मुद्राराक्षसम् ।


चतुर्थोऽङ्कः।


( ततः प्रविशत्य[]ध्वगवेषः पुरुषः )

 पुरुषःही ही मा[]णहे ही माणहे । (क)

 राअणिओ[]ओ महिओ को णाम गआगअमिह करेइ ।

 अट्टाण[]गमणगुच्वी पहुणो अण्णा जइ ण होइ ॥ १ ॥ (ख)


 (क) आश्चर्यमाश्चर्यम् ।

 (ख) राजनियोगो महीयान्को नाम गतागतमिह करोति ।

 अस्थानगमनराव प्रभोराज्ञा यदि न भवति ॥ १ ॥

 अथ चतुर्थेऽङ्के राक्षसचारसंवादरूपाल्पा कथा प्रकरी कथ्यते । ही हीमाणहे इति । अयं निपातसमुदाय आश्चर्येद्योतकः ।

 ‘जोअणसअसम हिअ’ इति कश्चिस्प्रथमपादे पठः । योजनशतसमधिकं यथा तथेति क्रियाविशेषणम् ।

 अस्थानगमन इति । अस्थाने अकाण्डे एव गमने प्रस्थानविषये गुर्वा अनतिक्रमणीया ॥ १ ॥


 जा[]व अमच्चरक्खसस्स एदं गेहं गच्छामि । (श्रान्तवत्परिक्रम्य ।) को[] एत्थ दुबारिआणं। णिवेदेह भट्टिणो अमच्चरक्खसस्स एसो कर[]भओ तुचरन्तो पाटलिपुत्तअदो आगदोति । (क)

( प्रविश्य )

 दौवारिकः-भद्द, स[] णेहिं मन्तहि । एसो असच्च कश्चिन्ताजणिदेण जा[]अरेण सतृष्पण्णसीसवेअणो अज्ज वि सअणं ण[१०] मुञ्चदि । ता चिह मुहुत्तअ। लब्धावसरो तुह आअमणं णि[११]वेदेमिं । (ख)


 ( क ) यावदमात्यराक्षसस्यैतद्देहं गच्छामि । कोऽत्र दैौवारिकाणाम् । निचेद्य भर्तुर्रमात्यराक्षसस्य एष करभकस्त्वरयन्पाटलिपुत्रादागत इति ।

 (ख) भद्र, शनैर्मत्रय । एषोऽमात्यः कार्यचिन्ताजनितेन जागरेण समुत्पस्रशीर्षवदनोद्यापि शयनं न मुञ्चति । तस्मात्तिष्ठ मुहूर्तम् । लब्धावसरस्ता गमनं निवेदयामि ।


 पुरुषः--भद्द[१२]मह्, तह करेहि । (क)

(त[१३]तः प्रविशति शयनगृहगत आसनस्धह शकटदासेन सह सचिन्तो राक्षसः ।)

 राक्षसः-([१४]आत्मगतम् ।)

मम विमृशतः कार्यारम्भे विधेरविधेयता
 [१५]पि च कुटिलां कौटिल्यस्य प्रचिन्तयतो मतिम् ।
[१६]पि च विहिते मत्कृत्यानां निकाममुपग्रहे
 कथमिदमिहेत्युन्निद्रस्य प्रया[१७]त्यनिशं निशा ॥ २ ॥

अपि च।

कार्योपक्षेपमादौ तनुमपि रचयंस्तस्य विस्तारमिच्छ
 न्बीजानां गर्भितानां फलमतिगहनं गूढमुभ्देदयम्श्च।
कुर्वन्बुद्ध्या वि[१८]मर्शं प्रसृतमपि पुनः संहरन्कार्यजातं
 कर्ता वा नाटकानामिममनुभवति क्लेशमस्मद्विधो वा ॥ ३ ॥


( क ) भद्रमुख, तथा कुरु ।


 ममेति । मम कार्यारम्भे कार्यारम्भप्रभृति विधदैवस्याविधेयतां प्रतिकूलतां विमृशतः मकृत्यानां विषकन्यादिकपटकार्याणामुपग्रहे निरोधे अन्यथाभावे कथमिदमिह राजकार्यं भविष्यतीत्युन्निद्रस्यानिशं निशा प्रयातीत्यन्वयः ॥ २ ॥

 कविरत्राद्भुततरनीतिविषयकस्वसंविधानक्लेशं राक्षसवचनव्याजेन प्रस्तौति-कार्योपक्षेपमिति । कार्योपक्षेपं बीजन्यासं तनुम् स्तोकोद्दिष्टमादौ


तद[१९]पि नाम दुरात्मा चाणक्यबटु:-

(उपसृत्य )

 दौवारिकः–जे[२०]दु (क)

 राक्षस–अति[२१]संधातुं शक्यः स्यात् ।

 दौवारिकः-“उ[२२]मच्चो । (ख)

 राक्षस-( [२३]वामाक्षिस्पन्दनम् सूचयित्वा आत्मगतम्।) दूरात्मा चाणक्यबटुअर्जयथ्वथिसम्धातुम् शक्यः स्यादमात्य इ[२४]ति वागीश्वरी वामाक्षिस्पन्दनेन ग्र[२५]स्तावगता प्रतिपादयति । तथापि नोद्यमस्त्याज्यः । (प्रकाशम् ) भद्र, किमसि वक्तुकामः।


 ( क ) जयतु

 ( ख ) अमात्यः ।


मुखसंधौ रचयंस्तस्य बीजस्य विस्तारं व्यक्तिं प्रतिमुखसंधविच्छन्कुर्वन् गर्भितस्य दृष्टनष्टस्य बीजस्य गहनं फलं गूढं यथा तथा गर्भसंधावुभ्देदयन् अन्विष्यंन्विमर्शसंधौ तस्यैव बीजस्य बुद्ध्या विमर्शमनुसंधानं कुर्वन् प्रसृतमपि यथायथं विप्रकीर्णामपि कार्यजातं मुखसंध्याद्यर्थजातं निर्वहणसंधौ संहरनैकाथ्र्थमुपनयन्नाटकानां कर्ता वा तथा आदौ गूढमारब्धं राजकार्यजातं अन्तरान्तरा विस्तारयन्गर्भितानां गूढ़ानां बीजानां मन्त्राणां फलं साध्यं मुहुरुद्वेदयन् उन्नयन् बुद्ध्या विमृशंश्च आयतौ प्रसृतं शुभोदर्कम् संहरन्नुपसंहरन् अस्मद्विधो मत्री वा महान्तमायासमनु भवतीत्यर्थः ॥ ३ ॥

 वागीश्वरीति । वागीश्वरी उपश्रुतिरूपा वामाक्षिस्पन्दनेन प्रस्तावं संवादं गता प्राप्ता सती पूर्वोक्तमर्थं सूचयतीत्यर्थः । इदं कार्यसंग्रहणमादानं नाम विमर्शसंधेरन्यमङ्गम् । चाणक्यकर्तृकस्य राक्षसातिसंधान-


 दौवारिकः अमच्च, क[२६]रभओ दुआरे चिट्ठदि । (क)

 राक्षसः--[२७]शीघ्रं प्रवेशय ।

 दौवारिकः त[२८]हेति । (निष्क्रम्य पुरुषमुपसृत्य ।) भट्ट, उपसष्प अ[२९]मच्चम् । (ख) ( इति नि[३०]ष्क्रान्तः । )

 करभकः-(उपसृत्य[३१]।) जेदु अमच्चो। (ग)

 राक्षसः-[३२]भद्र, उंपविश।

 करभकः—जं अम[३३]च्चो आणवेदिति । (भूमावुपविष्टः। (घ)


 ( क ) अमात्य, करभको द्वारि तिष्ठति ।

 ( ख ) तथेति । भद्र, उपसर्प अमात्यम् ।

 ( ग ) जयत्वमात्यः ।

 ( घ ) यदमात्य आज्ञापयति ।


रूपस्य कार्यस्य राक्षसेनैव दुरुपश्रुतिदुःशकुनप्रतिपादनद्वारा संग्रहणात् ।


राक्षसः-( [३४]आत्मगतम् । ) कस्मिन्प्रयोजने ममायं प्रहित इति

प्रयो[३५]जनानां बाहुल्यान्न खल्ववधारयामि । ( इति चिन्तां नादयति ।)

( ततः प्रविशति वेत्रपाणिद्विती[३६]यः पुरुषः )

पुरुषः–ओसले[३७] ओसलेह । आअदो । अवेह अवेह माणवा। किं ण् पे[३८]क्खह । (क) ।

दूले [३९]ञ्चासत्ती दंसणंवि दुल्लहमधण्णैः ।
[४०]ल्लाणकुलहराणं देआणं विअ माणुस्सदेआणं ॥ ४ ॥ (ख)


( क ) अपसरत अपसरत । आगतः । अपेत अपेत मानवाः । किं न पश्यथ ।

( ख ) दूरे प्रत्यासत्तिर्दर्शनमपि दुर्लभमधन्यैः ।
  कल्याणकुलधराणां देवानामिव मनुष्यदेवानाम् ॥ ४ ॥


आत्मगतमिति । राक्षसकरभकसंवादावसरे भागुरायणेन मलयकेतुमतिसँधातुं तयोः प्रवेशावसरदानाय राक्षसचिन्तानाटनं कविनोपनिबद्धमिति द्रष्टव्यम् । इदमङ्कावतरणम् । अत्र राक्षसं प्रति करभकेण वक्ष्यमाणस्य मौर्यचाणक्योर्मिथो विरोधस्य पूर्वकार्यानुसंगतत्वात् । लक्षणं तु पूर्वमेवोक्तम्-

‘यत्र स्यादुत्तराङ्कार्थः' इत्यादिना ।

राज्ञो गमनत्वरासंभ्रमादपसरतापसरतेति पुनरुक्तिः ।

कल्याणकुलधराणामिति । कल्याणकुलं धरन्तीति कल्याणकुलधराः


लोक्य सहर्षम् ।) कु[४१]मारस्याज्ञानन्तरमेव सर्वे राजानः प्रतिनिवृत्ताः। प[४२]श्यतु कुमारः ।

सो[४३]त्सेधैः स्कन्धदेशैः खरतरकविकाकर्षणात्यर्थभुग्नै
 रश्वऻ कैश्विन्निरुध्दाः खमिव [४४]खुरपुटैः खण्डयन्तः पुरस्तात् ।
केचि[४५]न्मातङ्गमुख्यैर्विहतजवतया मूकघण्टैर्निवृता
 मर्यादां भूमिपाला जलधय इव ते देव नोल्लॢ़[४६]घ्डयन्ति ॥ ७ ॥

 मलयकेतुः-आ[४७]र्य, त्वमपि सपरिजनो निवर्त्तख । भागुरायण [४८]एको मामनुगच्छतु ।

 कञ्चुकी [४९]तथा । (इति सपरिजनो निष्क्रान्तः ।)

