श्रीःश्रीमत्कृष्णयज्वप्रणीता

मीमांसा परिभाषा

मङ्गलम्

श्रीमते वेदपुरुषाय नमः सूर्यनारायणं वन्दे देवीं त्रिपुरसुन्दरीम् । गुरूनधिगतार्थांश्च निरन्तरमहं भजे ॥ १ ॥ बालानां शास्त्रसिद्धार्थलेशबोधाय धीमता । मीमांसापरिभाषेयं क्रियते कृष्णयज्वना ॥ २ ॥

मीमांसाविषयः

इह खलु महर्षिणा जैमिनिना द्वोदशलक्षण्यां पूर्वमीमांसायां धर्माधर्मावेवानुष्ठानोपयोगितया विचारितौ । तत्र वेदबोधितेष्टसाध- नताको धर्मः यथा यागादिः । वेदबोधितानिष्टसाधनताकोs- धर्मः यथा कलेजभक्षणादिः । तयोश्च वेदः, स्मृतिः, आचारश्च प्रमाणम् । तत्र वेदः खतन्त्रं प्रमाणम् ; इतरौ तु वेदमूलकतया ।

वेदद्वैविध्यम्

तत्र वेदो द्विविधः -- मत्ररूपो ब्राह्मणरूपचेति । तत्र प्रयोग- कालीनार्थस्मरणहेतुतया मैत्राणामुपयोग इति वक्ष्यते । प्रयोगो- Sनुष्ठानं तत्कालीनेत्यर्थः । विधायकं वाक्यं ब्राह्मणम् । तच्छेषोऽर्थ- वादः । तस्य विधेयप्राशस्त्यप्रतीतिजननद्वारा विधिवाक्यैकवाक्यतया प्रामाण्यमिति वक्ष्यते ।

ब्राह्मणवाक्यभेदाः

गुण-ब्राह्मणवाक्यं चानेकविधम् — कर्मोत्पत्तिवाक्यं, वाक्यं, फलवाक्यं, फलाय गुणवाक्यं, सगुणकर्मोत्पत्तिवाक्य- मित्यादिभेदात् ।

कर्मोत्पत्तिवाक्यम्

तत्र येन वाक्येन ' इदं कर्म कर्तव्यम्' इति बोध्यते तत् कर्मोत्प- तिवाक्यम्; यथा 'अग्निहोत्रं जुहोति' इति । अत्राग्निहोत्रहोमः कर्तव्यतया विधीयत इति कर्मोत्पत्तिवाक्यमिदम् ।

गुणवाक्यम्

विहिते कर्मणि तदङ्गतया द्रव्यदेवतादिविधायकं वाक्यं गुण- वाक्यम्; यथा 'दध्ना जुहुयात्' इति । अत्र होममुद्दिश्याऽङ्गतया दधि विधीयत इति गुणवाक्यमिदम् । कर्माङ्गतया विहितत्वमेव दध्यादेर्गुणत्वम् । अत्र होमस्योद्देश्यत्वं नाम मानान्तर प्राप्तत्वे सति विधेयान्वयितया निर्देश्यत्वम् । तस्यैव मानान्तरप्राप्तस्य पुनः कथ्य- मानरूपत्वमनुवाद्यत्वम्, दध्यादिगुणान्वयितया प्राधान्यं च । दध्यादेर्मानान्तराप्राप्तत्वादत्रैव विधेयत्वम्, होमसाधनत्वाच्च होमापे - क्षया गुणत्वम्, पुरुषेणानुष्ठीयमानत्वादुपादेयत्वं चेति । अत्र माना- न्तरप्राप्तत्वं मानान्तरज्ञातत्वम्, अप्राप्तत्वं चाज्ञातत्वमिति बोध्यम् ।

फलवाक्यम्

उत्पन्नस्य कर्मणः फलाकाङ्क्षायां फलसंबन्धबोधको विधि: फल- विधिः; यथा 'अग्निहोत्रं जुहुयात् खर्गकामः' इति । अत्र 'यः खर्ग काम- यते स तत्साधनत्वेनाग्निहोत्रनामकं होमं भावयेत् - कुर्यात्' इति अग्नि- होत्रवाक्योत्पन्नस्य कर्मणः फलसंबन्धो बोध्यत इति फलवाक्यमिदम् ।

फलाय गुणवाक्यम्

प्राप्तं कर्माश्रित्य फलाय गुणविधौ फलाय गुणवाक्यम् — यथा 'दनेन्द्रियकामस्य जुहुयात्' इति । अग्निहोत्रवाक्योत्पन्न होममाश्रित्ये- न्द्रियफलाय दधिरूपो गुणो विधीयते -- ' होमाश्रितेन दघ्ना इन्द्रियरूपं फलं भावयेत्' इति । होमाश्रितेन होमकारकीभूतेनेत्यर्थः । अयमेव गुणफलविधिः, गुणकामविधिरिति चोच्यते ।

सगुणकर्मोत्पत्तिवाक्यम्

द्रव्यदेवतादिगुणविशिष्टकर्मविधायकं वाक्यं सगुणकर्मोत्पत्ति- वाक्यम्; यथा 'सोमेन यजेत' इति । अत्र सोमलताविशिष्टो यागो विधीयते । विशिष्टविधावपि विशेषणस्यार्थाद्विधिः ।

सफलकर्मोत्पत्तिवाक्यम्

क्वचित्कर्मोत्पत्तिवाक्यमेव फलसंबन्धबोधकमपि भवति; यथा 'उद्भिदा यजेत पशुकामः' इति । अत्रोद्भिन्नामको यागो वाक्यान्तरविहित एव पशुकामस्य पशुफलाय विधीयत इत्येकमेवेदं वाक्यं फलसाधनया- गविधायकम् ।

प्रयोगविधिः

प्रधानविधिरेवाङ्गविधिभिरेकवाक्यतया महावाक्यतामापन्नः सन् सर्वाङ्गविशिष्टप्रधानप्रयोगविधायकत्वात् प्रयोगविधिरित्युच्यते; यथा 'अग्निहोत्रं जुहुयात् खर्गकाम' इति । अत्र 'अग्निहोत्र होमेन स्वर्ग भावयेत्' इत्यर्थः प्रतीयते । भावयेत् उत्पादयेदिति यावत् । अत्र 'कथमनेन होमेन स्वर्गं कुर्यात्' इति कथंभावाकाङ्क्षा जायते; यथा 'कुठारेण द्वैधीभावं कुर्यात्' इत्युक्ते भवत्याकाङ्क्षा 'कथमनेन द्वैधीभावं कुर्यात्' इति । तत्रोद्यमननिपातनादिसहायेनेति गम्यते, तद्वदत्रापि 'अग्निं प्रणयति', 'अग्निषु समिध आदधाति' इत्याद्यङ्गविधिविहितप्रण- यनसमिदाधानायतनशोधनादिकाङ्गकलापजनितोपकारसहितेनाऽग्निहोत्र- होमेन स्वर्गं कुर्यादिति प्रकरणकल्पितेन होमवाक्येन स्वर्गाय साङ्गाग्नि- होत्रप्रयोगो विधीयत इत्येतादृशः प्रयोगविधिः । अङ्गजातमे- वेत्थंभाव इति, इतिकर्तव्यता इति चोच्यते । अत्राग्निहोत्रहोमः प्रधानं, प्रणयनादिकं सर्वमङ्गम् ।

फलापूर्वकल्पना

नन्विदमनुपपन्नम् ; आशुतरविनाशिनां कर्मणां कालान्तरभाविखर्गा- दिफलसाधनत्वानुपपत्तेरिति चेत्, – मैवम् ; विहितनिषिद्धकर्मणां तत्तद्वाक्यैस्तत्तत्फलसाधनत्वेऽवगते आशुतरविनाशिनां कर्मणां कालान्तरभावि- फलसाधनत्वोपपत्त्यर्थमन्तरा पुण्यपापरूपमपूर्वं कल्प्यते । ततश्च यागा- देरपूर्वद्वारा स्वर्गसाधनत्वं, न साक्षात् । तदेव फलापूर्वम् । तत्करणत्वं च प्राच्योदी च्याङ्ग विशिष्टस्य प्रधानस्य भवति, न प्रधानमात्रस्य । प्रधान- मात्रादेव फलापूर्वजनने फलस्यापि तते एव सिद्धेरङ्गानामानर्थक्यापत्तेः ।

उत्पत्त्यपूर्वकल्पना

ननु सर्वाङ्ग विशिष्टस्य प्रधानस्य पूर्वजनकत्वमयुक्तम्, तच्चाशुतर विना- शिनः प्रधानस्याङ्गसाहित्याभावान्नं संभवतीति चेत्; न; प्रधानकर्मणः स्वरूपेणाङ्गसाहित्याभावेऽपि उत्पत्त्यपूर्वद्वारा साहित्यसंभवात् । प्रधानस्य सर्वाङ्गसाहित्य सिद्ध्यर्थं प्रधानकर्म - परमापूर्वयोर्मध्ये प्रधानमात्रजन्य - मुत्पत्तिनामकं किंचिदपूर्वमस्तीत्यङ्गीकारात् । एवमङ्गानामपि परस्पर- सहितानामेव प्रधानोपकारकत्वात्तेषां स्वरूपेण साहित्याभावात्तत्तदुत्पत्त्य- पूर्वद्वारा साहित्यं बोध्यम् । अङ्गानां प्रधानोपकारकत्वं नाम प्रधानस्य फलापूर्वजननसामर्थ्योन्मुखीकरणमेव । दर्शपूर्णमासयोस्तु विशेषः 'यदाग्नेयोऽष्टाकपालोमावास्यायां च पौर्णमास्यां चाच्युतो भवति' इत्याग्नेययागो विहितः, 'ताभ्यामेतमभीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छत्' इत्यग्नीषोमीययागो विहितः, 'उपांशुयाजमन्तरा यजति ' इत्युपांशुयागः ‘तावब्रूतामनीषोमावाज्यस्यैव नावुपांशु पौर्णमास्यां यजन्‍ इति वाक्यात्पौर्णमास्यां विहितः । एतानि पौर्णमास्यां प्रधानानि । एषामायाम्नीषोमीयोपांशुयोगानां तत्तद्वाक्यावगतपौर्णमासीकाल संबन्ध निमित्तीकृत्य 'य एवं विद्वान्पौर्णमासीं यजते' इति विद्वद्वाक्ये पौर्ण- मासीपदेनैकवचनान्तेन समुदायरूपेणानुवादः । तेन वेदे यत्र यत्र पौर्णमासीशब्दस्तत्रतत्रामेयादिसमुदायोपस्थितिः ।

यजिपदाश्रवणेऽपि यागविधानम्

ननु 'यदाग्नेयम्' इति वाक्ये यागवाचकपदस्याश्रवणात्कथं याग- विधायकत्वमिति चेत्, – मैवम्; अग्निर्देवता अस्य पुरोडाशस्येत्यर्थे विहितदेवतातद्धितान्त 'आग्नेय' शब्द: । तस्य पुरोडाशपदसामानाधिकर- ण्याद्रव्यदेवतासंबन्धोऽवगतः । स यागमन्तरा न संभवति, द्रव्यदेवतासंब- न्धस्य यागादन्यत्र क्रियायामसंभवात् यागक्रियायामेव संबन्धो वाच्यः । देवतोद्देशेन द्रव्यत्यागस्य यागरूपत्वाङ्गीकारात् । अतः श्रुतद्रव्य- देवतासंबन्धानुमितो यागो यजेतेति कल्पितपदेन विधीयते - अग्नि- दैवत्यपुरोडाशद्रव्यकामावास्यादिकाल कर्तव्ययागेनेष्टं भावयेदिति, एवं यत्र यत्र द्रव्यदेवतासंबन्धमात्रं श्रूयते 'सौर्यं चरुं निर्वपेत्' इत्यादौ, तत्र सूर्यदेवताच रुद्रव्यसंबन्धानुमितो यागो विधीयत इति न कश्चिद्दोषः ।

