चण्डाल: –ओसले[]ह ओसलेह। अवेह अवेह ।

[]इ इच्छह लक्खिदव्वे प्पाणे विहवे कुले कलत्ते अ ।

ता पलिहलह वि[]समं लाआपत्थं सुदूलेण ॥ १ ॥ (क)


( क ) अपसरत अपसरत । अपेत अपेत ।
 यदि इच्छत रक्षितव्याः प्राणा विभवः कुलं कलत्रं च ।
 तत्परिहरत विषमं राजपथ्यं सुदूरेण ॥ १ ॥


 इत्थं षष्ठेनाङ्केन राक्षसवशीकरणरूपं प्रधानकार्यं बीजवभ्दिर्यथायथम् विप्रकीर्णैरत्रैकार्थीभवमुपनीतैर्मुखसंध्याद्यर्थैर्निर्व्यूम् । अथ राक्षसेन चन्द्रगुप्तसाचिव्यप्रहणद्वारा तल्लक्ष्मीस्थिरिकरणरूपस्य नाटकस्य प्रधानतमं फलमुपगमयितुं सप्तमोऽङ्क आरभ्यते । पूर्वाङ्के रज्जुहस्तेन पुरुषेण निवेदितम् चन्दनदासस्य वध्यस्थाननयनं श्रुत्वा राक्षसः ससंभ्रमं शस्त्रमुत्सृज्य


अवि अ ।
 होदि[] पुलिसस्स वाही मलणं वा सेविदे अपस्थम्मि ।
 लाआपत्थे[] उण सेविदे सअलं वि कुलं मलदि ' ॥ २ ॥ (क)

 ता ज[]दि ण पतिज्जह ता एह पेक्खह एअम् लाआपत्थकालिणम् सेद्विचन्दणदासं सउत्तकल[]त्तं वज्झट्टाणं णीअमाणम् । (आकाशे श्रु[]त्वा।) अज्जा, किं भणह –‘अत्थि से कोवि मोक्खोवाओ’

 ( क ) अपि च ।

भवति पुरुषस्य व्याधिर्मरणं वा सेविते अपथ्यं ।
राजापथ्ये पुनः सेविते सकलमपि कुलं म्रियते ॥ २ ॥

 ( ख ) तद्यदि न प्रतीथ तदत्र प्रेक्षध्वमेनं राजापथ्यकारिणं श्रेष्टिचन्दनदासं सपुत्रकलत्रं चध्यस्थानं नीयमानम् । आर्याः, किं भणथ-‘‘अस्त्यस्य


 वध्यस्थानं प्रति निष्क्रांत इत्युक्तम् । संप्रति स एव चन्दनसवृत्तान्तो ऽस्मिन्नङ्केप्रपञ्चयत इति । इदमङ्कावतरणम्-'यत्र स्यादुत्तराङ्कार्थः पूर्वा ङ्कार्थानुसंगतः’ इति तल्लक्ष्णात् ।


त्ति । अज्जा, अत्थि[] अमच्चरक्खसस्स घरअणं जइ सम्रप्पेदि । (पुनराकाशे) किं भणह[१०] —‘एसे सलणागदवच्छले अत्तणो जीविदमेत्तस्स[११] कालणे . इदिसं अकज्जं ण, कलिस्सदि' त्तिः । अज्जा, तेण[१२] हि अवधालेह से सुहां गदिम्। किं दाणिं तुह्माणं एत्थ पडिआरविआरेण । (ख)

 ( ततः प्रविशति द्वितीयच[१३]ण्डालानुगतो वध्यवेशधारी शूलं स्कन्धेनादाय कुटुम्बिन्या पुत्रेण चानुगम्यमानश्चन्दनदासः। )


कोऽपि मोक्षोपाय’ इति । आर्याः, अस्त्यमात्यराक्षसस्य गृहजनं यदि समर्पयति । किं भणश्च । एष शरणागतवत्सल आत्मनो जीवितमात्रस्य कारणे ईदृशमकार्यं न करिष्यतीति । आर्याः,तेन हि अवधारयतास्य सुखां गतिम् । किमिदानीं युष्माकमत्र प्रतीकारविचारेण ।


 सलणागदवच्छलेति । इत्यादिपौरवचनेनास्य शरणागतरक्षणबिरुदं लिखितपठितत्वेन सकललोकप्रसिद्धमित्युक्तं भवति । सुखां गतिं शरणागतरक्षणपुण्येनोत्तमलोकप्राप्तिमिति बहिरर्थः राक्षसम्रास्या बन्धमोचनासु खप्राप्तिमिति गूढम् ।


 चन्दनदासः-( सबाष्पम्[१४] ।)हध्दी हद्धी । अह्मारिसाणं वि णिच्चं चारित्तभङ्गभीरूणं चोरजणोचि[१५]दं मरणं होदि त्ति णमो किदन्तस्स । अह[१६] वा ण णिसंसाणं उदासीणेसु इदरेसु वा विसेसो त्थि । तह हि । ( क )

मोत्तूण[१७] आमिसाई मरणभएणं तिणेहिं जीवन्तम् ।
वाहण मुद्धह[१८]रिणं हन्तुं को णाम णिब्बन्धो ॥ ३ ॥( ख )

( समन्तादवलोक्य ।) [१९]भो पिअवअस्स विण्हुदास, कहं पडि-


 ( क ) हा धिक् हा धिक् । अस्मादृशनामपि नित्यं चारित्रभङ्गभीरूणां चोरजनोचितं मरणं भवतीति नमः कृतान्तस्य । अथवा न नृशंसानां उदासीनेषु इतरेषु वा विशेषोऽस्ति । तथा हि ।

( ख ) मुक्त्वा आमिषाणि मरणभयेन तृणैर्जीवन्तम् ।
 व्याधानां मुग्धहरिणं हन्तुं को नाम निर्बन्धः ॥ ३ ॥

 ( ग ) भो प्रियवयस्य विष्णुदास, कथं प्रतिवचनमपि न मे प्रतिप-


[२०]अणं वि ण में पंडिंबज्जसि । अंह वा दुल्लहा ते क्खु माणुसा जे एदस्सिं[२१] काले दिट्ठिपथे विं चिट्ठन्ति । ( सबाष्पम् । ) एदें अह्मपिअंवअस्सा अंसुपादमेत्तकेण किणिवावसलिला विअ कहं वि पंडिंणिव्वत्तमाणा सोअदीणव[२२]अणा वाहगुरुआए दिट्ठीए मं अणुगच्छन्दि । ( इति परिक्रामति । ) ( ख )

 चाण्डालः--अज्ज[२३] चन्दणदास, आअदोसि वज्झट्ठाणं । ता विसज्जेहि पलिअणम् । ( क )


द्यसे । अथवा दुर्लभास्ते खलु मानुषतस्मिन्काले दृष्टिपथेऽपि तिष्ठन्ति । एतेऽस्मत्प्रियवयस्या अश्रुपातमात्रेण कृतनिवेपिंसलिला ईव कथमपि प्रतिनि- वर्तमानाः शोकदीनवदना बाष्पगुय दृष्टया मामनुगच्छन्ति ।।

 ( क ) आर्य चन्दनंदास, अगतोऽसि वयस्थानम् । तद्विसर्जय परिर्जनम् ।


 चन्दनदासः---कुटुम्बिणि[२४], णिवत्तेहि संपदं सुपुत्ता । ण जुत्तं

क्खु अदोवरं अणुगच्छिदुम् । ( क )

कुड़म्बिनी–(सबाष्पम् ।) परलोअं पुत्थेि[२५]दो अज्जो ण देसन्तरं । ( ख )

 चन्दनदासः---[२६]अजे, अअं मित्तकज्जेण में विणासों ण उण पुरिसदोसेण । ता अलं विसादेण ( ग )

 कुटुम्बिनी---अज्ज, जइ ए[२७]वं ता दाणि अकालो कुलजणस्स णिवट्दुिम् ( घ )

 चन्दनदासः-अह[२८] किं ववसिदं कुड़म्बिणीए । (ङ)


 ( क ) कुटुम्बिनि, निवर्तस्व सांप्रतं सपुत्रा । न युक्तं खल्वतोऽपरमनुगन्तुम् ॥

 ( ख ) परलोकं प्रस्थित आर्यो न देशान्तरम् ।

 ( ग ) आर्ये, अयं मित्रकायेंण में विनाशो न पुनः पुरुषदोषेण । तदलं विषादेन ॥

 (घ) आर्य, यद्येवं तदिदानीमकालः कुलजनस्य निवर्तितुम् ॥

 (ङ) अथ किं व्यवसितं कुटुम्बिन्या ।


 परलोअं इति । देशान्तरं प्रस्थितं बन्धुं नानुगच्छेदिति शास्त्रम् । परलोकं प्रस्थितस्य त्वनुगमनमुचितमेवेति भावः ।


 कुटुम्बिनी- भ[२९]त्तुणो चलणे अणुगच्छन्तीए अप्पाणुग्गहो होदित्ति । ( क )

 चन्दनदासः—अ[३०]ज्जे, दुव्ववसिदं एदं तुए । अअं पुत्तओ अ‌सुणिदलोअसंववहारो बालो अणुगह्णिदच्चो । ( ख )

 कुटुम्बिनी–अणुगिह्णन्दु[३१] णं पसण्णाओ देवदाओ । जाद पुत्तअ, पत पच्चिमेसु पिदुणो पादेसु । (ग्)

 पुत्रः-( पादयोर्निपत्य ।) ताद, किं दा[३२]णिं मए तादविरहिदेण अणुचिट्टिदव्वम् ।(घ)


 ( क ) भर्तुश्चरणावनुगच्छन्त्या आत्मानुग्रहो भवतीति ।

 ( ख ) आर्ये, दुर्व्यवसितमिदं त्वया । अयं पुत्रकोऽश्रुतलोकसंव्यवहारो बालोऽनुगृहीतव्यः ।

 (ग) अनुगृह्णन्त्वेनं प्रसन्न देवताः । । जात पुत्रक, पत पश्चिमयोः पितु पादयोः ।

 ( घ ) तात किमिदानीं मया तातविरहितेनानुष्ठातव्यम् ।


 पश्चिमेष्विति । अतःपरं द्रष्टुमशक्येष्वित्यर्थः।


 चन्दनदासः पुत्त, चाणक्कविर[३३]हिदे देसे वसिदव्वम् । (क)

 चाण्डालः अज्ज् चन्दण[३४]दास, णिखादे शूले, ता सज्जो होहि । (ख)

 कुटुम्बिनी अञ्जा[३५] परित्ताअध परित्ताअध । (ग)

 चन्दनदासः अज्जे, अ[३६]ह किं एत्थ आक्कंदसि । सग्गं गदाणं दाव देवा दुखिअं परिअणं अणुकम्पन्दि । अण्णं अ[३७] मित्तकज्जेण मे विणासो ण अजुत्तकज्जेण। ता किं हरिसट्ठाणो वि रोदीअदि। (घ)


.