 मलयकेतुः सखे भागुरायण, वि [५०]ज्ञसोऽहमिहागच्छभ्दिर्भद्रभटप्रभृतिभिः ‘यथा न वयममात्यराक्षसद्वारेण कु[५१]मारमाश्रयणीयमाश्च-


 सोत्सेधैरिति । खरतराणां तीक्ष्णलोहकण्टककीलितानां कविकानां खलीनानां आकर्षणादत्यर्थं भुग्नैर्नमितैरत एव सोत्सेधैर्मध्यभागोन्नतैः स्कन्धदेशैर्ग्रुीवाभागैरुपलक्षिता: अश्वाः कैश्चिन्निरुद्धाः । केचित् योधाः । सहसा जवनिरोधे सति मूकघण्टैरिति स्वभावोक्तिः । मातङ्गमुख्यैर्निवृत्ता़ः जवनान्मातङ्गान्सहसा संनिगृह्य निवृत्ता इत्यर्थः ॥ ७ ॥


यामहे । किंतु कुमारस्य सेनापतिं शि[५२]खरकमुरीकृत्य दुष्टामात्यपरिगृहीताच्चन्द्रगुप्तदपरक्ताः कु[५३]मारमाभिरामिकगुणयोगादाश्रयणीयमाश्रयामहे’ इति । त[५४]न्न मया सुचिरमपि विचारयता तेषामं[५५]यं

वाक्यार्थोऽवधारितः ।

 भाग़ुरायणः कुमार,न दु[५६]र्बोधोऽयमर्थः। विजिगीषुमात्मगुणसंप[५७]न्नं प्रियहितद्वारेणाश्रयणीयमाश्रयेदिति ननु न्याय्य एवायमर्थः ।

 मलयकेतुः--सखे भागुरायण न[५८]न्चमात्यराक्षसोऽस्माकं प्रियतमो हिततमश्च ।

 भागुरायणः-[५९]एवमेतत् । किंत्वमात्यराक्षसश्चाणक्ये वध्दवैरो न चन्द्रगुप्ते[६०] । तद्यदि कदाचिच्चणक्यमतिजितकाशिनमसहमानः


 आश्रयामह इति । राक्षसस्य दुष्टत्वं ध्वनयितुं दुष्टामात्येति चाणक्यविशेषणम् । आभिरामिकगुणेति च मौर्यदूषणाय ।

 अवधारित इति । अतःपरं भागुरायणस्य मलयकेत्वतिसंधानवचनं सर्वं बीजार्थस्यावमर्शनम्।


[६१] साचिव्यादवरोपयेत्ततो नन्दकुलभक्त्या नन्दान्वय एवायमिति सुहृञ्जनापेक्षया [६२]चामात्यराक्षसश्चन्द्रगुत्पेन सह संदधीत । चन्द्रगुप्तोऽपि पितृपर्या[६३]यागत एवायमिति संघि[६४]मनुमन्येत । ए[६५]वं सत्यस्मासु कुमारो न विस्वसेदेत्ययमेषां वाक्यार्थः।

 मलयकेतुः- युज्यते । [६६]अमात्यय गृहमादेशय ।

 भागुरायणः-इ[६७]त इतः कुमारः ।

( उभौ परिक्रामतः )

 भागुरायणः इ[६८]दममात्यगृहम् । प्रविशतु कुमारः ।

 मलयकेतुः-एष प्रविशा[६९]मि ।

 राक्षसः-( आत्मगतम् ) अ[७०] ये, स्मृतम् । ( प्रकाशम् ।) भद्र, अपि दृष्टस्त्वया कुसुमपुरे स्तनकलशः ।

 पु[७१]रुषः-अमच्च, अह इं। (क)


 ( क ) अमात्य, अथ किम् ।


 सुहृज्जनेति । सुहृज्जनाश्चन्दनदासशकटदासादयः ।


मलयकेतुः-([७२]आकणर्य।) भागुरायण, कुसुमपुरवृत्तान्तः पुंस्तूयते । न तत्र तावदुपसर्पामः श्रुणुमस्तावत् । कु[७३]तः ।


[७४]सवभङ्गभयाद्राज्ञां कथयन्त्यन्यथा पुरः।
अन्यथा विवृतार्थेषु स्वैरालपेषु मन्त्रिण: ॥ ८ ॥

 भागुरायणः- यदाज्ञापयति कुमार्:।

 राक्षसः-भद्र, अ[७५]पि तत्कार्यं सिद्धम् ।

 पुरुषः—[७६]अमच्चप्पसादेण सिद्धम् । ( क )

 मलयकेतुः-स[७७]खे भागुरायण; किं तत्कार्यम् ।

 भागुरायणः- कुमार, [७८]गहनः सचिववृत्तान्तः। नैतावता परिच्छेत्तुं शक्यते । अवहितस्तावच्छृ[७९]णु ।

 राक्षसः-भद्र, विस्तरेण श्रोतु[८०]मिच्छामि ।

 पुरुषः- सु [८१]णादु अमच्चो । अत्थि दाव अहं अमच्चेणाणत्तो


 ( क ) अमात्यप्रसादेन सिद्धम् ।

 ( ख) शृणोत्स्वमात्यः । अस्ति तावदहममात्येनाज्ञस: यथा —‘करभक,


सत्त्वभङ्गभयादिति । सत्त्वभङ्गो मनोभङ्गो विवृतार्थेषु परस्परविस्प ष्टार्थेषु ॥ ८ ॥


[८२] ह–‘करभअ, कुसुमपुरं गच्छ । मह वअणेण भण वआलिअं थणक[८३]लसं जह चाणक्कहदएण तेसु तेसु अण्णाभङ्गैसु अणुचिट्ठीअमाणेसु चन्दउत्तो उ[८४]त्तेअणसमत्थेहि सिलोएहि उवसिलोइद[८५]व्वो' त्ति । (ख)

 राक्षसः--भ[८६]द्र, ततस्ततः।

 करभकः-- त[८७]दो मए पाडलिउत्तं गदुअ सुणाविदो अमच्चसंदेसं वैआलिओ थणकलसो । एत्थन्तरे णन्दउ[८८]लचिणासणस्स


कुसुसपुरं गच्छ । मम वचनेन भण वैतालिकं स्तनकलशं यथा चाणक्यहतकेन तेषु तेषु आज्ञाभङ्गैषु अनुष्ठीयमानेषु चन्द्रगुप्तः उत्तेजनसमयैः क्ष्लोकैरुपक्ष्लोकयितव्यः’ इति ।

 ( क ) ततो मया पाटलिपुत्रं गत्वा क्षावितः अमात्यसंदेशं वैतालिकः स्तनकलशः । अत्रान्तरे नन्दकुलविनाशदूनस्य पौरजनस्य परितोषं


पोर[८९]जणस्स परितोसं समुप्पादअन्तेण रण्णा आघोसिदो कौमुदीम[९०]होसयो । सो अ चिरकालपरिवहृमाणो जणिदपरिचओ अभिमदवधूजणसमागमो विअ ससिणेहं भा[९१]णिदो णअरजणेण । (क)

 राक्षसः--( सबाष्पम् ।) हा देव नन्द,

कौमुदी कुमुदानन्दे जगदनन्दहेतुना ।
कीदृशी सति चन्द्रेऽपि नृपचन्द्र त्व[९२]या विना ॥ ९ ॥

 करभकः ते[९३]दो सो लोअलोअणाणन्दभूदो अणिच्छन्तस्स


समुत्पादयता राज्ञघोषितः कौमुदीमहोत्सवः । स च चिरकालपरिवर्तमानो जनितपरिचयोऽभिमतवधूजनसमागम इव सस्नेहं मानितो नगरजनेन

 ( ख ) ततः स लोकलोचनानन्दभूतोऽनिच्छत एव तस्य निवारितस्क्ष्चाण-


 चिरकालेति । चिरकालाद्वहोः कालात्परिवर्तमानः परितो वर्तमानो जायमान: जनितपरिचयः परिचितपूर्व इत्यर्थः।

 कौमुदीमहोत्सवः कुमुदानन्दे कुमुदानां कुवलयानां आनन्दजनके चन्द्र कोः पृथिव्या मुदमानन्दयति समर्धयति कुमुदानन्दे चन्द्रगुप्ते सत्यपि ताभ्यामप्यतिशयितेन सकलजगदानन्दहेतुना त्वया विना कीदृशी व्यथेत्यर्थः । व्यतिरेकालंकारः ॥ ९॥

 अनिच्छत इति । अनिच्छन्तमनादृत्येत्यर्थः । ‘षष्टी चानादरे' इति षष्टी


 ह्वयिष्यति । सर्वथा चाणक्यचन्द्रगुप्तयोः पुष्कलात्कारणाद्यो विक्ष्लेष[९४] उत्पद्येत स आत्यन्तिको भविष्यतीति ।

 करभकः--[९५]अत्थि अण्णं वि चन्दउत्तस्स कॊवकारणम् । उवेक्खिदो णे[९६]ण अवकमान्तो मलअकेदू अमच्चरक्खसो त्ति । (क)

 राक्षसः-[९७]शकटदास, हस्ततलगतो मे चन्द्रगुप्तो भविष्यति । इ[९८]दानीं चन्दनदासस्य बन्धनान्मोक्षस्तव च पुत्रदारैः [९९]सह समागमः ।

 मलयकेतुः--सखे भा[१००]गुरायण, हस्ततलगत इति व्याहरतः कोऽ[१०१]स्याभिप्रायः


 ( क ) अस्त्यन्यदपि चन्द्रगुप्तस्य कोपकारणम् । उपेक्षितोऽनेनापक्रामन्मलयकेतुः अमात्यराक्षस इति ।


 आत्यन्तिक इति । दृढः अप्रतीकार्य इति यावत् ।


 भागुरायणः-- कि[१०२]मन्यत् । चाणक्यादपकृष्टस्य चन्द्रगुप्तस्योद्धरणान्न किंचित्कार्यमवश्यं पश्यति ।

 राक्षसः-भद्र, ह्रु[१०३]ताधिकारः क्क सांप्रतमसौ बहुः।

 करभकः -तहिं ए[१०४]व्व पाडलिउत्ते अहिवसदि । (क)

 राक्षसः-(सावे[१०५]गम् ।) भद्र, तत्रैव प्रतिवसति । तपोवनं न गतः प्रतिज्ञां वा पु[१०६]नर्न समारूढवान् ।

 करभकः —[१०७]अमच, तपोवणं गच्छदिति सुणीअदी। (ख )

