स्नानोदकम् आहरेत् ।
संस्राव्य पाययेत् तस्माज् जलं तु प्रसृतित्रयम् ॥ या०ध०२.११२

उग्रान् देवान् दुर्गादित्यादीन् समभ्यर्च्य गन्धपुष्पादिभिः पूजयित्वा संस्नाप्य तत्स्नानोदकम् आहरेत् । आहृत्य च तोय "त्वं प्राणिनां प्राणः" इत्यादिना तत् तोयं प्राड्विवाकः संस्नाव्य शोध्येन च तत् तोयं पात्रान्तरे कृत्वा "सत्येन माभिरक्ष त्वं वरुण" इत्य् अनेनाभिमन्त्रितं पाययेत् प्रसृतित्रयम् । एतच् च साधारणधर्मेषु धर्मावाहनादिसकलदेवतापूजाहोमसमन्त्रकप्रतिज्ञापत्रशिरोनिवेशनान्तेषु सत्सु । अत्र च स्नाप्यदेवनियमः कार्यनियमोऽधिकारिनियमश् च पितामहादिभिर् उक्तः ।

"भक्तो यो यस्य देवस्य पाययेत् तस्य तज्जलम् ।
समभावे तु देवानाम् आदित्यस्य च पाययेत् ॥
दुर्गायाः पाययेच् चौरान् ये च शस्त्रोपजीविनः ।
भास्करस्य तु यत् तोयं ब्राह्मणं तन् न पाययेत् ॥
दुर्गायाः स्नापयेच् छूलम् आदित्यस्य तु मण्डलम् ।
अन्येषाम् अपि देवानां स्नापयेद् आयुधानि तु ॥" (ढ़िढ् १५७–५९)

इति देवतानियमः ।

"विस्रम्भे सर्वशङ्कासु संधिकार्ये तथाइव च ।
एषु कोशः प्रदातव्यो नित्यं चित्तविशुद्धये ॥" (पि०स्मृ० ३७)

इति कार्यनियमः ।

"पूर्वाह्ने सोपवासस्य स्नातस्यार्द्रपटस्य च ।
सशुकस्याव्यसनिनः कोशपानं विधीयते ॥" (ध०को० ५१७)

सशूक आस्तिकः ।

"मद्यपस्त्रीव्यसनिनां कितवानां तथाइव च ।
कोशः प्राज्ञैर् न दातव्यो ये च नास्तिकवृत्तयः ॥" (पि०स्मृ० ४३)

"महापराधे निर्धर्मे कृतघ्ने क्लीबकुत्सिते ।
नास्तिकव्रात्यदाशेषु कोशपानं विवर्जयेत् ॥" इति । (ध०को० ४६४)

महापराधे महापातकम् । निर्धर्मो वर्णाश्रमधर्मरहितः पाखण्डी । कुत्सितः प्रतिलोमजः । दाशाः कैवर्ताः । इत्य् अधिकारिनियमः । तथा गोमयेन मण्डलं कृत्वा तत्र शोध्यम् आदित्याभिमुखं स्थापयित्वा पाययेद् इति नारदवचनाद् अवगन्तव्यम् । यथाह ।

"तम् आहूयाभिशस्तं तु मण्डलाभ्यन्तरे स्थितम् ।
आदित्याभिमुखं कृत्वा पाययेत् प्रसृतित्रयम् ॥" इति । (ध०को० ५१३) २.११२ ॥

ननु तुलादिषु विषान्तेषु समनन्तरम् एव शुद्ध्यशुद्धिभावना कोशे तु कथम् इत्य् अत आह ।

अर्वाक् चतुर्दशाद् अह्नो यस्य नो राजदैविकम् ।
व्यसनं जायते घोरं स शुद्धः स्यान् न संशयः ॥ या०ध०२.११३

चतुर्दशाद् अह्नः पूर्वं यस्य राजिकं राजनिमित्तं दैविकं देवप्रभवं व्यसनं दुःखं घोरं महत् नो नैव जायते अल्पस्य देहिनाम् अपरिहार्यत्वात् स शुद्धो वेदितव्यः । ऊर्ध्वं पुनर् अवधेर् न दोषः । यथाह नारदः ।

"ऊर्ध्वं यस्य द्विसप्ताहाद् वैकृतं तु महद् भवेत् ।
नाभियोज्यः स विदुषा कृतकालव्यतिक्रमात् ।" (ना०स्मृ०– C ३३१)

इत्य् अर्थसिद्धम् एवोक्तम् । "अर्वाक् चतुर्दशाद् अह्नः" इत्य् एतन् महाभियोगविषयम्, "महाभियोगेष्व् एतानि" इति प्रस्तुत्याभिधानात् । अवध्यन्तराणि पितामहेनोक्तान्य् अल्पविषयाणि, "कोशम् अल्पेऽपि दापयेत्" इति स्मरणात् । तानि च,

"त्रिरात्रात् सप्तरात्राद् वा द्वादशाहाद् द्विसप्तकात् ।
वैकृतं यस्य दृश्येत पापकृत् स उदाहृतः ।" इति । (पि०स्मृ० १६१)

महाभियोगोक्तद्रव्याद् अर्वाचीनं द्रव्यं त्रिधा विभज्य त्रिरात्राद्य् अपि पक्षत्रयं व्यवस्थापनीयम् ॥ २.११३ ॥

इति कोशविधिः ॥

तुलादीनि कोशान्तानि पञ्च महादिव्यानि यथोद्देशं योगीश्वरेण व्याख्यातानि । स्मृत्यन्तरे त्व् अल्पाभियोगविषयाण्य् अन्यान्य् अपि दिव्यानि कथितानि । यथाह पितामहः ।

"तण्डुलानां प्रवक्ष्यामि विधिं भक्षणनोदितम् ।
चौरे तु तण्डुला देया नान्यस्येति विनिश्चयः ॥
तण्डुलान् कारयेच् छुक्लाञ् छालेर् नान्यस्य कस्यचित् ।
मृन्मये भाजने कृत्वा आदित्यस्याग्रतः शुचिः ॥
स्नानोदकेन संमिश्रान् रात्रौ तत्रैव वासयेत् ।
प्राङ्मुखोपोषितं स्नातं शिरोरोपितपत्रकम् ॥
तण्डुलान् भक्षयित्वा तु पत्रे निष्ठीवयेत् ततः ।
पिप्पलस्य तु नान्यस्य अभावे भूर्ज एव तु ॥
लोहितं यस्य दृश्येत हनुस् तालु च शीर्यते ।
गात्रं च कम्पते यस्य तम् अशुद्धं विनिर्दिशेत् ॥" इति । (पि०स्मृ० १६३–६८)

शिरोरोपितपत्रकं तण्डुलान् भक्षयित्वा निष्ठीवयेत् प्राड्विवाकः ॥ भक्षयित्वेति च ण्यन्ताण्णिचि रूपम् । सर्वदिव्यसाधारणं च धर्मावाहनादि पूर्ववद् इहापि कर्तव्यम् ॥

इति तण्डुलविधिः ॥

तप्तमाषविधिः पितामहेनोक्तः । तथाहि :

"सौवर्णं राजतं वापि ताम्रं वा षोडशाङ्गुलम् ।
चतुरङ्गुलखातं तु मृन्मयं वाथ मण्डलम् ॥" (पि०स्मृ० १७०)

वर्तुलम् इत्यर्थः ।

"पूरयेद् घृततैलाभ्यां विंशत्या तु पलैस् तु तत् ।
सुवर्णमाषकं तस्मिन् सुतप्ते निक्षिपेत् ततः ॥
अङ्गुष्ठाङ्गुलियोगेन उद्धरेत् तप्तमाषकम् ।
कराग्रं यो न धुनुयाद् विस्फोटो वा न जायते ।
शुद्धो भवति धर्मेण निर्विकारकराङ्गुलिः ॥" (पि०स्मृ० १७१–७३)

उद्धरेद् इति वचनात् पात्राद् उत्क्षेपणमात्रं न बहिः प्रक्षेपणम् आदरणीयम् ॥

अपरः कल्पः :

"सौवर्णे राजते ताम्रे आयसे मृन्मयेऽपि वा ।
गव्यं घृतम् उपादाय तद् अग्नौ तापयेच् छुचिः ॥
सौवर्णीं राजतीं ताम्रीम् आयसीं वा सुशोधिताम् ।
सलिलेन सकृद् धौतां प्रक्षिपेत् तत्र मुद्रिकाम् ॥
भ्रमद्वीचितरङ्गाढ्ये ह्य् अनखस्पर्शगोचरे ।
परीक्षेद् आर्द्रपर्णेन चुरुकारं सुघोषकम् ॥
ततश् चानेन मन्त्रेण सकृत् तद् अभिमन्त्रयेत् ॥
परं पवित्रम् अमृतं घृत त्वं यज्ञकर्मसु ।
दह पावक पापं त्वं हिमशीतं शुचौ भव ॥
उपोषितं ततः स्नातम् आर्द्रवाससमागतम् ।
ग्राहयेन् मुद्रिकां तां तु घृतमध्यगतां तथा ॥
प्रदेशिनीं च तस्याथ परीक्षेयुः परीक्षकाः ।
यस्य विस्फोटका न स्युः शुद्धोऽसाव् अन्यथाऽशुचिः ॥" इति । (पि०स्मृ० १७४–८०)

अत्रापि धर्मावाहनाद्य् अनुसंधातव्यम् । घृतानुमन्त्रणं प्राड्विवाकस्य । "त्वम् अग्ने सर्वभूतानाम्" इति शोध्यस्याग्न्यभिमन्त्रणमन्त्रः । "प्रदेशिनीं परीक्षेयुः" इति वचनात् प्रदेशिन्यैव मुद्रिकोद्धरणम् ।

इति तप्तमाषविधिः ॥

धर्माधर्माख्यदिव्यविधिश् च पितामहेनोक्तः । तथा च :

"अधुना संप्रवक्ष्यामि धर्माधर्मपरीक्षणम् ।
हन्तॄणां याचमानानां प्रायश्चित्तार्थिनां नृणाम् ॥" इति । (पि०स्मृ० १८१)

हन्तॄणाम् इति साहसाभियोगेषु, याचमानानाम् इत्य् अर्थाभियोगेषु, प्रायष्चित्तार्थिनाम् इति पातकाभियोगेषु ।

"राजतं कारयेद् धर्मम् अधर्मं सीसकायसम् ।" (पि०स्मृ० १८२)

इति प्रतिमाविधानं सीसकं वा आयसं वेति ॥ पक्षान्तरम् आह ।

"लिखेद् भूर्जे पटे वापि धर्माधर्मौ सितासितौ ।
अभ्युक्ष्य पञ्चगव्येन गन्धमाल्यैः समर्चयेत् ॥
सितपुष्पस् तु धर्मः स्याद् अधर्मोऽसितपुष्पधृक् ।
एवं विधायोपलिख्य पिण्डयोस् तौ निधापयेत् ॥
गोमयेन मृदा वापि पिण्डौ कार्यौ समंततः ।
मृद्भाण्डकेऽनुपहते स्थाप्यौ चानुपलक्षितौ ॥
उपलिप्ते शुचौ देशे देवब्राह्मणसंनिधौ ।
आवाहयेत् ततो देवांल् लोकपालांश् च पूर्ववत् ॥
धर्मावाहनपूर्वं तु प्रतिज्ञापत्रकं लिखेत् ॥" (पि०स्मृ० १८२–८६)

ततः :

"यदि पापविमुक्तोऽहं धर्मस् त्व् आयातु मे करे ।
अशुद्धश् चेन् मम करे पप आयातु धर्मतः ॥" इति ॥ (पि०स्मृ० १८७)

अभिशस्तोऽभिमन्त्रयते :

"अभियुक्तस् तयोश् चैकं प्रगृह्नीताविलम्बितः ।
धर्मे गृहीते शुद्धः स्याद् अधर्मे तु स हीयते ॥
एवं समासतः प्रोक्तं धर्माधर्मपरीक्षणम् ॥" इति ॥ (पि०स्मृ० १८८–८९)

इति धर्माधर्मदिव्यविधिः ॥

अन्ये च शपथा द्रव्याल्पत्वमहत्त्वविषया जातिविशेषविषयाश्च मन्वादिभिर् उक्ताः । ते यथा ।

"निष्के तु सत्यवचनं द्विनिष्के पादलम्भनम् ।
त्रिकाद् अर्वाक् तु पुण्यं स्यात् कोशपानम् अतः परम् ॥" (ध०को० ४४२ : ःारीत)

"सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः ।
गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥" (मा०ध० ८.११३)

इत्यादयः । अत्र च शुद्धिविभावना मनुनोक्ता :

"न चार्तिम् ऋच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः ।" इति । (मा०ध० ८.११४)

आर्तिर् अपि, "यस्य नो राजदैविकं व्यसनं जायते घोरम्" (या०ध० २.११३) इत्युक्तैव । कालनियमश् च एकरात्रम् आरभ्य त्रिरात्रपर्यन्तं त्रिरात्रम् आरभ्य पञ्चरात्रपर्यन्तम् । एकरात्रप्रभृतित्वं कार्यलाघवगौरवपर्यालोचनया द्रष्टव्यम् । एवं दिव्यैर् जयपराजयावधारणे दण्डविशेषोऽपि दर्शितः कात्यायने :

"शतार्धं दापयेच् छुद्धम् अशुद्धो दण्डभाग् भवेत् ।" इति । (का०स्मृ० ४५९)

तं दण्डम् आह :

"विषे तोये हुताशे च तुलाकोशे च तण्डुले ।
तप्तमाषकदिव्ये च क्रमाद् दण्डं प्रकल्पयेत् ॥
सहस्रं षट्शतं चैव तथा पञ्चशतानि च ।
चतुस्त्रिद्व्येकम् एवं च हीनं हीनेषु कल्पयेत् ॥" इति ॥ (का०स्मृ० ४६०–६१)

"निह्नवे भावितो दद्याद्" इत्युक्तदण्डेनायं दिव्यनिबन्धनो दण्डः समुच्चीयते ॥

इति दिव्यप्रकरणम्
अथ दायविभागप्रकरणम्

प्रमाणम् मानुषं दैवम् इति भेदेन वर्णितम् ।

अधुना वर्ण्यते दायविभागो योगमूर्तिना ॥

तत्र दायशब्देन यद् धनं स्वामिसंबन्धाद् एव निमित्ताद् अन्यस्य स्वं भवति तद् उच्यते । स च द्विविधोऽप्रतिबन्धः सप्रतिबन्धश् च । तत्र पुत्राणां पौत्राणां च पुत्रत्वेन पौत्रत्वेन च पितृधनं पितामहधनं च स्वं भवतीत्य् अप्रतिबन्धो दायः । पितृव्यभ्रात्रादीनां तु पुत्राभावे स्वाम्यभावे च स्वं भवतीति सप्रतिबन्धो दायः । एवं तत्पुत्रादिष्व् अप्य् ऊहनीयः । विभागो नाम द्रव्यसमुदायविषयाणाम् अनेकस्वाम्यानां तदेकदेशेषु व्यवस्थापनम् । एतद् एवाभिप्रेत्योक्तं नारदेन ।

"विभागोऽर्थस्य पित्र्यस्य तनयैर् यत्र कल्प्यते ।
दायभाग इति प्रोक्तं व्यवहारपदं बुधैः ॥" इति । (ना०स्मृ० १३.१)

पित्र्यस्येति स्वत्वनिमित्तसंबन्धोपलक्षणम् । तनयैर् इत्य् अपि प्रत्यासन्नोपलक्षणम् । इदम् इह निरूपणीयम् । कस्मिन् काले कस्य कथं कैश् च विभागः कर्तव्य इति । तत्र कस्मिन्काले कथं कैश्चेति तत्र तत्र श्लोकव्याख्यान एव वक्ष्यते । कस्य विभाग इत्य् एतावद् इह चिन्त्यते । किं विभागात् स्वत्वम् उत स्वस्य सतो विभाग इति । तत्र स्वत्वम् एव तावन् निरूप्यते । किं शास्त्रैकसमधिगम्यं स्वत्वम् उत प्रमाणान्तरसमधिगम्यम् इति ।

तत्र शास्त्रैकसमधिगम्यम् इति तावद् युक्तम् गौतमवचनात् : "स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु, ब्राह्मणस्याधिकं लब्धं, क्षत्रियस्य विजितं, निर्विष्टं वैश्यशूद्रयोः" (गौ०ध० १०.३९–४२)। इति । प्रमाणान्तरगम्ये स्वत्वे नेदं वचनम् अर्थवत् स्यात् । तथा स्तेनातिदेशे मनुः :

"योऽदत्तादायिनो हस्ताल् लिप्सेत ब्राह्मणो धनम् ।
याजनाध्यापनेनापि यथा स्तेनस् तथैव सः ॥" इति । (मा०ध० ८.३४०)

अदत्तादायिनः सकाशाद् याजनादिद्वारेणापि द्रव्यम् अर्जयतां दण्डविधानम् अनुपपन्नं स्यात् स्वत्वस्य लौकिकत्वे । अपि च । लौकिकं चेत् स्वत्वं मम स्वम् अनेनापहृतम् इति न ब्रूयाद् अपहर्तुर् एव स्वत्वात् । अन्य्थान्यस्य स्वं तेनापहृतम् इति नापहर्तुः स्वम् । एवं तर्हि सुवर्णरजतादिस्वरूपवद् अस्य वा स्वम् अन्यस्य वा स्वम् इति संशयो न स्यात् । तस्माच् छास्त्रैकसमधिगम्यं स्वत्वम् इति ।

अत्रोच्यते : लौकिकम् एव स्वत्वं लौकिकार्थक्रियासाधनत्वात् व्रीह्यादिवत् । आहवनीयादीनां हि शास्त्रगम्यानां न लौकिकक्रियासाधनत्वम् अस्ति ॥

ननु आहवनीयादीनाम् अपि पाकादिसाधनत्वम् अस्त्य् एव ।

नैतत् । न हि तत्राहवनीयादिरूपेण पाकादिसाधनत्वम् । किं तर्हि प्रत्यक्षादिपरिदृश्यमानाग्न्यादिरूपेण । इह तु सुवर्णादिरूपेण न क्रयादिसाधनत्वम् अपि तु स्वत्वेनैव । न हि यस्य यत् स्वं न भवति तत् तस्य क्रयाद्यर्थक्रियां साधयति ॥ अपि च । प्रत्यन्तवासिनाम् अप्य् अदृष्टशास्त्रव्यवहाराणां स्वत्वव्यवहारो दृश्यते, क्रयविक्रयादिदर्शनात् । किं च । नियतोपायकं स्वत्वं लोकसिद्धम् एवेति न्यायविदो मन्यन्ते । तथाहि, लिप्सासूत्रे तृतीये वर्णके द्रव्यार्जननियमानां क्रत्वर्थत्वे स्वत्वम् एव न स्यात् । स्वत्वस्यालौकिकत्वाद् इति पूर्वपक्षासंभवम् आशङ्क्य द्रव्यार्जनस्य प्रतिग्रहादिना स्वत्वसाधनत्वं लोकसिद्धम् इति पूर्वपक्षः समर्थितो गुरुणा ।

ननु च द्रव्यार्जनस्य क्रत्वर्थत्वे स्वत्वम् एव न भवतीति याग एव न संवर्तेत, प्रलपितम् इदं केनाप्य् अर्जनं स्वत्वं नापादयतीति विप्रतिषिद्धम् इति वदता । तथा सिद्धान्तेऽपि स्वत्वस्य लौकिकत्वम् अङ्गिकृत्यैव विचारप्रयोजनम् उक्तम् "अतो नियमातिक्रमः पुरुषस्य न क्रतोः" इति । अस्य चार्थ एवं विवृतः । यदा द्रव्यार्जननियमानां क्रत्वर्थत्वं तदा नियमार्जिते नैव द्रव्येण क्रतुसिद्धिर् न नियमातिक्रमार्जितेन द्रव्येणेति न पुरुषस्य नियमातिक्रमदोषः पूर्वपक्षे ।

राद्धान्ते त्व् अर्जननियमस्य पुरुषार्थत्वात् तदतिक्रमेणार्जितेनापि द्रव्येण क्रतुसिद्धिर् भवति पुरुषस्यैव नियमातिक्रमदोष इति नियमातिक्रमार्जितस्यापि स्वत्वं स्याद् इति मन्तव्यम्, लोके तत्र स्वत्वप्रसिद्ध्यभावात् व्यवहारविसंवादाच् च । एवं प्रतिग्रहाद्युपायके स्वत्वे लौकिके स्थिते, "ब्राह्मणस्य प्रतिग्रहादय उपायाः क्षत्रियस्य विजितादयः वैश्यस्य कृष्यादयः शूद्रस्य शुश्रूषादयः" इत्य् अदृष्टार्था नियमाः । रिक्थादयस् तु सर्वसाधारणाः "स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु" (गौ०ध० १०.३९) इत्य् उक्ताः । तत्राप्रतिबन्धो दायो रिक्थम् । क्रयः प्रसिद्धः । संविभागः सप्रतिबन्धो दायः । परिग्रहोऽनन्यपूर्वस्य जलतृणकाष्टादेः स्वीकारः । अधिगमो निध्यादेः प्राप्तिः । एतेषु निमित्तेषु सत्सु स्वामी भवति । ज्ञातेषु ज्ञायते स्वामी । "ब्राह्मणस्याधिकं लब्धम्" (गौ०ध० १०.४०) इति ब्राह्मणस्य प्रतिग्रहादिना यल् लब्धं तद् अधिकम् असाधारणम् । "क्षत्रियस्य विजितम्" (गौ०ध० १०.४१) इत्य् अत्राधिकम् इत्य् अनुवर्तते । क्षत्रियस्य विजयदण्डादिलब्धम् असाधारणम् । "निर्विष्टं वैश्यशूद्रयोः" (गौ०ध० १०.४२) इत्य् अत्राप्य् अधिकम् इत्य् अनुवर्तते । वैश्यस्य कृषिगोरक्षादिलब्धं निर्विष्टं तद् असाधरणम् । शूद्रस्य द्विजशुश्रूषादिना भृतिरूपेण यल् लब्धं तद् असाधारणम् । एवम् अनुलोमजानां प्रतिलोमजानां च लोकप्रसिद्धेषु स्वत्वहेतुषु यद् यद् असाधारणम् उक्तं सूतानाम् अश्वसारथ्यम् इत्यादि तत् तत् सर्वं निर्विष्टशब्देनोच्यते, सर्वस्यापि भृतिरूपत्वात्, "निर्वेशो भृतिभोगयोः" इति त्रिकाण्डीस्मरणात् । तत् तद् असाधारणं वेदितव्यम् । यद् अपि "पत्नी दुहितरश् चैव" इत्य् आदिस्मरणं तत्रापि स्वामिसंबन्धितया बहुषु दायविभागितया प्राप्तेषु लोकप्रसिद्धेऽपि स्वत्वे व्यामोहनिवृत्त्यर्थं स्मरणम् इति सर्वम् अनवद्यम् ।

यद् अपि मम स्वम् अनेनापहृतम् इति न ब्रूयात् स्वत्वस्य लौकिकत्व इति ।

तद् अप्य् असत्, स्वत्वहेतुभूतक्रयादिसंदेहात् स्वत्वसंदेहोपपत्तेः । विचारप्रयोजनं तु,

"यद् गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् ।
तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ॥" इति । (not in ध०को०)

शास्त्रैकसमधिगम्ये स्वत्वे गर्हितेनासत्प्रतिग्रहवाणिज्यादिना लब्धस्य स्वत्वम् एव नास्तीति तत्पूत्राणां तद् अविभाज्यम् एव । यदा तु लौकिकं स्वत्वं तदाऽसत्प्रतिग्रहादिलब्धस्यापि स्वत्वात् तत्पुत्राणां तद्विभाज्यम् एव । तस्योत्सर्गेण शुध्यन्ति इति प्रायश्चित्तम् अर्जयितुर् एव तत्पुत्रादीनां तु दायत्वेन स्वत्वम् इति न तेषां दोषसंबन्धः,

"सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः ।
प्रयोगः कर्मयोगश् च सत्प्रतिग्रह एव च ॥" (मा०ध० १०.११५)

इति मनुस्मरणात् ।

इदानीम् इदं संदिह्यते : किं विभागात् स्वत्वम् उत स्वस्य सतो विभाग इति । तत्र विभागात् स्वत्वम् इति तावद् युक्तम्, जातपुत्रस्याधानविधानात् । यदि जन्मनैव स्वत्वं स्यात् तदोत्पन्नस्य पुत्रस्यापि तत् स्वं साधारणम् इति द्रव्यसाध्येष्व् आधानादिषु पितुर् अनधिकारः स्यात् । तथा विभागात् प्राक् पितृप्रसादलब्धस्य विभागप्रतिषेधो नोपपद्यते, सर्वानुमत्या दत्तत्वाद् विभागप्राप्त्यभावात् । यथाह :

"शौर्यभार्याधने चोभे यच् च विद्याधनं भवेत् ।
त्रीण्य् एतान्य् अविभाज्यानि प्रसादो यश् च पैतृकः ॥" इति ॥ (ना०स्मृ० १३.६)

तथा :

"भर्त्रा प्रीतेन यद् दत्तं स्त्रियै तस्मिन् मृतेऽपि तत् ।
सा यथाकामम् अश्नीयाद् दद्याद् वा स्थावराद् ऋते ॥" इति । (ना०स्मृ० १.२४)

प्रीतिदानवचनं च नोपपद्यते जन्मनैव स्वत्वे । न च स्थावराद् ऋते यद्द् अत्तम् इति संबन्धो युक्तो व्यवहितयोजनाप्रसङ्गात् । यद् अपि :

"मणिमुक्ताप्रवालानां सर्वस्यैव पिता प्रभुः ।
स्थावरस्य तु सर्वस्य न पिता न पितामहः ॥" (ध०को० १२१९ : णारद)

तथा :

"पितृप्रसादाद् भुज्यन्ते वस्त्राण्य् आभरणानि च ।
स्थावरं तु न भुज्यते प्रसादे सति पैतृके ॥" इति । (ध०को० १२१९ : णारद)

स्थावरस्य प्रसाददाने प्रतिषेधवचनं तत्पितामहोपात्तस्थावरविषयम् । अतीते पितामहे तद्धनं पित्रापुत्रयोः साधारणम् अपि मणिमुक्तादि पितुर् एव । स्थावरं तु साधारणम् इत्य् अस्माद् एव वचनाद् अवगम्यते । तस्मान् न जन्मना स्वत्वं किं तु स्वामिनाशाद् विभागाद् वा स्वत्वम् । अत एव पितुर् ऊर्ध्वं विभागात् प्राग् द्रव्यस्वत्वस्य प्रहीणत्वाद् अन्येन गृह्यमाणं न निवार्यत इति चोद्यस्यानवकाशः । तथैकपुत्रस्यापि पितृप्रयाणाद् एव पुत्रस्य स्वम् इति न विभागम् अपेक्षत इति ।

अत्रोच्यते । लोकप्रसिद्धम् एव स्वत्वम् इत्य् उक्तम् । लोके च पुत्रादीनां जन्मनैव स्वत्वं प्रसिद्धतरं नापह्नवम् अर्हति । विभागशब्दश् च बहुस्वामिकधनविषयो लोकप्रसिद्धो नान्यदीयविषयो न प्रहीणविषयः, तथा "उत्पत्त्यैवार्थस्वामित्वं लभेतेत्य् आचार्याः" (not in गौ०ध० ; ध०को० ११२४) इति गौतमवचनाच् च । "मणिमुक्ताप्रवालानाम्" (ध०को० १२१९) इत्यादिवचनं च जन्मना स्वत्वपक्ष एवोपपद्यते । न च पितामहोपात्तस्थावरविषयम् इति युक्तम्, "न पिता न पितामहः" (ध०को० १२१९) इति वचनात् । पितामहस्य हि स्वार्जितम् अपि पुत्रे पौत्रे च सत्य् अदेयम् इति वचनं जन्मना स्वत्वं गमयति । यथा परमते मणिमुक्ताप्रवालवस्त्राभरणादीनां पैतामहानाम् अपि पितुर् एव स्वत्वं वचनात्, एवम् अस्मन्मतेऽपि पित्रार्जितानाम् अप्य् एतेषां पितुर् दानाधिकारो वचनाद् इत्य् अविशेषः । यत् तु "भर्त्रा प्रीतेन" इत्यादिविष्णुवचनंठिस् is ना०स्मृ० १.२४. णोत् अस्च्रिबेद् to Vइष्णु एवेन् in the ध०को०. स्थावरस्य प्रीतिदानज्ञापनं तत्स्वोपार्जितस्यापि पुत्राद्यभ्यनुज्ञयैवेति व्याक्ख्येयम्, पूर्वोक्तैर् मणिमुक्तादिवचनैः स्थावरव्यतिरिक्तस्यैव प्रीतिदानयोग्यत्वनिश्चयात् । यद् अप्य् अर्थसाध्येषु वैदिकेषु कर्मस्व् अनधिकार इति तत्र तद्विधानबलाद् एवाधिकारो गम्यते । तस्मात् पैतृके पैतामहे च द्रव्ये जन्मनैव स्वत्वम् तथापि पितुर् आवश्यकेषु धर्मकृत्येषु वाचनिकेषु प्रसाददानकुटुम्बरणापद्विमोक्षादिषु च स्थावरव्यतिरिक्तद्रव्यविनियोगे स्वातन्त्र्यम् इति स्थितम् । स्थावरे तु स्वार्जिते पित्रादिप्राप्ते च पुत्रादिपारतन्त्र्यम् एव,

"स्थावरं द्विपदं चैव यद्य् अपि स्वयम् अर्जितम् ।
असंभूय सुतान् सर्वान् न दानं न च विक्रयः ॥
ये जाता येऽप्य् अजाताश् च ये च गर्भे व्यवस्थिताः ।
वृत्तिं च तेऽभिकाङ्क्षन्ति न दानं न च विक्रयः ॥" (ध०को० १५८७ : Vयास)

इत्यादिस्मरणात् । अस्यापवादः :

"एकोऽपि स्थावरे कुर्याद् दानाधमनविक्रयम् ।
आपत्काले कुटुम्बार्थे धर्मार्थे च विशेषतः ॥" इति । (ध०को० १५८८ : ष्मृत्यन्तर)

अस्यार्थः : अप्राप्तव्यवहारेषु पुत्रेषु पौत्रेषु वानुज्ञानादाव् असमर्थेषु भ्रातृषु वा तथाविधेष्व् अविभक्तेष्व् अपि सकलकुटुम्बव्यापिन्याम् आपदि तत्पोषणे वावश्यकर्तव्येषु च पितृश्राद्धादिषु स्थावरस्य दानाधमनविक्रयम् एकोऽपि समर्थः कुर्याद् इति । यत् तु वचनम्,

"अविभक्ता विभक्ता वा सपिण्डाः स्थावरे समाः ।
एको ह्य् अनीशः सर्वत्र दानाधमनविक्रये ॥" (बृ०स्मृ० १.१४.८)

इति तद् अप्य् अविभक्तेषु द्रव्यस्य मध्यस्थत्वाद् एकस्यानीश्वरत्वात् सर्वाभ्यनुज्ञावश्यं कार्या विभक्तेषु तूत्तरकालं विभक्ताविभक्तसंशयव्युदासेन व्यवहारसौकर्याय सर्वाभ्यनुज्ञा न पुनर् एकस्यानीश्वरत्वेन । अतो विभक्तानुमतिव्यतिरेकेणापि व्यवहारः सिध्यत्य् एवेति व्याख्येयम् । यद् अपि,

"स्वग्रामज्ञातिसामन्तदायादानुमतेन च ।
हिरण्योदकदानेन षड्भिर् गच्छति मेदिनी ॥" (ध०को० ९०१ : ष्मृत्यन्तर)

इति तत्रापि ग्रामानुमतिः,

प्रतिग्रहः प्रकाषः स्यात् स्थावरस्य विशेषतः । (या०ध० २.१७६)

इति स्मरणात्, व्यवहारप्रकाषनार्थम् एवापेक्ष्यते न पुनर् ग्रामानुमत्या विना व्यवहारासिद्धिः । सामन्तानुमतिस् तु सीमाविप्रतिपत्तिनिरासाय । ज्ञातिदायादानुमतेस् तु प्रयोजनम् उक्तम् एव "हिरण्योदकदानेन" (ध०को० ९०१) इति ।

"स्थावरे विक्रयो नास्ति कुर्याद् आधिम् अनुज्ञया ।" (ध०को० १५८९)

इति स्थावरस्य विक्रयप्रतिषेधात् ।

"भूमिं यः प्रतिगृह्नाति यश् च भूमिं प्रयच्छति ।
उभौ तौ पुण्यकर्माणौ नियतौ स्वर्गगामिनौ ॥" Kऋत्यकल्पतरु, डान १०.१३ (Bरिच्क्ऽस् ed.) अस्च्रिबेद् थेरे to डान-Bऋहस्पति

इति दानप्रशंसादर्शनाच् च । विक्रयेऽपि कर्तव्ये सहिरण्यम् उदकं दत्त्वा दानरूपेण स्थावरविक्रयं कुर्याद् इत्य् अर्थः । पैतृके पैतामहे च धने जन्मनैव स्वत्वेऽपि विषेशं "भूर् या पितामहोपात्ता" (या०ध० २.१२१) इत्य् अत्र वक्ष्यामः ॥ २.११३ ॥

इदानीं यत्र काले येन च यथा विभागः कर्तव्यस् तद् दर्शयन्न् आह ।

विभागं चेत् पिता कुर्याद् इच्छया विभजेत् सुतान् ।
ज्येष्टं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः ॥ या०ध०२.११४

यदा विभागं पिता चिकीर्षति तदा इच्छया विभजेत् पुत्रान् आत्मनः सकाशात् पुत्रं पुत्रौ पुत्रान् । इच्छाया निरङ्कुशत्वाद् अनियमप्राप्तौ नियमार्थम् आह "ज्येष्टं वा श्रेष्ठभागेन" इति । ज्येष्टं श्रेष्ठभागेन मध्यमं मध्यभागेन कनिष्ट्ःं कनिष्ठभागेन विभजेद् इत्य् अनुवर्तते । श्रेष्ठादिविभागश् च मनुनोक्तः :

"ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच् च यद् वरम् ।
ततोऽर्धं मध्यमस्य स्यात् तुरीयं तु यवीयसः ॥" इति । (मा०ध० ९.११२)

वाशब्दो वक्ष्यमाणपक्षापेक्षः, "सर्वे वा स्युः समांशिनः" इति । सर्वे वा ज्येष्ठादयः समांशभाजः कर्तव्याः । अयं च विषमो विभागः स्वार्जितद्रव्यविषयः । पितृक्रमायाते तु समस्वाम्यस्य वक्ष्यमाणत्वान् नेच्छया विषमो विभागो युक्तः । "विभागं चेत्पिता कुर्याद्" इति यदा पितुर् विभागेच्छा स तावद् एकः कालः । अपरोऽपि कालो जीवत्य् अपि पितरि द्रव्यनिःस्पृहे निवृत्तरमणे मातरि च निवृत्तरजस्कायां पितुर् अनिच्छायाम् अपि पुत्रेच्छयैव विभागो भवति । यथोक्तं नारदेन,

"अत ऊर्ध्वं पितुः पुत्रा विभजेयुर् धनं समम् ।" (ना०स्मृ० १३.२ वरिअन्त्)

इति पित्रोर् ऊर्ध्वं विभागं प्रतिपाद्य,

"मातुर् निवृत्ते रजसि प्रत्तासु भगिनीषु च ।
निवृत्ते चापि रमणे पितर्य् उपरतस्पृहे ॥" (ना०स्मृ० १३.३)

इति दर्शितः । अत्र पुत्रा धनं समं विभजेयुर् इत्य् अनुषज्यते । गौतमेनापि "ऊर्ध्वं पितुः पुत्रा रिक्थं विभजेरन्" (गौ०ध० २८.१) इत्य् उक्त्वा, "निवृत्ते चापि रजसि" (गौ०ध० २८.२) इति द्वितीयः कालो दर्शितः । जीवति चेच्छतीति तृतीयः कालः । तथा सरजस्कायाम् अपि मातर्य् अनिच्छत्य् अपि पितर्य् अधर्मवर्तिनि दीर्घरोगग्रस्ते च पुत्राणाम् इच्छया भवति विभागः । यथाह शङ्खः : "अकामे पितरि रिक्थाविभागो वृद्धे विपरीतचेतसि रोगिणि च" (ध०को० ११४८) इति ॥ २.११४ ॥

पितुर् इच्छया विभागो द्विधा दर्शितः समो विषमश् चेति । तत्र समविभागे विशेषम् आह ।

यदि कुर्यात् समान् अंशान् पत्न्यः कार्याः समांशिकाः ।
न दत्तं स्त्रीधनं यासां भर्त्रा वा श्वशुरेण वा ॥ या०ध०२.११५

यदा स्वेच्छया पिता सर्वान् एव सुतान् समविभागिनः करोति तदा पत्न्याश् च पुत्रसमांशभाजः कर्तव्यः यासां पत्नीनां भर्त्रा श्वशुरेण वा स्त्रीधनं न दत्तम् । दत्ते तु स्त्रीधने अर्धांशं वक्ष्यति "दत्ते त्व् अर्धं प्रकल्पयेत्" (या०ध० २.१४८) इति ॥ यदा तु श्रेष्ठभागादिना ज्येष्ठादीन् विभजति तदा पत्न्यः श्रेष्ठादिभागान् न लभन्ते किं तूद्धृतोद्धारात् समुदायात् समान् एवांशांल् लभन्ते स्वोद्धारं च । यथाह आपस्तम्बः : "परीभाण्डं च गृहेऽलंकारो भार्यायाः" (आ०ध० २.१४.८–९) इति ॥ २.११५ ॥

"ज्येष्ठं वा श्रेष्ठभागेन सर्वे वा स्युः समांशिनः" (या०ध० २.११४) इति पक्षद्वयेऽप्य् अपवादम् आह ।

शक्तस्यानीहमानस्य किंचिद् दत्त्वा पृथक् क्रिया । या०ध०२.११६अब्

स्वयम् एव द्रव्यार्जनसमर्थस्य पितृद्रव्यम् अनीहमानस्यानिच्छतोऽपि यत् किंचिद् असारम् अपि दत्त्वा पृथक् क्रिया विभागः कार्यः पित्रा, तत्पुत्रादीनां दायजिघृक्षा मा भूद् इति ।

"ज्येष्ठं वा श्रेष्ठभागेन" (या०ध० २.११४) इति न्यूनाधिको विभागो दर्शितः । तत्र शास्त्रोक्तोद्धारादिविषमविभागव्यतिरेकेणान्यथाविषमविभागनिषेधार्थम् आह ।

न्यूनाधिकविभक्तानां धर्म्यः पितृकृतः स्मृतः ॥ या०ध०२.११६च्द्

न्यूनाधिकविभागेन विभक्तानां पुत्राणाम् असौ न्यूनाधिकविभागो यदि धर्म्यः शास्त्रोक्तो भवति तदासौ पितृकृतः कृत एव न निवर्तत इति मन्वादिभिः स्मृतः । अन्यथा तु पितृकृतोऽपि निवर्तत इत्य् अभिप्रायः । यथाह नारदः :

"व्याधितः कुपितश् चैव विषयासक्तमानसः ।
अन्यथाशास्त्रकारी च न विभागे पिता प्रभुः ॥" इति ॥ (ना०स्मृ० १३.१५* add) २.११६ ॥

इदानीं विभागस्य कालान्तरं कर्त्रन्तरं प्रकारनियमं चाह ।

विभजेरन् सुताः पित्रोर् ऊर्ध्वं रिक्थम् ऋणं समम् । या०ध०२.११७अब्

पित्रोर् मातापित्रोर् ऊर्ध्वं प्रायणाद् इति कालो दर्शितः । सुता इति कर्तारो दर्शिताः । समम् इति प्रकारनियमः । समम् एवेति रिक्थम् ऋणं च विभजरेन् ।

ननु "ऊर्ध्वं पितुश् च मातुश् च" (मा०ध० ९.१०४) इत्य् उपक्रम्य,

"ज्येष्ठ एव तु गृह्नीयात् पित्र्यं धनम् अशेषतः ।
शेषास् तम् उपजीवेयुर् यथैव पितरं तथा ॥" (मा०ध० ९.१०५)

इत्य् उक्त्वोक्तम् :

"ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच् च यद् वरम् ।
ततोऽर्धं मध्यमस्य स्यात् तुरीयं तु यवीयसः ॥" इति । (मा०ध० ९.११२)

सर्वस्माद् द्रव्यसमुदायाद् विंशतितमो भागः सर्वद्रव्येभ्यश् च यच् छ्रेष्ठं तज् ज्येष्ठाय दातव्यम् । तदर्धं चत्वारिंशत्तमो भागो मध्यमं च द्रव्यं मध्यमाय दातव्यम् । तुरीयम् अशीतितमो भागो हीनं द्रव्यं च कनिष्ठाय दातव्यम् इति मातापित्रोर् ऊर्ध्वं विभजताम् उद्धारविभागो मुनुना दर्शितः । तथा :

"उद्धारेऽनुद्धृते त्व् एषाम् इयं स्याद् अंशकल्पना ।
एकाधिकं हरेज् ज्येष्ठः पुत्रोऽध्यर्धं ततोऽनुजः ॥
अंशम् अंशं यवीयांस इति धर्मो व्यवस्थितः ॥" इति । (मा०ध० ९.११६–१७)

ज्येष्ठस्य द्वौ भागौ तदनन्तरजातस्य सार्धं एको भागः ततोऽनुजानाम् एकैको विभाग इत्य् उद्धारव्यतिरेकेणापि विषमो विभागो दर्शितः पित्रोर् ऊर्ध्वं विभजताम् । जीवद्विभागे च स्वयम् एव विषमो विभागो दर्शितो "ज्येष्ठं वा श्रेष्टभागेन" (य़्ष्ह् २.११४) इति । अतः सर्वस्मिन्न् अपि कले विषमो विभागोऽस्तीति कथं समम् एव विभजेरन्न् इति नियम्यते ॥

अत्रोच्यते । सत्यम् । अयं विषमो विभागः शास्त्रदृष्टस् तथापि लोकविद्विष्टत्वान् नानुष्ठेयः, "अस्वर्ग्यं लोकविद्विष्टं धर्म्यम् अप्य् आचरेन्न तु" (या०ध० १.१५६) इति निषेधात् । यथा "महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत्" (या०ध० १.१०९) इति विधानेऽपि लोकविद्विष्टत्वाद् अननुष्ठानम् । यथा वा "मैत्रावरुणीं गां वशाम् अनुबन्ध्याम् आलभेत" इति गवालम्भनविधानेऽपि लोकविद्विष्टत्वाद् अननुष्ठानम् । उक्तं च यथा :

"नियोगधर्मो नो नानुबन्ध्यावधोऽपि वा ।
तथोद्धारविभागोऽपि नैव संप्रति वर्तते ॥" इति । NSP and Pandeya add हेरे a परेन्थेतिचल् स्ततेमेन्त्, which wअस् प्रोबब्ल्य् इन्तेन्देद् to एxप्लैन् the चिततिओन् : (नियोगम् अनतिक्रम्य यथानियोगं, नियोगाधीनो यो धर्मो देवराच् च सुतोत्पत्तिर् इत्यादिः स नो भवति) । It is ommited in Setlur's edition.

(नियोगम् अनतिक्रम्य यथानियोगं, नियोगाधीनो यो धर्मो देवराच् च सुतोत्पत्तिर् इत्यादिः स नो भवति) । आपस्तम्बोऽपि "जीवन्पुत्रेभ्यो दायं विभजेत्" इति समताम् उक्त्वा, "ज्येष्ठो दायाद इत्य् एके" इति कृत्स्नधनग्रहणं ज्येष्ट्ःस्यैकीयमतेनोपन्यस्य, "देशविशेषेण सुवर्णं कृष्णा गावः कृष्णभौमः जेष्ट्ःस्य रथः पितुः परीभाण्डं च गृहेऽलंकारो भार्याया ज्ञातिधनं चेत्य् एके" इत्य् एकीयमतेनैवोद्धारविभागं दर्शयित्वा, "तच् छास्त्रैर् विप्रतिषिद्धम्" इति निराकृतवान् (आ०ध० २.१४.१, ५, ६–१०) । तं च शास्त्रविप्रतिषेधं स्वयम् एव दर्शयति स्म "मनुः पुत्रेभ्यो दायं विभजेद् इत्य् अविशेषेण श्रूयते" । इति । (आ०ध० २.१४.११) तस्माद् विषमो विभागः शास्त्रदृष्टोऽपि लोकविरोधाच् छ्रुतिविरोधाच् च नानुष्टेय इति समम् एव विभजेरन्न् इति नियम्यते ॥

मातापित्रोर् धनं सुता विभजेरन्न् इत्य् उक्तम् । तत्र मातृधनेऽपवादम् आह ।

मातुर् दुहितरः शेषम् ऋणात् या०ध०२.११७च्

मातुर् धनं दुहितरो विभजेरन् । ऋणाच् छेषं मातृकृतर्णापाकरणावशिष्टं अतश् चर्णसमं न्यूनं वा मातृधनं सुता विभजेरन्न् इत्य् अस्य विषयः । एतद् उक्तं भवति : मातृकृतम् ऋणं पुत्रैर् एवापाकरणीयं न दुहितृभिः । ऋणावशिष्टं तु धनं दुहितरो गृह्नीयुर् इति । युक्तं चैतत्,

"पुमान्पुंसोऽधिके शुक्रे स्त्री भवत्य् अधिके स्त्रियाः ।" (मा०ध० ३.४९)

इति स्त्र्यवयवानां दुहितृषु बाहुल्यात्, स्त्रीधनं दुहितृगामि । पितृधनं पुत्रगामि पित्रवयवानां पुत्रेषु बाहुल्याद् इति । तत्र च गौतमेन विशेषो दर्शितः : "स्त्रीधनं दुहितॄणाम् अप्रत्तानाम् अप्रतिष्ठितानां च" (गौ०ध० २८.२४) इति । अस्यार्थः : प्रत्ताप्रत्तासमवायेऽप्रत्तानाम् एव स्त्रीधनम् । प्रत्तासु चाप्रतिष्ठिताप्रतिष्ठितासमवायेऽप्रतिष्ठितानाम् एवेति । अप्रतिष्ठिता निर्धनाः ॥

दुहित्रभावे मातृधनम् ऋणावशिष्टं को गृह्नीयाद् इत्य् अत आह ।

ताभ्य ऋतेऽन्वयः ॥ या०ध०२.११७द्

ताभ्यो दुहितृभ्यो विना दुहितॄणाम् अभावे अन्वयः पुत्रादिर् गृह्नीयात् । एतच् च "विभजेरन् सुताः पित्रोर् ऊर्ध्वम्" (या०ध० २.११७) इत्य् अनेनैव सिद्धं स्पष्टार्थम् उक्तम् ॥ २.११७ ॥

अविभाज्यम् आह ।

पितृद्रव्याविरोधेन यद् अन्यत् स्वयम् अर्जितम् ।
मैत्रम् औद्वाहिकं चैव दायादानां न तद् भवेत् ॥ या०ध०२.११८

क्रमाद् अभ्यागतं द्रव्यं हृतम् अप्य् उद्धरेत् तु यः ।
दायादेभ्यो न तद् दद्याद् विद्यया लब्धम् एव च ॥ या०ध०२.११९

मातापित्रोर्द्रव्याविनाशेन यत्स्वयम् अर्जितं मैत्रं मित्रसकाशाद्यल्लब्धं औद्वाहिकं विवाहाद्यल्लब्धं दायादानां भ्रातॄणां तन्न भवेत् । क्रमात्पितृक्रमादायातं यत्किञ्चिद्द्रव्यं अन्यैर्हृतमसामर्थ्यादिना पित्रादिभिर् अनुद्धृतं यः पुत्राणां मध्य इतराभ्यनुज्ञयोद्धरति तद्दायादेभ्यो भ्रात्रादिभ्यो न दद्यादुद्धर्तैव गृह्नीयात् । तत्र क्षेत्रे तुरीयांशमुद्धर्ता लभते शेषं तु सर्वेषां समम् एव । यथाह शङ्खः ।

"पूर्वं नष्टां तु यो भूमिम् एकश् चेद् उद्धरेत् क्रमात् ।
यथाभागं लभन्तेऽन्ये दत्त्वांशं तु तुरीयकम् ॥" इति । (ध०को० १२०७)

"क्रमाद् अभ्यागतम्" इति शेषः । तथा विद्यया वेदाध्ययनेनाध्यापनेन वेदार्थव्याख्यानेन वा यल् लब्धं तद् अपि दायादेभ्यो न दद्यात्, अर्जक एव गृह्नीयात् । अत्र च "पितृद्रव्याविरोधेन यत् किंचित् स्वयम् अर्जितम्" इति सर्वशेषः । अतश् च पितृद्रव्याविरोधेन यन् मैत्रम् अर्जितम्, पितृद्रव्याविरोधेन यद् औद्वाहिकम्, पितृद्रव्याविरोधेन यत् क्रमायातम् उद्धृतम्, पितृद्रव्याविरोधेन विद्यया यल् लब्धम्, इति प्रत्येकम् अभिसंबध्यते । तथा च पितृद्रव्याविरोधेन प्रत्युपकारेण यन् मैत्रम्, आसुरादिविवाहेषु यल् लब्धम्, तथा पितृद्रव्यव्ययेन यत् क्रमायातम् उद्धृतम्, तथा पितृद्रव्यव्ययेन लब्धया विद्यया यल् लब्धम्, तत् सर्वं सर्वैर् भ्रातृभिः पित्रा च विभजनीयम् । तथा पितृद्रव्याविरोधेनेत्यस्य सर्वशेषत्वाद् एव पितृद्रव्याविरोधेन प्रतिग्रहलब्धम् अपि विभजनीयम् । अस्य च सर्वशेषत्वाभावे मैत्रमौद्वाहिकम् इत्यादि नारब्धव्यम् । अथ पितृद्रव्यविरोधेनापि यन् मैत्रादिलब्धं तस्याविभाज्यत्वाय मैत्रादिवचनम् अर्थवद् इत्य् उच्यते । तथा सति समाचारविरोधः, विद्यालब्धे नारदवचनविरोधश् च :

"कुटुम्बं बिभृयाद् भ्रातुर् यो विद्याम् अधिगच्छतः ।
भागं विद्याधनात् तस्मात् स लभेताश्रुतोऽपि सन् ॥" इति । (ना०स्मृ० १३.१०)

तथा विद्याधनस्याविभाज्यस्य लक्षणम् उक्तं कात्यायनेन ।

"परभक्तोपयोगेन विद्या प्राप्तान्यतस् तु या ।
तया लब्धं धनं यत् तु विद्याप्राप्तं तद् उच्यते ॥" इति । (का०स्मृ० ८६७)

तथा पितृद्रव्याविरोधेनेत्य् अस्य भिन्नवाक्यत्वे प्रतिग्रहलब्धस्याविभाज्यत्वम् आचारविरुद्धम् आपद्येत । एत देव स्पष्टीकृतं मनुना :

"अनुपघ्नन् पितृद्रव्यं श्रमेण यद् उपार्जितम् ।
दायादेभ्यो न तद् दद्याद् विद्यया लब्धम् एव च ॥" इति (मा०ध० ९.२०८)

श्रमेण सेवायुद्धादिना ।

ननु पितृद्रव्याविरोधेन यन् मैत्रादिलब्धं द्रव्यं तद् अविभाज्यम् इति न वक्तव्यम्, विभागप्राप्त्यभावात् । यद् येन लब्धं तत् तस्यैव नान्यस्येति प्रसिद्धतरम् । प्राप्तिपूर्वकश् च प्रतिषेधः । अत्र कश् चिद् इत्थं प्राप्तिम् आह :

"यत् कञ्चित् पितरि प्रेते धनं ज्येष्टोऽधिगच्छति ।
भागो यवीयसां तत्र यदि विद्यानुपालिनः ॥ इति ।" (मा०ध० ९.२०४)

ज्येष्टो वा कनिष्टो वा मध्यमो वा पितरि प्रेते अप्रेते वा यवीयसां वर्षीयसां चेति व्याख्यानेन पितरि सत्य् असति च मैत्रादीनां विभाज्यत्वं प्राप्तं प्रतिषिध्यत इति ।

तद् असत् । न ह्य् अत्र प्राप्तस्य प्रतिषेधः किं तु सिद्धस्यैवानुवादोऽयम् । लोकसिद्धस्यैवानुवादकान्य् एव प्रायेणास्मिन् प्रकरणे वचनानि । अथ वा,

"समवेतैस् तु यत् प्राप्तं सर्वे तत्र समांशिनः ।" (बृ०स्मृ० १.२६.१८)

इति प्राप्तस्यापवाद इति संतुष्यतु भवान् । अतश् च "यत् किंचित् पितरि प्रेते" इत्य् अस्मिन् वचने ज्येष्ठादिपदाविवक्षया प्राप्तिर् इति व्यामोहमात्रं । अतो मैत्रादिवचनैः पितुः प्राग् ऊर्ध्वं वा विभाज्यत्वेनोक्तस्य "यत् किंचित् पितरि प्रेते" इत्य् अपवाद इति व्याख्येयम् । तथान्यद् अप्य् अविभाज्यम् उक्तं मनुना :

"वस्त्रं पत्रम् अलंकारं कृतान्नम् उदकं स्त्रियः ।
योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ॥" इति । (मा०ध० ९.२१९)

धृतानाम् एव वस्त्राणाम् अविभाज्यत्वं यद् येन धृतं तत् तस्यैव । पितृधृतवस्त्राणि तु पितुर् ऊर्ध्वं विभजतां श्राद्धभोक्त्रे दातव्यानि । यथाह बृहस्पतिः ।

"वस्त्रालंकारशय्यादि पितुर् यद् वाहनादिकम् ।
गन्धमाल्यैः समभ्यर्च्य श्राद्धभोक्त्रे समर्पयेत् ॥" इति । (बृ०स्मृ० १.२६.६०)