लिङ्प्रत्ययाद्यभावेऽपि विधायकत्वम्

ननूपांशुयागवाक्ये यजेः श्रवणेऽपि विधिप्रत्ययलिङादेरभावात्कथं विधायकत्वमिति चेत्,-मैवम् ; 'यजति' इत्यस्य 'यजेत' इति विपरिणा- मेन विधायकत्वसंभवात् । एवं 'श्रीहीन् प्रोक्षति', 'समिधो यजति' इत्या- दावपि विपरिणामो बोध्यः । केचित्तु – 'यजति' इत्यस्य पञ्चमलकार - त्वाङ्गीकाराद्विधायकत्वसंभव इत्याहुः । तथा 'ऐन्द्रं दध्यमावास्यायां ' 'ऐन्द्रं पयोऽमावास्यायाम्' इति वाक्य- विहितौ, सांनाय्ययागौ 'यदाग्नेयम् -' इति वाक्य विहिताग्नेयश्चामावा- स्थायां प्रधानानि । एतेषां त्रयाणां 'य एवं विद्वानमावास्यां यजते' इति वाक्ये अमा- चास्यामिति नाम्ना द्वितीयैकवचनान्तेन समुदायरूपेणानुवादः । तेन वेदे यत्र 'दर्श' शब्द : 'अमावास्या ' शब्दो वा श्रुतस्तत्र यागसमुदायोपस्थितिः । त्रिकस्य त्रिकस्यामावास्या पौर्णमासीशब्दाभ्यां समुदायरूपेण विद्व- द्वाक्येऽनुवादस्य प्रयोजनं तु ' दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत ' इत्यादौ द्विवचनोपपत्तिः; अन्यथा षण्णामामेयादियागानां बहुत्वात् 'दर्शपूर्णमासैः' इति बहुवचनं स्यात् । मानान्तरेण प्राप्तार्थस्य पुनः श्रवण- मनुवादः । तथा फलवदामेयादिसंनिधावान्नातानि प्रयाजाज्यभागानुयाजादीनि षण्णां यागानामङ्गभूतानि ।

त्रिकापूर्वाद्युत्पत्तिः

एवं स्थिते ' दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इत्यस्यायमर्थः दर्शपूर्णमासाभ्यां समुदायाभ्यां परस्परसहिताभ्यां स्वर्गापूर्वं कुर्यादिति । तत्र कथं कालद्वयवर्तिनोः समुदाययोः परस्परसाहित्यमित्याकाङ्क्षायां स्वरू- पेण साहित्याभावेऽपि त्रिकात्रिका देकैकमपूर्वं जायते, तद्वारा द्वयोः समुदाययोः साहित्यमुच्यते । एकैकस्य त्रिकस्यापि त्रिका पूर्वजन- कत्वं कथमित्याकाङ्क्षायां प्रयाजानुयाजादिपूर्वोत्तराङ्गकलापविशिष्टस्यैकैक- स्य त्रिकस्य समुदायापूर्वजनकत्वमुच्यते । एकैकत्रिकस्य सर्वाङ्गसा- हित्यं खरूपेण न संभवतीति त्रिभिर्यागैस्त्रीव्युत्पत्त्य पूर्वाणि जायन्ते, तद्वारा सर्वाङ्गसाहित्यम् । अङ्गानामपि प्रयाजादीनां स्वरूपेण प्रधानसाहि- त्याभावात्तत्तदुत्पत्त्य पूर्वद्वारा साहित्यं वाच्यम् । तथा च प्रधानजन्योत्प- त्यपूर्वाणां प्रयाजादिजन्योत्पत्त्यपूर्वैः साहित्यं यदस्ति तदेव प्रधानाना- मङ्गविशिष्टत्वरूपं साङ्गत्वम् । एवं च पौर्णमास्यामा मेयादिजन्यैस्त्रिभि- रपूर्वैः प्रयाजादिजन्योत्पत्त्यपूर्वसचिवैः समुदायापूर्वमेकं जन्यते, तथा दर्शेऽपि आग्नेयैन्द्रद्वयजन्यस्त्रिभिरपूर्वैरङ्गोत्पत्त्यपूर्वसचिवैरेकं त्रिकापूर्वं जन्यते, ताभ्यां त्रिकापूर्वाभ्यां आग्नेयाद्युत्पत्त्यपूर्वत्रितयजन्याभ्यां फल- जनकीभूतं महापूर्वं फलापूर्वनामकं जन्यते, ततश्च फलमिति । तथा च सर्वाङ्गोपकृताभ्यां दर्शपूर्णमासाभ्यामपूर्वद्वारा स्वर्गं कुर्यादिति फलापूर्व- निष्पत्तये साङ्गप्रधान कर्तव्यताबोधको विधिः प्रयोगविधिरिति सिद्धम् ।

विधित्रैविध्यम्

पुनरपि विधिस्त्रिविधः -- अपूर्वविधिः, नियमविधिः, परि- संख्याविधिश्वेति ।

अपूर्वविधिः

तत्र यो विधिरत्यन्ताप्राप्तमर्थं प्रापयति सः अपूर्वविधिः यथा दर्शपूर्णमासप्रकरणे 'श्रीहीन् प्रोक्षति' इति । एतद्विध्यभावे दर्शपूर्णमासीय-व्रीहिषु प्रोक्षणं कथमपि न प्राप्नोति । एतद्विधिसत्त्वे तु तत्संबन्धि- व्रीहिषु प्रोक्षणं प्राप्नोत्येवेत्यत्यन्ताप्राप्तप्रोक्षणप्रापकत्वादयमपूर्वविधिः ।

नियमविधिः

यश्च पक्षे प्राप्तमर्थं नियमयति स नियमविधिः यथा तत्रैव ' त्री- ही नवहन्ति' इति । एतद्विध्यभावे दर्शपौर्णमासिकेषु व्रीहिषूत्पत्तिवाक्या- बगतपुरोडाशोपयोगितण्डुलनिष्पत्त्यनुकूलवैतुष्यकार्यायाऽवहननवत् क- दाचिन्नखविदलनमपि प्राप्नुयादिति, तस्मिन्पक्षेऽवहननस्य प्राप्तेरभावात् कार्यान्यथोपपत्तेरवहननस्य पाक्षिकी प्राप्तिः स्यात् । सति त्वस्मिन्विधौ अव- हननेनैव वैतुष्यं कार्यमिति नियमे सति विदलनं सर्वात्मना निवर्तत इति नियमविधिरयम् । नच वैतुष्यस्य नखविदलनेनापि संभवादवहनननियमो व्यर्थः, प्रयो- जनाभावादिति वाच्यम् । अवघातेनैव वैतुप्यकरणे किंचिददृष्टं जन्यत इति नियमादृष्टाङ्गीकारात्, नियमेन दृष्टकार्यालाभेऽप्यदृष्टस्योत्पत्तेः । तच्चापूर्वं यागोत्पत्त्यपूर्वद्वारा फलापूर्वे उपयुज्यते; तेन नियमापूर्वीभावे फलापूर्वमेव नोत्पद्यत इति कल्पनान्नियमापूर्वस्य न वैयर्थ्यम् । एवं सोमयादिनियमेऽपि बोध्यम् ।

परिसंख्याविधिः

द्वयोः समुच्चित्य प्राप्तावितरनिवृत्तिफलको विधिः परिसंख्या- विधिः- यथा चयनप्रकरणे 'इमामगृभ्णैशनामृतस्येत्यश्वाभिधानीमा- दत्ते' इत्यश्वरशनाग्रहणाङ्गत्वेन मन्त्रविधिः । एतद्विध्यभावे हि रशनाग्र- हणप्रकाशको मन्त्रो रशनाऽऽदानप्रकाशनसामर्थ्यरूपाल्लिङ्गादश्वरशनाss- दान इव गर्दभरशनाऽऽदानेऽपि प्राप्नुयात् । सत्यस्मिन्विधौ अनेन मन्त्रे- णाश्वरशनामेवाददीत नतु गर्दभरशनाम् ; सा तु तूष्णीमेव ग्राह्येति गर्दभरशनायां मन्त्रनिवृत्तिर्भवतीति द्वयोः समुच्चित्य प्राप्त वितरनिवृत्ति- फलकत्वादयं परिसंख्याविधिः । एवं 'पञ्च पञ्चनखा भक्ष्याः' इत्या- दावपि बोध्यम् ।


श्रुतिलिङ्गादिषट्प्रमाणानि

पूर्वं दर्शपूर्णमासाङ्गत्वं प्रयाजादीनामुक्तम् । तत्राङ्गत्वबोधक- प्रमाणानि —–श्रुति - लिङ्ग वाक्य - प्रकरण - स्थान -समाख्या-भेदेन षट् । श्रुत्युदाहरणम् तत्र 'दध्ना जुहुयात्' इत्यत्राऽग्निहोत्रवाक्यप्राप्तं होमं जुहुयादित्यनेनो- द्दिश्य तत्करणत्वेन तृतीयाश्रुत्या दधि विधीयत इति श्रुत्या दनोऽङ्गत्वम् । लिङोदाहरणम् लिङ्गं नाम सामर्थ्यम्। तच्च द्विविधम्-अर्थगतं शब्दगतं चेति । आद्यं यथा 'सुवेणावद्यति' इत्यवदानसामान्यशेषत्वावगमेऽपिस्रु वस्य सामर्थ्यरूपाल्लिङ्गादाज्यसांनाय्यादिद्रवद्रव्यस्यावदानविशेषाङ्गत्वम् ; स्रुवेण पुरोडाशाद्यवदानस्य कर्तुमशक्यत्वात् । शब्दगतं तु लिङ्ग अर्थप्रकाश- नसामर्थ्यम् । यथा 'अग्नये त्वा जुष्टं निर्वपामि' इति मन्त्रस्य निर्वापप्रका- शनसामर्थ्यरूपाल्लिङ्गान्निर्वापाङ्गत्वम् । यस्य मन्त्रस्य यत्प्रकाशन सामर्थ्य तस्य तदङ्गत्वम् । यथा 'बेर्हिर्देवसदनं दामि' इति मन्त्रस्य बर्हिर्लवनप्रकाशन- सामर्थ्यमिति शब्दसामर्थ्य रूपाल्लिङ्गाद्दर्भलवनाङ्गेत्वम् ॥

वाक्योदाहरणम्

पदान्तरसमभिव्याहारो वाक्यम् - यथा 'ईंषे त्वेति छिनत्ति इति । अत्र छेदनाङ्गत्वेन 'इषे त्वा' इति मन्त्रो वाक्येन विधीयते । यद्वा 'अग्नये त्वा जुष्टम्' इत्यत्रैव अग्नये त्वा जुष्टमित्यादीनां पदानां 'निर्वनामि' इत्यने- नैकवाक्यतापन्नत्वान्निर्वापाङ्गत्वम् ।

प्रकरणोदाहरणम्

प्रकरणं नाम परस्पराकाङ्क्षा -- यथा ' दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' इति । अत्र ' दर्शपूर्णमासाभ्यां स्वर्गापूर्वं कुर्यात् इत्युक्ते भवत्या- काङ्क्षा — कथमाभ्यां स्वर्गापूर्वं कर्तव्यमिति । तथा फलवदाग्नेयादिसंनिधौ 'समिधो यजति', 'तनूनपातं यजति', 'आज्यभागौ यजति' इत्या- दिभिः प्रयाजादयः फलरहिताः श्रुताः, तेषां स्ववाक्येषु फलाश्रवणाद्भवति प्रयोजनाकाङ्क्षा - किमेतेषां प्रयोजनमिति । ततश्च प्रयाजादीनां प्रयो- जनाकाङ्क्षायां दर्शपूर्णमासयोः कथंभावाकाङ्क्षायां परस्पराकाङ्गालक्षणेन प्रकरणेन प्रयाजादीनां सर्वेषां दर्शपौर्णमासाङ्गत्वं निश्चीयते ।