 राक्षसः-श[१०८]कटदास, नेदमुपपद्यते । पश्य ।


 (क) तस्मिन्नेव पाटलिपुत्रे अधिवसति ।

 (ख) अमात्य, तपोवनं गच्छतीति क्ष्रूथते ।


 चाणक्यादिति । सचिवायत्तसिद्धिः सचिवावियोगे हस्ततलगतः सुखेन जेयो भविष्यतीति राक्षसस्य निष्कपटोऽभिप्रायो भागुरायणेनान्यथा बोध्यते । चन्द्रगुप्तस्योद्धरणादुन्मूलनान्न किंचित्कार्यमवश्यं पश्यति नास्यात्यन्तिकाभीष्टसिद्धिः । हस्ततलकरणाद्वशीकरणातु स्वस्य साचि व्यप्राप्त्या चन्दनदासादीनामपन्निवृत्तिरात्यन्तिकी स्वार्थसिद्धिरित्यस्याभिप्राय इत्यर्थः ।

 सावेगमिति । तत्रैवावस्थाने मौयो॔न्मूलनप्रतिज्ञाया अकरणे वा कदाचित्पुनः संदधीतेत्यावेगः।


देवस्य येन पृथिवीतलवासवस्य
 [१०९]स्वाग्रासनापनयनानिकृतिर्न सोढा ।
सोऽयं स्खयंकृतनराधिपतेर्मनखी
 मौर्यात्कथं नु परिभूतिमिमां सहेत ॥ ११ ॥

 मलयकेतुः-सखे, चा[११०]णक्यस्य वनगमने पुनः प्रतिज्ञारोहणे वा काय खर्थसिद्धिः।

 भागुरायणः --[१११]नात्यन्तदुर्योधोऽयमर्थः । यावद्यावच्चाणक्यहतकश्चन्द्रगुप्तह्रीभ[११२]वति तावत्तावदस्य स्वार्थसिद्धिः।

 शकटदास् --[११३]अलमन्यथा विकल्प्य । उपपद्यत एवैतत् । पश्यत्वमात्यः ।

राज्ञां चूडामणीन्दुद्यौउतिखचितशिखे मूर्तृि विन्यस्तपादः
 स्वैरेवोत्पाद्यमानं किमिति विषहते मौर्य आज्ञविघातम् ।


 मनस्वी मानशीलः ॥ ११ ॥

 स्वार्थसिद्धिरिति । स्वस्य साचिव्यपलाभ इत्यर्थः।

 स्वैरेव स्वकीयैः सेवकैरित्यर्थः । स्वयमभिचरणेन ‘चाणक्यनाम्ना तेनाथ शकटालगृहे रहः। कृत्यां विधाय सप्ताहात्सपुत्रो निहतो नृपः । इति पूर्वोक्तनाभिचारकर्मणा ज्ञातदुःखप्रतिज्ञः। ज्ञातं अनुभूतं दुःखं


कौटिल्यः कोप[११४]नोऽपि ख्य्म्भएचरन्ङ्यतदु ख्प्रतएग्यो
 दै[११५]वात्तीर्णप्रतिज्ञः पुनरपि न करोत्यायतिग्लानिभीतः ॥१२॥

 राक्षसः-श[११६]कटदास, एवमेतत् । गच्छ विश्रामय करभकम् ।

 शकटदासः- तथा । ( इति प[११७]रुषेण सह निष्क्रान्तः ।)

 राक्षसः--अहमपए कुमारं द्रष्टुमिच्छामि ।

 मलयकेतुः- अहमेवा[११८]र्यं द्रष्टुमागतः।

 राक्षसः- (नाट्येनावलोक्य ।) अये कु[११९]मारः । ( आसनादु त्थाय । ) इदमासनम् । उपवेष्टुमहर् कुमारः ।

 मलयकेतुः- अ[१२०]यमुपविशामि । उपविशत्वार्यः । ( यथार्हमुप विष्टः।) आ[१२१]र्य, अपि सा शिरोवेदना ।

 राक्षसः- कु[१२२]मार्, कुमारस्याधिराजशब्देनातिरस्कृते कुमारशब्दे कुतो मे[१२३] शिरोवेदनायाः सह्यत ।

 मलयकेतुः- उरीक्रु[१२४]तमेतदार्येण न दुष्प्रापं भविष्यति । तकि-


क्लेशो यस्यां तादृशी प्रतिज्ञा यस्येति बहुत्रीहिगर्भा बहुत्रीहिः । आयति- ग्लानिभीतः प्रतिज्ञातार्थनिर्वहणक्लेशासहिष्णुः प्रतिज्ञालेशं बहुधानुभूय पुनः प्रतिज्ञां कर्तुं बिभीयादित्यर्थः ॥ १२ ॥


यन्तं कालमस्माभिरेवं संभ्रूतबलैरपि शत्रूव्यसनमुदी[१२५]क्षमाणैरूदासितव्यम्

 राक्षसः- कु[१२६]तोऽद्यापि कालहरणस्यावकाशः । प्रतिष्ठख विजयाय[१२७]

 मलयकेतुः--आ[१२८]र्य, शत्रुव्यसनमुपलब्धम् ।

 राक्षसः-उ[१२९]पलब्धम् ।

 मलय[१३०]केतुः--कीदृशं तत् ।

 राक्षसः -सचिवव्यसनं किम[१३१]न्यत् । अपकृष्टश्चाणक्याच्चन्द्रगुप्तः ।

 मलयकेतुः- [१३२]आर्य,सचिव्यसनमेव ।

 राक्षसः - अ[१३३]न्येषां भूपतीनां कदाचिदमात्यव्यसनमव्यसनं[१३४]स्यात् । न पुनश्चन्द्रगुप्तस्य ।

 [१३५]लयकेतुः-आर्य, नैतदेवं चन्द्रगुप्तप्रकृतीनां चाणक्यदोषा


 न पुनश्चन्द्रगुप्तस्येति। एवं राक्षसेन समाहितोऽप्यमात्यराक्षस: चाणक्ये बद्धवैरो न चन्द्रगुप्ते’ इत्यादिपूर्वोक्तेन बहुविधेन भागुरायणोपजापेन कलुपिताशयो मलयकेतुः पुनः शङ्कते--चन्द्रगुप्तप्रकृतीनामिति । राक्षसमेव मनसि विषयीकृत्य चन्द्रगुप्तप्रकृतीनामित्यादि ताटस्थ्येन वचनम् ।


एवाप[१३६]रागहेतवस्तस्मिंश्च निराकृते प्रथममपि चन्द्रगुप्तेऽनुरक्ताः संप्रति सुतरामेव तत्रानुरागं दर्शयिष्यन्ति ।

 राक्षसः-—मा[१३७] मैवम् । ताः खलु द्विप्रकाराः प्रकृतयश्चन्द्रगुप्तसहोत्थायिन्यो न[१३८]न्दानुरक्ताश्च । तत्र चन्द्रगुप्तसहोत्थायिनीनां चाणक्यदो[१३९]षा एव विरागहेतवो न नन्दकुलानुगतानाम् । तास्तु खलु नन्दकुलमनेन पि[१४०]तृभूतं घातितमित्यपरागामर्षाभ्यां विप्रकृताः सत्य [१४१]खाश्रयमलभमानाश्चन्द्रगुप्तमेवानुवर्तन्ते । त्वादृशं पुनः प्रतिपक्षोद्धरणे सं[१४२]भाव्यशक्तिमभियोक्तारमासाद्य क्षिप्रमेनं परित्यज्य त्वामेवाश्रयिष्यन्त इत्यत्र निद[१४३]र्शनं वयमेव ।

 मलयकेतुः-—आ[१४४]र्य, किमेतदेकमेव सचिवव्यसनमभियोगकारणं चन्द्रगुप्तस्याहोखि[१४५]दन्यदप्यस्ति ।

 राक्षसः कि[१४६]मन्यैर्बहुभिरपि । एतद्धि प्रधानतमम् ।


 मलयकेतुः-आर्य, क[१४७] थमिव प्रधानतमम् । किमिदानीं चन्द्रगुप्त: स्व [१४८]कार्यधुरामन्यत्र मन्त्रिनण्यात्मनि वा समासज्य खयं प्रतिवि

धातुमस[१४९]मर्थः ।

 राक्षसः बाढमसमर्थः। कु[१५०]तः स्वायत्तसिद्धिषु तत्संभवति । चन्द्रगुप्तस्तु दुरात्मा नित्यं सचिवायत्तसिद्धावेव[१५१] स्थितश्चक्षुर्विकल इवाप्रत्यक्षलो[१५२]कव्यवहारः कथमिव खयं प्रतिविधातुं समर्थः स्यात् ।

 अत्युच्छूिते मन्त्रिणि पार्थिवे च[१५३] विष्टभ्य पादावुपतिष्ठते श्रीः ।

 सा [१५४]स्त्रीखभावादसहा भरस्य तयोर्दूयोरेकतरं जहाति ॥ १३ ॥


 प्रतिविधातुमिति । प्रतिविधातुमस्मदभियोगं प्रतिकर्तुमित्यर्थः ।

 तत्संभवतीति । संभवतीत्यनेन सामर्थ्र्यस्य कादाचित्कत्वमुक्तम् । उभयायत्तसिद्धेरेवोत्तरश्लोके प्राशस्त्यकथनात् ।

 यत्पृष्टं स्वकार्यधुरामन्यत्र मन्त्रिणीति तत्परिहरति--अत्युच्छूित इति । श्रीः राज्यश्रीः अत्युच्छूितयोः समस्कन्धतयात्युन्नतिं प्राप्तयोः । ऐकमत्येनान्यूनाधिकभावेन वैकीभावमिवोपगतयोरिति यावत् । मन्त्रिपार्थिवयोः पादौ मन्त्रशक्तिप्रभुशक्तिरूपैौ विष्टभ्य समवस्थाप्योपतिष्ठते


 नृपोपकृष्टः सचिवात्तदर्पण[१५५] स्तनंधयोऽस्यन्तशिशुः स्तनादिव ।

 अदृष्टलोकव्यवहारमन्द[१५६]धीर्मुहूर्तमप्युत्सहते न वर्तितुम् ॥ १४॥

 मलयकेतुः--(आत्मग[१५७]तम् ।) दीष्ट्वा न सचिवायत्ततत्न्रोऽस्मि ।( प्रकाशम् ) [१५८]यद्यप्येवं तथापि बहुष्वभियोगकारणेषु सत्सु व्यसन-