अभिनवानि तु वस्त्राणि विभाज्यान्य् एव । पत्रं वाहनम् अश्वशिबिकादि तद् अपि यद् येनारूढं तत् तस्यैव । पित्र्यं तु वस्त्रवद् एव । अश्वादीनां बहुत्वे तु तद्विक्रयोपजीविनां विभाज्यत्वम् एव । वैषम्येण विभाज्यत्वे ज्येष्टस्य,

"अजाविकं सैकशफं न जातु विषमं भजेत् ।
अजाविकं सैकशफं ज्येष्टस्यैव विधीयते ॥" (मा०ध० ९.११९)

इति मनुस्मरणात् । अलंकारोऽपि यो येन धृतः स तस्यैव । अधृतः साधारणो विभाज्य एव :

"पत्यौ जीवति यः स्त्रीभिर् अलंकारो धृतो भवेत् ।
न तं भजेरन् दायादा भजमानाः पतन्ति ते ॥" इति । (मा०ध० ९.२००)

"अलंकारो धृतो भवेद्" इति विशेषेणोपादानाद् अधृतानां विभाज्यत्वं गम्यते । कृटान्नं तण्डुलमोदकादि तद् अप्य् अविभाज्यं यथासंभवं भोक्तव्यम् । उदकं उदकाधारः कूपादिः, तच् च विषमं मूल्यद्वारेण न विभाज्यं पर्यायेणोपभोक्तव्यम् । स्त्रियश् च दास्यो विषमाः न मूल्यद्वारेण विभाज्याः पर्यायेण कर्म कारयितव्याः । अवरुद्धास् तु पित्रा स्वैरिण्याद्याह् समा अपि पुत्रैर् न विभाज्याः, "स्त्रीषु च संयुक्तास्व् अविभागः" (गौ०ध० २८.४७) इति गौतमस्मरणात् । योगश् च क्षेमं च योगक्षेमम् । योगशब्देनालब्धलाभकारणं श्रौतस्मार्ताग्निसाध्यम् इष्टं कर्म लक्ष्यते । क्षेमशब्देन लब्धपरिरक्षणहेतुभूतं बहिर्वेदिदानतडागारामनिर्माणादि पूतं कर्म लक्ष्यते । तद् उभयं पैतृकम् अपि पितृद्रव्यविरोधार्जितम् अप्य् अविभाज्यम् । यथाह लौगाक्षिः :

"क्षेमं पूतं योगम् इष्टम् इत्य् आहुस् तत्त्वदर्शिनः ।
अविभाज्ये च ते प्रोक्ते शयनासनम् एव च ॥" इति । (ध०को० १२३३)

योगक्षेमशब्देन योगक्षेमकारिणो राजमन्त्रिपुरोहितादय उच्यन्ते इति केचित् । छत्रचामरशस्त्रोपानत्प्रभृतय इत्य् अन्ये । प्रचारो गृहारामादिषु प्रवेशनिर्गममार्गः, सोऽप्य् अविभाज्यः । यत् तु उशनसा क्षेत्रस्याविभाज्यत्वम् उक्तम्,

"अविभाज्यं सगोत्राणाम् आ सहस्रकुलाद् अपि ।
याज्यं क्षेत्रं च पत्रं च कृतान्नम् उदकं स्त्रियः ॥" (ध०को० १२३२)

इति तद् ब्राह्मणोत्पन्नक्षत्रियादिपुत्रविषयम्,

"न प्रतिग्रहभूर् देया क्षत्रियादिसुताय वै ।
यद्य् अप्य् एषां पिता दद्यान् मृते विप्रासुतो हरेत् ॥" (बृ०स्मृ० १.२६.१२१)

इति स्मरणात् । याज्यं याजनकर्मलब्धम् । पितृप्रसादलब्धस्याविभाज्यत्वं वक्ष्यते । नियमातिक्रमस्याविभाज्यत्वम् अनन्तरम् एव निरासि । पितृद्रव्यविरोधेन यद् अर्जितं तद् विभजनीयम् इति स्थितं, तत्रार्जकस्य भागद्वयं वसिष्ठवचनात् : "येन चैषां स्वयम् उपार्जितं स्यात् स द्व्यंशम् एव लभेत" इति (व०ध० १७.५१) ॥ २.११८ ॥ २.११९ ॥

अस्यापवादम् आह ।

सामान्यार्थसमुत्थाने विभागस् तु समः स्मृतः । या०ध०२.१२०अब्

अविभक्तानां भ्रातॄणां सामान्यस्यार्थस्य कृषिवाणिज्यादिना संभूय समुत्थाने सम्यग्वर्धने केनचित् कृते सम एव विभागो नार्जयितुर् अंशद्वयम् ॥

पित्र्ये द्रव्ये पुत्राणां विभागो दर्शितः । इदानीं पैतामहे पौत्राणां विभागे विशेषम् आह ।

अनेकपितृकाणां तु पितृतो भागकल्पना ॥ या०ध०२.१२०च्द्

यद्य् अपि पैतामहे द्रव्ये पौत्राणां जन्मना स्वत्वं पुत्रैर् अविशिष्टं तथापि तेषां पितृद्वारेणैव पैतामहद्रव्यविभागकल्पना न स्वरूपापेक्षया । एतद् उक्तं भवति । यदाऽविभक्ता भ्रातरः पुत्रान् उत्पाद्य दिष्टं गतास् तदैकस्य द्वौ पुत्रावन्यस्य त्रयोऽपरस्य चत्वार इति पुत्राणां वैषम्ये तत्र द्वाव् एकं स्वपित्र्यम् अंशं लभेते, अन्ये त्रयोऽप्य् एकम् अंशं पित्र्यं चत्वारोऽप्य् एकम् एवांशं पित्र्यं लभन्त इति । तथा केषुचित् पुत्रेषु ध्रियमाणेषु केषुचित् पुत्रान् उत्पाद्य विनष्टेष्व् अप्य् अयम् एव न्यायो ध्रियमाणाः स्वान् अंशान् एव लभन्ते, नष्टानाम् अपि पुत्राः पित्र्यान् एवांशांल् लभन्त इति वाचनिकी व्यवस्था ॥ २.१२० ॥

अधुना विभक्ते पितर्य् अविद्यमानभ्रातृके वा पौत्रस्य पैतामहे द्रव्ये विभागो नास्ति, अध्रियमाणे पितरि "पितृतो भागकलपना" (या०ध० २.१२०) इत्य् उक्तत्वात् । भवतु वा स्वार्जितवत् पितुर् इच्छयैवेत्य् आशङ्कित आह ।

भूर् या पितामहोपात्ता निबन्धो द्रव्यम् एव वा ।
तत्र स्यात् सदृशं स्वाम्यं पितुः पुत्रस्य चैव हि ॥ या०ध०२.१२१

भूः शालिक्षेत्रादिका । निबन्ध एकस्य पर्णभरकस्येयन्ति पर्णानि, तथा एकस्य क्रमुकफलभरस्येयन्ति क्रमुकफलानीत्याद्य् उक्तलक्षणः । द्रव्यं सुवर्णरजतादि यत् पितामहेन प्रतिग्रहविजयादिना लब्धं तत्र पितुः पुत्रस्य च स्वाम्यं लोकप्रसिद्धम् इति कृत्वा विभागोऽस्ति । हि यस्मात् तत्सदृशं समानं तस्मान् न पितुर् इच्छयैव विभागो नापि पितुर् भागद्वयम् । अतश् च "पितृतो भागकल्पना" (या०ध० २.१२०) इत्य् एतत् स्वाम्ये समेऽपि वाचनिकम् । "विभागं चेत् पिता कुर्यात्" (या०ध० २,११४) इत्य् एतत् स्वार्जितविषयम् । तथा,

"द्वाव् अंशौ प्रतिपद्येत विभजन्न् आत्मनः पिता ।" (ना०स्मृ० १३.१२)

इत्य् एतद् अपि स्वार्जितविषयम् ।

"जीवतोर् अस्वतन्त्रः स्याज् जरयापि समन्वितः ।" (ना०स्मृ० १.३२)

इत्य् एतद् अपि पारतन्त्र्यं मातापित्रर्जितद्रव्यविषयम्, तथा "अनीशास् ते हि जीवतोः" (मा०ध० ९.१०४) इत्य् एतद् अपि । तथा सरजस्कायां मातरि सस्पृहे च पितरि विभागम् अनिच्छत्य् अपि पुत्रेच्छया पैतामहद्रव्यविभागो भवति । तथाऽविभक्तेन पित्रा पैतामहे द्रव्ये दीयमाने विक्रीयमाणे वा पौत्रस्य निषेधेऽप्य् अधिकारः । पित्रार्जिते न तु निषेधाधिकारः, तत्परतन्त्रत्वात् । अनुमतिस् तु कर्तव्या । तथाहि, पैतृके पैतामहे च स्वाम्यं यद्य् अपि जन्मनैव तथापि पतृके पितृपरतन्त्रत्वात्, पितुश् चार्जकत्वेन प्राधान्यात्, पित्रा विनियुज्यमाने स्वार्जिते द्रव्ये पुत्रेणानुमतिः कर्तव्या । पैतामहे तु द्वयोः स्वाम्यम् अविशिष्टम् इति निषेधाधिकारोऽस्तीति विशेषः । मनुर् अपि ।

"पैतृकं तु पिता द्रव्यम् अनवाप्तं यद् आप्नुयात् ।
न तत् पुत्रैर् भजेत् सार्धम् अकामः स्वयम् अर्जितम् ॥" इति । (मा०ध० ९.२०९)

यत् पितामहार्जितं केनाप्य् अपहृतं पितामहेनानुद्धृतं यदि पितोद्धरति तत् स्वार्जितम् इव पुत्रैः सार्धम् अकामः स्वयं न विभजेद् इति वदन् पितामहार्जितम् अकामोऽपि पुत्रेच्छया पुत्रैः सह विभजेद् इति दर्शयति ॥ २.१२१ ॥

विभागोत्तरकालम् उत्पन्नस्य पुत्रस्य कथं विभागकल्पनेत्य् अत आह ।

विभक्तेषु सुतो जातः सवर्णायां विभागभाक् । या०ध०२.१२२अब्

विभक्तेषु पुत्रेषु पश्चात् सवर्णायां भार्यायाम् उत्पन्नो विभागभाक् । विभज्यत इति विभागः । पित्रोर् विभागस् तं भजतीति विभागभाक् । पित्रोर् ऊर्ध्वं तयोर् अंशं लभत इत्य् अर्थः । मातृभागं चासत्यां दुहितरि, "मातुर् दुहितरः शेषम्" इत्य् उक्तत्वात् । असवर्णायाम् उत्पन्नस् तु स्वांशम् एव पित्र्याल् लभते । मातृकं तु सर्वम् एव । एतद् एव मनुनोक्तम् ।

"ऊर्ध्वं विभागाज् जातस् तु पित्र्यम् एव हरेद् धनम् ।" इति । (मा०ध० ९.२१६)

पित्रोर् इदं पित्र्यम् इति व्याख्येयम् ।

"अनीशः पूर्वजः पित्रोर् भ्रातुर् भागे विभक्तजः ।" (बृ०स्मृ० १.२६.५५)

इति स्मरणात् । विभक्तयोर् मातापित्रोर् विभागे विभागात् पूर्वम् उत्पन्नो न स्वामी विभक्तजश् च भ्रातुर् भागे न स्वामीत्य् अर्थः । तथा विभागोत्तरकालं पित्रा यत् किंचिद् अर्जितं तत् सर्वं विभक्तजस्यैव,

"पुत्रैः सह विभक्तेन पित्रा यत् स्वयम् अर्जितम् ।
विभक्तजस्य तत् सर्वम् अनीशाः पूर्वजाः स्मृताः ॥" (बृ०स्मृ० १.२६.५६)

इति स्मरणात् । ये च विभक्ताः पित्रा सह संसृष्टाः तैः सार्धं पितुर् ऊर्ध्वं विभक्तजो विभजेत् । यथाह मनुः ।

"संस्पृष्टास्तेन वा ये स्युर् विभजेत स तैः सह ।" इति । (मा०ध० ९.२१६)

पितुर् ऊर्ध्वं पुत्रेषु विभक्तेषु पश्चाद् उत्पन्नस्य कथं विभागकल्पनेत्य् अत आह ।

दृश्याद् वा तद् विभागः स्याद् आयव्ययविशोधितात् ॥ या०ध०२.१२२च्द्

तस्य पितरि प्रेते भ्रातृविभागसमयेऽस्पष्टगर्भायां मातरि भ्रातृविभागोत्तरकालम् उत्पन्नस्यापि विभागः । तद्विभागः कुत इत्य् अत आह । दृश्याद् भ्रातृभिर् गृहीताद् धनात् । कीदृशाद् आयव्ययविशोधितात् । आयः प्रतिदिवसं प्रतिमासं प्रत्यब्दं वा यद् उत्पद्यते । व्ययः पितृकृतर्णापाकरणम् । ताभ्याम् आयव्ययाभ्यां यच् छोधितं तत् तस्माद् उद्धृत्य तद् भागो दातव्यः स्यात् । एतद् उक्तं भवति । प्रातिस्विकेषु भागेषु तदुत्थम् आयं प्रवेश्य पितृकृतं चर्णम् अपनीयावशिष्टेभ्यः स्वेभ्यः स्वेभ्यो भागेभ्यः किंचित् किंचिद् उद्धृत्य विभक्तजस्य भागः स्वभागसमः कर्तव्य इति । एतच् च विभागसमयेऽप्रजस्य भ्रातुर् भार्यायाम् अस्पष्टगर्भायां विभागाद् ऊर्ध्वम् उत्पन्नस्यापि वेदितव्यम् । स्पष्टगर्भायां तु प्रसवं प्रतीक्ष्य विभागः कर्तव्यः । यथाह वसिष्ठः : "अथ भ्रातॄणां दायविभागः, याश् चानपत्याः स्त्रियस् तासाम् आ पुत्रलाभात्" (व०ध० १७.४०–४१) इति । गृहीतगर्भाणाम् आ प्रसवात् प्रतीक्षणम् इति योजनीयम् ॥ २.१२२ ॥

विभक्तजः पित्र्यं मातृकं च सर्वं धनं गृह्नातीत्युक्तम् । तत्र यदि विभक्तः पिता माता वा विभक्ताय पुत्राय स्नेहवशाद् आभरणादिकं प्रयच्छति तदा विभक्तजेन दानप्रतिषेधो न कर्तव्यो नापि दत्तं प्रत्याहर्तव्यम् इत्य् आह ।

पितृभ्यां यस्य यद् दत्तं तत् तस्यैव धनं भवेत् । या०ध०२.१२३अब्

मातापितृभ्यां विभक्ताभ्यां पूर्वं विभक्तस्य पुत्रस्य यद् दत्तम् अलंकारादि तत् तस्यैव न विभक्तजस्य स्वं भवति । न्यायसाम्याद् विभागात् प्राग् अपि यस्य यद् दत्तं तत् तस्यैव । तथा असति विभक्तजे विभक्तयोः पित्रोर् अंशं तद् ऊर्ध्वं विभजतां यस्य यद् दत्तं तत् तस्यैव नान्यस्येति वेदितव्यम् ॥

जीवद्विभागे स्वपुत्रसमांशित्वं पत्नीनाम् उक्तं "यदि कुर्यात् समान् अंशान्" (या०ध० २.११५) इत्यादिना । पितुर् ऊर्ध्वं विभागेऽपि पत्नीनां स्वपुत्रसमांशित्वं दर्शयितुम् आह ।

पितुर् ऊर्ध्वं विभजतां माताप्य् अंशं समं हरेत् ॥ या०ध०२.१२३च्द्

पितुर् ऊर्ध्वं पितुः प्रायणाद् ऊर्ध्वं विभजतां मातापि स्वपुत्रांशसमम् अंशं हरेत् यदि स्त्रीधनं न दत्तम् । दत्ते त्व् अर्धांशहारिणीति वक्ष्यते ॥ २.१२३ ॥

पितरि पेते यद्य् असंस्कृता भ्रातरः सन्ति, तदा तत्संस्कारे कोऽधिक्रियत इत्य् अत आह ।

असंस्कृतास् तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः । या०ध०२.१२४अब्

पितुर् ऊर्ध्वं विभजद्भिर् भ्रातृभिर् असंस्कृता भ्रातरः समुदायद्रव्येण संस्कर्तव्याः ।

असंस्कृतासु भगिनीषु विशेषम् आह ।

भगिन्यश् च निजाद् अंशाद् दत्त्वांशं तु तुरीयकम् ॥ या०ध०२.१२४च्द्

अस्यार्थः । भगिन्यश् चासंस्कृताः संस्कर्तव्या भ्रातृभिः । किं कृत्वा । निजाद् अंशाच् चतुर्थम् अंशं दत्त्वा । अनेन दुहितरोऽपि पितुर् ऊर्ध्वम् अंशभागिन्य इति गम्यते । तत्र "निजाद् अंशाद्" इति प्रत्येकं परिकल्पिताद् अंशाद् उद्धृत्य चतुर्थांशो दातव्य इत्य् अयम् अर्थो न भवति किं तु यज्जातीया कन्या तज्जातीयपुत्रभागाच् चतुर्थांशभागिनी सा कर्तव्या । एतद् उक्तं भवति । यदि ब्राह्मणी सा कन्या तदा ब्राह्मणीपुत्रस्य यावान् अंशो भवति तस्य चतुर्थांशस् तस्या भवति । तद् यथा । यदि कस्यचिद् ब्राह्मणस्यैका पत्नी पुत्रश् चैकः कन्या चैका तत्र पित्र्यं सर्वम् एव द्रव्यं द्विधा विभज्य तत्रैकं भागं चतुर्धा विभज्य तुरीयम् अंशं कन्यायै दत्त्वा शेषं पुत्रो गृह्नीयात् । यदा तु द्वौ पुत्रौ एका च कन्या तदा पितृधनं सर्वं त्रिधा विभज्य एकं भागं चतुर्धा विभज्य तुरीयम् अंशं कन्यायै दत्त्वा शेषं द्वौ पुत्रौ विभज्य गृह्नीतः ॥ अथ त्व् एकः पुत्रो द्वे कन्ये तदा पित्र्यं धनं त्रिधा विभज्य एकं भागं चतुर्धा विभज्य तत्र द्वौ भागौ द्वाभ्यां कन्याभ्यां दत्त्वावशिष्टं सर्वं पुत्रो गृह्नातीत्य् एवं समानजातीयेषु समविषमेषु भ्रातृषु भगिनीषु च योजनीयम् । यदा तु ब्राह्मणीपुत्र एकः क्षत्रियाकन्या चैका तत्र पितृधनं सप्तधा विभज्य क्षत्रियापुत्रभागांस् त्रींश् चतुर्धा विभज्य तुरीयांशं क्षत्रियाकन्यायै दत्त्वा शेषं ब्राह्मणीपुत्रो गृह्नाति । यत्र तु द्वौ ब्राह्मणीपुत्रौ क्षत्रियाकन्या चैका तत्र पित्र्यं धनम् एकादशधा विभज्य तेषु त्रीन् अंशान् क्षत्रियापुत्रभागांश् चतुर्धा विभज्य चतुर्थम् अंशं क्षत्रियाकन्यायै दत्त्वा शेषं सर्वं ब्राह्मणीपुत्रौ विभज्य गृह्नीतः ॥ एवं जातिवैषम्ये भ्रातॄणां भगिनीनां च संख्यायाः साम्ये वैषम्ये च सर्वत्रोहनीयम् । न च "निजाद् अंशाद् दत्त्वांशं तु तुरीयकम्" इति तुरीयांशाविवक्षया संस्कारमात्रोपयोगि द्रव्यं दत्त्वेति व्याख्यानं युक्तम्, मनुवचनविरोधात् ।

"स्वेभ्योऽंशेभ्यस् तु कन्याभ्यः प्रदद्युर् भ्रातरः प्रथक् ।
स्वात् स्वाद् अंशाच् चतुर्भागं पतिताः स्युर् अदित्सवः ॥" इति । (मा०ध० ९.११८)

अस्यार्थः । ब्राह्मणादयो भ्रातरो ब्राह्मणीप्रभृतिभ्यो भगिनीभ्यः स्वेभ्यः स्वजातिविहितेभ्योऽंशेभ्यः "चतुरोऽंशान् हरेद् विप्रः" इत्यादिवक्ष्यमाणेभ्यः स्वात् स्वाद् अंशाद् आत्मीयाद् आत्मीयाद् भागाच् चतुर्थं चतुर्थं भागं दद्युः । न चात्रात्मीयभागाद् उद्धृत्य चतुर्थांशो देय इत्य् उच्यते किं तु स्वजातिविहिताद् एकस्माद् एकस्माद् अंशात् पृथक् पृथग् एकस्याप्य् एकस्यै कन्यायै चतुर्थोऽंशो देय इति जातिवैषम्ये संख्यावैषम्ये च विभागकॢप्तिर् उक्तैव । "पतिताः स्युर् अदित्सवः" इत्य् अकरणे प्रत्यवायश्रवणाद् अवश्यंदातव्यता प्रतीयते । अत्रापि चतुर्थभागवचनम् अविवक्षितं संस्कारमात्रोपयोगिद्रव्यदानम् एव विवक्षितम् इति चेन् न, स्मृतिद्वयेऽपि चतुर्थांशदानाविवक्षायां प्रमाणाभावाद्, अदाने प्रत्यवायश्रवणाच् चेति । यद् अपि कैश्चिद् उच्यते : अंशदानविवक्षायां बहुभ्रातृकायाः बहुधनत्वं बहुभगिनीकस्य च निर्धनता प्राप्नोतीति तद् उक्तरीत्या परिहृतम् एव । न ह्य् अत्रात्मीयाद् भागाद् उद्धृत्य चतुर्थांशस्य दानम् उच्यते येन तथा स्यात् । अतः असहायमेधातिथिप्रभृतीनां व्याख्यानम् एव चतुरस्रं न भारुचेः । तस्मात् पितुर् ऊर्ध्वं कन्याप्य् अंशभागिनी पूर्वं चेद् यत् किंचित् पिता ददाति तद् एव लभते विशेषवचनाभावाद् इति सर्वम् अनवद्यम् ॥ २.१२४ ॥

एवं "विभागं चेत् पिता कुर्यात्" या०ध० २.११४) इत्यादिना प्रबन्धेन समानजातीयानां भ्रातॄणां परस्परं पित्रा सह विभागकॢप्तिर् उक्ता । अधुना भिन्नजातीयानां विभागम् आह ।

चतुस्त्रिद्व्येकभागाः स्युर् वर्णशो ब्राह्मणात्मजाः ।
क्षत्रजास् त्रिद्व्येकभागा विड्जास् तु द्व्येकभागिनः ॥ या०ध०२.१२५

"तिस्रो वर्णानुपूर्व्येण" (या०ध० १.१७) इति ब्राह्मणस्य चतस्रः क्षत्रियस्य तिस्रो वैश्यस्य द्वे शूद्रस्यैकेति भार्या दर्शिताः । तत्र ब्राह्मणात्मजा ब्राह्मणोत्पन्ना वर्णशः वर्णशब्देन ब्राह्मणादिवर्णाः स्त्रिय उच्यते । "संख्यैकवचनाच् च वीप्सायाम्" (ढ़ाण् ५.४.४३) इत्य् अधिकरणकारकाद् एकवचनाद् वीप्सायां शस् । अतश् च वर्णे वर्णे ब्राह्मणोत्पन्नाः यथाक्रमं चतुस्त्रिद्व्येकभागाः स्युर् भवेयुः । एतद् उक्तं भवति । ब्राह्मणेन ब्राह्मण्याम् उत्पन्ना एकैकशश् चतुरश् चतुरो भागांल् लभन्ते । तेनैव क्षत्रियायाम् उत्पन्नाः प्रत्येकं त्रींस्त्रीन् वैश्यायां द्वौ द्वौ शूद्रायाम् एकम् एकम् इति । क्षत्रजाः क्षत्रियेणोत्पन्नाः वर्णश इत्य् अनुवर्तते यथाक्रमं त्रिद्व्येकभागाः । क्षत्रियेण क्षत्रियायाम् उत्पन्नाः प्रत्येकं त्रींस्त्रीन्, वैश्यायां द्वौ द्वौ, शूद्रायाम् एकम् एकम् । विड्जाः वैष्येनोत्पन्नाः । अत्रापि वर्णश इत्य् अनुवर्तते यथाक्रमं द्व्येकभागिनः । वैश्येन वैश्यायाम् उत्पन्नाः प्रत्येकं द्वौ द्वौ भागौ लभन्ते । शूद्रायाम् एकम् एकम् । शूद्रस्यैकैव भार्येति भिन्नजातीयपुत्राभावात् तत्पुत्राणां पूर्वोक्त एव विभागः । यद्य् अपि चतुस्त्रिद्व्येकभागा इत्य् अविशेषेणोक्तं तथापि प्रतिग्रहप्राप्तभूव्यतिरिक्तविषयम् इदं द्रष्टव्यम् । यतः स्मरन्ति ।

"न प्रतिग्रहभूर् देया क्षत्रियादिसुताय वै ।
यद्य् अप्य् एषा पिता दद्यान् मृते विप्रासुतो हरेत् ॥" इति । (बृ०स्मृ० १.२६.१२१)

प्रतिग्रहणात् क्रयादिनालब्धा भूः क्षत्रियादिसुतानाम् अपि भवत्य् एव । शूद्रापुत्रस्य विशेषपतिषेधाच् च :

"शुद्र्यां द्विजातिभिर् जातो न भूमेर् भागम् अर्हति ।" इति । (बृ०स्मृ० १.२६.१२२)

यदि क्रयादिप्राप्ता भूः क्षत्रियादिसुतानां न भवेत् तदा शूद्रापुत्रस्य विशेषप्रेतिषेधो नोपपद्यते । यत् पुनः,

"ब्राह्मणक्षत्रियविषां शूद्रापुत्रो न रिक्थभाक् ।
यद् एवास्य पिता दद्यात् तद् एवास्य धनं भवेत् ॥" (मा०ध० ९.१५५)

इति तद् अपि जीवता पित्रा यदि शूद्रापुत्राय किम् अपि प्रदत्तं स्यात् तद्विषयम् । यदा तु प्रसाददानं नास्ति तदैकांशभागित्यविरुद्धम् ॥ २.१२५ ॥

अथ सर्वविभागशेषं किंचिद् उच्यते ।

अन्योन्यापहृतं द्रव्यं विभक्ते यत् तु दृश्यते ।
तत् पुनस् ते समैर् अंशैर् विभजेरन्न् इति स्थितिः ॥ या०ध०२.१२६

परस्परापहृतं समुदायद्रव्यं विभागकाले चाज्ञातं विभक्ते पितृधने यद् दृश्यते तत् समैर् अंशैर् विभजेरन्न् इत्येवं स्थितिः शास्त्रमर्यादा । अत्र "समैर् अंशैः" इति वदतोद्धारविभागो निषिद्धः । विभजेरन्न् इति वदता येन दृश्यते तेनैव न ग्राह्यम् इति दर्शितम् । एवं च वचनस्यार्थवत्त्वान् न समुदायद्रव्यापहारे दोषाभावपरत्वम् ।

ननु मनुना ज्येष्टस्यैव समुदायद्रव्यापहारे दोषो दर्शितो न कनीयसाम्,

"यो ज्येष्टो विनिकुर्वीत लोभाद् भ्रातॄन् यवीयसः ।
सोऽज्येष्टः स्याद् अभागश् च नियन्तव्यश् च राजभिः ॥" (मा०ध० ९.२१३)

इति वचनात् ।

नैतत् । यतः संभावितस्वातन्त्र्यस्य पितृस्थानीयस्य ज्येष्टस्यापि दोषं वदता ज्येष्टपरतन्त्राणां कनीयसां पुत्रस्थानीयानां "दण्डापूपिकनीत्या" For this मxइम्, see ञचोब्, आ ःन्द्fउल् ओf ढ़ोपुलर् ंxइम्स् (Bओम्बय् १९०७), ढ़र्त् ई, प्. २९. सुतरां दोषो दर्शित एव । तथा चाविशेषेणैव दोषः श्रूयते ।ःेरे NSP and Pandeya add : गौतमः, अस् इf this चिततिओन् is fरोम् the गौ०ध०, बुत् it is नोत्. Oमित्तेद् by Seltur. "यो वै भागिनं भागान् नुदते चयते चैनं स यदि वैनं न चयतेऽथ पुत्रम् अथ पौत्रं चयते" (ऐतरेय ब्राह्मण ६.७ ; ध०को० १५७०) इति । यो भागिनं भागार्हं भागान् नुदते भागाद् अपाकरोति भागं तस्मै न प्रयच्छति स भागान् नुन्न एनं चोत्तारं चयते नाशयति दोषिणं करोति । यदि तं न नाशयति तदा तस्य पुत्रं पौत्रं वा नाशयतीति ज्येष्ठविशेषम् अन्तरेणैव साधारणद्रव्यापहारिणो दोषः श्रुतः ।

अथ साधारणं द्रव्यम् आत्मनोऽपि स्वं भवतीति स्वबुद्ध्या गृह्यमाणं न दोषम् आवहतीति मतम् ।

तद् असत् । स्वबुद्ध्या गृहीतेऽप्य् अवर्जनीयतया परस्वम् अपि गृहीतम् एवेति निषेधानुप्रवेशाद् दोषम् आवहत्य् एव । यथा मौद्गे चरौ विपन्ने सदृशतया माषेषु गृह्यमाणेषु "अयज्ञिया वै माषाः" इति निषेधो न प्रविशति, मुद्गावयवबुद्ध्या गृह्यमाणत्वाद् इति पूर्वपक्षिणोक्ते मुद्गावयवेषु गृह्यमाणेष्व् अवर्जनीयतया माषाव्यवा अपि गृह्यन्त एवेति निषेधः प्रविशत्य् एवेति राद्धान्तिनोक्तम् । तस्माद् वचनतो न्यायतश् च साधारणद्रव्यापहारे दोषोऽस्त्य् एवेति सिद्धम् ॥ २.१२६ ॥

द्व्यामुष्यायणस्य भागविशेषं दर्शयंस् तस्य स्वरूपम् आह ।

अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः ।
उभयोर् अप्य् असौ रिक्थी पिण्डदाता च धर्मतः ॥ या०ध०२.१२७

"अपुत्रां गुर्वनुज्ञातः" (या०ध० १.६८) इत्याद्युक्तविधिना अपुत्रेण देवरादिना परक्षेत्रे परभार्यायां गुरुनियोगेनोत्पादितः पुत्र उभयोर् बीजिक्षेत्रिणोर् असौ रिक्थी रिक्थहारी पिण्डदाता च धर्मत इति । अस्यार्थः : यदासौ नियुक्तो देवरादिः स्वयम् अप्य् अपुत्रोऽपुत्रस्य क्षेत्रे स्वपरपुत्रार्थं प्रवृत्तो यं जनयति स द्विपितृको द्व्यामुष्यायाणो द्वयोर् अपि रिक्थहारी पिण्डदाता च । यदा तु नियुक्तः पुत्रवान् केवलं क्षेत्रिणः पुत्रार्थं प्रयतते तदा तदुत्पन्नः क्षेत्रिण एव पुत्रो भवति न बीजिनः । स च न नियमेन बीजिनो रिक्थहारी पिण्डदो वेति । यथोक्तं मनुना :

"क्रियाभ्युपगमात् क्षेत्रं बीजार्थं यत् प्रदीयते ।
तस्येह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च ॥" इति । (मा०ध० ९.५३)

क्रियाभ्युपगमाद् इत्य् अत्रोत्पन्नम् अपत्यम् आवयोर् उभयोर् अपि भवत्व् इति संविदङ्गीकरणाद् यत् क्षेत्रं क्षेत्रस्वामिना बीजावपनार्थं बीजिने दीयते तत्र तस्मिन् क्षेत्रे उत्पन्नस्यापत्यस्य बीजिक्षेत्रिणौ भागिनौ स्वामिनौ दृष्टौ महर्षिभिः । तथा :

"फलं त्व् अनभिसंधाय क्षेत्रिणा बीजिना तथा ।
प्रत्यक्षं क्षेत्रिणाम् अर्थो बीजाद् योनिर् बलीयसी ॥" इति । (मा०ध० ९.५२)

"फलं त्व् अनभिसंधाय" इति : अत्रोत्पन्नम् अपत्यम् आवयोस् उभयोर् अस्त्व् इत्येवम् अनभिसंधाय परक्षेत्रे यद् अपत्यम् उत्पाद्यते तद् अपत्यं क्षेत्रिण एव, यतो "बीजाद् योनिर् बलीयसी," गवाश्वादिषु तथा दर्शनात् । अत्रापि नियोगो वाग्दत्ताविषय एव, इतरस्य नियोगस्य मनुना निषिद्धत्वात् ।

"देवराद् वा सपिण्डाद् वा स्त्रिया सम्यङ् नियुक्तया ।
प्रजेप्सिताधिगन्तव्या सन्तानस्य परिक्षये ॥
विधवायां नियुक्तस् तु घृताक्तो वाग्यतो निशि ।
एकम् उत्पादयेत् पुत्रं न द्वितीयं कथंचन ॥" (मा०ध० ९.५९–६०)

इत्य् एवं नियोगम् उपन्यस्य, मनुः स्वयम् एव निषेधति :

"नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः ।
अन्यस्मिन् हि नियुञ्जाना धर्मं हन्युः सनातनम् ॥
नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्वचित् ।
न विवाहविधाव् उक्तं विधवावेदनं पुनः ॥
अयं द्विजैर् हि विद्वद्भिः पशुधर्मो विगर्हितः ।
मनुश्याणाम् अपि प्रोक्तो वेने राज्यं प्रशासति ॥
स महीम् अखिलां भुञ्जन् राजर्षिप्रवरः पुरा ।
वर्णानां संकरं चक्रे कामोपहतचेतनः ॥
ततः प्रभृति यो मोहात् प्रमीतपतिकां स्त्रियम् ।
नियोजयत्य् अपत्यार्थे गर्हन्ते तं हि साधवः ॥" इति ॥ (मा०ध० ९.६४–६८)

न च विहितप्रतिषिद्धत्वाद् विकल्प इति मन्तव्यम्, नियोक्तॄणां निन्दाश्रवणात्, स्त्रीधर्मेषु व्यभिचारस्य बहुदोषश्रवणात्, संयमस्य प्रशस्तत्वाच् च । यथाह मनुर् एव,

"कामं तु क्षपयेद् देहं पुष्पमूलफलैः शुभैः ।
न तु नामापि गृह्णीयात् पत्यौ प्रेते परस्य तु ॥" (मा०ध० ५.१५७)

इति जीवनार्थं पुरुषान्तराश्रयणं प्रतिषिद्ध्य,

"आसीत आ मरणात् क्षान्ता नियता ब्रह्मचारिणी ।
यो धर्म एकपत्नीनां काङ्क्षन्ती तम् अनुत्तमम् ॥
अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् ।
दिवं गतानि विप्राणाम् अकृत्वा कुलसंततिम् ॥
मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता ।
स्वर्गं गच्छत्य् अपुत्रापि यथा ते ब्रह्मचारिणः ॥
अपत्यलोभाद् या तु स्त्री भर्तारम् अतिवर्तते ।
सेह निन्दाम् अवाप्नोति परलोकाच् च हीयते ॥" (मा०ध० ५.१५८–६१)

इति पुत्रार्थम् अपि पुरुषान्तराश्रयणं निषेधति । तस्माद् विहितप्रतिषिद्धत्वाद् विकल्प इति न युक्तम् ॥ एवं विवाहसंस्कृतानियोगे प्रतिषिद्धे कस् तर्हि धर्म्यो नियोग इत्य् अत आह :

"यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः ।
ताम् अनेन विधानेन निजो विन्देत देवरः ॥
यथाविध्य् अधिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् ।
मिथो भजेताप्रसवात् सकृत् सकृद् ऋताव् ऋतौ ॥" इति । (मा०ध० ९.६९–७०)

यस्मै वाग्दत्ता कन्या स प्रतिग्रहम् अन्तरेणैव तस्याः पतिर् इत्य् अस्माद् एव वचनाद् अवगम्यते । तस्मिन् प्रेते देवरस् तस्य ज्येष्टः कनिष्ठो वा निजः सोदरो विन्देत परिणयेत् । यथाविधि यथाशास्त्रम् अधिगम्य परिणीय अनेन विधानेन घृताभ्यङ्गवाङ्नियमादिना शुक्लवस्त्रां शुचिव्रतां मनोवाक्कायसंयतां मिथो रहस्य् आ गर्भग्रहणात् प्रत्यृत्व् एकवारं गच्छेत् । अयं च विवाहो वाचनिको घृताभ्यङ्गादिनियमवन् नियुक्ताभिगमनाङ्गम् इति न देवरस्य भार्यात्वम् आपादयति । अतस् तदुत्पन्नम् अपत्यं क्षेत्रस्वामिन एव भवति न देवरस्य । संविदा तूभयोर् अपि ॥ २.१२७ ॥

समानासमानजातीयानां पुत्राणां विभागकॢप्तिर् उक्ता । अधुना मुख्यगौणपुत्राणां दायग्रहणव्यवस्थां दर्शयिष्यंस् तेषां स्वरूपं तावद् आह ।

औरसो धर्मपत्नीजस् तत्समः पुत्रिकासुतः ।
क्षेत्रजः क्षेत्रजातस् तु सगोत्रेणेतरेण वा ॥ या०ध०२.१२८

उरसो जात औरसः पुत्रः स च धर्मपत्नीजः सवर्णा धर्मविवाहोढा धर्मपत्नी तस्यां जात औरसः पुत्रो मुख्यः । "तत्समः पुत्रिकासुतः" तत्सम औरससमः पुत्रिकायाः सुतः पुत्रिकासुतः । अत एवौरससमः । यथाह वसिष्ठः ।

"अभ्रातृकां प्रदास्यामि तुभ्यं कन्याम् अलंकृताम् ।
अस्यां यो जायते पुत्रः स मे पुत्रो भवेद् इति ॥" इति । (व०ध० १७.१७)

अथ वा पुत्रिकैव सुतः पुत्रिकासुतः सोऽप्य् औरससम एव पित्रवयवानाम् अल्पत्वात् मात्रवयवानां बाहुल्याच् च । यथाह वसिष्ठः : "तृतीयः NSP and सेवेरल् mss (see Seltur, प्. ६९०) read : द्वितीयः. पुत्रिकैव" इति । तृतीयःषेए previous note. पुत्रः पुत्रिकैवेत्य् अर्थः । द्व्यामुष्यायणस् तु जनकस्यौरसाद् अपकृष्टोऽन्यक्षेत्रोत्पन्नत्वात् । "क्षेत्रजः क्षेत्रजातस् तु सगोत्रेणेतरेण वा" : इतरेण सपिण्डेन देवरेण वोत्पन्नः पुत्रः क्षेत्रजः ॥ २.१२८ ॥

गृहे प्रच्छन्न उत्पन्नो गूढजस् तु सुतः स्मृतः ।
कानीनः कन्यकाजातो मातामहसुतो मतः ॥ या०ध०२.१२९

गूढजः पुत्रो भर्तृगृहे प्रच्छन्न उत्पन्नो हीनाधिकजातीयपुरुषजत्वपरिहारेण पुरुषविशेषजत्वनिश्चयाभावेऽपि सवर्णजत्वनिश्चये सति बोद्धव्यः । कानीनस् तु कन्यकायाम् उत्पन्नः पूर्ववत् सवर्णासु मातामहस्य पुत्रः । यद्य् अनूढा सा भवेत् तथा पितृगृह एव संस्थिता । अथोढा तदा वोढुर् एव पुत्रः । यथाह मनुः ।

"पितृवेश्मनि कन्या तु यं पुत्रं जनयेद् रहः ।
तं कानीनं वदेन् नाम्ना वोढुः कन्यासमुद्भवम् ॥" इति ॥ (मा०ध० ९.१७२) २.१२९

अक्षतायां क्षतायां वा जातः पौनर्भवः सुतः ।
दद्यान् माता पिता वा यं स पुत्रो दत्तको भवेत् ॥ या०ध०२.१३०

पौनर्भवस् तु पुत्रोऽक्षतायां क्षतायां वा पुनर्भ्वां सवर्णाद् उत्पन्नः । मात्रा भर्त्रनुज्ञया प्रोषिते प्रेते वा भर्तरि पित्रा वोभाभ्यां वा सवर्णाय यस्मै दीयते स तस्य दत्तकः पुत्रः । यथाह मनुः ।

"माता पिता वा दद्यातां यम् अद्भिः पुत्रम् आपदि ।
सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमः सुतः ॥" इति । (मा०ध० ९.१६८)

आपद्ग्रहणाद् अनापदि न देयः । दातुर् अयं प्रतिषेधः । तथा एक पुत्रो न देयः । "न त्व् एवैकं पुत्रं दद्यात् प्रतिगृह्नीयाद् वा" (व०ध० १५.३) इति वसिष्ठस्मरणात् । तथानेकपुत्रसद्भावेऽपि ज्येष्ठो न देयः ।

"ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः ।" (मा०ध० ९.१०६)

इति तस्यैव पुत्रकार्यकरणे मुख्यत्वात् । पुत्रप्रतिग्रहप्रकारश् च "पुत्रं प्रतिग्रहीष्यन् बन्धून् आहूय राजनि चावेद्य निवेशनमध्ये व्याहृतिभिर् हुत्वा अदूरबान्धवं बन्धुसंनिकृष्ट एव प्रतिगृह्नीयात्" (व०ध० १५.६) इति वसिष्ठेनोक्तः । अदूरबान्धवम् इत्य् अत्यन्तदेशभाषाविप्रकृष्टस्य प्रतिषेधः । एवं क्रीतस्वयंदत्तकृत्रिमेष्व् अपि योजनीयम्, समानन्यायत्वात् ॥ २.१३० ॥

क्रीतश् च ताभ्यां विक्रीतः कृत्रिमः स्यात् स्वयंकृतः ।
दत्त्वात्मा तु स्वयंदत्तो गर्भे विन्नः सहोढजः ॥ या०ध०२.१३१

क्रीतस् तु पुत्रस् ताभ्यां मातापितृभ्यां मात्रा पित्रा वा विक्रीतः पूर्ववत् तथाइकं पुत्रं ज्येष्ठं च वर्जयित्वा आपदि सवर्ण इत्य् एव । यत् तु मनुनोक्तम्,

"क्रीणीयाद् यस् त्व् अपत्यार्थं मातापित्रोर् यम् अन्तिकात् ।
स क्रीतकः सुतस् तस्य सदृशोऽसदृशोऽपि वा ॥" (मा०ध० ९.१७४)

इति तद्गुणैह् सदृशोऽसदृशो वेति व्याख्येयं न जात्या, "सजातीयेष्व् अयं प्रोक्तस् तनयेषु" (या०ध० २.१३३) इत्य् उपसंहारात् । "कृत्रिमः स्यात् स्वयंकृतः" : कृत्रिमस् तु पुत्रः स्वयं पुत्रार्थिना धनक्षेत्रप्रदर्शनादिप्रलोभेनैव पुत्रीकृतो मातापितृविहीनः तत्सद्भावे तत्परतन्त्रत्वात् । दत्तात्मा तु पुत्रो यो मातापितृविहीनस् ताभ्यां त्यक्तो वा तवाहं पुत्रो भवामीति स्वयंदत्तत्वम् उपगतः । सहोढजस् तु गर्भे स्थितो गर्भिण्यां परिणीतायां यः परिणीतः स वोढुः पुत्रः ॥ २.१३१ ॥

उत्सृष्टो गृह्यते यस् तु सोऽपविद्धो भवेत् सुतः । या०ध०२.१३२अब्

अपविद्धो मातापितृभ्याम् उत्सृष्टो यो गृह्यते स ग्रहीतुः पुत्रः सर्वत्र सवर्ण इत्य् एव ॥

एवं मुख्यामुख्यपुत्रान् अनुक्रम्यैतेषां दायग्रहणे क्रमम् आह ।

पिण्डदोऽंशहरश् चैषां पूर्वाभावे परः परः ॥ या०ध०२.१३२च्द्

एतेषां पूर्वोक्तानां पुत्राणां द्वादशानां पूर्वस्य पूर्वस्याभावे उत्तर उत्तरः श्राद्धदोऽंशहरो धनहरो वेदितव्यः । औरसपौत्रिकेयसमवाये औरसस्यैव धनग्रहणे प्राप्ते मनुर् अपवादम् आह ।

"पुत्रिकायां कृतायां तु यदि पुत्रोऽनुजायते ।
समस् तत्र विभागः स्याज् ज्येष्ठता नास्ति हि स्त्रियाः ॥" इति । मा०ध० ९.१३४)

तथा अन्येषाम् अपि पूर्वस्मिन् पूर्वस्मिन् सत्य् अप्य् उत्तरेषां पुत्राणां चतुर्थांशभागित्वम् उक्तं वसिष्ठेन । तस्मिंश् चेत् प्रतिगृहीते औरस उत्पद्येत चतुर्थभागभागी स्याद् दत्तक इति । दत्तकग्रहणं क्रीतकृत्रिमादीनां प्रदर्शनार्थम्, पुत्रीकरणाविशेषात् । तथा च कात्यायनः :

"उत्पन्ने त्व् औरसे पुत्रे चतुर्थांशहराः सुताः ।
सवर्णा असवर्णास् तु ग्रासाच्छादनभाजनाः ॥" इति । (का०स्मृ० ८५७)

सवर्णा दत्तकक्षेत्रजादयस् ते सत्य् औरसे चतुर्थांशहराः । असवर्णाः कानीनगूढोत्पन्नसहोढजपौनर्भवास् ते त्व् औरसे सति न चतुर्थांशहराः किं तु ग्रासाच्छादनभाजनाः । यद् अपि विष्णुवचनम्,

"अप्रशस्तास् तु कानीनगूढोत्पन्नसहोढजाः ।
पौनर्भवश् च नैवैते पिण्डरिक्थांशभागिनः ॥" (ध०को० १३९०)

इति, तद् अप्य् औरसे सति चतुर्थांशनिषेधपरम् एव । औरसाद्यभावे तु कानीनादीनाम् अपि सकलपित्र्यधनग्रहणम् अस्त्य् एव, "पूर्वाभावे परः परः" इति वचनात् ॥ यद् अपि मनुवचनम्,

"एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः ।
शेषाणाम् आनृशंस्यार्थं प्रदद्यात् तु प्रजीवनम् ॥" (मा०ध० ९.१६३)

इति तद् अपि दत्तकादीनाम् औरसप्रतिकूलत्वे निर्गुणत्वे च वेदितव्यम् । तत्र क्षेत्रजस्य विशेषो दर्शितस् तेनैव ।

"षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात् पैतृकाद् धनात् ।
औरसो विभजन् दायं पित्र्यं पञ्चमम् एव वा ॥" इति । (मा०ध० ९.१६४)

प्रतिकूलत्वनिर्गुणत्वसमुच्चये षष्टम् अंशम्, एकतरसद्भावे पञ्चमम् इति विवेक्तव्यम् । यद् अपि मनुना पुत्राणां षट्कद्वयम् उपन्यस्य पूर्वषट्कस्य दायादबान्धवत्वं, उत्तरषट्कस्यादायादबान्धवत्वम् उक्तम्,

"औरसः क्षेत्रजश् चैव दत्तः कृत्रिम एव च ।
गूढोत्पन्नोऽपविद्धश् च दायादा बान्धवाश् च षट् ॥
कानीनश् च सहोढश् च क्रीतः पौनर्भवस् तथा ।
स्वयंदत्तश् च शौद्रश् च षड् अदायादबान्धवाः ॥" (मा०ध० ९.१५९–६०)

इति, तद् अपि स्वपितृसपिण्डसमानोदकानां संनिहितरिक्थहरान्तराभावे पूर्वषट्कस्य तद्रिक्थहरत्वम् उत्तरषट्कस्य तु तन् नास्ति । बान्धवत्वं पुनः समानगोत्रत्वेन सपिण्डत्वेन चोदकप्रदानादिकार्यकरत्वं वर्गद्वयस्यापि समम् एवेति व्याख्येयम् ।

"गोत्ररिक्थे जनयितुर् न भजेद् दत्त्रिमः सुतः ।
गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा ॥" (मा०ध० ९.१४२)

इत्य् अत्र दत्रिमग्रहणस्य पुत्रप्रतिनिधिप्रदर्शनार्थत्वात् । पितृधनहारित्वं तु पूर्वस्य पूर्वस्याभावे सर्वेषाम् अविशिष्टम्,

"न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः ।" (मा०ध० ९.१८५)

इत्य् औरसव्यतिरिक्तानां पुत्रप्रतिनिधीनां सर्वेषां रिक्थहारित्वप्रतिपादनपरत्वात् । औरसस्य तु,

"एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः ।" (मा०ध० ९.१६३)

इत्य् अनेनैव रिक्थभाक्त्वस्योक्तत्वात्, दायादशब्दस्य "दायादान् अपि दापयेत्" इत्यदौ पुत्रव्यतिरिक्तरिक्थभाग्विषयत्वेन प्रसिद्धत्वाच् च । वासिष्ठादिषु वर्गद्वयेऽपि कस्यचिद् व्यत्ययेन पाठो गुणवदगुणवद्विषयो वेदितव्यः । गौतमीये (गौ०ध० २८.३२–३५) तु पौत्रिकेयस्य दशमत्वेन पाठो विजातीयविषयः । तस्मात् स्थितम् एतत् पूर्वपूर्वाभावे परः परोऽंशभाग् इति ॥ यत् तु,

"भ्रातॄणाम् एकजातानाम् एकश् चेत् पुत्रवान् भवेत् ।
सर्वे ते तेन पुत्रेण पुत्रिणो मनुर् अब्रवीत् ॥" (मा०ध० ९.१८२)

इति, तद् अपि भ्रातृपुत्रस्य पुत्रीकरणसंभवेऽन्येषां पुत्रीकरणनिषेधार्थम्, न पुनः पुत्रत्वप्रतिपादनाय, "तत्सुता गोत्रजा बन्धुः" इत्य् अनेन विरोधात् ॥ २.१३२ ॥

इदानीम् उक्तोपसंहारव्याजेन तत्रैव नियमम् आह ।

सजातीयेष्व् अयं प्रोक्तस् तनयेषु मया विधिः । या०ध०२.१३३अब्

समानजातीयेष्व् एव पुत्रेषु अयं पूर्वाभावे परः पर इत्य् उक्तो विधिः न भिन्नजातीयेषु । तत्र च कानीनगूढोत्पन्नसहोढजपौनर्भवाणां सवर्णत्वं जनकद्वारेण न स्वरूपेण । तेषां, वर्णजातिलक्षणाभावस्योक्तत्वात् । तथानुलोमजानां मूर्धावसिक्तादीनाम् औरसेष्व् अन्तर्भावात् तेषाम् अप्य् अभावे क्षेत्रजादीनां दायहरत्वं बोद्धव्यम् । शूद्रापुत्रस् त्व् औरसोऽपि कृत्स्नं भागम् अन्याभावेऽपि न लभते । यथाह मनुः ।

"यद्य् अपि स्यात् तु सत्पुत्रो यद्य् अपुत्रोऽपि वा भवेत् ।
नाधिकं दशमाद् दद्याच् छूद्रापुत्राय धर्मतः ॥" इति । (मा०ध० ९.१५४)

यदि सत्पुत्रो विद्यमानद्विजातिपुत्रो यद्य् अपुत्रोऽविद्यमानद्विजातिपुत्रो वा स्यात् तस्मिन् मृते क्षेत्रजादिर् वान्यो वा सपिण्डः शूद्रापुत्राय तद्धनाद् दशमांशाद् अधिकं न दद्याद् इत्य् अस्माद् एव क्षत्रियावैश्यापुत्रयोः सवर्णापुत्राभावे सकलधनग्रहणं गम्यते ॥

अधुना शूद्रधनविभागे विशेषम् आह ।

जातोऽपि दास्यां शूद्रेण कामतोऽंशहरो भवेत् ॥ या०ध०२.१३३च्द्

मृते पितरि कुर्युस् तं भ्रातरस् त्व् अर्धभागिकम् ।
अभ्रातृको हरेत् सर्वं दुहितॄणां सुताद् ऋते ॥ या०ध०२.१३४

शूद्रेण दास्याम् उत्पन्न पुत्रः कामतः पितुर् इच्छया भागं लभते । पितुर् ऊर्ध्वं तु यदि परिणीतापुत्रा सन्ति तदा ते भ्रातरस् तं दासीपुत्रं अर्धभागिनं कुर्युः । स्वभागाद् अर्धं दद्युर् इत्य् अर्थः । अथ परिणीतापुत्रा न सन्ति तदा कृत्स्नं धनं दासीपुत्रो गृह्नीयात् यदि परिणीतादुहितरस् तत्पुत्रा वा न सन्ति । तत्सद्भावे त्व् अर्धभागिक एव दासीपुत्रः । अत्र च शूद्रग्रहणाद् द्विजातिना दास्याम् उत्पन्नः पितुर् इच्छयाप्य् अंशं न लभते नाप्य् अर्धं, दूरत एव कृत्स्नम् । किं त्व् अनुकूलश् चेज् जीवनमात्रं लभते ॥ २.१३३ ॥ २.१३४ ॥

मुख्यगौणसुता दायं गृह्नन्तीति निरूपितम् । तेषाम् अभावे सर्वेषां दायादक्रम उच्यते ।

पत्नी दुहितरश् चैव पितरौ भ्रातरस् तथा ।
तत्सुता गोत्रजा बन्धुशिष्यसब्रह्मचारिणः ॥ या०ध०२.१३५

एषाम् अभावे पूर्वस्य धनभाग् उत्तरोत्तरः ।
स्वर्यातस्य ह्य् अपुत्रस्य सर्ववर्णेष्व् अयं विधिः ॥ या०ध०२.१३६