स्थानोदाहरणम्

स्थानं नाम संनिधिः; यथा सांनाय्यपात्र संनिधौ ' शुन्धध्वम्' इति मन्त्रस्य पाठात् संनिधानात्सांनाय्य पात्रप्रोक्षणाङ्गत्वम् ।

समाख्योदाहरणम्

समाख्या यौगिकी संज्ञा; यथा अध्वर्युकाण्डप्रतिपादिते कर्मजाते आध्वर्यवसमाख्यावशादध्वर्योः कर्तृत्वेनाङ्गत्वम्, तथा 'ऐन्द्रानमेकादश- कपालं निर्वपेत्प्रजाकामः' इत्यादिषु काम्येष्टिसमाख्यातेष्वैन्द्राग्नादियागेषु काम्येष्टियाज्यानुवाक्याकाण्ड समाख्यावशात् ' उभा वामिन्द्रानी' इत्या- दीनां याज्यानुवाक्यत्वेन विनियोगः । विनियोगो नामाङ्गत्वेनान्वयः ।

श्रुत्यादीनां संनिपाते बलाबलम्

श्रुत्यादीनामेकत्र समावेशे पूर्वपूर्वस्य प्राबल्यमुत्तरोत्तरस्य दौर्बल्यम् । . यथा ' कदाचन स्तरीरसीत्यैन्या गार्हपत्यमुपतिष्ठते' इत्यग्निहोत्रप्रकरणे श्रूयते । तत्र मन्त्रस्येन्द्रप्रकाशन सामर्थ्यरूपाल्लिङ्गादिन्द्रोपस्थानाङ्गत्वे प्राप्ते 'ऐन्या' इति तृतीयाश्रुत्या 'गार्हपत्यम्' इति द्वितीयाश्रुत्या च गाई- पत्योपस्थानाङ्गत्वेन विधानाल्लैङ्गिक इन्द्रोपस्थाने, विनियोनो बाध्यते । श्रुतिर्हि स्वतो विनियोजिका । लिङ्गं त्विन्द्रप्रकाशनसामर्थ्य- मालोच्य ऐन्द्येन्द्रमुपतिष्ठते' इति श्रुतिकल्पनाद्वारा विनियोजक मिति वाच्यम्; तच्चात्र न संभवति । यत्र श्रुतिविनियोगो नास्ति 'अग्नये जुष्टं निर्वपामि' इत्यादौ, तत्र मन्त्रस्य निर्वापप्रकाशनसामर्थ्यमालोच्य 'अनेन मन्त्रेण निर्वापं कुर्यात् ' इति श्रुतिकल्पनाद्वारा लिङ्गं विनि- योजकं भवत्येव श्रुतिकल्पनाप्रतिबन्धकाभावात् ।

लिङ्गादिप्राबल्यविचारः

तथा 'स्योनं ते सदनं कृणोमि' 'तस्मिन्सीद' इत्यत्र तस्मिन्निति तच्छ- ब्दस्य पूर्ववाक्यार्थसापेक्षतया एकवाक्यत्वभानाद्वाक्यप्रमाणेन द्वयोरेक- मन्त्रत्वं भाति, लिङ्गेन तु भिन्नमन्त्रत्वं भाति । आद्यस्य सदनप्रकाशन- सामर्थ्यात् 'तस्मिन्सीद' इत्यस्य सादनप्रकाशकत्वात् । तत्र वाक्यापेक्षया लिङ्गस्य प्राबल्याद्वाक्यं बाधित्वा लिङ्गेन 'स्योनं ते' इत्यस्य सदनाङ्गत्वं ' तस्मिन्सीद' इत्यस्य सादनाङ्गत्वमिति निर्णयः । ' स्योनं ते ' इत्यस्य 'तस्मिन्सीद’इत्यनेनैकवाक्यत्वबलाद्यथाकथंचित्सादनसामर्थ्य रूपं लिङ्गं कल्पयित्वा ‘अनेन विशिष्टमन्त्रेण सादनं कुर्यात्' इति श्रुतिः कल्पनीया । सदनप्रकाशन रूपप्रत्यक्षलिङ्गेन कल्पितया 'स्योनं त इत्यनेन सदनं कुर्यात्' इति श्रुत्या 'स्योनं ते' इत्यस्य शीघ्रं सदने विनियोगे सति तेनैव मन्त्रस्य नैराकाङ्क्षयाद्वाक्यप्रमाणाल्लिङ्गं कल्पयित्वा श्रुतिकल्पना प्रतिबध्यते विलम्बितत्वादिति लिङ्गेन वाक्यस्य बाधः । एवं वाक्येन प्रकरणस्य, प्रकरणात्क्रमस्य क्रमात्समाख्यायाश्च बाधो वेदितव्यः । तथा श्रुत्या वाक्यादेरपि बाधः । तदेवमङ्गताबोधकप्रमाणानि श्रुत्यादीनि निरूपितानि ।

अङ्गलक्षणम्

तच्चाङ्गत्वं शेषत्वम् । पारार्थ्यमिति यावत् । परोद्देशेन प्रवृत्त- कृतिव्याप्यत्वं पारार्थ्यम् । प्रयाजादीनां दर्शपूर्णमासोद्देशेन प्रवृत्तपुरुष- कृतिव्याप्यत्वाल्लक्षणसङ्गतिः । दर्शादेः प्रयाजाद्युद्देशेन प्रवृत्तकृति विषयत्वा- भावान्नातिव्याप्तिः । केवलप्रयाजानुद्दिश्य कस्यचिदपि पुरुषस्याप्रवृत्तेः ।

अङ्गद्वैविध्यम्

तान्यङ्गानि द्विविधानि - संनिपत्योपकारकाणि, आरादुप- कारकाणि चेति । यान्यङ्गानि साक्षात्परम्परया वा प्रधानयागशरीरं निष्पाद्य तद्वारा तदुत्पत्त्यपूर्वोपयोगीनि तानि संनिपत्योपकारकाणि; यथा व्रीह्यादिद्रव्याणि तत्संयुक्तावहननप्रोक्षणादीनि, अम्यादिदेवतात्तत्संयुक्तया- ज्यानुवाक्यावचनादीनि च । अत्र प्रोक्षणा देवहिगतातिशयद्वारा, अवह- ननादेस्तुषविमोकादिरूपदृष्टद्वारा, बीद्यादीनां पिष्टद्वारा पुरोडाशनिष्पा- दकत्वं, तद्वारा यागशरीरतदुत्पत्त्य पूर्व हेतुत्वं च । याज्यानुवाक्यादेर्देवता- संस्कारद्वारा देवतायाश्च साक्षाद्यागशरीरनिर्वर्तकत्वं, तद्वारा तदुत्प- त्यपूर्वोपयोगित्वं च । यागस्य देवतोद्देशेन द्रव्यत्यागरूपत्वात् 'द्रव्य- देवते हि यागस्वरूपम्' इति सिद्धान्ताच्च । एतान्येव सामवायिका- नीत्युच्यन्ते । आत्मसमवेतापूर्वजनकान्यारादुपकारकाणि - यथा प्रयाजाज्यभा- गानूयाजादीनि । एतानि द्रव्यगतं देवतागतं वा संस्कारं न जनयन्ति, किंत्वात्मगतमदृष्टं जनयन्तीत्यारादुपकारकाणि ।

कर्मद्वैविध्यम्

तत्र सामान्यतः कर्म द्विविधम् — अर्थकर्म, गुणकर्म चेति । अर्थकर्मलक्षणम् तत्र आत्मगतापूर्वजनकं कर्माऽर्थकर्म -- यथाऽग्निहोत्रदर्शपूर्णमास- प्रयाजादिकम् ।

गुणकर्मद्वैविध्यम्

गुणकर्म संस्कारजनकम् । तच्च द्विविधम् - उपयुक्तसंस्कारकं, उपयोक्ष्यमाण संस्कारकं च ।

उपयुक्तसंस्कारकम्

तत्र उपयुक्तसंस्कारकं प्रतिपत्तिकर्म । 'उपयुक्तस्य आकीर्णकरस्य द्रव्यस्य विहितदेशे प्रक्षेपः प्रतिपत्ति' रिति लक्षणात् । यथा इडाभक्षण- कृष्णविषाणाप्रासन - चतुरवत्तहोमादिकम् । नन्विडाभक्षणस्य प्रधानयागोपयुक्ता कीर्णकरपुरोडाशद्रव्यप्रक्षेपात्म- कत्वात्प्रतिपत्तित्वं युक्तम्, होमस्य तु यागोपयुक्तद्रव्यसंस्कारकत्वाभावात्कथं प्रतिपत्तित्वम्, होमस्य यागसमानकालीनत्वेन होमसंस्कार्यस्य चतुरवत्तादेरुपयुक्तत्वाभावादिति चेत् । अत्राहुः - उपयुक्त संस्कार- मात्रं प्रतिपत्तिः, नतु प्रधानयागोपयुक्तत्वम् । तथा सति पशोर्विशसना- नन्तरं वपाहृदयाद्युद्धरणकालकर्तव्यलोहितशकृन्निरसनस्य प्रतिपत्तित्वा- भावप्रसङ्गात् यागोपयुक्तद्रव्यप्रक्षेपरूपत्वाभावात् । तथा कृष्णविषाणा- प्रासनस्यापि प्रतिपत्तित्वं न स्यात् यागाङ्गभूतकण्डूयनोपयुक्तत्वेऽपि यागोपयुक्तत्वाभावात् । अतो यत्र वचनोपयोगमात्रं विवक्षितम्, यत्र क्वचिदुपयोगस्त्वत्राप्यस्ति, वपाहृदयाद्युद्धरणेनोपयुक्तस्य पशोः संबन्धिनः शकृल्लोहितस्याऽऽकीर्णकरस्य प्रतिपत्त्यपेक्षत्वात् । एवं यथाकथंचिदुप- योगो होमस्थलेऽप्यस्ति । तथा हि, प्रतिपत्तिस्त्रिधा — प्रधानोत्तरकाला, प्रधानसम काला, प्रधानपूर्वकाला चेति । तत्राद्या इडाभक्षणादिका । द्वितीया होमादिका । तथा हि-दर्शपूर्णमासप्रकरणे श्रूयते ' सकृ- दुपस्तृणाति' द्विर्हविषोऽवद्यति, ' ' सकृदभिघारयति', 'चतुरवत्तं जुहोति' इति । तत्र चतुरवत्तवाक्ये होमानुवादेन चतुरवत्तद्रव्यं तत्साधनत्वेन न विधीयते, होमस्या प्राप्तत्वेनानुवादासंभवात् । नच 'यदान' वाक्याद्धोमप्राप्तिः; तद्वाक्यस्य यागविधायकत्वात् । नच यागहोमयोरभेद इति वाच्यम्; देवतोद्देशेन द्रव्यत्यागस्य याग- शब्दार्थत्वात् । प्रक्षेपस्य होमशब्दार्थत्वात् । तत्राग्नेयचोदनया यागस्य प्राप्तत्वेऽपि प्रक्षेपस्य शक्त्याऽप्राप्तत्वेनानुवादासंभवात्, किंतूपस्तरण-द्विर- वदाना-ऽभिघारणवाक्यैः प्राप्तं चतुरवत्तमुद्दिश्य तत्संस्कारत्वेन प्रक्षेपो जुहोतीत्यनेन विधीयते । स च संस्कारः प्रतिपत्तिरूप एव । अग्नये जुष्ट- मभिघारयामि' इत्यादि निर्देशैर्या गाङ्गभूताम्यादिदेवतार्थतया यथाकथंचि- दुपयुक्तस्य पुरोडाशस्य प्रतिपत्त्यपेक्षया तदवयवयवदान कर्मकप्रक्षेपस्य प्रतिपत्तिकर्मत्वौचित्यात् । स च संस्कारः प्रधानसमकालः । होमो हि ' वषट्कृते जुहोति' इति विधानाद्वषट्कारोत्तरक्षणे अध्वर्युणा कर्तव्यः । यागोऽपि तस्मिन्नेव क्षणे यागस्मरणार्थेन वषद्वारेण स्मारितः सन् यजमानेनानुष्ठेय इति तयोर्यो - गपद्यसंभवात् । तदिदं सर्वप्रदानाधिकरणवार्तिके स्थितम् । प्रधानपूर्वकाला प्रतिपत्तिर्यथा - ' शकृत्संप्रविध्यति' ' लोहितं निरस्यति' इति शक्कृत्संप्रवेधनलोहितनिरसने । इदमपि 'पशावनालम्भाल्लो- हितशकृतोरकर्मत्वम्' इत्येधिकरणे स्थितम् ।