सुस्थिरा सती तयोः संगता भवतीत्यर्थः । ' उपाद्देवपूजासंगतिकरणमित्रकरणपथिषु’ इति तङ् । यद्यपि प्रभुमन्त्रोत्साहरूपास्तिस्रः शक्त्तयस्तथाप्युत्साहशक्तेरुभयानुकूलत्वेन द्वयोरन्तर्भावाभिप्रायेणात्र सा पृथग्न गृहीता । तयोर्मन्निपार्थिवयोर्दूयोः सतौवैर् मत्येन न्यूनाधिकभावमुपेत्य द्वैधीभावेन स्थितयोः सा श्रीद्व्योः पादयोः सम्यगवष्टम्भसंभवाद्भरस्याः सहा राज्यभारं वोढुमसमर्था सती स्त्रीस्वभावाद्दौर्बल्याच्चापल्याचैकतरं मन्त्रिणं वा पार्थिवं वा जहाति । कंचित्कालं प्रभुमात्रमाश्रित्य वर्तमानापि मत्रवैकल्येन स्वयमपि नश्यत्येवं मन्त्रिणमाश्रित्य वर्तमनापि प्रभुत्ववैकल्येन नश्यतीति भावः । यथा काचन नर्तकी उच्छि्तौ समौ वंशस्तम्भौ पादाभ्यां दृढमवष्टभ्य सुस्थिरा तिष्ठति तयोर्वैषम्ये विसंष्टुलपदतया देहभरं वोढमसहा एकं हित्वान्यतरमवलम्बमाना तेन सह स्वयमपि पतति तद्वत् । अत्र प्रस्तुतेनाप्रस्तुतस्य स्फोरणात्समासोक्तिरलंकारः। एवमुच्छि्त्तः संश्चन्द्रगुप्तोऽनुच्छि्तेऽन्यस्मिन्मन्निणि धुरामसज्यासमर्थः स्यादिति प्रतिपादितम् ॥ १३ ॥

 अथात्मन्यासयेत्यस्य परिहारमाह--नृप इति।तदर्पणः तस्मिन्नेव सचिवे राज्यतत्रं सर्वमर्पयतीति तथाभूतः सचिवायत्तसिद्धिरित्यर्थः। अदृष्टलोकव्यवहारः अत एव मन्दधीरिति विशेषणसमासः । तस्मात्सचिवादपकृष्टः सन्राज्यधुरां वोढुमसमर्थो भवतीत्यर्थः ॥ १४ ॥

 दिष्टयेति । त्वयि विरुद्धवृत्तावपि स्वतन्त्रस्य मे नानिष्टमिति भावः ।

 यद्येवमिंति । व्यसनमभियुज्यमानस्य अनुसंदधानस्य व्यसनमन्विष्य


मभियुञ्जानस्य शत्रुमभियोक्त्त्तु[१५९]रैकान्तिकी कार्यसिद्धिर्भवति ।

 राक्षसः-ऐका[१६०]न्तिीमेव कार्यसिद्धिमवगन्तुमर्हति कुमारः॥ कुतः ।

त्वय्युत्कृष्टघलेऽभियोक्तरि नृपे नन्दानुरक्ते पुरे
 चाणक्ये चलिताधिकारविमुखे मौर्य नवे राजनि ।

खाधीने मयि

( इत्य[१६१]र्द्धोक्ते लज्जां नाटयन् )

मार्गमात्रकथनव्यापारयोगोद्य[१६२]मे

 त्वद्वाञ्छा[१६३]न्तरितानि संप्रति विभो तिष्ठन्ति साध्यानि नः॥१५॥

 मलयकेतुः ---[१६४]यधेवमभियोगकालमार्यः पश्यति ततः किमास्यते । उतुङ्गास्तुङ्गकूलं श्रुतमदसलिलाः प्रस्यन्दि[१६५]सलिलं

 श्यामाः श्यामोपकण्ठद्रुममतिमुख[१६६]राः कल्लोलमुखरम् ।


शत्रुमभियोक्तु: अभिषेणयत इत्यर्थः । अन्येषु बहुषु कारणेषु सत्सु सचिवव्यसनमपि साधकं न केवलमिति भावः ।

 अन्यान्यप्युत्कृष्टबलादीनि कारणानि सन्तीत्याह-वयीति । स्वप्रशंसायां लज्जाप्रशंसामेव निहते । मार्गमात्रकथनव्यापार एव योगः उपायः तत्र उद्यमो यत्न यस्य सः । त्वद्वाञ्छेति । त्वदाज्ञां प्रतीक्षत इत्यर्थः ॥ १५॥

 उत्तुङ्गा इति । अत्र पुलुङ्गस्तुङ्गकूलमित्यादिसाधारणधर्मोंपाद्नाद्जपतीनां शोणसिन्धोश्चोपसा गया। शोणमिति श्लेषानुप्राणिता। अन्न स्रग्धरावृत्तस्य एकाक्षरमात्राद्वयस्य न्यूनतया प्रस्तारविशेषः ॥ १६ ॥


स्रोत:[१६७]खातावसीदत्तटमुरुदशनैरुत्सादिततटाः

 शोणं सिन्दूरशोणा मम गजपतयः पा[१६८]स्यन्ति शतशः ॥ १६॥

अपि च ।
 गम्भीरगर्जितरवः [१६९]स्वमदाम्बुमिश्र
  मासारवर्षमिव शी[१७०]करमुद्भिरन्त्यः ।
 विन्ध्यं विकीर्णसलिला इव मेघमाला
  रुन्धन्तु[१७१] वारणघटा नगरं मदीयाः ॥ १७ ॥

( इ[१७२]ति भागुरायणेन सह निष्क्रान्तो मलयकेतुः । )

 राक्षस्थः कः कोऽत् भोः ।

( प्रविश्य )

 पुरुषः—-आणवेदु अमच्चो । ( क )

 रक्षसः-प्रियमवद्क्, सांवत्सरिका[१७३]णां द्वारि कस्तिष्ठति ।

 पुरुषः--वखव[१७४]णओ । ( ख )


 ( क ) आज्ञापयतु अमात्यः ।

 (ख) क्षपणकः ।


 गम्भीरेति । नगरं पुष्पपुरं वारणमेघमालयोः पूर्योपमा ॥ १७ ॥


 राक्षसः-(आत्म[१७५]गतम् । अनिमित्तं सूचयित्वा ) कथं प्रथममेव क्षपणक:[१७६]

 पुरुषः—जीवसिद्धी[१७७] । (क)

 राक्षसः--(प्रकाश[१७८]म् ) अबीभत्सदर्शनं कृत्वा प्रवेशय ।

 पुरुषः-तह[१७९] । (इति निष्क्रान्तः ।) (ख)

( प्रवि[१८०]श्य )

क्षपणकः--

सासण[१८१]मलिहन्ताणं पडिवज्जह मोहवाहिज्जाणं ।
जे मुत्तमा[१८२]त्तकडुअं पच्छा पत्थं उवदिसन्ति ॥ १८ ॥ (ग)


 ( क ) जीवसिद्धिः ।

 ( ख ) तथा ।

 (ग) शासनमर्हतां प्रतिपद्यध्वं मोहव्याधिवैद्यानाम् ।

  ये मुहूर्तमात्रकटुकं पश्चात्पथ्यमुपदिशन्ति ॥ १८ ॥


 जीवसिद्दीति। प्रथमं क्षपणकसामान्यबुद्धया दुर्निमित्तविचिकित्सा । पश्चाज्जीवसिद्धिं ज्ञात्वा प्रस्थानमुहूर्तप्रस्तावार्थं प्रवेशानुमतिः । किंचादौ क्षपणक इति दुरुपश्रुत्या राक्षसस्य प्रकृतनीतितन्त्रव्याकोपः सूचितः । पश्चाज्जीवसिद्धिरिति सूपश्रुत्या मलयकेतौ हन्तुमुद्युक्तेऽपि भगुरायणनयोपायेनास्य जीवनसिद्धिश्च सूचितेति द्रष्टव्यम् ।

 सासण इति । केशोल्लुञ्चनतप्तशिलाधिरोहणादितीक्ष्णतपसा मोक्ष


( उपसृ[१८३]त्य ।) धम्मसिद्धी होदु सावगाणम् । (क)

 राक्षसः--भदन्त[१८४], निरूप्यतां तावदस्मत्प्रस्थानदिवस: ।

 क्षपणकः-- ( नाट्येन[१८५] चिन्तयित्वा ।) सावगा, णिरूविदा मए आमज्झण्णा[१८६]दो णिवुत्तसव्वकल्लाणा तिही संपुण्णचन्दा पुण्णमासी ।


 ( क ) धर्मसिद्धिर्भवतु श्रावकानाम् ।

 (ख ) क्षावक, निरूपिता मयामध्याह्नान्निवृत्तसर्वकल्याणा तिथिः संपूर्णच-


इत्यार्हतानां मतम् । अनेन गाथार्थेन संप्रति स्वेन वक्ष्यमाणं वचनमापाततो रूक्षमपि परिणामे राक्षसस्य पथ्यमिति सूचितम् ॥ १८ ॥

 श्रावक इति । शुक्षूषुपर्यायशब्दस्तन्मतव्यवहारसिद्धः।

 भदन्तेति ज्यौतिषिकनाम तैरेव व्यवहृतम् । अयमत्राभिप्रायः—-आश्वयुज्यां पौर्णमास्यां कौमुदीमहोत्सवप्रतिषेधेन व्यायामकालस्योक्तत्वात्तद्रभ्य मासद्वयमात्रेणोभाभ्यां चाणक्यराक्षसाभ्यामुपजापादिना भेदतन्नं प्रसाधितम् । अथ मार्गशीर्ष्या कुसुमपुरोपरोधाय प्रस्थातुकामेन राक्षसेन प्रस्थानदिवसे प्रुप्टी जीवसिद्धिस्तस्मै मुहूर्ते कथयति । अद्य पौर्णमासी पञ्चचत्वारिंशन्नाडिकेति मध्याह्नपर्यन्तं भद्राभिधं विष्टिकरणं निवृत्तसमस्तकल्याणं प्रयाणे निषिद्धम् । किंचाद्य पूर्वदिशि वर्तमानं मृगशिरोनक्षत्रं दक्षिणादिशं प्रस्थितानामदक्षिणं वामं प्रतिकूलं च । अथापि


तुम्हा[१८७]णं उत्तलाए दिसाए दक्खिणां दिसं पथिदाणं अदक्खिणे । णक्खत्ते। अवि अ[१८८] । (ख)

अत्थाहिमु[१८९]हे सूरे उदिए संपुण्णमण्डले चन्दे । ग[१९०]
मणं बुधस्स लग्गे उदिदथमिदे अ केदुभ्मि ॥ १९ ॥ (क)


न्द्र पौर्णमासी युष्माकमुत्तरस्या दिशो दक्षिणां दिशं प्रस्थितानां अदक्षिणनक्षत्रम् । अपि च ।

 (क ) अस्ताभिमुखे सूर्य उदिते संपूर्णमण्डले चन्द्रे ।
  गमनं बुधस्य लग्ने उदितास्तमिते च केतौ ॥ १९ ॥