पूर्वोक्ता द्वादशपुत्रा यस्य न सन्त्य् असाव् अपुत्रः, तस्यापुत्रस्य स्वर्यातस्य परलोकं गतस्य धनभाक् धनग्राही एषां पत्न्यादीनाम् अनुक्रान्तानां मध्ये पूर्वस्य पूर्वस्याभाव उत्तर उत्तरो धनभाग् इति संबन्धः । सर्वेषु मूर्धावसिक्तादिषु अनुलोमजेषु प्रतिलोमजेषु वर्णेषु च ब्राह्मणादिषु अयं दायग्रहणविधिर् दायग्रहणक्रमो वेदितव्यः । तत्र प्रथमं पत्नी धनभाक् । पत्नी विवाहसंस्कृता "पत्युर् नो यज्ञसंयोगे" (ढ़ाण् ४.१.३३) इति स्मरणात् । एकवचनं च जात्यभिप्रायेण । ताश् च बह्व्यश् चेत् सजातीया विजातीयाश् च तदा यथांशं विभज्य धनं गृह्नन्ति । वृद्धमनुर् अपि पत्न्याः समग्रधनसंबन्धं वक्ति :

"अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता ।
पत्न्य् एव दद्यात् तत्पिण्डं कृत्स्नम् अंशं लभते च ॥" इति । (ध०को० १५२७)

वृद्धविष्णुर् अपि "अपुत्रधनं पत्न्यभिगामि । तदभावे दुहितृगामि । तदभावे पितृगामि । तदभावे मातृगामि" इति (ध०को० १४७०) । कात्यायनोऽपि ।

"पत्नी पत्युर् धनहरी या स्याद् अव्यभिचारिणी ।
तद् अभावे तु दुहिता यद्य् अनूढा भवेत् तदा ॥" इति । (का०स्मृ० ९२६)

तथा :

"अपुत्रस्यार्यकुलजा पत्नी दुहितरोऽपि वा ।
तदभावे पिता माता भ्राता पुत्राश् च कीर्तिताः ॥" इति । (का०स्मृ० ९२७)

बृहस्पतिर् अपि ।

"कुल्येषु विद्यमानेषु पितृभ्रातृसनाभिषु ।
असुतस्य प्रमीतस्य पत्नी तद्भागहारिणी ॥" (बृ०स्मृ० १.२६.९४)

एतद्विरुद्धानीव वाक्यानि लक्ष्यन्ते ।

"भ्रातॄणाम् अप्रजाः प्रेयात् कश्चिच् चेत् प्रव्रजेत वा ।
विभजेरन् धनं तस्य शेषास् ते स्त्रीधनं विना ॥
भरणं चास्य कुर्वीरन् स्त्रीणाम् आजीवनक्षयात् ।
रक्षन्ति शय्यां भर्तुश् चेद् आच्छिद्युर् इतरासु तु ॥" (ना०स्मृ० १३.२४–२५)

इति पत्नीसद्भावेऽपि भ्रातॄणां धनग्रहणं पत्नीनां च भरणमात्रं नारदेनोक्तम् । मनुना तु,

"पिता हरेद् अपुत्रस्य रिक्थं भ्रातर एव वा ।" (मा०ध० ९.१८५)

इत्य् अपुत्रस्य धनं पितुर् भ्रातुर् वेति दर्शितम् । तथा,

"अनपत्यस्य पुत्रस्य माता दायम् अवाप्नुयात् ।
मातर्य् अपि च वृत्तायां पितुर् माता हरेद् धनम् ॥" (मा०ध० ९.२१७)

इति मातुः पितामह्याश् च धनसंबन्धो दर्शितः । शङ्खेनापि : "स्वर्यातस्य ह्य् अपुत्रस्य भ्रातृगामि द्रव्यम् । तदभावे पितरौ हरेयातां ज्येष्ठा वा पत्नी" (ध०को० १४७१) इति भ्रातॄणां पित्रोर् ज्येष्ठायाश् च पत्न्याः क्रमेण धनसंबन्धो दर्शितः । कात्यायनेनापि ।

"विभक्ते संस्थिते द्रव्यं पुत्राभावे पिता हरेत् ।
भ्राता वा जननी वाऽथ माता वा तत्पितुः क्रमात् ॥" (का०स्मृ० ९२८)

इत्येवमादीनां विरुद्धार्थानां वाक्यानां धारेश्वरेण NSP reads wरोन्ग्ल्य् : योईश्वरेण. व्यवस्था दर्शिता "पत्नी गृह्नीयात्" इत्येतद्वचनजातं विभक्तभ्रातृस्त्रीविषयम् । सा च यदि नियोगार्थिनी भवति । कुत एतत् नियोगसव्यपेक्षायाः पत्न्या धनहरणं न स्वतन्त्रायां इति । "पिता हरेद् अपुत्रस्य" (मा०ध० ९.१८५) इत्यादिवचनात् तत्र व्यवस्थाकारणं वक्तव्यम् । नान्यद् व्यवस्थाकारणम् अस्तीति गौतमवचनाच् च "पिण्डगोत्रर्षिसंबन्धा रिक्थं भजेरन् स्त्री वानपत्यस्य बीजं लिप्सेत" इति (गौ०ध० २९.५–६) । अस्यार्थः : पिण्डगोत्रर्षिसंबन्धा अनपत्यस्य रिक्थं भजेरन् स्त्री वा रिक्थं भजेत् यदि बीजं लिप्सेतेति । मनुर् अपि,

"धनं यो बिभृयाद् भ्रातुर् मृतस्य स्त्रियम् एव च ।
सोऽपत्यं भ्रातुर् उत्पाद्य दद्यात् तस्यैव तद्धनम् ॥" (मा०ध० ९.१४६)

इत्य् अनेनैतद् दर्शयति : विभक्तधनेऽपि भ्रातर्य् उपरतेऽपत्यद्वारेणैव पत्न्या धनसंबन्धो नान्यथेति । यथाविभक्तधनेऽपि ।

"कनीयाञ् ज्येष्टभार्यायां पुत्रम् उत्पादयेद् यदि ।
समस् तत्र विभागः स्याद् इति धर्मो व्यवस्थितः ॥" इति । (मा०ध० ९.१२०)

तथा वसिष्ठोऽपि "रिक्थलोभान् नास्ति नियोगः" (व०ध० १७.६५) इति रिक्थलोभान् नियोगं प्रतिषेधयन् नियोगद्वारक एव पत्न्याः धन्संबन्धो नान्यथेति दर्शयति । नियोगाभावेऽपि पत्न्या भरणमात्रम् एव नारदवचनात्,

"भरणं चास्य कुर्वीरन् स्त्रीणाम् आजिवनक्षयात् ।" इति । (ना०स्मृ० १३.२५)

योगीष्वरेणापि किल वक्ष्यते ।

अपुत्रा योषितश् चैषां भर्तव्याः साधुवृत्तयः ।

निर्वास्या व्यभिचारिण्यः प्रतिकूलास् तथैव च ॥ इति । (या०ध० २.१४२)

अपि च । द्विजातिधनस्य यथार्थत्वात् स्त्रीणां च यज्ञेऽनधिकाराद् धनग्रहणम् अयुक्तम् । तथा च केनापि स्मृतम् ।

"यज्ञार्थे द्रव्यम् उत्पन्नं तत्रानधिकृतास् तु ये ।
अरिक्थभाजस् ते सर्वे ग्रासाच्छादनभाजनाः ॥
यज्ञार्थं विहितं वित्तं तस्मात् तद् विनियोजयेत् ।
स्थानेषु धर्मजुष्टेषु न स्त्रीमूर्खविधर्मिषु ॥" इति । (ध०को० १३९०, १४५७–८)

तद् अनुपपन्नम् । "पत्नी दुहितरः" इत्य् अत्र नियोगस्याप्रतीतेर् अप्रस्तुतत्वाच् च । अपि चेदम् अत्र वक्तव्यम् । पत्न्याः धनग्रहणे नियोगो वा निमित्तं तदुत्पन्नम् अपत्यं वा । तत्र नियोगस्यैव निमित्तत्वे अनुत्पादितपुत्राया अपि धनसंबन्धः प्राप्नोति । उत्पन्नस्य च पुत्रस्य धनसंबन्धो न प्राप्नोति । अथ तदपत्यस्यैव निमित्तत्वम् । तथा सति पुत्रस्यैव धनसंबन्धात् पत्नीति नारब्धव्यम् ।

अथ स्त्रीणां पतिद्वारको धनसंबन्धः पुत्रद्वारको वा नान्यथेति मतम् ।

तद् अप्य् असत्,

"अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतिकर्मणि ।
भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥" (मा०ध० ९.१९४)

इत्यादिविरोधात् । किं च, सर्वथा पुत्राभावे पत्नी दुहितर इत्य् आरब्धम् । तत्र नियुक्ताया धनसंबन्धं वदता क्षेत्रजस्यैव धनसंबन्ध उक्तो भवति । स च प्राग् एवाभिहित इत्य् अपुत्रप्रकरणे पत्नीति नारब्धव्यम् । "अथ पिण्डगोत्रर्षिसंबन्धा रिक्थं भजेरन् स्त्री वानपत्यस्य, बीजं वा लिप्सेत" (गौ०ध० २८.२१–२२) इति गौतमवचनान् नियुक्ताया धनसंबन्ध इति । तद् अप्य् असत् । न हि यदि बीजं लिप्सेत तदानपत्यस्य स्त्री धनं गृह्नीयाद् इत्य् अयम् अर्थोऽस्मात् प्रतीयते । किं तु "अनपत्यस्य धनं पिण्डगोत्रर्षिसंबन्धा भजेरन् स्त्री वा सा स्त्री बीजं वा लिप्सेत संयता वा भवेत्" इति तस्या धर्मान्तरोपदेशः, वाशब्दस्य पक्षान्तरवचनत्वेन यद्यर्थाप्रतीतेः । अपि च संयताया एव धनग्रहणं युक्तं न नियुक्तायाः स्मृतिलोकनिन्दितायाः ।

"अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता ।
पत्न्य् एव दद्यात् तत्पिण्डं कृत्स्नम् अंशं लभेत च ॥" (ध०को० १५२७)

इति संयताया एव धनग्रहणम् उक्तम् ॥

तथा नियोगश् च निन्दितो मनुना :

"नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः ।
अन्यस्मिन् हि नियुञ्जाना धर्मं हन्युः सनातनम् ॥" (मा०ध० ९.६४)

इत्यादिना । यत् तु वसिष्ट्ःवचनम् "रिक्थलोभान् नास्ति नियोगः" (व०ध० १७.६५) इति तद् अविभक्ते संसृष्टिनि वा भर्तरि प्रेते तस्या धनसंबन्धो नास्तीति स्वापत्यस्य धनसंबन्धार्थं नियोगो न कर्तव्य इति व्याख्येयम् । यद् अपि नारदवचनम्,

"भरणं चास्य कुर्वीरन् स्त्रीणां आजिवनक्षयात् ।" (ना०स्मृ० १३.२५)

इति तद् अपि,

"संसृष्टानां तु यो भागस् तेषाम् एव स इष्यते ।" (ना०स्मृ० १३.२३)

इति संसृष्टानां प्रस्तुतत्वात्, तत् स्त्रीणाम् अनपत्यानां भरणमात्रप्रतिपादनपरम् । न च "भ्रातॄणाम् अप्रजाः प्रेयाद्" (ना०स्मृ० १२.२४) इत्य् एतस्य संसृष्टिविषयत्वे "संसृष्टानां तु यो भागः" (ना०स्मृ० १३.२३) इत्य् अनेन पौनरुक्त्यम् आशङ्कनीयम् । यतः पूर्वोक्तिविवरणेन स्त्रीधनस्याविभाज्यत्वं तत् स्त्रीणां च भरणमात्रं विधीयते । यद् अपि "अपुत्रा योषितश् चैषाम्" (या०ध० २.१४०) इत्यादिवचनं तत् क्लीबादिस्त्रीविषयम् इति वक्ष्यते । यत् तु द्विजातिधनस्य यज्ञार्थत्वात् स्त्रीणां च यज्ञेऽनधिकाराद् धनग्रहणम् अयुक्तम् इति तद् असत्, सर्वस्य द्रव्यजातस्य यज्ञार्थत्वे दानहोमाद्यसिद्धेः । अथ यज्ञशब्दस्य धर्मोपलक्षणत्वाद् दानहोमादीनाम् अपि धर्मत्वात् तदर्थत्वम् अविरुद्धम् इति मतम् । एवं तर्ह्य् अर्थकामयोर् धनसाध्ययोर् असिद्धिर् एव स्यात् । तथा सति,

धर्मम् अर्थं च कामं च यथाशक्ति न हापयेत् । (या०ध० १.११५)

तथा, "न पूर्वाह्नमध्यन्दिनापराह्नान् अफलान् कुर्याद् यथाशक्ति धर्मार्थकामेभ्यः" (गौ०ध० ९.४६), तथा,

"न तथाइतनि शक्यन्ते संनियन्तुम् असेवया ।" (मा०ध० २.९६)

इत्यादियाज्ञवल्क्यगौतममनुवचनविरोधः । अपि च धनस्य यज्ञार्थत्वे "हिरण्यं धार्यम्" इति हिरण्यसाधारणस्य क्रत्वर्थतानिराकरणेन पुरुषार्थत्वम् उक्तम्, तत् प्रत्युद्धृतं स्यात् । किं च यज्ञशब्दस्य धर्मोपलक्षणपरत्वे स्त्रीणां अपि पूर्तधर्माधिकाराद् धनग्रहणं युक्ततरम् । यत् तु पारतन्त्र्यवचनं "न स्त्री स्वातन्त्र्यम् अर्हति" (मा०ध० ९.५) इत्यादि तद् अस्तु पारतन्त्र्यं धनस्वीकारे तु को विरोधः । कथं तर्हि "यज्ञार्थं द्रव्यम् उत्पन्नम्" (ध०को० १३९०)इत्यादिवचनम् । उच्यते । "यज्ञार्थम् एवार्जितं यद् धनं तद् यज्ञ एव नियोक्तव्यं पुत्रादिभिर् अपि" इत्येवंपरं तत्,

यज्ञार्थं लब्धम् अददद् भासः काकोऽपि वा भवेत् । (या०ध० १.१२७)

इति दोषश्रवणस्य पुत्रादिष्व् अविशेषात् । यद् अपि कात्यायनेनोक्तम्,

"अदायिकं राजगामि योषिद्भृत्यौर्ध्वदेहिकम् ।
अपास्य श्रोत्रियद्रव्यं श्रोत्रियेभ्यस्तदर्पयेत् ॥" (का०स्मृ० ९३१)

इति, अदायिकं दायादरहितं यद् धनं तद् राजगामि राज्ञो भवति, योषिद्भृत्यौर्ध्वदेहिकम् अपास्य, तत् स्त्रीणाम् अशनाच्छादनोपयुक्तं और्ध्वदेहिकं धनिनः श्राद्धाद्युपयुक्तम् चापरस्य परिहृत्य राजगामि भवतीति संबन्धः । अस्यापवाद उत्तरार्धे । श्रोत्रियद्रव्यं च योषिद्भृत्यौर्ध्वदेहिकम् अपास्य "श्रोत्रियायोपपादयेद्" इति तद् अप्य् अवरुद्धस्त्रीविषयम्, योषिद्ग्रहणात् । नारदवचनं च,

"अन्यत्र ब्राह्मणात् किं तु राजा धर्मपरायणः ।
तत्स्त्रीणां जीवनं दद्याद् एष दायविधिः स्मृतः ॥" (ना०स्मृ० १३.४९)

इत्य् अवरुद्धस्त्रीविषयम् एव, स्त्रीशब्दग्रहणात् । इह तु पत्नीशब्दाद् ऊढायाः संयताया धनग्रहणम् अविरुद्धम् । तस्माद् विभक्तासंसृष्टिन्य् अपुत्रे स्वर्याते पत्नी धनं प्रथमं गृह्नातीत्य् अयम् अर्थः सिद्धो भवति, विभागस्योक्तत्वात् संसृष्टिनां तु वक्ष्यमाणत्वात् । एतेनाल्पधनविषयत्वं श्रीकरादिभिर् उक्तं निरस्तं वेदितव्यम् । तथा ह्य् औरसेषु पुत्रेषु सत्स्व् अपि जीवद्विभागे अजीवद्विभागे च पत्न्याः पुत्रसमांशग्रहणम् उक्तम्,

यदि कुर्यात् समानंशान् पत्न्यः कार्याः समांशिकाः । इति । (या०ध० २.११५)

तथा,

पितुर् ऊर्ध्वं विभजतां माताप्य् अंशं समं हरेत् । (या०ध० २.१२३)

इति च । तथा सत्य्, अपुत्रस्य स्वर्यातस्य धनं पत्नी भरणाद् अतिरिक्तं न लभत इति व्यामोहमात्रम् । अथ "पत्न्यः कार्याः समांशिकाः" इत्य् अत्र, "माताप्य् अंशं समं हरेत्" इत्य् अत्र च, जीवनोपयुक्तम् एव धनं स्त्री हरतीति मतं तद् असत्, अंशशब्दस्य समशब्दस्य चानर्थक्यप्रसङ्गात् । स्यान् मतम् : बहुधने जीवनोपयुक्तं धनं गृह्नात्य् अल्पे तु पुत्रांशसमांशं गृह्नातीति । तच् च न विधिवैषम्यप्रसङ्गात् । तथाहि "पत्न्यः कार्याः समांशिकाः", "माताप्य् अंशं समं हरेत्" इति च बहुधने जीवनमात्रोपयुक्तं वाक्यान्तरम् अपेक्ष्य प्रतिपादयति, अल्पधने तु पुत्रांशसमम् अंशं प्रतिपादयतीति । यथा चातुर्मास्येषु "द्वयोः प्रणयन्ति" इत्यत्र पूर्वपक्षिणा सौमिकप्रणयनातिदेशे हेतुत्वेन प्राप्ताया उत्तरवेद्या "न वैश्वदेवे उत्तरवेदिम् उपकिरन्ति न शुनासीरीये" इत्य् उत्तरवेदिप्रतिषेधे दर्शिते राद्धान्तैकदेशिना "न सौमिकप्रणयनातिदेशप्राप्ताया उत्तरवेद्याः प्रथमोत्तमयोः पर्वणोर् अयं प्रतिषेधः किं तूपात्र वपन्तीति प्राकरणिकेन वचनेन प्राप्ताया उत्तरवेद्याः प्रतिषेधोऽयम् इत्य् अभिहिते पुनः पूर्वपक्षिणाऽुपात्र वपन्तिऽ इति प्रथमोत्तमयोः पर्वणोः प्रतिषेधम् अपेक्ष्य पाक्षिकीम् उउतरवेदिं प्रापयति । मध्यमयोस् तु निरपेक्षम् एव नित्यवद् उत्तरवेदिं प्रापयति" इति विधिवैषम्यं दर्षितम् । राद्धान्तेऽपि विधिवैषम्यभयात् प्रथमोत्तमयोः पर्वणोर् उत्तरवेदिप्रतिषेधो नित्यानुवादो द्वयोः प्रणयन्तीत्याद्यर्थवादपर्यालोचनया "उपात्र वपन्ति" इति मध्यमयोर् एव वरुणप्रघाससाकमेधपर्वणोर् उत्तरवेदिं विधत्त इति दर्शितम् । यद् अपि मतम्,

"पिता हरेद् अपुत्रस्य रिक्थं भ्रातर एव वा ।" (मा०ध० ९.१८५)

इति मनुस्मरणात्, तथा "स्वर्यातस्य ह्य् अपुत्रस्य भ्रातृगामि द्रव्यम् । तदभावे पितरौ हरेयातां ज्येष्ठा व पत्नी" (ध०को० १४७१) इति शङ्खस्मरणाच् च, अपुत्रस्य धनं भ्रातृगामीति प्राप्तम्,

"भरणं चास्य कुर्वीरन् स्त्रीणाम् आ जीवनक्षयात् ।" (ना०स्मृ० १३.२५)

इत्यादिवचनाच् च भरणोपयुक्तं धनं पत्नी लभत इत्य् अपि स्थितम् । एवं स्थिते बहुधने अपुत्रे स्वर्याते भरणोपयुक्तं पत्नी गृह्नाति शेषं च भ्रातरः । यदा तु पत्नीभरणमात्रोपयुक्तम् एव द्रव्यम् अस्ति ततो न्यूनं वा, तदा किं पत्न्य् एव गृह्नात्य् उत भ्रातरोऽपीति विरोधे पूर्वबलीयस्त्वज्ञापनार्थं पत्नी दुहितर इत्य् आरब्धम् इति । तद् अप्य् अत्र भगवान् आचार्यो न मृष्यति । यतः,

"पिता हरेद् अपुत्रस्य रिक्थं भ्रातर एव वा ।" (मा०ध० ९.१८५)

इति विकल्पस्मरणान् नेदं क्रमपरं वचनम्, अपि तु धनग्रहणेऽधिकारप्रदर्शनमात्रपरम् । तच् चासत्य् अपि पत्न्यादिगणे घटत इति व्याचचक्षे । शङ्खवचनम् अपि संसृष्टभ्रातृविषयम् इति । अपि चाल्पविषयत्वम् अस्माद् वचनात् प्रकरनाद् वा नावगम्यते । "धनभाग् उत्तरोत्तरः" इत्य् अस्य च पत्नी दुहितर इति विषयद्वये वाक्यान्तरम् अपेक्ष्याल्पधनविषयत्वम्, पित्रादिषु तु धनमात्रविषयत्वम् इति पूर्वोक्तं विधिवैष्यं तदवस्थम् एवेति यत् किंचिद् एतत् । यत् तु हारीतवचनम्,

"विधवा यौवनस्था चेन् नारी भवति कर्कशा ।
आयुषः क्षपणार्थं तु दातव्यं जीवनं तदा ।" (ध०को० १४६६)

इति, तद् अपि शङ्कितव्यभिचारायाः सकलधनग्रहणनिषेधपरम् । अस्माद् एव वचनाद् अनाशङ्कितव्यभिचारायाः सकलधनग्रहणं गम्यते । एतद् एवाभिप्रेत्योक्तं शङ्खेन "ज्येष्टा वा पत्नी" इति । ज्येष्ता गुणज्येष्ता अनाशङ्कितव्यभिचारा, सा सकलं धनं गृहीत्वान्यां कर्कशाम् अपि मातृवत् पालयतीति सर्वम् अनवद्यम् । तस्माद् अपुत्रस्य स्वर्यातस्य विभक्तस्यासंसृष्टिनो धनं परिणिता स्त्री संयता सकलम् एव गृह्नातीति स्थितम् ।

तद् अभावे दुहितरः । दुहितर इति बहुवचनं समानजातीयानाम् असमानजातीयानां च समविषमांशप्राप्त्यर्थम् । तथा च कात्यायनः ।

"पत्नी भर्तुर् धनहरी या स्याद् अव्यभिचारिणी ।
तद् अभावे तु दुहिता यद्य् अनूढा भवेत् तदा ॥" इति । (का०स्मृ० ९२६)

बृहस्पतिर् अपि ।

"भर्तुर् धनहरी पत्नी तां विना दुहिता स्मृता ।
अङ्गाद् अङ्गात् संभवति पुत्रवद् दुहिता नृणाम् ॥
तस्मात् पितृधनं त्व् अन्यः कथं गृह्नीत मानवः ॥" इति । (बृ०स्मृ० १.२६.१२६–२७)

तत्र चोढानूढासमवायेऽनूढैव गृह्नाति,

"तद् अभावे तु दुहिता यद्य् अनूढ भवेत् तदा ।" (बृ०स्मृ० १.२६.१२८)

इति विशेषस्मरणात् । तथा प्रतिष्ठिताप्रतिष्ठितानां समवाये अप्रतिष्ठितैव तदभावे प्रतिष्ठिता, "स्त्रीधनं दुहितॄणाम् अप्रत्तानाम् अप्रतिष्टितानां च" (गौ०ध० २८.२४) इति गौतमवचनस्य पितृधनेऽपि समानत्वात् । न चैतत् पुत्रिकाविषयम् इति मन्तव्यम्, तत्समः पुत्रिकासुत इति पुत्रिकायास् तत्सुतस्य चौरससमत्वेन पुत्रप्रकरणेऽभिधानात् । चशब्दाद् दुहित्रभावे दौहित्रो धनभाक् । यथाह विष्णुः ।

"अपुत्रपौत्रसंताने दौहित्रा धनम् आप्नुयुः ।
पूर्वेषां तु स्वधाकारे पौत्रा दौहित्रिका मताः ॥" इति । (ध०को० १४७१)

मनुर् अपि ।

"अकृता वा कृता वापि यं विन्देत् सदृशात् सुतम् ।
पौत्री मातामहस् तेन दद्यात् पिण्डं हरेद् धनम् ॥" इति ॥ (मा०ध० ९.१३६)

तद् अभावे पितरौ मातापितरौ धनभाजौ । यद्य् अपि युगपदधिकरणवचनतायां द्वन्द्वस्मरणात्, तद् अपवादत्वाद्, एकशेषस्य धनग्रहणे पित्रोः क्रमो न प्रतीयते, तथापि विग्रहवाक्ये मातृशब्दस्य पूर्वनिपाताद् एकशेषाभावपक्षे च मातापितराव् इति मातृशब्दस्य पूर्वं श्रवणात् पाठक्रमाद् एवार्थक्रमावगमाद् धनसंबन्धेऽपि क्रमापेक्षायां प्रतीतक्रमानुरोधेनैव प्रथमं माता धनभाक् तदभावे पितेति गम्यते । किं च पिता पुत्रान्तरेष्व् अपि साधारणो माता तु न साधारणीति प्रत्यासत्त्यतिशयात्,

"अनन्तरः सपिण्डाद्यस् तस्य तस्य धनं भवेत् ।" (मा०ध० ९.१८७)

इति वचनान्, मातुर् एव प्रथमं धनग्रहणं युक्तम् । न च सपिण्डेष्व् एव प्रत्यासत्तिर् नियामिका अपि तु समानोदकादिष्व् अप्य् अविशेषेण धनग्रहणे प्राप्ते प्रत्यासत्तिर् एव नियामिकेत्य् अस्माद् एव वचनाद् अवगम्यत इति । मातापित्रोर् मातुर् एव प्रत्यासत्त्यतिशयाद् धनग्रहणं युक्ततरम् । तद् अभावे पिता धनभाक् ।

पित्रभावे भ्रातरो धनभाजः । तथा च मनुः ।

"पिता हरेद् अपुत्रस्य रिक्थं भ्रातर एव वा ।" इति । (मा०ध० ९.१८५)

यत् पुनर् धारेश्वरेणोक्तम्,

"अनपत्यस्य पुत्रस्य माता दायम् अवाप्नुयात् ।
मातर्य् अपि च वृत्तायां पितुर् माता हरेद् धनम् ॥" (मा०ध० ९.२१७)

इति मनुवचनात्, जीवत्य् अपि पितरि मातरि वृत्तायां पितुर् माता पितामही धनं हरेन् न पिता । यतः पितृगृहीतं धनं विजातीयेष्व् अपि पुत्रेषु गच्छति, पितामहीगृहीतं तु सजातीयेष्व् एव गच्छतीति पितामह्य् एव गृह्नातीति । तद् अप्य् आचार्यो नानुमन्यते । विजातीयपुत्राणाम् अपि धनग्रहणस्योक्तत्वात्, "चतुस्त्रिद्व्येकभागाः स्युः" (या०ध० २.१२५)) इत्यादिनेति । यत् पुनः,

"अहार्यं ब्राह्मणद्रव्यं राज्ञा नित्यम् इति स्थितिः ।" (मा०ध० ९.१८९)

इति मनुस्मरणं तन् नृपाभिप्रायं, न तु पुत्राभिप्रायम् । भ्रातृष्व् अपि सोदराः प्रथमं गृह्नीयुः, भिन्नोदराणां मात्रा विप्रकर्षात् । "अनन्तरः सपिण्डाद्यस् तस्य तस्य धनं भवेत्" (मा०ध० ९.१८७) इति स्मरणात् ।

सोदराणाम् अभावे भिन्नोदरा धनभाजः । भ्रातॄणाम् अप्य् अभावे तत्पुत्राः पितृक्रमेण धनभाजः । भ्रातृभ्रातृपुत्रसमवाये भ्रातृपुत्राणाम् अनधिकारः, भ्रात्रभावे भ्रातृपुत्राणाम् अधिकारवचनात् । यदा त्व् अपुत्रे भ्रातरि स्वर्याते तद्भ्रातॄणाम् अविशेषेण धनसंबन्धे जाते भ्रातृधनविभागात् प्राग् एव यदि कश्चिद् भ्राता मृतस् तदा तत्पुत्राणां पितृतोऽधिकारे प्राप्ते तेषां भ्रातॄणां च विभज्य धनग्रहणे "पितृतो भागकल्पना" (या०ध० २.१२०) इति युक्तम् ।

भ्रातृपुत्राणाम् अप्य् अभावे गोत्रजा धनभाजः । गोत्रजाः पितामही सपिण्डाः समानोदकाश् च । तत्र पितामही प्रथमं धनभाक्, "मातर्य् अपि च वृत्तायां पितुर् माता हरेत्" इति (मा०ध० ९.२१७) मात्रनन्तरं पितामह्या धनग्रहणे प्राप्ते, पित्रादीनां भ्रातृसुतपर्यन्तानां बद्धक्रमत्वेन मध्येऽनुप्रवेशाभावात्, "पितुर् माता धनं हरेत्" (मा०ध० ९.२१७) इत्य् अस्य वचनस्य धनग्रहणाधिकारप्राप्तिमात्रपरत्वाद्, उत्कर्षे तत्सुतानन्तरं पितामही गृह्नातीत्य् अविरोधः । पितामह्याश् चाभावे समानगोत्रजाः सपिण्डाः पितामहादयो धनभाजः, भिन्नगोत्राणां सपिण्डानां बन्धुशब्देन ग्रहणात् । तत्र च पितृसन्तानाभावे पितामही पितामहः पितृव्यास् तत्पुत्राश् च क्रमेण धनभाजः । पितामहसन्तानाभावे प्रपितामही प्रपितामहस् तत्पुत्रास् तत्सूनवश् चेत्य् एवम् आ सप्तमात् समानगोत्राणां सपिण्डानां धनग्रहणं वेदितव्यम् । तेषाम् अभावे समानोदकानां धनसंबन्धः । ते च सपिण्डानाम् उपरि सप्त वेदितव्याः । जन्मनामज्ञानावधिका वा । यथाह बृहन्मनुः ।

"सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ।
समानोदक्भावस् तु निवर्तेताचतुर्दशात् ॥
जन्मनाम्नोः स्मृतेर् एके तत्परं गोत्रम् उच्यते ॥" इति । (ध०को० १५२७)

गोत्रजाभावे बन्धवो धनभाजः । बन्धवश् च त्रिविधाः : आत्मबन्धवः पितृबन्धवो मातृबन्धवश् चेति । यथोक्तम् ।

"आत्मपितृष्वसुः पुत्रा आत्ममातृष्वसुः सुताः ।
आत्ममातुलपुत्राश् च विज्ञेया आत्मबान्धवाः ॥
पितुः पितृष्वसुः पुत्राः पितुर् मातृष्वसुः सुताः ।
पितुर् मतुलपुत्राश् च विज्ञेयाः पितृबान्धवाः ॥
मातुः पितृष्वसुः पुत्रा मातुर् मातृष्वसुः सुताः ।
मातुर् मातुलपुत्राश् च विज्ञेया मातृबान्धवाः ॥" इति ॥ (ध०को० १५२८–२९)

तत्र चान्तरङ्गत्वात्, प्रथमम् आत्मबन्धवो धनभाजस्, तदभावे पितृबन्धवस्, तदभावे मातृबन्धव इति क्रमो वेदितव्यः । बन्धूनाम् अभावे आचार्यः । तदभावे शिष्यः, "पुत्राभावे यः प्रत्यासन्नः सपिण्डस् तदभावे आचार्यः । आचार्याभावेऽन्तेवासी" (आ०ध० २.१४.२–३) इत्य् आपस्तम्बस्मरणात् ॥

शिष्याभावे सब्रह्मचारी धनभाक् । येन सहैकस्माद् आचार्याद् उपनयनाध्ययनतदर्थज्ञानप्राप्तिः स सब्रह्मचारी । तदभावे ब्राह्मणद्रव्यं यः कश्चित् श्रोत्रियो गृह्नीयात्, "श्रोत्रिया ब्राह्मणस्यानपत्यस्य रिक्थं भजेरन्" (गौ०ध० २८.४१) इति गौतमस्मरणात् । तदभावे ब्राह्मणमात्रम् । यथाह मनुः ।

"सर्वेषाम् अप्य् अभावे तु ब्राह्मणा रिक्थभागिनः ।
त्रैविद्याः शुचयो दान्तास् तथा धर्मो न हीयते ॥" इति । (मा०ध० ९.१८८)

न कदाचिद् अपि ब्राह्मणद्रव्यं राजा गृह्नीयात्,

"अहार्यं ब्राह्मणद्रव्यं राज्ञा नित्यम् इति स्थितिः ।" (मा०ध० ९.१८९)

इति मनुवचनात् । नारदेनाप्युक्तम् ।

"ब्राह्मणार्थस्य तन्नाशे दायादश् चेन् न कश्चन ।
ब्राह्मणायैव दातव्यम् एनस्वी स्यान् नृपोऽन्यथा ॥" इति ॥ (ध०को० १५१२)

क्षत्रियादिधनं सब्रह्मचारिपर्यन्तानाम् अभावे राजा हरेत्, न ब्राह्मणः । यथाह मनुः ।

"इतरेषां तु वर्णानां सर्वाभावे हरेन् नृपः ।" इति ॥ (मा०ध० ९.१८९) २.१३५ ॥ २.१३६ ॥

पुत्राः पौत्राश् च दायं गृह्नन्ति तदभावे पत्न्यादय इत्युक्तम् । इदानीं तदुभयापवादम् आह ।

वानप्रस्थयतिब्रह्मचारिणां रिक्थभागिनः ।
क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः ॥ या०ध०२.१३७

वानप्रस्थस्य यतेर् ब्रह्मचारिणश् च क्रमेण प्रतिलोमक्रमेणाचार्यः सच्छिष्यो धर्मभ्रात्रेकतीर्थी च रिक्थस्य धनस्य भागिनः । ब्रह्मचारी नैष्टिकः, उपकुर्वाणस्य तु धनं मात्रादय एव गृह्नन्ति । नैष्टिकस्य तु धनं तदपवादतवेनाचार्यो गृह्नातीत्य् उच्यते । यतेस् तु धनं सच्छिष्यो गृह्नाति । सच्छिष्यः पुनर् अध्यात्मशास्त्रश्रवणधारणतदर्थानुष्ठानक्षमः, दुर्वृत्तस्याचार्यादेर् अपि भागानर्हत्वात् । वानप्रस्थस्य धनं धर्मभ्रात्रेकतीर्थी गृह्नाति । धर्मभ्राता प्रतिपन्नो भ्राता, एकतीर्थी एकाश्रमी, धर्मभ्राता चासाव् एकतीर्थी च धर्मभ्रात्रेकतीर्थी । एतेषाम् आचार्यादीनाम् अभावे पुत्रादिषु सत्स्व् अप्य् एकतीर्थ्य् एव गृह्नाति । ननु "अनंशास् त्व् आश्रमान्तरगताः" (व०ध० १७.५२) इति वसिष्ठस्मरणाद् आश्रमान्तरगतानां रिक्थसंबन्ध एव नास्ति कुतस् तद्विभागः । न च नैष्टिकस्य स्वार्जितधनसंबन्धो युक्तः, प्रतिग्रहादिनिषेधात् । "अनिचयो भिक्षुर्" (गौ०ध० ३.११) इति गौतमस्मरणात् । भिक्षोर् अपि न स्वार्जितधनसंबन्धसंभवः । उच्यते । वानप्रस्थस्य तावत्,

अह्नो मासस्य षण्णां वा तथा संवत्सरस्य वा ।

अर्थस्य निचयं कुर्यात् कृतम् आश्वयुजि त्यजेत् ॥ (या०ध० ३.४७)

इति वचनाद् धनसंबन्धोऽस्त्य् एव । यतेर् अपि,

"कौपीनाच्छादनार्थं वा वासोऽपि बिभृयाच् च सः ।
योगसंभारभेदांश् च गृह्नीयात् पादुके तथा ॥"

इत्यादिवचनाद्, वस्त्रपुस्तकसंबन्धोऽस्त्य् एव । नैष्टिकस्यापि शरीरयात्रार्थं वस्त्रादिसंबन्धोऽस्त्य् एवेति तद्विभागकथनं युक्तम् एव ॥ २.१३७ ॥

इदानीं स्वर् यातस्य पुत्रस्य पत्न्यादयो धनभाज इत्य् अस्यापवादम् आह ।

संसृष्टिनस् तु संसृष्टी या०ध०२.१३८अ

विभक्तं धनं पुनर् मिश्रीकृतं संसृष्टं तद् अस्यास्तीति संसृष्टी । संसृष्टत्वं च न येन केनापि किं तु पित्रा भ्रात्रा पितृव्येण वा । यथाह बृहस्पतिः ।

"विभक्तो यः पुनः पित्रा भ्रात्रा वैकत्र संस्थितः ।
पितृव्येणाथवा प्रीत्या स तत्संसृष्ट उच्यते ॥" इति । (ध०को० १५५६)

तस्य संसृष्टिनो मृतस्यांशं विभागं विभागकाले अविज्ञातगर्भायां भार्यायां पश्चाद् उत्पन्नस्य पुत्रस्य संसृष्टी दद्यात् । पुत्राभावे संसृष्ट्य् एवापहरेद् गृह्नीयान् न पत्न्यादिः ॥

"संसृष्टिनस् तु संसृष्टी" इत्य् अस्यापवादम् आह ।

सोदरस्य तु सोदरः । या०ध०२.१३८ब्

दद्याद् अपहरेच् चांशं जातस्य च मृतस्य च ॥ या०ध०२.१३८च्द्

संसृष्टिनः संसृष्टीत्य् अनुवर्तते । अतश् च सोदरस्य संसृष्टिनो मृतस्यांशं सोदरः संसृष्टी संसृष्टानुजातस्य सुतस्य दद्यात् । तद् अभावे अपहरेद् इति पूर्ववत् संबन्धः । एवं च सोदरासोदरसंसर्गे सोदरसंसृष्टिनो धनं सोदर एव संसृष्टी गॄह्नाति न भिन्नोदरः संसृष्ट्य् अपीति पूर्वोक्तस्यापवादः ॥ २.१३८ ॥

इदानीं संसृष्टिन्य् अपुत्रे स्वर्याते संसृष्टिनो भिन्नोदरस्य सोदरस्य चासंसृष्टिनः सद्भावे, कस्य धनग्रहणम् इति विवक्षायां द्वयोर् विभज्य ग्रहणे कारणम् आह ।

अन्योदर्यस् तु संसृष्टी नान्योदर्यो धनं हरेत् ।
असंसृष्ट्य् अपि वादद्यात् संसृष्टो नान्यमातृजः ॥ या०ध०२.१३९

अन्योदर्यः सापत्नो भ्राता संसृष्टी धनं हरेत् न पुनर् अन्योदर्यो धनं हरेद् असंसृष्टी । अनेनान्वयव्यतिरेकाभ्याम् अन्योदर्यस्य संसृष्टित्वं धनग्रहणे कारणम् उक्तं भवति । असंसृष्टीत्य् एतद् उत्तरेणापि संबध्यते । अतश् चासंसृष्ट्य् अपि संसृष्टिनो धनम् आददीत । कोऽसाव् इत्य् अत आह "संसृष्टः" इति । संसृष्टः एकोदरसंसृष्टः । सोदर इति यावत् । अनेनासंसृष्टस्यापि सोदरस्य धनग्रहणे सोदरत्वं कारणम् उक्तम्, संसृष्ट इत्य् उत्तरेणापि संबध्यते । तत्र च संसृष्टः संसृष्टीत्य् अर्थः । नान्यमातृजः । अत्रैवशब्दाध्याहारेण व्याख्यानं कार्यम् संसृष्ट्य् अप्य् अन्यमातृज एव संसृष्टिनो धनं नाददीतेति । एवं चासंसृष्ट्य् अपि वादद्याद् इत्य् अपिशब्दश्रवणात्, संसृष्टो नान्यमातृज एवेत्य् अवधारणनिषेधाच् चासंसृष्टसोदरस्य संसृष्टभिन्नोदरस्य च विभज्य ग्रहणं कर्तव्यम् इत्य् उक्तं भवति । द्वयोर् अपि धनग्रहणकारणस्यैकैकस्य सद्भावात् । एतद् एव स्पष्टीकृतं मनुना ।

"विभक्ताः सह जीवन्तो विभजेरन् पुनर् यदि ।" (मा०ध० ९.२१०)

इति संसृष्टिविभागं प्रक्रम्य,

"येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः ।
म्रियेतान्यतरो वापि तस्य भागो न लुप्यते ॥
सोदर्या विभजेरंस् तं समेत्य सहिताः समम् ।
भ्रातरो ये च संसृष्टा भागिन्यश् च सनाभयः ॥" (मा०ध० ९.२११–१२)

इति वदता । येषां भ्रातॄणां संसृष्टिनां मध्ये ज्येष्ठः कनिष्ठो वा मध्यमो वांशप्रदानतोऽंशप्रदाने । सार्वविभक्तिकस् तसिः । विभागकाल इति यावत् । हीयेत स्वांशात् भ्रश्येत आश्रमान्तरपरिग्रहेण ब्रह्महत्यादिना वा म्रियेत वा तस्य भागो न लुप्यते । अतः पृथग् उद्धरणीयो न संसृष्टिन एव गृहीयुर् इत्य् अर्थः । तस्योद्धृतस्य विनियोगम् आह : "सोदर्या विभजेयुस् तम्" इति । तम् उद्धृतं भागं सोदर्याः सहोदरा असंसृष्टा अपि समेत्य देशान्तरगता अपि समागम्य सहिताः संभूयो भगिन्यश् च विभजेयुः । समं विभज्य गृह्नीयुर् इति स्पष्टोऽर्थः ॥ २.१३९ ॥

पुत्रपत्न्यादिसंसृष्टिनां यद् दायग्रहणम् उक्तं तस्यापवादम् आह ।

क्लीबोऽथ पतितस् तज्जः पङ्गुर् उन्मत्तको जडः ।
अन्धोऽचिकित्स्यरोगाद्या भर्तव्याः स्युर् निरंशकाः ॥ या०ध०२.१४०

क्लीबस् तृतीया प्रकृतिः । पतितो ब्रह्महादिः । तज्जः पतितोत्पन्नः । पङ्गुः पादविकलः । उन्मत्तकः वातिकपैत्तिकश्लैष्मिकसांनिपातिकग्रहावेशलक्षणैर् उन्मादैर् अभिभूतः । जडो विकलान्तःकरणः । हिताहितावधारणाक्षम इति यावत् । अन्धो नेत्रेन्द्रियविकलः । अचिकित्स्यरोगोऽप्रतिसमाधेययक्षमादिरोगग्रस्तः । आद्यशब्देनाश्रमान्तरगतपितृद्वेष्युपपातकिबधिरमूकनिरिन्द्रियाणां ग्रहणम् । यथाह वसिष्थः "अनंशास् त्व् आश्रमान्तरगताः" (व०ध० १७.५२) इति । नारदेनापि ।

"पितृद्विट् पतितः षण्धो यश् च स्याद् औपपातिकः ।
औरसा अपि नैतेऽंशं लभेरन् क्षेत्रजः कुतः ॥" इति । (ना०स्मृ० १३.२०)

मनुर् अपि ।

"अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा ।
उन्मत्तजडमूकाश् च ये च केचिन् निरिन्द्रियाः ॥" इति । (मा०ध० ९.२०१)

निरिन्द्रियो निर्गतम् इन्द्रियं यस्माद् व्याध्यादिना स निरिन्द्रियः । एते क्लीबादयोऽनंशाः रिक्थभाजो न भवन्ति । केवलम् अशनाच्छादनदानेन पोषणीया भवेयुः । अभरणे तु पतितत्वदोषः,

"सर्वेषाम् अपि तु न्यायं दातुं शक्त्या मनीषिणा ।
ग्रासाच्छादनम् अत्यन्तं पतितो ह्य् अददद् भवेत् ॥" (मा०ध० ९.२०२)

इति मनुस्मरणात् । अत्यन्तं यावज्जीवम् इत्य् अर्थः । एतेषां विभागात् प्राग् एव दोषप्राप्ताव् अनंशत्वम् उपपन्नं न पुनर् विभक्तस्य । विभागोत्तरकालम् अप्य् औषधादिना दोषनिर्हरणे भागप्राप्तिर् अस्त्य् एव,

विभक्तेषु सुतो जातः सवर्णायां विभागभाक् । (या०ध० २.१२२)

इत्य् अस्य समानन्यायत्वात् । पतितादिषु तु पुंल्लिङ्गत्वम् अविवक्षितम् । अतश् च पत्नीदुहितृमात्रादीनाम् अप्य् उक्तदोषदुष्टानाम् अनंशित्वं वेदितव्यम् ॥ २.१४० ॥

क्लीबादीनाम् अनंशित्वात् तत्पुत्राणाम् अप्य् अनंशित्वे प्राप्ते, इदम् आह ।

औरसाः क्षेत्रजास् त्व् एषां निर्दोषा भागहारिणः । या०ध०२.१४१अब्

एतेषां क्लीबादीनाम् औरसाः क्षेत्रजा वा पुत्रा निर्दोषा अंशग्रहणविरोधिक्लैब्यादिदोषरहिता भागहारिणोऽंशग्राहिणो भवन्ति । तत्र क्लीबस्य क्षेत्रजः पुत्रः संभवत्य् अन्येषाम् औरसा अपि । औरसक्षेत्रजयोर् ग्रहणम् इतरपुत्रव्युदासार्थं ॥

क्लीबादिदुहितॄणां विशेषम् आह ।

सुताश् चैषां प्रभर्तव्या यावद् वै भर्तृसात्कृताः ॥ या०ध०२.१४१च्द्

एषां क्लीबादीनां सुता दुहितरो यावद् विवाहसंस्कृता भवन्ति तावद् भरणीयाः, चशब्दात् संस्कार्याश् च ॥ २.१४१ ॥

क्लीबादिपत्नीनां विशेषम् आह ।

अपुत्रा योषितश् चैषां भर्तव्याः साधुवृत्तयः ।
निर्वास्या व्यभिचारिण्यः प्रतिकूलास् तथैव च ॥ या०ध०२.१४२

एषां क्लीबादीनाम् अपुत्राः पत्न्यः साधुवृत्तयः सदाचाराश् चेद् भर्तव्या भरणीयाः । व्यभिचारिण्यस् तु निर्वास्याः । प्रतिकूलास् तथैव च निर्वास्या भवन्ति भरणीयाश् च । अव्यभिचारिण्यश् चेत् न पुनः प्रातिकूल्यमात्रेण भरणम् अपि न कर्तव्यम् ॥ २.१४२ ॥

"विभजेरन् सुताः पित्रोः" (या०ध० २.११७) इत्य् अत्र स्त्रीपूंधनविभागं संक्षेपेणाभिधाय पुरुषधनविभागो विस्तरेणाभिहितः । इदानीं स्त्रीधनविभागं विस्तरेणाभिधास्यंस् तत्स्वरूपं तावद् आह ।

पितृमातृपतिभ्रातृदत्तम् अध्यग्न्युपागतम् ।
आधिवेदनिकाद्यं च स्त्रीधनं परिकीर्तितम् ॥ या०ध०२.१४३

पित्रा मात्रा पत्या भ्रात्रा च यद् दत्तं यच् च विवाहकालेऽग्नाव् अधिकृत्य मातुलादिभिर् दत्तं आधिवेदनिकं अधिवेदननिमित्तं "अधिविन्नस्त्रियै दद्यात्" (या०ध० २.१४८) इति वक्ष्यमाणं । आद्यशब्देन रिक्थक्रयसंविभागपरिग्रहाधिगमप्राप्तम् एतत् स्त्रीधनं मन्वादिभिर् उक्तम् । स्त्रीधनशब्दश् च यौगिको न पारिभाषिकः, योगसंभवे परिभाषाया अयुक्तत्वात् । यत् पुनर् मनुनोक्तम्,

"अध्यग्यध्यावहनिकं दत्तं च प्रीतिकर्मणि ।
भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥" (मा०ध० ९.१९४)

इति स्त्रीधनस्य षड्विधत्वम्, तन् न्यूनसंख्याव्यवच्छेदार्थं नाधिकसंख्याव्यवच्छेदाय ॥ अध्यग्न्यादिस्वरूपं च कात्यायनेनाभिहितम् ।

"विवाहकाले यत् स्त्रीभ्यो दीयते ह्य् अग्निसंनिधौ ।
तद् अध्यग्निकृतं सद्भिः स्त्रीधनं परिकीर्तितम् ॥
यत् पुनर् लभते नारी नीयमाना पितुर् गृहात् ।
अध्यावहनिकं नाम स्त्रीधनं तद् उदाहृतम् ॥
प्रीत्या दत्तं तु यत् किंचिच् छ्वश्र्वा वा श्वशुरेण वा ।
पादवन्दनिकं चैव प्रीतिदत्तं तद् उच्यते ।" (का०स्मृ० ८९५–९७)

"ऊढया कन्यया वापि पत्युः पितृगृहेऽपि वा ।
भ्रातुः सकाशात् पित्रोर् वा लब्धं सौदायिकं स्मृतम् ॥" (का०स्मृ० ९०१) इति ॥ २.१४३ ॥

किं च ।

बन्धुदत्तं तथा शुल्कम् अन्वाधेयकम् एव च । या०ध०२.१४४अब्

बन्धुभिः कन्याया मातृबन्धुभिः पितृबन्धुभिश् च यद् दत्तम् । शुल्कं यद् गृहीत्वा कन्या दीयते । अन्वाधेयकं परिणयनाद् अनु पश्चाद् आहितं दत्तम् । उक्तं च कात्यायनेन ।

"विवाहात् परतो यच् च लब्धं भर्तृकुलात् स्त्रिया ।
अन्वाधेयं तु तद् द्रव्यं लब्धं पितृकुलात् तथा ॥" इति । (का०स्मृ० ८९९)

"स्त्रीधनं परिकीर्तितम्" इति गतेन संबन्धः ॥

एवं स्त्रीधनम् उक्तम् । तद्विभागम् आह ।

अतीतायाम् अप्रजसि बान्धवास् तद् अवाप्नुयुः ॥ या०ध०२.१४४च्द्

तत् पूर्वोक्तं स्त्रीधनम् अप्रजस्य् अनपत्यायां दुहितृदौहित्रीदौहित्रपुत्रपौत्ररहितायां स्त्रियाम् अतीतायां बान्धवा भर्त्रादयो वक्ष्यमाणा गृह्नन्ति ॥ २.१४४ ॥

सामान्येन बान्धवा धनग्रहणाधिकारिणो दर्शिताः । इदानीं विवाहभेदेनाधिकारिभेदम् आह ।

अप्रजस्त्रीधनं भर्तुर् ब्राह्मादिषु चतुर्ष्व् अपि ।
दुहितॄणां प्रसूता चेच् छेषेषु पितृगामि तत् ॥ या०ध०२.१४५

अप्रजस्त्रियाः पूर्वोक्तायाः ब्राह्मदैवार्षप्राजापत्येषु चतुर्षु विवाहेषु भार्यात्वं प्राप्ताया अतीतायाः पूर्वोक्तं धनं प्रथमं भर्तुर् भवति । तदभावे तत्प्रत्यासन्नानां सपिण्डानां भवति । शेषेष्व् आसुरगान्धर्वराक्षसपैशाचेषु विवाहेषु तद् अप्रजस्त्रीधनं पितृगामि । माता च पिता च पितरौ तौ गच्छतीति पितृगामि । एकशेषनिर्दिष्टाया अपि मातुः प्रथमं धनग्रहणं पूर्वम् एवोक्तम् । तदभावे तत्प्रत्यासन्नानां धनग्रहणम् । सर्वेष्व् एव विवाहेषु प्रसूतापत्यवती चेद् दुहितॄणां तद्धनं भवति । अत्र दुहितृशब्देन दुहितृदुहितर उच्यन्ते । साक्षाद् दुहितॄणां "मातुर् दुहितरः शेषम्" इत्य् अत्रोक्तत्वात्, अतश् च मातृधनं मातरि वृतायां प्रथमं दुहितरो गृह्नन्ति । तत्र चोढानूढासमवायेऽनूढैव गृह्नाति । तदभावे च परिणिता । तत्रापि प्रतिष्ठिताप्रतिष्ठितासमवायेऽप्रतिष्ठिता गृह्नाति । तदभावे प्रतिष्ठिता । यथाह गौतमः : "स्त्रीधनं दुहितॄणाम् अप्रत्तानाम् अप्रतिष्ठितानां च" (गौ०ध० २८.२४) इति । तत्र चशब्दात् प्रतिष्ठितानां च । अप्रतिष्ठिता अनपत्या निर्धना वा । एतच् च शुल्कव्यतिरेकेण । शुल्कं तु सोदर्याणाम् एव, "भगिनीशुल्कं सोदर्याणाम् ऊर्ध्वं मातुः" (गौ०ध० २८.२५) इति गौतमवचनात् । सर्वासां दुहितॄणाम् अभावे दुहितृदुहितरो गृह्नन्ति, "दुहितॄणां प्रसूता चेत्" इत्यस्माद् वचनात् । तासां भिन्नमातृकाणां विषमाणां समवाये मातृद्वारेण भागकल्पना । "प्रतिमातृतो वा स्ववर्गेण भागविशेषः" (गौ०ध० २८.१७) इति गौतमस्मरणात् ॥ दुहितृदौहित्रीणां समवाये दौहित्रीणां किंचिद् एव दातव्यं । यथाह मनुः ।

"यास् तासां स्युर् दुहितरस् तासाम् अपि यथार्हतः ।
मातामह्या धनात् किंचित् प्रदेयं प्रीतिपूर्वकम् ॥" इति ॥ (मा०ध० ९.१९३)

दौहित्रीणाम् अप्य् अभावे दौहित्रा धनहारिणः । यथाह नारदः ।

"मातुर् दुहितरोऽभावे दुहितॄणां तदन्वयः ।" इति । (ना०स्मृ० १३.२)