उपयोक्ष्यमाणसंस्कारभेदाः

उपयोक्ष्यमाणसंस्कारोऽप्यनेकविधः - साक्षाद्विनियुक्त- संस्कार: । साक्षाद्विनियुक्तस्य यदुपकारकं तत्संस्कारः, विनियोक्ष्यमाण संस्कारश्चेति । तत्र आद्यो यथा - 'त्रीहीन- वहन्ति' इत्यादिः । ' व्रीहिभिर्यजेत' इति वाक्यविनियुक्तत्रीहीणामवहनन- संस्कारः ॥ द्वितीयो यथा - 'वत्समालभेत ' इति । दोहाङ्गत्वेन साक्षा- द्विनियुक्तस्य गोद्रव्यस्योपकारको यो वत्सः तत्संस्कारकमिदमालम्भ- नम् ॥ तृतीयो यथा - ' तप्ते पयसि दध्यानयति' इति । अत्र 'सा वैश्वदेव्यामिक्षा' इति वाक्येन तच्छब्देन निर्दिश्य वैश्वदेवयागाङ्ग- त्वेन विनियोक्ष्यमाणं यत्पयस्तत्संस्कारकत्वाद्विनियोक्ष्यमाण संस्कारकं दध्यानयनम् । पशुपुरोडाशयाग स्तूपयुक्तोपयोक्ष्यमाणदेवतासंस्कारार्थः, त्यागांशे अदृष्टार्थश्च । अत्र तत्संस्कायनीषोमदेवताया वपायागे उपयु- क्तार्थत्वात् हृदयाद्यङ्गयागेषु उपयोक्ष्यमाणत्वाच्च । स्विष्टकृद्यागो द्रव्यांशे देवतांशे चोपयुक्तसंस्कारार्थः, त्यागांशे अदृष्टार्थश्च । सूक्तवाकसाधनं प्रहरणमपि तथैव । उत्तमप्रयाजो यक्ष्यमाणदेवतासंस्कारत्वात्तदंशे उप- योक्ष्यमाणसंस्कारः, इतरांशे अदृष्टार्थः । हृदयादिहविर्यागात्पूर्वं क्रिय- माणो वसाहोमोऽपि वसांशे प्रतिपत्तिः, इतरांशे अदृष्टार्थ इत्याह्यम् ।

प्रतिपत्तेर्लक्षणान्तरम्

केचित्तु - उपयोक्ष्यमाणसंस्कारभिन्नसंस्कारकर्मत्वं प्रतिपत्तिकर्म- त्वम् । चतुरवत्तद्रव्यस्य होमेन भस्मीभूतस्य होमानन्तरमुपयोक्ष्यमाणत्वा- भावात् तद्भिन्नत्वं होमेऽस्तीति लक्षणसंगतिरित्याहुः ।

अर्थगुणकर्मणोः प्राधान्यम्

अत्रायं विशेषः -- अर्थकर्मणि द्रव्यापेक्षया कर्मणः प्राधान्यम् । कर्मणि द्रव्यस्य गुणत्वम् । यथाऽग्निहोत्रादौ दध्यादेर्गुणत्वम् । गुण- कर्मणि द्रव्यस्य प्राधान्यं द्रव्ये च कर्मणो गुणत्वम् । 'श्रीहीन् प्रोक्षति, अवहन्ति' इत्यादौ द्वितीयया व्रीहीणां क्रियासाध्यत्वप्रतीतेः क्रियापेक्षया द्रव्यस्य प्राधान्यं प्रोक्षणादिक्रियायास्तदपेक्षया गुणत्वमिति ।

गुणकर्मणश्चातुर्विध्यम्

पुनरपि गुणकर्म चतुर्विधम् उत्पत्ति - आप्ति विकृति-सं- उत्पत्ति-आप्तिस्कृतिभेदात् । तत्रोत्पत्तिसंस्कारो यथा - 'अग्नीनादकीत' इति । मन्त्रविशेषैः संभारेषु निधापिता अप्याहवनीयादय उत्पद्यन्त इत्याहवनीयाद्युत्प- त्तिहेतुभूतसंस्कारत्वादाधानस्य उत्पत्तिसंस्कारत्वम् ॥ आप्तिसंस्कारो यथा - 'स्वाध्यायोऽध्येतव्यः' इति । अध्ययनेन स्वाध्याय आप्यत इत्याप्तिसंस्कारोऽयम् ॥ विकृतिर्यथा - ' श्रीहीनवहन्ति' इति त्रीहिगतवैतुप्यरूपविकृति- जनकत्वादवहननं विकृतिसंस्कारकम् ॥ संस्कृतिर्यथा - 'त्रीहीन् प्रोक्षति' इति । [ अत्र प्रोक्षणस्य त्रीहि- गतातिशयरूपसंस्कृतिजनकत्वात्संस्कृतिरूपगुणकर्मत्वम् ।] अत्राधान- मध्ययनं च स्वतन्त्रं गुणकर्म, नतु ऋत्वङ्गम् । प्रोक्षणादिकं सर्वं ऋत्व गुणकर्मेति ध्येयम् ।

अर्थकर्मणस्त्रैविध्यम

अर्थकर्म त्रिविधम्- नित्य नैमित्तिक काम्यभेदात् । तंत्र 'यावज्जीवमग्निहोत्रं जुहोति', 'सायं जुहोति', 'प्रातर्जुहोति' इति जीवता पुरुषेण सायंप्रातः कालयोर्नियमेन कर्तव्यतयाऽवगतम मिहोत्रादिकं नित्यम् । 'अम्मये पथिकृते पुरोडाशमष्टाकपालं निर्वपेत्' इति दर्शपूर्ण - मासातिपत्तिनिमित्तत्रपथिकदिष्ट्यादिकं नैमित्तिकम् । नित्यनैमित्तिकयोरकरणे प्रत्यवाय एव । कृते फलं नास्तीति । केचित् । अन्ये तु — दुरितनिवृत्तिः फलमस्ति; 'नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम्' इत्यादिवाक्यैः प्रत्यवायनिवृत्तेः फलत्वेन श्रूयमाणत्वात् । नचैवं तयोरपि काम्यत्वापत्तिः फलवत्त्वादिति वाच्यम्; फलकाम- नापूर्वकानुष्ठानाभावात् । तत्तद्विधिवाक्ये फलकाममुद्दिश्य तदर्थफलसा - धनत्वेन विधानाभावाच्च काम्यत्वानुपपत्तेः ।

काम्यकर्मणस्त्रैविध्यम्

काम्यमपि कर्म त्रिविधम् — केवलमैहिकफलकम्, आमुष्मि- कफलकम्, ऐहिकामुष्मिकफलकं चेति । तत्राद्यं यथा - कारी- यदि । तत् तत्समयवर्तिशुष्यत्सस्यसंजीवन हेतुवृष्टिकामिना क्रियते, न कालान्तरभाविवृष्टिकामेन जन्मान्तरीयवृष्टिकामेन वा ॥ केवलामुष्मिक फलकं यथा – स्वर्गाद्यर्थं दर्शपूर्णम | सादिकम् । स्वर्गस्य इहलोकभोग्यत्वाभावात् ॥ ऐहिकामुष्मिक साधारणफलकं यथा - ' वायव्यं श्वेतमालभेत भूतिकामः' इति भूत्यादिफलक मित्यन्यत्र विस्तरः ।

वेदस्यालौकिकार्थबोधकत्वम्

ननु दर्शपूर्णमासादिकर्मणां व्रीह्यादिद्रव्याणां च प्रत्यक्षत्वेन लौकिक- त्वात्कथं वेदस्या लौकिकार्थबोधकत्वमिति चेत्, न कर्मणां प्रत्यक्षत्वेऽपि तेषां स्वर्गादिफलसाधनत्वमप्रत्यक्षमिति 'तत्फलसाधनतया तत् कर्म कर्तव्यम्' इत्येवं फलसाधनतया कर्मकर्तव्यताबोधकस्य वेदस्या लौकिकार्थ- बोधकत्वात् । एवं त्रीह्यादीनां यागादिक्रियासाधनत्वं न प्रत्यक्षवेद्यमिति तद्बोधकस्यापि वेदवाक्यस्यालौकिकार्थबोधकत्वमिति न दोषः ।

विधेर्विधायकत्वप्रकारः

इदानीं विधिवाक्यस्य विधायकत्वप्रकारः कथ्यते । तत्र 'स्वर्गकामो यजेत' इत्यत्र यजिधातोरुपरितने तप्रत्यये धर्मद्वयमस्ति — आख्यातत्वं, लिङ्त्वं चेति । तत्राख्यातत्वं सर्वलकार साधारणम्, तदवच्छेदेन लिंत्ययः पुरुषप्रवृत्तिरूपामर्थभावनां प्रतिपादयति ।

आर्थी भावना

सा चार्थभावना किं, केन, कथमिति अंशत्रयविशिष्टा । तथा हि-यजेतेत्यत्र प्रथमं प्रत्यनेन 'भावयेत्' इति प्रतीयते । सुबन्ताभि- हितानां सर्वेषां कारकाणां तिङन्तार्थक्रियान्वयनियमे सति तिङन्तार्थस्य प्राधान्यात् । तत्र च प्रकृत्यर्थापेक्षया प्रत्ययार्थस्य प्राधान्यात्प्रथमं प्रत्ययार्थभावनाया उपस्थितिर्युक्ता । ततः करोति — समानार्थक- भावयतेः सकर्मकत्वात् ‘किं भावयेत्' इति कर्माकाङ्क्षायां भिन्नपदो- पात्तोऽपि खर्गो भाव्यत्वेनान्वेति । भाव्यत्वेन कर्मत्वेनेत्यर्थः । साध्य- त्वेनेति यावत् । नतु समानपदोपात्तोऽपि धात्वर्थो भाव्यत्वेनान्वेति । दुःखात्मकस्य यागस्येप्सिततमत्वरूपकर्मत्वायोग्यत्वात् । खर्गस्य त्वानन्दा- । त्मत्वेनेप्सिततमतया कर्मत्वेनान्वययोग्यत्वात् । ततश्च 'स्वर्गं भावयेत्' इति बोधो भवति । ततः 'केन' इति करणाकाङ्क्षायां समानपदोपात्तो यागः करणत्वेनान्वेति — ' यागेन स्वर्गं कुर्यात्' इति । ततः 'कथं यागेन स्वर्ग कुर्यात्' इति कैथंभावाकाङ्क्षायाम् अभ्यन्वाधाना वहननादिजन्यदृष्टोपका - रेण प्रयाजा दिजनितादृष्टोपकारेण च सहितेन यागेन स्वर्गं कुर्यादिति अभ्यन्वाधानप्रयाजादिकमङ्गजातमितिकर्तव्यतयान्वेति । कथंभावाकाङ्क्षा पू- रकत्वमितिकर्तव्यतात्वम् । यथा 'ओदनकामः पचेत्' इत्यत्र लिङा भावना प्रतीयते । 'किं भावयेत्' इत्याकाङ्क्षायां ओदनो भाव्यत्वेनान्वेति, 'केन' इत्याकाङ्क्षायां पाकेनेति लभ्यते, 'कथम् ' इत्याकाङ्क्षायां तृणफूत्कार- सहितेनेति । ततश्च तृणफूत्काराद्युपकृतेन पाकेन ( तेजः संयोगेन ) ओदनं भावयेदिति वाक्यार्थः संपद्यते तद्वद्वेदेऽपि बोध्यम् ।