त्वरया गन्तव्यमिति चेत्सायं सूर्येऽस्तमिते चन्द्रोदयसमये लग्नं मिथुनं बुधस्तस्याधिपतिः राहुः केतुर्वा तदा उदितास्तमितो भविष्यति । तस्मिबुधस्य लग्ने गमनं कर्तव्यमिति शेषः । राहुकेत्वोः खकारमेकं शरीरं तत्र शिरो राहुः पुच्छं केतुः शिरस्युदिते पुच्छमस्तमितं भवति । पुच्छ उदिते शिरोस्तमितमिति ज्योतिःशास्त्रसिद्धम् । उभयोरेकशरीरत्वाद्राहुरिति केतुरिति व्यपदेशः । अत उक्तमुदितास्तमिते केताविति । एवं च मिथुनं द्विस्वभावं धनुषि सप्तमकेन्द्रे स्थितेन कूरेणास्तमितेन सूर्येण दृष्टं केतुना पापग्रहेण च युक्तं प्रयाणेऽनिष्टम् । तथा चोक्तम्----- ’द्विमूर्तिराशावुदयं प्रपन्ने क्रूरग्रहैर्युक्तनिरीक्षिते च । प्रयाति यद्यप्यबुधस्तदा न निवर्तते शत्रुजनाभिभूतः ।।' इति । एवं संदिग्धे मुहूर्ते उक्ते । लग्ने इति । द्विस्वभावाप्रयाणे निषिद्धे मिथुनं यद्यपि दुर्जुनं तथापि बुधेन सौम्यग्रहेणाधिष्ठितं सत्सुलग्नं भवति तदा चन्द्रबलेन गच्छन् दीर्घा चिरेण भाविनीं सिद्धिं वक्ष्यसि । अतस्तत्र गन्तव्यमित्यस्य ग्रन्थ


 राक्षसः--भदन्त[१९१], तिथिरेव न शुध्यति ।

 क्षपणकः---साव[१९२]गा। ,

एकगुणा ति[१९३]थी चउग्गुणे णक्खत्ते ।
चउसत्तिगुणे ल[१९४]ग्गे एसे जोइपतन्तसिद्धन्ते ।

ता[१९५] । लग्गै होइ सुलग्गै सोमम्मि गहम्मि जइ वि दुल्लग्गे ।

 [१९६]हेसि दीहं सिद्धिं चन्दस्स वलेण गच्छन्ते ॥ २०॥ (क)


 ( क ) श्रावक,

एकगुणा तिथिश्चतुर्गुणं नक्षत्रम् ।
चतुःषष्टिगुणं लक्षमेष ज्योतिषतत्रसिद्धान्तः।

तस्मात् । लनं भवति सुलनं सौम्ये ग्रहे यद्यपि दुर्लभम् ।  वहसि दीर्घ सिद्धिं चन्द्रस्य बलेन गच्छन् ॥ २ ॥


स्यार्थः । अत्र श्लेषेणाभिप्रेतोऽथ जीवसिद्धिना ध्वनितः । तथाहि शूरो राक्षसः अर्थाभिमुखः अथ मौर्यसाचिव्यरूपोऽभिमुखो यस्येति बहुत्रीहिः। तस्याभिमुख्यत्वेनोपस्थित इति भावः । चन्द्रगुप्तः संपूर्णराष्ट्रः सत्रुदितो सलयकेतुरुद्रित एवेदनीमतः परमस्तं पशभवमेष्यतीति उदितास्तमितः । पत्थिणं अदक्खिणं णक्खत्तं । इत्थं प्रस्थितानां क्षत्रं न दक्षिणमिति योजना । एवं प्रस्थितानां च युष्माकं क्षत्रं भद्रभटप्रभृति दक्षिणं न भवति किं तु प्रतिकूलं मलयकेतुनिग्रहोन्मुखमित्यर्थः । अस्मिन्समये बुधस्य चाणक्यस्य लग्ने सबन्धे निमित्तभूते सति चाणक्थे त्वत्संबन्धार्थमुद्युक्ते सतीति भावः । चन्द्रगुप्तस्य बलेन भद्रभटादिना गच्छंस्त्वं दीर्घ चिर-


 राक्षसः -भ[१९७]दन्त, अपैरैः सांवत्सरिकैः सह संवाद्यताम् ।

 क्षपणकः -संबादेदु[१९८] सावगो । अहं उण गमिस्सं । ( क )

 राक्षसः- -न खलु कुपितो भदन्तः ।

 क्षपणकः— कुविदे ण[१९९] तुम्हाणं भदन्ते । (ख)

 राक्षसः -कस्तर्हि ।

 क्षपणकः -भ[२००]अवं कअन्तो । जेण अत्तणो पक्खं उज्झिअ परपक्खो

[२०१]माणीकरीअदि । (ग )


 ( क) संवादयतु आवकः । अहं पुनर्गमिष्यामि ।

 ( ख ) कुपितो न युष्माकं भदन्तः ।

 ( ग ) भगवान्कृतान्तः । येनात्मनः पक्षमुज्झित्वा परपक्षः प्रमाणीक्रियते ।


मनपायिनीं चन्द्रगुप्तस्य साचिव्यपदसिद्धिं वहसीति राक्षसं प्रति गूढाभिसंधिवचनम् ॥ १९ ॥ २० ॥

 येन त्वया आत्मनः पकं ज्योतिःसिद्धान्तवेदिनं भ। परित्यज्य परे सांवत्सरिका अपेक्ष्यन्ते । अतस्त्वज्योतिःशास्त्रस्य कृतान्तः सिद्धान्तो व्याजोषित इति मत्वा कृतान्तः कुपित इति निष्टुरवचनं स्पष्टम् । येन त्वयात्मनः प“ नन्दवंशीयं चन्द्रमुपेक्ष्य परपक्षो मलयकेतुः प्रमाणीक्रियतेऽतस्तव कलः कुपित इति हृदि गूढम् । ‘कृतान्तो यमसिद्धान्तौ इत्यमरः ।


( इ[२०२]ति निष्क्रान्तः क्षपणकः ।)

-  राक्षसः -प्रियंवदक, ज्ञा[२०३]यतां का वेला वर्तत इति ।

 प्रियंबकः —अ[२०४]त्थाहिलासी भअवं सुरो। (क)

 राक्षसः --(उ[२०५]थाय विलोक्य ।) अये, अस्ताभिलाषी भ[२०६]गचान्भास्करः। संप्रति हि ।

आविर्भू[२०७]तानुरागाः क्षणयुदयगिरेरुजिहानस्य भानोः
 [२०८]र्णच्छायैः पुरस्तादुपवनतरखो दूरमाश्वेव गत्वा ।


 ( क ) अस्ताभिलाषी भगवान्सूर्यः ।


 शूर इति । शूरो मलयकेतुरतोन्मुखः शूरो राक्षसश्चार्थाभिलाषी इति चोपश्रुतिध्दैनिता ।

उक्तमेव दुरुपश्रुतिमन्यथयति--भास्कर इति ।

आविर्भूतानुरागा इति । उज्जिहानस्योद्यमानस्य पर्णच्छायैः पर्णच्छायारूपेण । इत्थंभावे तृतीया । ‘छायाबाहुल्ये’ इति नपुंसकत्वम् । पुरस्तात्पुरोभागे पुरोगामिसेवकवत् । आशु शीघ्रमेव गत्वा पूर्वाहे वृक्षच्छायाः प्रत्यक्प्रसरन्तीति भानोः पुरोगामिभृत्यत्वेनोत्प्रेक्षिताः पश्चापराहे


एते तस्मिन्निवृत्तः पु[२०९]नरपरगिरिप्रान्तपर्यस्तबिम्बे
 प्रायो भृत्यास्त्यजन्ति प्रचलितविभवं स्वामिनं सेवमानाः ॥ २१ ॥

( इति निष्क्रान्ताः सेवें।)

[२१०]तुथोऽङ्कः ।



तस्मिन्नस्तोन्मुखे सति निवृत्तास्तं परित्यज्य परावृत्ता इव दृश्यन्ते । ‘अपककुभः श्रान्तपर्यस्त बिम्बे’ इति पाठे अपककुष्पश्चिमदिगेव । प्रायो भृत्या इत्यर्थान्तरन्यासः । तेन च मलयकेतुदुरवस्था ध्वन्यते । इत्थं नियताप्तिप्रकरीरूपो विमर्शसंधिस्तस्याङ्गानि चपवादादीनि निरूपितानि ॥ २१ ॥

 इति श्रीत्र्यम्बकयज्वभ्रभुवर्याश्रितदुण्ढिराजव्यासयज्वविरचिते मुद्राराक्षसनाटकव्याख्याने चतुर्थाऽङ्कः समाप्तः ।