तच्छब्देन संनिहितदुहितृपरामर्शात्, दौहित्राणाम् अभावे पुत्रा गृह्नन्ति । ताभ्य ऋतेऽन्वय इत्युक्तत्वात् । मनुर् अपि दुहितॄणां पुत्राणां च मातृधनसंबन्धं दर्शयति :

"जनन्यां संस्थितायां तु समं सर्वे सहोदराः ।
भजेरन् मातृकं रिक्थं भगिन्यश् च सनाभयः ॥" इति । (मा०ध० ९.१९२)

मातृकं रिक्थं सर्वे सहोदराः समं भजेरन् सनाभयो भगिन्यश् च समं भजेरन्न् इति संबन्धः । न पुनः सहोदराः समं भजेरन् सनाभयो भगिन्यश् च समं भजेरन्न् इति संबन्धः । न पुनः सहोदरा भगिन्यश् च सम्भूय भजेरन्न् इति इतरेतरयोगस्य द्वन्द्वैकशेषाभावाद् अप्रतीतेः, विभागकर्तृत्वान्वयेनापि चशब्दोपपत्तेः । यथा देवदत्तः कृषिं कुर्याद् यज्ञदत्तश् चेति । समग्रहणम् उद्धारविभागनिवृत्त्यर्थम् । सोदरग्रहणं भिन्नोदरनिवृत्त्यर्थम् । अनपत्यहीनजातिस्त्रीधनं तु भिन्नोदराप्य् उत्तमजातीयसपत्नीदुहिता गृह्नाति । तदभावे तदपत्यम् । यथाह मनुः ।

"स्त्रियास् तु यद् भवेद् वित्तं पित्रा दत्तं कथंचन ।
ब्राह्मणी तद् धरेत् कन्या तदपत्यस्य वा भवेत् ॥" इति । (मा०ध० ९.१९८)

ब्राह्मणीग्रहणम् उत्तमजात्युपलक्षणम् । अतश् चानपत्यवैश्याधनं क्षत्रियाकन्या गृह्नाति । पुत्राणाम् अभावे पौत्राः पितामहीधनहारिणः, "रिक्थभाज ऋणं प्रतिकुर्युः" (गौ०ध० १२.४०) इति गौतमस्मरणात्, "पुत्रपौत्रेर् ऋणं देयम्" (या०ध० २.५०) इति पौत्राणाम् अपि पितामह्यृणापाकरणेऽधिकारात् । पौत्राणाम् अप्य् अभावे पूर्वोक्ता भर्त्रादयो बान्धवा धनहारिणः ॥ २.१४५ ॥

स्त्रीधनप्रसङ्गेन वाग्दत्ताविषयं किंचिद् आह ।

दत्त्वा कन्यां हरन् दण्ड्यो व्ययं दद्याच् च सोदयम् । या०ध०२.१४६अब्

कन्यां वाचा दत्त्वापहरन् द्रव्यानुबन्धाद्यनुसारेण राज्ञा दण्डनीयः । एतच् चापहारकारणाभावे । सति तु करणे "दत्ताम् अपि हरेत् कन्यां श्रेयांश् चेद् वर आव्रतेत्" (या०ध० २.६५) इत्य् अपहाराभ्यनुज्ञानान् न दण्ड्यः । यच् च वाग्दाननिमित्तं वरेण स्वसंबन्धिनां कन्यासंबन्धिनां वोपचारार्थं धनं व्ययीकृतं तत् सर्वं सोदयं सवृद्धिकं कन्यादाता वराय दद्यात् ॥

अथ कथंचिद् वाग्दत्ता संकारात् प्राङ् म्रियते, तदा किं कर्तव्यम् इत्य् अत आह ।

मृतायां दत्तम् आदद्यात् परिशोध्योभयव्ययम् ॥ या०ध०२.१४६च्द्

यदि वाग्दत्ता मृता यत् पूर्वम् अङ्गुलीयकादि शुल्कं वरेण दत्तं तद् वर आददीत । परिशोध्योभयव्ययम् । अभयोर् आत्मनः कन्यादातुश् च यो व्ययस् तं परिशोध्य विगणय्यावशिष्टम् आददीत । यत् तु कन्यायै मातामहादिभिर् दत्तं शिरोभूषणादिकं वा क्रमायातं तत् सहोदरा भ्रातरो गृह्नीयुः, "रिक्थं मृतायाः कन्याया गृह्नीयुः सोदरास् तदभावे मातुस् तदभावे पितुः" इति बौधायनस्मरणात् (not in बौ०ध० or ध०को०) ॥ २.१४६ ॥

मृतप्रजास्त्रीधनं भर्तृगामीत्युक्तम् । इदानीं जीवन्त्याः सप्रजाया अपि स्त्रियाः धनग्रहणे क्वचिद् भर्तुर् अभ्यनुज्ञाम् आह ।

दुर्भिक्षे धर्मकार्ये च व्याधौ सम्प्रतिरोधके ।
गृहीतं स्त्रीधनं भर्ता न स्त्रियै दातुम् अर्हति ॥ या०ध०२.१४७

दुर्भिक्षे कुटुम्बभरणार्थं, धर्मकार्ये अवश्यकर्तव्ये, व्याधौ च, संप्रतिरोधके बन्दिग्रहणनिग्रहादौ द्रव्यान्तररहितः स्त्रीधनं गृह्नन् भर्ता न पुनर् दातुम् अर्हति । प्रकारान्तरेणापहरन् दद्यात् । भर्तृव्यतिरेकेण जीवन्त्याः स्त्रिया धन्ं केनापि दायादेन न ग्रहीतव्यम्,

"जीवन्तीनां तु तासां ये तद् धरेयुः स्वबान्धवाः ।
तान् शिष्याच् चौरदण्डेन धार्मिकः पृथिवीपतिः ॥" (मा०ध० ८.२९)

इति दण्डविधानात् । तथा,

"पत्यौ जीवति यः स्त्रीभिर् अलंकारो धृतो भवेत् ।
न तं भजेरन् दायादा भजमानाः पतन्ति ते ॥" (मा०ध० ९.२००)

इति दोषश्रवणाच् च ॥ २.१४७ ॥

आधिवेदनिकं स्त्रीधनम् उक्तं तद् आह ।

अधिविन्नस्त्रियै दद्याद् आधिवेदनिकं समम् ।
न दत्तं स्त्रीधनं यस्यै दत्ते त्व् अर्धं प्रकल्पयेत् ॥ या०ध०२.१४८

यस्या उपरि विवाहः साधिविन्ना साचासौ स्त्री चेत्य् अधिविन्नस्त्री तस्या अधिविन्नस्त्रिया आधिवेदनिकम् अधिवेदननिमित्तं धनं समं यावद् अधिवेदनार्थं व्ययीकृतं तावद् दद्यात् । यस्यै भर्त्रा श्वशुरेण वा स्त्रीधनं न दत्तम् । दत्ते पुनः स्त्रीधने आधिवेदनिकद्रव्यस्यार्धं दद्यात् । अर्धशब्दश् चात्र समविभागवचनो न भवति । अतश् च यावता तत् पूर्वदत्तम् आधिवेदनिकसमं भवति तावद् देयम् इत्य् अर्थः ॥ २.१४८ ॥

एवं विभागम् उक्त्वा इदानीं तत्संदेहे निर्णयहेतून् आह ।

विभागनिह्नवे ज्ञातिबन्धुसाक्ष्यभिलेखितैः ।
विभागभावना ज्ञेया गृहक्षेत्रैश् च यौतकैः ॥ या०ध०२.१४९

विभागस्य निह्नवे अपलापे ज्ञातिभिः पितृबन्धुभिर् मातृबन्धुभिः मातुलादिभिः साक्षिभिः पूर्वोक्तलक्षणैर् लेख्येन च विभागपत्रेण विभागभावना विभागनिर्णयो ज्ञातव्यः । तथा यौतकैः पृथक्कृतैर् गृहक्षेत्रैश् च । पृथक्कृष्यादिकार्यप्रवर्तनं पृथक्पञ्चमहायज्ञादिधर्मानुष्ठानं च नारदेन विभागलिङ्गम् उक्तम् ।

"विभागधर्मसंदेहे दायादानां विनिर्णयः ।
ज्ञातिभिर् भागलेख्येन पृथक्कार्यप्रवर्तनात् ॥
भ्रातॄणाम् अविभक्तानाम् एको धर्मः प्रवर्तते ।
विभागे सति धर्मोऽपि भवेत् तेषां पृथक् पृथक् ॥" इति । (ना०स्मृ० १३.३६–३७)

तथापराण्य् अपि विभागलिङ्गानि तेनैवोक्तानि ।

"साक्षित्वं प्रातिभाव्यं च दानं ग्रहणम् एव च ।
विभक्ता भ्रातरः कुर्युर् नाविभक्ताः कथंचन ॥" इति ॥ (ना०स्मृ० १३.३९) २.१४९ ॥

इति रिक्थविभागप्रकरणम्
अथ सीमाविवादप्रकरणम्

अधुना सीमाविवादनिर्णय उच्यते ।

सीम्नो विवादे क्षेत्रस्य सामन्ताः स्थविरादयः ।
गोपाः सीमाकृषाणा ये सर्वे च वनगोचराः ॥ या०ध०२.१५०

नयेयुर् एते सीमानं स्थलाङ्गारतुषद्रुमैः ।
सेतुवल्मीकनिम्नास्थिचैत्याद्यैर् उपलक्षिताम् ॥ या०ध०२.१५१

ग्रामद्वयसंबन्धिनः क्षेत्रस्य सीम्नो विवादे तथाइकग्रामान्तर्वर्तिक्षेत्रमर्यादाविवादे च सामन्तादयः स्थलाङ्गारादिभिः पूर्वकृतैः सीमालक्षणैर् उपलक्षितां चिह्नितां सीमां नयेयुर् निश्चिनुयुः । सीमा क्षेत्रादिमर्यादा । सा चतुर्विधा । जनपदसीमा ग्रामसीमा क्षेत्रसीमा गृहसीमा चेति । सा च यथासंभवं पञ्चलक्षणा । तद् उक्तं नारदेन ।

"ध्वजिनि मत्स्यिनी चैव नैधानी भयवर्जिता ।
राजशासननिता च सिमा पञ्चविधा स्मृता ॥" इति । (ध०को० ९४४)

ध्वजिनी वृक्षादिलक्षिता, वृक्षादीनां प्रकाशकत्वेन ध्वजतुल्यत्वात् । मत्स्यिनी सलिलवती, मत्स्यशब्दस्य स्वाधारजललक्षकत्वात् । नैधानी निखाततुषाङ्गारादिमती, तेषां निखातत्वेन निधानतुल्यत्वात् । भयवर्जिता अर्थिप्रत्यर्थिपरस्परसंप्रतिपत्तिनिर्मिता । राजशासननीता, ज्ञातृचिह्नाभावे राजेच्छया निर्मिता । एवंभूतायां षोढा विवादः संभवति । यथाह कात्यायनः ।

"आधिक्यं न्यूनता चांशे अस्तिनास्तित्वम् एव च ।
अभोगभुक्तिः सीमा च षड् भूवादस्य हेतवः ॥" इति ॥ (का०स्मृ० ७३२)

तथा हि । ममात्र पञ्चनिवर्तनाया भूमेर् अधिका भूर् अस्तीति केनचिद् उक्ते, पञ्चनिवर्तनैव नाधिकेत्य् आधिक्ये विवादः । पञ्चनिवर्तना मदीया भूमिर् इत्य् उक्तेन ततो न्यूनैवेति न्यूनतायाम् । पञ्चनिवर्तनो ममांश इत्य् उक्ते अंश एव नास्तीत्य् अस्तिनास्तित्वविवादः संभवति । मदीया भूः प्रागविद्यमानभोगैव भुज्यते इत्य् उक्तेन संतता चिरंतन्य् एव मे भुक्तिर् इत्य् अभोगभुक्तौ विवादः । इयं मर्यादेयं वेति सीमाविवाद इति षट्प्रकार एव विवादः संभवति । षट्प्रकारेऽपि भूविवादे श्रुत्यर्थाभ्यां सीमाया अपि निर्णीयमानत्वात् सीमानिर्णयप्रकरणे तस्यान्तर्भावः । समन्ताद् भवाः सामन्ताः । चतसृषु दिक्ष्व् अनन्तरग्रामादयस् ते च प्रतिसीमं व्यवस्थिताः,

"ग्रामो ग्रामस्य सामन्तः क्षेत्रं क्षेत्रस्य कीर्तितम् ।
गृहं गृहस्य निर्दिष्टं समन्तात् परिरभ्य हि ।" (का०स्मृ० ७३६)

इति कात्यायनवचनात् । ग्रामादिशब्देन तत्स्थाः पुरुषा लक्ष्यन्ते, "ग्रामः पलायितः" इति यथा । सामन्तग्रहणं च तत्संसक्ताद्युपलक्षणार्थम् । उक्तं च कात्यायनेन ।

"संसक्तकास् तु सामन्तास् तत्संसक्तास् तथोत्तराः ।
संसक्तसक्तसंसक्ताः पद्मकाराः प्रकीर्तिताः ॥" इति ॥ (का०स्मृ० ७३८)

स्थविरा वृद्धाः । आदिग्रहणेन मौलोद्धृतयोर् ग्रहणम् । वृद्धादिलक्षणं च तेनैवोक्तम् –

"निष्पाद्यमानं यैर् दृष्टं तत्कार्यं तद्गुणान्वितैः ।
वृद्धा वा यदि वावृद्धास् ते तु वृद्धाः प्रकीर्तिताः ॥" (का०स्मृ० ७४४)

"ये तत्र पूर्वं सामन्ताः पश्चाद् देशान्तरं गताः ।
तन्मूलत्वात् तु ते मौला ऋषिभिः परिकीर्तिताः ॥" (का०स्मृ० ७४३)

"उपश्रवणसंभोगकार्याख्यानोपचिह्निताः ।
उद्धरन्ति पुनर् यस्माद् उद्धृतास् ते ततः स्मृताः ॥" (का०स्मृ० ७४५) इति ॥

गोपा गोचारकाः । सीमाकृषाणाः सीमासंनिहितक्षेत्रकर्षकाः । सर्वे च वनगोचरा वनचारिणो व्याधादयः । ते च मनुनोक्ता ।

"व्याधाञ् शाकुनिकान् गोपान् कैवर्तान् मूलखातकान् ।
व्यालग्राहान् उञ्छवृत्तीन् अन्यांश् च वनगोचरान् ॥" इति ॥ (मा०ध० ८.२६०)

स्थलम् उन्नतो भूप्रदेशः । अङ्गारोऽग्नेर् उच्छिष्टम् । तुषा धान्यत्वचः । द्रुमा न्यग्रोधादयः । सेतुर् जलप्रवाहबन्धः । चैत्यं पाषाणादिबन्धः । आदिशब्देन वेणुवालुकादीनां ग्रहणम् । एतानि च प्रकाशाप्रकाशभेदेन द्विप्रकाराणि । यथाह मनुः :

"सीमावृक्षांश् च कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् ।
शाल्मलीशालतालांश् च क्षीरिणश् चैव पादपान् ॥
गुल्मान् वेणूंश् च विविधाञ् शमीवल्लीस्थलानि च ।
शरान् कुञ्जकगुल्मांश् च तथा सीमा न नश्यति ॥
तडागान्य् उदपानानि वाप्यः प्रस्रवणानि च ।
सीमासंधिषु कार्याणि देवतायतनानि च ॥" (मा०ध० ८.२४६–४८)

इति प्रकाशरूपाणि ।

"उपच्छन्नानि चान्यानि सीमालिङ्गानि कारयेत् ।
सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम् ॥
अश्मनोऽस्थीनि गोवालांस् तुषान् भस्म कपालिकाः ।
करीषम् इष्टकाङ्गाराञ् शर्करा वालुकास् तथा ॥
यानि चैवंप्रकाराणि कालाद् भूमिर् न भक्षयेत् ।
तानि संधिषु सीमायाम् अप्रकाशानि कारयेत् ॥
एतैर् लिङ्गैर् नयेत् सीमां राजा विवदमानयोः ॥" (मा०ध० ८.२४९–५२)

इति प्रच्छन्नलिङ्गानि । एतैः प्रकाशाप्रकाशरूपैर् लिङ्गैः सामन्तादिप्रदर्शितैः सीमां प्रति विवदमानयोः सीमानिर्णयं कुर्याद् राजा ॥ २.१५० ॥ २.१५१ ॥

यदा पुनश् चिह्नानि न सन्ति विद्यमानानि वा लिङ्गालिङ्गतया संदिग्धानि, तदा निर्णयोपायम् आह ।

सामन्ता वा समग्रामाश् चत्वारोऽष्टौ दशापि वा ।
रक्तस्रग्वसनाः सीमां नयेयुः क्षितिधारिणः ॥ या०ध०२.१५२

सामन्ताः पूर्वोक्तलक्षणाः । "समग्रामाश् चत्वारोऽष्टौ दशापि वा" इत्य् एवं समसंख्याः प्रत्यासन्नग्रामीणाः । रक्तस्रग्विणो रक्ताम्बरधराः मूर्ध्य् आरोपितक्षितिखण्डाः सीमानं नयेयुः प्रदर्शयेयुः । "सामन्ता वा" इति विकल्पाभिधानं स्मृत्यन्तरोक्तसाक्ष्यभिप्रायम् । यथाह मनुः :

"साक्षिप्रत्यय एव स्यात् सीमावादविनिर्णयः ।" इति ॥ (मा०ध० ८.२५३)

तत्र च साक्षिणां निर्णेतृत्वं मुख्यम् । तदभावे सामन्तानाम् । तद् उक्तम् ।

"साक्ष्यभावे तु चत्वारो ग्राम्याः सामन्तवासिनः ।
सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ ॥" इति । (मा०ध० ८.२५८)

तदभावे तत्सक्तादीनां निर्णेतृत्वम् । यथाह कात्यायनः ।

"स्वार्थसिद्धौ प्रदुष्टेषु सामन्तेष्व् अर्थगौरवात् ।
तत्संसक्तैस् तु कर्तव्य उद्धारो नात्र संशयः ॥
संसक्तसक्तदोषे तु तत्संसक्ताः प्रकीर्तिताः ।
कर्तव्या न प्रदुष्टास् तु राज्ञा धर्मं विजानता ॥" इति । (का०स्मृ० ७३९–४०)

सामन्ताद्यभावे मौलादयो ग्राह्याः,

"तेषाम् अभावे सामन्तमौलव्र्द्धोद्धृतादयः ।
स्थावरे षट्प्रकारेऽपि कार्या नात्र विचारणा ॥" (का०स्मृ० ७३७)

इति कात्यायनेन क्रमविधानात् । एते च सामन्तादयः संख्यागुणातिरेकेण संभवन्ति,

"सामन्ताः साधनं पूर्वं निर्दोषाः स्युर् गुणान्विताः ।
द्विगुणास् तूत्तरा ज्ञेयास् ततोऽन्ये त्रिगुणा मताः ॥" (का०स्मृ० ७४६)

इति स्मरणात् । ते च साक्षिणः सामन्तादयश् च स्वैः स्वैः शपथैः शापिताः सन्तः सीमां नयेयुः,

"शिरोभिस् ते गृहीत्वोर्वीं स्रग्विणो रक्तवाससः ।
सुकृतैः शापिथाः स्वैः स्वैर् नयेयुस् ते समञ्जसम् ॥" (मा०ध० ८.२५६)

इति स्मरणात् । नयेयुर् इति बहुवचनं द्वयोर् निरासार्थं नैकस्य,

"एकश् चेद् उन्नयेत् सीमां सोपवासः समुन्नयेत् ।
रक्तमाल्याम्बरधरो भूमिम् आदाय मूर्धनि ॥" (ना०स्मृ० ११.१०)

इति नारदेनैकस्याभ्यनुज्ञानात् ॥ योऽयं --

"नैकः समुन्नयेत् सीमां नरः प्रत्ययवान् अपि ।
गुरुत्वाद् अस्य कार्यस्य क्रियैषां बहुषु स्थिता ॥" (ना०स्मृ० ११.९)

इत्य् एकस्य निषेधः, स उभयानुमतधर्मविद्व्यतिरिक्तविषय इत्य् अविरोधः । स्थलादिचिह्नाभावेऽपि साक्षिसामन्तादीनां सीमाज्ञाने उपायविशेषो नारदेनोक्तः ।

"निम्नगापहृतोत्सृष्टनष्टचिह्नासु भूमिषु ।
तत्प्रदेशानुमानाच् च प्रमाणाद् भोगदर्शनात् ॥" इति । (ना०स्मृ० ११.६)

निम्नगया नद्या अपहृतेनापहरणेनोत्सृष्टानि स्वस्थानात् प्रच्युतानि नष्टानि वा लिङ्गानि यासु मर्यादाभूमिषु तत्र तत्प्रदेशानुमानाद् उत्सृष्टनष्टचिह्नानां प्राचीनप्रदेशानुमानात् ग्रामाद् आरभ्य सहस्रदण्डपरिमितं क्षेत्रम् अस्य ग्रामस्य पश्चिमे भागे इत्य् एवंविधात् प्रमाणाद् वा प्रत्यर्थिसमक्षविप्रतिपन्नाया अस्मार्तकालोपलक्षितभुक्तेर् वा निश्चिनुयुः । बृहस्पतिना चात्र विशेषो दर्शितः ।

"आगमं च प्रमाणं च भोगकालं च नाम च ।
भूभागलक्षणं चैव ये विदुस् तेऽत्र साक्षिणः ॥" इति । (बृ०स्मृ० १.१९.२८)

एते च साक्षिसामन्तादयः शपथैः श्राविताः सन्तः कुलादिसमक्षं राज्ञा प्रष्टव्याः । यथाह मनुः ।

"ग्रामेयककुलानां तु समक्षं सीम्नि साक्षिणः ।
प्रष्टव्याः सीमलिङ्गानि तयोश् चैव विवादिनोः ॥" इति । (मा०ध० ८.२५४)

ते च पृष्टाः साक्ष्यादयः एकमत्येन समस्ताः सीम्नि निर्णयं ब्रूयुः । तैर् निर्णीतां सीमां तत्प्रदर्शितसकललिङ्गयुक्तां साक्ष्यादिनामान्वितां चाविस्मरणार्थं पत्रे समारोपयेत् । उक्तं च मनुना ।

"ते पृष्टास् तु यथा ब्रूयुः समस्ताः सीम्नि निर्णयम् ।
निबध्नीयात् तथा सीमां सर्वांस् तांश् चैव नामतः ॥" इति । (मा०ध० ८.२६१)

एतेषां साक्षिसामन्तप्रभृतीनां सीमाचङ्क्रमणदिनाद् आरभ्य यावत् त्रिपक्षं राजदैविकव्यसनाव्यसनं चेन् नोत्पद्यते तदा तत्प्रदर्शनात् सीमानिर्णयः । अयं च राजदैविकव्यसनावधिः कात्यायनेनोक्तः ।

"सीमाचङ्क्रमणे कोशे पादस्पर्शे तथैव च ।
त्रिपक्षपक्षसप्ताहं दैवराजिकम् इष्यते ॥" इति ॥ (का०स्मृ० ७५१) ॥ २.१५२)

यदा त्व् अमीषाम् उक्तसाक्ष्यवचसां त्रिपक्षाभ्यन्तरे रोगादि दृश्यते, अथ वा प्रतिवादिनिर्दिष्टाभ्यधिकसंख्यागुणसाक्ष्यन्तरविरुद्धवचनता, तदा ते मृषाभाषितया दण्डनीयास् तद् आह ।

अनृते तु पृथग् दण्ड्या राज्ञा मध्यमसाहसम् । या०ध०२.१५३अब्

अनृते मिथ्यावादने निमित्तभूते सति सर्वे सामन्ताः प्रत्येकं मध्यमसाहसेन चत्वारिंशदधिकेन पणपञ्चशतेन दण्डनीयाः । सामन्तविषयता चास्य साक्षिमौलादीनां स्मृत्यन्तरे दण्डान्तरविधानाद् अवगम्यते । यथाह मनुः ।

"यथोक्तेन नयन्तस् ते पूयन्ते सत्यसाक्षिणः ।
विपरीतं नयन्तस् तु दाप्याः स्युर् द्विशतं दमम् ॥" इति ॥ (मा०ध० ८.२५७)

नारदोऽपि –

"अथ चेद् अनृतं ब्रूयुः सामन्ताः सीमनिर्णये ।
सर्वे पृथक् पृथग् दण्ड्या राज्ञा मध्यमसाहसम् ॥" (ना०स्मृ० ११.७)

इति सामन्तानां मध्यमसाहसं दण्डम् अभिधाय,

"शेषाश् चेद् अनृतं ब्रूयुर् नियुक्ता भूमिकर्मणि ।
प्रत्येकं तु जघन्यास् ते विनेयाः पूर्वसाहसम् ॥" (ना०स्मृ० : ध०को० ९४५)

इति तत्संसक्तादिषु प्रथमं साहसम् उक्तवान् । मौलादीनाम् अपि तम् एव दण्डम् आह ।

"मौलवृद्धादयस् त्व् अन्ये दण्डगत्या पृथक् पृथक् ।
विनेयाः प्रथमेनैव साहसेनानृते स्थिता ॥" इति । (ध०को० ९४६ ; chf. ना०स्मृ० ११.८)

आदिशब्देन गोपशाकुनिकव्याधवनगोचराणां ग्रहणम् । यद्य् अपि शाकुनिकादीनां पापरतत्वाल् लिङ्गप्रदर्शन एवोपयोगो न साक्षात् सीमानिर्णये तथापि लिङ्गदर्शन एव मृषाभाषित्वसंभवाद् दण्डविधानम् उपपद्यत एव । "अनृते तु पृथक् दण्ड्याः" इत्य् एतद् दण्डविधानम् अज्ञानविषयम् ।

"बहूनां तु गृहीतानां न सर्वे निर्णयं यदि ।
कुर्युर् भयाद् वा लोभाद् वा दण्ड्यास् तूत्तमसाहसम् ॥" (का०स्मृ० ७५०)

इति ज्ञानविषये सक्श्यादीनां कात्यायनेन दण्डान्तरविधानात् ।

तथा साक्षिवचनभेदेऽप्य् अयम् एव दण्डस् तेनैवोक्तः ।

"कीर्तिते यदि भेदः स्याद् दण्ड्यास् तूत्तमसाहसम् ।" इति । (का०स्मृ० ७४१)

एवम् अज्ञानादिनानृतवदने साक्ष्यादीन् दण्डयित्वा पुनः सीमाविचारः प्रवर्तयितव्यः ।

"अज्ञानोक्तौ दण्डयित्वा पुनः सीमां विचारयेत् ।" (का०स्मृ० ७४१)

इत्य् उक्त्वा,

"त्यक्त्वा दुष्टांस् तु सामन्तान् अन्यान् मौलादिभिः सह ।
संमिश्र्य कारयेत् सीमाम् एवं धर्मविदो विदुः ॥" (का०स्मृ० ७४२)

इति निर्णयप्रकारस् तेनैवोक्तः ॥

यदा पुनः सामन्तप्रभृतयो ज्ञातारश् चिह्नानि च न सन्ति, तदा कथं निर्णय इत्य् अत आह ।

अभावे ज्ञातृचिह्नानां राजा सीम्नः प्रवर्तिता ॥ या०ध०२.१५३च्द्

ज्ञातॄणां सामन्तादीनां लिङ्गादीनां च वृक्षादीनाम् अभावे राजैव सीम्नः प्रवर्तिता प्रवर्तयिता । अन्तर्भावितोऽत्र ण्यर्थः । ग्रामद्वयमध्यवर्तिनीं विवादास्पदीभूतां भुवं समं प्रविभज्य अस्येयं भूर् अस्येयम् इत्य् उभयोः समर्प्य तन्मध्ये सीमालिङ्गानि कुर्यात् । यदा तस्यां भूमाव् अन्यतरस्योपकारातिशयो दृश्यते तदा तस्यैव ग्रामस्य सकला भूः समर्पणीया । यथाह मनुः ।

"सीमायाम् अविषह्यायां स्वयं राजैव धर्मवित् ।
प्रदिशेद् भूमिम् एकेषाम् उपकाराद् इति स्थितिः ॥" इति ॥ (मा०ध० ८.२६५) २.१५३ ॥

असत्याम् अप्य् अतद्भावाशङ्कायाम् अस्याः स्मृतेर् न्यायमूलतां दर्शयितुम् अतिदेशम् आह ।

आरामायतनग्रामनिपानोद्यानवेश्मसु ।
एष एव विधिर् ज्ञेयो वर्षाम्बुप्रवहादिषु ॥ या०ध०२.१५४

आरामः पुष्पफलोपचयहेतुर् भूभागः । आयतनं निवेशनं पलालकूटाद्यर्थं विभक्तो भूप्रदेशः । ग्रामः प्रसिद्धः । ग्रामग्रहणं च नगराद्युपलक्षणार्थम् । निपानं पानीयस्थानं वापीकूपप्रभृतिकम् । उद्यानं क्रीडावनम् । वेश्म गृहम् । एतेष्व् आरामादिष्व् अयम् एव सामन्तसाक्ष्यादिलक्षणो विधिर् ज्ञातव्यः । तथा प्रवर्षणोद्भूतजलप्रवाहेषु अनयोर् गृहयोर् मध्येन जलौघः प्रवहत्य् अनयोर् वेत्य् एवंप्रकारे विवादे आदिग्रहणात् प्रासादादिष्व् अपि प्राचीन एव विधिर् वेदितव्यः । तथा च कात्यायनः ।

"क्षेत्रकूपतडागानां केदारारामयोर् अपि ।
गृहप्रासादावसथनृपदेवगृहेषु च ॥" इति ॥ (का०स्मृ० ७४९) ॥२.१५४ ॥

सीमानिर्णयम् उक्त्वा तत्प्रसण्गेन मर्यादाप्रभेदनादौ दण्डम् आह ।

मर्यादायाः प्रभेदे च सीमातिक्रमणे तथा ।
क्षेत्रस्य हरणे दण्डा अधमोत्तममध्यमाः ॥ या०ध०२.१५५

अनेकक्षेत्रव्यवच्छेदिका साधारणा भूर् मर्यादा तस्याः प्रकर्षेण भेदने सीमातिक्रमणे सीमाम् अतिलङ्घ्य कर्षणे क्षेत्रस्य च भयादिप्रदर्शनेन हरणे यथाक्रमेण अधमोत्तममध्यमसाहसा दण्डा वेदितव्याः । क्षेत्रग्रहणं चात्र गृहारामाद्युपलक्षणार्थम् । यदा पुनः स्वीयभ्रान्त्या क्षेत्रादिकम् अपहरति तदा द्विशतो दमो वेदितव्यः । यथाह मनुः ।

"गृहं तडागम् आरामं क्षेत्रं वा भीषया हरन् ।
शतानि पञ्च दण्ड्यः स्याद् अज्ञानाद् द्विशतो दमः ॥" इति । (मा०ध० ८.२६४)

अपह्रियमाणक्षेत्रादिभूयस्त्वपर्यालोचनया कदाचिद् उत्तमोऽपि दण्डः प्रयोक्तव्यः । अत एवाह ।

"वधः सर्वस्वहरणं पुरान् निर्वासनाङ्कने ।
तदङ्गच्छेद इत्य् उक्तो दण्ड उत्तमसाहसः ॥" इति ॥ (ना०स्मृ० १४.७) ॥ २.१५५ ॥

यः पुनः परक्षेत्रे सेतुकूपादिकं प्रार्थनयार्थदानेन वा लब्धानुज्ञो निर्मातुम् इच्छति तन्निषेधतः क्षेत्रस्वामिन एव दण्ड इत्य् आह ।

न निषेध्योऽल्पबाधस् तु सेतुः कल्याणकारकः ।
परभूमिं हरन् कूपः स्वल्पक्षेत्रो बहूदकः ॥ या०ध०२.१५६

परकीयां भूमिम् अपहरन् नाशयन्न् अपि सेतुर् जलप्रवाहबन्धः क्षेत्रस्वामिना न प्रतिषेध्यः स चेद् ईषत्पीडाकरो बहूपकारकश् च भवति । कूपश् चाल्पक्षेत्रव्यापित्वेनाल्पबाधो बहूदकत्वेन कल्याणकारकश् चेतो बहूदको नैव निवारणीयः । कूपग्रहणं च वापीपुष्करिण्याद्युपलक्षणार्थम् । यदा पुनर् असौ सर्वक्षेत्रवर्तितया बहुबाधो नद्यादिसमीपक्षेत्रवर्तितया वाल्पोपकारकस् तदासौ निषेध्य इत्य् अर्थाद् उक्तं भवति । सेतोश् च द्वैविध्यम् उक्तं नारदेन ।

"सेतुश् च द्विविधो ज्ञेयः खेयो बन्ध्यस् तथैव च ।
तोयप्रवर्तनात् खेयो बन्ध्यः स्यात् तन्निवर्तनात् ॥" इति । (ना०स्मृ० ११.१५)

यदा त्व् अन्यनिर्मितं सेतुं भेदनादिना नष्टं स्वयं संस्करोति तदा पूर्वस्वामिनं तद्वंश्यं नृपं वा पृष्ट्वैव संस्कुर्यात् । यथाह नारदः ।

"पूर्वप्रवृत्तम् उत्सन्नम् अपृष्ट्वा स्वामिनं तु यः ।
सेतुं प्रवर्तयेत् कश्चिन् न स तत् फलभाग् भवेत् ॥
मृते तु स्वामिनि पुनस् तद्वंश्ये वापि मानवे ।
राजानम् आमन्त्र्य ततः कुर्यात् सेतुप्रवर्तनम् ॥" इति । (ना०स्मृ० ११.१७–१८) ॥। २.१५६ ॥

क्षेत्रस्वामिनं प्रत्य् उपदिष्टम् । इदानीं सेतोः प्रवर्तयितारं प्रत्य् आह ।

स्वामिने योऽनिवेद्यैव क्षेत्रे सेतुं प्रवर्तयेत् ।
उत्पन्ने स्वामिनो भोगस् तदभावे महीपतेः ॥ या०ध०२.१५७

क्षेत्रस्वामिनम् अनभ्युपगम्य तदभावे राजानं वा यः परक्षेत्रे सेतुं प्रवर्तयत्य् असौ फलभाङ् न भवत्य् अपि तु तदुत्पन्ने फले क्षेत्रस्वामिनो भोगस् तदभावे राज्ञः । तस्मात् प्रार्थनया अर्थदानेन वा क्षेत्रस्वामिनं तदभावे राजानं वानुज्ञाप्यैव परक्षेत्रे सेतुः प्रवर्तनीय इति तात्पर्यार्थः ॥ २.१५७ ॥

क्षेत्रस्वामिना सेतुर् न प्रतिषेध्य इत्य् उक्तम् । इदानीं तस्यैव प्रसक्तानुप्रसक्त्या क्वचिद् विध्यनतरम् आह ।

फालाहतम् अपि क्षेत्रं न कुर्याद् यो न कारयेत् ।
स प्रदाप्यः कृष्टफलं क्षेत्रम् अन्येन कारयेत् ॥ या०ध०२.१५८

यः पुनः क्षेत्रस्वामिपार्श्वे अहम् इदं क्षेत्रं कृषामीत्य् अङ्गीकृत्य पश्चाद् उत्सृजति न चान्येन कर्षयति तच् च क्षेत्रं यद्य् अपि फालाहतं ईसद्धलेन विदारितं न सम्यग् बीजावापार्हं तथापि तस्याकृष्टस्य फलं यावत् तत्रोत्पत्त्यर्हं सामन्तादिकल्पितं तावद् असौ कर्षको दापनीयः । तच् च क्षेत्रं पूर्वकर्षकाद् आच्छिद्यान्येन कारयेत् ॥ २.१५८ ॥

इति सीमाविवादप्रकरणम्
अथ स्वामिपालविवादप्रकरणम्

व्यवहारपदानां परस्परहेतुहेतुमद्भावात् "तेषाम् आद्यम् ऋणादानम्" (मा०ध० ८.४) इत्यादिपाठक्रमो न विवक्षित इति व्युत्क्रमेण स्वामिपालविवादोऽभिधीयते ।

माषान् अष्टौ तु महिषी सस्यघातस्य कारिणी ।
दण्डनीया तदर्धं तु गौस् तदर्धम् अजाविकम् ॥ या०ध०२.१५९

परसस्यविनाशकारिणी महिष्य् अष्टौ माषान् दण्डनीया । गौस् तदर्धं चतुरो माषान् । अजा मेषाश् च माषद्वयं दण्डनीयाः । महिष्यादीनां धनसंबन्धभावात् तत्स्वामी पुरुषो लक्ष्यते । माषश् चात्र ताम्रिकपणस्य विंशतितमो भागः,

"माषो विंशतिमो भागः पणस्य परिकीर्तितः ।" (ध०को० ५३२, थेरे ना०स्मृ० २१.५८)

इति नारदस्मरणात् । एतच् चाज्ञानविषयम् । ज्ञानपूर्वे तु,

"पणस्य पादौ द्वौ गां तु द्विगुणं महिषीं तथा ।
तथाजाविकवत्सानां पादौ दण्डः प्रकीर्तितः ॥" (chf. ध०को० ९१७)

इति स्मृत्यन्तरोक्तं द्रष्टव्यम् । यत् पुनर् नारदेनोक्तम्,

"माषं गां दापयेद् दण्डं द्वौ माषौ महिषीं तथा ।
तथाजाविकवत्सानां दण्डः स्याद् अर्धमाषिकः ॥" (ध०को० ९१७)

इति तत् पुनः प्ररोहयोग्यमूलावशेषभक्षणविषयम् ॥ २.१५९ ॥

अपराधातिशयेन क्वचिद् दण्डद्वैगुण्यम् आह ।

भक्षयित्वोपविष्टानां यथोक्ताद् द्विगुणो दमः । या०ध०२.१६०अब्

यदि पशवः परक्षेत्रे सस्यं भक्षयित्वा तत्रैवानिवारिताः शेरते तदा यथोक्ताद् दण्डाद् द्विगुणो दण्डो वेदितव्यः । सवत्सानां पुनर् भक्षयित्वोपविष्ताणां यथोक्तदण्डाच् चतुर्गुणो दण्डो वेदितव्यः,

"वसतां द्विगुणः प्रोक्तः सवत्सानां चतुर्गुणः ।" (not in ध०को०)

इति वचनात् ॥

क्षेत्रान्तरे पश्वन्तरे चातिदेशम् आह ।

समम् एषां विवीतेऽपि खरोष्ट्रं महिषीसमम् ॥ या०ध०२.१६०च्द्

विवीतः प्रचुरतृणकाष्टो रक्ष्यमाणः परिगृहीतो भूप्रदेशः । तदुपघातेऽपीतरक्षेत्रदण्डेन समं दण्डम् एषां महिष्यादीनां विद्यात् । खराश् च उष्ट्राश् च खरोष्ट्रं तन् महिषीसमम् । महिषी यत्र यादृशेन दण्डेन दण्ड्यते तत्र तादृशेनैव दण्डेन खरोष्ट्रम् अपि प्रत्येकं दण्डनीयम् । सस्योपरोधकत्वेन खरोष्ट्रयोः प्रत्येकं महिषीतुल्यत्वाद् दण्डस्य चापराधानुसारित्वात् खरोष्ट्रम् इति समाहारो न विवक्षितः ॥ २.१६० ॥

परसस्यविनाशे गोस्वामिनो दण्ड उक्तः । इदानीं क्षेत्रस्वामिने फलम् अप्य् असौ दापनीय इत्य् आह ।

यावत् सस्यं विनश्येत् तु तावत् स्यात् क्षेत्रिणः फलम् ।
गोपस् ताड्यश् च गोमी तु पूर्वोक्तं दण्डम् अर्हति ॥ या०ध०२.१६१

सस्यग्रहणं क्षेत्रोपचयोपलक्षणार्थम् । यस्मिन् क्षेत्रे यावत् पलालधान्यादिकं गवादिभिर् विनाशितं तावत् क्षेत्रफलम् एतावति क्षेत्रे एतावद् भवतीति सामन्तैः परिकल्पितं तत्क्षेत्रस्वामिने गोमी दापनीयः । गोपस् तु ताडनीय एव न फलं दापनीयः । गोपस्य च ताडन्ं पूर्वोक्तधनदण्डसहितम् एव पालदोषेण सस्यनाशे द्रष्टव्यम्,

"या नष्टा पालदोषेण गौस् तु सस्यानि नाशयेत् ।
न तत्र गोमिनो दण्डः पालस् तं दण्डम् अर्हति ॥" (ना०स्मृ० ११.३१ ; ध०को० ९१७)

इति वचनात् ॥ गोमी पुनः स्वापराधेन सस्यनाशे पूर्वोक्तं दण्डम् एवार्हति न तादनम् । फलदानं पुनः सर्वत्र गोस्वामिन एव, तत्फलपुष्टमहिष्यादिक्षीरेणोपभोगद्वारेण तत्क्षेत्रफलभागित्वात् । गवादिभक्षितावशिष्टं पलालादिकं गोमिनैव ग्रहीतव्यम्, मध्यस्थकल्पितमूल्यदानेन क्रीतप्रायत्वात् । अत एव नारदः ।

"गोभिस् तु भक्षितं सस्यं यो नरः प्रतियाचते ।
सामन्तानुमतं देयं धान्यं यत् तत्र वापितं ॥
पलालं गोमिने देयं धान्यं वै कर्षकस्य तु ॥" इति ॥ (ना०स्मृ० ११.३४) ॥ २.१६१ ॥

क्षेत्रविशेषे अपवादम् आह ।

पथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते ।
अकामतः कामचारे चौरवद् दण्डम् अर्हति ॥ या०ध०२.१६२

पथि ग्रामसमीपवर्तिनि क्षेत्रे ग्रामविवीतसमीपवर्तिनि च क्षेत्रे अकामतो गोभिर् भक्षिते गोपगोमिनोर् द्वयोर् अप्य् अदोषः । दोषाभावप्रतिपादनं च दण्डाभावार्थं विनष्टसस्यमूल्यदानप्रतिषेधार्थं च । कामचारे कामतश् चारणे चौरवत् चौरस्य यादृशो दण्डस् तादृशं दण्डम् अर्हति । एतच् चानावृतक्षेत्रविषयम्,

"तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि ।
न तत्र प्रणयेद् दण्डं नृपतिः पशुरक्षिणाम् ॥" (मा०ध० ८.२३८)

इति दण्डाभावस्यानावृतक्षेत्रविषयत्वेन मनुनोक्तत्वात् । आवृते पुनर् मार्गादिक्षेत्रेऽपि दोषोऽस्त्य् एव । वृतिकरणं च तेनैवोक्तम् ।

"वृतिं च तत्र कुर्वीत याम् उष्ट्रो नावलोकयेत् ।
छिद्रं निवारयेत् सर्वं श्वसूकरमुखानुगम् ॥" इति ॥ (मा०ध० ८.२३९) २.१६२ ॥

पशुविशेषेऽपि दण्डाभावम् आह ।

महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः ।
पालो येषां न ते मोच्या दैवराजपरिप्लुताः ॥ या०ध०२.१६३

महांश् चासाव् उक्षा च महोक्षो वृषः सेक्ता । उत्सृष्टपशवः वृषोत्सर्गादिविधानेन देवतोद्देशेन वा त्यक्ताः । सूतिका प्रसूता अनिर्दशाहा । आगन्तुकः स्वयूथात् परिभ्रष्टो देशान्तरागतः । एते मोच्याः परसस्यभक्षणेऽपि न दण्ड्याः । येषां च पालो न विद्यते तेऽपि दैवराजपरिप्लुताः दैवराजोपहताः सस्यविनाशकारिणो न दण्ड्याः । आदिशब्दग्रहणाद् धस्त्यश्वादयो गृह्यन्ते । ते च उशनसोक्ताः ।

"अदण्ड्या हस्तिनो ह्य् अश्वाः प्रजापाला हि ते स्मृटाः ।
अदण्ड्यौ काणकुब्जौ च ये शश्वत्कृतलक्षणाः ॥
अदण्ड्या गन्तुकी गौश् च सूतिका वाभिसारिणी ।
अदण्ड्याश् चोत्सवे गावः श्राद्धकाले तथैव च ॥" इति । (ध०को० ९२०)

अत्रोत्सृष्टपशूनाम् अस्वामिकत्वेन दण्ड्यत्वासंभवात् दृष्टान्तार्थम् उपादानम् । यथोत्सृष्टपशवो न दण्ड्या एवं महोक्षादय इति ॥ २.१६३ ॥

गोस्वामिन उक्तम् । इदानीं गोपं प्रत्य् उपदिश्यते ।

यथार्पितान् पशून् गोपः सायं प्रत्यर्पयेत् तथा ।
प्रमादमृतनष्टांश् च प्रदाप्यः कृतवेतनः ॥ या०ध०२.१६४

गोस्वामिना प्रातःकाले गणयित्वा यथा समर्पिताः पशवस् तथैव सायंकाले गोपो गोस्वामिने पशून् विगणय्य प्रत्यर्पयेत् । प्रमादेन स्वापराधेन मृतान् नष्टाम्श् च पशून् कृतवेतनः कल्पितवेतनो गोपः स्वामिने दाप्यः । वेतनकल्पना च नारदेनोक्ता –

"गवां शताद् वत्सतरी धेनुः स्याद् द्विशताद् भृतिः ।
प्रतिसंवत्सरं गोपे संदोहश् चाष्टमेऽहनि ॥" इति । (ना०स्मृ० ६.११)

प्रमादनाशश् च मनुना स्पष्टीकृतः ।

"नष्टं जग्धं च कृमिभिः श्वहतं विषमे मृतम् ।
हीनं पुरुषकारेण प्रदद्यात् पाल एव तु ॥" इति ॥ (मा०ध० ८.२३२)

प्रसह्य चौरैर् अपहृतं न दाप्यः । यथाह मनुः ।

"विक्रम्य तु हृतं चौरैर् न पालो दातुम् अर्हति ।
यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥" इति । (मा०ध० ८.२३३)

दैवमृतानां पुनः कर्णादि प्रदर्शनीयम् ।

"कर्णौ चर्म च वालांश् च वस्तिं स्नायुं च रोचनाम् ।
पशुषु स्वामिनां दद्यान् मृतेष्व् अङ्गानि दर्शयन् ॥" (मा०ध० ८.२३४)

इति मनुस्मरणात् ॥ २.१६४ ॥

किं च ।

पालदोषविनाशे तु पाले दण्डो विधीयते ।
अर्धत्रयोदशपणः स्वामिनो द्रव्यम् एव च ॥ या०ध०२.१६५

पालदोषेणैव पशुविनाशे अर्धाधिकत्रयोदशपणं दण्डं पालो दाप्यः । स्वामिनश् च द्रव्यं विनष्टपशुमूल्यं मध्यस्थकल्पितम् । दण्डपरिमाणार्थः श्लोकोऽन्यत् पूर्वोक्तम् एव ॥ २.१६५ ॥

गोप्रसण्गात् गोप्रचारम् आह ।

ग्राम्येच्छया गोप्रचारो भूमी राजवशेन वा ।
द्विजस् तृणैधःपुष्पाणि सर्वतः सर्वदा हरेत् ॥ या०ध०२.१६६

ग्राम्येच्छया ग्राम्यजनेच्छया भूम्यल्पत्वमहत्त्वापेक्षया राजेच्छया वा गोप्रचारः कर्तव्यः । गवादीनां चरणार्थं कियान् अपि भूभागोऽकृष्टः परिकल्पनीय इत्य् अर्थः । द्विजस् तृणेन्धनाद्यभावे गवाग्निदेवतार्थं तृणकाष्ठकुसुमानि सर्वतः स्ववद् अनिवारित आहरेत् । फलानि त्व् अपवृताद् एव । "गोऽग्न्यर्थं तृणमेधांसि वीरुद्वनस्पतीनां च पुष्पाणि स्ववद् आददीत फलानि चापरिवृतानाम्" (गौ०ध० १२.२८) इति गौतमस्मरणात् । एतच् च परिगृहीतविषयम्, अपरिगृहीते तु द्विजव्यतिरिक्तस्यापि परिग्रहाद् एव स्वत्वसिद्धेः । तथा तेनैवोक्तम् "स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु" इति (गौ०ध० १३.३९) । यत् पुनर् उक्तम्,

"तृणं वा यदि वा काष्ठं पुष्पं वा यदि वा फलम् ।
अनापृच्छन् हि गृह्णानो हस्तच्छेदनम् अर्हति ॥" (बृ०स्मृ० १.२२.२५)

इति, तद् द्विजव्यतिरिक्तविषयम् अनापद्विषयं वा गवादिव्यतिरिक्तविषयं वेति ॥ २.१६६ ॥

इदम् अपरं गवादीनां स्थानासनसौकर्यार्थम् उच्यते ।

धनुःशतं परीणाहो ग्रामे क्षेत्रान्तरं भवेत् ।
द्वे शते खर्वटस्य स्यान् नगरस्य चतुःशतम् ॥ या०ध०२.१६७

ग्रामक्षेत्रयोर् अन्तरं धनुःशतपरिमितं परिणाहः । सर्वतो दिशम् अनुप्तसस्यं कार्यम् । खर्वटस्य प्रचुरकण्टकसन्तानस्य ग्रामस्य द्वे शतं परिणाहः । नगरस्य बहुजनसंकीर्णस्य धनुषां चतुःशतपरिमितम् अन्तरं कार्यम् ॥ २.१६७ ॥

इति स्वामिपालविवादप्रकरणम्
अथास्वामिविक्रयप्रकरणम्

संप्रत्य् अस्वामिविक्रयाख्यं व्यवहारपदम् उपक्रमते । तस्य च लक्षणं नारदेनोक्तम् ।

"निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वापहृत्य वा ।
विक्रीयते समक्षं यत् स ज्ञेयोऽस्वामिविक्रयः ॥" इति (ना०स्मृ० ७.१)

तत्र किम् Pandeya : तत् किम्. इत्य् आह ।

स्वं लभेतान्यविक्रीतं क्रेतुर् दोषोऽप्रकाशिते ।
हीनाद् रहो हीनमूल्ये वेलाहीने च तस्करः ॥ या०ध०२.१६८

स्वम् आत्मसंबन्धि द्रव्यं अन्यविक्रीतम् अस्वामिविक्रीतं यदि पश्यति तदा लभेत गृह्नीयात्, अस्वामिविक्रयस्य स्वत्वहेतुत्वाभावात् । विक्रीतग्रहणं दत्ताहितयोर् उपलक्षणार्थम्, अस्वामिविक्रीतत्वेन तुल्यत्वात् । अत एवोक्तम् ।

"अस्वामिविक्रयं दानम् आधिं च विनिवर्तयेत् ।" इति । (का०स्मृ० ६१२)

क्रेतुः पुनर् अप्रकाशिते गोपिते क्रये दोषो भवति । तथा हीनात् तत्तद्द्रव्यागमोपायहीनाद् रहसि चैकान्ते संभाव्यद्रव्याद् अपि हीनमूल्येनाल्पतरेण च मूल्येन क्रये वेलाहीने वेलया हीनो वेलाहीनः क्रयो रात्र्यादौ कृतस् तत्र च क्रेता तस्करो भवति । तस्करवद् दण्डादिभाग् भवतीत्य् अर्थः । यथोक्तम् ।

"द्रव्यम् अस्वामिविक्रीतं प्राप्य स्वामी तद् आप्नुयात् ।
प्रकाशे क्रयतः शुद्धिः क्रेतुः स्तेयं रहःक्रयात् ॥" इति ॥ (ना०स्मृ० ७.२) ॥ २.१६८ ॥

स्वाम्यभियुक्तेन Pandeya : -युक्ते. क्रेत्रा किं कर्तव्यम् इत्य् अत आह ।

नष्टापहृतम् आसाद्य हर्तारं ग्राहयेन् नरम् ।
देशकालातिपत्तौ च गृहीत्वा स्वयम् अर्पयेत् ॥ या०ध०२.१६९

नष्टम् अपहृतं वान्यदीयं क्रयादिना प्राप्य हर्तारं विक्रेतारं नरम् ग्राहयेत् चौरोद्धरणकादिभिर् आत्मविशुद्ध्यर्थं राजदण्डाप्राप्त्यर्थं च । अथाविदितदेशान्तरं गतः कालान्तरे वा विपन्नस् तदा मूलसमाहरणाशक्तेर् विक्रेतारम् अदर्शयित्वैव स्वयम् एव तद् धनं नाष्टिकस्य समर्पयेत् । तावतैवासौ शुद्धो भवतीति श्रीकराचार्येण व्याख्यातं तद् इदम् अनुपपन्नम्, "विक्रेतुर् दर्शनाच् छुद्धिः" (या०ध० २.१७०) इत्य् अनेन पौनरुक्त्यप्रसण्गात् । अतोऽन्यथा व्याख्यायते । नष्टापहृतम् इति नाष्टिकं प्रत्ययम् उपदेशः । नष्टम् अपहृतं वात्मीयद्रव्यम् आसाद्य क्रेतुर् हस्तस्थं ज्ञात्वा तं हर्तारं क्रेतारं स्थानपालादिभिर् ग्राहयेत् । देशकालातिपत्तौ देशकालातिक्रमे स्थानपालाद्यसंनिधाने तद्विज्ञापनकालात् प्राक् पलायनशङ्कायां स्वयम् एव गृहीत्वा तेभ्यः समर्पयेत् ॥ २.१६९ ॥

ग्राहिते हर्तरि किं कर्तव्यम् इत्य् अत आह ।

विक्रेतुर् दर्शनाच् छुद्धिः स्वामी द्रव्यं नृपो दमम् ।
क्रेता मूल्यम् अवाप्नोति तस्माद् यस् तस्य विक्रयी ॥ या०ध०२.१७०

यद्य् असौ गृहीतः क्रेता न मयेदम् अपहृतम् अन्यसकशात् क्रीतम् इति वक्ति, तदा तस्य क्रेतुर् विक्रेतुर् दर्शनमात्रेण शुद्धिर् भवति । न पुनर् असाव् अभियोज्यः । किं तु तत्प्रदर्शितेन विक्रेत्रा सह नाष्टिकस्य विवादः । यथाह बृहस्पतिः ।