शाब्दी भावना

स एव लिङ्प्रत्ययो लिङ्गत्वावच्छेदेन शब्देभावनां प्रेरणाख्या- मभिधत्ते । लोकेऽपि 'गामानय' इत्याचार्यवाक्यश्रवणानन्तरं अयमाचार्यो मां गवानयने प्रेरयति' इति प्रेरणाख्यव्यापारं ज्ञात्वैव शिष्यो गवानयने प्रवर्तत इत्यन्वयव्यतिरेकाभ्यां प्रेरणाज्ञानं प्रवृत्तिकारणम् । प्रेरणाज्ञानस्य चान्वयव्यतिरेकाभ्यां लिङादिश्रवणजन्यत्वावधारणात् लिङादेः प्रेरणायां शक्तिर्लोके गृह्यत इति वेदेऽपि तत्रैव शक्तिकल्पनौचित्यात् । इयांस्तु विशेषः – लोके गवानयनादिप्रवृत्त्यनुकूलप्रेरणाख्यो व्यापारः प्रयोक्तृ- पुरुषगताभिप्रायविशेषः, वेदे तु प्रयोक्तृ पुरुषाभावालिङादिशब्दनिष्ठ एव स इत्यङ्गीक्रियते । अत एव शब्दनिष्ठव्यापारत्वाच्छाब्दी भावनेत्यु- च्यते । यागहोमादिविषयप्रवृत्तिहेतुत्वात् प्रवर्तना प्रेरणेति चोच्यते । सैषा शाब्दी भावनापि अंशत्रयविशिष्टा । तत्र पुरुषप्रवृत्तिरूपार्थ- भावना भाव्यत्वेनान्वेति । अध्ययनावगतलिङादिकं करणत्वेनान्वेति । अर्थवादप्रतिपाद्यप्राशस्त्यज्ञानमितिकर्तव्यतात्वेनान्वेति । तत्र 'साङ्गवेदा- ध्येतारो ऽधीतव्याकरणनिगमनिरुक्ता दिवशाद्युत्पत्तिमन्तः पुरुषा अध्य- यनगृहीतस्वाध्यायगतलिङादिभिः प्राशस्त्यज्ञानसचिवैर्यागाद्यर्थं स्वकर्त- व्यत्वेन बुद्धा यागादीननुतिष्ठेयुः' इति शाब्दभावनाबोधः । अनुतिष्ठेयुः, अनुष्ठानं कुर्युरित्यर्थः । अनुष्ठानं प्रवृत्तिः । तेन पुरुषप्रवृत्तेः शाब्दभावना-भाव्यत्वमक्षतम् ।

इयं च शब्दभावना ज्योतिष्टोमादिप्राति स्विकवाक्येषु स्वरूपेण प्रती- यमाना कर्तव्यत्वेन न प्रतीयते । अर्थभावनाया एव तेषु कर्तव्यत्वा- वगमात् किंतु 'स्वाध्यायोऽध्येतव्यः' इति वाक्य एव कर्तव्यत्वेन प्रती - यते । नचात्रार्थभावनाया एव विधेयत्वमिति वाच्यम् । 'स्वाध्यायोऽध्ये- तव्यः' इति वाक्यस्थार्थभावनाया एव सकलविधिवाक्यस्थशब्दभावना- रूपत्वात् । तथा हि- अधिपूर्वकात् 'इङ् अध्ययने' इति धातोः कर्मणि तव्य- प्रत्ययो विहितः । कर्म च स्वाध्यायः प्रधानम् । तत्संस्कारकमध्ययनं गुणकर्म । व्रीहिसंस्कारकप्रोक्षणादिवत् । अध्ययनजनितग्रहण संस्कार- विशिष्टस्वाध्यायस्य प्रयोजनाकाङ्क्षायां स्वाध्यायगततत्तल्लिङादिविशिष्टवा- क्यसामर्थ्यलभ्यं यदनुष्टानौपयिकं यागादिरूपार्थज्ञानं तदेव दृष्टत्वात्, तत्तत्कर्मानुष्ठानद्वारा स्वर्गादिरूपा लौकिकश्रेयःसाधनत्वाच्च प्रयोजनम् । कर्मावबोधं विना कर्मानुष्ठानायोगात् । न त्वदृष्टं प्रयोजनम् ; दृष्टफले संभवत्यदृष्टफलकल्पनाऽयोगात् । तथा च स्वाध्यायविधिनैव स्वाध्याय- गतविधिवाक्यगतलिङादिप्रतिपादिताः सर्वाः शाब्दभावना अंशत्रय- विशिष्टाः कर्तव्यत्वेन विधीयन्ते । साङ्गवेदाध्ययनेन व्युत्पन्नाः पुरुषाः अध्ययनगृहीतस्वाध्याय गतलिङा दिभिरर्थवादावगतप्राशस्त्यरूपाङ्ग सचिवैः फलवद्यागादिकर्तव्यतां बुद्धा यागादीननुतिष्ठेयुरिति । अनुतिष्ठेयुः प्रवृत्तिं कुर्युरित्यर्थः । तत्र पुरुषप्रवृत्तेर्भाव्यत्वेनान्वयात्, अध्ययनाव- गतलिङादेः करणत्वेनान्वयात् प्राशस्त्यज्ञानस्येतिकर्तव्यतात्वेनान्व- यात्, शब्दभावनाया अपि अंशत्रयवैशिष्ट्यमर्थभावनाया इवेष्टम् | तत्र समीहितखर्गादिभाव्यकत्वभानमपि विधिवशादेव । प्रवर्त - नापरो विधिः यागादेः पुरुषार्थासाधनत्वे तत्र पुरुषं प्रवर्तयितुं न शक्नोतीति खभाव्यपुरुषप्रवृत्तिविषयस्य यागादेः पुरुषाभिलषितस्वर्गादि- साधनत्वमापादयति । अन्यथा स्वस्य प्रवर्तनापरत्वमेव न स्यात् । प्रवृत्तिहेतुव्यापारस्यैव प्रवर्तनात्वात् । लडादिस्थले तु प्रवर्तनात्मकवि - रभावादार्थभावनायाः पुरुषार्थभाव्यत्वनियमो नास्ति ।

भावनाशब्दार्थः

भावनात्वं नाम भवितुः प्रयोजकव्यापारत्वम् । तत्रार्थ भावनायां भवितुर्जायमानस्य स्वर्गादेः प्रयोजकव्यापारत्वाल्लक्षणसङ्गतिः । शाब्द- भावनायामपि पुरुषप्रवृत्तिरूपस्य भवितुः प्रयोजकव्यापारत्वाल्लक्षण- सङ्गतिः ।

ज्योतिष्टोमादिशब्दानां नामत्वप्रतिपादनम्

ननु 'ज्योतिष्टोमेन खर्गकामो यजेत' इत्यत्र यागेन स्वर्गं भावये - दित्यर्थवर्णने ज्योतिष्टोमपदस्य कथमन्वय इति चेत्, -न; भावनाक- रणत्वेनाभिमतयागनामत्वेनान्वयात् 'ज्योतिष्टोमनाम केन यागेन' इति । कथं तन्नामत्वमिति चेत्, ज्योतिराख्यास्त्रिवृदादिस्तोमा अस्मि - न्सन्तीति व्युत्पत्त्या । यागस्य त्रिवृदादिस्तोमसंवन्धः केनावगम्यत इति चेत्, 'त्रिवृत् पञ्चदश सप्तदश स्तोमाः' इति वाक्यान्तरेण; एतच्छ- ब्दार्थस्य तत्संबन्धावगमात् । एवं शास्त्रोक्तैस्तत्प्रख्यादिभिर्हेतुभिस्तत्र तत्र नामत्वं बोध्यम् ।

नामधेयनिमित्तानि

शास्त्रे हि तत्प्रख्य- तद्यपदेश- यौगिक- वाक्यभेदैश्चतुर्भिनीमत्वं प्रति- पादितम् ।

तत्प्रख्यन्यायेन नामत्वम्

तथा हि- 'अग्निहोत्रं जुहोति' इत्यत्र अग्निहोत्रशब्देन अग्निदेवता- रूपो गुणो न विधीयते, 'अग्निज्र्ज्योतिर्ज्योतिरग्मिः स्वाहेति सायं जुहोति' इति वाक्यविहितेन मन्त्रेण देवतायाः प्राप्तत्वात् । किंतु अग्निप्रख्यापकं [ अग्निप्रापकं ] यच्छास्त्रान्तरं 'अग्निज्योतिज्र्ज्योतिरग्निः ' इत्यादिकं तेन प्राप्तमग्निसंबन्धं निमित्तीकृत्य अग्नये होत्रं होमोऽस्मि - निति बहुव्रीहिणा अग्निहोत्रपदस्य होमनामधेयत्वम् । नच होमस्य प्रत्ययवाच्यार्थभावनायां करणत्वात् तन्नामत्वे ' अनिहोत्रेण' इति तृतीया स्यात्, 'ज्योतिष्टोमेन' इतिवदिति वाच्यम्; द्वितीयाया एव लक्षणया करणार्थकत्वात्, 'नासाधितं करणम्' इति न्यायेन असाधितस्य करण- त्वायोगात् अर्थात्प्राप्तहोमगतसाध्यत्वानुवादकत्वेन वा द्वितीयोपपत्तेरिति तत्प्रख्यन्यायादत्र नामधेयत्वम् ।

तद्व्यपदेशन्यायेन नामत्वम्

तथा 'श्येनेनाभिचरन् यजेत' इत्यत्र श्येनपदं यागनामधेयं, नतु यागाङ्गत्वेन श्येनपक्षिरूपगुणविधिः । 'यथा ह वै श्येनो निपत्यादत्ते एवमेवायं द्विषन्तं भ्रातृव्यं निपत्यादत्ते यमभिचरति श्येनेन' इत्युपमा- नोपमेयव्यपदेशानुपपत्तिप्रसङ्गात् । ' श्येनपक्षी यथा पक्ष्यन्तरं निप- त्यादत्ते एवमयमपि श्येननामकः कर्मविशेषो भ्रातृव्यं शत्रुं निप- त्यादत्ते' इति व्यपदेशः कर्मनामत्वपक्ष एव युज्यते । यागाङ्गतया श्येनपक्षिविधौ तु खस्य खेनैवोपमानोपमेयभावः स्यात् स चायुक्तः । तस्माच्छयेनतुल्यताव्यपदेशाच्छ्येनपदं कर्मनामधेयम् ; ततश्च 'अभिचरन् शत्रुवधकामः श्येननामकेन यागेन अभिचारं भावयेत्' इति वाक्यार्थः । नन्वेवमप्यभिचारस्यापि वेदोक्तत्वादाभिचारिके कर्मण्यास्तिकानामपि प्रवृत्तिः स्यादिति चेत्, न वेदोक्तोऽप्यभिचारो वेदविहितो न भवति, फलत्वात् । 'फलं न विधेयं किंतु फलमुद्दिश्य तत्साधनत्वेन कर्मैव विधे यम्' इति सिद्धान्तात् । अतोऽभिचारस्य विहितत्वेन प्रत्यवायजनकत्वम् ।