 ( क ) पुत्र, चाणक्यविरहिते देशे वस्तव्यम् ।

 ( ख ) आर्य चन्दनदास, निखातः शूलः । तत्सज्जो भव ।

 (ग ) आर्याः, परित्रायध्यं परित्रायध्वम् ।

 ( घ ) आर्ये, अथ किमत्र आक्रन्दसि । स्वर्गं गतानां तावद्देवा दुःखितं परिजनमनुकम्पन्ते । अन्यच्च मित्रकार्येण मे विनाशो नायुक्तकार्येण । तत्किं हर्षस्थानेऽपि रुद्यते ।


 चाणक्क इतेि । अनेन चणक्यस्यात्यन्तं क्रौर्यमुक्तम् ।

 आक्रन्दसीति । शोकावेशेन नीचान्प्रति किमाक्रन्दसि सुचरितानुकम्पिनो देवा एव शरणीकरणीया इत्यर्थः ।

 मित्रकज्जेणेति । मित्रकार्येण मरणात्स्वस्य स्वर्गे निश्चित इति भावः।


 प्रथमश्चण्डाल[३८]:-अले विल्लत्त, गेह्ण् चन्दणदासं । सअं एव्व

परिअणो गमिस्सदि । (क).

 द्धितीयश्चाण्डालः—[३९]अले वञ्जलोमा, एस गेह्णामि । (ख)

 चन्दनसः-भद्द, सुहत्तं चिट्ठ[४०]जाव पुत्तअं सन्तआमि । ( पुत्रं मूर्घ्नि आघ्नाय ।) जाद, अव[४१]स्सं भविदव्ये विणासे मित्तकज्जं समुव्वहमाणो विणासमणुभवामि । (ग)

 पुत्रः-- ताद, [४२]किं एदं वि भणिदव्यं । कुलधम्मो क्खु एसो अह्मणं । ( इति पादयोः पतति ।) (घ)


 (क ) अरे बिल्वपत्र, ग्रहण चन्दनदासम् । स्वयमेव परिजनो गमिष्यति ।

 ( ख ) अरे वज्रलोमन्, एष गृह्वामि ।

 ( ग ) भद्र, मुहूर्तं तिष्ठ यावत्पुत्रकं सान्त्वयामि । जात, अवश्यं भवितव्ये विनाशे मित्रकार्ये समुद्वहमानो विनाशमनुभवामि ।

 ( ध ) तात, किमिदमपि भणितव्यम् । कुलधर्मः खल्वेषोऽस्माकम् ।


 अणुभवामीति । अतस्त्वया न शोचितव्यमिति भावः । अत्र करुणः स्थायी शोकदीनवचनादिभिर्विभावैरनुभावैश्च पुष्कलः ।


 चाण्डाल:-अले,गेह्ण् ए[४३]णं|(क)

 कुटुम्बिनी-(सोरस्तडम्[४४])अज्ज्,परित्ताहि परित्ताहि|(ख)

(प्रविश्य पटा[४५]क्षेपेण)

 राक्षसः -भावति, न भेतव्यम्|भो: भो: शूलाय[४६]तना:,न खलु व्यापादयितव्यश्चन्द्ननदास:|

येन स्वमिकुलं रिपोरिव कुलं ट्ट[४७]ष्टं विनश्यत्पुरा
 मित्राणां व्यसने महोत्सव इव स्वस्थेन येन स्थितम्|
आत्मा यस्य वधाय व:परिभव[४८]क्षेत्त्त्रिक्रितोपि प्रिय-
 स्वस्येयं म[४९]म म्रुत्युलोकपदवी वद्यस्त्रगब्ध्यताम् ॥ ४ ॥

 चन्दनदस:-(स[५०]बाष्पं विलोक्य)अमच्च, किं एदं |(ग)


 (क) अरे,ग्रुहाणैनम्|

 (ख)आर्य,परित्रयस्व परित्रायस्व |

 (ग)आर्य,किमिदम्|


प्रविश्य पटिक्षेणेति|असुचितस्य सह्सा संभ्रमेण प्रवेश: पटक्षेप:| शूलयतना इति|शूलमायतनं जीवनाष्रेयो येषां ते तथोक्ता:| येनेति|महोत्सव इवेति सग्र्म्यन्तम्|य्स्य मम परिमिवक्षेत्रीक्रितोपि| एताहशं परिभवमनुभन्नपि आत्मा शरीरं वपु:युष्महशां वधाय वधार्थे प्रियो:जात: यदर्थं किल चाणक्येन कौलूतादय:युष्माह्शा धातकाश्चे व्रुथा व्यापादिता: एताहशपातकनिमितंभुतोप्यात्मा येन मया न परित्यक्त इत्यत्मोपलम्भ:॥ ४ ॥


 राक्षसः -त्वदीय[५१]सुचरितैकदेशस्यानुकरणं किलैतत् ।

 चन्दनदासः -अमच्च, सव्वं वि[५२] इमं पआसं णिफ्फलं करन्तेण तुए किं अणुचिट्टिदं । (क)

 राक्षसः- -सखे, खार्थ एवानुष्ठितः[५३]। कृतमुपालम्भेन । भद्रमुख, निवेद्यतां दुरात्मने चाणक्याय ।

 वज्रलोमा--किं[५४] त्ति । (ख)

राक्षसः---
दुष्कालेऽपि कलावसज्जनरुचौ प्राणैः परं रक्षता
 नीतं येन यशखिनातिल[५५]घुतामौशीनरीयं यशः।
बुद्धानामपि चेष्टितं सुचरितैः क्लिष्टं वि[५६]शुद्धात्मना
 पूजार्होऽपि स[५७] यत्कृते तव गतः शत्रुत्वमेषोऽस्मि सः ॥ ५ ॥


 ( क ) अमात्य, सर्वमपीमं प्रयासं निष्फळं कुर्वता त्वया किमनुष्ठितम् ।

 ( ख ) किमिति ।


 सखे स्वार्थ एवेति । इदं त्वत्संरक्षणं ममात्मरक्षणादप्यभ्यर्हितं श्रेयस्करमिति भावः ।

 दुष्कालेऽपीति । शिबिना पुण्ये कृतयुगे तत्कृतमिति नात्र चित्रम् । पापे कलियुग ईदृशं कर्म कुर्वाणस्ततोऽप्यतिशयितो यश्चन्दन


 प्रथमः -अले विल्लपत्तअ[५८], तुमं दाव चन्दनदासं गेहिअ इ[५९]

एदस्स मसाणपादपस्स छाआए सुहुत्तं चढ जाव अहं चाणकस्स णिवेदेमि गिहीदो अमच्चरक्खसोत्ति । (क)

 द्वितीयः -अले वज्जलोमा[६०], गच्छ। (ख)

(इति[६१] सपुत्रदारेण चन्दनदासेन सह निष्क्रान्तः । )

 प्रथमः--एदु अमच्चो[६२] । ( राक्षसेन सह परिकम्य ।) अत्थि


 ( क ) अरे बिल्वपत्रक, त्वं तावच्चन्दनदासं गृहीत्वेहैतस्य श्मशानपादपस्य छायायां मुहूर्तं तिष्ठ यावदहं चाणक्यस्य निवेदयामि गृहीतोऽमात्यराक्षस इति ।

 ( ख ) अरे वज्रलोमन्, गच्छ ।

 ( ग ) एत्वमात्यः । अस्त्यत्र कोऽपि निवेदयेत तावन्नन्दकुलनगकु-


दासः स त्वयात्यर्थमर्चनीयोऽपि यस्य मम कृत ईदृशीं विपत्तिमनुनीतः सोऽयं तव विधेयोऽस्मीत्यर्थः । बुद्धा अत्यन्तदयालव इति प्रसिद्धं तेषामपि चेष्टितं दयालुत्वं क्लिष्टं कृशीकृतमित्यर्थः ॥ ५ ॥


एत्थ कोवि णि[६३]वेदेह दाव णन्दकुलणगकुलिसस्स। मौलिअकुलपडिट्टावकस्स[६४] अज्जचाणक्क्स्स । (ग)

 राक्षसः--( स्वगतम् ।) एतदपि नाम[६५] श्रोतव्यम् ।

 चाण्डालः ए[६६]सो अज्जणीदिसंजमिदबुद्धिपलिसले गिहीदे अमच्चरक्खसे त्ति । (क)

( ततः प्रविशति ज[६७]वनिकावृतशरीरो भुखमात्रदृश्यश्चाणक्यः ।)

 चाणक्थः-भद्र, कथय कथ[६८]य ।

केनोतुङ्ग[६९]शिखाकलापकपिलो बद्धः पटान्ते शिखी
 पा[७०]शै: केन सदागतेरगतिता सद्यः समासादिता ।


लिशस्य मौर्यकुलप्रतिष्ठापकसार्यचाणक्यस्य ।

 ( क ) एष आर्यनीतिसंयमितबुद्धिपरिसरो गृहीतोऽमात्यराक्षस इति ।


 एष आर्यनीतीति । आर्यचाणक्यस्य नीत्या संयमित: कुण्ठीकृत: बुद्धिपरिसरो यस्य सः ।

 केनेति । सद्गातेर्वायोरगतिता गतिनिरोधः पाशैः सूक्ष्मरशनाभिः केन समासादितः कृत इत्यर्थः । सोऽपि झटिति कृत इत्याश्रयै भित्तिति-