"मूले समाह्र्ते क्रेता नाभियोज्यः कथंचन ।
मूलेन सह वादस् तु नाष्टिकस्य विधीयते ॥" इति ॥ (बृ०स्मृ० १.१२.६)

तस्मिन् विवादे यद्य् अस्वामिविक्रयनिश्चयो भवति तदा तस्य नष्टापहृतस्य गवादिद्रव्यस्य यो विक्रयी विक्रेता तस्य सकाशात् स्वामी नाष्टिकः स्वीयं द्रव्यम् अवाप्नोति नृपश् चापराधानुरूपं दण्डं क्रेता च मूल्यम् अवाप्नोति । अथासौ देशान्तरगतस् तदा योजनसंख्यया आनयनार्थं कालो देयः,

"प्रकाशं वा क्रयं कुर्यान् मूलं वापि समर्पयेत् ।
मूलानयनकालश् च देयस् तत्राध्वसंख्यया ॥" (का०स्मृ० ६१५)

इति स्मरणात् ॥ अथाविज्ञातदेशतया मूलम् आहर्तुं न शक्नोति तदा क्रयं शोधयित्वैव शुद्धो भवति,

"असमाहार्यमूलस् तु क्रयम् एव विशोधयेत् ।" (का०स्मृ० ६१८)

इति वचनात् ॥ यदा पुनः साक्ष्यादिभिर् दिव्येन वा क्रयं न शोधयति मूलं च न प्रदर्शयति तदा स एव दण्डभाग् भवति । इति ।

"अनुपस्थापयन् मूलं क्रयं वाप्य् अविशोधयन् ।
यथाभियोगं धनिने धनं दाप्यो दमं च सः ॥" (ध०को० ७६०)

इति मनुस्मरणात् ॥ २.१७० ॥

"स्वं लभेतान्यविक्रीतम्" इत्य् उक्तम् (या०ध० २.१६८) । तल्लिप्सुना किं कर्तव्यम् इत्य् अत आह ।

आगमेनोपभोगेन नष्टं भाव्यम् अतोऽन्यथा ।
पञ्चबन्धो दमस् तस्य राज्ञे तेनाविभाविते ॥ या०ध०२.१७१

आगमेन रिक्थक्रयादिना उपभोगेन च मदीयम् इदं द्रव्यं तच् चैवं नष्टम् अपहृतं वेत्य् अपि भाव्यं साधनीयं तत्स्वामिना । अतोऽन्यथा तेन स्वामिना अविभाविते पञ्चबन्धो नष्टद्रव्यस्य पञ्चमांशो दमो नाष्टिकेन राज्ञे देयः । अत्र चायं क्रमः । पूर्वस्वामी नष्टम् आत्मीयं साधयेत् । ततः क्रेता चौर्यपरिहारार्थं मूल्यलाभाय च विक्रेतारम् आनयेत् । अथानेतुं ना शक्नोति तदात्मदोषपरिहाराय क्रयं शोधयित्वा द्रव्यं नाष्टिकस्य समर्पयेद् इति ॥ २.१७१ ॥

तस्करस्य प्रच्छादकं प्रत्य् आह ।

हृतं प्रनष्टं यो द्रव्यं परहस्ताद् अवाप्नुयात् ।
अनिवेद्य नृपे दण्ड्यः स तु षण्णवतिं पणान् ॥ या०ध०२.१७२

हृतं प्रणष्टं वा चौरादिहस्तस्थं द्रव्यं अनेन मदीयं द्रव्यम् अपहृतम् इति नृपस्यानिविद्यैव दर्पादिना यो गृह्नाति, असौ षडुत्तरान् नवतिं पणान् दण्डनीयः, तस्करप्रच्छादकत्वेन दुष्टत्वात् ॥ २.१७२ ॥

राजपुरुषानीतं प्रत्य् आह ।

शौल्किकैः स्थानपालैर् वा नष्टापहृतम् आहृतम् ।
अर्वाक् संवत्सरात् स्वामी हरेत परतो नृपः ॥ या०ध०२.१७३

यदा तु शुल्काधिकारिभिः स्थानरक्षिभिर् वा नष्टम् अपहृतं द्रव्यं राजपार्श्वं प्रत्यानीतं तदा संवतसराद् अर्वाक् प्राप्तश् चेत् नाष्टिकस् तद् द्रव्यम् अवाप्नुयात् । ऊर्ध्वं पुनः संवत्सराद् राजा गृह्नीयात् । स्वपुरुषानीतं च द्रव्यं जनसमूहेषूद्घोष्य यावत् संवत्सरं राज्ञा रक्षनीयम् । यथाह गौतमः "प्रणष्टस्वामिकम् अधिगम्य राज्ञे प्रब्रूयुः । विख्यातं संवत्सरं राज्ञा रक्ष्यम्" (गौ०ध० १०.३६–३७) इति । यत् पुनर् मनुना विध्यन्तरम् उक्तम्,

"प्रणष्टस्वामिकं द्रव्यं राजा त्र्यब्दं निधापयेत् ।
अर्वाक् त्र्यब्दाद् धरेत् स्वामी परतो नृपतिर् हरेत् ॥" इति । (मा०ध० ८.३०)

तच् छ्रुतवृत्तसंपन्नब्राह्मणविषयम् । रक्षणनिमित्तषड्भागादिग्रहणं च तेनैवोक्तम् ।

"आददीताथ षड्भागं प्रनष्टाधिगतान् नृपः ।
दशमं द्वादशं वापि सतां धर्मम् अनुस्मरन् ॥" इति ॥ (मा०ध० ८.३३)

तृतीयद्वितीयप्रथमसंवत्सरेषु यथाक्रमं षष्ठादयो भागा वेदितव्याः । प्रपञ्चितं चैतत् पुरस्तात् ॥ २.१७३ ॥

मनूक्तषड्भागादिग्रहणस्य (chf. मा०ध० ८.३३) द्रव्यविशेषेऽपवादम् आह ।

पणान् एकशफे दद्याच् चतुरः पञ्च मानुषे ।
महिषोष्ट्रगवां द्वौ द्वौ पादं पादम् अजाविके ॥ या०ध०२.१७४

एकशफे अश्वादौ प्रणष्टाधिगते तत्स्वामी राज्ञे रक्षणनिमित्तं चतुरः पणान् दद्यात् । मानुषे मनुष्यजातीये द्रव्ये पञ्च पणान् । महिषोष्ट्रगवां रक्षणनिमित्तं प्रत्येकं द्वौ द्वौ पणौ अजाविके पुनः प्रत्येकं पादं पादम् । दद्यादिति सर्वत्रानुषज्यते । अजाविकम् इति समासनिर्देशेऽपि पादं पादम् इति वीप्साबलात् प्रत्येकं संबन्धोऽवगम्यते ॥ २.१७४ ॥

इत्य् अस्वामिविक्रयप्रकरणम्
अथ दत्ताप्रदानिकप्रकरणम्

अधुना विहिताविहितमार्गद्वयाश्रयतया दत्तानपकर्म दत्ताप्रदानिकम् इति च लब्धाभिधानद्वयं दानाख्यं व्यवहारपदम् अभिधीयते । तत्स्वरूपं च नारदेनोक्तम् ।

"दत्त्वा द्रव्यम् असम्यग् यः पुनर् अदातुम् इच्छति ।
दत्ताप्रदानिकं नाम व्यवहारपदं हि तत् ॥" इति । (ना०स्मृ० ४.१)

असम्यग् अविहितमार्गाश्रयेण द्रव्यं दत्त्वा पुनर् आदातुम् इच्छति यस्मिन् विवादपदे तद् दत्ताप्रदानिकं दत्तस्याप्रदानं पुनर्हरणं यस्मिन् दानाख्ये तद् दत्ताप्रदानिकं नाम व्यवहारपदम् । विहितमार्गाश्रयत्वेन तत्प्रतिपक्षभूतं तद् एव व्यवहारपदं दत्तानपकर्मेत्य् अर्थाद् उक्तं भवति । दत्तस्यानपकर्म अपुनरादानाख्यं यत्र दानाख्ये विवादपदे तद् दत्तानपकर्म । तच् च देयादेयादिभेदेन चतुर्विधम् । यथाह नारदः ।

"अथ देयम् अदेयं च दत्तं वादत्तम् एव च ।
व्यवहारेषु विज्ञेयो दानमार्गश् चतुर्विधः ॥" इति । ना०स्मृ० ४.२)

तत्र देयम् इत्य् अनिषिद्धदानक्रियायोग्यम् उच्यते । अदेयम् अस्वतया निषिद्धतया वा दानानर्हम् । यत् पुनः प्रकृतिस्थेन दत्तम् अव्यावर्तनीयं तद् दत्तम् उच्यते । अदत्तं तु यत् प्रत्याहरणीयं तत् कथ्यते ।

तद् एतत् संक्षेपतो निरूपयितुम् आह ।

स्वं कुटुम्बाविरोधेन देयं या०ध०२.१७५अ

स्वम् आत्मीयं कुटुम्बाविरोधेन कुटुम्बानुपरोधेन । कुटुम्बभरणावशिष्टम् इति यावत् । तद् दद्यात्, तद्भरणस्यावश्यकत्वात् । यथाह मनुः ।

"वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः ।
अप्य् अकार्यशतं कृत्वा भर्तव्या मनुर् अब्रवीत् ॥" इति । (मा०ध० ११.१०)

"स्वं कुटुम्बाविरोधेन" इत्य् अनेनादेयम् एकविधं दर्शयति । स्वं दद्याद् इत्य् अनेन चास्वभूतानाम् अन्वाहितयाचितकाधिसाधारणनिक्षेपाणां पञ्चानाम् अप्य् अदेयत्वं व्यतिरेकतो दर्शितम् । यत् पुनर् नारदेन अष्टविधत्वम् अदेयानाम् उक्तम्,

"अन्वाहितं याचितकम् आधिः साधारणं च यत् ।
निक्षेपः पुत्रदारांश् च सर्वस्वं चान्वये सति ।
आपत्स्व् अपि हि कष्टासु वर्तमानेन देहिना ।
अदेयान्य् आहुर् आचार्या यच् चान्यस्मै प्रतिश्रुतम् ॥" (ना०स्मृ० ४.४–५)

इति, एतद् अदेयत्वमात्राभिप्रायेण न पुनः स्वत्वाभावाभिप्रायेण, पुत्रदारसर्वस्वप्रतिश्रुतेषु स्वत्वस्य सद्भावात् । अन्वाहितादीनां स्वरूपं प्राग् एव प्रपञ्चितम् ॥

"स्वं दद्याद्" इत्य् अनेन दारसुतादेर् अपि स्वत्वाविशेषेण देयत्वप्रसण्गे प्रतिषेधम् आह ।

दारसुताद् ऋते । या०ध०२.१७५ब्

नान्वये सति सर्वस्वं यच् चान्यस्मै प्रतिश्रुतम् ॥ या०ध०२.१७५च्द्

दारसुताद् ऋते दारसुतव्यतिरिक्तं स्वं दद्यान् न दारसुतम् इत्य् अर्थः । तथा पुत्रपौत्राद्यन्वये विद्यमाने सर्वं धनं न दद्यात्,

"पुत्रान् उत्पाद्य संस्कृत्य वृत्तिं चैषां प्रकल्पयेत् ।"
(?)

इति स्मरणात् । तथा हिरण्यादिकम् अन्यस्मै प्रतिश्रुतम् अन्यस्मै न देयम् ॥ २.१७५ ॥

एवं दारसुतादिव्यतिरिक्तं देयम् उक्त्वा प्रसङ्गाद् अदेयधनग्रहणं च प्रतिग्रहीत्रा प्रकाशम् एव कर्तव्यम् इत्य् आह ।

प्रतिग्रहः प्रकाशः स्यात् स्थावरस्य विशेषतः । या०ध०२.१७६अब्

प्रतिग्रहणं प्रतिग्रहः सः प्रकाशः कर्तव्यो विवादनिराकरणार्थम् । "स्थावरस्य च विशेषतः" प्रकाशम् एव ग्रहणं कार्यम् । तस्य सुवर्णादिवद् आत्मनि स्थितस्य दर्शयितुम् अशक्यत्वात् ॥

एवं प्रासङ्गिकम् उक्त्वा, प्रकृतम् अनुसरन्न् आह ।

देयं प्रतिश्रुतं चैव दत्त्वा नापहरेत् पुनः ॥ या०ध०२.१७६च्द्

"देयं प्रतिश्रुतं चैव" यद् यस्मै धमार्थं प्रतिश्रुतं तत् तस्मै देयम् एव यद्य् असौ धर्मात् प्रच्युतो न भवति । प्रच्युते न पुनर् दातव्यम् । "प्रतिश्रुत्याप्य् अधर्मसंयुक्ताय न दद्यात्" (गौ०ध० ५.२३) इति गौतमस्मरणात् । "दत्त्वा नापहरेत्पुनः" । न्यायमार्गेण यद् दत्तं तत् सप्तविधम् अपि पुनर् नापहर्तव्यम्, किं तु तथैवानुमन्तव्यम् । यत् पुनर् अन्यायेन दत्तं तद् अदत्तं षोडशप्रकारम् अपि प्रत्यार्हतव्यम् एवेत्य् अर्थाद् उक्तं भवति । नारदेन च,

"दत्तं सप्तविधं प्रोक्तम् अदत्तं षोडशात्मकम् ।" (ना०स्मृ० ४.३)

इति प्रतिपाद्य, दत्तादत्तयोः स्वरूपं विवृतं ।

"पण्यमूल्यं भृतिस् तुष्ट्या स्नेहात् प्रत्युपकारतः ।
स्त्रीशुल्कानुग्रहार्थं च दत्तं दानविदो विदुः ।
अदत्तं तु भयक्रोधशोकवेगरुगन्वितैः ।
तथोत्कोचपरीहासव्यत्यासच्छलयोगतः ॥
बालमूढास्त्वतन्त्रार्तमत्तोन्मत्तापवर्जितम् ।
कर्ता ममेदं कर्मेति प्रतिलाभेच्छया च यत् ॥
अपात्रे पात्रम् इत्य् उक्ते कार्ये वा धर्मसंहिते ।
यद् दत्तं स्याद् अविज्ञानाद् अदत्तम् इति तत् स्मृतम् ॥" इति । (ना०स्मृ० ४.७–१०)

अयम् अर्थः : पण्यस्य क्रीतद्रव्यस्य यन् मूल्यं दत्तम्, भृतिर् वेतनं कृतकर्मणे दत्तम्, तुष्ट्या बन्दिचारणादिभ्यो दत्तम्, स्नेहाद् दुहितृपुत्रादिभ्यो दत्तम्, प्रत्युपकारत उपकृतवते प्रत्युपकाररूपेण दत्तम्, स्त्रीशुल्कं परिणयनार्थं कन्याज्ञातिभ्यो यद् दत्तम्, यच् चानुग्रहार्थम् अदृष्टार्थं दत्तं तद् एतत् सप्तविधम् अपि दत्तम् एव न प्रत्याहरणीयम् । भयेन बन्दिग्राहादिभ्यो दत्तम्, क्रोधेन पुत्रादिभ्यो वैरनिर्यातनायान्यस्मै दत्तम्, पुत्रवियोगादिनिमित्तशोकावेशेन दत्तम्, उत्कोचेन कार्यप्रतिबन्धनिरासार्थम् अधिकृतेभ्यो दत्तम्, परिहासेनोपहासेन दत्तम् । एकः स्वं द्रव्यम् अन्यस्मै ददात्य् अन्योऽपि तस्मै ददातीति दानव्यत्यासः । छलयोगतः शतदानम् अभिसंधाय सहस्रम् इति परिभाष्य ददाति । बालेनाप्राप्तषोडशवर्षेण । मूढेन लोकवादानभिज्ञेन । अस्वतन्त्रेण पुत्रदासादिना । आर्तेन रोगाभिभूतेन । मत्तेन मदनीयमत्तेन । उन्मत्तेन वातिकाद्युन्मादग्रस्तेन अपवर्जितं दत्तं, यथायं मदीयम् इदं कर्म करिष्यतीति प्रतिलोभेच्छया दत्तम्, अचतुर्वेदाय चतुर्वेदोऽहम् इत्य् उक्तवते दत्तम्, यज्ञं करिष्यामीति धनं लब्ध्वा द्यूतादौ विनियुञ्जानाय दत्तम् इत्य् एवं षोडशप्रकारम् अपि दत्तम् अदत्तम् इत्य् उच्यते, प्रत्याहरणीयत्वात् । आर्तदत्तस्यादत्तत्वं धर्मकार्यव्यतिरिक्तविषयम्,

"स्वस्थेनार्तेन वा दत्तं श्रावितं धर्मकारणात् ।
अदत्त्वा तु मृते दाप्यस् तत्सुतो नात्र संशयः ॥" (का०स्मृ० ५६६)

इति कात्यायनस्मरणात् ॥ तथेदम् अपरं संक्षिप्तार्थवचनं सर्वविवादसाधारणम् ।

"योगाधमनविक्रीतं योगदानप्रतिग्रहम् ।
यत्र वाप्य् उपधिं पश्येत् तत् सर्वं विनिवर्तयेत् ॥" इति ॥ (मा०ध० ८.१६५)

योग उपाधिः । येनागामिनोपाधिविशेषेणाधिविक्रयदानप्रतिग्रहाः कृतास् तदुपाधिविगमे तान् क्रयादीन् विनिवर्तयेद् इत्य् अस्यार्थः । यः पुनः षोडशप्रकारम् अप्य् अदत्तं गृह्नाति यश् चादेयं प्रयच्छति तयोर् दण्डो नारदेनोक्तः ।

"गृह्नात्य् अदत्तं यो लोभाद् यश् चादेयं प्रयच्छति ।
अदेयदायको दण्ड्यस् तथा दत्तप्रतीच्छकः ॥" इति ॥ (ना०स्मृ० ४.११) ॥२.१७६ ॥

इति दत्ताप्रदानिकं नाम प्रकरणम्
अथ क्रीतानुशयप्रकरणम्

अथ क्रीतानुशयः कथ्यते । तत्स्वरूपं नारदेनोक्तम् ।

"क्रीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते ।
क्रीतानुषय इत्य् एतद् विवादपदम् उच्यते ॥" इति । (ना०स्मृ० ९.१)

तत्र च यस्मिन्न् अहनि पण्यं क्रीतं तस्मिन्न् एवाह्नि तद् अविकृतं प्रत्यर्पणीयम् इति तेनैवोक्तम् ।

"क्रीत्वा मूल्येन यत् पण्यं दुःक्रीतं मन्यते क्रयी ।
विक्रेतुः प्रतिदेयं तत् तस्मिन्न् एवाह्न्य् अविक्षतम् ॥" इति । (ना०स्मृ० ९.२)

द्वितीयादिदिने तु प्रत्यर्पणे विशेषस् तेनैवोक्तः ।

"द्वितीयेऽह्नि ददत् क्रेता मूल्यात् त्रिंशांशम् आहरेत् ।
द्विगुणं तु तृतीयेऽह्नि परतः क्रेतुर् एव तत् ॥" इति ॥ (ना०स्मृ० ९.३)

परतोऽनुशयो न कर्तव्य इत्य् अर्थः । एतच् च बीजातिरिक्तोपभोगादिविनश्वरवस्तुविषयम् ।

बीजादिक्रये पुनर् अन्य एव प्रत्यर्पणविधिर् इत्य् आह ।

दशैकपञ्चसप्ताहमासत्र्यहार्धमासिकम् ।
बीजायोवाह्यरत्नस्त्रीदोह्यपुंसां परीक्षणम् ॥ या०ध०२.१७७

बीजं व्रीह्यादिबीजम् । अयो लोहम् । वाह्यो बलीवर्दादिः । रत्नं मुक्ताप्रवालादि । स्त्री दासी । दोह्यं महिष्यादि । पुमान् दासः । एषां बीजादीनां यथाक्रमेण दशाहादिकः परीक्षाकालो विज्ञेयः । परीक्ष्यमाणे च बीजादौ यद्य् असम्यक्त्वबुद्ध्यानुशयो भवति तदा दशाहाद्यभ्यन्तर एव क्रयनिवृत्तिर् न पुनर् ऊर्ध्वम् इत्य् उपदेशप्रयोजनम् । यत् तु मनुवचनम्,

"क्रीत्वा विक्रीय वा किंचिद् यस्येहानुशयो भवेत् ।
सोऽन्तर् दशाहात् तद् द्रव्यं दद्याच् चैवाददीत च ॥" (मा०ध० ८.२२२)

इति, तद् उक्तलोहादिव्यतिरिक्तोपभोगविनश्वरगृहक्षेत्रयानशयनासनादिविषयम् । सर्वं चैतद् अपरीक्षितक्रीतविषयम् । यत् पुनः परीक्ष्य न पुनः प्रत्यर्पणीयम् इति समयं कृत्वा क्रीतं तद् विक्रेत्रे न प्रत्यर्पणीयम् । तद् उक्तम् ।

"क्रेता पण्यं परीक्षेत प्राक् स्वयं गुणदोषतः ।
परीक्ष्याभिमतं क्रीतं विक्रेतुर् न भवेत् पुनः ॥" इति ॥ (ना०स्मृ० ९.४) ॥ २.१७७ ॥

दोह्यादिपरीक्षाप्रसङ्गेन स्वर्णादेर् अपि परीक्षाम् आह ।

अग्नौ सुवर्णम् अक्षीणं रजते द्विपलं शते ।
अष्टौ त्रपुणि सीसे च ताम्रे पञ्च दशायसि ॥ या०ध०२.१७८

वह्नौ प्रताप्यमानं सुवर्णं न क्षीयते । अतः कटकादिनिर्माणार्थं यावत् स्वर्णकारहस्ते प्रक्षिप्तं तावत् तुलितं तैः प्रत्यर्पणीयम् । इतरथा क्षयं दाप्या दण्ड्याश् च । रजते तु शतपले प्रताप्यमाने पलद्वयं क्षीयते । अष्टौ त्रपुणि सीसे च । शते इत्य् अनुवर्तते । त्रपुणि सीसे च शतपले प्रताप्यमानेऽष्टौ पलानि क्षीयन्ते । ताम्रे पञ्चदशायसि ताम्रे शतपले पञ्चपलानि । अयसि दशपलानि क्षीयन्ते । अत्रापि शत इत्य् एव । कांस्यस्य तु त्रपुताम्रयोनित्वात् तदनुसारेण क्षयः कल्पनीयः । ततोऽधिकक्षयकारिणः शिल्पिनो दण्ड्याः ॥ २.१७८ ॥

क्वचित् कम्बलादौ वृद्धिम् आह ।

शते दशपला वृद्धिर् और्णे कार्पाससौत्रिके ।
मध्ये पञ्चपला वृद्धिः सूक्ष्मे तु त्रिपला मता ॥ या०ध०२.१७९

स्थूलेनौर्णसूत्रेण यत् कम्बलादिकं क्रियते तस्मिन् शतपले दशपला वृद्धिर् वेदितव्या । एवं कार्पाससूत्रनिर्मिते पटादौ वेदितव्यम् । मध्ये अनतिसूक्ष्मसूत्रनिर्मिते पटादौ पञ्चपला वृद्धिः । सुसूक्ष्मसूत्ररचिते शते त्रिपला वृद्धिर् वेदितव्या । एतच् चाप्रक्षालितवासोविषयम् ॥ २.१७९ ॥

द्रव्यान्तरे विशेषम् आह ।

कार्मिके रोमबद्धे च त्रिंशद्भागः क्षयो मतः ।
न क्षयो न च वृद्धिश् च कौशेये वाल्कलेषु च ॥ या०ध०२.१८०

कार्मिकं कर्मणा चित्रेण निर्मितम् । यत्र निष्पन्ने पटे चक्रस्वस्तिकादिकं चित्रं सूत्रैः क्रियते तत् कार्मिकम् इत्य् उच्यते । यत्र प्रावारदौ रोमाणि बध्यन्ते स रोमबद्धः, तत्र त्रिंशत्तमो भागः क्षयो वेदितव्यः । कौशेये कोशप्रभवे वाल्कलेषु वृक्षत्वङ्निर्मितेषु वसनेषु वृद्धिह्रासौ न स्तः किं तु यावद् वयनार्थं कुविन्दादिभ्यो दत्तं तावद् एव प्रत्यादेयम् ॥ २.१८० ॥

द्रव्यानन्त्यात् प्रतिद्रव्यं क्षयव्र्द्धिप्रतिपादनाशक्तेः सामान्येन ह्रासवृद्धिज्ञानोपायम् आह ।

देशं कालं च भोगं च ज्ञात्वा नष्टे बलाबलम् ।
द्रव्याणां कुशला ब्रूयुर् यत् तद् दाप्यम् असंशयम् ॥ या०ध०२.१८१

शाणक्षौमादौ द्रव्ये नष्टे ह्रासम् उपगते द्रव्याणां कुशलाः द्रव्यवृद्धिक्षयाभिज्ञाः देशं कालम् उपभोगं तथा नष्टद्रव्यस्य बलाबलं सारासारतां च परीक्ष्य यत् कल्पयन्ति तद् असंशयं शिल्पिनो दाप्याः ॥ २.१८१ ॥

इति क्रीतानुशयप्रकरणम्
अथाभ्युपेत्याशुश्रूषाप्रकरणम्

सांप्रतम् अभ्युपेत्याशुश्रूषाख्यम् अपरं विवादपदम् अभिधातुम् उपक्रमते । तत्स्वरूपं च नारदेनोक्तम् ।

"अभ्युपेत्य तु शुश्रूषां यस् तां न प्रतिपद्यते ।
अशुश्रूषाभ्युपेत्यैतद् विवादपदम् उच्यते ॥" इति । (ना०स्मृ० ५.१)

आज्ञाकरणं शुश्रूषा ताम् अङ्गीकृत्य पश्चाद् यो न संपादयति तद्विवादपदम् अभ्युपेत्याशुश्रूषाख्यम् । शुश्रूषकश् च पञ्चविधः । शिष्योऽन्तेवासी भृतकोऽधिकर्मकृद् दास इति । तेषाम् आद्याश् चत्वारः कर्मकरा इत्य् उच्यन्ते । ते च शुभकर्मकारिणः । दासाः पुनर् गृहजातादयः पञ्चदशप्रकाराः । गृहद्वाराशुचिस्थानरथ्यावस्करशोधनाद्यशुभकर्मकारिणः । तद् इदं नारदेन स्पष्टीकृतम् ।

"शुश्रूषकः पञ्चविधः शास्त्रे दृष्टो मनीषिभिः ।
चतुर्विधाः कर्मकरास् तेषां दासास् त्रिपञ्चकाः ॥
शिष्यान्तेवासिभृतकाश् चतुर्थस् त्व् अधिकर्मकृत् ।
एते कर्मकरा ज्ञेया दासास् तु गृहजादयः ॥
सामान्यम् अस्वतन्त्रत्वम् एषाम् आहुर् मनीषिणः ।
जातिकर्मकृतस् तूक्तो विशेषो वृत्तिर् एव च ॥
कर्मापि द्विविधं ज्ञेयम् अशुभं शुभम् एव च ।
अशुभं दासकर्मोक्तं शुभं कर्मकृतां स्मृतम् ॥
गृहद्वाराशुचिस्थानरथ्यावस्करशोधनम् ।
गुह्याङ्गस्पर्शनोच्छिष्टविण्मूत्रग्रहणोज्झनम् ॥
इच्छतः स्वामिनश् चाङ्गैर् उपस्थानम् अथान्ततः ।
अशुभं कर्म विज्ञेयं शुभम् अन्यद् अतः परम् ॥" इति ॥ (ना०स्मृ० ५.२–७)

तत्र शिष्यो वेदविद्यार्थी । अन्तेवासी शिल्पशिक्षार्थी । मूल्येन यः कर्म करोति स भृतकः । कर्मकुर्वताम् अधिष्ठाताधिकर्मकृत् । अशुचिस्थानम् उच्छिष्टप्रक्षेपार्थं गर्तादिकम् । अवस्करो गृहमार्जितपांस्वादिनिचयस्थानम् । उज्झनं त्यागः । भृतकश् चात्र त्रिविधः । तद् उक्तम्

"उत्तमस् त्व् आयुधीयोऽत्र मध्यमस् तु कृषीवलः ।
अधमो भारवाही स्याद् इत्य् एवं त्रिविधो भृतः ॥" इति । (ना०स्मृ० ५.२१)

दासाः पुनः :

"गृहजातस् तथा क्रीतो लब्धो दायाद् उपागतः ।
अनाकालभृतस् तद्वद् आहितः स्वामिना च यः ॥
मोक्षितो महतश् चर्णाद् युद्धप्राप्तः पणे जितः ।
तवाहम् इत्य् उपगतः प्रव्रज्यावसितः कृतः ॥
भक्तदासश् च विज्ञेयस् तथैव वडवाहृतः ।
विक्रेता चात्मनः शास्त्रे दासाः पञ्चदश स्मृताः ॥" (ना०स्मृ० ५. २४–२६)

गृहे दास्यां जातो गृहजातः । क्रीतो मूल्येन लब्धः प्रतिग्रहादिना । दायाद् उपागतः पित्रादिदासः । अनाकालभृतो दुर्भिक्षे यो दासत्वाय मरणाद् रक्षितः । आहितः स्वामिना धनग्रहणेनाधितां नीतः । ऋणमोचनेन दासत्वम् अभ्युपगतो ऋणदासः । युद्धप्राप्तः समरे विजित्य गृहीतः । पणे जितो यद्य् अस्मिन् विवादे पराजितोऽहं तदा त्वद्दासो भवामीति परिभाष्य जितः । तवाहम् इत्य् उपगतः तवाहं दास इति स्वयं संप्रतिपन्नः । प्रव्रज्यावसितः प्रव्रज्यातश् च्युतः । कृतः एतावत् कालं त्वद्दास इत्य् अभ्युपगमितः । भक्तदासः सर्वकालं भक्तार्थम् एव दासत्वम् अभ्युपगम्य यः प्रविष्टः । वडवाहृतः वडवा गृहदासी तयाहृतः तल्लोभेन ताम् उद्वाह्य दासत्वेन प्रविष्टः । य आत्मानं विक्रीणितेऽसाव् आत्मविक्रेतेत्य् एवं पञ्चदश प्रकाराः ॥ यत् तु मनुना,

"ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्त्रिमौ ।
पैत्रिको दण्डदासश् च सप्तैते दासयोनयः ॥" (मा०ध० ८.४१५)

इति सप्तविधत्वम् उक्तंम्, तत् तेषां दासत्वप्रतिपादनार्थं न तु परिसंख्यार्थम् । तत्रैषां शिष्यान्तेवासिभृतकाधिकर्मकृद्दासानां मध्ये शिष्यवृत्तिः प्राग् एव प्रतिपादिता,

आहूतश् चाप्य् अधीयीत लब्धं चास्मै निवेदयेत् । (या०ध० १.२७)

इत्यादिना । अधिकर्मकृद् भृतकानां तु भृतिं वेतनादानप्रकरणे वक्ष्यते,

यो यावत् कुरुते कर्म तावत् तस्य तु वेतनम् । (या०ध० २.१९६)

इत्यादिना ॥

दासान्तेवासिनोस् तु धर्मविशेषं वक्तुम् आह ।

बलाद् दासीकृतश् चौरैर् विक्रीतश् चापि मुच्यते ।
स्वामिप्राणप्रदो भक्तत्यागात् तन् निष्क्रयाद् अपि ॥ या०ध०२.१८२

बलात् बलावष्टम्भेन यो दासीकृतः, यश् चौरैर् अपहृत्य विक्रीतः, अपिशब्दाद् आहितो दत्तश् च, स मुच्यते । यदि स्वामी न मुञ्चति तर्हि राज्ञा मोचयितव्यः । उक्तं च नारदेन ।

"चौरापहृतविक्रीता ये च दासीकृता बलात् ।
राज्ञा मोचयितव्यास् ते दास्यं तेषु हि नेष्यते ॥" इति । (ना०स्मृ० ५.३६)

चौरव्याघ्राद्यवरुद्धस्य स्वामिनः प्राणान् यः प्रददाति रक्षत्य् असाव् अपि मोचयितव्यः । तद् इदं सर्वदासानां साधारणं दास्यनिवृत्तिकारणम्,

"यो वैषां स्वामिनं कश्चिन् मोचयेत् प्राणसंशयात् ।
दासत्वात् स विमुच्यते पुत्रभागं लभेत च ॥" (ना०स्मृ०५.२८)

इति नारदस्मरणात् ॥ भक्तदासादीनां प्रातिस्विकम् अपि मोक्षकरणम् उच्यते । अनाकालभृतभक्तदासौ भक्तस्य त्यागाद् दासभावाद् आरभ्य स्वामिद्रव्यं यावद् उपभुक्तं तावद् दत्त्वा मुच्येते । आहितर्णदासौ तु तन्निष्क्रयाद् यद् गृहीत्वा स्वामिना आहितो यच् च दत्त्वा धनिनोत्तमर्णान् मोचितस् तस्य निष्क्रयात् सवृद्धिकस्य प्रत्यर्पणान् मुच्यते । नारदेन विशेषोऽप्युक्तः ।

"अनाकालभृतो दास्यान् मुच्यते गोयुगं ददत् ।
संभक्षितं यद् दुर्भिक्षे न तच् छुध्येत कर्मणा ॥" (ना०स्मृ० ५.२९)

"भक्तस्योत्क्षेपणात् सद्यो भक्तदासः प्रमुच्यते ।" (ना०स्मृ० ५.३४)

"आहितोऽपि धनं दत्त्वा स्वामी यद्य् एनम् उद्धरेत् ॥" (ना०स्मृ० ५.३०)

"ऋणं तु सोदयं दत्त्वा ऋणी दास्यात् प्रमुच्यते ॥" (ना०स्मृ० ५.३१) इति ॥

तथा तवाहमित्युपगतयुद्धप्राप्तपणजितकृतकवडावाहृतानां च प्रातिस्विकं मोचनकारणं च तेनैवोक्तम् । यथा ।

"तवाहम् इत्य् उपगतो युद्धप्राप्तः पणे जितः ।
प्रतिशीर्षप्रदानेन मुच्येरंस् तुल्यकर्मणा ॥" (ना०स्मृ० ५.३२)

"कृतकालव्यपगमात् कृतकोऽपि विमुच्यते ।" (ना०स्मृ० ५.३१)

"निग्रहाद् वडवायास् तु मुच्यते वडवाहृतः ॥" (ना०स्मृ० ५.३४) इति ।

दासेन सह संभोगनिरोधाद् इत्य् अर्थः । तद् एवं गृहजातक्रीतलब्धदायप्राप्तात्मविक्रयिणां स्वामिप्राणप्रदानतत्प्रसादरूपसाधारणकारणव्यतिरेकेण मोक्षो नास्ति । विशेषकारणानभिधानात् । दासमोक्षश् चानेन क्रमेण कर्तव्यः,

"स्वं दासम् इच्छेद् यः कर्तुम् अदासं प्रीतमानसः ।
स्कन्धाद् आदाय तस्यासौ भिन्द्यात् कुम्भं सहाम्भसा ॥
साक्षताभिः सपुष्पाभिर् मूर्धन्य् अद्भिर् अवाकिरेत् ।
अदास इत्य् अथोक्त्वा त्रिः प्राङ्मुखं तम् अवासृजेत् ॥" (ना०स्मृ० ५.४०–४१)

इति तेनैवोक्तम् ॥ २.१८२ ॥

प्रवज्यावसित्यस्य तु मोक्षो नास्तीत्य् आह ।

प्रव्रज्यावसितो राज्ञो दास आ मरणान्तिकम् । या०ध०२.१८३अब्

प्रव्रज्या संन्यासस् ततोऽवसितः प्रच्युतः । अनभ्युपगतप्रायश्चितश् चेद् राज्ञ एव दासो भवति मरणम् एव तद्दासत्वस्यान्तोऽन्यस्मिन् काले न मोक्षोऽस्ति ॥

वर्णापेक्षया दास्यव्यवस्थाम् आह ।

वर्णानाम् आनुलोम्येन दास्यं न प्रतिलोमतः ॥ या०ध०२.१८३च्द्

ब्राह्मणादीनां वर्णानाम् आनुलोभ्येन दास्यम् । ब्राह्मणस्य क्षत्रियादयः, क्षत्रियस्य वैश्यशूद्रौ, वैश्यस्य शूद्र इत्य् एवम् आनुलोम्येन दासभावो भवति न प्रातिलोम्येन । स्वधर्मत्यागिनः पुनः परिव्राजकस्य प्रातिलोम्येनापि दासत्वम् इष्यत एव । यथाह नारदः ।

"वर्णानां प्रातिलोम्येन दासत्वं न विधीयते ।
स्वधर्मत्यागिनोऽन्यत्र दारवद् दासता मता ॥" इति ॥ (ना०स्मृ० ५.३७) ॥२.१८३ ॥

अन्तेवासिधर्मान् आह ।

कृतशिल्पोऽपि निवसेत् कृतकालं गुरोर् गृहे ।
अन्तेवासी गुरुप्राप्तभोजनस् तत्फलप्रदः ॥ या०ध०२.१८४

अन्तेवासी गुरोर् गृहे कृतकालं "वर्षचतुष्टयम् आयुर्वेदादिशिल्पशिक्षार्थं त्वद् गृहे वसामि" इति यावद् अङ्गीकृतं तावत् कालं वसेत्, यद्य् अपि वर्षचतुष्टयाद् अर्वाग् एव लब्धापेक्षितशिल्पविद्यः । कथं निवसेत् । गुरुप्राप्तभोजनः गुरोः सकाशात् प्राप्तं भोजनं येन स तथोक्तः । तत्फलप्रदः तस्य शिल्पस्य फलम् आचार्याय प्रददातीति तत्फलप्रदः । एवंभूतो वसेत् । नारदेन विशेषोऽप्य् अत्र दर्शितः ।

"स्वशिल्पम् इच्छन्न् आहर्तुं बान्धवानाम् अनुज्ञया ।
आचार्यस्य वसेद् अन्ते कृत्वा कालं सुनिश्चितम् ॥
आचार्याः शिक्षयेद् एनं स्वगृहे दत्तभोजनम् ।
न चान्यत् कारयेत् कर्म पुत्रवच् चैनम् आचरेत् ॥
शिक्षयन् तम् असंदुष्टं य आचार्यं परित्यजेत् ।
बलाद् वासयितव्यः स्याद् वधबन्धौ च सोऽर्हति ॥
शिक्षितोऽपि कृतं कालम् अन्तेवासी समाप्नुयात् ।
तत्र कर्म च यत् कुर्याद् आचार्यस्यैव तत्फलम् ॥
गृहीतशिल्पः समये कृत्वाचार्यं प्रदक्षिणम् ।
शिक्षितश् चानुमान्यैनम् अन्तेवासी निवर्तते ॥" इति । (ना०स्मृ० ५.१५–१९)

वधशब्दोऽत्र ताडनार्थः दोषस्याल्पत्वात् ॥ २.१८४ ॥

इत्य् अभ्युपेत्याशुश्रूषाख्यं विवादप्रकरणम्
अथ संविद्व्यतिक्रमप्रकरणम्

संप्रति संविद्व्यतिक्रमः कथ्यते । तस्य च लक्षणं नारदेन व्यतिरेकमुखेन दर्शितम् ।

"पाखण्डिनैगमादीनां स्थितिः समय उच्यते ।
समयस्यानपाकर्म तद्विवादपदं स्मृतम् ॥" (ना०स्मृ० १०.१)

इति पारिभाषिकधर्मेण व्यवस्थानं समयः, तस्यानपाकर्माव्यतिक्रमः परिपालनं तद्व्यतिक्रम्यमाणं विवादपदं भवतीत्य् अर्थः ॥

तदुपक्रमार्थं किंचिद् आह ।

राजा कृत्वा पुरे स्थानं ब्राह्मणान् न्यस्य तत्र तु ।
त्रैविद्यं वृत्तिमद् ब्रूयात् स्वधर्मः पाल्यताम् इति ॥ या०ध०२.१८५

राजा स्वपुरे दुर्गादौ स्थानं धवलगृहादिकं कृत्वा तत्र ब्राह्मणान् न्यस्य स्थापयित्वा तद् ब्राह्मणजातं त्रैविद्यं वेदत्रयसंपन्नं वृत्तिमद् भूहिरण्यादिसंपन्नं च कृत्वा स्वधर्मो वर्णाश्रमनिमित्तः श्रुतिस्मृतिविहितो भवद्भिर् अनुष्ठीयताम् इति तान् ब्राह्मणान् ब्रूयात् ॥ २.१८५

एवं नियुक्तैस् तैर् यत् कर्म कर्तव्यं तद् आह ।

निजधर्माविरोधेन यस् तु समयिको भवेत् ।
सोऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश् च यः ॥ या०ध०२.१८६

श्रौतस्मार्तधर्मानुपमर्देन समयान् निष्पन्नो यो धर्मो गोप्रचारोदकरक्षणदेवगृहपालनादिरूपः सोऽपि यत्नेन पालनीयः । तथा राज्ञा च निजधर्माविरोधेनैव यः सामयिको धर्मो "यावत्पथिकं भोजनं देयम् अस्मदरातिमण्डलं तुरङ्गादयो न प्रस्थापनीयाः" इत्य् एवंरूपः कृतः सोऽपि रक्षणीयः ॥ २.१८६ ॥

एवं समयधर्मः परिपालनीय इत्य् उक्त्वा तदतिक्रमादौ दण्डम् आह ।

गणद्रव्यं हरेद् यस् तु संविदं लङ्घयेच् च यः ।
सर्वस्वहरणं कृत्वा तं राष्ट्राद् विप्रवासयेत् ॥ या०ध०२.१८७

यः पुनर् गणस्य ग्रामादिजनसमूहस्य संबन्धि साधारणं द्रव्यम् अपहरति संवित् समयस् तां समूहकृतां राजकृतां वा यो लङ्घयेद् अतिक्रामेत् तदीयं सर्वं धनम् अपहृत्य स्वराष्ट्राद् विप्रवासयेन् निष्कासयेत् ॥ अयं च दण्डोऽनुबन्धाद्यतिशये द्रष्टव्यः ॥ अनुबन्धाल्पत्वे तु,

"यो ग्रामदेशसंघानां कृत्वा सत्येन संविदम् ।
विसंवदेन् नरो लोभात् तं राष्ट्राद् विप्रवासयेत् ॥
निगृह्य दापयेद् एनं समयव्यभिचारिणम् ।
चतुःसुवर्णान् षण्निष्काञ् शतमानं च राजतम् ॥" (मा०ध० ८.२१९–२०)

इति मनुप्रतिपादितदण्डानां निर्वासनचतुःसुवर्णषण्निष्कशतमानानां चतुर्णाम् अन्यतमो जातिशक्त्याद्यपेक्षया कल्पनीयः ॥ २.१८७ ॥

इदं च तैः कर्तव्यम् इत्य् आह ।

कर्तव्यं वचनं सर्वैः समूहहितवादिनाम् । या०ध०२.१८८अब्

गणिनां मध्ये ये समूहहितवादनशीलास् तद्वचनम् इतरैर् गणानाम् अन्तर्गतैर् अनुसरणीयम् ॥

अन्यथा दण्ड इत्य् आह ।

यस् तत्र विपरीतः स्यात् स दाप्यः प्रथमं दमम् ॥ या०ध०२.१८८च्द्

यस् तु गणिनां मध्ये समूहहितवादिवचनप्रतिबन्धकारी स राज्ञा प्रथमसाहसं दण्डनीयः ॥ २.१८८ ॥

राज्ञा चेत्थं गणिषु वर्तनीयम् इत्य् आह ।

समूहकार्य आयातान् कृतकार्यान् विसर्जयेत् ।
स दानमानसत्कारैः पूजयित्वा महीपतिः ॥ या०ध०२.१८९

समूहकार्यनिवृत्त्यर्थं स्वपार्श्वं प्राप्तान् गणिनो निर्वर्तितात्मीयप्रयोजनान् दानमानसत्कारैः स राजा परितोष्य विसर्जयेत् ॥ २.१८९ ॥

समूहदत्तापहारिणं प्रत्य् आह ।

समूहकार्यप्रहितो यल् लभेत तद् अर्पयेत् ।
एकादशगुणं दाप्यो यद्य् असौ नार्पयेत् स्वयम् ॥ या०ध०२.१९०

समूहकार्यार्थं महाजनैः प्रेरितो राजपार्श्वे यद् धिरण्यवस्त्रादिकं लभते तद् अप्रार्थित एव महाजनेभ्यो निवेदयेत् । अन्यथा लब्धाद् एकादशगुणं दण्डं दापनीयः ॥ २.१९० ॥

एवंप्रकाराश् च कार्यचिन्तकाः कार्या इत्य् आह ।

धर्मज्ञाः शुचयोऽलुब्धा भवेयुः कार्यचिन्तकाः ।
कर्तव्यं वचनं तेषां समूहहितवादिनाम् ॥ या०ध०२.१९१

श्रौतस्मार्तधर्मज्ञा बाह्याभ्यन्तरशौचयुक्ता अर्थेष्व् अलुब्धाः कार्यविचारकाः कर्तव्याः । तेषां वचनम् इतरैः कार्यम् इत्य् एतद् आदरार्थं पुनर्वचनम् ॥ २.१९१ ॥

इदानीं त्रैविद्यानां प्रतिपादितं धर्मं श्रेण्यादिष्व् अतिदिशन्न् आह ।

श्रेणिनैगमपाखण्डिगणानाम् अप्य् अयं विधिः ।
भेदं चैषां नृपो रक्षेत् पूर्ववृत्तिं च पालयेत् ॥ या०ध०२.१९२

एकपण्यशिल्पोपजीविनः श्रेणयः । नैगमाः ये वेदस्याप्तप्रणीतत्वेन प्रामाण्यम् इच्छन्ति पाशुपतादयः । पाखण्डिनो ये वेदस्य प्रामाण्यम् एव नेच्छन्ति नग्नाः सौगतादयः । गणो व्रात आयुधीयादीनाम् एककर्मोपजीविनां । एषां चतुर्विधानाम् अप्य् अयम् एव विधिर् यो "निजधर्माविरोधेन" (या०ध० २.२.१८६) इत्यादिना प्रतिपादितः । एतेषां च श्रेण्यादीनां भेदं धर्मव्यवस्थानं नृपो रक्षेत् । पूर्वोपात्तां वृत्तिं च पालयेत् ॥ २.१९२ ॥

इति संविद्व्यतिक्रमप्रकरणम्
अथ वेतनादानप्रकरणम्

संप्रति वेतनस्यानपाकर्माख्यं व्यवहारपदं प्रस्तूयते । तत्स्वरूपं च नारदेनोक्तम् ।

"भृत्यानां वेतनस्योक्तो दानादानविधिक्रमः ।
वेतनस्यानपाकर्म तद् विवादपदं स्मृतम् ॥" इति । (ना०स्मृ० ६.१)

अस्यार्थः : भृत्यानां वेतनस्य वक्ष्यमाणश्लोकैर् उक्तो दानादानविधिक्रमो यत्र विवादपदे तद् वेतनस्यानपाकर्मेत्य् उच्यते ।

तत्र निर्णयम् आह ।

गृहीतवेतनः कर्म त्यजन् द्विगुणम् आवहेत् ।
अगृहीते समं दाप्यो भृत्यै रक्ष्य उपस्करः ॥ या०ध०२.१९३

गृहीतं वेतनं येनासौ स्वाङ्गीकृतं कर्म त्यजन् अकुर्वन् द्विगुणां भृतिं स्वामिने दद्यात् । यदा पुनर् अभ्युपगतं कर्म अगृहीते एव वेतने त्यजति तदा समं यावद् वेतनम् अभ्युपगतं तावाद् दाप्यो न द्विगुणम् । यद् वाङ्गीकृतां भृतिं दत्त्वा बलात् कारयितव्यः,

"कर्माकुर्वन् प्रतिश्रुत्य कार्यो दत्त्वा भृतिं बलात् ।" (ना०स्मृ० ६.५)

इति नारदवचनात् । भृतिर् अपि तेनैवोक्ता ।

"भृत्याय वेतनं दद्यात् कर्मस्वामी यथाक्रमम् ।
आदौ मध्येऽवसाने वा कर्मणो यद् विनिश्चितम् ॥" इति । (ना०स्मृ० ६.२)

तैश् च भृत्यैर् उपस्कर उपस्करणं लाङ्गलादीनां प्रग्रहयोक्त्रादिकं यथाशक्त्या रक्षणीयम्, इतरथा कृष्यादिनिष्पत्त्यनुपपत्तेः ॥ २.१९३ ॥

भृतिम् अपरिच्छिद्य यः कर्म कारयति तं प्रत्य् आह ।

दाप्यस् तु दशमं भागं वाणिज्यपशुसस्यतः ।
अनिश्चित्य भृतिं यस् तु कारयेत् स महीक्षिता ॥ या०ध०२.१९४

यस् तु स्वामी वणिक् गोमी क्षेत्रिको वा अपरिच्छिन्नवेतनम् एव भृत्यं कर्म कारयति, स तस्माद् वाणिज्यपशुसस्यलक्षणात् कर्मणो यल् लब्धं तस्य दशमं भागं भृत्याय महीक्षिता राज्ञा दापनीयः ॥ २.१९४ ॥

अनाज्ञप्तकारिणं प्रत्य् आह ।

देशं कालं च योऽतीयाल् लाभं कुर्याच् च योऽन्यथा ।
तत्र स्यात् स्वामिनश् छन्दोऽधिकं देयं कृतेऽधिके ॥ या०ध०२.१९५

यस् तु भृत्यः पण्यविक्रयाद्युचितं देशं कालं च पण्यविक्रयाद्य् अकुर्वन् दर्पादिनोल्लङ्घयेत् तस्मिन्न् एव वा देशे काले च लाभम् अन्यथा व्ययाद्यतिशयसाध्यतया हीनं करोति तस्मिन् भृतके भृतिदानं प्रति स्वामिनश् छन्द इच्छा भवेत्, यावद् इच्छति तावद् दद्यान् न पुनः सर्वाम् एव भृतिम् इत्य् अर्थः । यदा पुनर् देशकालाभिज्ञतयाधिको लाभः कृतस् तदा पूर्वपरिच्छन्नाय भृतेर् अधिकम् अपि धनं स्वामिना भृत्याय दातव्यम् ॥ २.१९५ ॥

अनेकभृत्यसाध्यकर्मणि भृतिदानप्रकारम् आह ।

यो यावत् कुरुते कर्म तावत् तस्य तु वेतनम् ।
उभयोर् अप्य् असाध्यं चेत् साध्ये कुर्याद् यथाश्रुतम् ॥ या०ध०२.१९६

यदा पुनर् एकम् एव कर्म नियतवेतनम् उभाभ्यां क्रियमाणं उभयोर् अप्य् असाध्यं चेद् व्याध्याद्यभिभवाद् उभाभ्याम् अपि शब्दाद् बहुभिर् अपि यदि न परिसमापितं तदा यो भृत्यो यावत् कर्म करोति तावत् तस्मै तत्कृतकर्मानुसारेण मध्यस्थकल्पितं वेतनं देयं न पुनः समम् । न चावयवशः कर्मणि वेतनस्यापरिभाषितत्वाद् अदानम् इति मन्तव्यम् । साध्ये तूभाभ्यां कर्मणि निर्वर्तिते यथाश्रुतं यावत् परिभाषितं तावद् उभाभ्यां देयं न पुनः प्रत्येकं कृत्स्नं वेतनं नापि कर्मानुरूपं परिकल्प्य देयम् ॥ २.१९६ ॥

आयुधीयभारवाहकौ प्रत्य् आह ।

अराजदैविकं नष्टं भाण्डं दाप्यस् तु वाहकः ।
प्रस्थानविघ्नकृच् चैव प्रदाप्यो द्विगुणां भृतिम् ॥ या०ध०२.१९७

न विद्यते राजदैविकं यस्य भाण्डस्य तत् तथोक्तम् । तद् यदि प्रज्ञाहीनतया वाहकेन नाशितं तदा नाशानुसारेणासौ तद् भाण्डं दापनीयः । तद् आह नारदः ।

"भाण्डं व्यसनम् आगच्छेद् यदि वाहकदोषतः ।
दाप्यो यत् तत्र नश्येत् तु दैवराजकृताद् ऋते ॥" इति । (ना०स्मृ० ६.१०)

यः पुनर् विवाहाद्यर्थं मङ्गलवति वासरे प्रतिष्ठमानस्य तत्प्रस्थानौपयिकं कर्म प्राग् अङ्गीकृत तदानीं न करिष्यामीति प्रस्थानविघ्नम् आचरति तदासौ द्विगुणां भृतिं दप्यः, अत्यन्तोत्कर्षहेतुकर्मनिरोधात् ॥ २.१९७ ॥

किं च ।

प्रक्रान्ते सप्तमं भागं चतुर्थं पथि संत्यजन् ।
भृतिम् अर्धपथे सर्वां प्रदाप्यस् त्याजकोऽपि च ॥ या०ध०२.१९८

प्रक्रान्ते अध्यवसिते प्रस्थाने स्वाङ्गीकृतं कर्म यस् त्यजत्य् असौ भृतेः सप्तमं भागं दाप्यः । ननु अत्रैव विषये प्रस्थानविघ्नकृद् इत्यादिना द्विगुणभृतिदानम् उक्तम्, इदानीं सप्तमो भाग इति विरोधः । उच्यते । भृत्यान्तरोपादानावसरसंभवे स्वाङ्गीकृतं कर्म यस् त्यजति तस्य सप्तमो विभागः । यस् तु प्रस्थानलग्नसमय एव त्यजति तस्य द्विगुणभृतिदानम् इत्य् अविरोधः । यः पुनः पथि प्रक्रान्ते गमने वर्तमाने सति कर्म त्यजति स भृतेश् चतुर्थं भागं दाप्यः । अर्धपथे पुनः सर्वां भृतिं दाप्यः । यस् तु त्याजकः कर्मात्यजन्तं त्याजयति स्वामी पूर्वोक्तप्रदेशेष्व् असाव् अपि पूर्वोक्तसप्तमभागादिकं भृत्याय दापनीयः । एतच् चाव्याधितादिविषयम्,