योगेन नामत्वम्

एवं 'उद्भिदा यजेत पशुकाम:' इत्यत्र पशुरूपफलाय विधित्सितस्य यागस्य उद्भित्पदं नामधेयम् नतु यथाकथंचित्प्राप्तयागमुद्दिश्य तंदङ्गतयोद्भिद्रूपगुणविधिः । दध्यादिवदुद्भिन्नामकस्य गुणस्याप्रसिद्ध - त्वात् । यागे तु 'उद्भिद्यते फलमनेन ' इति योगसंभवाद्यागनामत्वम् । ननु 'उद्भिद्यते भूमिरनेन' इति योगवशेन खनित्रादावप्युद्भिदः प्रयोगसंभवात् खनित्रादिगुणविधिः किं न स्यादिति चेत्, -न; एतादृशस्थले गुणविधिः क्वापि वक्तुं न शक्यते । विरुद्धत्रिक- द्वयसमावेशाख्यदोषप्रसङ्गात् ।

विरुद्धत्रिकविचारः

तथा हि--' उद्भिदा यजेत पशुकामः' इत्यत्र मानान्तरेणाप्राप्तस्य यागस्यानुवादासंभवात्, पशुकर्मकभावनायां करणत्वेन यागो विधेयः- 'यागेन पशून्भावयेत्' इति । ततश्च यागस्य विधेयत्वम् । फलं प्रति च शेषतया प्रतीयमानत्वाद्गुणत्वम् । शेषतया अङ्गतयेत्यर्थः । फलसिद्ध्यर्थं पुंसाऽनुष्ठीयमानत्वादुपादेयत्वमिति विधेयत्व - गुणत्वो- पादेयत्वात्मकमेकं त्रिकं यागेऽस्ति । तथा यागोद्देशेनोद्भिद्गुणविधौ विधित्सितगुणापेक्षया प्राधान्यम् - उद्देश्यत्वम् - अनुवाद्यत्वं चेति द्वितीयं त्रिकम् । तदेतत् त्रिकद्वयं परस्परविरुद्ध मेकस्मिन्यागे प्रस- ज्येत; अतो न गुणविधिः । नच 'सोमेन यजेत' इत्यत्र विरुद्धत्रिकं विनैव सोमशब्दस्य सोमवति यागे लक्षणामङ्गीकृत्य 'सोमवता यागेनेष्टं भावयेत्' इति सोमविशिष्टया -. गविधानाद्यथा सोमरूपगुणविधिः, तद्वदुद्भित्पदस्यापि मत्वर्थलक्षणयोद्भि- द्विशिष्टयागविधानादत्रोद्भिद्गुणविशिष्टयागविधिः स्यादिति वाच्यम् । सोमादौ गत्यन्तराभावात् मत्वर्थलक्षणया विशिष्टविध्यङ्गीकारात् । उद्भि- दादौ नामत्वेन गतिसंभवाद्विशिष्ट विध्यङ्गीकारायोगात् । तस्माद्योगवशा- दुर्द्विदादीनां नामत्वम् ।

वाक्य भेदभयानामत्वम्

तथा 'चित्रया यजेत पशुकामः' इत्यत्र चित्रापदं ( वाक्यभेद- भयात् ) प्राजापत्ययागनामधेयम् । 'दधि मधु घृतमापो धानास्त- ण्डुलास्तत्संसृष्टं प्राजापत्यम्' इत्यत्र ' तत्संसृष्टं प्राजापत्यम्' इति सामाना- धिकरण्याद्यो दध्यादिद्रव्यषट्स्य प्रजापतिदेवतासंबन्धः श्रुतस्तेनानुमितो यागो विधीयते । विहितस्य यागस्य फलाकाङ्क्षायां 'चित्रया यजेत' इति वाक्यं फलसंबन्धविधायकम् । तत्र फलार्थत्वेन पुनर्विधिरिति तस्य प्राजापत्ययागस्य दध्यादिविचित्रद्रव्यकत्वाच्चित्रापदं कर्मनामधेयम् । नतु 'अग्नीषोमीयं पशुमा लभेत' इति वाक्यप्राप्तं पशुयागं 'यजेत' इत्यनूद्य चित्र- त्वस्त्रीत्वगुणद्वय विधानम् । मानान्तरप्राप्तं कर्मोद्दिश्य तत्रानेकगुणविधाने वाक्यभेदात् । तदुक्तम्- 'प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः इति । मानान्तराप्राप्ते कर्मणि त्वनेकदेवताष्टाकपालपुरोडाशामावास्यापौर्ण- मास्याद्यनेकगुणविशिष्टो द्रव्यदेवतासंबन्धेनानुमितो यागो विधीयत इति सिद्धान्तः। तदुक्तम्—‘अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः' इति अथ यथा 'पशुना यजेत' इत्यत्र मानान्तरप्राप्तयागमुद्दिश्य तदङ्गतय 'पशुना' इत्येकपदोपात्तानां पशुद्रव्यतद्गतलिङ्गसंख्यानां त्रयाणां वाक्य भेदं विनैव विधिरङ्गीकृतः, तद्वत्राप्येकपदोपात्तचित्रत्व - स्त्रीत्व-विशेषितपशु- द्रव्यकारकस्य विधानान्न वाक्यभेदः । अत एव तत्र विधेयस्य पशोरुपादे- यत्वात्तद्गतमेकत्वं यज्ञाङ्गतया विवक्षितमित्येकेनैव पशुना यष्टव्यम्, 'ग्रहं संमार्ष्टि ' इत्यत्र उद्देश्यगतत्वादेकत्वमविवक्षितमिति सिद्धान्तप्रवादः । कथं, 'ग्रहं संमार्ष्टि ' इत्यत्र 'ग्रहम्' इति द्वितीयया ग्रहस्येप्सिततमत्वेनोद्दे - श्यत्यात्, प्रयोजनत्वाच्च प्राधान्यं गम्यते । संमार्गस्तु ग्रहं प्रति गुणभूतः । 'प्रतिप्रधानं गुण आवर्तनीयः' इति न्यायात् 'यावन्तो ग्रहास्तेषां सर्वेषां संमार्गः' इति निश्वये सति, 'कति ग्रहाः संमार्जनीयाः' इति बुभुत्साया अभावादुद्देश्यगतमेकत्वं श्रूयमाणमप्यविवक्षितम् । यद्युच्येत नेदमुद्देश्यगतं किंतु खयं विधेयम् -'ग्रहं संमृज्यात्', 'यं संमृज्यात्तं चैकम्' इति । तथा सति विधेयभेदाद्वाक्य भेदः स्यात् । तथाबुभुत्साया अभावात् विधानाsयोगाच्चोद्देश्यगता संख्या न विवक्षिता । उद्देश्यगत- मपि विशेषणं किंचिद्विवक्षितं यस्य विशेषणस्य विवक्षां विना उद्देश्य- प्रतीतिर्न पर्यवस्यति । यथा— तत्रैव ग्रहत्वं विवक्षितम् । तद्विवक्षां विना उद्देश्यस्वरूपस्य ज्ञातुमशक्यत्वात् । तेन ग्रहजातीय साधनक - सोमयागापूर्वार्थत्वाच्चमसेषु न संमार्ग इति स्थितम् । 'पशुना यजेत' इत्यत्र यागं प्रति पशुर्विधेयत्वाद्गुणभूतः । प्रतिगुणं प्रधानावृत्तिर्नास्तीति कियद्भिः पशुभिः यागः कर्तव्य इत्याकाङ्क्षायां एकवचनेन प्रतीयमानं विधेयगतमेकत्वं विवक्षितं बुभुत्सितत्वात् । किंच लिङ्गसंख्याविशेषितस्य पशुद्रव्यरूपकारकस्य एकपदोपात्तस्य विधेयत्वाद्विधेयपशुद्वारा तद्गतलिङ्गसंख्यादेरपि क्रियाङ्गत्वादेकत्वं विव- क्षितम् । अथवा तृतीयया विभक्त्याऽभिहितयोर्लिङ्गसंख्ययोर्विभक्तय- भिहिततया करणकारकशक्त्याऽऽत्मसात्कृतयोः प्रातिपदिकार्थपशुद्रव्येण संबन्धमनादृत्य तद्वदेव साक्षात्क्रियाङ्गत्वेन विधाने सति पश्चादरुणैक- हायनीन्यायेन परस्परमन्वयः - यागाङ्गत्वेन विहितो यः पशुः स एकः पुमांश्चेति । यथा 'अरुणया पिङ्गाक्ष्या एकहायन्या गवा सोमं क्रीणाति' इत्यत्र कारकाणां क्रियान्वयनियमात् करणविभक्तिभिरारुण्यपिङ्गाक्षीत्वादीनां चतुर्णां परस्परमनन्वितानामेव सोमक्रयणाङ्गत्वेनान्वये सति आरुण्या- देर्गुणस्यामूर्तस्य स्वतः क्रियासाधनत्वायोगात् क्रियासाधनैकहायनी - गोपरिच्छेदकत्वेन पश्चात् परस्परं पाष्णिकान्वयः - या एकहायनी गौः सा पिङ्गाक्षी अरुणेति तद्वत् । तदेवमुद्देश्यगत विशेषणमविवक्षितम्, उपादेयगतं विवक्षितमिति स्थितम् । एवं च चित्रापदेन चित्रत्वस्त्रीत्वोभयविशेषितपशुकारकस्य यजेतेतिपदानूदितेऽग्नीषोमीयपशुयागे विधातुं शक्यत्वात् कथं नामत्व- मिति चेत्, -न; तथा सति प्रकृतस्य प्राजापत्ययागस्य फलसंबन्धाकाङ्क्षस्य होनम, अप्रकृतस्याऽग्नीषोमीययागस्य कल्पना च स्यात् । तद्वयमयुक्तम् ; तस्माच्चित्रापद कर्मनामधेयम् । एवं तत्प्रख्यादिभिरन्यतमेन सर्वत्र कर्मनामत्वमूह्यम् । इत्थं विधिवाक्यस्य प्रामाण्यं विचारितम् ।

अर्थवादविचारः

अथार्थवादो विचार्यते । अर्थवादानां तु स्वार्थपरत्वे प्रयोजनाभावादध्ययन विधिवशेन फलवदर्थज्ञानार्थत्वस्यावश्यकत्वाद्विधेयगत- प्राशस्त्यप्रतिपादनद्वारा विध्येकवाक्यतया प्रामाण्यम् । स च चतुर्विधः - निन्दा - प्रशंसा-परकृति-पुराकल्पभेदात् । तत्र निन्दार्थवादो यथा— 'असत्रं वा एतद्यदच्छन्दोगम्', 'अश्रुजं हि रजतं यो बर्हिषि ददाति पुरास्य संवत्सरागृहे रुदन्ति' इत्यादिः । प्रशंसा यथा - 'शोभतेऽस्य मुखं य एवं वेद', 'वायुर्वै क्षेपिष्ठा देवता वायुमेव खेन भागधेयेनोपधावति स एवैनं भूतिं गमयति' इत्येवमादिः । परेण महता पुरुषेणेदं कर्म कृतमिति प्रतिपादकोऽर्थवादः पर- कृतिः -- यथा 'अग्निर्वा अकामयत' इत्यादिः । परप्रवक्तृकार्थादिप्रतिपादकः पुराकल्पः, यथा - 'तमशपद्धिया धिया त्वा वध्यासुः' इत्यादिः । तत्र निन्दार्थवादस्य विधेयान्यनिन्दाद्वारा विधेयप्राशस्त्यपरत्वम् । ' अश्रुजम्' इत्यादिरजतनिन्दाद्वारा च विधेयभूतरजतदान निषेधप्राश- स्त्यपरत्वे विरोधाभावात् । इतरेषां त्रयाणां साक्षात्प्राशस्त्यपरत्वमेव । 'वायुर्वै' इत्यर्थवादस्य वायुः क्षिप्रगामित्वादतीव प्रशस्ता देवता, अतस्त- द्दैवत्यं कर्म प्रशस्तमिति विधेयदेवता गतप्राशस्त्यप्रतिपादनद्वारा विध्येक- वाक्यत्वम् । ‘अग्निर्वा अकामयत' इत्यस्य अमिदैवत्यो यागः पूर्वकाले अग्निना- कृतत्वात्प्रशस्तः, आस्तिक्यादिदानीमप्यन्यैर्यजमानैरवश्यं कर्तव्य इति विधेयकर्मगतप्राशस्त्यद्वारा विध्येकवाक्यत्वम् । एवमन्यत्राप्यूह्यम् । क्वचित्कार्यान्तरमप्यस्ति; यथा - 'अक्ताः शर्करा उपदधाति' इति विधौ ' अक्ताः' इति पदेन । द्रवद्रव्यसामान्यं प्रतीयते । तच्च द्रव्यं किमिति संदेहे 'तेजो वै घृतम्' इत्यर्थवादात् घृतमिति निश्चीयत इति, 'तेजो वै घृतम्' इत्यर्थवादस्य संदिग्धार्थनिर्णायकत्वेन प्रामाण्यम् । -इत्यर्थवादविचारः ।