केनानेकपदानवासितसटः[७१] सिंहोऽर्पितः पञ्जरे

 भीमः केन च नैक[७२]नत्रुमकरो दोस्र्या प्रतीषाऽर्णवः ॥ ६ ॥

 चाण्डालः--[७३]णीदिणिउणबुद्धिणा अज्जेण । (क)

 चाणक्यः—मा मैवम् । नन्दकुलविद्वेषि[७४]णा दैवेनेति बृहि ।

 राक्षसः--([७५]स्वगतम् ) अयं दुरत्मा अथ वा महात्मा कौटिल्यः ।

[७६]करः सर्वशास्त्राणां रत्नानामिव सागरः ।
गुणैर्न परितुष्यामो यस्य मत्सरिणो वयम् ॥ ७ ॥

 चाणक्यः-( विलोक्य [७७] सहर्ष स्वगतम् ।) अये, अयमसावमत्यराक्षसः। येन महात्मना

गुरुभिः कल्पनालेशैर्दीर्घ[७८]जागरहेतुभिः।
चिरमायासिता सेन वृषलस्य मतिस्रच् मे ॥ ८॥


 ( क ) नीतिनिपुणबुद्धिनार्येण ।


रस्करिणीबन्धनादिना त्रुमेणा चिराकथंचित्कर्तु शक्य इत्यर्थः । एवं दुष्क रराक्षसवशीकारः केन कृत इति रूपकातिशयोक्त्या स्वात्मगुणश्लाघा । इयमद्भुतार्थप्राप्तिरुपगूहनं नामाङ्गम् ॥ ६ ॥

 नन्दकुलेति । नन्दकुलं सर्वं दैवेन निपातितमिति निरत्लवस्वतया निर्यवसायोऽयमेवं वशीभूत इत्यर्थः।

 गुरुमिरिति । सेनायां कल्पनाक्लेशाः सद्संनहनादयः । मतौ क-


 ( जवनिकां क[७९]रेणापनीयोपसृत्य च ) ) भो अमात्यराक्षस,

विष्णुगुप्तोऽहमभिवादये।

 राक्षसः--( स्वगतम्[८०] ।) अमात्य इति लज्जकरमिदानीं विशेषणम् । ( प्रकाशम् ।) विष्णुगुप्त, न मां चाण्डालस्पर्शदूषितं स्प्रष्टुमर्हसि ।

 चाणक्यः--भो[८१] अमात्यराक्षस, नेमौ चाण्डालौ । अयं खलु दृष्ट एव भवता सिद्धार्थको नाम राजपुरुषः । योऽप्यसौ द्वितीयः सोऽपि समिद्धार्थ[८२]को नाम राजपुरुष एव । शकटदासोऽपि तपस्खी तं तादृशं ले[८३]खमजानन्नेव कपटलेखं मया लेखित इति ।

 राक्षसः-( स्वग[८४]तम् ।) दिष्टया शकटदासं प्रत्यपनीतो विकल्पः ।


ल्पनाक्लेशा ऊहापोहादयः । यन्मतिपौरुपभयान्मौर्यसैन्येन मया चाहर्निशं जाता महानायासोऽनुभूत इति भावः । इदं दुःखप्रशमनं समयः ॥ ८ ॥


 चाणक्यः-किं बहुना । एष[८५] संक्षेपतः कथयामि । भृत्या[८६] भद्रभटादयः स च तथा लेखः स सिद्धार्थक-

 स्तच्चालंकरणत्त्रयं स भवतो मित्त्रम् भदन्तः किल ।जीर्णाद्यानगतः स चापि पु[८७]रुषः क्लेशः स च श्रेष्ठिनःसर्व मे-

(इ[८८]त्यर्धोक्ते लज्जां नाटयति ।)

 वृषल[८९]स्य वीर भवता संयोगमिच्छोनयः ॥ ९ ॥ तद[९०]यं वृषलस्त्वां द्रष्टुमिच्छति ।

 राक्षसः-( स्व[९१]गतम् । ) का गतिः एष पश्यामि ।

( ततः प्रविशति राजा विभवतश्च परिवारः । )

 राजा–( स्व[९२]गतम् । ) विनैव युद्धादार्येण जितं दुर्जयं परबलमिति ल[९३]जित एवासि | मम हि


 भृत्या इति । भवतो मित्रं किल अलीकमित्यर्थः । सर्वमिति । ‘नपुंसकमनपुंसकेन’ इत्येकशेषः । जातावेकवचनं च । ते भद्रभटायो भृत्याः स लेख: इत्याऐवजातीयं सर्वमुपायजातं वृषलस्य भवत्साचिव्यमिच्छोर्मम नयो नीतिप्रकार इति संक्षेपः । त्वत्संग्रहार्थमेतावान्मया नयः कुत इत्यर्थः । अतिशूरः साहसी भवान्विक्रमादिना मलयकेतुबन्निग्रहीतुं न शक्य इति ध्वनयितुं बीरेति संबोधनम् । इदं बीजवतां मुखाद्यर्थानां विप्रकीर्णानां ऐक्यार्थोपनयनं कार्यार्थोपसंहृतिः संहारो नामाङ् नवमम् ॥ ९ ॥


फलयोगमवाप्य सायकानां विधि[९४]योगेन विपक्षतां गतानाम् । न[९५] शुचेव भवत्यधोमुखानां निजतूणीशयनव्रतं प्रतुष्टयै ॥ १० ॥ अथवा ।

विगुणीकृतकार्मुकोऽपि जेतुं भुवि जेतव्यमसौ समर्थ एव स्वपतोऽपि ममेव[९६] यस्य तत्रे गुरवो जाग्रति कार्यजागरूकाः ॥ ११ ॥

( चाणक्यमुपसृत्य । ) आ[९७]र्य, चन्द्रगुप्तः प्रणमति ।

 चाणक्यः-संप[९८]नास्ते सर्वाशिषः । तदभिवादयस्व तत्रभन्तस्मात्यशुम्ख्म ॥


 फलयोगमिति । विधियोगेन सुदैवप्रसादेन फलगं कार्यसिद्धिप्राप्तिमन्यत्र शल्ययोगं प्राप्यापि विपक्षतां विरोधितां गतानामिति विरोधाभासः। वीनां कङ्कानां पक्षा येषामिति बहुव्रीहिः। तेषां भावस्तत्तां गतानां विशिष्टकङ्पत्रवतामिति वा । इति विरोधपरिहारः । शुचेव विपक्षताप्राप्तिजातया शुचेवेति हेतूत्प्रेक्षा अधोमुखाना सायकानां निजतूणीशयनमेव व्रतं सर्वदा तत्रैवावस्थाननियमरूपं प्रतुष्टयै संतोषाय न भवति । ‘अनियोगेन विलक्षतां गतानाम् इति पाठे नियोगो युद्धादौ विनियोगस्तदभावः तेन लज्जितानामित्यर्थो बर्णनीयः ॥ १० ॥

 इत्येवं प्रकारेण लज्जित्वा पुनरपि समाधत्ते--विगुणीकृतेति । विगुणीकृतं ज्यारहितं प्रयोजनासाववच्च कृतं कार्मुकं यस्य । इयं वाञ्छितार्थप्राप्तिरानन्दः ॥ ११ ॥


 राक्षसः-( [९९]स्वगतम् ।) योजितोऽनेन संबन्धः ।

 चाणक्यः ---( राजा[१००]नमुपसृत्य । ) अयममात्यराक्षसः प्राप्त: प्रणमैनम् ।

 राजा--( राक्षसमुपसृ[१०१]त्य । ) आर्य, चन्द्रगुप्तः प्रणमति ।

 राक्षसः---( विलोक्य स्वगतम् । ) अये, [१०२]चन्द्रगुप्तः । य एष

बाल एव हि लोकेऽस्मि[१०३]न्संभावितमहोदयः ॥
क्रमेणारूढवान्राज्यं यूथैश्वर्यमिविref>र्य इव A. P</ref> द्विपः ॥ १२ ॥

( प्रकाशम् । ) राजन् , विजयस्व ।

 राजा–आर्य ।

जगतः किं न विजितं मयेति प्राविचिन्त्यताम्
गुरौ पाण्गुण्यचिन्तायामार्ये [१०४]चार्ये च जाग्रति ॥ १३ ॥

 राक्षसः-( [१०५]स्वगतम् ! ) स्पृशति मां भृत्यभावेन कौटिल्यशिष्यः । अथवा विनय एवैष[१०६] चन्द्रगुप्तस्य मात्सरस्तु मे विपरीतं कल्पयति । सर्वथा स्थाने यशस्वी चाणक्यः । कु[१०७]तः ।


 वाल एवेति । वाल्यमारभ्यैव राजलक्षणलक्षिततया महोन्नतो भविप्यतीति संभावित इत्यर्थः ॥ १२ ॥

 जगत इति । जगत इति शेपे षष्ठी । जगति किं न विजितसित्यर्थः ॥ १३ ॥

 कौटिल्यशिष्य इति । स्वाभाविक एवैष विनय इत्यर्थः ।


द्रव्यं जिगीषुमधिगम्य जडात्मनोऽपि
 नेतुर्यशस्विनि पदे नियतं[१०८] प्रतिष्ठा ।
अद्रव्यमेत्य भुवि शुद्धन[१०९]योऽपि मन्त्री
 शीर्[११०]णाश्रयः पतति कूलजवृक्षवृत्त्या ॥ १४ ॥


 चाणक्यः-अमात्य राक्षस, [१११]इष्यते चन्दनदासस्य जीवितम् ।

 राक्षसः---भो विष्णुगुप्त, [११२]कुतः संदेहः ॥

 चाणक्यः --अमात्य राक्षस, अगृहीतशत्रेण भवर्ता[११३]नुगृह्यते वृषल इत्यतः संदेहः । तद्यदि सत्यमेव चन्दनदासस्य जीवितमिष्यते ततो गृह्यतामिदं शस्त्रम्[११४]