  1. चेशः B. N.
  2. B.E। oं, first ही; N. (s) reads हाहा R.E om. second हीमा.
  3. G.N.H. read जोअणसअम् समहिअम्; B. धिअम्; E ditto reading य for अ in this; गदागर्दै B; गआगत° N.; गयागअ° G; गयागय° E; गआगआ R.; गआगआइ M; E. om. इह following and P. and A. read एह; for करेइ A.P. read करेदि; N.E. करिज्ज; G. करेजः
  4. अस्था°B.E.N.G; for गुब्वी at the end of the compound P. has गुर्वी, B.N. गुरुई, E। गुरेद्रे (?). In the next word A.P. read भु for हु G. reads होजइ, E हुज्जइ, for होइ; E. has also अन्ना जइ for अण्णा जइ‌।
  5. B.G.N. have ता before this. E, has थाव for this. B.N. have जेव्व for एदं; B. जैव For गच्छामि at the end of the sentence M.R, read गच्छम्मि; A.P. गच्छेमि; परिश्रान्त' for श्रान्त' B.G.N.E.
  6. भो before this B.G.N; P. has थेत्य for एत्य; for दुचा° B.N.G. have दुआ°.E. दावो°; निवे° for णिवे° B.E.N; B.N. add दाव after it.
  7. Before this B.N. have क्खु, E,षु; G. reads करहओ; E.करभको; B.N.करहको; B.adding after this करहका विअ कज्जम्; B. करभको विय कब्जभ्; G. adds विअ only omitting व in next word;पाडलिउत्तादो N; पाडलिउत्तआदो R.; पाडलिपुत्तादो B.; पाटलिउत्तादो G.; पाटलिपुतादो B;पटलिखुत्तआदो M.;याटलिपुत्तोआदो P; R. M. gead आअद° 1n next word and E. आगत’
  8. सणिअ A.P.; मा उच्च B.E.N.G.क्खु भट्टा असच्चरक्खसो B.N.; क्खु अमच्छर° E.अमच्चर° G; B. and N. (T) read रज for कब्जा after धमच्चो-
  9. जागरेण N.E; °गरएण° R; G. has समुप्पादिद for समुप्पण्ण after this and सरीर for सीस.
  10. वि दाव ण सअणदलम् B; अजविणताव सयणअलं विमु°. G.;अजावि ताव ण सअणदलं विमु°. N.अज्ज वि दाव सजनयलनं सु. E; सुहुत्तयम् G.E.; भ्रुजतअम् (?) N. Before this B.N. read ताव; B.G.N. add जाव से, E. जाव after it, भविअ भवदो for तुह B.भविअ तुह N.; भविअ भअदा जाव,अमणम् G.; आगमणम् B.E.
  11. निवेदेमि E.णिवेदेह्मि R.
  12. G. reads भद्द मुहुत्तअं तथा करेमि; N. भद्दमुह तहा करेमि; B. भद्दमुहा करेहि; B. भद्दमुह जधा दे रोअदि; P. has करोमि for करेहि in text
  13. B. E.N. G. E. omगृह after शयन; B. E. N. H; read °गतेन for °स्थः in आसः नस्थःB. . read अनुगम्यमानः for सह and B. has चिन्तितो for खचिन्तो N
  14. स्वगतम् G.
  15. °अथच E., सहज B. N., for अपिच.
  16. अपि E.H. विहते तछ° for विहिते संस्कृ° B; तत् for मत् E. H.; इं° for ‘हि° N.
  17. °न्य°..शाः B. E, N. G. H.
  18. बर्षम् B. N. मशीन E; सुहुः for पुनः A.; पुरः (G.
  19. M. R. omतद्; A. R. oम, नाम.
  20. जअदुजअइ B. N. B. G which add अतो
  21. अभि° B. JB. N. G.अनु°
  22. G , adds राक्षसः
  23. स्पन्दम् B. N. G; B. E. N. G. R. omit. दुरात्मा; B. N. read जयति अभि°;. E, जयतु अभि°
  24. E. adds राक्षस before this; B. N. (t) and H. om. वागीश्वरी and E, reads दौवारिकमवलोक्य प्रकाशम् before वागीश्वरी.
  25. गतम् B. E; P. rends पतिमापा° for प्रतिपा
  26. B. R. H. have एसोक्खु before bhia; G एसो.; N. B. H. read ह for भ and JED. ‘को for ओ; R. M. read दुवारेचिदुइ G. दुवारिB. H. read पाडलिपुत्तादो आअदो इच्छदि अमञ्चं पेक्खिदुम् B. agrees reading वो for दो in पुत्तादो and ग for अ in आअदो; N. has एसो पाडलिउत्ताओ आसूदो करहओ आअदो इच्छदि &e
  27. अचारितम् B; अविलम्बितम् .E H; N. G. add आर्यं किं विचारयसि before this; B. adds एनम् after प्रवे.
  28. for तहेति B.E. N. G. H. read जे अमच्चो ( G. देवो ) आणवेदिन्ति ( इति. G.; om. E. )G, oni. निष्क्रम्य; E. substitutes निर्गत्य; P, om तंहेति निष्क्रम्य and reads पुरु° पुनरुपं. भद्र B. N. G; B. N. E. H. add here एसो आमच्चो चिठेदि ता; G agrees adding खु after एसो and om.ता; For उवसप्पेहि। B. E. N. G. have उष्प्प्पदु; G. उपसृष्य; A.उपस्रप्प; E. H. उवसप्पेहि.
  29. B. E. N. G. have णमु for अम°.
  30. E. om. इति; B. E. N. G. H. add दौवारिकः after this
  31. Before कर° G; B. N. add राक्षसम् before उप.° B. G. N. have जंअदु E. जयनदु जयदु.
  32. B. E. N. G. H. before this नाट्येनावलोक्यं and कर्भक स्लॉगतमुपविश्यताम् for what follows.
  33. अब्जो A. P.; देवो G; for ते G. reads इति; , om. it; and B. and N. read उपविशति for उपविष्टः further on.
  34. स्वग° B. N; B. E. N. have अथ after this; G. om. अयम्; B. N. add प्रणिधिः after it.
  35. G. E. read कार्याणामू; B. E. N. H. om. बाहल्यात् and read प्रभूतत्वात् before प्रयो; G. reads बहुत्वात् for बाहुल्यात्.
  36. अपरः for द्वितीयः B.E.N H
  37. ओसलध अज्जा ओसलध। अवेध माणहे अवेध। किम् &c.B. N., ओसलह औसलह अज्ज । अवेह माणहे अवेह । ती किम् &G.;ओसलध अज्जा ओसलध । अवेह माणहे अवेह E, R, and M, have असलेह and अवेह Once only; R. has अअम् before आअदो.
  38. पेक्खेह R. M.; पेक्खध B. N. G.
  39. °सञ्ची. R.; °णमवि for °णंवि B. E, N. H.; °णमपि G.; ण्णेहिं for ण्णैः B.E. N. G.; अधञ्ञेहिं H .
  40. घ. B.; हरणम् N; कल्लाणमणहलाएं H.; R.reads देव्वाणम् in both places; N. देवाणम्; B. and E. read देवाणं च
    भूमिदेवाणमु; G. has भूमिदेवाणम् omitting.दे-अ; देवाण च भूमिदेवार्ण H.
  41. E. has कुमार एते before this; B. N. read कुमार कुमार एते भवदज्ञास मनन्तरमेव प्रतिनिवृत्ताः सर्व एव राजानः;G. E. read प्रतिनिवृत्ताः सर्वे राजानः.
  42. B. G. N. add हि after this.
  43. सोल्सेकैः E.;सौधोच्चैः P. For खरतरकविका B. N. read मुखरकविकया, G. E. H. खरकविककशा., R. M. read खरतरक लिका; °त्यन्त° for °त्यर्थ° R. M.
  44. खरपदैः G.
  45. काश्चि° P; र्विहित° for र्विहत° P. A. E.
  46. °यन्ते R.
  47. राजा. A. P; after आर्य B. E. N. add जाजले.
  48. एक एव B. N.
  49. यदाज्ञापयति कुमार इति. B. E. N. G; R. G. M. om खपरिजनोः
  50. विज्ञापितो B. E. N.किम् before विसो G.
  51. M. R. • om. न after यथा and insert it before कुर°; B. E. N. (C) om. आश्रयणीयम् after this.
  52. °कमुररीकृत्य P.; शिखरसेनमुरी°.G.; शिखरसेनं दूरीकृत्य B. E. N. H.
  53. सन्तः before this B.E. N.; आभिगामिक H.
  54. तत्र P.
  55. अयम् om. in B.N. For अव° B. N. (r) have अधिगतः,P. नाय°
  56. B. N. have एवाय मत्यन्त before this and om. अयम् after; B. N. G. add पश्य after अर्थः .
  57. B. N. H. read वि...राम... न्नः प्रि° . &c; G. agrees omitting visarga after न्न. For हित G. has विहित; °श्रयतेति for °श्रेयेदिति M. R; °णाश्रयणीय इति G. H.; °श्रयीतेति. A. P. which om. ननु following; A. reads न्याय्यम् and G. न्यायम् for न्याय्यःB. N. G. Om अर्थःE. om. this and last speech.
  58. अस्माकम् is before अमात्य &c. in B. E. N. G; E.has निरर्गलम् before प्रिय° which last G. has after हिततमः.
  59. कुमार before this B. E. N.R. has एवमेव तत्.
  60. तु before this B. G. N.चन्द्रगुसः before चाणक्य in B. E. N. G; ‘काशितयासह° for काशिनमसह° E.
  61. A. P. B. E. N. G. om . स and for °दवरोप° A. E. have °दवरोप° and P. °देवरोप°  ; नन्दकुन्चएवा° A ; °नंकुलान्वयएव° P, after इति B. N.read कृत्वा संपत् and G. E. संयत; E has a च after ' एव; H. reads संजातसुहृज्जनापेक्षया.
  62. वा. P.
  63. पारंपर्याग°Bकृत्वा after °मिति B N.
  64. अङ्गीकुर्यात् H.
  65. य before this B; B. E. N. add अपि after अस्मासु;°श्वस्यदि° for विश्वसेदि° E; R. has एतेषाम् for एषाम्
  66. B. N. G. read अमात्यराक्षसस्य; B. अमात्यराक्षस; B. N. have सखे भागुरायण before this, and मा after गृहः
  67. G. om. this speech; R. om, one इतःB. N. have इति before उभौ.
  68. कुमर before this B. E. N. G. which have राक्षसस्य after अमात्य; G.om, प्रन्र:
  69. B. N. add इति प्रवेशनं नाटयतःE. प्रवेशं नाटयतः
  70. आः B. N.; IE. has स्मृत्वा for अ-न्मु; B.E. N. G. H. om. आत्म° ; P.cads स्वग°; त्वया after कुसुम• R. M. G; B. E. N. add चैतालिकः after पुरे.
  71. कर° B. N.; अध for अह B, E . N. G; किम् forइंE.
  72. B.E.N. have सखे for this; वर्तते for प्रस्तूयते B.प्रस्तुतः E; °त्तान्तेन तावदुपशमोऽस्य G.For what follows B. N. read तन्नोप°, E. M. तन्नतावदुप°,G.तत्पटान्तरिताव शृ°; °सर्पाव: for सर्पामः B. E. N. and शृणुव:for शृणुमः also in G.
  73. किं कारणमिति B. N.; किं कारणमेतत् G;किं कारणमिति पश्य. E. omittingशृ -तू before this.
