मुकुन्दमाला
[[लेखकः :|]]


मुकुन्दमाला
कुलशेखरः


घुष्यते यस्य नगरे रङ्गयात्रा दिने दिने ।
तम् अहं शिरसा वन्दे राजानं कुलशेखरम् ॥


श्रीवल्लभेति वरदेति दयापरेति भक्तप्रियेति भवलुण्ठनकोविदेति ।
नाथेति नागशयनेति जगन्निवासेत्यालापिनं प्रतिदिनं कुरु मां मुकुन्द ॥ मुकुन्दमाला.१ ॥

जयतु जयतु देवो देवकीनन्दनो ऽयं जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः ।
जयतु जयतु मेघश्यामलः कोमलाङ्गो जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥ मुकुन्दमाला.२ ॥

मुकुन्द मूर्ध्ना प्रणिपत्य याचे भवन्तमेकान्तमियन्तमर्थम् ।
अविस्मृतिस्त्वच्चरणारविन्दे भवे भवे मेऽस्तु भवत्प्रसादात् ॥ मुकुन्दमाला.३ ॥

नाहं वन्दे तव चरणयोर्द्वन्द्वम् अद्वन्द्वहेतोः कुम्भीपाकं गुरुम् अपि हरे नारकं नापनेतुम् ।
रम्या रामा मृदुतनुलता नन्दने नापि रन्तुं भावे भावे हृदयभवने भावयेयं भवन्तम् ॥ मुकुन्दमाला.४ ॥

नास्था धर्मे न वसुनिचये नैव कामोपभोगे यद् भाव्यं तद् भवतु भगवन् पूर्वकर्मानुरूपम् ।
एतत् प्रार्थ्यं मम बहुमतं जन्मजन्मान्तरेऽपि त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु ॥ मुकुन्दमाला.५ ॥

दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक प्रकामम् ।
अवधीरितशारदारविन्दौ चरणौ ते मरणेऽपि चिन्तयामि ॥ मुकुन्दमाला.६ ॥

कृष्ण त्वदीयपदपङ्कजपञ्जरान्तर् अद्यैव मे विशतु मानसराजहंसः ।
प्राणप्रयाणसमये कफवातपित्तैः कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥ मुकुन्दमाला.७ ॥

चिन्तयामि हरिमेव सन्ततं मन्दमन्दहासिताननाम्बुजम् ।
नन्दगोपतनयं परात्परं नारदादिमुनिवृन्दवन्दितम् ॥ मुकुन्दमाला.८ ॥

करचरणसरोजे कान्तिमन्नेत्रमीने श्रममुषि भुजवीचिव्याकुलेऽगाधमार्गे ।
हरिसरसि विगाह्यापीय तेजोजलौघं भवमरुपरिखिन्नः खेदमद्य त्यजामि ॥ मुकुन्दमाला.९ ॥

सरसिजनयने सशङ्खचक्रे मुरभिदि मा विरमस्व चित्त रन्तुम् ।
सुखतरम् अपरं न जातु जाने हरिचरणस्मरणामृतेन तुल्यम् ॥ मुकुन्दमाला.१० ॥

माभीर् मन्दमनो विचिन्त्य बहुधा यामीश् चिरं यातना नामी नः प्रभवन्ति पापरिपवः स्वामी ननु श्रीधरः ।
आलस्यं व्यपनीय भक्तिसुलभं ध्यायस्व नारायणं लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षमः ॥ मुकुन्दमाला.११ ॥

भवजलधिगतानां द्वन्द्ववाताहतानां सुतदुहितृकलत्रत्राणभारार्दितानाम् ।
विषमविषयतोये मज्जताम् अप्लवानां भवतु शरणम् एको विष्णुपोतो नराणाम् ॥ मुकुन्दमाला.१२ ॥

भवजलधिम् अगाधं दुस्तरं निस्तरेयं कथम् अहम् इति चेतो मा स्म गाः कातरत्वम् ।
सरसिजदृशि देवे तावकी भक्तिर् एका नरकभिदि निषण्णा तारयिष्यत्य् अवश्यम् ॥ मुकुन्दमाला.१३ ॥

तृष्णातोये मदनपवनोद्धूतमोहोर्मिमाले दारावर्ते तनयसहजग्राहसङ्घाकुले च ।
संसाराख्ये महति जलधौ मज्जतां नस् त्रिधामन् पादाम्भोजे वरद भवतो भक्तिनावं प्रयच्छ ॥ मुकुन्दमाला.१४ ॥