 राक्षसः–भो विष्णुगुप्त, मा मैवम्[११५] । अयोग्या वयमस्य विशेघतस्त्वया गृहीतस्य ग्रहणे ।


 द्रव्यमिति । द्रव्यं भव्य इति निपात्यते । द्रव्यं श्रेय:प्राप्तियोग्यं जिगीषुं जयोद्योगिनमधिगम्य जडात्मनो मन्दबुद्धेरपि नेतुरमात्यस्य यशस्विपदे स्थाने प्रतिष्ठा नियतमवश्यं भवति किमुतोदारबुद्धेरमात्यस्य । अयोग्यप्रभोराश्रयेण विशुद्धनयोऽपि मन्त्री अहमिव शीर्णाश्रयः सम्पतति नदीकूलगतवृक्ष इवेत्यर्थः ॥ १४ ॥

 एवं मनसि विचारयन्तं राक्षसं चन्द्रगुप्तसाचिव्याभ्युपगमाय प्रवणयति–अमात्येत्यादि । साचिव्यमनभ्युपगम्य तटस्थ्येन वृषलानुग्रहः अप्रयोजक इति भावः ।


 चाणक्यः--राक्षस[११६],योग्योऽहं न त्वं योग्य इति किमनेन पश्य।

अश्वैः सार्द्धमजस्रदत्तकविकैः[११७] क्षामैरशून्यासनैः
 स्नाना[११८]हारविहारपानशयनस्वेच्छासुखैर्वर्जितान् ।
माहात्म्यात्तव[११९]पौरुषस्य मतिमन्दृप्तारिदर्पच्छिदः
 पश्यैतान्परिकल्पना[१२०]व्यतिकरप्रोच्छूनवंशान्गजान् ॥ १५ ॥

 अथवा किं बहुन[१२१] । न खलु भवतः शस्त्रग्रहणमन्तरेण चन्दनदासस्य जीवितमस्ति ।

 राक्षसः---( स्वगतम्[१२२] ।)


 अश्वैरिति । स्नानाहारादिवर्जनादेव क्षामैः कृशैरजस्रदत्तकविकैरशून्यासनै; अनपनीतखलीनपल्याणैः सदा संनद्वैरियर्थः । परिकल्पनाव्यतिकरेण सदा संनाहप्रसङ्गेन पल्याणापनयाभावात्प्रोच्छूनाः शोफरुजा व्याप्त वंशाः पृष्ठास्थिभागा येषां तान्पश्येति । आदरेण पुनः पश्येति प्रयोगः । मतिमतः दृप्तारिद्र्पच्छिदः पौरुषशालिनश्च तव माहात्म्यादिति साचिव्याय त्वमेव योग्य इति प्रवणकर्तुं प्रशंसा ॥१५॥

 किं बहुचेति अस्मत्परिक्लेशकथनेन किं प्रयोजनम् । साचिव्यपदं भवतावश्यमङ्गीकर्तव्यमित्याह -न खल्विति ॥


नन्दस्नेहगु [१२३]णाः स्पृशन्ति हृदयं भृत्योसि तद्विद्विषां
 ये सिक्ताः स्वयमेव वृद्धिमगमंश्छिन्ना[१२४]स्त एव द्रुमाः ।
शस्त्रं मित्रशरीररक्षणकृते[१२५] व्यापारणीयं मया
 कार्याणां गतयो चिधेरपि न यन्त्याज्ञाकरत्वं चिरा[१२६]त् ॥१६॥


 (प्रकाशम् ।) विष्णुगुप्त[१२७], नमः सर्वकार्यप्रतिपत्तिहेतवे सुहृत्स्नेहाय । का गतिः । एष प्र[१२८]ह्वोस्मि ॥

 चाणक्यः -( सहर्षम् ।) वृषल[१२९] वृषल, अमात्यराक्षसेनेदानीमनुगृहीतोऽसि[१३०] । दिष्टया वर्द्धते भवान् ।

 राजा-- आर्यप्रसाद एष चन्द्रगुप्तेनानुभूयते ।


 नन्देति । ये नन्दाः स्वयमेव मया सिक्ताः गर्भपतनात्प्रभृति तैलद्रोणीनिधानादिना महता परिक्लेशेन परिपालिताः सन्तः वृद्धिमगमंस्ते संप्रति नष्टाः तद्गुणाकृष्टहृदयस्यापि मम तेषां विद्विषो मौर्यस्य भृत्यत्वं मित्रशरीररक्षणार्थमवश्यमभ्युपेयत्वेन प्रसक्तमित्यहो कार्याणां गतिवशाद्विधिविलसितमप्यन्यथाभवतीति खिद्यते । कार्याणां गतयः बिधेरप्याज्ञाकरत्वं चिरान्न यन्ति । अतिप्रबलोऽपि विधिः कार्यगतिवैचित्र्यात्कार्यगतिकिंकर इच भवतीत्यर्थः ॥ १६ ॥

 एष प्रह्वोऽस्मीति । इदं प्राप्तकार्यानुमोदनमाभाषणमङ्गम् ॥

 आर्यप्रसाद एष इति । इदं लब्धस्थिरीकरणं कृतिर्नामाङ्गम् ॥


 पुरुषः[१३१]--।जेदु अज्जो । एसो क्खु भदभटभाउराअणप्पमुहेर्हि

संजमिदकलचलणो मलअकेदू पडिहारभूमिं उवट्ठिदो । [१३२]एदं सुणिअ अञ्जो प्पमाणम् । (क)

 चाणक्यः--भद्र[१३३] निवेधताममात्यराक्षसाय । सोऽयमिदानीं जानीते ।

 राक्षसः(स्वगतम्[१३४]) दासीकृत्य मामिदानीं विज्ञापनायां मुखरीकरोति कौटिल्यः । का गतिः । (प्रकाशम् ।) राजन् चन्द्रगुप्त, विदितमेव ते[१३५] यथा वयं मलयकेतौ कंचित्कालमुषितास्तत्परिरक्ष्यन्तामस्य प्राणाः ।

(राजा चाणक्यमुखमवलोकयति)

 चाणक्यः-- प्रति[१३६]मानयितव्योऽमात्यराक्षसस्य प्रथमः प्रणयः ।


 ( क ) जयत्वार्यः । एष खलु भद्रभटभागुरायणप्रमुखैः संयमितकरचरणों मलयकेतुः प्रतिहारभूमिमुपस्थितः । इदं श्रुत्वा आर्यः प्रमाणम् ॥


 भद्र, निवेद्यतामिति । इदमिष्टकार्यदर्शनं पूर्वभावो नामाङ्गम् ॥ प्रतिमानयितव्य इति । यद्यपि शत्रुशेषं न शेषयेदिति शास्त्रान्सलयकेतुर्न


( पुरुपं प्रति[१३७] ।) भद्र अस्मद्वचनादुच्यन्तां भद्रभटप्रमुखा यथा-'अ-

मात्यराक्षसेन विज्ञापितो देवश्चन्द्रगुप्तः प्रयच्छति मलयकेतवे पित्र्यमेव विषयम् । अतो गच्छन्तु भवन्तः सहानेन । प्रतिष्ठिते चास्मिन्पुनरागन्तव्यम्” इति ।

 पुरुषः–जं अजो[१३८] आणवेदि त्ति । ( परिक्रामति ।) (क)।

 चाणक्यः–भद्र,[१३९] तिष्ठ तिष्ठ । अपरं च वक्तव्यो अमात्यराक्षसलाभेन सुप्रीतश्चन्द्रगुप्तः [१४०]समाज्ञापयति य एष श्रेष्ठी चन्दनदासः स पृथिव्यां सर्वनगरश्रेष्ठिपदमारोप्यतामिति ।


 ( क ) यदार्य आज्ञापयतीति ।


मोक्षणीय इति, तथापि राक्षसस्य साचिव्यग्रहणप्रथमप्रार्थनावश्यं मानयितव्येत्यर्थः ॥

 भद्रभटप्रमुख इति । भद्रभदायः राक्षसस्य सचिव्यनिर्वाहाध्यवसाये संदिहानास्तद्वचनं चन्द्रगुप्तवचनं च न प्रमाणीकरिष्यन्तीत्यस्मद्वचनादित्युक्तम् । किंच। अमात्यराक्षसेन विज्ञापित इति वचनं स्वयं तथापकृतेनापि राक्षसेन स्वस्मिन्नेवमुपकृतमिति राक्षससौजन्यं मलयकेतुना ज्ञातव्यमिति ॥


[१४१]अपि च विना वाहनहस्तिभ्यः क्रियतां सर्वमोक्षः' इति । अथवानात्यराक्षसे नेतरि किमस्माकं प्रयोजनमिदानीम् ।

विनों[१४२] वाहनहस्तिभ्यो मुच्यतां सर्वबन्धनम् ॥
पूर्णप्रतिज्ञेन मया केवलं बध्य[१४३]ते शिखा ॥ १७ ॥

 पुरुषः---जं अज्जो आणवेदि त्ति । ( निष्क्रान्तः ।) (क)

 चाणक्यः ---भो राजन् चन्द्रगुप्त, भो[१४४] ' अमात्य राक्षस, उच्यतां किं वां भूयः प्रियमुपकरोमि।


 ( क ) यदार्य आज्ञापयतीति ।


 विना वाहनहस्तिभ्य इति । ततः प्रविशति मुक्ता शिखां परिभृशन्निति मुखसंधावुपक्षिप्तस्य बीजस्यैव मया निर्वहणं कृतमित्याह--‘तीर्णप्रतिज्ञेन मया केवलं बध्यते शिंखा' इति ।

 भो राजन्निति । इदानीं चन्द्रगुप्तस्य राज्यलक्ष्मीस्थिरीकरणाव्यवसायाद्वृषलशब्दमपहाय राजनिति संबोधनम् । किंच सलयकेतुनिग्रहराक्षससंग्रहरूपं चन्द्रगुप्तस्य प्रियं कृतं मलयकेतुजीवनदानस्वराज्यप्रतिष्ठापनरूपचन्दनदासबन्धमोचनसकलनगरश्रेष्ठिपदलाभरूपं च राक्षसस्य महस्प्रियमनुष्ठितम् । अतोऽप्यधिक युवयोः किं करोमीत्याह--किं वां भूय इति ।