मन्त्रविचार:

अथ मत्रविचार: । मन्त्राणामप्यध्ययनविधिना कृत्स्नस्वाध्यायस्य फलवदर्थज्ञानार्थत्वमेव, नत्वदृष्टार्थत्वम् । दृष्टे संभवत्यदृष्टकल्पनाऽ- योगात् । प्रयोगकाले कर्मज्ञानं विना कर्मानुष्ठानायोगात् कर्मोपयिकम- र्थज्ञानं मन्त्रैः क्रियते । न चोपदेष्टृवचनादिनाप्यर्थस्मरणसंभवादनुष्ठानोपपत्तिरिति वाच्यम् । मन्त्रैरेवार्थं स्मृत्वानुष्ठाने सति फलं संभवति नान्यथेति नियमाङ्गीकारात्, नियमेनादृष्टस्याङ्गीकारात्, तदभावे तज्जन्यादृष्टलोपे तन्मूलकं फलं न सिद्ध्यतीति कल्पनात् । नन्वेवं मन्त्राणां स्वप्रकाश्येऽर्थे विनियोग इति फलितम् । विनियोगो नाम शेषत्वेनान्वयः । शेषत्वं नामाङ्गत्वम् । ततश्च 'इमामगृभ्णन्रशनाम्' इति मन्त्रस्य रशनाग्रहणसामर्थ्यमस्तीति रशना- ग्रहणप्रकाशन सामर्थ्यरूपालिङ्गादेव रशनाग्रहणाङ्गत्वोपपत्तेः 'इमामगृभ्ण- न्रशनामृतस्येत्यश्वाभिधानीमादत्ते' इति वचनं किमर्थमिति चेत्, -न; परिसंख्यार्थत्वात् । चयनप्रकरणेऽश्वरशनाग्रहणं गर्दभरशनाग्रहणं चेति द्वयमस्ति । तत्र लिङ्गादश्वरशनायां मन्त्रप्राप्तावुच्यमानायां लिङ्गाविशेषा- गर्दभरशनायामपि मन्त्रः प्राप्तः । अतोऽश्वरशनायामेव मन्त्रः कार्यो न गर्दभरशनायामिति मन्त्रनिवृत्तिरूपपरिसंख्यार्थोऽयं विधिः ।

परिसंख्याया दोषत्रैविध्यम्

सा च परिसंख्या त्रिदोषा - स्वार्थत्यागः, परार्थस्वीकारः, प्राप्तबाधश्चेति भेदात् । ' अश्वाभिधानीमादत्ते' इति वाक्यस्य अनेन मन्त्रेणाश्वरशनाssदानं कुर्यादिति खार्थः, स च त्यक्तः । गर्दभरशनातो मन्त्रनिवृत्तिः परार्थः, स च स्वीकृतः । गर्दभरशनायामपि लिङ्गात्प्राप्तस्य मन्त्रस्य अनेन बाधश्च - इति त्रिदोषा परिसंख्या गत्यभावादङ्गीकृता । गत्यन्तरे सति सा न युक्ता ।

विकल्प:

एवमष्टदोषदुष्ट विकल्पोऽप्यगतिकोऽङ्गीकृतः । यथा - यदाग्ने - योऽष्टाकपालः संस्कृतः पुरोडाशो यागाङ्गत्वेनावगतः । तत्र अपूपविशेषस्य पुरोडाशस्य प्रकृतिद्रव्याकाङ्क्षायामनियमेन यस्यकस्यचिद्रव्यस्य प्राप्तौ 'व्रीहिभिर्यजेत' इति वाक्याद्रीहयो नियम्यन्ते, एवं 'यवैर्यजेत' इति वाक्याद्यवा अपि नियम्यन्ते; तयोरेकार्थत्वाद्विकल्पः । एवं ' अतिरात्रे षोडशिनं गृह्णाति' इत्यतिरात्रे षोडशिग्रहो विहितः । तथा 'नाऽतिरात्रे षोडशिनं गृह्णाति' इति प्रतिषेधाग्रहणाभावो विहितः । तयोर्ग्रहणाग्रहणयोः परस्परविरुद्धयोरेकस्मिन्प्रयोगेऽनुष्ठातुमशक्य- त्वात्क्वचित्प्रयोगे ग्रहणानुष्ठानम् ; प्रयोगान्तरे तदभावानुष्ठानमिति तत्रापि विकल्पः ।

विकल्पे दोषाष्टकम्

स चाष्टदोषदुष्टः । तथा हि-पूर्वं त्रीहिप्रयोगे यवशास्त्रस्य खार्थानुष्ठापकत्वलक्षणप्रामाण्यपरित्यागः ९ । अननुष्ठापकत्वलक्षणा- प्रामाण्यस्वी कारः २ । ततो द्वितीयप्रयोगे यवानुष्ठाने पूर्वं त्यक्तं यत्सामाण्यं तत्स्वीकारः ३ । स्वीकृतं यदप्रामाण्यं तत्परित्याग ४ श्चेति यवशास्त्रे चत्वारो दोषाः । एवं पूर्वं यवप्रयोगे श्रीहिशास्त्रस्य स्वार्थानुष्ठापकत्वलक्षणं यत्प्रामाण्यं तत्परित्यागः ५ । अननुष्ठापक- त्वलक्षणं यदप्रामाण्यं तत्स्वीकारः ६ । पुनर्द्वितीयप्रयोगे त्रीद्यनुष्ठाने व्रीहिशास्त्रस्य त्यक्तप्रामाण्यस्वीकारः ७ । स्वीकृताप्रामाण्यपरित्याग- ८ श्चेति त्रीहिशास्त्रे चत्वारो दोषाः इत्यष्टदोषदुष्टो विकल्पः । स च विकल्पः क्वचिदेकार्थत्वात् ; एककार्यकारित्वादित्यर्थः । यथा व्रीहियवयोरेकैकस्य पुरोडाश निष्पादनक्षमत्वाद्विकल्पः । क्वचिद्वचनवलात् ; यथा - 'बृहत् पृष्ठं भवति' इति बृहत् सामसाध्यं पृष्ठनामकं स्तोत्रं विहितम्, 'रथन्तरं पृष्ठं भवति' इति रथन्तरसामसाध्यं पृष्ठस्तोत्रान्तरं विधीयते । स्तोत्रं च प्रयाजादिवदपूर्वार्थत्वादर्थकर्म । साम तु संस्कोरकर्म- त्वाद्रुणकर्म । स्तोत्रसाधनीभूतस्तोत्रीयाक्षराभिव्यक्तिरूपसंस्कारद्वारा साम्नां स्तोत्रसाधनत्वाङ्गीकारात् । प्रगीतमन्त्रसाध्यमिन्द्रादिगुणिनिष्ठ- गुणाभिधानं स्तोत्रम् ; प्रगीतमन्त्रसाध्यं सामाभिव्यक्तऋगक्षरसाध्य- मित्यर्थः । अप्रगीतमन्त्रसाध्यगुणिनिष्ठगुणाभिधानं शस्त्रम् । गान - क्रियाविशेषः साम । स्तोत्रसाधनीभूता ऋचः स्तोत्रीयाः । तदे - तत्रिवृत्पञ्चदशत्वादिसंख्याविशेषः स्तोम इत्येतेषां भेदः । तथा च बृहद्रथन्तरपृष्ठयोर्भिन्नापूर्वार्थत्वेन एकार्थत्वाभावेऽपि 'बृहद्वा पृष्ठ कार्य, रथन्तरं वा पृष्ठं कार्यम्' इति वचनबलादेव विकल्पः । क्वचिद्व्यवस्थितविकल्पः । द्वितीयप्रयाजादिकर्मणि नाराशंस- तनूनपान्मन्त्रयोरेकार्थत्वाद्विकल्पः । स च ' राजन्यवसिष्ठादीनां नारा- शंसो द्वितीयः प्रयाजस्तनूनपादन्येषाम्' इति वाक्याव्यवस्थित इति व्यवस्थितविकल्पः ।

कृत्स्नवेदस्य धर्माधर्माख्यार्थे प्रामाण्यम्

तदेवं चोदनापरपर्यायाणां विधिवाक्यानामशत्रय विशिष्टभावनाविधा- यकत्वात्प्रामाण्यम्, उद्भिदादीनां नामतया, अर्थवादानां विधेयप्राशस्त्य- परतया, मन्त्राणामनुष्ठेयार्थस्मारकतया प्रामाण्यमिति कृत्स्रस्य वेदस्या- लौकिके धर्माधर्माख्येऽर्थे प्रामाण्यं स्थितम् ॥ इति वेदप्रामाण्यविचारः । अथ स्मृत्यादिप्रामाण्यविचारः । मन्वादिप्रणीतानां स्मृतीना- मपि वेदमूलकत्वात्स्यादष्टकादौ धर्मे प्रामाण्यम् । 'औदुम्बरी सर्वां वेष्टयितव्या' इति स्मृतिरप्रमाणम्, 'औदुम्बरीं स्पृष्ट्वोद्गायेत्' इति प्रत्यक्ष- श्रुतिविरुद्धत्वात् । सर्ववेष्टने सति श्रुत्युक्तस्पर्शनस्य कर्तुमशक्यत्वात् । 'वैसर्जन होमीयं वासोऽध्वर्युर्गृह्णाति' इत्यादिस्मृतिरप्रमाणम्, श्रुत्यर्था- विरुद्धत्वेऽपि लोभमूलकत्वात् । तथा शिष्टाचारोऽपि स्मृतिद्वारा श्रुतिमूलकत्वात्प्रमाणम् । मातुल- सुतापरिणयनादिशिष्टाचारस्त्वप्रमाणम् । 'मातुलस्य सुतामूढा मातृगोत्रां तथैव च । समानप्रवरां तद्वत्यक्त्वा चान्द्रायणं चरेत्' इत्यादिस्मृत्या निषिद्धत्वेन स्मृतिविरुद्धत्वात् तदेवं श्रुतिस्मृत्याचाराणां धर्माधर्मयोः प्रामाण्यमुक्तम् ।