"भृत्योऽनार्तो न कुर्याद् यो दर्पात् कर्म यथोचितम् ।
स दण्ड्यः कृष्णलान्य् अष्टौ न देयं तस्य वेतनम् ॥" (मा०ध० ८.२१५)

इति मनुवचनात् । यदा पुनर् व्याधाव् अपगतेऽन्तरितदिवसान् परिगणय्य पूरयति तदा लभत एव वेतनम्,

"आर्तस् तु कुर्यात् स्वस्थः सन् यथाभाषितम् आदितः ।
स दीर्घस्यापि कालस्य स्वं लभेतैव वेतनम् ॥" (मा०ध० ८.२१६)

इति मनुस्मरणात् ॥ यस् त्व् अपगतव्याधिः स्वस्थ एव वालस्यादिना स्वारब्धं कर्माल्पोनं न करोति परेण वा न समापयति तस्मै वेतनं न देयम् इति । यथाह मनुः ।

"यथोक्तम् आर्तः स्वस्थो वा यस् तत् कर्म न कारयेत् ।
न तस्य वेतनं देयम् अल्पोनस्यापि कर्मणः ॥" इति ॥ (मा०ध० ८.२१७) २.१९८ ॥

इति वेतनादानप्रकरणम्
अथ द्यूतसमाह्वयप्रकरणम्

अधुना द्यूतसमाह्वयाख्यं विवादपदम् अधिक्रियते । तत्स्वरूपं च नारदेनाभिहितम् ।

"अक्षवध्रशलाकाद्यैर् देवनं जिह्मकारितम् ।
पणक्रीडावयोभिश् च पदं द्यूतसमाह्वयम् ॥" इति । (ना०स्मृ० १७.१)

अक्षाः पाशकाः । वध्रश् चर्मपट्टिका । शलाका दन्तादिमय्यो दीर्घचतुरस्राः । आद्यग्रहणाच् च तुरङ्गादिक्रीडासाधनं करितुरङ्गरथादिकं गृह्यते । तैर् अप्राणिभिर् यद् देवनं क्रीडा पणपूर्विका क्रियते, तथा वयोभिः पक्षभिः कुक्कुटपारावतादिभिः च शब्दान् मल्लमेषमहिषादिभिश् च प्राणिभिर् या पणपूर्विका क्रीडा क्रियते, तद् उभयं यथाक्रमेण द्यूतसमाह्वयाख्यं विवादपदम् । द्यूतं च समाह्वयश् च द्यूतसमाह्वयम् । तद् उक्तम् मनुना ।

"अप्राणिभिर् यत् क्रियते तल् लोके द्यूतम् उच्यते ।
प्राणिभिः क्रियमाणस् तु स विज्ञेयः समाह्वयः ॥" इति ॥ (मा०ध० ९.२२३)

तत्र द्यूतसभाधिकारिणो वृत्तिम् आह ।

ग्लहे शतिकवृद्धेस् तु सभिकः पञ्चकं शतम् ।
गृह्णीयाद् धूर्तकितवाद् इतराद् दशकं शतम् ॥ या०ध०२.१९९

परस्परसंप्रतिपत्त्या कितवपरिकल्पितः पणो ग्लह इत्य् उच्यते । तत्र ग्लहे तदाश्रया शतिका शतपरिमिता तद् अधिकपरिमाणा वा व्र्द्धिर् यस्यासौ शतिकवृद्धिस् तस्माद् धूर्तकितवात् पञ्चकं शतम् आत्मवृत्त्यर्थं सभिको गृह्नीयात् । पञ्चपणा आयो यस्मिन् शते तत् पञ्चकं शतम् । "तद् अस्मिन् वृद्ध्यायलाभ-" (ढ़ाण् ५.१.४७) इत्यादिना कन् । जितग्लहस्य विंशतितमं भागं गृह्नीयाद् इत्य् अर्थः । सभा कितवनिवासार्था, यस्यास्त्य् असौ सभिकः । कल्पिताक्षादिनिखिलक्रीडोपकरणस् तदुपचितद्रव्योपजीवी सभापतिर् उच्यते । इतरस्मात् पुनर् अपि पूर्णशतिकवृद्धेः कितवाद् दशकं शतं जितद्रव्यस्य दशमं भागं गृह्नीयाद् इति यावत् ॥ २.१९९ ॥

एवं कॢप्तवृत्तिना सभिकेन किं कर्तव्यम् इत्य् आह ।

स सम्यक् पालितो दद्याद् राज्ञे भागं यथाकृतम् ।
जितम् उद्ग्राहयेज् जेत्रे दद्यात् सत्यं वचः क्षमी ॥ या०ध०२.२००

य एवं कॢप्तव्र्त्तिर् द्यूताधिकारी स राज्ञा धूर्तकितवेभ्यो रक्षितस् तस्मै राज्ञे यथा संप्रतिपन्नम् अंशं दद्यात् । तथा जितं यद् द्रव्यं तद् उद्ग्राहयेत् बन्धकग्रहणेनासेधादिना च पराजितसकाशाद् उद्धरेत् । उद्धृत्य च तद् धनं जेत्रे जयिने सभिको दद्यात् । तथा क्षमी भूत्वा सत्यं वचो विश्वासार्थं द्यूतकारिणां दद्यात् । तद् उक्तं नरदेन ।

"सभिकः कारयेद् द्यूतं देयं दद्याच् च तत्कृतम् इति ।" (ना०स्मृ० १७.२) २.२०० ॥

यदा पुनः सभिको दापयितुं न शक्नोति तदा राजा दापयेद् इत्य् आह ।

प्राप्ते नृपतिना भागे प्रसिद्धे धूर्तमण्डले ।
जितं ससभिके स्थाने दापयेद् अन्यथा न तु ॥ या०ध०२.२०१

प्रसिद्धे अप्रच्छन्ने राजाध्यक्षसमन्विते ससभिके सभिकसहिते कितवसमाजे सभिकेन च राजाभागे दत्ते राजा धूर्तकितवम् अविप्रतिपन्नं जितं पणं दापयेत् । अन्यथा प्रच्छन्ने सभिकरहिते अदत्तराजभागे द्यूते जितपणं जेत्रे न दापयेत् ॥ २.२०१ ॥

जयपराजयविप्रतिपत्तौ निर्णयोपायम् आह ।

द्रष्टारो व्यवहाराणां साक्षिणश् च त एव हि । या०ध०२.२०२अब्

द्यूतव्यवहाराणां द्रष्टारः सभ्यास् त एव कितवा एव राज्ञा नियोक्तव्याः । न तत्र श्रुताध्ययनसंपन्ना इत्यादिर् नियमोऽस्ति । साक्षिणश् च द्यूते द्यूतकारा एव कार्याः । न तत्र स्त्रीबालवृद्धकितवेत्यादिनिषेधोऽस्ति ॥

क्वचिद् द्यूतं निषेद्धुं दण्डम् आह ।

राज्ञा सचिह्नं निर्वास्याः कूटाक्षोपधिदेविनः ॥ या०ध०२.२०२च्द्

कूटैर् अक्षादिभिर् उपधिना च मतिवञ्चनहेतुना मणिमन्त्रौषधादिना ये दीव्यन्ति तान् श्वपदादिनाङ्कयित्वा राजा स्वराष्ट्रान् निर्वासयेत् । नारदेन तु निर्वासने विशेष उक्तः ।

"कूटाक्षदेविनः पापान् राजा राष्ट्राद् विवासयेत् ।
कण्ठेऽक्षमालाम् आसज्य स ह्य् एषां विनयः स्मृतः ॥" इति । (ना०स्मृ० १७.६)

यानि च मनुवचनानि द्यूतनिषेधपराणि,

"द्यूतं समाह्वयं चैव यः कुर्यात् कारयेत वा ।
तान् सर्वान् घातयेद् राजा शूद्रांश् च द्विजलिङ्गितः ॥" (मा०ध० ९.२२४)

इत्यादीनि तान्य् अपि कूटाक्षदेवनविषयतया राजाध्यक्षसभिकरहितद्यूतविषयतया योज्यानि ॥ २.२०२ ॥

किं च ।

द्यूतम् एकमुखं कार्यं तस्करज्ञानकारणात् । या०ध०२.२०३अब्

यत् पूर्वोक्तं द्यूतं तद् एकमुखं एकं मुखं प्रधानं यस्य द्यूतस्य तत् तथोक्तं कार्यम् । राजाध्यक्षाधिष्ठितं राज्ञा कारयितव्यम् इत्य् अर्थः, तस्करज्ञानकारणात् । तस्करज्ञानरूपं प्रयोजनं पर्यालोच्य प्रायशश् चौर्यार्जितधना एव कितवा भवन्ति, अतश् चौरविज्ञानार्थम् एकमुखं कार्यम् ॥

द्यूतधर्मं समाह्वयेऽतिदिशन्न् आह ।

एष एव विधिर् ज्ञेयः प्राणिद्यूते समाह्वये ॥ या०ध०२.२०३च्द्

"ग्लहे शतिकवृद्धेः" (या०ध० २.१९९) इत्यादिना यो द्यूतधर्म उक्तः स एव प्राणिद्यूते मल्लमेषमहिषादिनिर्वर्त्ये समाह्वयसंज्ञके ज्ञातव्यः ॥ २.२०३ ॥

इति द्यूतसमाह्वयाख्यं प्रकरणम्
अथ वाक्पारुष्यप्रकरणम्

इदानीं वाक्पारुष्यं प्रस्तूयते । तल्लक्षणं चोक्तं नारदेन ।

"देशजातिकुलादीनाम् आक्रोशं न्यङ्गसंयुतम् ।
यद् वचः प्रतिकूलार्थं वाक्पारुष्यं तद् उच्यते ।" इति । (ना०स्मृ० १५–१६.१)

देशादीनाम् आक्रोशं न्यङ्गसंयुतम् । उच्चैर् भाषणम् आक्रोशः, न्यङ्गम् अवद्यं तदुभययुक्तं यत् प्रतिकूलार्थम् उद्वेगजननार्थं वाक्यं तद् वाक्पारुष्यं कथ्यते । तत्र कलहप्रियाः खलु गौडा इति देशाक्रोशः । नितान्तं लोलुपाः खलु विप्रा इति जात्याक्रोशः । क्रूरचरिता ननु वैश्वामित्रा इति कुलाक्षेपः । आदिग्रहणात् स्वविद्याशिल्पादिनिन्दया विद्वच्छिल्पादिपरुषाक्षेपो गृह्यते । तस्य च दण्डतारतम्यार्थं निष्ठुरादिभेदेन त्रैविध्यम् अभिधाय तल्लक्षणं तेनैवोक्तं ।

"निष्ठुराश्लीलतीव्रत्वाद् अपि तत् त्रिविधं स्मृतम् ।
गौरवानुक्रमात् तस्य दण्डोऽपि स्यात् क्रमाद् गुरुः ॥
साक्षेपं निष्ठुरं ज्ञेयम् अश्लीलं न्यङ्गसंयुतम् ।
पतनीयैर् उपाक्रोशैस् तीव्रम् आहुर् मनीषिणः ॥" इति । (ना०स्मृ० १५–१६.२–३)

तत्र धिङ् मूर्खं जाल्मम् इत्यादि साक्षेपम् । अत्र न्यङ्गम् इत्य् असभ्यम् । अवद्यं भगिन्यादिगमनं तद्युक्तम् अश्लीलम् । सुरापोऽसीत्यादिमहापातकाद्याक्रोशैर् युक्तं वचस्तीव्रम् ॥

तत्र निष्ठुराक्रोशे सवर्णविषये दण्डम् आह ।

सत्यासत्यान्यथास्तोत्रैर् न्यूनाङ्गेन्द्रियरोगिणाम् ।
क्षेपं करोति चेद् दण्ड्यः पणान् अर्धत्रयोदशान् ॥ या०ध०२.२०४

न्यूनाङ्गाः करचरणादिविकलाः । न्यूनेन्द्रिया नेत्रश्रोत्रादिरहिताः । रोगिणो दुश्चर्मप्रभृतयः । तेषां सत्येनासत्येनान्यथास्तोत्रेण च निन्दार्थया स्तुत्या । यत्र नेत्रयुगलहीन एषोऽन्ध इत्य् उच्यते तत् सत्यम् । यत्र पुनश् चक्षुष्मान् एवान्ध इत्य् उच्यते तद् असत्यम् । यत्र विकृताकृतिर् एव दर्शनीयस् त्वम् असीत्य् उच्यते तद् अन्यथास्तोत्रम् । एवंविधैर् यः क्षेपं निर्भर्त्सनं करोत्य् असौ अर्धाधिकत्रयोदशपणान् दण्डनीयः ।

"काणं वाप्य् अथवा खञ्जम् अन्यं वापि तथाविधम् ।
तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम् ॥" (मा०ध० ८.२७४)

इति यन् मनुवचनं तद् अतिदुर्वृत्तवर्णविषयम् । यदा पुनः पुत्रादयो मात्रादीन् शपन्ति तदा शतं दण्डनीया इति तेनैवोक्तम् ।

"मातरं पितरं जायां भ्रातरं श्वशुरं गुरुम् ।
आक्षारयञ् शतं दाप्यः पन्थानं चाददद् गुरोः ॥" इति । (मा०ध० ८.२७५)

एत च सापराधेषु मात्रादिषु गुरुषु निरपराधायां च जायायां द्रष्टव्यम् ॥ २.२०४ ॥

अश्लीलाक्षेपे दण्डम् आह ।

अभिगन्तास्मि भगिनीं मातरं वा तवेति ह ।
शपन्तं दापयेद् राजा पञ्चविंशतिकं दमम् ॥ या०ध०२.२०५

"त्वदीयां भगिनीं मातरं वा अभिगन्तास्मि" इति शपन्तं अन्यां वा त्वज्जायाम् अभिगन्तेत्य् एवं शपन्तं राजा पञ्चविंशतिकं पणानां पञ्चाधिका विंशतिर् यस्मिन् दण्डे स तथोक्तस् तं दमं दापयेत् ॥ २.२०५ ॥

एवं समानगुणेषु वर्णिषु दण्डम् अभिधाय विषमगुणेषु दण्डं प्रतिपादयितुम् आह ।

अर्धोऽधमेषु द्विगुणः परस्त्रीषूत्तमेषु च । या०ध०२.२०६अब्

अधमेष्व् आक्षेप्त्रापेषया न्यूनवृत्तादिगुणेष्व् अर्धो दण्डः । पूर्ववाक्ये पञ्चविंशतेः प्रकृतत्वात् तदपेक्षार्धः सार्धद्वादशपणात्मको द्रष्टव्यः । परभार्यासु पुनर् अविशेषेण द्विगुणः पञ्चविंशत्यपेक्षयैव पञ्चाशत्पणात्मको वेदितव्यः । तथोत्तमेषु च स्वापेक्षयाधिकश्रुतवृत्तेषु दण्डः पञ्चाशत्पणात्मक एव ॥

वर्णानां मूर्धावसिक्तादीनां च परस्पराक्षेपे दण्डकल्पनाम् आह ।

दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैः ॥ या०ध०२.२०६च्द्

वर्णा ब्राह्मणादयः । जातयो मूर्धावसिक्ताद्याः । वर्णाश् च जातयश् च वर्णजातयः । उत्तराश् च अधराश् च उत्तराधराः, वर्णजातयश् च ते उत्तराधराश् च वर्णजात्युत्तराधराः, तैः वर्णजात्युत्तराधरैः परस्परम् आक्षेपे क्रियमाणे दण्डस्य प्रणयनं प्रकर्षेण नयनम् ऊहनं वेदितव्यम् । तच् च दण्डकल्पनम् उत्तराधरैर् इति विशेषेणोपादानाद् उत्तराधरभावापेक्षयैव कर्तव्यम् इत्य् अवगम्यते । यथा मूर्धावसिक्तं ब्राह्मणाद् धीनं क्षत्रियाद् उत्कृष्टं चाक्रुश्य ब्राह्मणः क्षत्रियाक्षेपनिमित्तात् प्रञ्चाशत्पणदण्डात् किंचिदधिकं पञ्च सप्तत्यात्मकं दण्डम् अर्हति, क्षत्रियोऽपि तम् आक्रुश्य ब्राह्मणाक्षेपनिमित्ताच् छतदण्डाधीनं पञ्चसप्ततिम् एव दण्डम् अर्हति । मूर्धावसिक्तोऽपि ताव् आक्रुश्य तम् एव दण्डम् अर्हति । मूर्धावसिक्ताम्बष्ठयोः परस्पराक्षेपे ब्राह्मणक्षत्रिययोः परस्पराक्रोशनिमित्तकौ यथाक्रमेण दण्डौ वेदितव्यौ । एवम् अन्यत्राप्य् ऊहनीयम् ॥ २.२०६ ॥

एवं सवर्णविषये दण्डम् अभिधाय वर्णानाम् एव प्रतिलोमानुलोमाक्षेपे दण्डम् आह ।

प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः ।
वर्णानाम् आनुलोम्येन तस्माद् अर्धार्धहानितः ॥ या०ध०२.२०७

अपवादा अधिक्षेपाः । प्रातिलोम्येनापवादाः प्रातिलोम्यापवादास् तेषु ब्राह्मणाक्रोशकारिणोः क्षत्रियवैश्ययोर् यथाक्रमेण पूर्ववाक्याद् द्विगुणपदोपात्तपञ्चाशत्पणापेक्षया द्विगुणाः शतपणाः, त्रिगुणाः सार्धशतपणा दण्डा वेदितव्याः । शूद्रस्य ब्राह्मणाक्रोशे ताडनं जिह्वाच्छेदनं वा भवति । यथाह मनुः ।

"शतं ब्राह्मणम् आक्रुश्य क्षत्रियो दण्डम् अर्हति ।
वैश्योऽध्यर्धशतं द्वे वा शूद्रस् तु वधम् अर्हति ॥" इति । (मा०ध० ८.२६७)

विट्शूद्रयोर् अपि क्षत्रियाद् अनन्तरैकान्तरयोस् तुल्यन्यायतया शतम् अध्यर्धशतं च यथाक्रमेण क्षत्रियाक्रोशे वेदितव्यम् । शूद्रस्य च वैश्याक्रोशे शतम् । आनुलोम्येन तु वर्णानां क्षत्रियविट्शूद्राणां ब्राह्मणेनाक्रोशे कृते तस्माद् ब्राह्मणाक्रोशनिमित्ताच् छतपरिमितात् क्षत्रियदण्डात् प्रतिवर्णम् अर्धस्यार्धस्य हानिं कृत्वावशिष्टं पञ्चाशत्पञ्चविंशतिसार्धद्वादशपणात्मकं यथाक्रमं ब्राह्मणो दण्डनीयः । तद् उक्तं मनुना ।

"पञ्चाशद् ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने ।
वैश्ये स्याद् अर्धपञ्चाशच् छूद्रे द्वादशको दमः ।"। इति ॥ (मा०ध० ८.२६८)

क्षत्रियेण वैश्ये शूद्रे वाक्रुष्टे यथाक्रमं पञ्चाशत्पञ्चविंशतिकौ दमौ । वैश्यस्य च शूद्राक्रोशे पञ्चाशद् इत्य् ऊहनीयम्, "ब्राह्मणराजन्यवत् क्षत्रियवैश्ययोः" (गौ०ध० १२.१४) इति गौतमस्मरणात्, "विट्शूद्रयोर् एवम् एव स्वजातिं प्रति तत्त्वतः" (मा०ध० ८.२७७) इति मनुस्मरणाच् च ॥ २.२०७ ॥

पुनर् निष्टुराक्षेपम् अधिकृत्याह ।

बाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः ।
शत्यस् तदर्धिकः पादनासाकर्णकरादिषु ॥ या०ध०२.२०८

बाह्वादीनां प्रत्येकं विनाशे वाचिके वाचा प्रतिपादिते "तव बाहू छिनद्मि" इत्य् एवंरूपे शत्यः शतपरिमितो दण्डो वेदितव्यः । पादनासाकर्णकरादिषु आदिग्रहणात् स्फिगादिषु वाचिके विनाशे तदर्धिकः तस्य शतस्यार्धं तदर्धं तद् यस्यास्त्य् असौ तदर्धिकः पञ्चाशत्पणिको दण्डो वेदितव्यः ॥ २.२०८ ॥

किं च ।

अशक्तस् तु वदन्न् एवं दण्डनीयः पणान् दश ।
तथा शक्तः प्रतिभुवं दाप्यः क्षेमाय तस्य तु ॥ या०ध०२.२०९

यः पुनर् ज्वरादिना क्षीणशक्तिस् "त्वद्बाह्वाद्यङ्गभङ्गं करोमि" इत्य् एवं शपत्य् असौ दश पणान् दण्डनीयः । यः पुनः समर्थः क्षीणशक्तिं पूर्ववद् आक्षिपत्य् असौ पूर्वोक्तशतादिदण्डोत्तरकालं तस्याशक्तस्य क्षेमार्थं प्रतिभुवं दापनीयः ॥ २.२०९ ॥

तीव्राक्रोशे दण्डम् आह ।

पतनीयकृते क्षेपे दण्डो मध्यमसाहसः ।
उपपातकयुक्ते तु दाप्यः प्रथमसाहसम् ॥ या०ध०२.२१०

पातित्यहेतुभिर् ब्रह्महत्यादिभिर् वर्णिनाम् आक्षेपे कृते मध्यमसाहसं दण्डः । उपपातकसंयुक्ते पुनर् गोघ्नस्त्वम् असीत्य् एवमादिरूपे क्षेपे प्रथमसाहसं दण्डनीयः ॥ २.२१० ॥

किं च ।

त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः ।
मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः ॥ या०ध०२.२११

त्रैविद्याः वेदत्रयसंपन्नास् तेषां राज्ञां देवानां च क्षेपे उत्तमसाहसो दण्डः । ये पुनर् ब्राह्मणमूर्धावसिक्तादिजातीनां पूगाः संघास् तेषाम् आक्षेपे मध्यमसाहसो दण्डः । ग्रामदेशयोः प्रत्येकम् आक्षेपे प्रथमसाहसो दण्डो वेदितव्यः ॥ २.२११ ॥

इति वाक्पारुष्यं नाम विवादपदप्रकरणम्
अथ दण्डपारुष्यप्रकरणम्

संप्रति दण्डपारुष्यं प्रस्तूयते । तत्स्वरूपं च नारदेनोक्तम् ।

"परगात्रेष्व् अभिद्रोहो हस्तपादायुधादिभिः ।
भस्मादिभिश् चोपघातो दण्डपारुष्यम् उच्यते ॥" इति । (ना०स्मृ० १५–१६.४)

परगात्रेषु स्थावरजङ्गमात्मकद्रव्येषु हस्तपादायुधैर् आदिग्रहणाद् ग्रावादिभिर् योऽभिद्रोहो हिंसनं दुःखोत्पादनं तथा भस्मना आदिग्रहणाद् रजःपङ्कपुरीषाद्यैश् च य उपह्गातः संस्पर्शनरूपं मनोदुःखोत्पादनं तद् उभयं दण्डपारुष्यम् । दण्ड्यतेऽनेनेति दण्डो देयस् तेन यत् पारुष्यं विरुद्धाचरणं जङ्गमादेर् द्रव्यस्य तद् दण्डपारुष्यम् । तस्य चावगोरणादिकारणभेदेन त्रैविद्यम् अभिधाय हीनमध्यमोत्तमद्रव्यरूपकर्मत्रैविद्यात् पुनस् त्रैविद्यं तेनैवोक्तम् ।

"तस्यापि दृष्टं त्रैविद्यं हीनमध्योत्तमक्रमात् ।
अवगोरणनिःसङ्गपातनक्षतदर्शनैः ॥
हीनमध्योत्तमानां च द्रव्याणां समतिक्रमात् ।
त्रीण्य् एव साहसान्य् आहुस् तत्र कण्टकशोधनम् ॥" इति । (ना०स्मृ० १५–१६.५–६)

निःसङ्गपातनं निःशङ्गप्रहरणं । त्रीण्य् एव साहसानि त्रिपकाराण्य् एव । सहसा कृतानि दण्डपारुष्याणीत्य् अर्थः । तथा वाग्दण्डपारुष्ययोर् उभयोर् अपि द्वयोः प्रवृत्तकलहयोर् मध्ये यः क्षमते तस्य न केवलं दण्डाभावः किं तु पूज्य एव । तथा पूर्वं कलहे प्रवृत्तस्य दण्डगुरुत्वम् । कलहे च बद्धवैरानुसन्धातुर् एव दण्डभाक्त्वम् । तथा तयोर् द्वयोर् अपराधविशेषापरिज्ञाने दण्डः समः । तथा श्वपचादिभिर् आर्याणाम् अपराधे कृते सज्जना एव दण्डदापनेऽधिकारिणः, तेषाम् अशक्यत्वे तान् राजा घातयेद् एव, नार्थं गृह्नीयाद् इत्य् एवं पञ्च प्रकारा विधयस् तेनैवोक्ताः ।

"विधिः पञ्चविधस् तूक्त एतयोर् उभयोर् अपि ।
पारुष्ये सति संरम्भाद् उत्पन्ने क्रुद्धयोर् द्वयोः ॥
स मन्यते यः क्षमते दण्डभाग्योऽतिवर्तते ।
पूर्वम् आक्षारयेद् यस् तु नियतं स्यात् स दोषभाक् ॥
पञ्चाद्यः सोऽप्य् असत्कारी पूर्वे तु विनयो गुरुः ।
द्वयोर् आपन्नयोस् तुल्यम् अनुबध्नाति यः पुनः ॥
स तयोर् दण्डम् आप्नोति पूर्वो वा यदि वेतरः ।
पारुष्यदोषावृतयोर् युगपत्संप्रवृत्तयोः ॥
विशेषश् चेन् न लक्ष्यते विनयः स्यात् समस्तयोः ।
श्वपाकषण्डचण्डालव्यङ्गेषु वधवृत्तिषु ॥
हस्तिपव्रात्यदासेषु गुर्वाचार्यनृपेषु च ।
मर्यादातिक्रमे सद्यो घात एवानुशासनम् ॥
यम् एव ह्य् अतिवर्तेरन्न् एते सन्तं जनं नृषु ।
स एव विनयं कुर्यान् नूनं विनयभाङ् नृपः ॥
मला ह्य् एते मनुष्याणां धनम् एषां मलात्मकम् ।
अतस् तान् घातयेद् राजा नार्थदण्डेन दण्डयेत् ॥" इति ॥ (ना०स्मृ० १५–१६.७–१५)

एवंभूतदण्डपारुष्यनिर्णयपूर्वकत्वाद् दण्डप्रणयनस्य तत्स्वरूपसंदेहे निर्णयहेतुम् आह ।

असाक्षिकहते चिह्नैर् युक्तिभिश् चागमेन च ।
द्रष्टव्यो व्यवहारस् तु कूटचिह्नकृतो भयात् ॥ या०ध०२.२१२

यदा कश्चिद् रहस्य् अहम् अनेन हत इति राज्ञे निवेदयति तदा चिह्नैर् वर्णादिस्वरूपगतैर् लिङ्गैर् युक्त्या कारणप्रयोजनपर्यालोचनात्मिकया आगमेन जनप्रवादेन चशब्दाद् दिव्येन वा कूटचिह्नकृतसंभावनाभयात् परीक्षा कार्या ॥ २.२१२ ॥

एवं निश्चिते साधनविशेषेण दण्डविशेषम् आह ।

भस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः ।
अमेध्यपार्ष्णिनिष्ठ्यूतस्पर्शने द्विगुणस् ततः ॥ या०ध०२.२१३

समेष्व् एवं परस्त्रीषु द्विगुणस् तूत्तमेषु च ।
हीनेष्व् अर्धदमो मोहमदादिभिर् अदण्डनम् ॥ या०ध०२.२१४

भस्मना पङ्केन रेणुना वा यः परं स्पर्शयत्य् असौ दशपणं दण्डं दाप्यः । अमेध्यम् इत्य् अश्रुश्लेष्मनखकेशकर्णविट्दूषिकाभुक्तोच्छिष्टादिकं च गृह्यते । पार्ष्णिः पादस्य पश्चिमो भागः । निष्ठ्यूतं मुखनिःसारितं जलम् । तैः स्पर्शने ततः पूर्वाद् दशपणाद् द्विगुणो विंशतिपणो दण्डो वेदितव्यः ॥ पुरीषादिस्पर्शने पुनः कात्यायनेन विशेष उक्तः ।

"छर्दिमूत्रपुरीषाद्यैर् आपाद्यः स चतुर्गुणः ।
षड्गुणः कायमध्ये स्यान् मूर्घ्नि त्व् अष्टगुणः स्मृतः ॥" इति । (का०स्मृ० ७८४)

आद्यग्रहणाद् वसाशुक्रासृङ्मज्जानो गृह्यन्ते । एवंभूतः पूर्वोक्तो दण्डः सवर्णविषये द्रष्टव्यः, परभार्यासु चाविशेषेण । तथोत्तमेषु स्वापेक्षयाधिकश्रुतवृत्तेषु पूर्वोक्ताद् दशपणाद् विंशतिपणाच् च दण्डाद् द्विगुणो दण्डो वेदितव्यः । हीनेषु स्वापेक्षया न्यूनवृत्तश्रुतादिषु पूर्वोक्तस्यार्धदमः पञ्चपणो दशपणश् च वेदितव्यः । मोहश् चित्तवैकल्यम् । मदो मद्यपानजन्योऽवस्थाविशेषः । आदिग्रहणाद् ग्रहावेशादिकम् । एतैर् युक्तेन भस्मादिस्पर्शने कृतेऽपि दण्डो न कर्तव्यः ॥ २.२१३ ॥ २.२१४ ॥

प्रातिलोम्यापराधे दण्डम् आह ।

विप्रपीडाकरं छेद्यम् अङ्गम् अब्राह्मणस्य तु ।
उद्गूर्णे प्रथमो दण्डः संस्पर्शे तु तदर्धिकः ॥ या०ध०२.२१५

ब्राह्मणानां पीडाकरम् अब्राह्मणस्य क्षत्रियादेर् यद् अङ्गं करचरणादिकं तच् छेत्तव्यम् । क्षत्रियवैश्ययोर् अपि पीडां कुर्वतः शूद्रस्याङ्गच्छेदनम् एव ।

"येन केनचिद् अङ्गेन हिंस्याच् छ्रेयांसम् अन्त्यजः ।
छेत्तव्यं तत् तद् एवास्य तन् मनोर् अनुशासनम् ॥" इति । (मा०ध० ८.२७९)

द्विजातिमात्रस्यापराधे शूद्रस्याण्गच्छेदविधानाद् वैश्यस्यापि क्षत्रियापकारिणोऽयम् एव दण्डस् तुल्यन्यायत्वात् । उद्गूर्णे वधार्थम् उद्यते शस्त्रादिके प्रथमसाहसो दण्डो वेदितव्यः । शूद्रस्य पुनर् उद्गूर्णेऽपि हस्तादिच्छेदनम् एव,

"पाणिम् उद्यम्य दण्डं वा पाणिच्छेदनम् अर्हति ।" (मा०ध० ८.२८०)

इति मनुस्मरणात् ॥ उद्गूरणार्थं शस्त्रादिस्पर्शने तु तदर्धिकः प्रथमसाहसाद् अर्धदण्डो वेदितव्यः ॥ भस्मादिसंस्पर्शे पुनः क्षत्रियवैश्ययोः "प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः" (या०ध० २.२०७) इति वाक्पारुष्योक्तन्यायेन कल्पयम् । शूद्रस्य तत्रापि हस्तच्छेद एव,

"अवनिष्ठीवतो दर्पाद् द्वाव् ओष्ठौ छेदयेन् नृपः ।
अवमूत्रयतो मेढ्रम् अवशर्धयतो गुदम् ॥" (मा०ध० ८.२८२)

इति मनुस्मरणात् ॥ २.२१४ ॥

एवं प्रातिलोम्यापराधे दण्डम् अभिधाय, पुनः सजातिम् अधिकृत्याह ।

उद्गूर्णे हस्तपादे तु दशविंशतिकौ दमौ ।
परस्परं तु सर्वेषां शस्त्रे मध्यमसाहसः ॥ या०ध०२.२१६

हस्ते पादे वा ताडनार्थम् उद्गूर्णे यथाक्रमं दशपणो विंशतिपणश् च दण्डो वेदितव्यः । परस्परवधार्थं शास्त्रे उद्गूर्णे सर्वेषां वर्णिनां मध्यमसाहसो दण्डः ॥ २.२१६ ॥

किं च ।

पादकेशांशुककरोल्लुञ्चनेषु पणान् दश ।
पीडाकर्षांशुकावेष्टपादाध्यासे शतं दमः ॥ या०ध०२.२१७

पादकेशवस्त्रकराणाम् अन्यतमं गृहीत्वा य उल्लुञ्चति झटित्य् आकर्षयत्य् असौ दशपणान् दण्ड्यः । पीडा च कर्षश् चांशुकावेष्तश् च पादाध्यासश् च पीडाकर्षांशुकावेष्टपादाध्यासं तस्मिन् समुच्चिते शतं दण्ड्यः । एतद् उक्तं भवति । अंशुकेनावेष्ट्य गाढम् आपीड्याकृष्य च यः पादेन घट्टयति तं शतं पणान् दापयेद् इति ॥ २.२१७ ॥

किं च ।

शोणितेन विना दुःखं कुर्वन् काष्ठादिभिर् नरः ।
द्वात्रिंशतं पणान् दण्ड्यो द्विगुणं दर्शनेऽसृजः ॥ या०ध०२.२१८

यः पुनः शोणितं यथा न दृश्यते तथा मृदुताडनं काष्टलोष्टादिभिः करोत्य् असौ द्वात्रिंशतं पणान् दण्ड्यः ॥ यदा पुनर् गाढताडनेन लोहितं दृश्यते तदा द्वात्रिंशतो द्विगुणं चतुःषष्तिपणान् दण्डनीयः । त्वङ्मांसास्थिभेदे पुनर् विशेषो मनुना दर्शितः ।

"त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः ।
मांसभेत्ता तु षण्निष्कान् प्रवास्यस् त्व् अस्थिभेदकः ॥" इति ॥ (मा०ध० ८.२८४) २.२१८ ॥

किं च ।

करपाददतो भङ्गे छेदने कर्णनासयोः ।
मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा ॥ या०ध०२.२१९

करपाददन्तस्य प्रत्येकं भङ्गे कर्णनासस्य च प्रत्येकं छेदने रूढव्रणस्योद्भेदने मृतकल्पो यथा भवति तथा हते ताडिते मध्यमसाहसो वेदितव्यः । अनुबन्धादिना विषयस्य साम्यमत्रापादनीयम् ॥ २.२१९ ॥

किं च ।

चेष्टाभोजनवाग्रोधे नेत्रादिप्रतिभेदने ।
कन्धराबाहुसक्थ्नां च भङ्गे मध्यमसाहसः ॥ या०ध०२.२२०

गमनभोजनभाषणनिरोधे नेत्रस्य आदिग्रहणाज् जिह्वायाश् च प्रतिभेदने । कन्धरा ग्रीवा, बाहुः प्रसिद्धः, सक्थि ऊरुस् तेषां प्रत्येकं भञ्जने मध्यमसाहसो दण्डः ॥ २.२२० ॥

अपि च ।

एकं घ्नतां बहूनां च यथोक्ताद् द्विगुणो दमः । या०ध०२.२२१अब्

यदा पुनर् बहवो मिलिता एकस्याङ्गभङ्गादिकं कुर्वन्ति तदा यस्मिन् यस्मिन् अपराधे यो यो दण्ड उक्तस् तत्र तस्माद् द्विगुणो दण्डः प्रत्येकं वेदितव्यः । अतिक्रूरत्वात् तेषां प्रातिलोम्यानुलोम्यापराधयोर् अप्य् एतस्यैव सवर्णविषयेऽभिहितस्य दण्डजातस्य वाक्पारुष्योक्तक्रमेण हानिं वृद्धिं च कल्पयेत्,

"वाक्पारुष्ये य एवोक्तः प्रतिलोम्यानुलोमतः ।
स एव दण्डपारुष्ये दाप्यो राज्ञा यथाक्रमम् ॥" (का०स्मृ० ७८६)

इति स्मरणात् ॥

किं च ।

कलहापहृतं देयं दण्डश् च द्विगुणस् ततः ॥ या०ध०२.२२१च्द्

कलहे वर्तमाने यद् येनापहृतं तत् तेन प्रत्यर्पणीयम् । अपहृतद्रव्याद् द्विगुणश् चापहारनिमित्तो दण्डो देयः ॥ २.२२१ ॥

किं च ।

दुःखम् उत्पादयेद् यस् तु स समुत्थानजं व्ययम् ।
दाप्यो दण्डं च यो यस्मिन् कलहे समुदाहृतः ॥ या०ध०२.२२२

यो यस्य ताडनाद् दुःखम् उत्पादयेत् स तस्य व्रणरोपणादौ औषधार्थं पथ्यार्थं च यो व्ययः क्रियते तं दद्यात् । समुत्थानं व्रणरोपणम् । यस्मिन् कलहे यो दण्डस् तं च दद्यान् न पुनः समुत्थानजव्ययमात्रम् ॥ २.२२२ ॥

परगात्राभिद्रोहे दण्डम् उक्त्वानन्तरं बहिरङ्गार्थनाशे दण्डम् आह ।

अभिघाते तथा छेदे भेदे कुड्यावपातने ।
पणान् दाप्यः पञ्च दश विंशतिं तद्व्ययं तथा ॥ या०ध०२.२२३

मुद्गरादिना कुड्यस्याभिघाते विदारणे द्विधाकरणे च यथाक्रमं पञ्चपणो दशपणो विंशतिपणश् च दण्डो वेदितव्यः । अवपातने पुनः कुड्यस्यैते त्रयो दण्डाः समुच्चिता ग्राह्याः । पुनः कुड्यसंपादनार्थं च धनं स्वामिने दद्यात् ॥ २.२२३ ॥

अपि च ।

दुःखोत्पादि गृहे द्रव्यं क्षिपन् प्राणहरं तथा ।
षोडशाद्यः पणान् दाप्यो द्वितीयो मध्यमं दमम् ॥ या०ध०२.२२४

परगृहे दुःखजनकं कण्टकादि द्रव्यं प्रक्षिपन् षोडशपणान् दण्ड्यः । प्राणहरं पुनर् विषभुजङ्गादिकं प्रक्षिपन् मध्यमसाहसं दण्ड्यः ॥ २.२२४ ॥

पश्वभिद्रोहे दण्डम् आह ।

दुःखे च शोणितोत्पादे शाखाङ्गच्छेदने तथा ।
दण्डः क्षुद्रपशूनां तु द्विपणप्रभृतिः क्रमात् ॥ या०ध०२.२२५

क्षुद्राणां पशुनाम् अजाविकहरिणप्रायाणां ताडनेन दुःखोत्पादने असृक्स्त्रावणे शाखाङ्गच्छेदने, शाखाशब्देन चात्र प्राणसंचाररहितं शृङ्गादिकं लक्ष्यते, अङ्गानि करचरणप्रभृतीनि, शाखा चाङ्गं च शाखाङ्गं, तस्य छेदने द्विपणप्रभृतिर्दण्डः । द्वौ पणौ यस्य दण्डस्य स द्विपणः । द्विपणः प्रभृतिर् आदिर् यस्य दण्डगणस्यासौ द्विपणप्रभृतिः । स च दण्डगणो द्विपणश् चतुःपणः षट्पणोऽष्टपण इत्येवंरूपो न पुनर् द्विपणस् त्रिपणश् चतुष्पणः पञ्चपण इति । कथम् इति चेद्, उच्यते । अपराधगुरुत्वात् तावत् प्रथमदण्डाद् गुरुतरम् उपरितनं दण्डत्रितयम् अवगम्यते । तत्र चाश्रुतत्रित्वादिसंख्याश्रयणाद् वरं श्रुतिद्विसंख्याया एवाभ्यासाश्रयणेन गुरुत्वसंपादनम् इति निरवद्यम् ॥ २.२२४ ॥

किं च ।

लिङ्गस्य छेदने मृत्यौ मध्यमो मूल्यम् एव च ।
महापशूनाम् एतेषु स्थानेषु द्विगुणो दमः ॥ या०ध०२.२२६

तेषां क्षुद्रपशूनं लिङ्गछेदने मरणे च मध्यमसाहसो दण्डः । स्वामिने च मूल्यं दद्यात् । महापशूनां पुनर् गोगजवाजिप्रभृतीनाम् एतेषु स्थानेषु ताडनलोहितस्रावणादिषु निमित्तेषु पूर्वोक्ताद् दण्डाद् द्विगुणो दण्डो वेदितव्यः ॥ २.२२६ ॥

स्थावराभिद्रोहे दण्डम् आह ।

प्ररोहिशाखिनां शाखास्कन्धसर्वविदारणे ।
उपजीव्यद्रुमाणां च विंशतेर् द्विगुणो दमः ॥ या०ध०२.२२७

प्ररोहा अङ्कुरास् तद्वन्त्यः शाखाः प्ररोहिण्यः याश् छिन्नाः पुनर् उप्ताः प्रतिकाण्डं प्ररोहन्ति ताः शाखा येषां वटादीनां ते प्ररोहिशाखिनस् तेषां शाखाच्छेदने । यतो मूलशाखा निर्गच्छन्ति स स्कन्धस् तस्य छेदने समूलवृक्षच्छेदने च यथाक्रमं विंशतिपणदण्डाद् आरभ्य पूर्वस्मात् पूर्वस्माद् उत्तरोत्तरो दण्डो द्विगुणः । एतद् उक्तं भवति । विंशतिपणश् चत्वारिंशत्पणोऽशीतिपण इत्य् एवं त्रयो दण्डा यथाक्रमं शाखाच्छेदनादिष्व् अपराधेषु भवन्तीति । अप्ररोहिशाखिनाम् अप्य् उपजीव्यवृक्षाणाम् आम्रादीनां पूर्वोक्तेषु स्थानेषु पूर्वोक्ता एव दण्डा अनुपजीव्याप्ररोहिशाखिषु पुनर् वृक्षेषु कल्प्याः ॥ २.२२७ ॥

वृक्षविशेषं प्रत्य् आह ।

चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये ।
जातद्रुमाणां द्विगुणो दमो वृक्षे च विश्रुते ॥ या०ध०२.२२८

चैत्यादिषु जातानां वृक्षाणां शाखाच्छेदनादिषु पूर्वोक्ताद् दण्डाद् द्विगुणः । विश्रुते च पिप्पलपलाशादिके द्विगुणो दण्डः ॥ २.२२८ ॥

गुल्मादीन् प्रत्य् आह ।

गुल्मगुच्छक्षुपलताप्रतानौषधिवीरुधाम् ।
पूर्वस्मृताद् अर्धदण्डः स्थानेषूक्तेषु कर्तने ॥ या०ध०२.२२९

गुल्मा अनतिदीर्गनिबिडलता मालत्यादयः । गुच्छा अवल्लीरूपा असरलप्रायाः कुरण्टकादयः । क्षुपाः करवीरादयः सरलप्रायाः । लता दीर्घयायिन्यो द्राक्षातिमुक्ताप्रभृतयः । प्रतानाः काण्डप्ररोहरहिताः सरलयायिन्यः सारिवाप्रभृतयः । ओषध्यः फलपाकावसानाः शालिप्रभृतयः । वीरुधः छिन्ना अपि या विविधं प्ररोहन्ति ताः गुडूचीप्रभृतयः । एतेषां पूर्वोक्तेषु स्थानेषु विकर्तने छेदने पूर्वोक्ताद् दण्डाद् अर्धदण्डो वेदितव्यः ॥ २.२२९ ॥

इति दण्डपारुष्यप्रकरणम्
अथ साहसप्रकरणम्

संप्रति साहसं नाम विवादपदं व्याचिख्यासुस् तल्लक्षणं तावद् आह ।

सामान्यद्रव्यप्रसभहरणात् साहसं स्मृतम् । या०ध०२.२३०अब्

सामान्यस्य साधारणस्य यथेष्तं विनियोगानर्हत्वाविशेषेण परकीयस्य वा द्रव्यस्यापहरणं साहसम् । कुतः । प्रसभहरणात् प्रसह्य हरणात् । बलावष्टम्भेन हरणाद् इति यावत् । एतद् उक्तं भवति । राजदण्डं जनक्रोशं चोल्लङ्घ्य राजपुरुषेतरजनसमक्षं यत् किंचिन् मारणहरणपरदारप्रधर्षणादिकं क्रियते तत् सर्वं साहसम् इति साहसलक्षणम् । अतः साधारणधनपरधनयोर् हरणस्यापि बलावष्टम्भेन क्रियमाणत्वात् साहसत्वम् इति । नारदेनापि साहसस्य स्वरूपं विवृतम् ।

"सहसा क्रियते कर्म यत् किंचिद् बलदर्पितैः ।
तत् साहसम् इति प्रोक्तं सहो बलम् इहोच्यते ॥" इति । (ना०स्मृ० १४.१)

तद् इदं साहसं चौर्यवाग्दण्डपारुष्यस्त्रीसंग्रहणीषु व्यासक्तम् अपि बलदर्पावष्टम्भोपाधितो भिद्यते इति दण्डातिरेकार्थं पृथगभिधानम् । तस्य च दण्डवैचित्र्यप्रतिपादनार्थं प्रथमादिभेदेन त्रैविद्यम् अभिधाय तल्लक्षणं तेनैव विवृतं ।

"तत् पुनस् त्रिविधं ज्ञेयं प्रथमं मध्यमं तथा ।
उत्तमं चेति शास्त्रेषु तस्योक्तं लक्षणं पृथक् ॥
फलमूलोदकादीनां क्षेत्रोपकरणस्य च ।
भङ्गाक्षेपोपमर्दाद्यैः प्रथमं साहसं स्मृतम् ॥
वासःपश्वन्नपानानाम् गृहोपकरणस्य च ।
एतेनैव प्रकारेण मध्यमं साहसं स्मृतम् ॥
व्यापादो विषशस्त्राद्यैः परदारप्रधर्षणम् ।
प्राणोपरोधि यच् चान्यद् उक्तम् उत्तमसाहसम् ॥
तस्य दण्डः क्रियापेक्षः प्रथमस्य शतावरः ।
मध्यमस्य तु शास्त्रज्ञैर् दृष्टः पञ्चशतावरः ॥
उत्तमे साहसे दण्डः सहस्रावर इषते ।
वधः सर्वस्वहरणं पुरान् निर्वासनाङ्कने ।
तदङ्गच्छेद इत्य् उक्तो दण्ड उत्तमसाहसे ॥" इति ॥ (ना०स्मृ० १४.२–७)

वधादयश् चापराधतारतम्याद् उत्तमसाहसे समस्ता व्यस्ता वा योज्याः ॥

तत्र परद्रव्यापहरणरूपे साहसे दण्डम् आह ।

तन्मूल्याद् द्विगुणो दण्डो निह्नवे तु चतुर्गुणः ॥ या०ध०२.२३०च्द्

तस्यापहृतद्रव्यस्य मूल्यात् द्विगुणो दण्डः । यः पुनः साहसं कृत्वा नाहम् अकार्षम् इति निह्नुते तस्य मूल्याच् चतुर्गुणो दण्डो भवति । एतस्माद् एव विशेषदण्डविधानात् प्रथमसाहसादिसामान्यदण्डविधानम् अपहारव्यतिरिक्तविषयं गम्यते ॥ २.२३० ॥

साहसिकस्य प्रयोजयितारं प्रत्य् आह ।

यः साहसं कारयति स दाप्यो द्विगुणं दमम् ।
यश् चैवम् उक्त्वाहं दाता कारयेत् स चतुर्गुणम् ॥ या०ध०२.२३१

यस् तु "साहसं कुरु" इत्य् एवम् उक्त्वा कारयत्य् असौ साहसिकाद् दण्डाद् द्विगुणं दण्डं दाप्यः । यः पुनः "अहं तुभ्यं धनं दास्यामि, त्वं कुरु" इत्य् एवम् उक्त्वा साहसं कारयति, स चतुर्गुणं दण्डं दाप्योऽनुबन्धातिशयात् ॥ २.२३१ ॥

साहसिकविशेषं प्रत्य् आह ।

अर्घ्याक्षेपातिक्रमकृद् भ्रातृभार्याप्रहारकः ।
संदिष्टस्याप्रदाता च समुद्रगृहभेदकृत् ॥ या०ध०२.२३२

सामन्तकुलिकादीनाम् अपकारस्य कारकः ।
पञ्चाशत्पणिको दण्ड एषाम् इति विनिश्चयः ॥ या०ध०२.२३३

अर्घ्यस्यार्घार्हस्याचार्यादेर् आक्षेपम् आज्ञातिक्रमं च यः करोति, यश् च भ्रातृभार्यां ताडयति तथा संदिष्टस्य प्रतिश्रुतस्यार्थस्याप्रदाता यश् च मुद्रितं गृहम् उद्घाटयति तथा स्वगृहे क्षेत्रादिसंसक्तगृहक्षेत्रादिस्वामिनां कुलिकानां स्वकुलोद्भवानां आदि ग्रहणात् स्वग्राम्यस्वदेशीयानां च योऽपकर्ता, ते सर्वे पञ्चाशत्पणपरिमितेन दण्डेन दण्डनीयाः ॥ २.२३२ ॥ २.२३३ ॥

किं च ।

स्वच्छन्दविधवागामी विक्रुष्टेऽनभिधावकः ।
अकारणे च विक्रोष्टा चण्डालश् चोत्तमान् स्पृशेत् ॥ या०ध०२.२३४

शूद्रप्रव्रजितानां च दैवे पित्र्ये च भोजकः ।
अयुक्तं शपथं कुर्वन्न् अयोग्यो योग्यकर्मकृत् ॥ या०ध०२.२३५

वृषक्षुद्रपशूनां च पुंस्त्वस्य प्रतिघातकृत् ।
साधारणस्यापलापी दासीगर्भविनाशकृत् ॥ या०ध०२.२३६

पितृपुत्रस्वसृभ्रातृदंपत्याचार्यशिष्यकाः ।
एषाम् अपतितान्योन्यत्यागी च शतदण्डभाक् ॥ या०ध०२.२३७

नियोगं विना यः स्वेच्छया विधवां गच्छति. चौरादिभयाकुलैर् विक्रुष्टे च यः शक्तोऽपि नाभिधावति, यश् च वृठाक्रोषं करोति, यश् च चण्डालो ब्राह्मणादीन् स्पृशति, यश् च शूद्रप्रव्रजितान् दिगम्बरादीन् दैवे पित्र्ये च कर्मणि भोजयति, यश् चायुक्तं "मातरं गमिष्यामि" इत्य् एवं शपथं करोति, तथा यश् च अयोग्य एव शूद्रादियोग्यकर्माध्ययनादि करोति, वृषो बलीवर्दः क्षुद्रपशवोऽजादयस् तेषां पुंस्त्वस्य प्रजननशक्तेर् विनाशकः, वृक्षक्षुद्रपशूनाम् इति पाठे हिंग्वाद्यौषधप्रयोगेण वृक्षादेः फलप्रसूनानां पातयिता, साधारणम् अपलपति साधारणद्रव्यस्य च वञ्चकः, दासीगर्भस्य च पातयिता, ये च पित्रादयोऽपतिता एव सन्तोऽन्योन्यं त्यजन्ति, ते सर्वे प्रत्येकं पणशतं दण्डार्हा भवन्ति ॥ २.२३४-२३७ ॥

इति साहसप्रकरणम् ॥

साहसप्रसङ्गात् तत्सदृशापराधेषु निर्णेजकादीनां दण्डम् आह ।

वसानस् त्रीन् पणान् दण्ड्यो नेजकस् तु परांशुकम् ।
विक्रयावक्रयाधानयाचितेषु पणान् दश ॥ या०ध०२.२३८

नेजको वस्त्रस्य धावकः, स यदि निर्णेजनार्थं समर्पितानि वासांसि स्वयम् आच्छादयति तदासौ पणत्रयं दण्ड्यः । यः पुनस् तानि विक्रीणीते अवक्रयं वा "एतावत् कालम् उपभोगार्थं वस्त्रं दीयते मह्यम् एतावद् धनं देयम्" इत्य् एवं भाटकेन यो ददाति, आधित्वं वा नयति, स्वसुहृद्भ्यो याचितं वा ददाति, असौ प्रत्यपराधं दशपणान् दण्डनीयः । तानि च वस्त्राणि श्लक्ष्णशाल्मलीफलके क्षालनीयानि न पाषाणे न च व्यत्यसनीयानि न च स्वगृहे वासयितव्यानि, इतरथा दण्ड्यः,

"शाल्मलीफलके श्लक्ष्णे निज्याद् वासांसि नेजकः ।
न च वासांसि वासोभिर् निर्हरेन् न च वासयेत् ॥" (मा०ध० ८.३९६)

इति मनुस्मरणात् ॥ यदा पुनः प्रमादात् तानि नाशयति तदा नारदेनोक्तं द्रष्टव्यम् ।

"मूल्याष्टभागो हीयेत सकृद्धौतस्य वाससः ।
द्विः पादस् त्रिस् तृतीयां शश् चतुर्धौतेऽर्धम् एव च ॥
अर्धक्षयात् तु परतः पादांशापचयः क्रमात् ।
यावत् क्षीणदशं जीर्णं जीर्णस्यानियमः क्षयः ॥" इति । (ना०स्मृ० ९.८–९)

अष्टपणक्रीतस्य सकृद्धौतस्य वस्त्रस्य नाशितस्याष्टमभागपणोनं मूल्यं देयम् । द्विर्धौतस्य तु पादोनं पणद्वयोनं त्रिर्धौतस्य पुनस् तृतीयांशन्यूनम् । चतुर्धौतस्यार्धं पणचतुष्टयं देयम् । ततः परं प्रतिनिर्णेजनम् अवशिष्टं मूल्यं पादपादापचयेन देयम् । यावज् जीर्णस्य पुनर् नाशितस्येच्छातो मूल्यदानकल्पनम् ॥ २.२३८ ॥