 राजा[१४५]---००किमतः परमपि प्रियमस्ति ।

राक्षसेन समं मैत्री राज्ये चारोपिता वयम् ॥
नन्दाश्चोन्मूलिताः सर्वे किं कर्तव्यमतः प्रियम् ॥ १८ ॥


 राक्षसः[१४६]–तथापीदमस्तु भरतवाक्यम् ।

वाराहीमात्मयोनेस्तनुमवनविधावा[१४७]स्थितस्यानुरूपां
 यस्य प्राग्दन्त[१४८]कोटिं प्रलयपरिगता शिश्रिये भूतधात्री ।


 राक्षसेनेति । इदं शुभशंसनं प्रशस्तिर्नाम निर्वहणसंधेरुत्तममङ्गम् ॥१८॥

 वाराहीमिती । भूतधात्री पृथ्वी प्रलयपरिगता प्रलयेनोपप्लुता सती प्राक्कल्पादौ अवनविधौ जगद्रक्षणविधाने अनुरूपां समर्था वाराहीं तनुमाश्रितस्यात्मयोने: स्वयंभुवः आदिवराहमूर्तेर्भगवतः श्रीविष्णोर्दन्तकोटिं दंष्ट्राग्रं शिश्रिये आश्रिताभूत् । तस्यैव संप्रति राजमूर्तेः राजा चन्द्रगुप्त एव मूर्तिः शरीरं यस्य । ‘ना विष्णुः पृथिवीपतिः' इति स्मरणात् । तथाभूतस्य भगवतो भुजयुगमधुना म्लेच्छैरुद्विज्यमाना भूतधात्री संश्रितास्ते । श्रीमद्वन्धुभृत्यः श्रीमन्तः बन्धवो भृत्याश्च यस्य स तथाभूतः अनेन बन्धुभ्रत्येभ्यः संपत्प्रदत्वमस्योक्तम् । पार्थिवश्चन्द्रगुप्तः पार्थिवचन्द्रगुप्तरूपः स श्रीमाननादिविष्णुर्महीमवतु रक्षत्वित्यर्थः । अत्र श्रीविष्णो-


म्लेच्छरुद्भि[१४९]ज्यमाना भुजयुगमधुना संश्रिता राजमूर्तेः
स श्रीमद्व[१५०] न्धुभृत्यश्चिरमवतु महीं पार्थिवश्चन्द्रगुप्तः ॥ १९ ॥

( इति[१५१] निष्क्रान्ताः सर्वे ।)

इति[१५२] सप्तमोऽङ्कः

इति[१५३] विशाखदत्तविरचितं मुद्राराक्षस नाटकं समाप्तम् ।


श्चन्द्रगुप्तस्य चाभेद्कथनानुभयाभेदरूपकमलंकारः । 'अयं हि धूर्जटिः साक्षाद्येन दुग्धाः पुरः क्षणात्' इतिवत् ॥ १९ ॥

 मङ्गलादीनि मङ्गलसध्यान मङ्गलान्तानि शास्त्राणि प्रथन्ते वीरपुरुषकाणि भवन्ति आयुष्मत्पुरुषकाणि चेत्यादिश्रीमहाभाष्यकारपतञ्जलिभगवत्पादानुशासनात्कविरत्र नाटक आदौ ‘धन्या केयं स्थिता ते शिरसि--' इत्यादिनान्दीयपद्यद्वयेन भगवतः सदाशिवस्य गुणसंकीर्तनरूपं मङ्गलं कृतवान् । मध्ये च शरद्वर्णनप्रस्तावे 'आकाशं काशपुष्पच्छवि-' इति पद्येन भगवतः शिवस्य ‘प्रत्यग्रोन्मेषजिह्माम्-' इति पद्येन भगवतो नारायणस्य च गुणसंकीर्तनरूपं मङ्गलं विहितवान् । नाटकसमाप्तौ च 'वाराहीमात्मयोनेः–'इति पद्येनादिवराहरूपधारिणो भगवतो महापुरुषस्य जगदुद्धरणगुणसंकीर्तनरूपं मङ्गलं विरचितवान् । अनेन मङ्गलाचरणेनोपास्योपासकभेदावस्थायामप्युपास्ययोहरिहरयोरभेदेनैवोपासनमखिलश्रेयः- प्राप्तिसाधनत्वेन श्रुतिस्मृतीतिहासपुराणप्रसिद्धमित्युक्तं भवति । तथा च श्रीमदाचार्यभगवत्पादैः श्रीविष्णुसहस्रनामभाष्ये हरिहरयोरभेदोपासनपराणि महाभारतादिवचनान्युदाहृतानि ॥

‘नामानि तव गोविन्द यानि लोके महान्ति च ।
 तान्येव मम नामानि नात्र कार्या विचारणा ॥ १ ॥


त्वदुपासा जगन्नाथ सैवास्तु सम गोपते ।
आवयोरन्तरं नास्ति शव्दैरर्थैर्जगत्पते ॥ २ ॥
यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु ।'

इत्यादीनि वचनानि द्रष्टव्यानि । गङ्गास्तुतौ च भगवत्पादैरनयोरभेदभक्तिप्रार्थना कृता----‘भूयाद्भक्तिरविच्युता हरिहराद्वैतात्मिका शाश्वती' इति ॥

 इति श्रीत्र्यम्बकयज्वप्रभुवर्याश्रितढुण्डिराजव्यासयज्वविरचिते मुद्राराक्षसनाटकव्याख्याने सप्तमोऽङ्कः समाप्तिमगमत् ॥

बुधो दुण्ढिनन्ना जगति विदितो लक्ष्मणसुधी-
 मणेः श्रीमव्द्यासान्वयजलधिचन्द्रस्य तनयः ।
स्फुटं साङ्ग व्याख्यन्नयगुणविदरुयम्बकविभो-
 नियोगात्प्रौढार्थ बुधगणमुदे नाटकमिदम् ॥ १ ॥

 अत्र नाटके चतुर्थेऽङ्के कविरद्भुततरचाणक्यनीतिविषयकस्वसंविधानक्लेशमनुभाव्य प्रमोदभरमनुभवन्तः सरसा सहृद्या जगति दुर्लभा इति मन्वानः स्वयमेव स्वस्य नाटकीयसंविधानक्लेशं राक्षसवचनव्याजेन प्रस्तौति स्म---‘कार्योपक्षेपमादौ तनुमपि रचयंस्तस्य विस्तारमिच्छन्' इत्यादिना । एवं नाटकीयं चतुःषष्ट्यङ्ग लक्षणानुसरणकविहृदयाभिमतार्थाविष्करणप्रयासोऽपि व्याख्यातुरनुमोदयितव्यः सहृदयैरित प्रार्थयामः ।

कर्तेदं नाटकस्याद्भुतरसविलसत्संविधानप्रवीणः
 क्लेशं चाणक्यनीतौ बहुविधमतनोल्लक्षणाढ्यैर्वचोभिः ।
तत्तल्लक्ष्ये तदङ्गानुसरणविषयावासमस्मद्विधानां
 राजश्रीत्र्यम्बकार्यानुमतिसुविहितं वीक्ष्य तुष्यन्तु सन्तः ॥

श्रीमद्विशाखकविवर्यकृतिर्मयैषा श्रीत्र्यम्बकानुमतितो विवृता यथावत् । श्रीस्वामिशैलवसतिर्भंगवान्विशाखो देवोऽनया मुदमुपैतु सनत्कुमारः ॥

बाणाग्न्यृतुमहीसंख्यामितेऽब्दे जयनामके ।
ढुण्ढिना व्याकृतं जीयान्मुद्राराक्षसनाटकम् ॥