धर्मस्य परस्परं भेदकानि प्रमाणानि

स च धर्मः परस्परं भिन्नः । भेदकप्रमाणानि तु शब्दान्तरादीनि । तथा हि-याग-दान-होमानां यजति ददाति - जुहोतीत्य पर्याय- शब्दप्रतिपाद्यत्वाच्छब्दान्तराद्भेदः । खवत्वनिवृत्तिपूर्वकं परखत्वा- पादनं दानम् । 'समिधो यजति' इत्यादीनां पञ्चानां वाक्यानां मध्ये एकस्य कर्म- विधायकत्वम्, अन्येषां तस्मिन्कर्मणि गुणविधायकत्वम्, इत्यत्र नियाम- काभावात्सर्वेषां कर्मविधायकत्वे स्थिते विहितस्य कर्मणः पुनर्विधानं व्यर्थमिति पुनर्विधानसामर्थ्यात् पूर्ववाक्यविहितकर्मापेक्षयोत्तरोत्तर- वाक्यविहितस्य कर्मणो भेदः सिद्ध्यतीत्येतादृश स्थलेष्वविशेषपुनः- श्रुतिरूपात् 'यजति' पदाभ्यासात् कर्मभेदः । 'तिस्र आहुतीर्जुहोति' इत्यत्र जुहोतिपदाभ्यासाभावेऽपि जुहो- तीत्यर्थे होमे त्रित्वसंख्यान्वयात्परस्परं भिन्नास्त्रयो होमा इति संख्य- यात्र कर्मभेदः । 'अथैष ज्योतिरथैष विश्वज्योतिरथैष सर्वज्योतिरेतेन सहस्र- दक्षिणेन यजेत' इति ज्योतिष्टोमप्रकरणे श्रुतानामपि ज्योतिराख्यानां त्रयाणां यागानां ज्योतिष्टोमसंज्ञापेक्षया पृथक्संज्ञाकरणाज्ज्योतिष्टोमा- पेक्षया भेदः । भिन्नसंज्ञावशादेव त्रयाणां परस्परं भेद इति संज्ञया कर्मभेदः । तथा ' तप्ते पयसि दध्यानयति सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्' इत्यत्र 'सा वैश्वदेवी' इतिवाक्ये विश्वदेवदेवताऽऽमिक्षाद्रव्य- संबन्धानुमितो यागो विधीयते । 'वाजिभ्यो वाजिनम्' इत्यत्रापि वाजि - दैवत्यं वाजिनद्रव्यकं कर्मान्तरं विधीयते । नतु पूर्वविहिते वैश्वदेवयागे वाजिनद्रव्यरूपो गुणो विधीयते । पूर्वयागस्यामिक्षागुणावरुद्धत्वेन तत्र वाजिनस्य निवेशायोगात् । नच त्रीहियववद्विकल्पः । वाजिनामिक्षयोः समशिष्टत्वाभावात् । विषमशिष्टयोर्विकल्पायोगात् । वैश्वदेवया गोत्पत्ति- वाक्य एवामिक्षागुणः शिष्यत इत्युत्पत्तिशिष्टः; शिष्यते विधीयत इत्यर्थः । वैश्वदेववाक्यादुत्पन्ने कर्मणि वाक्यान्तरेण शिष्टो वाजिनगुण उत्पन्नशिष्टः, तयोर्मध्ये ह्युत्पत्तिशिष्टः प्रबलः, कर्मोत्पत्ति - वेलायामेव कर्माङ्गत्वेन प्रमितत्वात् । उत्पन्नशिष्टो वाजिनगुणोऽन- न्तरं प्रमितोऽपि विलम्बितत्वेन दुर्बलत्वात्पूर्वकर्मणि निवेशमलभमानो वाजिरूपदेवतान्तरसंबन्धात् स्ववाक्यस्य कर्मान्तरविधायकत्वमानयतीति गुणाद्भेदः । तत्र घनीभूतं पय आमिक्षा, शिष्टं जलं वाजिनम् । तथा कुण्डपायिनामयने श्रूयते – 'उपसद्भिश्चरित्वा मासमभि- होत्रं जुहोति' इति । अत्र पूर्वं कर्म किंचिदपि संनिहितं न भवति अपूर्वकर्मसंनिधानरूपात्प्रकरणान्तरात्प्रसिद्धाग्निहोत्रधर्मकं तन्नामकं कर्मान्तरं विधीयते । नत्वग्निहोत्रशब्देन प्रसिद्धाग्निहोत्रमनूद्य गुण- विधिः । प्राप्ते कर्मणि आनन्तर्य - मासरूपानेकगुणविधौ वाक्यभेदा- । पत्तेरिति प्रकरणान्तरादत्र कर्मभेदः । प्रसिद्धाग्निहोत्रं नैयमिका निहो- त्रम्, नित्याग्निहोत्रमिति यावत् । तदेवं शब्दान्तरा-भ्यास-संख्या- संज्ञा-गुण- प्रकरणान्तरैः कर्मभेदो दर्शितः । इति कर्मभेदनिरूपणम् ॥

प्रमेयविचारः

अथ प्रमेयादिविचारः । तत्र वेदादिप्रमेयोऽर्थस्त्रिविधः- क्रत्वर्थः, पुरुषार्थः, उभयार्थयेति । तत्र प्रयाजादिकं केवलं क्रत्वर्थः, फलं तत्करणं च पुरुषार्थः – यथा ज्योतिष्टोमादिः, स्वर्गश्च ॥ दध्यादि तूभयरूपं – 'दध्ना जुहुयात्' इति फलासंयुक्तवाक्येन त्वर्थत्वात् 'दनेन्द्रियकामस्य जुहुयात्' इत्यनेन फलाय विधानात्पुरुषार्थत्वात् । तदुक्तं - 'एकस्य तूभयरूपत्वे संयोगपृथक्त्वम्' इति । संयोगो वाक्यं तस्य पृथक्त्वं भेदः । स चैकस्य उभयार्थत्वे नियामक इत्यर्थः ।

प्रयोजकत्वविचार:

कत्वर्थे प्रयाजादौ ऋतुः प्रयोजकः । पुरुषार्थे फलं प्रयोजकम् । प्रयोजकत्वं नामानुष्ठापकत्वमित्यर्थः । विधिर्यदर्थं यदनुष्ठापयति स तत्र प्रयोजकः । दर्शादिविधिः स्वर्गार्थं दर्शादिकमनुष्ठापयतीति स्वर्गादिर्दर्शादौ प्रयोजकः । प्रया- जादिविधिः प्रयाजान्दर्शाद्यर्थं अनुष्ठापयतीति दर्शादिः प्रयाजानां प्रयोजकः । दध्यानयनविधिः दध्यानयनमामिक्षार्थमनुष्ठापयति, न वाजिनार्थम् । आमिक्षार्थं दध्यानयनानुष्ठाने सति वाजिनस्य स्वतः - सिद्धत्वात् । अत आमिक्षैव दध्यानयने प्रयोजिका, न वाजिनम् ।' 'पुरोडाशकपालेन तुषानुपवपति' इति तुषोपवापाङ्गत्वेन पुरोडाशकपालं विधीयते, तथापि तुषोपवापः कपालस्य प्रयोजको न भवति, पुरोडाशार्थमुपात्तेनैव कपालेन तुषोपवापसिद्धेः, किंतु पुरोडाश एव कपालस्य प्रयोजक इत्याद्यूह्यम् । इति प्रमेयादिनिरूपणम् ॥

क्रमनिरूपणम्

अथ क्रमनिरूपणम् । ननु विधिना साङ्गं प्रधानं कर्तव्यतया चोद्यते । तत्राङ्गानां प्रधानानां च कर्मणां बहुत्वात्क्रमेणानुष्ठानं वाच्यम् । तत्क्रमनियामकं प्रमाणं किमिति चेत्, - नः श्रुत्यादीनामेव क्रमनियामकत्वात् ।

श्रुतिक्रमः

तथा हि- 'अध्वर्युगृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति' इत्यत्र क्त्वा श्रुत्या गृहपतिदीक्षानन्तरं ब्रह्मदीक्षेति श्रौतक्रमः ।

अर्थक्रमः

'अग्निहोत्रं जुहोति, यवागूं पचति' इत्यत्र यवागूपाकस्य होमार्थ- त्वेन पाकात्पूर्वं होमस्य कर्तुमशक्त्यत्वात् पाठक्रमं त्यक्त्वाऽर्थक्रमः स्वीकर्तव्यः | अर्थः प्रयोजनं होमादिरूपं तदर्थं क्रमः अर्थक्रमः । तेन पूर्वं पाकः पश्चाद्धोमः ।

पाठक्रमः 'समिधो यजति', 'तनूनपातं यजति' इत्यादौ विधिवाक्यपाठकमा - देव समिदादियागानुष्ठानक्रमः ।

स्थानक्रमः तथा ज्योतिष्टोमे औपवसथ्यमहरारभ्य क्रमेणानुष्ठेयानां अमीषो- मीय-सवनीया - नुबन्ध्यानां पशूनां त्रयाणां साद्यस्काख्ये सोमयागे 'सह पशूनालभेत' इत्येकदाऽनुष्ठानलक्षणं साहित्यं बोधितम्, तदपि सवनी - यस्य स्थाने विहितम् । तत्र प्राकृतक्रमं परित्यज्य सवनीयस्य स्थाने साहित्य विधानादादौ सवनीयपशोरुपाकरणम्, ततोऽग्नीषोमीयस्य, ततो- Sनुबन्ध्यायाः इति स्थानात्क्रमः । सुत्यादिवसात्पूर्वमहरौपवसथ्यम् ।

मुख्यक्रमः

तथा दर्शे सांनाय्यधर्माणां शाखाच्छेदादीनां पूर्वम्, आग्नेयधर्माणां निर्वापादीनां च अनन्तरं प्रवृत्तावपि मुख्ययोरामेयसांनाय्ययागयो- मध्ये आग्नेययागस्य पूर्वमनुष्ठानान्मुख्ययागक्रमेणादावाग्नेय पुरोडा- शस्य प्रयोजशेषाभिघारणम्, ततः पयसोऽभिघारणम् इति मुख्य- यागक्रमादभिघारणक्रमः ।

प्रवृत्तिक्रमः

तथा 'सप्तदश प्राजापत्यान् पशूनालभते' इत्यत्र सप्तदशपशुद्रव्यक- प्रजापतिदेवताकाः सप्तदश यागाः कर्तव्यत्वेन बोधिताः, तत्रोपोकर- णाख्य आद्यः पदार्थो यतः कुतश्चिदारभ्य यत्र वचित् समामनीयः । नियोजनादिकं तु येन क्रमेण उपाकरणं प्रवृत्तं तेनैव क्रमेण कर्त- व्यम् । कथम् —— प्रकृतावनीषोमीयपशोरेकत्वेन उपकरणमादौ कृत्वा द्वितीयक्षण एवं नियोजनम्, तृतीयक्षण एवं प्रोक्षणम्, व्यवधान- प्रयोजकाभावात् । अत्र तु सप्तदशपशूनां सहानुष्ठेयत्ववचनात्प्रथ- मतो यत्र क्वचित्पशौ कृतमुपाकरणं स्वाश्रयकर्तव्यनियोजनाय षोड- शभिः क्षणैर्व्यवधानं सहते, न त्वधिकम् । तत्रोपाकरणक्रमेण नियो- जनं प्रथमपशावकृत्वा पश्वन्तरे नियोजनं कृत्वाऽनन्तरं प्रथमपशौ नियोजनकरणे षोडशक्षणाधिकक्षणव्यवधानं शास्त्राननुमतमापद्येत । तन्निरासायोपाकरणं येन क्रमेण प्रवृत्तं तेनैव नियोजनादिकं कार्य- मिति प्रवृत्तिंक्रमः । इत्येवं श्रुत्यर्थ- पाठ-स्थान- मुख्य-प्रवृत्तिक्रमैरेव कर्मानुष्ठानम् । अन्यथानुष्ठाने वैगुण्यमित्यलम् ॥

इति श्रीकृष्णयज्वकृता मीमांसापरिभाषा समाप्ता ॥

"https://sa.wikisource.org/w/index.php?title=मीमांसापरिभाषा&oldid=363185" इत्यस्माद् प्रतिप्राप्तम्