  74. मन्त्र° B.; पुनः for पुरः A. M. P.
  75. Before भद्र R. G.
  76. अमच्चस्स B. E. N; प for प्प.E ; and ए B. E. N., ये G. , रे P., forदे in cपसादेण.
  77. om.G ; M. R. om भागु°; E. reads तत्किं कार्यं सिद्धम्
  78. खलु after this B. E. N.
  79. श्रोतुम र्हति कुमारः B. N. G; E. agrees reading इच्छति for अर्हति
  80. तत् before श्रोतुम् . G.
  81. सुणोदु R; E. reads अज़ो for अमच्चो and G, मच्चो; ताव for दाव G. which om. अमन्त्रेण further on.
  82. जहा G.; जधां B. N.; यद्वाह E; B. N. G. have करभअ twice. Fox गच्छ। मह B. reads गल्छिअ भणिदव्वो मम &c; N. agrees reading सह; G. E.reading भणि° after वअणेण further on. For भण B. N. read तुए वैतालिओ.; G. वेआलिओ; E. आवालिअ
  83. त्थणकलसो. B. E.; थणअलसो.G. N; B. G. N. read जधा for जह following; हदगेअणुविहयमाणेसु for °हदएण omitting अणुचि° coming further on E ; 'चाणक्य B. N, A. M. read तेषु तेषु; आण्णा for अण्णा B. E. N ; and M. has °भद्रेषु B. has an anusvara the end of all the vocatives and instrumentals here ; B. and N. read समुत्तेअण further on.
  84. जन for 'अण P.
  85. उवसिलोगइ° E; उवसिलोअइअव्वों G.; N. reads हिलोएहि° for सिलो' before this; and P. सिलहएहि.
  86. ०m. B. NR.om. one ततः
  87. अदो E.मये for मए G. and पाढलि.° B. N.; पाटलि° A. P; °पुत्तम् A.; ‘पुत्रम् P; गाच्छिअ for गदुअ B. G. N.; गाच्छिव ; सुणाबिओ G; अमच्चस्स for अमच्च B. N. D; संदेसौ B.N ; वैतालिओ - B; E. om . the word;त्थणक° B. E.; त्थणअ N. G. After this B. N. H. have a speech रा°ततस्ततः Karabbhakathen goes on with एत्थ° &c.
  88. कुल B. N. E; for दूणस्स A. reads दुम्मिअस्स . P.म्मिअस्स, G. दूमिअस्स, E. वसिष्ठस्य, B. N. दुम्मणस्स
  89. पौर A. P. E, परिओसम् B. N.; परिदो° G.; परिदोऽसम् E. For द G.reads अ, E. य; B. and N. om. it. For रण्णा G. E. read चन्दउत्तहदगेण; B.N. चन्दउत्तेण; आघोसिओ for आधोसिदो A. P. E; B. N. add कुसुमउरे, E.कुपुरे after this; R. reads कोमु° for कौमु
  90. महूस°A. सहूस्स E.; महोत्स° P. ;महोस्स B. N. For सोअ P. has सो, B. N.सोवि, G. अ; आल for काल B. N. For पिरवड्° B. E. N. read पवत्त'. For °माणो B. N. G. E. read °माण°; परिओसो for परिचओ B. E. N. G.; परिचिज R.; चिरआलष्पवत्तणजणिद परिदोसो H. For अभि following B. N. read अहि.° For वधू B. E. N. G. read बन्धु, M. R. वहू. For समागमो M. R. read समाअमोर
  91. बहु before this. B. E. N. G.; माणिओणाअर° A. P.माणिद्रोणायर° G. E.
  92. After विना E; B. G. N. H. have भद्र ततस्ततः after this stanza.
  93. B. E. N. have अमच्च before this; P. G. om. लोअ. For °णाणन्द° B. G. N. read °णानन्द°; E. has रायलोयलोयणणन्द. For भूदो; N. (s) has भूओ; A. P.read भूतो. In the next word A. P. read अनिच्छ.
  94. Om. A. P; B. E. N. G. read उत्पद्यते for ॰द्येत. A. P. om. इति; G. bas भवति; E. भवतीति.
  95. अमच्च before this B. E. N. G. For अण्णं वि G. has अण्णाइं वि, B.E.N. अण्णइं पि, E. अन्नाइ omitting च also in चन्द°; चाणक्क before कोव° E.; कोप° A. P.; कालणम् R.; कारणाइभ्. B. E. N. G; B. N. add चणक्के. After which B. N, add राक्ष॰. किंं किम् ।कर° जधा पढमं दाव उवेक्खिदो &c.,P. reads उपेक्खि° and G. उवेक्षि॰.
  96. B. N. read अणेण; G.E.om.म and A. P. read न्दो for न्तो in next word; कुमारो before मलअ° B.E.N;B. N. read मलयकेतू ; G.E.read मलयकेदू. For न्ति at the end of the speech B.N. read अ.; R.E.अन्ति.
  97. B.N.have सहर्षम् । सखे before this,G. E.सहर्षम् only; B.E.N. have हन्त after, this,संप्रति for मे.B.N;E.has it before मे.
  98. B. N. have शकट° before, this; G,Om. बन्धनात् and B.N. read भवताम् for तव
  99. For दान्ह E, reads कलत्रेण. After समागमः B.N. add जीवसिद्धिप्रभृतीनां केशच्छेदः ॥ भागु । आत्भगतम् । जातः सत्यं जीवसिद्धेः केशच्छेदः.
  100. om. G.A.P,B.N. add मे संप्रति चन्द्रगुप्तो भविष्यति after हस्ततलगतः G.adds मे चन्द्रगुप्तः only. E. adds संप्रति only and then om.all from इति to अपकृष्टस्य in the next speech.
  101. B. N. add अयम् after कः.
  102. G. has कुमार before this. G.reads °गुप्तस्योद्धरणदसौ किंचित्; B.N.read ॰गुप्तस्योद्धरणेऽसौ कार्यमवश्यमवगच्छति ; E.गुप्तस्योद्धरणे ननु सौकर्यमवपश्यति; H. सैकर्यमवश्यं पश्यति.
  103. E.has अथ before this, G. has क्क before this. B. N. have it after सांप्रतम्; G.R.M. om. असौ
  104. जेष्व B. N.; जेब्व G. य्येव 5.; एव P. For पाडलि° A, P. G. read पाटलि and for उत्ते B. N. read पुत्ते. For अहिवसदि B. N. read पडिव°, E. परिवसति,G. अहिवसति.
  105. Om. M. R; after भद् E. reads किम्; न before तपो° B.E. N.
  106. P. om. पुनः; A. om. it and न ( but has a mark to show something to be inserted ); न before पुनः in B. E. N.
  107. अब्ज़ G. For तपो° R. G. have तवो,° E. तओ॰'; B. N. read शामिस्सदि° for गच्छदि;° M.गच्छई.
  108. सावेगम् before this B, N. H.; G. om इदम् in नेदम्; A. P. have एतत् for it.
  109. साग्रा' E. NH B. . G. .; °पनयजानिकृ° B. N. E. G. H.पनयना नि°P
  110. B. E. N. have भागुरायण before this; P. om. स्य in this and B. E.N. add तपो before वन; °रोपणे for °रोहणे R; after वा E. has simply कार्येखिद्धिः
  111. कुमार before this B. N; B. G. N. read अयम् after' न instead of before अर्थः G. E. omone यावत्; B. N. have निरपेक्षः after यावत्; E. H. have it after' चाणक्यः ( om हतक. )
  112. °भविष्यति R;G. E. on. one तावत् and M. read कार्य for स्वार्थे
  113. B. E. N. G. have अमात्य before this. For अन्य-ऋष्य B. N. read अत्यन्तविकल्पितेन; E. has अन्यथा विकल्पितेन; P. G. अन्यथ विकल्पेन. ; R. G. E. om. एच; B. N .have एतत् befoxe उपप° and कुतः before पश्यस्वमात्यः संभावितेन for विकल्प्य H.
  114. कोपितोपि. . H; B. has स्वयमतिचरणे तदुःखः प्रतिज्ञाम्B, स्त्रयमभि चरणे दृष्टदोषः प्रतिक्षम्N. G. agree with text, N. reading °चरण° for °चरण° and G. °चरणाज्जात for चरणज्ञातस्त्रयसीभिचरणे ज्ञातदुःखप्रतिज्ञां H.
  115. B, B. N. G. H. road पूर्ण for तीर्थे; ज्यानि for ग्लानि B. N. H.
  116. सखे before this B. N; B. E. N. have तत् before गच्छ.
  117. यदाज्ञापयत्यमात्य इति करभकेण B.E. N; G. agrees reading पुरुषेण for करभकेण.
  118. R. M.om. एव; A. G. P. 2ead अपि for it; G. om. द्र-तः
  119. B. N. (e) add वागतःB• आगतः.
  120. अहनु° B. N; B. adds स्वयम् ; B. N. before उपवि read इति यथासनमुपविष्टै for यथाहैं; E. G. agree omitting इति.
  121. Om. 1.
  122. Om. B. E. N. (; स्याद्यराज for स्याधिराज° G; B. adds अद्यापि before अतिरस्कृते.
  123. B. B. N. (r) read कुतः for कुतो मे; A. P. read कुतो.
  124. दूरीकृत.° G, N. (s); P. B. ‘उररीकृत; B. स्वयमुरीकृत; M. अरीकृत ;G, om,एतत्
  125. °सवेक्षमा° B. H; °मवेक्षमामुद° E.
  126. कुमार before this B. E. N.P.
  127. रिपुञ्जयाय. B.
  128. असत्य B. For शत्रुभ्य° B. N. read अपि किंचिच्छत्रोपर्यं°; G, E. agree omitting किंचित्; P. H. read सचिवव्यसनमव्यखनमेवः
  129. E.has वाढ; B. N. शTढ before उप°; R. P. om. speech.
  130. रा° P.; B. E.N. G. om. तत्.
  131. व्यसनम् after this B. N; P. om. this speech.
  132. P.om. this speech; R. M. om. आर्य. B. reads अमात्य for आयें.
  133. कुमार before this B. E. N; for भूप° G. reads भूमिपतीनाम् E. भूमिपालानम्
  134. B. AN. add अपि before स्यात्, E. reads तु for पुनः
  135. Before this B. N. Have मल° । आर्य ननु विशेषतश्चन्द्रगुप्तस्येति । राक्ष° । किं कारणं यदस्या मात्यव्यसनमयलनम्; H. follows B. N., omitting यदस्या ..व्यसनम्; G. मल° । अयं नैतदेवम् । राक्ष° । किं कारणमिति; LE. मल° same as B. N. omitting इति; then राक्ष° । अथाव्यसने किं B. आ कारणमिति; N. D. om बम्; G. has इदं कारणम् instead; M. adds कुतः after' आवम्; हि before चाणक्य B. E. N.
  136. For एघपराग P. has एवापकार; B. N. om. च; 'गुप्तमनु° G. E.B. N. For संप्रति. B. N. read प्रकृतय इदानीं पुनः .
  137. For मा-ज्ञ B. N.read कुमार नैतदेवम्। इह.; G. कुमार नैतदेवं ताः खलु; B. do, with मा for न