  1. P. om. ओ.ह; A. om. अ...ह; ओसलध B. E. N.G; between the two B.. E. N. add अज्ज; for अवेह B. E. N. read अवेध and add माणहे between the two
  2. A. P. read here वज्जेह लाइदघ्वं विसव्व पलिहलह सव्ववसणाई ( णम्ई P. ). एदेखुवट (ठ्ठ) माणस्सदोदि दुल ( ल्ल। P. ) हो ण ( om.P.) विणवादो (विणवाणवादो P.) For this B.E. N. read जइ महह लक्खिदुम् से पणे विहवे कुले &c; B.N. दि महलखिजे जीअं विहवं कुलं कलत्रं च G. जइ अहह लक्खिहूँ से पाणे विहवे कुले &©BN. च for read अom End end qलिहलध for which G, Pपलीहल., om. ता . has पतिहरध,P. पलीहलह
  3. विसमे A. M.; विसमिव B.N.G; विसं विव E; for लाभा° P. has कायापथ्यो; E. लाआपल्थं; B. M. लाआपत्थे; B. N. read प्रअतेण; E. सुदूहेण अ; G. सदूलेण अ. H. reads the verse thus--ग्रह्सइड्र लकिहु हो पाणे विहवे कुलं कलत्तम् च। ता पलिहलध चिराम् विव्अ लाआवक्ष्व्म् पअत्तेण ॥
  4. भोदि G. E; for पु° R. पुरुसस्स, E. पुल°; G. पुरि°; व्याही for वाही. B.N. G; वावाही (?) R.; व्याधी E.; वाहि P; मलणे for मलणम् P; for अप°B.E.N, read अवस्थम्मि, G. अवत्थह्मि.
  5. लावापच्छे G.; पुण सेविदम्मि E; उण सेविदस्मि H; वि om. B. E. N. H; पि G; उलं B. N.; om. P; for मलदि R.M. read मिअदि
  6. ज़इ .B.N.; ताजदि R. G. E. For पतिज्जहता एह &c. B.N, H. read पतिआअध तदपेक्खध एदं लावावत्थ; E. पत्तिआह ता पेक्खध एदं लाआवत्थ°; G. पत्तिज्जहृत्तापेक्ष् (? ) ह एअम् लायापत्थ्; M. reads पदिज्जहदा, R.पडिजहहता
  7. सपु° B. E. N. G. and after णीआमणं for which B. N.read आणीआमाणं; G. E. णीयमाणं
  8. Om. B. N.; before आ° E; from णीञ्जमणं to घरअणं om P; for अज्जा A. G. E. read अज्ज़ For भणह E.has भणेहा, B. N. भणध. For अस्थि से कोचि B, N. read अत्थि किं चन्दणदा सस्स, G. E. read स for से in our text.
  9. B. N. omअज्जा and before this read कुदो से.अधणस्य मोक्खोवाओं त्ति। एदं उण and after this से जइ ; E. too has जदि, G. जइ after this, and not beforeसमप्पेदि. Forघरअणं G.reads परिअणं, E. मच्चलयणं omittingस्स just before the घरअणं; R.reads जंदि for जइ and G. adds त्ति after सम प्पेदि•
  10. भणाह .; भणाध B.N.; पुन..शे before this om. G. E. ( which adds ण before एसे ). For वच्छले P. has वत्सले, E. वत्थले.
  11. B.E. N. om. मत्ते. For इदिसं R. has ईरिसं, E. इमं, M. ईंदिशं; B. N. have ण before this, not before कलिस्सदि for which E.reads कलइस्सदि A. P. read अज्ज for अज्जाः
  12. जइ एवं before this B. N. For what follows B. N. read अवधा णेध से असुभगारदिं A . अवधालएह ससुह, P. °लएहसेअसुहां, G. धाणेधसेसुहां गदिं E. अवधालेह से षुगदि एत्थके दाणिं एत्थ तुह्मण पदीकालो; for किं &c.B. N. read एत्तिके दार्णीं तुम्हाणं पडीआले. For किं G. has एत्थ किं;for दणिं P. R, N. दाणी, R. M. om. थ. A. reads विआरणेण and F. एत्थपदीका विरहो.
  13. चा° P. G. E.; °नुगम्यमानो E.;वेष P. G. E.; स्कंधेन वहन् E.
  14. For चन्द्र। ...मू। B. E. N. R. read कुटु°; R. om, one हध्दी. For चन्द.द्धी E. reads दच्छी (?); P. has अह्नालिसाणं. For णिच्चं B. N. read कधं, E.णि; G.E, after वि read जहिं .For चारित्त B,N. have चारित्र, P. चालित्त .
  15. ‘जणाणं विअ B. N.; °णोच्छिदं R.; णोविअ G.F or मरणं R. has मलणे. For होदि G. has होइ, A. P. भोदिः B. N. पत्तं ति णमो णमो कदन्तस्स; E. has णंवुप्पणं मोकदन्थतस्स; R. reads किदन्दस्स; G. किवंतस्स These lines are read in a metrical form by H. thus:अम्हारिसाण वि जदो णिच्चं चारित्त भङ्गभीरूणं । चोरजणोइदमरणं पत्तं ति णमो कदन्तस्तु ॥
  16. अथवा G. E.; ण om. B. N. For उदासीणे° M. has उदहीणे'; for इतरे° G. reads इअरे', E. इपरेसु', A. has षु for सु in both places here. P. reads विशेसो. For त्थि B. E. N. G. read अस्थि and they also read तथा for तह
  17. मौहुण B. N. For आमि° B. N. P. read आमिसाई R. M. P. read मलण; P. om. भएण; G reads भयेण E, नएनं. For तिणोहेिं E. has तिणिहिं, P. तिणंहिं. For जीवन्तम् B. E. N. G. M. जीवन्ति.
  18. हरेण (?) F. हन्दुं M.For 'णिब्बन्धो G. has णिष्टान्धो
  19. भाव B. E, N. G; हध्दी before this R; while A. M. have विष्ण्हु° before पिअ'; B.E.N.G. have कधं for कहं; E, has अवन्तरे (?) for भो.
  20. वयणं E.For वि G.E. have पि; B. N. read मे ण, E. मां for ण मे; B.N. add त्ति after °ज्जसि . For अहवा B. N. read अंधवा, E. अथवा. For णुसा B.N. read क्खुते पुरिसा, E. क्खु ते मणुस्सा.
  21. इमेस्स B. E. N.; अस्सि G. For पथे B. has पहे, M. E. वहे, A पत्थैः M. R. G , om. वि; M.. R.P. read चिट्ठन्दि; E. चिहान्त; चन्दन” before सबष्यम् in B. N. For एदे | E. has एते; A. एदेअ. For अंसु° E. has अंसुवावअमित्तकेण; A. P. read अस्सुपादमत्त; B. N. G. read बाद for पादः M. has मेत्तएण. After किद | (for which P. has किई and E, has कय) B, N. read पदीरा स्वंसरीरेहि णिवत्तमीणा परिवर्डमणिसोअ &c.; (G. E. om. स्व,G. read8 अत्त, E. यत्तीय for °वत्त, G. पडिनियन्तंमाणशीअ for परि...णसोअ and E. परिवत्तियस्सट्टामंविस्वेखत्तिदण &c. as in the text ); M. R. read पदिणिवट्टमाणा.
  22. वैदणी A. P. For बीह° P: has बाप्फ,° B. N. बापागरु; गच्छन्ति B. E. N. G। omitting इति...तिः
  23. B. N. read चोन्डालौ परिक्रम्यावलोक्य च; G. E. read परिक्रम्य चण्डाले; M. has अज्ज चं...सै. For आअ° B.N. read पञ्चागदों,E. परंगदौ, G. अगदौं”, B. N. read वैज्झट्टणं, E. व...दीर्ण. For* पलिअंणं B.E. N. H. read घरअर्ण.
  24. B.E. N. G. have अज्जे before this; A.. reads कुड° and P. कुटुम्बिनी,For: णि...दं. B. N. read णवत्तस्स तुमं, G. reads णिवत्त संपदं,E. Simply संपदं: For ण...क्खु B. N. वज्जट्ठणां क्खु एदं; R. om. from this to P.302.; B.N. H. read अवरं अभूमिअनुग; G. अवर भूमिख्खु अणु°; E, अपरं अभूमी अणु.
  25. पहिओ E; B.N. have उण after ण; A. reads देशन्तरं; M. देसन्दरं, E has पच्छिदो after this, B. E. N. add ताअजोग्गो दाणिं (अकालो दाणिं E.) एसो कुलज (य E.) णस्य णिव (य E) त्तिदुं; H. adds ‘ता अणुचिदं खु कुलवहूअणस्स णिवत्तिदं ।
  26. अये P; this and next speech om, in E. and H.; सञ्चं for अअं, मम for में B.N. which om. उण also; M, om, मे, for ता...ण; B. N. read ता, किं हरिसट्ठाणे वि रोदिसि त्ति.; G. ती अलं आनन्दट्टाणे विसादेन,
  27. व्वं P.; अकालों om. and अणुचिदं before दाणिं B. N.; दाणीं B. N. P; कुलअणस्स B. N. G.; कुलअणूस P. For " णिवट्टिदुं B. N. have णिवत्तिदुं,
  28. अध B. N.; विवसिदं G. For कु° P. G. read कुटु”, B. N. अज्जाए.
  29. B. N. read सबाष्पम् before this and चलणमणु'; P. has °च्छन्दीए. For अप्पाणं° E. has अत्ताणुं, G. अप्य°, B.N. अज्जा'; G. reads भोदु; B. N. E. होदुः
  30. om. B. For एदं तुए'B. N. have एदं ते; E. इदं ते, G. ते एदं after which B. N. have ता दाणीं अज्जाए अअं (om. पुत्रओ) agrees reading इदाणिं for ता दाण(?); B. N. read °व्ववहारो for खंववहारो; B. N. read कुमारो, E. पुत्रको for बालो; B. N. read त्ति afterअणुगह्णिदव्वो for which P. E. ‘गिहि',B.N.गेहि°, G. M. गेहि°.
  31. गेळन्तु B. N.; ' गेहन्तु G.; गिलन्तु E.गिह्णि A; A'P. omणं; B. N. have भअवदीओ कुल before देवदाओ for which E. has देवयाओ. For पत...देसु B. N. have पणमअ 'अपच्छिमस्स पिदुणो पाएसु;G .पतस्व पडसु अपस्थितेसु विदुणो पाएसु . B. agrees with G. Reading पिउणो पादेसु
  32. B. N. omकिं दाणि and have किं before अणु; G. reads दाणिं only and has किं (? कु G. ) where B. has it, E. has इदाणिं, and किं where B. has it
  33. . om. वि.
  34. °नदास A. P. For णिखादे N. has णिखते, E. णिक्खदे A. M. णिखाते; M. P. B. सूले. For होहि G. E. read भोहि and B. E.N. G. have द्वाणीं before it.
  35. Twice in M. G. B.; for परि° P. has पलि; E. reads परित्रायध; A. M. अह;P‘अहा