मा द्राक्षं क्षीणपुण्यान् क्षणम् अपि भवतो भक्तिहीनान् पदाब्जे मा श्रौषं श्राव्यबन्धं तव चरितम् अपास्यान्यद् आख्यानजातम् ।
मा स्मार्षं माधव त्वाम् अपि भुवनपते चेतसापह्नुवानान् मा भूवं त्वत्सपर्याव्यतिकररहितो जन्मजन्मान्तरे ऽपि ॥ मुकुन्दमाला.१५ ॥

जिह्वे कीर्तय केशवं मुररिपुं चेतो भज श्रीधरं पाणिद्वन्द्व समर्चयाच्युतकथाः श्रोत्रद्वय त्वं शृणु ।
कृष्णं लोकय लोचनद्वय हरेर् गच्छाङ्घ्रियुग्मालयं जिघ्र घ्राण मुकुन्दपादतुलसीं मूर्धन् नमाधोक्षजम् ॥ मुकुन्दमाला.१६ ॥

हे लोकाः शृणुत प्रसूतिमरणव्याधेश् चिकित्साम् इमां योगज्ञाः समुदाहरन्ति मुनयो यां याज्ञवल्क्यादयः ।
अन्तर्ज्योतिर् अमेयम् एकम् अमृतं कृष्णाख्यम् आपीयतां तत् पीतं परमौषधं वितनुते निर्वाणम् आत्यन्तिकम् ॥ मुकुन्दमाला.१७ ॥

हे मर्त्याः परमं हितं शृणुत वो वक्ष्यामि सङ्क्षेपतः संसारार्णवम् आपदूर्मिबहुलं सम्यक् प्रविश्य स्थिताः ।
नानाज्ञानम् अपास्य चेतसि नमो नारायणायेत्य् अमुं मन्त्रं सप्रणवं प्रणामसहितं प्रावर्तयध्वं मुहुः ॥ मुकुन्दमाला.१८ ॥

पृथ्वी रेणुर् अणुः पयांसि कणिकाः फल्गुः स्फुलिङ्गो लघुः तेजो निःश्वसनं मरुत् तनुतरं रन्ध्रं सुसूक्ष्मं नभः ।
क्षुद्रा रुद्रपितामहप्रभृतयः कीटाः समस्ताः सुराः दृष्टे यत्र स तावको विजयते भूमावधूतावधिः ॥ मुकुन्दमाला.१९ ॥

बद्धेनाञ्जलिना नतेन शिरसा गात्रैः सरोमोद्गमैः कण्ठेन स्वरगद्गदेन नयनेनोद्गीर्णबाष्पाम्बुना ।
नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनाम् अस्माकं सरसीरुहाक्ष सततं सम्पद्यतां जीवितम् ॥ मुकुन्दमाला.२० ॥

हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव ।
हे रामानुज हे जगत्त्रयगुरो हे पुण्डरीकाक्ष मां हे गोपीजननाथ पालय परं जानामि न त्वां विना ॥ मुकुन्दमाला.२१ ॥

भक्तापायभुजाङ्गगारुडमणिस् त्रैलोक्यरक्षामणिर् गोपीलोचनचातकाम्बुदमणिः सौन्दर्यमुद्रामणिः ।
यः कान्तामणिरुक्मिणीघनकुचद्वन्द्वैकभूषामणिः श्रेयो देवशिखामणिर् दिशतु नो गोपालचूडामणिः ॥ मुकुन्दमाला.२२ ॥

शत्रुच्छेदैकमन्त्रं सकलम् उपनिषद्वाक्यसम्पूज्यमन्त्रं संसारोत्तारमन्त्रं समुपचिततमसः सङ्घनिर्याणमन्त्रम् ।
सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसन्दष्टसन्त्राणमन्त्रं जिह्वे श्रीकृष्णमन्त्रं जप जप सततं जन्मसाफल्यमन्त्रम् ॥ मुकुन्दमाला.२३ ॥

व्यामोहप्रशमौषधं मुनिमनोवृत्तिप्रवृत्त्यौषधं दैत्येन्द्रार्तिकरौषधं त्रिभुवने सञ्जीवनैकौषधम् ।
भक्तात्यन्तहितौषधं भवभयप्रध्वंसनैकौषधं श्रेयःप्राप्तिकरौषधं पिब मनः श्रीकृष्णदिव्यौषधम् ॥ मुकुन्दमाला.२४ ॥

आम्नायाभ्यसनान्य् अरण्यरुदितं वेदव्रतान्य् अन्वहं मेदश्छेदफलानि पूर्तविधयः सर्वे हुतं भस्मनि ।
तीर्थानाम् अवगाहनानि च गजस्नानं विना यत्पद-द्वन्द्वाम्भोरुहसंस्मृतीर् विजयते देवः स नारायणः ॥ मुकुन्दमाला.२५ ॥