पितापुत्रविरोधे तु साक्षिणां त्रिपणो दमः ।
अन्तरे च तयोर् यः स्यात् तस्याप्य् अष्टगुणो दमः ॥ या०ध०२.२३९

पितापुत्रयोः कलहे यः साक्ष्यम् अङ्गीकरोति न पुनः कलहं निवारयत्य् असौ पणत्रयं दण्ड्यः । यश् च तयोः सपणे विवादे पणदाने प्रतिभूर् भवत्य् असौ चकारात् तयोर् यः कलहं वर्धयति सोऽपि त्रिपणाद् अष्टगुणं चतुर्विंशतिपणान् दण्डनीयः । दम्पत्यादिष्वयम् एव दण्डोऽनुसरणीयः ॥ २.२३९ ॥

तुलाशासनमानानां कूटकृन् नाणकस्य च ।
एभिश् च व्यवहर्ता यः स दाप्यो दमम् उत्तमम् ॥ या०ध०२.२४०

तुला तोलनदण्डः । शासनं पूर्वोक्तम् । मानं प्रस्थद्रोणादि । नाणकं मुद्रादिचिह्नितं द्रम्मनिष्कादि । एतेषां यः कूटकृत् देशप्रसिद्धपरिमाणाद् अन्यथा न्यूनत्वम् आधिक्यं वा द्रम्मादेर् अव्यवहारिकमुद्रात्वं ताम्रादिगर्भत्वं वा करोति यश् च तैः कूटैर् जानन् अपि व्यवहरति ताव् उभौ प्रत्येकम् उत्तमसाहसं दण्डनीयौ ॥ २.२४० ॥

नाणकपरीक्षिणं प्रत्य् आह ।

अकूटं कूटकं ब्रूते कूटं यश् चाप्य् अकूटकम् ।
स नाणकपरीक्षी तु दाप्य उत्तमसाहसम् ॥ या०ध०२.२४१

यः पुनर् नाणकपरीक्षी ताम्रादिगर्भम् एव द्रम्मादिकं सम्यग् इति ब्रूते सम्यक् वा कूटकम् इत्य् असाव् उत्तमसाहसं दण्ड्यः ॥ २.२४१ ॥

चिकित्सकं प्रत्य् आह ।

भिषङ् मिथ्याचरन् दण्ड्यस् तिर्यक्षु प्रथमं दमम् ।
मानुषे मध्यमं राजपुरुषेषूत्तमं दमम् ॥ या०ध०२.२४२

यः पुनर् भिषक् मिथ्या आयुर्वेदानभिज्ञ एव जीवनार्थं चिकित्सितज्ञोऽहम् इति तिर्यङ्मनुष्यराजपुरुषेषु चिकित्साम् आचरत्य् असौ यथाक्रमेण प्रथममध्यमोत्तमसाहसान् दण्डनीयः । तत्रापि तिर्यगादिषु मूल्यविशेषेण वर्णविशेषेण राजप्रत्यासत्तिविशेषेण दण्डानां लघुगुरुभावः कल्पनीयः ॥ २.२४२ ॥

अबन्ध्यं यश् च बध्नाति बद्धं यश् च प्रमुञ्चति ।
अप्राप्तव्यवहारं च स दाप्यो दमम् उत्तमम् ॥ या०ध०२.२४३

यः पुनर् बन्धनानर्हम् अनपराधिनं राजाज्ञया विना बध्नाति । यश् च बद्धं व्यवहारार्थम् आहूतं अनिवृत्तव्यवहारं चोत्सृजत्य् असौ उत्तमसाहसं दाप्यः ॥ २.२४३ ॥

मानेन तुलया वापि योऽंशम् अष्टमकं हरेत् ।
दण्डं स दाप्यो द्विशतं वृद्धौ हानौ च कल्पितम् ॥ या०ध०२.२४४

यः पुनर् वणिक् व्रीहिकार्पासादेः पण्यस्याष्टमम् अंशं कूटमानेन कूटतुलया वा अन्यथापहरत्य् असौ पणानां द्विशतं दण्डनीयः । अपहृतस्य द्रव्यस्य पुनर् वृद्धौ हानौ च दण्डस्यापि वृद्धिहानी कल्प्ये ॥ २.२४४ ॥

भेषजस्नेहलवणगन्धधान्यगुडादिषु ।
पण्येषु प्रक्षिपन् हीनं पणान् दाप्यस् तु षोडश ॥ या०ध०२.२४५

भेषजम् औषधद्रव्यम् । स्नेहो घृतादिः । लवणं प्रसिद्धम् । गन्धद्रव्यम् उशीरादि । धान्यगुडौ प्रसिद्धौ । आदिशब्दाद् धिङ्गुमरीचादि । एतेष्व् असारद्रव्यं विक्रयार्थं मिश्रयतः षोडशपणो दण्डः ॥ २.२४५ ॥

किं च ।

मृच्चर्ममणिसूत्रायःकाष्ठवल्कलवाससाम् ।
अजातौ जातिकरणे विक्रेयाष्टगुणो दमः ॥ या०ध०२.२४६

न विद्यते बहुमूल्या जातिर् यस्मिन् मृच्चर्मादिके तद् अजाति, तस्मिन् जातिकरणे विक्रयार्थं गन्धवर्णरसान्तरसंचारणेन बहूमूल्यजातीयसादृश्यसंपादनेन । यथा मल्लिकामोदसंचारेण मृत्तिकायां सुगन्धामलकम् इति । मार्जारचर्मणि वर्णोत्कर्षापादनेन व्याघ्रचर्मेति स्फटिकमणौ वर्णान्तरकरणेन पद्मराग इति । कार्पासिके सूत्रे गुणोत्कर्षाधानेन पट्टसूत्रम् इति । कालायसे वर्णोत्कर्षाधानेन रजतम् इति । बिल्वकाष्टे चन्दनामोदसंचारेण चन्दनम् इति । कङ्कोले त्वगाख्यं लवङ्गम् इति । कार्पासिके वाससि गुणोत्कर्षाधनेन कौशेयम् इति । विक्रेयस्यापादितसादृश्यमृच्चर्मादेः पण्यस्याष्टगुणो दण्डो वेदितव्यः ॥ २.२४६

समुद्गपरिवर्तं च सारभाण्डं च कृत्रिमम् ।
आधानं विक्रयं वापि नयतो दण्डकल्पना ॥ या०ध०२.२४७

भिन्ने पणे च पञ्चाशत् पणे तु शतम् उच्यते ।
द्विपणे द्विशतो दण्डो मूल्यवृद्धौ च वृद्धिमान् ॥ या०ध०२.२४८

मुद्गं पिधानं मुद्गेन सह वर्तत इति समुद्गं करण्डकं परिवर्तनं व्यत्यासः । योऽन्यद् एव मुक्तानां पूर्णं करण्डकं दर्शयित्वा हस्तलाघवेनान्यद् एव स्फटिकानां पूर्णं करण्डकं समर्पयति यश् च सारभाण्डकं कस्तूरिकादिकं कृत्रिमं कृत्वा विक्रयम् आधिं वा नयति तस्य दण्डकल्पना वक्ष्यमाणा वेदितव्या । कृत्रिमकस्तूरिकादेर् मूल्यभूते पणे भिन्ने न्यूने । न्यूनपणमूल्य इति यावत् । तस्मिन् कृत्रिमे विक्रीते पञ्चाशत्पणो दण्डः । पणमूल्ये पुनः शतम् । द्विपणमूल्ये द्विशतो दण्ड इत्य् एवं मूल्यवृद्धौ दण्डवृद्धिर् उन्नेया ॥ २.२४७ ॥ २.२४८ ॥

वणिजः प्रत्य् आह ।

सम्भूय कुर्वताम् अर्घं सबाधं कारुशिल्पिनाम् ।
अर्घस्य ह्रासं वृद्धिं वा जानतो दम उत्तमः ॥ या०ध०२.२४९

राजनिरूपितार्घस्य ह्रासं वृद्धिं वा जानन्तोऽपि वणिजः संभूय मिलित्वा कारूणां रजकादीनां शिल्पिनां चित्रकारादीनां सबाधं पीडाकरम् अर्घान्तरं लाभलोभात् कुर्वन्तः पणसहस्रं दण्डनीयाः ॥ २.२४९ ॥

किं च ।

सम्भूय वणिजां पण्यम् अनर्घेणोपरुन्धताम् ।
विक्रीणतां वा विहितो दण्ड उत्तमसाहसः ॥ या०ध०२.२५०

ये पुनर् वणिजो मिलित्वा देशान्तराद् आगतं पण्यम् अनर्घेण हीनमूल्येन प्रार्थयमाना उपरुन्धन्ति महार्घेण वा विक्रीणते तेषाम् उत्तमसाहसो दण्डो विहितो मन्वादिभिः ॥ २.२५० ॥

केन पुनर् अर्घेण पणितव्यम् इत्य् अत आह ।

राजनि स्थाप्यते योऽर्घः प्रत्यहं तेन विक्रयः ।
क्रयो वा निःस्रवस् तस्माद् वणिजां लाभकृत् स्मृतः ॥ या०ध०२.२५१

राजनि संनिहिते सति यस् तेनार्घः स्थाप्यते निरूप्यते तेनार्घेण प्रतिदिनं क्रयो विक्रयो वा कार्यः । निर्गतः स्रवो निःस्रवो विशेषस् तस्माद् राजनिरूपितार्घाद् यो निःस्रवः स एव वणिजां लाभकारी न पुनः स्वच्छन्दपरिकल्पितात् । मनुना चार्घकरणे विशेषो दर्शितः ।

"पञ्चरात्रे पञ्चरात्रे पक्षे मासे तथा गते ।
कुर्वीत चैषां प्रत्यक्षम् अर्घसंस्थापनं नृपः ॥" इति ॥ (मा०ध० ८.४०२) २.२५१ ॥

किं च ।

स्वदेशपण्ये तु शतं वणिग् गृह्णीत पञ्चकम् ।
दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयी ॥ या०ध०२.२५२

स्वदेशप्राप्तं पण्यं गृहीत्वा यो विक्रीणीते असौ पञ्चकं शतं पणशते पणपञ्चकं लाभं गृह्नीयात् । परदेशात् प्राप्ते पुनः पण्ये शतपणमूल्ये दशपणांल् लाभं गृह्नीयात् । यस्य पणस्य ग्रहणदिवस एव विक्रयः संपद्यते । यः पुनः कालानन्तरे विक्रीणीते तस्य कालोत्कर्षवशाल् लाभोत्कर्षः कल्प्यः । एवं च यथार्घे निरुपिते पणशते पञ्चपणो लाभो भवति तथैवार्घो राज्ञा स्वदेशपण्यविषये स्थापनीयः ॥ २.२५२ ॥

पारदेश्यपण्येऽर्घनिरूपणप्रकारम् आह ।

पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवम् ।
अर्घोऽनुग्रहकृत् कार्यः क्रेतुर् विक्रेतुर् एव च ॥ या०ध०२.२५३

देशान्तराद् आगते पण्ये देशान्तरगमनप्रत्यागमनभाण्डग्रहणशुल्कादिस्थानेषु यावान् उपयुक्तोऽर्थस् तावन्तम् अर्थं परिगणय्य पण्यमूल्येन सह मेलयित्वा यथा पणशते दशपणो लाभः संपद्यते तथा क्रेतृविक्रेत्रोर् अनुग्रहकार्य् अर्घो राज्ञा स्थापनीयः ॥ २.२५३ ॥

इति साहसे प्रासङ्गिकप्रकरणम्
अथ विक्रीयासंप्रदानप्रकरणम्

प्रासङ्गिकं परिसमाप्य. अधुना विक्रीयासंप्रदानं प्रक्रमते । तत्स्वरूपं च नारदेनाभिहितम् ।

"विक्रीय पण्यं मूल्येन क्रेतुर् यन् न प्रदीयते ।
विक्रीयासंप्रदानं तद् विवादपदम् उच्यते ॥" इति । (ना०स्मृ० ८.१)

तत्र विक्रेयद्रव्यस्य चराचरभेदेन द्वैविध्यम् अभिधाय पुनः षड्विधत्वं तेनैव प्रत्यपादि ।

"लोकेऽस्मिन् द्विविधं पण्यं जङ्गमं स्थावरं तथा ।
षड्विधस् तस्य तु बुधैर् दानादानविधिः स्मृतः ॥
गणितं तुलितं मेयं क्रियया रूपतः श्रिया ॥" इति । (ना०स्मृ० ८.२–३)

गणितं क्रमुकफलादि । तुलितं कनककस्तूरीकुङ्कुमादि । मेयं शाल्यादि । क्रियया वाहदोहादिरूपयोपलक्षितम् अश्वमहिष्यादि । रूपतः पण्याङ्गनादि । श्रिया दीप्त्या मरकतपद्मरागादीति ॥

एतत् षट्प्रकारकम् अपि पण्यं विक्रीयासंप्रयच्छतो दण्डम् आह ।

गृहीतमूल्यं यः पण्यं क्रेतुर् नैव प्रयच्छति ।
सोदयं तस्य दाप्योऽसौ दिग्लाभं वा दिगागते ॥ या०ध०२.२५४

गृहीतं मूल्यं यस्य पण्यस्य विक्रेत्रा तद् गृहीतमूल्यम्, तद् यदि विक्रेता प्रार्थयमानाय स्वदेशवणिजे क्रेत्रे न समर्पयति, तच् च पण्यं यदि क्रयकाले बहुमूल्यं सत् कालान्तरेऽल्पमूल्येनैव लभ्यते, तदार्ह्हह्रासकृतो य उदयो वृध्हिः पण्यस्य स्थावरजङ्गमात्मकस्य तेन सहितं पण्यं विक्रेता क्रेत्रे दापनीयः । यदा मूल्यह्रासकृतः पण्यस्योदयो नास्ति, किं तु क्रयकाले यावद् एव यतो मूल्यस्येयत् पण्यम् इति प्रतिपन्नं तावद् एव तदा तत् पण्यम् आदाय तस्मिन् देशे विक्रीणानस्य यो लाभस् तेनोदयेन सहितं द्विकं त्रिकम् इत्यादिप्रतिपादितवृद्धिरूपोदयेन वा सहितं क्रेतृवाञ्छावशाद् दापनीयः । यथाह नारदः ।

"अर्घश् चेद् अवहीयेत सोदयं पण्यम् आवहेत् ।
स्थानिनाम् एष नियमो दिग्लाभं दिग्विचारिणाम् ॥" इति । (ना०स्मृ० ८.५)

यदा त्व् अर्घमहत्त्वेन पण्यस्य न्यूनभावस् तदा तस्मिन् पण्ये वस्त्रगृहादिके य उपभोगस् तदाच्छादनसुखनिवासादिरूपो विक्रेतुस् तत्सहितं पण्यम् असौ दाप्यः । यथाह नारदः ।

"विक्रीय पण्यं मूल्येन यः क्रेतुर् न प्रयच्छति ।
स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रियाफलम् ॥" इति । (ना०स्मृ० ८.४)

विक्रेतुर् उपभोगः क्षय उच्यते, क्रेतृसंबन्धित्वेन क्षीयमाणत्वात्, न पुनः कुड्यपातसस्यघातादिरूपः, तस्य तु,

"उपहन्येत वा पण्यं दह्येतापह्रियेत वा ।
विक्रेतुर् एव सोऽनर्थो विक्रीयासंप्रयच्छतः ॥" (ना०स्मृ० ८.६)

इत्य् अत्रोक्त्त्वात् । यदा त्व् असौ क्रेता देशान्तरात् पण्यग्रहणार्थम् आगतस् तदा तत् पण्यम् आदाय देशान्तरे विक्रीणानस्य यो लाभस् तेन सहितं पण्यं विक्रेता क्रेत्रे दापयितव्यः । अयं च क्रीतपण्यसमर्पणनियमोऽनुशयाभावे द्रष्टव्यः ॥ सति त्व् अनुशये "क्रीत्वा विक्रीय वा किंचिद्" (मा०ध० ८.२२) इत्यादि मनूक्तं वेदितव्यम् ॥ २.२५४ ॥

किं च ।

विक्रीतम् अपि विक्रेयं पूर्वक्रेतर्य् अगृह्णति ।
हानिश् चेत् क्रेतृदोषेण क्रेतुर् एव हि सा भवेत् ॥ या०ध०२.२५५

यदा पुनर् जातानुशयः क्रेता पण्यं न जिघृक्षति तदा विक्रीतम् अपि पण्यम् अन्यत्र विक्रेयम् । यदा पुनर् विक्रेत्रा दीयमानं क्रेता न गृह्णाति तच् च पण्यं राजदैविकेनोपहतं तदा क्रेतुर् एवासौ हानिर् भवेत्, पण्याग्रहणरूपेण क्रेतृदोषेण नाशितत्वात् ॥ २.२५५ ॥

अपि च ।

राजदैवोपघातेन पण्ये दोषम् उपागते ।
हानिर् विक्रेतुर् एवासौ याचितस्याप्रयच्छतः ॥ या०ध०२.२५६

यदा पुनः क्रेत्रा प्रार्थ्यमानम् अपि पण्यं विक्रेता न समर्पयत्य् अजातानुशयोऽपि तच् च राजदैविकेनोपहतं भवति तदासौ हानिर् विक्रेतुर् एव । अतोऽन्यद् अदुष्टं पण्यं विनष्टसदृशं क्रेत्रे देयम् ॥ २.२५६ ॥

किं च ।

अन्यहस्ते च विक्रीय दुष्टं वादुष्टवद् यदि ।
विक्रीणीते दमस् तत्र मूल्यात् तु द्विगुणो भवेत् ॥ या०ध०२.२५७

यः पुनर् विनैवानुशयम् एकस्य हस्ते विक्रीतं पुनर् अन्यस्य हस्ते विक्रीणीते सदोषं वा पण्यं प्रच्छादितदोषं विक्रीणीते तदा तत्पण्यमूल्याद् द्विगुणो दमो वेदितव्यः । नारदेनाप्य् अत्र विशेषो दर्शितः ।

"अन्यहस्ते च विक्रीय योऽन्यस्मै तत् प्रयच्छति ।
द्रव्यं तद्द्विगुणं दाप्यो विनयस् तावद् एव तु ॥
निर्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति ।
स मूल्याद् द्विगुणं दाप्यो विनयं तावद् एव तु ॥" इति ॥ (ना०स्मृ० ८.७–८)

सर्वश् चायं विधिर् दत्तमूल्ये पण्ये द्रष्टव्यः । अदत्तमूल्ये पुनः पण्ये वाङ्मात्रक्रये क्रेतृविक्रेत्रोर् नियमकारिणः समयाद् ऋते प्रवृत्तौ निवृत्तौ वा न कश्चिद् दोषः।यथाह नारदः ।

"दत्तमूल्यस्य पण्यस्य विधिर् एष प्रकीर्तितः ।
अदत्तेऽन्यत्र समयान् न विक्रेतुर् अविक्रयः ॥" इति ॥ (ना०स्मृ० ८.१०) ॥ २.२५७ ॥

विक्रयानुशयोऽभिहितः । क्रीतानुशयस्वरूपं तु प्राक् प्रपञ्चितम् । अधुना तद् उभयसाधारणं धर्मम् आह ।

क्षयं वृद्धिं च वणिजा पण्यानाम् अविजानता ।
क्रीत्वा नानुशयः कार्यः कुर्वन् षड्भागदण्डभाक् ॥ या०ध०२.२५८

परीक्षितक्रीतपण्यानां क्रयोत्तरकालं क्रयकालपरिमाणतोऽर्घकृतां वृद्धिम् अपश्यता क्रेत्रा अनुशयो न कार्यः । विक्रेत्रा च महार्घनिबन्धनं पण्यक्षयम् अपश्यता नानुशयितव्यम् । वृद्धिक्षयपरिज्ञाने पुनः क्रेतृविक्रेत्रोर् अनुशयो भवतीति व्यतिरेकाद् उक्तं भवति । अनुशयकालावधिस् तु नारदेनोक्तः ।

"क्रीत्वा मूल्येन यः पण्यं दुःक्रीतं मन्यते क्रयी ।
विक्रेतुः प्रतिदेयं तत् तस्मिन्न् एवाह्न्य् अविक्षतम् ॥
द्वितीयेऽह्नि ददत् क्रेता मूल्यात् त्रिंशांशम् आवहेत् ।
द्विगुणं तु तृतीयेऽह्नि परतः क्रेतुर् एव तत् ॥" इति । (ना०स्मृ० ९.२–३)

अपरीक्षितक्रयविक्रये पुनः पण्यवैगुण्यनिबन्धनानुशयावधिर् "दशैकपञ्चसप्ताह" (या०ध० २.१७७) इत्यादिना दर्शित एव । तद् अनया वचोयुक्त्या वृद्धिक्षयपरिज्ञानस्यानुशयकारणत्वम् अवगम्यते । यथा गण्यपरीक्षाविधिबलात् पण्यदोशाणाम् अनुशयकारणत्वं अतः पण्यदोषतद्वृद्धिक्षयकारणत्रितयाभावेऽनुशयकालाभ्यन्तरेऽपि यद्य् अनुशयं करोति तदा पण्यषड्भागं दण्डनीयः । अनुशयकारणसद्भावेऽप्य् अनुशयकालातिक्रमेणानुशयं कुर्वतोऽप्य् अयम् एव दण्डः । उपभोगेनाविनश्वरेषु स्थिरार्घेष्व् अनुशयकालातिक्रमेणानुशयं कुर्वतो मनूक्तो दण्डो द्रष्टव्यः ।

"परेण तु दशाहस्य न दद्यान् नापि दापयेत् ।
आददानो ददत् चैव राज्ञा दण्ड्यः शतानि षट् ॥" इति ॥ (मा०ध० ८.२२३) ॥ २.२५८ ॥

इति विक्रीयासंप्रदानं नाम प्रकरणम्
अथ संभूयसमुत्थानप्रकरणम्

संभूयसमुत्थानं नाम विवादपदमिदानीम् अभिधीयते ।

समवायेन वणिजां लाभार्थं कर्म कुर्वताम् ।
लाभालाभौ यथाद्रव्यं यथा वा संविदा कृतौ ॥ या०ध०२.२५९

"सर्वे वयम् इदं कर्म मिलिताः कुर्मः" इत्य् एवंरूपा संप्रतिपत्तिः समवायः, तेन ये वणिङ्नटनर्तकप्रभृतयो लाभलिप्सवः प्रातिस्विकं कर्म कुर्वते तेषां लाभालाभाव् उपचयापचयौ यथाद्रव्यं येन यावद् धनं पण्यग्रहणाद्यर्थं दत्तं तदनुसारेणावसेयौ । यद् वा प्रधानगुणभावपर्यालोचनयास्य भागद्वयम् अस्यैको भाग इत्य् एवंरूपया संविदा समयेन यथा संप्रतिपन्नौ तथा वेदितव्यौ ॥ २.२५९ ॥

किं च ।

प्रतिषिद्धम् अनादिष्टं प्रमादाद् यच् च नाशितम् ।
स तद् दद्याद् विप्लवाच् च रक्षिताद् दशमांशभाक् ॥ या०ध०२.२६०

तेषां सभूय प्रचरतां मध्ये पण्यम् इदम् इत्थं न व्यवहर्तव्यम् इति प्रतिषिद्धम् आचरता यन् नाशितम् अनादिष्टम् अननुज्ञातं वा कुर्वाणेन तथा प्रमादात् प्रज्ञाहीनतया वा येन यन् नाशितं स तत् पण्यं वणिग्भ्यो दद्यात् । यः पुनस् तेषां मध्ये चौरराजादिजनिताद् व्यसनात् पण्यं पालयति स तस्माद् रक्षितात् पण्याद् दशमम् अंशं लभते ॥ २.२६० ॥

अर्घप्रक्षेपणाद् विंशं भागं शुल्कं नृपो हरेत् ।
व्यासिद्धं राजयोग्यं च विक्रीतं राजगामि तत् ॥ या०ध०२.२६१

"इयतः पण्यस्येयन् मूल्यम्" इत्य् अर्घः, तस्य प्रक्षेपणात् राजतो निरूपणाद् धेतोर् असौ मूल्याद् विंशतितमम् अंशं शुल्कार्थं गृह्णीयात् । यत् पुनर् व्यासिद्धम् अन्यत्र न विक्रेयम् इति राज्ञा प्रतिषिद्धम्, यच् च राजयोग्यं मणिमाणिक्याद्यप्रतिषिद्धम् अपि तद् राज्ञेऽनिवेद्य लाभलोभेन विक्रीतं चेद् राजगामि मूल्यदाननिरपेक्षं तत् सर्वं पण्यं राजापहरेद् इत्य् अर्थः ॥ २.२६१ ॥

मिथ्या वदन् परीमाणं शुल्कस्थानाद् अपासरन् ।
दाप्यस् त्व् अष्टगुणं यश् च स व्याजक्रयविक्रयी ॥ या०ध०२.२६२

यः पुनर् वणिक् शुल्कवञ्चनार्थं पण्यपरिमाणं निह्नुते शुल्कग्रहणस्थानाद् वापसरति यश् च "अस्येदम् अस्येदं वा" इत्य् एवं विवादास्पदीभूतं पण्यं क्रीणाति विक्रीणीते वा, ते सर्वे पण्याद् अष्टगुणं दण्डनीयाः ॥ २.२६२ ॥

अपि च ।

तरिकः स्थलजं शुल्कं गृह्णन् दाप्यः पणान् दश ।
ब्राह्मणप्रातिवेश्यानाम् एतद् एवानिमन्त्रणे ॥ या०ध०२.२६३

शुल्कं हि द्विविधम्, स्थलजं जलतं च । तत्र स्थलजम् "अर्घप्रक्षेपणाद् विंशं भागं शुल्कं नृपो हरेत्" (या०ध० २.२६१) इत्य् अत्रोक्तम् । जलजं तु मानवेऽभिहितम् ।

"पणं यानं तरे दाप्यं पौरुषोऽर्धपणं तरे ।
पादं पशुश् च योषिच् च पादार्धं रिक्तकः पुमान् ॥
भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः ।
रिक्तभाण्डानि यत् किंचित् पुमांसश् चपरिच्छदाः ॥
गर्भिणी तु द्विमासादिस् तथा प्रव्रजितो मुनिः ।
ब्राह्मणा लिङ्गिनश् चैव न दाप्यास् तारिकं नराः ॥" इति ॥ (मा०ध० ८.४०४-५, ४०७)

शुल्कद्वयेऽप्य् अयम् अपरो विशेषः ।

"न भिन्नकार्षापणम् अस्ति शुल्कं न शिल्पवृत्तौ न शिशौ न दूते ।
न भैक्षलब्धे न हृतावशेषे न श्रोत्रिये प्रव्रजिते न यज्ञे ॥" इति ॥ (व०ध० १९.३७)

तीर्यतेऽनेनेति तरिः नावादिः, तज्जन्यशुल्केऽधिकृतस्तरिकः । स यदा स्थलोद्भवं शुल्कं गृह्णाति तदा दशपणान् दण्डनीयः । वेशो वेश्म, प्रतिवेश इति स्ववेश्माभिमुखं स्ववेश्मपार्श्वस्थं चोच्यते । तत्र भवाः प्रातिवेश्याः ब्राह्मणाश् च ते प्रातिवेश्याश् च ब्राह्मणप्रातिवेश्याः । तेषां श्रुतवृत्तसंपन्नानां श्राद्धादिषु विभवे सत्य् अनिमन्त्रणे एतद् एव दशपणात्मकं दण्डनं वेदितव्यम् ॥ २.२६३ ॥

देशान्तरमृतवणिग्रिक्थं प्रत्य् आह ।

देशान्तरगते प्रेते द्रव्यं दायादबान्धवाः ।
ज्ञातयो वा हरेयुस् तदागतास् तैर् विना नृपः ॥ या०ध०२.२६४

यदा संभूयकारिणां मध्ये यः कश्चिद् देशान्तरगतो मृतस् तदा तदीयम् अंशं दायादाः पुत्राद्यपत्यवर्गो बान्धवाः मातृपक्षा मातुलाद्याः ज्ञातयोऽपत्यवर्गव्यतिरिक्ताः सपिण्डा वा आगताः संभूय व्यवहारिणो ये देशान्तराद् आगतास् ते वा गृह्णीयुः । तैर् विना दायादाद्यभावे राजा गृह्णीयात् । वाशब्देन च दायादादीनां वैकल्पिकम् अधिकारं दर्शयति । पौर्वापर्यनियमश् च "पत्नी दुहितरः" (या०ध० २.१३५) इत्यादिना प्रतिपादित एवात्रापि वेदितव्यः । शिष्यसब्रह्मचारिब्राह्मणनिषेधो वणिक्प्राप्तिश् च वचनप्रयोजनम् । वणिजाम् अपि मध्ये यः पिण्डदानर्णदानादिसमर्थः स गृह्णीयात् । सामर्थ्याविशेषे पुनः सर्वे वणिजः संसृष्टिनो विभज्य गृह्णीयुः । तेशाम् अप्य् अभावे दशवर्षं दायादाद्यागमनं प्रतीक्ष्यानागतेषु स्वयम् एव राजा गृह्णीयात् । तद् इदं नारदेन स्पष्टीकृतम् ।

"एकस्य चेत् स्यान् मरणं दायादोऽस्य तद् आप्नुयात् ।
अन्यो वासति दायादे शक्ताश् चेत् सर्व एव ते ॥" (ना०स्मृ० ३.७)

"तद् अभावे तु गुप्तं तत् कारयेद् दशवत्सरान् ।" (ना०स्मृ० ३.१५)

"अस्वामिकम् अदायादं दशवर्षस्थितं ततः ॥
राजा तद् आत्मसात् कुर्याद् एवं धर्मो न हीयते ॥" (ना०स्मृ० ३.१६) इति ॥ २.२६४ ॥

किं च ।

जिह्मं त्यजेयुर् निर्लाभम् अशक्तोऽन्येन कारयेत् । या०ध०२.२६५अब्

जिह्मो वञ्चकः तं निर्लाभं निर्गतलाभं लाभम् आच्छिद्य त्यजेयुर् बहिः कुर्युः । यश् च संभूयकारिणां मध्ये भाण्डप्रत्यवेक्षणादिकं कर्तुम् असमर्थोऽसाव् अन्येन स्वं कर्म भाण्डभारवाहनं तदायव्ययपरीक्षणादिकं कारयेत् ॥

प्रागुपदिष्टं वणिग्धर्मम् ऋत्विगादिष्व् अतिदिशति ।

अनेन विधिर् आख्यात ऋत्विक्कर्षककर्मिणाम् ॥ या०ध०२.२६५च्द्

अनेन "लाभालाभौ यथाद्रव्यम्" इत्यादिवणिग्धर्मकथनेन ऋत्विजां होत्रादीनां कृषीवलानां नटनर्तककक्षादीनां च शिल्पकर्मोपजीविनां विधिर् वर्तनप्रकार आख्यातः । तत्र च ऋत्विजां धनविभागे विशेषो मनुना दर्शितः ।

"सर्वेषाम् अर्धिनो मुख्यास् तदर्धेनार्धिनोऽपरे ।
तृतीयिनस् तृतीयांशाश् चतुर्थांशाश् च पादिनः ॥" इति ॥ (मा०ध० ८.२१०)

अस्यायम् अर्थः । ज्योतिष्टोमेन "तं शतेन दीक्षयन्ति" इति वचनेन गवां शतमृत्विगानतिरूपे दक्षिणाकार्ये विनियुक्तम् । ऋत्विजश् च होत्रादयः षोडश । तत्र कस्य कियान् आंश इत्य् अपेक्षायाम् इदम् उच्यते । सर्वेषां होत्रादीनां षोडशर्त्विजां मध्ये ये मुख्याश् चत्वारो होत्रध्वर्युब्रह्मोद्गातारः ते गोशतस्यार्धिनः सर्वेशां भागपूरणोपपत्तिवशाद् अष्टाचत्वारिंशद्रूपार्धेनार्धभाजः । अपरे मैत्रावरुणप्रतिस्थातृब्राह्मणाच्छंसिप्रस्तोतारस् तदर्धेन तस्य मुख्यांशस्यार्धेन चतुर्विंशति रूपेणार्धभाजः । ये पुनस् तृतीयिनोऽच्छावाकनेष्ट्राग्नीध्रप्रतिहर्तारस् ते तृतीयिनो मुख्यस्यांशस्य षोडशगोरूपेण तृतीयांशेन तृतीयांशभाजः । ये तु पादिनः ग्रावस्तदुन्नेतृपोतृसुब्रह्मण्यास् ते मुख्यभागस्य यश् चतुर्थांशो द्वादशगोरूपस् तद्भाजः ॥

ननु कथम् अयम् अंशनियमो घटते न तावद् अत्र समयो नापि द्रव्यसमवायो नापि वचनं यद्वशाद् ईदृग्भागनियमः स्याद् अतः समं स्याद् अश्रुतत्वाद् इति न्यायेन सर्वेषां समांशभाक्त्वं कर्मानुरूपेण चांशभाक्त्वम् इति युक्तम् ॥

अत्रोच्यते । ज्योतिष्टोमप्रकृतिके द्वादशाहेऽर्धिनस् तृतीयिनः पादिन इति सिद्धवदनुवादो न घटते, यदि तत्प्रकृतिभूते ज्योतिष्टोमे अर्धतृतीयचतुर्थांशभाक्त्वं मैत्रावरुणादीनां न स्यात्, अतो वैदिकर्द्धिप्रभृतिसमाख्याबलात् प्रागुक्तोऽंशनियमोऽवकल्पयत इति निरवद्यम् ॥ २.२६५ ॥

इति संभूयसमुत्थानप्रकरणम्
अथ स्तेयप्रकरणम्

इदानीं स्तेयं प्रस्तूयते । तल्लक्षणं च मनुनाभिहितम् ।

"स्यात् साहसं त्व् अन्वयवत् प्रसभं कर्म यत् कृतम् ।
निरन्वयं भवेत् स्तेयं कृत्वापह्नुवते च यत् ।" इति । (मा०ध० ८.३३२)

अन्वयवत् द्रव्यरक्षिराजाध्यक्षादिसमक्षम् । प्रसभं बलावष्टम्भेन यत् परधनहरणादिकं क्रियते तत् साहसम् । स्तेयं तु तद्विलक्षणं निरन्वयं द्रव्यस्वाम्याद्यसमक्षं वञ्चयित्वा यत् परधनहरणं तद् उच्यते । यच् च सान्वयम् अपि कृत्वा न मयेदं कृतम् इति भयान् निह्नुते तद् अपि स्तेयम् ॥ नारदेनाप्युक्तम् ।

"उपायैर् विविधैर् एषां छलयित्वापकर्षणम् ।
सुप्तमत्तप्रमत्तेभ्यः स्तेयम् आहुर् मनीषिणः ॥" इति ॥ (ना०स्मृ० १४.१६)

तत्र तस्करग्रहणपूर्वकत्वात्, दण्डस्य ग्रहणस्य ज्ञानपूर्वकत्वात्, ज्ञानोपायं तावद् आह ।

ग्राहकैर् गृह्यते चौरो लोप्त्रेणाथ पदेन वा ।
पूर्वकर्मापराधी च तथा चाशुद्धवासकः ॥ या०ध०२.२६६

यश् "चौरोऽयम्" इति जनैर् विख्याप्यते, असौ ग्राहकै राजपुरुषैः स्थानपालप्रभृतिभिर् ग्रहीतव्यः । लोप्त्रेणापहृतभाजनादिना वा चौर्यचिह्नेन नाशदिवसाद् आरभ्य चौर्यपदानुसारेण वा ग्राह्यः । यश् च पूर्वकर्मापराधी प्राक् प्रख्यातचौर्यः । अशुद्धोऽप्रज्ञातो वासः स्थानं यस्यासाव् अशुद्धवासकः सोऽपि ग्राह्यः ॥ २.२६६ ॥

किं च ।

अन्येऽपि शङ्कया ग्राह्या जातिनामादिनिह्नवैः ।
द्यूतस्त्रीपानसक्ताश् च शुष्कभिन्नमुखस्वराः ॥ या०ध०२.२६७

परद्रव्यगृहाणां च पृच्छका गूढचारिणः ।
निराया व्ययवन्तश् च विनष्टद्रव्यविक्रयाः ॥ या०ध०२.२६८

न केवलं पूर्वोक्ता ग्राह्याः किं त्व् अन्येऽपि वक्ष्यमाणैर् लिङ्गैह् शङ्कया ग्राह्याः । जातिनिह्नवेन नाहं शूद्र इत्य् एवंरूपेण, नामनिह्नवेन नाहं लपित्थ इत्य् एवंरूपेण, आदिग्रहणात् स्वदेशग्रामकुलाद्यपलापेन च लक्षिता ग्राह्याः । द्यूतपण्याङ्गनामद्यपानादिव्यसनेष्व् अतिप्रसक्तास् तथा "कुतस्त्योऽसि त्वम्" इति चौरग्राहिभिः पृष्टो यदि शुष्कमुखो भिन्नस्वरो वा भवति, तर्ह्य् असाव् अपि ग्राह्यः । बहुवचनात् स्विन्नललाटादीनां ग्रहणम् । तथा ये निष्कारणं "कियद् अस्य धनं, किं वास्य गृहम्" इति पृच्छन्ति, ये च वेषान्तरधारणेनात्मानं गूहयित्वा चरन्ति, ये चायाभावेऽपि बहुव्ययकारिणः, ये वा विनष्टद्रव्याणां जीर्णवस्त्रभिन्नभाजनादीनाम् अविज्ञातस्वामिकानां विक्रायकास् ते सर्वे चौरसंभावनया ग्राह्याः । एवं नानाविधचौर्यलिङ्गान् पुरुषान् गृहीत्वा एते चौराः किं वा साधव इति सम्यक् परीक्षेत, न पुनर् लिङ्गदर्शनमात्रेण चौर्यनिर्णयं कुर्यात्, अचौरस्यापि लोप्त्रादिचौर्यलिङ्गसंबन्धसंभवात् । यथाह नारदः ।

"अन्यहस्तात् परिभ्रष्टम् अकामाद् उत्थितं भुवि ।
चौरेण वा प्रिक्षिप्तं लोप्त्रं यत्नात् परीक्षयेत् ॥" (ध०को० १७५२)

तथा ।

"असत्याः सत्यसंकाशाः सत्याश् चासत्यसंनिभाः ।
दृश्यन्ते विविधा भावास् तस्माद् उक्तं परीक्षणम् ॥" इति ॥ (ना०स्मृ०मा० १.६२)

एवं चौर्यशङ्कया गृहीतेनात्मा संशोधनीय इत्य् आह ।

गृहीतः शङ्कया चौर्ये नात्मानं चेद् विशोधयेत् ।
दापयित्वा हृतं द्रव्यं चौरदण्डेन दण्डयेत् ॥ या०ध०२.२६९

यदि चौर्यशङ्कया गृहीतस् तन्निस्तरणार्थम् आत्मानं न शोधयति तर्हि वक्ष्यमाणधनदापनवधादिदण्डभाग् भवेत् । अतो मानुषेण तदभावे दिव्येन वा आत्मा शोधनीयः ॥

ननु नाहं चौर इति मिथ्योत्तरे कथं प्रमाणं संभवति, तस्याभावरूपत्वात् ।

उच्यते । दिव्यस्य तावद् भावाभावगोचरत्वं "रुच्या वान्यतरः कुर्याद्" (या०ध० २.९६) इत्य् अत्र प्रतिपादितम् । मनुषं पुनर् यद्य् अपि साक्षाच् छुद्धमिथ्योत्तरे न संभवति, तथापि कारणेन संसृष्ट्भावरूपमिथ्याकारणसाधनमुखेनाभावम् अपि गोचरयत्य् एव । यथा नाशापहारकाले अहं देशान्तरस्थ इत्य् अभियुक्तैर् भाविते चौर्याभावस्याप्य् अर्थात् सिद्धेः शुद्धिर् भवत्य् एव ॥ २.२६९ ॥

चौरदण्डम् NSP reads : चौरे दण्डम्. आह ।

चौरं प्रदाप्यापहृतं घातयेद् विविधैर् वधैः । या०ध०२.२७०अब्

यस् तु प्रागुक्तपरीक्षया तन्निरपेक्षं वा निश्चितचौर्यस् तं स्वामिने अपहृतं धनं स्वरूपेण मूल्यकल्पनया वा दापयित्वा विविधैर् वधैर् घातैर् घातयेत् । एतच् चोत्तमसाहसदण्डप्राप्तियोग्योत्तमद्रव्यविषयम्, न पुनः पुष्पवस्त्रादिक्षुद्रमध्यमद्रव्यापहारविषयम्,

"साहसेषु य एवोक्तस् त्रिषु दण्डो मनीषिभिः ।
स एव दण्डः स्तेयेऽपि द्रव्येषु त्रिष्व् अनुक्रमात् ॥" (ना०स्मृ० १४.२०)

इति नारदवचनेन, वधरूपस्योत्तमसाहसस्योत्तमद्रव्यविषये व्यव्स्थापितत्वात् ॥ यत् पुनर् वृद्धमनुवचनम्,

"अन्यायोपात्तवित्तत्वाद् धनम् एषां मलात्मकम् ।
अतस् तान् घातयेद् राजा नार्थदण्डेन दण्डयेत् ॥" (ध०को० १७६६)

इति, तद् अपि महापराधविषयम् ॥

चौरविशेषेऽपवादम् आह ।

सचिह्नं ब्राह्मणं कृत्वा स्वराष्ट्राद् विप्रवासयेत् ॥ या०ध०२.२७०च्द्

ब्राह्मणं पुनश् चौरं महत्य् अप्य् अपराधे न घातयेद्, अपि तु ललाटेऽङ्कयित्वा स्वदेशान् निष्कासयेत् । अङ्कनं च श्वपदाकारं कार्यम् । तथा च मनुः ।

"गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः ।
स्तेये च श्वपदं कार्यं ब्रह्महण्य् अशिराः पुमान् ॥" इति । (मा०ध० ९.२३७)

एतच् च दण्डोत्तरकालं प्रायश्चित्तम् अचिकीर्षतो द्रष्टव्यम् । यथाह मनुः ।

"प्रायश्चित्तं तु कुर्वाणाः सर्वे वर्णा यथोदितम् ।
नाङ्क्या राज्ञा ललाटे तु दाप्यास् तूत्तमसाहसम् ॥" इति । (*मा०ध० ९.२४०) २.२७० ॥

चौरादर्शने अपहृतद्रव्यप्राप्त्युपायम् आह ।

घातितेऽपहृते दोषो ग्रामभर्तुर् अनिर्गते ।
विवीतभर्तुस् तु पथि चौरोद्धर्तुर् अवीतके ॥ या०ध०२.२७१

यदि ग्राममध्ये मनुष्यादिप्राणिवधो धनापहरणं वा जायते तदा ग्रामपतेर् एव चौरोपेक्षादोषः, तत्परिहारार्थं स एव चौरं गृहीत्वा राज्ञेऽर्पयेत् । तदशक्तौ हृतं धनं धनिने दद्याद्, यदि चौरस्य पदं स्वग्रामान् निर्गतं न दर्शयति । दर्शिते पुनस् तत्पदं यत्र प्रविशति तद्विषयाधिपतिर् एव चौरं धनं वार्पयेत् । तथा च नारदः ।

"गोचरे यस्य लुप्येत तेन चौरः प्रयत्नतः ।
ग्राह्यो दाप्योऽथवा शेषं पदं यदि न निर्गतम् ॥
निर्गते पुनर् एतस्मान् न चेद् अन्यत्र पातितम् ।
सामन्तान् मार्गपालांश् च दिक्पालांश् चैव दापयेत् ॥" इति ॥ (ना०स्मृ० १९.२३–२४)

विवीते त्व् अपहारे विवीतस्वामिन एव दोषः । यदा त्व् अध्वन्य् एव तद्द्ःृतं भवत्य् अवीतके वा विवीताद् अन्यत्र क्षेत्रे तदा चौरोद्धर्तुर् मार्गपालस्य दिक्पालस्य वा दोषः ॥ २.२७१ ॥

किं च ।

स्वसीम्नि दद्याद् ग्रामस् तु पदं वा यत्र गच्छति ।
पञ्चग्रामी बहिः क्रोशाद् दशग्राम्य् अथवा पुनः ॥ या०ध०२.२७२

यदा पुनर् ग्रामाद् बहिः सीमापर्यन्ते क्षेत्रे मोषादिकं भवति तदा तद्ग्रामवासिन एव दद्युः, यदि सीम्नो बहिश् चौरपदं न निर्गतम् । निर्गते पुनर् यत्र ग्रामादिके चौरपदं प्रविशति स एव चौरार्पणादिकं कुर्यात् । यदा त्व् अनेकग्राममध्ये क्रोशमात्राद् बहिः प्रदेशे घातितो मुषितो वा चौरपदं च जनसंमर्दादिना भग्नं, तदा पञ्चानां ग्रामाणां समाहारः पञ्चग्रामी दशग्रामसमाहारो दशग्रामी वा दद्यात् । विकल्पवचनं तु यथा तत्प्रत्यासत्त्यपहृतधनप्रत्यर्पणादिकं कुर्याद् इत्य् एवमर्थम् । यदा त्व् अन्यतोऽपहृतं द्रव्यं दापयितुं न शक्नोति तदा स्वकोशाद् एव राजा दद्यात्, "चौरहृतम् अवजित्य यथास्थानं गमयेत् । स्वकोशाद् वा दद्यात्" (गौ०ध० १०.४६–४७) इति गौतमस्मरणात् । मुषितामुषितसंदेहे मानुषेण दिव्येन वा निर्णयः कार्यः,

"यदि तस्मिन् दाप्यमाने भवेन् मोषे तु संशयः ।
मुषितः शपथं दाप्यो बन्धुभिर् वापि साधयेत् ॥" (ध०को० १७६६)

इति वृद्धमनुस्मरणात् ॥ २.२७२ ॥

अपराधविशेषेण दण्डविशेषम् आह ।

बन्दिग्राहांस् तथा वाजिकुञ्जराणां च हारिणः ।
प्रसह्य घातिनश् चैव शूलान् आरोपयेन् नरान् ॥ या०ध०२.२७३

बन्दिग्राहादीन् बलावष्टम्भेन घातकांश् च नरान् शूलान् आरोपयेत् । अयं च वधप्रकारविशेषोपदेशः ।

"कोष्ठागारायुधागारदेवतागारभेदकान् ।
हस्त्यश्वरथहर्तॄंश् च हन्याद् एवाविचारयन् ॥" (मा०ध० ९.२८०)

इति मनुस्मरणात् ॥ २.२७३ ॥

किं च ।

उत्क्षेपकग्रन्थिभेदौ करसंदंशहीनकौ ।
कार्यौ द्वितीयापराधे करपादैकहीनकौ ॥ या०ध०२.२७४

वस्त्राद्युत्क्षिपत्य् अपहरतीत्य् उत्क्षेपकः । वस्त्रादिबद्धं स्वर्णादिकं विस्त्रस्योत्कृत्य वा योऽपहरत्य् असौ ग्रन्थिभेदः । तौ यथाक्रमं करेण सन्दंशसदृशेन तर्जन्याङ्गुष्टेन च हीनौ कार्यौ । द्वितीयापराधे पुनः करश् च पादश् च करपादं तच् च तद् एकं च करपादैकं तद्धीनं ययोस् तौ करपादैकहीनकौ कार्यौ । उत्क्षेपकग्रन्थिभेदकयोर् एकम् एकं करं पादं छिन्द्याद् इत्य् अर्थः । एतद् अप्य् उत्तमसाहसप्राप्तियोग्यद्रव्यविषयम्,

"तदङ्गच्छेद इत्य् उक्तो दण्ड उत्तमसाहसः ।" (ना०स्मृ० १४.७)

इति नारदवचनात् । तृतीयापराधे तु वध एव । तथा च मनुः ।

"अङ्गुलीग्रन्थिभेदस्य छेदयेत् प्रथमे ग्रहे ।
द्वितीये हस्तचरणौ तृतीये वधम् अर्हति ॥" इति । (मा०ध० ९.२७७)

जातिद्रव्यपरिमाणतो मूल्याद्यनुसारतो दण्डः कल्पनीय इति ॥ २.२७४ ॥

जातिद्रव्यपरिमाणपरिग्रहविनियोगवयःशक्तिगुणदेशकालादीनां दण्डगुरुलघुभावकारणानाम् आनन्त्यात् प्रतिद्रव्यं वक्तुमशक्तेः सामान्येन दण्डकल्पनोपायम् आह ।

क्षुद्रमध्यमहाद्रव्यहरणे सारतो दमः ।
देशकालवयःशक्ति संचिन्त्यं दण्डकर्मणि ॥ या०ध०२.२७५

क्षुद्राणां मध्यमानाम् उत्तमानां च द्रव्याणां हरणे सारतो मूल्याद्यनुसारतो दण्डः कल्पनीयः । क्षुद्रादिद्रव्यस्वरूपं च नारदेनोक्तम् ।

"मृद्भाण्डासनखड्वास्थिदारुचर्मतृणादि यत् ।
शमीधान्यं कृतान्नं च क्षुद्रं द्रव्यम् उदाहृतम् ॥
वासः कौशेयवर्ज्यं च गोवर्ज्यं पशवस् तथा ।
हिरण्यवर्ज्यं लोहं च मध्यं व्रीहियवा अपि ॥
हिरण्यरत्नकौशेयस्त्रीपुङ्गोगजवाजिनः ।
देवब्राह्मणराज्ञां च द्रव्यं विज्ञेयम् उत्तमम् ॥" (ना०स्मृ० १४.१३–१५)

त्रिप्रकारेष्व् अपि द्रव्येष्व् औत्सर्गिकः प्रथममध्यमोत्तमसाहसरूपो दण्डनियमस् तेनैव दर्शितः ।

"साहसेषु य एवोक्तस् त्रिषु दण्डो मनीषिभिः ।
स एव दण्डः स्तेयेऽपि द्रव्येषु त्रिष्व् अनुक्रमात् ॥" इति ॥ (ना०स्मृ० १४.२०)

मृन्मयेषु मणिकमल्लिकादिषु गोवाजिव्यतिरिक्तेषु च महिषमेषादिपशुषु ब्राह्मणसंबन्धिषु च कनकधान्यादिषु तरतमभावोऽस्तीति उच्चावचदण्डविशेषाकाङ्क्षायां मूल्याद्यनुसारेण दण्डः कल्पनीयः । तत्र च दण्डकर्मणि दण्डकल्पनायां तद्धेतुभूतं देशकालवयःशक्तीति सम्यक् चिन्तनीयम् । एतच् च जातिद्रव्यपरिमाणपरिग्रहादीनाम् उपलक्षणम् । तथाहि "अष्टपाद्यं स्तेयकिल्बिषं शूद्रस्य । द्विगुणोत्तराणीतरेषां प्रतिवर्णम् । विदुषोऽतिक्रमे दण्डभूयस्त्वम्" (गौ०ध० १२.१५–१७) इति । अयम् अर्थः । किल्बिषशब्देनात्र दण्डो लक्ष्यते । यस्मिन्न् अपहारे यो दण्ड उक्तः स विद्वच्छूद्रकर्तृकेऽपहारेऽष्टगुण आपादनीयः । इतरेषां पुनर् विट्क्षत्रब्राह्मणादीनां विदुषां स्तेये द्विगुणोत्तराणि किल्बिषाणि षोडशद्वात्रिंशच्चतुःषष्टिगुणा दण्डा आपादनीयाः, यस्माद् विद्वच्छूद्रादिककर्तृकेष्व् अपहारेषु दण्डभूयस्त्वम् । मनुनाप्य् अयम् एवार्थो दर्शितः ।

"अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् ।
षोडशैव तु वैश्यस्य द्वात्रिंशत् क्षत्रियस्य तु ॥
ब्राह्मणस्य चतुःषष्टिः पूर्णं वापि शतं भवेत् ।
द्विगुणा वा चतुःषष्टिस् तद्दोषगुणवेदिनः ॥" इति ॥ (मा०ध० ८.३३७–३८)

तथा परिमाणकृतम् अपि दण्डगुरुत्वं दृश्यते । यथाह मनुः ।

"धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः ।
शेषेश्व् एकादशगुणं दाप्यस् तस्य च तद् धनम् ॥" इति ॥ (मा०ध० ८.३२०)

विंशतिद्रोणकः कुम्भः । हर्तुर् ह्रियमाणस्वामिगुणापेक्षया सुभिक्षदुर्भिक्षकालाद्यपेक्षया ताडनाङ्गच्छेदनवधरूपा दण्डा योज्याः ॥ तथा संख्याविशेषाद् अपि दण्डविशेषो रत्नादिषु ।

"सुवर्णरजतादीनाम् उत्तमानां च वाससाम् ।
रत्नानां चैव सर्वेषां शताद् अभ्यधिके वधः ॥
पञ्चाशतस् त्व् अभ्यधिके हस्तच्छेदनम् इष्यते ।
शेषेष्व् एकादशगुणं मूल्याद् दण्डं प्रकल्पयेत् ॥" इति ॥ (मा०ध० ८.३२१–२२)

तथा द्रव्यविशेषाद् अपि । (८/३२३) –

"पुरुषाणां कुलीनानां नारीणां च विशेषतः ।
रत्नानां चैव सर्वेषां हरणे वधम् अर्हति ॥" (मा०ध० ८.३२३)

अकुलीनानां तु दण्डान्तरम् ।

"पुरुषं हरतो दण्डः प्रोक्त उत्तमसाहसः ।
स्त्र्यपराधे तु सर्वस्वं कन्यां तु हरतो वधः ॥" इति ॥ (ना०स्मृ० १९.३५)

क्षुद्रद्रव्याणां तु माषतो न्यूनमूल्यानां मूल्यात् पञ्चगुणो दमः,

"काष्टभाण्डतृणादीनां मृण्मयानां तथैव च ॥
वेणुवैणवभाण्डानां तथा स्नाय्वस्थिचर्मणाम् ।
शाकानाम् आर्द्रमूलानां हरणे फलमूलयोः ।
गोरसेक्षुविकाराणां तथा लवणतैलयोः ॥
पक्वान्नानं कृतान्नानां मत्स्यानाम् आमिषस्य च ।
सर्वेषां मूल्यभूतानां मूल्यात् पञ्चगुणो दमः ॥" (ना०स्मृ० १९.२९–३१)