  36. B. N. read भद्र्मुह मुहुत्तअं चंठ्ठ । अइ जी विदखचछले किं &c. M. has only अइ before किं and G. अइङल्लहे, E. अइ जीविदवच्छलेM. reads अस्थ for एत्थ; G, omआ in आक्कन्दसि; E. has सर्वे for सगग्ं; B. B. N. G. H. read after that गदा ख्खु ( om. G. ) ते देवा णन्दा जे दुखिदं (G. om. दं) इत्थीजणं ( परिजणं E. अणं G. जणं H. ) पइदिणं ( om. G. D. H.) अणुकम्पन्ति (कंवन्ति E.; B. N. E. om. What follows; M. reads वरिअणं for परिजणं.
  37. E, has अन्यच्च for this; G. on. मे; G. and E. have ण पुरिखदोसेण for ण अजु त्तकज्जेण; G. has एदं afterकिं and रोदिअसि for रोदीअदि; M. has रोदीयदिः
  38. E. has before this the speech of पुत्र further on. For विलपत्त B.N. read वेणुवेत्तका, G. विलवत्तआ, E. ह्णाविलपद्दक. For गेह्ण E. has गिह्णाहि,M. अङ्गेहि, after which B. N. have इमं; B. N. read घलक्षणो सअंज्जेव for स..णो; M. reads परिजणो; G. परिअणो (reading जेव्व for एव्व).
  39. अथे ; वज्जलोमगा G; च..मकां B. N. E.; एसे for एस B. N.; एसो E. which also reads गिह्णामि.
  40. भद्दमुह चिट्ठ, मुहुत्तअं B N E पुत्तं for पुत्तअं G. E for सन्तआमि B. N. H. have परिस्सआमि, G . परिस्सज्जामि, E. परिष्वजामि (before पुत्तं); B. N. read इति पुत्रं परिष्वज्य मूर्ध्नि समा°. E with text but reads समघ्नाय; G . E. have पुत्त; B. N.पुत्तअ after जाद
  41. अवस्स E; वि before विणासे B. N; कज्जे for कज्जं P; उव्व° for समुव्व° E.°णुभवामो ; युभबेहि G.; अणुहोहि•H.
  42. ताद एदं क्खु भणितव्वं किं B. N.; तात A. P. For बि G . has पि; E. has ताय किं एयं पि भणितव्वं . For धम्मो B, E. N H read क्कमो
  43. गेहिआणं (?) R.; गेह्न वजलोमआ B. N.; गिलले गिह्न E. G. (this latter add स पलिजणो गमिस्सदि). After this speech B. N. have चाण्डालो गृह्णीतश्चन्दनदासमारोपयितुं शूले.
  44. Om. B. E. N. G.;अज्जा B. N.; अजो M.; परित्राअधE.; परित्ताअस्स G. E.; पलित्ताहि P.; परित्ताअहि M, परित्ताहि om. R.
  45. अपटीक्षे B. N, which add भतव्यम् after the भेतव्यम् in our text.G. has न भेतव्यं.
  46. For शूलायतनाः B. E. N. H. read सेनापते, G. भो शूलपाते, G. also reads व्यापारनीयः and B. E. N. G. add कुतः after चन्दनदालः.
  47. वृष्टम् G.
  48. भवे E; H. reads 'आत्मा यस्य च वञ्चनापरिभव etc.'
  49. किल A. P.
  50. वि...स....B. E. N. G.; इदं for एवं G.; निमं (१) E; B. N. add after it दे व्ववसिदम्।
  51. °दीयस्य B. N. G. which and E. om, last एतत्ः
  52. पि for वि G. E; णिफलं before इमं G; मे णिफ्फलं एदं (इमं E.) पआसं B. N. E; करणेण E.For तु...किं. B. E. N. H. read ण मेपिअं and add अमच्चेण after चिठ्ठिदं; G.reads तुए ण मे पिअं अणुचिठ्ठिदं.
  53. B. E, N. G. H. read सखे चन्दनदास (G.om. this) कृतमुपालम्भोन (G. has तत् and E. तत्र before कृतम् and both read कृत° after जीवलोकः) स्वार्थप्रधानो हि जीवलोकः (G. has °यं for हि , E.om.it) भद्रमुख अयमर्थों (om. G. E.) निवेद्यतां तावहुरात्मने (G. om तावत्) चाणक्याय; R.has दुरात्मने after चाणक्याय in our text ; R. M. read तत् before कृतमुपालम्भेन.
  54. B. N. have अध; G. E. जधा before किं.
  55. पि for ति N.; प्र B. N. E; प्रलपताम् (?) G.
  56. च शुद्धा° P. which also has वहा° for बुद्ध.°
  57. च for स P. and for गतः शत्रुत्वम् B.N गतो वध्यत्वम्
  58. विपत्तअ M.; विलपत्ता G; बिल्लवत्तका E. For दाव A. E. read ताव after which B. N. read सेहि before चन्दण°
  59. B. E. N. G. om. इहः B. E. N.read इमस्स for एदस्स and A. P. समलाण for मसाण. For पादपस्स B. E.N. G. read पादवस्स; for सुहुतं B. E. N. A. read मुहत्तअं; याव. E; अज्ज before चाणक्क॰ B. E. N.चाणक्काय G; for गिहि° R. reads गिहि॰ ’, B. N.G. गहि°, E. गहिए; B. N. G. read लक्खसो; E. लक्खसे.
  60. अये A. P;वज्जलूम M.; वज्जलोमका. G. E.वज्जलमआ B. N. For गच्छ B. has एवं होहु; N. एवं कलेमि.
  61. Om. R. G.; तथा for it E;.निष्कासति G. which adds इदं चाणक्कगेहं पुरं परिक्रम्य। अल्थि &c. omitting प्रथम...म्यः
  62. ए .च्चो Om. B. E. N. G; निष्क्रम्य for परिक्रम्य N. For अ...वि. B. N. read के के एथ दुआलिआणं, E. को एत्य॰ दुआ॰. Before अ..वि.M R. read एदं चाणक्क (क्य R.) गेहं । परिक्रम्य (om. R.); for एस्थ M. reads अत्य.
  63. णिवेदेध. B. N. For णग B. has सेण्णसंचअचूण्णण, N. simply संचूण्णण कुलित्रह, B. शेळ (ण्ण) संवन्दलचूल (ण्ण?) नकुलिशय; G. reads णगकुलिवाह.
  64. For पडि° B, N. read पदिष्टाचिदधम्मसंच्छअस्स ( अह N.); G. पडद्यावकाह पउलधर्मसंचआह; B. पइटुपकायगाह (?) पउलधम्मसंचआह अजाह चाणक्कह. G.' also reads चाणक्काहः
  65. राक्षसेन after this in B. E. N. and E. has आत्मगतम् for स्वग°this speech and all that follows down to विगुणीकृत &c. (P. 310) are wanting in R.
  66. एसोक्ख B. E. N. G. which last further on reads णीइ and G. E. H. read णिअल after it, B. N. reading णिअ; E. reads संजणिद for संजमिद For पलिसले M. P. 1ead परिसले, G. पुरिसआलेB. E. Nपुलिआले. For गिहीदे B. JE N. read गहिदे;. H. . Before G. B. read लक्खसे for रख
  67. यवनिका. A. M.; यमनिका. E. H. before चाण° B. N. read सहंर्पः, P. reads दृश्यचाणक्यः
  68. E. om, one कथय.
  69. त्तुंस (°तंस ) E.
  70. पाणौ P.; समापादिता G, E.
  71. For सटः, B. reads शठः, M. सट्ःऊ.
  72. चीफनक B. N ; निकरो for मकरो P.दोष्णा for दोयीम् M.
  73. ण before this B. N. E G. For णिउण P. has णिद्युण; B. N. add ज्जेव after अजेण.
  74. B. N. E G. begin this speech with भद्र and B. E. N. om. वि and E. om इति before शूहि.
  75. आत्मगतम् E. after this B. E. N. G. Read अये before अयस्; B. E. N. read स before दुरात्मा and अयं च before महामा. P. Reads चाणक्यः after ऱांसा
  76. यतः before this B.N. has विद्यानाम् for शास्त्राणाम्. H. puts his speech of Rakshasa after अमास्य इति लझाकरमिदं विशेषणम् (p. 308).
  77. A. P. om विलोक्य M. P. om. स्वग° for which E. reads आत्मगतम्; E. om अये; B. N. M. read अयममात्यरा°
  78. दीपजागर N.
  79. करेण om. in B. E. N. G.जवनिकान्तरेण A.; ज.कांच करेण &bc, P.यवनिका° M; ‘च before भ om; भो twice B. D. N. which read also विष्णुगुप्तोभिवाद्यते.
  80. आत्मग°E.before इदानीम् B. N. read इदम्; G.B. read it after इद°B. E. N. G. read विशेषण G. om. प्रकाश; B.N. read भो भो after" प्रश्न°. For चाण्डाल B. E. N. G. H. read श्वपाक P. has मां not before च° but after ' दूपितम्.
  81. Om. N. For ने...लैौ G.has नेसौ श्वपाकैौB. E. N. नायं श्वपाकःFor दृष्ट B. N. E. read दृष्टपूर्व, E. पूर्वदृष्ट omitting the following एव. For सि... B. N. H. read सिद्धार्थक नासा. E. has after सिद्धार्थकनामा राजपुरुषः, येन जसौहृदमुपाद्यशकट दाखोऽपि’ etc.
  82. कनामा B. N.; सिद्धार्थनमा G. For एव after पुरुप , E. has च after which B. N, have ताभ्यामेव सह ' सौहार्दमुत्पाद्य शकट &c
  83. B. JB. N. om. लेख; B. N. read °न्नेव कपटलेखं मयैव लेखितः; E. H. ‘दृशं कपटलेखमजानन्नेव मयैच लेखितः
  84. आत्मग° B E. N. सहर्पम् before स्वग° M. E; after it G; प्रत्युपनीतो P; before विकल्पः G. E, and मे.
  85. B. N. omएप; M. E. G. read संक्षेपः for संक्षे...यामि.
  86. For भृत्या B. N. read ये ते.
  87. सचार्तपु B. N.
  88. सर्वोसौ मम B. E. N. H.; इति om. E. which adds न after क्त्ते; M. क्त्तौ; A. P. read नाटयन् for नाटयति.
  89. Before this B G. N. read खर्चासौ, G. चवें से; for संयोग P. has खाचिव्य and E reads योगमिच्छमितिः.
  90. तदेष. B. N. which read आगच्छति forइच्छति.B. B. N. G. add पश्यैनम् after it.
  91. आत्मग .E. B.N. after गतिः read प्रकाशम् । य एष &c M. agrees omitting य.