  138. नन्दकुलानुर° B. E. N. G.
  139. प्रकृतीनाम् before this B. E. N, E. om. एव after this; M. R. om. कुल; B. D. N. H. read °कुलानुरक्तानाम् for 'कुलानु गतानाम्.
  140. पितृकुलभूतं छंस्तं कृतघ्नेन घा° B. N.G. H. do. omitting कुल E. do. on. कृत्स्रम् ’ रागानर्थाभ्याम् for रागासर्गाभ्याम् M. R.
  141. आश्रय° G.स्वाशय E; E. has•तु before पुनः and वि° for प्रति° after it,
  142. संभावित B. N. G. For एनम् before परि° E. has एव तम्; R. G. M. om. स्वामेव following this; B. N. G. R. M. read आश्रयन्ते; E. has आश्रयन्यत्र कुमारस्यP. has अस्य कुमारस्य for अन्न; B. E. have अत्र कुमारस्य.
  143. After ;वयमेव B. N.
  144. अमात्य B; एव before एक B. EB. N. G.
  145. आहोन्यदपि किंचित् P.
  146. कुमार before this B. B. N. G; R. omअपि before एतद्धि and B. E. N. add तत्र after °द्धि. For the whole speech P. reads सचिवव्यसनमेव प्रधानतमं व्यसनम्.
  147. अमायत्य for आर्य before this. B. E. N; R. M. Om. प्रधा°.For'मिव-मं B.E. N. G. read प्रधानतमं नाम.
  148. स्वराज्यकार्य B. E. N.; स्वकार्यराज्य G; G. B. read धुरमन्य'; समासाद्य G.
  149. स्यात् after this B. N.
  150. For कुतः B.reads एव; after this B. E. H. Have मल° । किं कारणम् and then राक्ष° ।स्वायत्त &c. G. and N. read किं कारणमिति for कुतःP.,writes रा° before कुतः. B. N. read °षु उभयायत्तसिद्धिषु वा भूमिपालेषु कदाचिदेतत्; G. °षु उभयायत्तसिद्धिषु भूपलेषु तत् E. H. °षु उभयायत्तसिद्धिषु वा भूमिपालेषु तत् After संभवति B. N. add न तु चन्द्रगुप्ते, G. न चन्द्रगुप्तेः
  151. B. N. H. read अवस्थितः for स्थितः, G. सिद्धावस्थितः, IE. has ‘व्यवस्थितचक्षुर्विकल & .
  152. सर्वलोक for लोक B. N.; संव्यच° for व्यव° G; for कथमिव after this G. has कथमपि; "विधान for विधातुम् G; B. E. N. G. add कुतः after स्यात्।
  153. For' च विष्टभ्य G. has वावष्टभ्य
  154. श्री G. This whole stanza om. in M. After it B. E. N. G. have अपि च.
  155. अतन्त्रकः for तदर्पणः H.
  156. मूढ for मन्द B. E N. (1). H.
  157. स्वग°M, R,
  158. यद्येवम्. M. P. R. E; B. N. have अमात्य and E. आर्थ before this; B.E. N. G. have खलु after तथापि; P. reads °योगकरणेषु; G. adds अपि सचिव, B. E. N. H. सचिव between सत्सु and व्यसन; E. reads व्यसनिनमभि°.
  159. °योक्तं नै°. G.; योक्तुनै B. EB. N. H; °योक्तुरे P; B. N. (C) E. om कार्यं.P. adds ने after सिद्धिः.
  160. ए° all except B. N.; B. E. N. G. H. omकार्य before सिद्धि. E. om. कुतः
  161. इत्यधक्तेन E; G. has नाष्टयति
  162. योग्यो°. B Ri G. E.
  163. स्वद्वाक्यान्त° ]B.सिद्धयन्ति for तिष्ठन्ति P.
  164. अमात्य before this B. N.; अयि E.ममात्य: for 'मयैः B. N. R., E.तत् for ततः B. BN;om, all ततः°स्यते; B N. add पश्य after आस्यते .
  165. प्रस्यन्द. P.; "°न्दिसलिलाः E.
  166. °ममविमु° E. ‘मलिमु° B. N. H.
  167. श्चोता°G.; यदनै° for दशनै° P.; रदनै° N. R.; दनै° A.
  168. °यो यास्यन्ति A. P.; पास्यन्तु M. R.
  169. समद° M. R.
  170. सीकर B. N.; झिरन्तः A. M. P. R.
  171. रोत्स्यन्ति B. E. N. () H.
  172. E. om. this; M. R, have सह before भानु°; G, has सभागुरायणो.
  173. सांवत्सराणा A.; °रीणाम् R, B. E. N. have ज्ञायताम् before this and G. B. have मध्ये after it
  174. प्रियंव°. B. B. N.After this B. N. H. have जं अमच्चो आणवेदिति निष्क्रम्य क्षपणकं दृष्ट पुनः प्रविश्य च। अमच्च एसो क्खु संचरसारिओ क्खपणओ; E. and G. agree; G. reading इति £or ति; both om. क्ष-झ्; G. om. च; both reading च for र and G. reading ष and E. क्ष for ळ in खवणओ.
  175. Om A. P; स्वग° B. N.
  176. °णकदर्शनम् B. N.
  177. सिद्धिः G. E.
  178. Om. M. R. G. E;A. P. G. add भद्रafter this; कारथित्वा for कृत्वा. B. N.;च्रुत्वा. G. which has also वेषम् for दर्शनम्.
  179. G. has तथेति; B. E. N. H. read जं अमच्चो आणवेदि; E. has त्ति for इति.
  180. ततः प्रविशति B. E. N. G.
  181. सासह° N. (s); ससन°. G.; सासंमलहन्ता° E.;पासण°(?) A.; वडि° for पडि R.;परि° P.; वज्जदध G.; विज्जा for वेज्ज़ा G; विविज्जा° E.; विज्ञानम् N
  182. G. has वा after जे; M. reads मुहुत्तमेत्तकडुअम्; . मुहृत्तकडुअम्.; R. N.मुहमेतकडुअम्; B. H. पढममेत्तंकडुअमू.; E. पढममत्तकडुयम् for पच्छा P. R; पस्या E; R.; पच्छम्- G.; उपदिसन्ति A.;उवदिसन्दि.B .M. R.
  183. Om. R; धर्म° G. E. For सिद्दी. G. E. read विद्दी, P. सिद्दीओ, B. N.लाहो. For होदु B. E. N. G. read भोदु; for सन्म्., M. has सावआणस्, E. साधकैकस्स., B. N. साचका and this before भोदु. धम्मलाहे शाधकाण. H.
  184. भद्र M; after निरू° R. For अस्मत् B. E. N. read अस्माकम्. G. has प्रतिष्ठान for प्रस्थान and B. N. add. योग्य before दिवस:.
  185. E. has अवलोक्य between ना° and चिः; सावग for सावगा A., सावआ M, सावका B, उवासका G. N., साधका E. For next word B. E. G. read णिळूविदे For मए E. has लग्गै अज्ज.; G. अज्ज्., B. मुहुते, N. om. it,
  186. E. om. आ.N. reads आमभद्दो (?); B. णिव्वुत्तसत्तसकलाखोहण तिही &c.; N. णिवुत्तसंपुण्णकल्लणपुण्णमासी &c.; G. णिवृत्तसत्तमकलणासोहणातिधी &c; E. निवृत्तसत्तमकलनासोभनातिही &c, M. R. णिवुत्तसमस्थकल्लाणाधिही ( R. णिउत्त );णिउत्तशअलदोशा शोहणा तिधी भोदि H.
  187. तुहाणम् E.उसराये P. which also reads दिशाये +or following word; N. A. have दिशाए; दक्षिणाम् B.; दक्किणम् N; दक्षिखण R; A. G. N. read दिशः °णं णक्खत M. R.N. has दक्षिणदुअलिकणक्कत्तम्; G. E. H.दक्खिणदुघालिके याक्खत्ते ( E. H, have u for के ); B. दक्षिण डुवलअ णक्खत्तओ
  188. Om P.; अपि च A.; अवि य E.
  189. भिक्षु° ED.; सूले B. E. N. G.;उइदे for अदिए N.; उदिवे B. E. G
  190. Om N.; गयणम् P.गयणे G.; मयणे E.; B. IE. N. G. read बृहस्स; लज्जे for लगे IE.A. R. om. द it following, C. N. read - for i; केदुहि for केदुस्मि P; गहवदिबुधश्श लग्गे H.
  191. भद्र P.; B. N. add तावत् after एव.
  192. सावका A. B.; साबग R. N.; सावेगम् G.; साधक E.
  193. तिही A. P.; धिही M. R; P. reads after this चणगुणे नक्खत्तेहि. भोदि after एकगुण and चउग्गुणे, which is necessary for the metre. H.
  194. चउम्शणे लगे एसो P.चउस्सहि° &c. A.; चऽच्चद्रां
    M; चउद्द R.; चउसट्ठि G; साठि B; before जोइ B. E. N. have दीसदि; for जोइस R. has जोखियय.; M. omit; B. N. om. तन्त; G.has तन्ते; E. after एग्रो has तिस्रोयोदिशतन्तशिद्धन्तो.
  195. Om. P. B. N. For होइ B. has होहि. For ' ख-गे B. N. read कूलग्गहं पलिहलिजासु E. लोममि गहं च जाहि दुलम्शम्, G. सोमं पि गहं अ दुर्गे
  196. G. reads पचिलिहि वेह सिी.E. हबिहालि दीहनउ.; B. N. पाचिहि हीहं लाहम् बहुलेण for बलेण R.बलेन P.पात्रिहिशि दिघमाउं H.
  197. Om. M. R.;F . om अ in the next word, खाद्धेषु for खह B. N, E.has सह before स्रवः
  198. °देउ E. N; for next word B. has स्रवके, N. सावका,E. साधके, G. खाव; हरौ for अहं E; B. and N. (e) read अहं णिअं गेहं ग °
  199. ण कुवि° B. E. N; P. reads कुपिते न; E. reads णकुविदोः
  200. स्वगतम् before this B. E. N. G; R. reads भयबं; M. B. किएअन्तो; E. B. कदन्ते; B reads thus आस्मगतम् । भवन्ते प्रकाशन योतणो &c.
  201. M. G, read पलप°; B, परस्त्र प°; M, also reads कलीअदि; B. E, Read परपक्ख प्पमणीकलेसि; N. agrees Reading करसी for कलेसि; G, do करेसि.
  202. G. om This and क्षप°
  203. Om M. R; om. इति A. P.
  204. M. R. have अमच्च before this, B. N. have जं अमच्चो आणवेदिति निष्क्रम्य पुनः प्रविश्य;G. has निष्क्रम्य पुनः प्रविश्य । अमच; E. agrees with B. but after प्रविश्य adds पुरुषः । अय्य; E. reads आस्थभील°A. अस्थाहिला'. For what follows E reads भयवसात्ति; B. N. read सूले for ' सूरो.
  205. B. E, N. G. have आसनात् before this and B. E. N. M. have च afterविलोक्यः
  206. B. reads सहस्रदीधितिः। तथाहि, E. भास्कर इति तथाहि.
  207. रागः B. E. N.
  208. पत्र B.E. N.; पूर्ण. R; दुपनततरच for दुपवनतरवो M. R.
  209. पुनरितरककुप् B. N. पुनररयिरि E; पुनरपि ककुभः G; पुनरपरककुप्° H.: पर्यन्त for पर्यस्त A.P.
  210. मुद्राराक्षसे रक्षसयोगो नाम ; इति मुद्राराक्षसनाटके P.