इति नारदस्मरणात् ॥ यः पुनः प्रथमसाहसः क्षुद्रद्रव्येषु शतावरः पञ्चशतपर्यन्तोऽसौ माषमूल्ये तदधिकमूल्ये वा यथायोग्यं व्यवस्थापनीयः ॥ यत् पुनर् मानवं क्षुद्रद्रव्यगोचरवचनं "तन्मूल्याद् द्विगुणो दमः" (मा०ध० ८.३२९) इति तद् अल्पप्रयोजनशरावादिविषयम् । तथापराधगुरुत्वाद् अपि दण्डगुरुत्वम् । यथा,

"संधिं भित्त्वा तु ये चौर्यं रात्रौ कुर्वति तस्कराः ।
तेषां छित्त्वा नृपो हस्तौ तीक्ष्णशूले निवेशयेत् ॥" (मा०ध० ९.२७६)

इत्य् एवं सर्वेषाम् आनन्त्यात् प्रतिद्रव्यं वक्तुम् अशक्तेर् जातिपरिमाणादिभिः कारणैर् दण्डगुरुलघुभावः कल्पनीयः । पथिकादीनां पुनर् अल्पापराधे न दण्डः । यथाह मनुः :

"द्विजोऽध्वगः क्षीणवृत्तिर् द्वाव् इक्षू द्वे च मूलके ।
आददानः परक्षेत्रान् न दण्डं दातुम् अर्हति ॥" (मा०ध० ८.३४१)

तथा,

"चणकव्रीहिगोधूमयवानां मुद्गमाषयोः ।
अनिषिधैर् गृहीतव्यो मुष्टिर् एकः पथि स्थितैः ॥" (ध०को० १७२३)

"तथैव सप्तमे भक्तं भक्तानि षड् अनश्नता ।
अश्वस्तना विधानेन हर्तव्यं हीनकर्मणः ॥" (मा०ध० ११.१६) इति ॥ २.२७५ ॥

अचौरस्यापि चौरोपकारिणो दण्डम् आह ।

भक्तावकाशाग्न्युदकमन्त्रोपकरणव्ययान् ।
दत्त्वा चौरस्य वा हन्तुर् जानतो दम उत्तमः ॥ या०ध०२.२७६

भक्तम् अशनम् । अवकाशो निवासस्थानम् । अग्निश् चौरस्य शीतापनोदाद्यर्थः । उदकं तृषितस्य । मन्त्रश् चौर्यप्रकारोपदेशः । उपकरणं चौर्यसाधनम् । व्ययोऽपहारार्थं देशान्तरं गच्छतः पाथेयम् । एतानि चौरस्य हन्तुर् वा दुष्टत्वं जानन्न् अपि यः प्रयच्छति तस्योत्तमसाहसो दण्डः । चौरोपेक्षिणाम् अपि दोषः,

"शक्ताश् च य उपेक्षन्ते तेऽपि तद्दोषभागिनः ।" (ना०स्मृ० १४.१८)

इति नारदस्मरणात् ॥ २.२७६ ॥

किं च ।

शस्त्रावपाते गर्भस्य पातने चोत्तमो दमः ।
उत्तमो वाधमो वापि पुरुषस्त्रीप्रमापणे ॥ या०ध०२.२७७

परगात्रेषु शस्त्रस्यावपातने दासीब्राह्मणगर्भव्यतिरेकेण गर्भस्य पातने चोत्तमो दमो दण्डः । दासीगर्भनिपातने तु "दासीगर्भविनाशकृद्" (या०ध० २.२३६) इत्यादिना शतदण्डोऽभिहितः । ब्राह्मणगर्भविनाशे तु "हत्वा गर्भम् अविज्ञातम्" (मा०ध० ११.८७) इत्य् अत्र ब्रह्महत्यातिदेशं वक्ष्यते । पुरुषस्य स्त्रियाश् च प्रमापणे शीलवृत्ताद्यपेक्षयोत्तमो वाधमो वा दण्डो व्यवस्थितो वेदितव्यः ॥ २.२७७ ॥

अपि च ।

विप्रदुष्टां स्त्रियं चैव पुरुषघ्नीम् अगर्भिणीम् ।
सेतुभेदकरीं चाप्सु शिलां बद्ध्वा प्रवेशयेत् ॥ या०ध०२.२७८

विशेषेण प्रदुष्टा विप्रदुष्टा भ्रूणघ्नी स्वगर्भपातिनी च । या च पुरुषस्य हन्त्री सेतूनां भेत्त्री च एता गर्भरहिताः स्त्रीर् गले शिलां बद्ध्वा अप्सु प्रवेशयेत् यथा न प्लवन्ति ॥ २.२७८ ॥

किं च ।

विषाग्निदां पतिगुरुनिजापत्यप्रमापणीम् ।
विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रमापयेत् ॥ या०ध०२.२७९

अगर्भिणीम् इत्य् अनुवर्तते । या च परवधार्थम् अन्नपानादिषु विषं ददाति क्षिपति । या च दाहार्थं ग्रामादिष्व् अग्निं ददाति तथा या च निजपतिगुर्वपत्यानि मारयति तां विच्छिन्नकर्णकरनासौष्टीं कृत्वा अदान्तैर् दुष्टबलीवर्दैः प्रवाह्य मारयेत् । स्तेयप्रकरणे यद् एतत् साहसिकस्य दण्डविधानं तत् प्रासङ्गिकम् इति मन्तव्यम् ॥ २.२७९ ॥

अविज्ञातकर्तृके हनने हन्तृज्ञानोपायम् आह ।

अविज्ञातहतस्याशु कलहं सुतबान्धवाः ।
प्रष्टव्या योषितश् चास्य परपुंसि रताः पृथक् ॥ या०ध०२.२८०

अविज्ञातहतस्याविज्ञातपुरुषेण घातितस्य संबन्धिनः सुताः प्रत्यासन्नबान्धवाश् च केनास्य कलहो जात इति कलहम् आशु प्रष्टव्याः । तथा मृतस्य संबन्धिन्यो योषितो याश् च परपुंसि रता व्यभिचारिण्यस् ता अपि प्रष्टव्याः ॥ २.२८० ॥

कथं प्रष्टव्या इत्य् अत आह ।

स्त्रीद्रव्यवृत्तिकामो वा केन वायं गतः सह ।
मृत्युदेशसमासन्नं पृच्छेद् वापि जनं शनैः ॥ या०ध०२.२८१

किम् अयं स्त्रीकामो द्रव्यकामो वृत्तिकामो वा तथा कस्यां किंसंबन्धिन्यां वा स्त्रियाम् अस्य रतिर् आसीत् कस्मिन् वा द्रव्ये प्रीतिः कुतो वा वृत्तिकामः केन वा सह देशान्तरं गत इति नानाप्रकारं व्यभिचारिण्यो योषितः पृथक् पृथक् विश्वास्य प्रष्टव्याः । तथा मरणदेशनिकटवर्तिनो गोपाटविकाद्या ये जनास् तेऽपि विश्वासपूर्वकं प्रष्टव्याः । एवं नानाकारैः प्रश्नैर् हन्तारं निश्चित्य तद् उचितो दण्डो विधातव्यः ॥ २.२८१ ॥

किं च ।

क्षेत्रवेश्मवनग्रामविवीतखलदाहकाः ।
राजपत्न्यभिगामी च दग्धव्यास् तु कटाग्निना ॥ या०ध०२.२८२

क्षेत्रं पक्वफलसस्योपेतम् । वेश्म गृहम् । वनम् अटवीं क्रीडावनं वा । ग्रामम् । विवीतम् उक्तलक्षणम् खलं वा ये दहन्ति ये च राजपत्नीम् अभिगच्छन्ति तान् सर्वान् कटैर् वीरणमयैर् वेष्टयित्वा दहेत् । क्षेत्रादेर् दाहकानां मारणदण्डप्रसङ्गाद् दण्डविधानम् ॥ २.२८२ ॥

इति स्तेयप्रकरणम्
अथ स्त्रीसंग्रहणप्रकरणम्

स्त्रीसंग्रहणाख्यं विवादपदं व्याख्यायते । प्रथमसाहसादिदण्डप्राप्त्यर्थं त्रेधा तत्स्वरूपं व्यासेन विवृतम् ।

"त्रिविधं तत् समाख्यातं प्रथमं मध्यमोत्तमम् ।
अदेशकालभाषाभिर् निर्जने च परस्त्रियाः ॥
कटाक्षावेक्षणं हास्यं प्रथमं साहसं स्मृतम् ।
प्रेषणं गन्धमाल्यानां धूपभूषणवाससाम् ॥
प्रलोभनं चान्नपानैर् मध्यमं साहसं स्मृतम् ।
सहासनं विविक्तेषु परस्परम् उपाश्रयः ॥
केशाकेशिग्रहश् चैव सम्यक् संग्रहणं स्मृतम् ॥" (ध०को० १८८९)

स्त्रीपुंसयोर् मिथुनीभावः संग्रहणम् ॥

संग्रहणज्ञानपूर्वकत्वात् तत्कर्तुर् दण्डविधानं तज्ज्ञानोपायं तावद् आह ।

पुमान् संग्रहणे ग्राह्यः केशाकेशि परस्त्रिया ।
सद्यो वा कामजैश् चिह्नैः प्रतिपत्तौ द्वयोस् तथा ॥ या०ध०२.२८३

संग्रहणे प्रवृत्तः पुमान् केशाकेश्यादिभिर् लिङ्गैर् ज्ञात्वा ग्रहीतव्यः । परस्परं केशग्रहणपूर्विका क्रीडा केशाकेशि । "तत्र तेनेदम्" (ढ़ाण् २.२.२७) इति सरूपे इति बहुव्रीहौ सति, "इच् कर्मव्यतिहारे" (ढ़ाण् ५.४.१२७) इति समासान्त इच्प्रत्ययः । अव्ययत्वाच् च लुप्ततृतीयाविभक्तिः । ततश् चायम् अर्थः । परभार्यया सह केशाकेशिक्रीडनेनाभिनवैः कररुहदशनादिकृतव्रणैः रागकृतैर् लिङ्गैर् द्वयोः संप्रतिपत्त्या वा ज्ञात्वा संग्रहणे प्रवृत्तौ ग्रहीतव्यः । परस्त्रीग्रहणं नियुक्तावरुद्धादिव्युदासार्थम् ॥ २.२८३ ॥

किं च ।

नीवीस्तनप्रावरणसक्थिकेशावमर्शनम् ।
अदेशकालसंभाषं सहैकासनम् एव च ॥ या०ध०२.२८४

यः पुनः परदारपरिधानग्रन्थिप्रदेशकुचप्रावरणजघनमूर्धरुहादिस्पर्शनं साभिलाष इवाचरति । तथा अदेशे निर्जने जनताकीर्णे वान्धकाराकुले अकाले संलापनं करोति । परभार्यया वा सहैकमञ्चकादौ रिरंसयेवावतिष्टते यः सोऽपि संग्रहणे प्रवृत्तो ग्राह्यः । एतच् चाशङ्क्यमानदोषपुरुषविषयम् । इतरस्य तु न दोषः । यथाह मनुः ।

"यस् त्व् अनाक्षारितः पूर्वम् अभिभाषते कारणात् ।
न दोषं प्राप्नुयात् किंचिन् न हि तस्य व्यतिक्रमः ॥" इति । (मा०ध० ८.३५५)

यः परस्त्रिया स्पृष्टः क्षमतेऽसाव् अपि ग्राह्य इति तेनैवोक्तम् ।

"स्त्रियं स्पृशेद् अदेशे यः स्पृष्टो वा मर्षयेत् तथा ।
परस्परस्यानुमते सर्वं संग्रहणं स्मृतम् ॥" इति । (मा०ध० ८.३५८)

यश् च मयेयं विदग्धासकृद्रमितेति श्लाघया भुजंगजनसमक्षं ख्यापयत्य् असाव् अपि ग्राह्य इति तेनैवोक्तम् ।

"दर्पाद् वा यदि वा मोगाच् छ्लाघया वा स्वयं वदेत् ।
पूर्वं मयेयं भक्तेति तच् च संग्रहणं स्मृतम् ॥" इति ॥ (ध०को० १८५३)

प्रतिषिद्धयोर् द्वयोः स्त्रीपुंसयोः पुनः सल्लापादिकरणे दण्डम् आह ।

स्त्री निषेधे शतं दद्याद् द्विशतं तु दमं पुमान् ।
प्रतिषेधे तयोर् दण्डो यथा संग्रहणे तथा ॥ या०ध०२.२८५

प्रतिषिध्यत इति प्रतिषेधः पतिपित्रादिभिर् येन सह संभाषणादिकं निषिद्धं तत्र प्रवर्तमाना स्त्री शतपणं दण्डं दद्यात् । पुरुषः पुनर् एवं निषिद्धे प्रवर्तमानो द्विशतं दद्यात् । द्वयोस् तु स्त्रीपुंसयोः प्रतिषिद्धे प्रवर्तमानयोः संग्रहणे संभोगे वर्णानुसारेण यो दण्डो वक्ष्यते स एव विज्ञेयः । एतच् च चारणादिभार्याव्यतिरेकेण । (८/३६२) –

"नैष चारणदारेषु विधिर् नात्मोपजीविषु ।
सज्जयन्ति हि ते नारीं निगूढाश् चारयन्ति च ॥" (मा०ध० ८.३६२)

इति मनुस्मरणात् ॥ २.२८५ ॥

तद् इदानीं संग्रहणे दण्डम् आह ।

सजाताव् उत्तमो दण्ड आनुलोम्ये तु मध्यमः ।
प्रातिलोम्ये वधः पुंसो नार्याः कर्णादिकर्तनम् ॥ या०ध०२.२८६

चतुर्णाम् अपि वर्णानां बलात्कारेण सजातीयगुप्तपरदाराभिगमने साशीतिपणसहस्रं दण्डनीयः । यदा त्व् आनुलोम्येन हीनवर्णां स्त्रियम् अगुप्ताम् अभिगच्छति तदा मध्यमसाहसं दण्डनीयः । यदा पुनः सवर्णाम् अगुप्ताम् आनुलोम्येन गुप्तां वा व्रजति तदा मानवे विशेष उक्तः ।

"सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद् व्रजन् ।
शतानि पञ्च दण्ड्यः स्याद् इच्छन्त्या सह संगतः ॥" (मा०ध० ८.३७८)

तथा ।

"सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् ।
शूद्रायां क्षत्रियविशोः साहस्रं तु भवेद् दमः ॥" इति ॥ (मा०ध० ८.३८३)

एतच् च गुरुसखिभार्यादिव्यतिरेकेण द्रष्टव्यम्,

"माता मातृष्वसा श्वश्रूमातुलानी पितृष्वसा ।
पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥
दुहिताचार्यभार्या च सगोत्रा शरणागता ।
राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥
आसाम् अन्यतमां गच्छन् गुरुतल्पग उच्यते ।
शिश्नस्योत्कर्तनात् तत्र नान्यो दण्डो विधीयते ॥" (ना०स्मृ० १२.७२–७४)

इति नारदस्मरणात् । प्रातिलोम्ये उत्कृष्टवर्णस्त्रीगमने क्षत्रियादेः पुरुषस्य वधः । एतच् च गुप्ताविषयम् । अन्यत्र तु धनदण्डः ।

"उभाव् अपि तु ताव् एव ब्राह्मण्या गुप्तया सह ।
विप्लुतौ शूद्रवद् दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥" (मा०ध० ८.३७७)

"ब्राह्मणीं यद्य् अगुप्तां तु सेवेतां वैश्यपार्थिवौ ।
वैश्यं पञ्चशतं कुर्यात् क्षत्रियं तु सहस्रिणम् ॥" (मा०ध० ८.३७६)

इति मनुस्मरणात् । शूद्रस्य पुनर् अगुप्ताम् उत्कृष्टवर्णां स्त्रियं व्रजतो लिङ्गच्छेदनसर्वस्वापहारौ ।

"शूद्रो गुप्तम् अगुप्तं वा द्वैजातं वर्णम् आवसन् ।
अगुप्तम् अङ्गसर्वस्वैर् गुप्तं सर्वेण हीयते ॥" इति । (मा०ध० ८.३७४)

नार्याः पुनर् हीनवर्णं व्रजन्त्याः कर्णयोर् आदिग्रहणान् नासादेश् च कर्तनम् । आनुलोम्येन वा सवर्णं वा व्रजन्त्या दण्डः कल्प्यः । अयं च वधाद्युपदेशो राज्ञ एव तस्यैव पालनाधिकारान् न द्विजातिमात्रस्य । तस्य "ब्राह्मणः परीक्षार्थम् अपि शस्त्रं नाददीत" (ध०को० १६०५ : आपस्तम्ब) इति शस्त्रग्रहणनिषेधात् । यदा तु राज्ञो निवेदनेन कालविलम्बनेन कार्यातिपाताशण्का तदा स्वयम् एव जारादीन् हन्यात् ।

"शस्त्रं द्विजातिभिर् ग्राह्यं धर्मो यत्रोपरुध्यते ।" (मा०ध० ८.३४८)

तथा ।

"नाततायिवधे दोषो हन्तुर् भवति कश् चन ।
प्रकाशं वाप्रकाशं वा मन्युस् तं मन्युम् ऋच्छति ॥" (मा०ध० ८.३५१)

इति शस्त्रग्रहणाभ्यनुज्ञानाच् च । तथा क्षत्रियवैश्ययोर् अन्योन्यस्त्र्यभिगमने यथाक्रमं सहस्रपञ्चशतपणात्मकौ दण्डौ वेदितव्यौ । तद् आह मनुः ।

"वैश्यश् चेत् क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् ।
यो ब्राह्मण्याम् अगुप्तायां ताव् उभौ दण्डम् अर्हतः ॥" इति ॥ (मा०ध० ८.३८२) २.२८६ ॥

पारदार्यप्रसङ्गात् कन्यायाम् अपि दण्डम् आह ।

अलंकृतां हरन् कन्याम् उत्तमं ह्य् अन्यथाधमम् ।
दण्डं दद्यात् सवर्णासु प्रातिलोम्ये वधः स्मृतः ॥ या०ध०२.२८७

विवाहाभिमुखीभूताम् अलंकृतां सवर्णां कन्याम् अपहरन्न् उत्तमसाहसं दण्डनीयः । तदनभिमुखीं सवर्णां हरन् प्रथमं साहसम् । उत्कृष्टवर्णजां कन्याम् अपहरतः पुनः क्षत्रियादेर् वध एव । दण्डविधानाच् चापहर्तृसकाशाद् आच्छिद्यान्यस्मै देयेति गम्यते ॥ २.२८७ ॥

आनुलोम्यापहरणे दण्डम् आह ।

सकामास्व् अनुलोमासु न दोषस् त्व् अन्यथा दमः । या०ध०२.२८८अब्

यदि सानुरागां हीनवर्णां कन्याम् अपहरति तदा दोषाभावान् न दण्डः । अन्यथा त्व् अनिच्छन्तीम् अपहरतः प्रथमसाहसो दण्डः ॥

कन्यादूषणे दण्डम् आह ।

दूषणे तु करच्छेद उत्तमायां वधस् तथा ॥ या०ध०२.२८८च्द्

अनुलोमास्व् इत्य् अनुवर्तते । यद्य् अकामां कन्यां बलात्कारेण नखक्षतादिना दूषयति, तदा तस्य करश् छेत्तव्यः । यदा पुनस् ताम् एवाङ्गुलिप्रक्षेपेण योनिक्षतं कुर्वन् दूषयति तदा मनूक्तषट्शतसहितोऽङ्गुलिच्छेदः ।

"अभिषह्य तु यः कन्यां कुर्याद् दर्पेण मानवः ।
तस्याशु कर्त्ये अङ्गुल्यौ दण्डं चार्हति षट्शतम् ॥" इति । (मा०ध० ८.३६७)

यदा पुनः सानुरागां पूर्ववद् दूषयति तदापि तेनैव विशेष उक्तः ।

"सकामां दूषयन् कन्यां नाङ्गुलिछेदम् अर्हति ।
द्विशतं तु दमम् दाप्यः प्रसङ्गविनिवृत्तये ॥" इति । (मा०ध० ८.३६८)

यदा तु कन्याइव कन्यां दूषयति विदग्धा वा तत्रापि विशेषस् तेनैवोक्तः ।

"कन्यैव कन्यां या कुर्यात् तस्यास् तु द्विशतो दमः ।
या तु कन्यां प्रकुर्यात् स्त्री सा सद्यो मौण्ड्यम् अर्हति ।
अङ्गुल्योर् एव वा च्छेदं खरेणोद्वहनं तथा ॥" इति । (मा०ध० ८.३६९–७०)

कन्यां कुर्याद् इति कन्यां योनिक्षतवतीं कुर्याद् इत्य् अर्थः ॥ यदा पुनर् उत्कृष्टजातीयां कन्याम् अविशेषात् सकामाम् अकामां वाभिगच्छति तदा हीनस्य क्षत्रियादेर् वध एव ।

"उत्तमां सेवमानस् तु जघन्यो वधम् अर्हति ।" (मा०ध० ८.३६६)

इति मनुस्मरणात् ॥ यदा सवर्णां सकामाम् अभिगच्छति तदा गोमिथुनं शुल्कं तत्पित्रे दद्यात् यदीच्छति । पितरि तु शुल्कम् अनिच्छति दण्डरूपेण तद् एव राज्ञे दद्यात् । सवर्णाम् अकामां तु गच्छतो वध एव । यथाह मनुः ।

"शुल्कं दद्यात् सेवमानः समाम् इच्छेत् पिता यदि ॥" (मा०ध० ८.३६६)

"योऽकामां दूषयेत् कन्यां स सद्यो वधम् अर्हति ।
सकामां दूषयंस् तुल्यो न वधं प्राप्नुयान् नरः ॥" (मा०ध० ८.३६४) इति ॥

किं च ।

शतं स्त्रीदूषणे दद्याद् द्वे तु मिथ्याभिशंसने ।
पशून् गच्छन् शतं दाप्यो हीनां स्त्रीं गां च मध्यमम् ॥ या०ध०२.२८९

स्त्रीशब्देनात्र प्रकृतत्वात् कन्यावमृश्यते । तस्या यदि कश्चिद् विद्यमानान् एवापस्मारराजयक्ष्मादिदीर्घकुत्सितरोगसंसृष्टमैथुनत्वादिदोषान् प्रकाश्येयम् अकन्येति दूषयत्य् असौ शतं दाप्यः । मिथ्याभिशंसने तु पुनर् अविद्यमानदोषाविष्कारेण दूषणे द्वे शते दापनीयः । गोव्यतिरिक्तपशुगमने तु शतं दाप्यः । यः पुनर् हीनां स्त्रियम् अन्त्यावसायिनीम् अविशेषात् सकामाम् अकामां वा गां चाभिगच्छत्य् असौ मध्यमसाहसं दण्डनीयः ॥ २.२८९ ॥

साधारणस्त्रीगमने दण्डम् आह ।

अवरुद्धासु दासीषु भुजिष्यासु तथैव च ।
गम्यास्व् अपि पुमान् दाप्यः पञ्चाशत्पणिकं दमम् ॥ या०ध०२.२९०

"गच्छन्" इत्य् अनुवर्तते । उक्तलक्षणा वर्णस्त्रियो दास्यस् ता एव स्वामिना शुश्रूषाहानिव्युदासार्थं गृह एव स्थातव्यम् इत्य् एवं पुरुषान्तरोपभोगतो निरुद्धा अवरुद्धाः । पुरुषनियतपरिग्रहा भुजिष्याः । यदा दास्योऽवरुद्धा भुजिष्या वा भवेयुस् तदा तासु तथा । चशब्दाद् वेश्यास्वैरिणीनाम् अपि साधारणस्त्रीणां भुजिष्याणां च ग्रहणम् । तासु च सर्वपुरुषसाधारणतया गम्यास्व् अपि गच्छन् पञ्चाशत् पणान् दण्डनीयः, परपरिगृहीतत्वेन तासां परदारतुल्यत्वात् । एतच् च स्पष्टम् उक्तं नारदेन ।

"स्वैरिण्यब्राह्मणी वेश्या दासी निष्कासनी च या ।
गम्याः स्युर् आनुलोम्येन स्त्रियो न प्रतिलोमतः ॥
आस्व् एव तु भुजिष्यासु दोषः स्यात् परदारवत् ।
गम्यास्व् अपि हि नोपेयाद् यत् ताः परपरिग्रहाः ॥" इति ॥ (ना०स्मृ० १२.७७–७८)

निष्कासिनी स्वाम्यनवरुद्धा दासी ।

ननु च स्वैरिण्यादीनां साधारणतया गम्यत्वाभिधानम् उक्तम् । न हि जातितः शास्त्रतो वा काश्चन लोके साधारणाः स्त्रिय उपलभ्यन्ते । तथा हि । स्वैरिण्यो दास्यश् च तावद् वर्णस्त्रिय एव,

स्वैरिणी या पतिं हित्वा सवर्णं कामतः श्रयेत् । (या०ध० १.६७)

वर्णानाम् आनुलोम्येन दास्यं न प्रतिलोमतः ॥ (या०ध० २.१८३)

इति स्मरणात्NSP and Pandeya read : मनुस्मरणात्. ढ़्रोबब्ल्य् an error ; षेत्लुर् गिवेस् ओने म्स्. with थत् रेअदिन्ग्. । न च वर्णस्त्रीणां पत्यौ जीवति मृते वा पुरुषान्तरोपभोगो घटते ।

"दुःशीलः कामवृत्तो वा गुणैर् वा परिवर्जितः ।
उपचार्यः स्त्रिया साध्व्या सततं देववत् पतिः ॥
कामं तु क्षपयेद् देहं पुष्पमूलफलैः शुभैः ।
न तु नामापि गृह्णीयात् पत्यौ प्रेते परस्य तु ॥" (मा०ध० ५.१५४, १५७)

इति निषेधस्मरणात् ॥ नापि कन्यावस्थायाः साधारणत्वम् । पित्रादिपरिरक्षितायाः कन्याया एव दानोपदेशात् । दात्रभावेऽपि तथाविधाया एव स्वयंवरोपदेशात् । न च दासीभावात् स्वधर्माधिकारच्युतिः । पारतन्त्र्यं हि दास्यं न स्वधर्मपरित्यागः । नापि वेश्या साधारणी वर्णानुलोमजव्यतिरेकेण गम्यजात्यन्तरासंभवात् । तद् अन्तःपातित्वे च पूर्ववद् एवागम्यत्वम् । प्रतिलोमजत्वे तु तासां नितराम् अगम्यत्वम् । अतः पुरुषान्तरोपभोगे तासां निन्दितकर्माभ्यासेन पातित्यात् । पतितसंसर्गस्य निषिद्धत्वाच् च न सकलपुरुषोपभोगयोग्यत्वम् ।

सत्यम् एवम् । किं त्व् अत्र स्वैरिण्याद्युपभोगे पित्रादिरक्षकराजदण्डभयादिदृष्टदोषाभावाद् गम्यत्ववाचोयुक्तिः । दण्डाभावश् चावरुद्धासु दासीष्व् इति नियतपुरुषपरिग्रहोपाधितो दण्डविधानात् तदुपाधिरहितास्व् अर्थाद् अवगम्यते । स्वैरिण्यादीनां पुनर् दण्डाभावो विधानाभावात्,

"कन्यां भजन्तीम् उत्कृष्टां न किंचिद् अपि दापयेत् ।" (मा०ध० ८.३६५)

इति लिङ्गनिदर्शनाच् चावगम्यते । प्रायश्चित्तं तु स्वधर्मस्खलननिमित्तं गम्यानां गन्तॄणां चाविशेषाद् भवत्य् एव । यत् पुनर् वेश्यानां जात्यन्तरासंभवेन वर्णान्तःपातित्वम् अनुमानाद् उक्तम्, "वेश्या वर्णानुलोमाद्यन्तःपातित्यो मनुष्यजात्याश्रयत्वात् ब्राह्मणादिवत्" इति । तन् न, तत्र कुण्डगोलकादिभिर् अनैकान्तिकत्वात् । अतो वेश्याख्या काचिज् जातिर् अनादिर् वेश्यायाम् उत्कृष्टजातेः समानजातेर् वा पुरुषाद् उत्पन्ना पुरुषसंभोगवृत्तिर् वेश्येति ब्राह्मण्यादिवल् लोकप्रसिद्धिबलाद् अभ्युपगमनीयम् । न च निर्मूलेयं प्रसिद्धिः । स्मर्यते हि स्कन्दपुराणे : "पञ्चचूडा नाम काश्चनाप्सरसस् तत्सन्ततिर् वेश्याख्या पञ्चमी जातिः" इति । अतस् तासां नियतपुरुषपरिणयनविधिविधुरतया समानोत्कृष्टजातिपुरुषाभिगमने नादृष्टदोषो नापि दण्डः । तासु चानवरुद्धासु गच्छतां पुरुषाणां यद्य् अपि न दण्डस् तथाप्य् अदृष्टदोषोऽस्त्य् एव "स्वदारनिरतः सदा" (मा०ध० ३.४५) इति नियमात्,

"पशुवेश्याभिगमने प्राजापत्यं विधियते ।" (chf. वि०ध० ५३.७)

इति प्रायश्चित्तस्मरणाच्, चेति निरवद्यम् ॥ २.२९० ॥

"अवरुद्धासु दासीषु" इत्य् अनेन दासीस्वैरिण्यादिभुजिष्याभिगमने दण्डं विदधतस् तास्व् अभुजिषास्व् दण्डो नास्तीत्य् अर्थाद् उक्तम्, तद् अपवादम् आह ।

प्रसह्य दास्यभिगमे दण्डो दशपणः स्मृतः ।
बहूनां यद्य् अकामासौ चतुर्विंशतिकः पृथक् ॥ या०ध०२.२९१

पुरुषसंभोगजीविकासु दासीषु स्वैरिण्यादिषु शुल्कदानविरहेण प्रसह्य बलात्कारेणाभिगच्छतो दशपणो दण्डः । यदि बहव एकाम् अनिच्छन्तीम् अपि बलात्कारेणाभिगच्छन्ति तर्हि प्रत्येकं चतुर्विंशतिपणपरिमितं दण्डं दण्डनीयाः । यदा पुनस् तदिच्छया भाटिं दत्त्वा पश्चाद् अनिच्छन्तीम् अपि बलाद् व्रजन्ति तदा तेषाम् अदोषः, यदि व्याध्याद्यभिभवस् तस्या न स्यात्,

"व्याधिता सश्रमा व्यग्रा राजकर्मपरायणा ।
आमन्त्रिता चेन् नागच्छेद् अदण्ड्या वडवा स्मृता ॥" (बृ०स्मृ० १.१६.१३)

इति नारदवचनात् ।

गृहीतवेतना वेश्या नेच्छन्ती द्विगुणं वहेत् ।
अगृहीते समं दाप्यः पुमान् अप्य् एवम् एव हि ॥ या०ध०२.२९२

यदा तु शुल्कं गृहीत्वा स्वस्थाप्य् अर्थपतिं नेच्छति तदा द्विगुणं शुल्कं दद्यात् । तथा शुल्कं दत्त्वा स्वयम् अनिच्छतः स्वस्थस्य पुंसः शुल्कहानिर् एव,

"शुल्कं गृहीत्वा पण्यस्त्री नेच्छन्ती द्विगुणं वहेत् ।
अनिच्छन् दत्तशुल्कोऽपि शुल्कहानिम् अवाप्नुयात् ॥" (ना०स्मृ० ६.२० ; ध०को० ८५१)

इति तेनैवोक्तम् । तथान्योऽपि विशेषस् तेनैव दर्शितः ।

"अप्रयच्छंस् तथा शुल्कम् अनुभूय पुमान् स्त्रियम् ।" (ना०स्मृ० ६.२०)

"अक्रमेण च संगच्छन् पाददन्तनखादिभिः ॥" (ध०को० ८५१)

"अयोनौ वाभिगच्छेद् यो बहुभिर् वापि वासयेत् ।
शुल्कम् अष्टगुणं दाप्यो विनयं तावद् एव तु ॥" (ना०स्मृ० ६.२१)

"वेश्याप्रधाना यास् तत्र कामुकास् तद्गृहोषिताः ।
तत्समुत्थेषु कार्येषु निर्णयं संशये विदुः ॥" (ध०को० ८५१) इति ॥ २.२९२ ॥

किं च ।

अयोनौ गच्छतो योषां पुरुषं वापि मेहतः ।
चतुर्विंशतिको दण्डस् तथा प्रव्रजितागमे ॥ या०ध०२.२९३

यस् तु स्वयोषां मुखादाव् अभिगच्छति पुरुषं वाभिमुखो मेहति तथा प्रव्रजितां वा गच्छत्य् असौ चतुर्विंशतिपणान् दण्डनीयः ॥ २.२९३ ॥

किं च ।

अन्त्याभिगमने त्व् अङ्क्यः कुबन्धेन प्रवासयेत् ।
शूद्रस् तथान्त्य एव स्याद् अन्त्यस्यार्यागमे वधः ॥ या०ध०२.२९४

अन्त्या चाण्डाली तद्गमने त्रैवर्णिकान् प्रायश्चित्तानभिमुखान् "सहस्रं त्व् अन्त्यजस्त्रियम्" (मा०ध० ८.३८५) इति मनुवचनात् पणसहस्रं दण्डयित्वा, कुबन्धेन कुत्सितबन्धेन भगाकारेणाङ्कयित्वा, स्वराष्ट्रान् निर्वासयेत् । प्रायश्चित्ताभिमुखस्य पुनर् दण्डनम् एव । शूद्रः पुनश् चाण्डाल्यभिगमेऽन्त्य एव चाण्डाल एव भवति । अन्त्यजस्य पुनश् चाण्डालादेर् उत्कृष्टजातिस्त्र्यभिगमे वध एव ॥ २.२९४ ॥

इति स्त्रीसंग्रहणप्रकरणम्
अथ प्रकीर्णकप्रकरणम्

व्यवहारप्रकारणमध्ये स्त्रीपुंसयोगाख्यम् अप्य् अपरं विवादपदं मनुनारदाभ्यां विवृतम् । तत्र नारदः ।

"विवाहादिविधिः स्त्रीणां यत्र पुंसां च कीर्त्यते ।
स्त्रीपुंसयोगसंज्ञं तद्विवादपदम् उच्यते ॥" इति ॥ (ना०स्मृ० १२.१)

मनुर् अप्याह ।

"अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर् दिवानिशम् ।
विषयेषु च सज्जन्त्यः संस्थाप्या ह्य् आत्मनो वशे ॥" इत्यादि । (मा०ध० ९.२)

यद्य् अपि स्त्रीपुंसयोः परस्परम् अर्थिप्रत्यर्हितया नृपसमक्षं व्यवहारो निषिद्धस् तथापि प्रत्यक्षेण कर्णपरम्परया वा विदिते तयोः परस्परातिचारे दण्डादिना दम्पती निजधर्मार्गे राज्ञा स्थापनीयौ । इतरथा दोषभाग् भवति व्यवहारप्रकरणे राजधर्ममध्येऽस्य स्त्रीपुंसधर्मजातस्योपदेशः । एतच् च विवाहप्रकरण एव सप्रपञ्चं प्रतिपादितम् इति योगीश्वरेण न पुनर् अत्रोक्तम् ॥

सांप्रतं प्रकीर्णकाख्यं व्यवहारपदं प्रस्तूयते । तल्लक्षणं च कथितं नारदेन ।

"प्रकीर्णकेषु विज्ञेया व्यवहारा नृपाश्चयाः ।
राज्ञाम् आज्ञाप्रतीघातस् तत्कर्मकरणं तथा ॥
पुरःप्रदानं संभेदः प्रकृतीनां तथाइव च ।
पाखण्डिनैगमश्रेणीगणधर्मविपर्ययाः ॥
पित्रापुत्रविवादश् च प्रायश्चित्तव्यसंक्रमः ।
प्रतिग्रहविलोपश् च कोपश् चाश्रमिणाम् अपि ॥
वर्णसंकरदोषश् च तद्वृत्तिनियमस् तथा ।
न दृष्टं यच् च पूर्वेषु सर्वं तत् स्यात् कीर्णकम् ॥" इति ॥ (ना०स्मृ० १८.१–४)

प्रकीर्णके विवादपदे ये विवादा राजाज्ञोल्लङ्घनतदाज्ञाकरणादिविषयास् ते नृपसमवायिनः । नृप एव तत्र स्मृत्याचारव्यपेतमार्गे वर्तमानानां प्रतिकूलताम् आस्थाय व्यवहारनिर्णयं कुर्यात् । एवं च वदता यो नृपाश्रयो व्यवहारस् तत्प्रकीर्णकम् इत्य् अर्थाल् लक्षितं भवति ॥

तत्रापराधविशेषेण दण्डविशेषम् आह ।

ऊनं वाभ्यधिकं वापि लिखेद् यो राजशासनम् ।
पारदारिकचौरं वा मुञ्चतो दण्ड उत्तमः ॥ या०ध०२.२९५

राजदत्तभूमेर् निबन्धस्य वा परिमाणान् न्यूनत्वम् आधिक्यं वा प्रकाशयन् राजशासनं योऽभिलिखति, यश् च पारदारिकं चौरं वा गृहीत्वा राज्ञेऽनर्पयित्वा मुञ्चति, ताव् उभाव् उत्तमसाहसं दण्डनीयौ ॥ २.२९५ ॥

प्रसङ्गान् नृपाश्रयव्यतिरिक्तव्यवहारविषयम् अपि दण्डम् आह ।

अभक्ष्येण द्विजं दूष्यो दण्ड उत्तमसाहसम् ।
मध्यमं क्षत्रियं वैश्यं प्रथमं शूद्रम् अर्धिकम् ॥ या०ध०२.२९६

मूत्रपुरीषादिना अभक्ष्येण भक्ष्यानर्हेण ब्राह्मणं दूष्यान्नपानादिमिश्रणेन स्वरूपेण वा दूषयित्वा खादयित्वोत्तमसाहसं दण्ड्यो भवति । क्षत्रियं पुनर् एवं दूषयित्वा मध्यमम् । वैश्यं दूषयित्वा प्रथमम् । शूद्रं दूषयित्वा प्रथमसाहसस्यार्धं दण्ड्यो भवतीति संबन्धः । लशुनाद्यभक्ष्यदूषणे तु दोषतारतम्याद् दण्डतारतम्यम् ऊहनीयम् ॥ २.२९६ ॥

किं च ।

कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी ।
त्र्यङ्गहीनस् तु कर्तव्यो दाप्यश् चोत्तमसाहसम् ॥ या०ध०२.२९७

रसवेधाद्यापादितवर्णोत्कर्षैः कूटैः स्वर्णैर् व्यवहारशीलो यः स्वर्णकारादिः । यश् च विमांसस्य कुत्सितमांसस्य श्वादिसंबद्धस्य विक्रयशीलः सौनिकादिः । चशब्दात् कूटरजतादिव्यवहारी च । ते सर्वे प्रत्येकं नासाकर्णकरैस् त्रिभिर् अङ्गैर् हीनाः कार्याः । चशब्दात् त्र्यङ्गच्छेदेन समुच्चितम् उत्तमसाहसं दण्डं दाप्याः । यत् पुनर् मनुनोक्तम् ।

"सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः ।
प्रवर्तमानम् अन्याये छेदयेल् लवशः क्षुरैः ॥" (मा०ध० ९.२९२)

इति तद् एतद् देवब्राह्मणराजस्वर्णविषयम् ॥ २.२९७ ॥

विषयविशेषे दण्डाभावम् आह ।

चतुष्पादकृतो दोषो नापैहीति प्रजल्पतः ।
काष्ठलोष्टेषुपाषाणबाहुयुग्यकृतस् तथा ॥ या०ध०२.२९८

चतुष्पादैर् गोगजादिभिः कृतो यो दोषो मनुष्यमारणादिरूपोऽसौ गवादिस्वामिनो न भवत्य् अपसरेति प्रकर्षेणोच्चैर् भाषमाणस्य । तथा लकुटलोष्टसायकपाषाणोत्क्षेपणेन बाहुना युग्येन च युगं वहताश्वादिना कृतो यः पूर्वोक्तो दोषः सोऽपि काष्ठादीन् प्रास्यतो न भवत्य् अप्रसरेति प्रजल्पतः । काष्टाद्युत्क्षेपणेन हिंसायां दोषाभावकथनं दण्डाभावप्रतिपादनार्थम् । प्रायश्चित्तम् पुनर् अबुद्धिपूर्वकरणनिमित्तम् अस्त्य् एव । काष्टादिग्रहणं च शक्तितोमरादेर् उपलक्षणार्थम् ॥ २.२९८ ॥

किं च ।

छिन्ननस्येन यानेन तथा भग्नयुगादिना ।
पश्चाच् चैवापसरता हिंसने स्वाम्य् अदोषभाक् ॥ या०ध०२.२९९

नासि भवा रज्जुर् नस्या छिन्ना शकटादियुक्तबलीवर्दनस्या रज्जुर् यस्मिन् याने तत् छिन्ननस्यं शकटादि तेन । तथा भग्नयुगेन आदिग्रहणाद् भग्नाक्षचक्रादिना च यानेन पश्चात् पृष्ठतोऽपसरता चशब्दात् तिर्यगपगच्छता प्रतिमुखं चागच्छता च मनुष्यादिहिंसने स्वामी प्राजको वा दोषभाङ् न भवति, अतत्प्रयत्नजनितत्वाद् धिंसनस्य । तथाच मनुः ।

"छिन्ननास्ये भग्नयुगे तिर्यक्प्रतिमुखागते ।
अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥
छेदने चैव यन्त्राणां योक्त्ररश्म्योस् तथैव च ।
आक्रन्दे चाप्य् अपैहीति न दण्डं मनुर् अब्रवीत् ॥" इति ॥ (मा०ध० ८.२९१–९२)

उपेक्षायां स्वामिनो दण्डम् आह ।

शक्तोऽप्य् अमोक्षयन् स्वामी दंष्ट्रिणां शृङ्गिणां तथा ।
प्रथमं साहसं दद्याद् विक्रुष्टे द्विगुणं तथा ॥ या०ध०२.३००

अप्रवीणप्राजकप्रेरितैर् दंष्ट्रिभिर् गजादिभिः शृङ्गिभिर् गवादिभिर् वध्यमानं समर्थोऽपि तत्स्वामी यद्य् अमोक्षयन्न् उपेक्षते तदा अकुशलप्राजकनियोजननिमित्तं प्रथमसाहसं दण्डं दद्यात् । यदा तु मारितोऽहम् इति विक्रुष्टेऽपि न मोक्षयति तदा द्विगुणम् । यदा पुनः प्रवीणम् एव प्राजकं प्रेरयति तदा प्राजक एव दण्ड्यो न स्वामी । यथाह मनुः ।

"प्राजकश् चेद् भवेद् आप्तः प्राजको दण्डम् अर्हति ।" इति । (मा०ध० ८.२९४)

प्राजको यन्ता । आप्तोऽभियुक्तः । प्राणिविशेषाच् च दण्डविशेषः कल्पनीयः । यथाह मनुः ।

"मनुष्यमारणे क्षिप्रं चौरवत् किल्बिषी भवेत् ।
प्राणभृत्सु महत्स्व् अर्धं गोगजोष्ट्रहयादिषु ॥
क्षुद्राणां च पशूनां तु हिंसायां द्विशतो दमः ।
पञ्चाशत् तु भवेद् दण्डः शुभेषु मृगपक्षिषु ॥
गर्धभाजाविकानां तु दण्डः स्यात् पञ्चमाषकः ।
माषकस् तु भवेद् दण्डः श्वसूकरनिपातने ॥" इति ॥ (मा०ध० ८.२९६–९८)

किं च ।

जारं चौरेत्य् अभिवदन् दाप्यः पञ्चशतं दमम् ।
उपजीव्य धनं मुञ्चंस् तद् एवाष्टगुणीकृतम् ॥ या०ध०२.३०१

स्ववंशकलङ्कभयाज् जारं पारदारिकं चौरं निर्गच्छेत्य् अभिवदन् पञ्चशतं पणानां पञ्च शतानि यस्मिन् दमे स तथोक्तस् तं दमं दाप्यः । यः पुनर् जारहस्ताद् धनम् उपजीव्य उत्कोचरूपेण गृहीत्वा जारं मुञ्चत्य् असौ यावद्गृहीतं तावदष्टगुणीकृतं दण्डं दाप्यः ॥ २.३०१ ॥

किं च ।

राज्ञोऽनिष्टप्रवक्तारं तस्यैवाक्रोशकारिणम् ।
तन्मन्त्रस्य च भेत्तारं छित्त्वा जिह्वां प्रवासयेत् ॥ या०ध०२.३०२

राज्ञोऽनिष्टस्यानभिमतस्यामित्रस्तोत्रादेः प्रकर्षेण भूयो भूयो वक्तारं तस्यैव राज्ञ आक्रोशकारिणं निन्दाकरणशीलं तदीयस्य च मन्त्रस्य स्वराष्ट्रविवृद्धिहेतोः परराष्ट्रापक्षयकरस्य वा भेत्तारं अमित्रकर्णेषु जपन्तं तस्य जिह्नाम् उत्कृत्य स्वराष्ट्रान् निष्कासयेत् । कोशापहरणादौ पुनर् वध एव,

"राज्ञः कोशापहर्तॄंश् च प्रतिकूलेषु च स्थितान् ।
घातयेद् विविधैर् दण्डैर् अरीणां चोपजापकान् ॥" (मा०ध० ९.२७५)

इति मनुस्मरणात् । विविधैः सर्वस्वापहाराङ्गच्छेदवधरूपैर् इत्य् अर्थः । सर्वस्वापहारेऽपि यद् यस्य जीवनोपकरणं तन् नापहर्तव्यम् चौर्योपकरणं विना । यथाह नारदः ।

"आयुधान्य् आयुधियानां बाह्यादीन् बाह्यजीविनाम् ।
वेश्यास्त्रीणाम् अलंकारान् वाद्यतोद्यादि तद्विदाम् ॥
यच् च यस्योपकरणं येन जीवन्ति कारुकाः ।
सर्वस्वहरणेऽप्य् एतन् न राजा हर्तुम् अर्हति ॥" इति । (ना०स्मृ० १८.११–१२)

ब्राह्मणस्य पुनः "न शारीरो ब्राह्मणे दण्डः" (गौ०ध० १२.४६) इति निषेधाद्, वधस्थाने शिरोमुण्डनादिकं कर्तव्यम्,

"ब्राह्मणस्य वधो मौण्ड्यं पुरान् निर्वासनाङ्कने ।
ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन तु ॥" (Cf. ध०को० १८५८ ; ना०स्मृ० १४.९)

इति मनुस्मरणात् ॥ २.३०२ ॥

किं च ।

मृताङ्गलग्नविक्रेतुर् गुरोस् ताडयितुस् तथा ।
राजयानासनारोढुर् दण्ड उत्तमसाहसः ॥ या०ध०२.३०३

मृतशरीरसंबन्धिनो वस्त्रपुष्पादेर् विक्रेतुः गुरोः पित्राचार्यादेस् ताडयितुः तथा राजानुमतिं विना तद्यानं गजाश्वाद्य् असनं सिंहासनाद्य् आरोहतश् चोत्तमसाहसो दण्डः ॥ २.३०३ ॥

किं च ।

द्विनेत्रभेदिनो राजद्विष्टादेशकृतस् तथा ।
विप्रत्वेन च शूद्रस्य जीवतोऽष्टशतो दमः ॥ या०ध०२.३०४

यः पुनः क्रोधादिना परस्य नेत्रद्वयं भिनत्ति । यश् च ज्योतिःशास्त्रवित् गुर्वादिहितेच्छुव्यतिरिक्तो राज्ञो द्विष्टम् अनिष्टं संवत्सरान्ते तव राज्यच्युतिर् भविष्यतीत्य् एवमादिरूपम् आदेशं करोति । तथा यः शूद्रो भोजनार्थं यज्ञोपवीतादीनि ब्रामणलिङ्गानि दर्शयति तेषाम् अष्टशतो दमः । अष्टौ पणशतानि यस्मिन् दमे स तथोक्तः । "श्राद्धभोजनार्थं पुनः शूद्रस्य विप्रवेषधारिणस् तप्तशलाकया यज्ञोपवीतवद् वपुष्य् आलिखेत्" इति स्मृत्यन्तरोक्तं द्रष्टव्यम् । वृत्त्यर्थं तु यज्ञोपवीतादिब्राह्मणलिङ्गधारिणो वध एव, "द्विजातिलिङ्गिनः शूद्रान् घातयेत्" इति स्मरणात् ॥ (चोउल्द् not त्रचे थेसे) २.३०४ ॥

रागलोभादिनान्यथा व्यवहारदर्शने दण्डम् आह ।

दुर्दृष्टांस् तु पुनर् दृष्ट्वा व्यवहारान् नृपेण तु ।
सभ्याः सजयिनो दण्ड्या विवादाद् द्विगुणं दमम् ॥ या०ध०२.३०५

दुर्दृष्टान् स्मृत्याचारप्राप्तधर्मोल्लङ्घनेन रागलोभादिभिर् असम्यग्विचारितत्वेनाशङ्क्यमानान् व्यवहारान् पुनः स्वयं राजा सम्यग् विचार्य निश्चितदोषाः पूर्वसभ्याः सजयिनः प्रत्येकं विवादपदे यो दमः पराजितस्य तद्द्विगुणं दाप्याः । अप्राप्तजेतृदण्डविधिपरत्वाद् वचनस्य "रागाल् लोभाद्" (या०ध० २.४) इत्यादिना श्लोकेनापौनरुक्त्यम् । यदा पुनः साक्षिदोषेण व्यवहारस्य दुर्दृष्टत्वं ज्ञातं तदा साक्षिण एव दण्ड्या न जयी नापि सभ्याः । यदा तु राजानुमत्या व्यवहारस्य दुर्दृष्टत्वं ज्ञातं तदा सर्व एव राजसहिताः सभ्यादयो दण्डनीयाः,

"पादो गच्छति कर्तारं पादः साक्षिणम् ऋच्छति ।
पादः सभासदः सर्वान् पादो राजानम् ऋच्छति ॥" (मा०ध० ८.१८)

इति वचनात् । एतच् च प्रत्येकं राजादीनां दोषप्रतिपादनपरं न पुनर् एकस्यैव पापापूर्वस्य विभागाय । यथोक्तम् : "कर्तृसमवायिफलजननस्वभावत्वाद् अपूर्वस्य" इति ॥ २.३०५ ॥

न्यायतो निर्णीतव्यवहारस्य प्रत्यावर्तयितुर् दण्डम् आह ।

यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः ।
तम् आयान्तं पुनर् जित्वा दापयेद् द्विगुणं दमम् ॥ या०ध०२.३०६

यः पुनर् न्यायमार्गेण पराजितोऽप्य् औद्धत्यान् नाहं पराजितोऽस्मीति मन्यते, तम् आयान्तं कूटलेख्याद्युपन्यासेन पुनर् धर्माधिकारिणम् अधितिष्ठन्तम् धर्मेण पुनः पराजयं नीत्वा द्विगुणं दण्डं दापयेत् । नारदेनाप्य् उक्तम् ।

"तीरितं चानुशिष्टं वा यो मन्येत विधर्मतः ।
द्विगुणं दण्डम् आस्थाय तत्कार्यं पुनर् उद्धरेत् ॥" इति । (ना०स्मृ०मा० १.५६)

तीरितं साक्षिलेख्यादिनिर्णीतम् अनुद्धृतदण्डम् । अनुशिष्टम् उद्धृतदण्डम् । दण्डपर्यन्तं नीतम् इति यावत् । यत् पुनर् मनुवचनम् ।

"तीरितं चानुशिष्टं च यत्र क्वचन विद्यते ।
कृतं तद् धर्मतो ज्ञेयं न तत् प्राज्ञो निवर्तयेत् ॥" (मा०ध० ९.२३३)

इति, तद् अर्थिप्रत्यर्थिनोर् अन्यतरवचनाद् व्यवहारस्याधर्मतो वृत्तत्वाशङ्कायां पुनर् द्विगुणदण्डप्रतिज्ञापूर्वकं व्यवहारं प्रवर्तयेत् न पुनर् धर्मतो वृत्तत्वनिश्चयेऽपि राज्ञा लोभादिना प्रवर्तयितव्य इत्य् एवंपरम् । यत् पुनर् ण्र्पान्तरेणापि न्यायापेतं कार्यं निवर्तितं तद् अपि सम्यक्परीक्षणेन धर्म्ये पथि स्थापनीयम्,

"न्यायापेतं यद् अन्येन राज्ञा ज्ञानकृतं भवेत् ।
तद् अप्य् अन्यायविहितं पुनर् न्याये निवेशयेत् ॥" (ना०स्मृ० १८.९)

इति स्मरणात् ॥ २.३०६ ॥

अन्याय्गृहीतदण्डधनस्य गतिम् आह ।

राज्ञान्यायेन यो दण्डो गृहीतो वरुणाय तम् ।
निवेद्य दद्याद् विप्रेभ्यः स्वयं त्रिंशद्गुणीकृतम् ॥ या०ध०२.३०७

अन्यायेन यो दण्डो राज्ञा लोभादिना गृहीतस् तं त्रिंशद्गुणिकृतं वरुणाये दमिति संकल्प्य ब्राह्मणेभ्यः स्वयं दद्यात्, यस्माद् दण्डरूपेण यावत् गृहीतम् अन्यायेन तावत् तस्मै प्रतिदेयम्, इतरथापहारदोषप्रसङ्गात्, अन्यायेन दण्डग्रहणे पूर्वस्वामिनः स्वत्त्वविच्छेदाभावाच् च ॥ २.३०७ ॥

इति श्रीपद्मनाभभट्टोपाध्यायात्मजस्य श्रीमत्परमहंसपरिव्राजकाचार्यविज्ञानेश्वरभट्टारकस्यकृतौ ऋजुमिताक्षरायां याज्ञवल्क्यधर्मशास्त्रविवृतौ द्वितीयोऽध्यायो व्यवहाराख्यः संपूर्णः ॥।