  92. B. N. read सेवकैरनुगस्यमनो before राजा and om. what follows; A. P. read च after, not before,परिवर.
  93. यत्सत्यं before this in B. B. N. which also read इव for एव; M. om मम हि; B. B. N. om हि.
  94. अनियोगेन for विधियोगेन. B. E, N. H. which read विलक्षताम् for विपक्षतामू.
  95. स्वशु. B. N. H. For the last word B. reads शयनव्रतप्रतिष्ठा; N.E.H. श...तस्य निष्ठा, G. तूणीरशयनम्रतप्रतिष्ठा, A, P. read शयनं निजप्रतुष्ट्यै-
  96. ममैव G. E.
  97. अये. G; च...सोभिवादयते. E
  98. वृषल before this B. E. N. G.; मम after ते E. after सर्वा G For तत्रभ G. E. have अत्रभवन्तम्. For अ...ख्यम् B. N. read अमात्यराक्षसं पैतृकस्तवायममात्यमुख्यः G. H. अमात्यराक्षसमयं च ते पैतृकोमात्यमुख्यः, E, अमात्यराक्षसमयं पैतृकोमात्यः ।
  99. आत्म G.; this speech is om. in R, E.; and in M. this speech and the two preceding ones are omitted.
  100. This speech is wanting in B.E N. G. H.; before अयम् R. has वत्स,
  101. .E om. राजा up to this. For च...ति B. E. N. read चन्द्रगुप्तोहम (E. om. अहसू ) भिवादथे (°यते ED.).
  102. अयम् before this B. E. N, G.
  103. लोकेन for लोकेस्सिन् B. E. N. H; N.H. read महोन्नतिः for" महोदयः
  104. चाग्रे A. P., कार्ये E, H.. त्वयि B. N.
  105. आत्मग. E., कौटिल्यशिष्यो before भृत्य° B. N.
  106. . om,एव; E. om. एष and से further on; कलयति for कल्पयति. B. N. M. विकल्पयाति E.
  107. Om. M. R, G.
  108. नियता B. N.
  109. For भु..-द्ध B. N. H. read तु विविक्त, E. भुवि चित्र,M. तु विशुद्ध.
  110. जीर्णा° R.; for वृत्या A, has रीत्या, G. तत्या?, E. त्योपा?
  111. B.N. read अपि before this.
  112. कः for कुतः B. N.; अत्र कः E; this and next speech are wanting in G.
  113. ता नानु. B. E. N. G. H.
  114. After this A.P. read राक्षसश्चिन्तयति ॥ चाण° । तपोवनं यामि (ततो विनयामि P.) विहाय मौर्यं । त्वां चाधिकारे ह्यधिकृत्य मुख्यम् ॥ त्वयि स्थिते वाक्यनि (वाक्पति P.) बद्धवुद्धौ भुनक्तु गामिन्द्र इवैष (व P.) चन्द्रः ॥ पुनस्तदेव पठति. The Alvar.Ms. reads राजनिवद्ध &c, in the third line.
  115. मा मैवम् twice A. M P For अस्य &c. B, N. read एतस्य ग्रहणे वि...स्य शस्त्रस्य; R. reads अयोग्य मयस्य (?) &c. as in text except परगृहीतस्य for गृहीतस्य।
  116. अमात्य before राक्षस B. E. N.; for" राक्षस P; for what follows B, N.read योग्योहमयोग्यो भवानिति कथमेतत् ; E. reads न योग्योहं त्वं योग्य इति किमनेन । पश्य नाम:
  117. विका B. N. E. G.; कालिकैः R.; °न्यासनानू B. N.
  118. नानाहार G.; विनोद for विहार N.; शयनैः A. P; खैर्निजितान् M. R,
  119. त्म्यादतिपौरुषस्य भवतो द्द B.;त्म्यं तव &c. as in next G.
  120. कल्पन A. P.
  121. किमनेन B. E. N. G.; अस्ति at the end om. in
  122. Om G.
  123. For गुणाः B. N. G. read कणः; for हृदयं, हृदये; for °द्विषो, द्विषाम्.
  124. For वृ...न्ना B. N. read पाणिपयसा छेद्या. H. does not read this verse here but before the concluding verse, with some alterations
  125. B. N. read °रीरकेषु सरुषा; and सदा for मया; G. reads °रीरकेषु परुषम्
  126. चिरसू G; for यन्त्या ...तु B. N. read यान्त्यालोचनागोचरमू
  127. भो before this B. E. N. G. and उपानय खङ्गम् after it B. N; from स्वग° प्रकाशम् om. in E.
  128. सज्जो B, N.; प्रसद्दवेमि (?) E.
  129. शस्त्रमर्पयित्वा after सहर्पम् B. N. one वृपल om. R.
  130. B. N. om. सि. and read गृहीतशस्त्रेण before अनुगृहीतो; E. reads गृहीताधिकारेण and om. सि; G. agrees with our text and reads स्मि° for सि; P. also reading °पि for: "सि.
  131. पु...प्रविश्य.G.; fon: जेदु B. N. read जअदु जअदु; G. E. जयदु जयदुः For अज्जो A. P, read अमञ्चो after which B. E. N. read अज्ज; P. om, क्खु; B. E. N. G. read भद्दभडः A. reads भागुराअणः R. E. भारायण. For संजमिद E. has °मिय; B. N. °मिअ; E. om. कलचलणो; P. reads कुलचरणो.For भलअ. B. E, N. read मलय; P. मलए(?); G. reads परिहारभूमीए पत्थविदो; for उवट्ठिदो B. N. have अवत्थापिदो; E. उवठ्ठविदा; अवत्थाविदो H.
  132. ता एव B. N.; एह E.; after सुणिअ B. N. read एत्थ.
  133. अ श्रुतम् before this B. N.; राक्षसस्य E; the MS. G. stops at राक्षसाय; B. E. N. om. सः;B. N. read राजकार्ये करिष्यति; E, जानाति for जानीते
  134. आत्मग .E.; कथम् after it B.E.N.; for दासी E.H. have वशी &c .; B.N.om माम् ; for विज्ञा E has वि … य; B.N. add माम् after वि…य
  135. B. N. om. ते and B. E. N. read किंचित्कालान्तरमू ; for °रक्ष्यन्ता° E. has रक्षणीयः
  136. B. E. N. read before and after this.
  137. For प्रति B. E. N. have अवलोक्य. For अस्मद्व° B. N. read मद्व. E,has °द्व° simply. For प्रमुखा B. N. E. read प्रभृतयः Omitting यथा; B. E.N, also read राक्षसविज्ञा for राक्षसेन विज्ञा For पित्र्य seems to read 'पि स्वमेव B. N. om, final इति
  138. देवो M R.; the whole speech om. E.;परिक्रा° om, in B. N.; वेदीती परि. P.
  139. B.N. read तिष्ट तावत् । भद्र भद्र एषमपरमुच्यतां विजयपालो दुर्गपालक्ष्च; E. has अपरमुच्यतां विजयो दुर्गपालः P reads अपरं वक्त्तव्यं दुर्गपालः R.om one तिष्ट and reads दुर्गपाल्यः; R.om राक्षसः B.E.N. read अभात्यराक्षसस्य गृहीतशस्त्रस्य प्रीत्या देवक्ष्च &c.
  140. A M P read सोयमाज्ञा; R आज्ञा; E om all from अमात्य down to this. B,E N R om. य: and स: further on; E. om. श्रेष्टी: B E. N. read तावत् after एष : For सर्वनगर B N H read सर्वेषु नगर्रेषु, E सर्वनगरेषु.
  141. B. E. om. अपि च and have instead पुरु°। जं अमज्ञ्चो (अज्जो E. )आणवेदित्ति निष्क्रान्तः चाण. चन्द्रगुप्त किं ते भूयः प्रियं करोमि ।। राजा । किमत & c. as on next page चाण° विजये उच्यतां दुर्गपालो विजयपालश्च अमात्यराक्षसपरिग्रहेण प्रीतो देवचन्द्रगुप्तः समाज्ञापयति विना & c. N, has अन्यञ्च for अपि च; for वा...भ्यः B. N. read हस्त्यश्वसू, P. वा...भ्यासू, E. वा.••हस्तिभ्यः; B. E, N. add बन्ध before मोक्ष and E. om. इति For अस्माकम् B. N. read हस्त्यश्वेत, E. हस्तिभिः ; E. om. इदानीम्, B, N. have तत् before it.
  142. सह B. N.; for: हस्तिभ्यो B. N. read हस्तिभ्याम्, E. युग्येभ्यो; E also reads पूर्वं for सर्वं before बन्धनम्: A, P. read तीर्णप्रतिज्ञेन.
  143. B. N. H. read इति शिखां बध्नाति before this, and for पुरु B. reads प्रति; N. om. this speech and E. also; P, reads °वेदीति नि; B. reads निष्क्रान्ता.
  144. B. E. Om. भो •••भो and read तदुच्य° for उच्य° and ते (भूय ) for वाम्; P. reads भूयः before किम् and M R. read उपहरामि for° उपकरोमि.
  145. This speech is not here in B. E. N., but on last page; see note I there. In P. we have अति for अपि and B. E. N. 1ead परम् for: प्रियम्; R. reads किमतः
  146. For this B. N, E. read राजा । किमतः (E, has अतः only) परमपि प्रियमस्ति । यदि न (यद्य E) परितोषस्तदिदमस्तु भरतवाक्यम् (तदा इदं भवतु E.).
  147. तनुमतनुबलामास्थि° B. E. N. H.
  148. E. reads प्रथि and H. पोत्र for दन्त and M, R, read कोटी. H. puts the last verse in the mouth of Chanakya.
  149. रुद्रेज्यमाना B. E. N. H, which read पीवरसू for संश्रिता (E. reads पीवरा).
  150. श्रीमान्बन्धुः °E.; बन्धुवर्गः N; for °वश्चन्द्रगुप्तः E. reads वोवन्तिवम, N.वरन्तिवर्मा
  151. om. A.
  152. om, M. R. E; the whole इ...ङ्क om, A.
  153. A. P.read इति श्रीमन्महाराजपदभाजः पृथोः सूनुना महाकविना श्री ( om. P.)विशाखदत्तविरचिते मुद्राराक्षसनाम्नि (A, om. नाम्नि) नाटके निर्वहणं नाम (P.om. नि...म) सप्तमोङ्कः (ङ्कोयम् P.); A. Adds शुभं भूयात्सततमः M. reads मुद्राराक्षसं नाम नाटकं समाप्तम् । श्रीशारदायै नमः । श्रीविद्याशंकराय हृदये नमः ॥