श्रीमन्नाम प्रोच्य नारायणाख्यं के न प्रापुर् वाञ्छितं पापिनो ऽपि ।
हा नः पूर्वं वाक् प्रवृत्ता न तस्मिंस् तेन प्राप्तं गर्भवासादिदुःखम् ॥ मुकुन्दमाला.२६ ॥

मज्जन्मनः फलम् इदं मधुकैटभारे मत्प्रार्थनीयमदनुग्रह एष एव ।
त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्य-भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥ मुकुन्दमाला.२७ ॥

नाथे नः पुरुषोत्तमे त्रिजगतां एकाधिपे चेतसा सेव्ये स्वस्य पदस्य दातरि सुरे नारायणे तिष्ठति ।
यं कञ्चित् पुरुषाधमं कतिपयग्रामेशम् अल्पार्थदं सेवायै मृगयामहे नरम् अहो मूका वराका वयम् ॥ मुकुन्दमाला.२८ ॥

मदन परिहर स्थितिं मदीये मनसि मुकुन्दपदारविन्दधाम्नि ।
हरनयनकृशानुना कृशो ऽसि स्मरसि न चक्रपराक्रमं मुरारेः ॥ मुकुन्दमाला.२९ ॥

तत्त्वं ब्रुवाणानि परं परस्तान् मधु क्षरन्तीव सतां फलानि ।
प्रावर्तय प्राञ्जलिर् अस्मि जिह्वे नामानि नारायणगोचराणि ॥ मुकुन्दमाला.३० ॥

इदं शरीरं परिणामपेशलं पतत्य् अवश्यं श्लथसन्धिजर्जरम् ।
किम् औषधैः क्लिश्यसि मूढ दुर्मते निरामयं कृष्णरसायनं पिब ॥ मुकुन्दमाला.३१ ॥

दारा वाराकरवरसुता ते तनूजो विरिञ्चः स्तोता वेदस् तव सुरगणो भृत्यवर्गः प्रसादः ।
मुक्तिर् माया जगद् अविकलं तावकी देवकी ते माता मित्रं बलरिपुसुतस् त्वय्य् अतो ऽन्यन् न जाने ॥ मुकुन्दमाला.३२ ॥

कृष्णो रक्षतु नो जगत्त्रयगुरुः कृष्णं नमस्याम्य् अहं कृष्णेनामरशत्रवो विनिहताः कृष्णाय तस्मै नमः ।
कृष्णाद् एव समुत्थितं जगद् इदं कृष्णस्य दासो ऽस्म्य् अहं कृष्णे तिष्ठति सर्वम् एतद् अखिलं हे कृष्ण संरक्ष माम् ॥ मुकुन्दमाला.३३ ॥

स त्वं प्रसीद भगवन् कुरु मय्य् अनाथे विष्णो कृपां परमकारुणिकः किल त्वम् ।
संसारसागरनिमग्नम् अनन्त दीनम् उद्धर्तुम् अर्हसि हरे पुरुषोत्तमो ऽसि ॥ मुकुन्दमाला.३४ ॥

नमामि नारायणपादपङ्कजं करोमि नारायणपूजनं सदा ।
वदामि नारायणनाम निर्मलं स्मरामि नारायणतत्त्वम् अव्ययम् ॥ मुकुन्दमाला.३५ ॥

श्रीनाथ नारायण वासुदेव श्रीकृष्ण भक्तप्रिय चक्रपाणे ।
श्रीपद्मनाभाच्युत कैटभारे श्रीराम पद्माक्ष हरे मुरारे ॥ मुकुन्दमाला.३६ ॥

अनन्त वैकुण्ठ मुकुन्द कृष्ण गोविन्द दामोदर माधवेति ।
वक्तुं समर्थो ऽपि न वक्ति कश्चिद् अहो जनानां व्यसनाभिमुख्यम् ॥ मुकुन्दमाला.३७ ॥

ध्यायन्ति ये विष्णुम् अनन्तम् अव्ययं हृत्पद्ममध्ये सततं व्यवस्थितम् ।
समाहितानां सतताभय-प्रदं ते यान्ति सिद्धिं परमां तु वैष्णवीम् ॥ मुकुन्दमाला.३८ ॥

क्षीरसागरतरङ्गशीकरा-सारतारकितचारुमूर्तये ।
भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नमः ॥ मुकुन्दमाला.३९ ॥

यस्य प्रियौ श्रुतिधरौ कविलोकवीरौ मित्रे द्विजन्मवरपद्मशराव् अभूताम् ।
तेनाम्बुजाक्षचरणाम्बुजषट्पदेन राज्ञा कृता कृतिर् इयं कुलशेखरेण ॥ मुकुन्दमाला.४० ॥

"https://sa.wikisource.org/w/index.php?title=मुकुन्दमाला&oldid=403308" इत्यस्माद् प्रतिप्राप्तम्