मेघदूतम् (वल्लभदेवव्याख्यासमेतम्)

मेघदूतम् (वल्लभदेवव्याख्यासमेतम्)
कालिदासः
१९११

PRIZE PUBLICATIONS FUND
VOL. III



KALIDASA'S
M E G H A D U T A


EDITED FROM MANUSCRIPTS

WITH THE

COMMENTARY OF VALLABHADEVA

AND PROVIDED WITH COMPLETE

SANSKRIT ENGLISH VOCABULARY

BY

E. HULTZSCH

PRINTED AND PUBLISHED UNDER THE PATRONAGE OF

THE ROYAL AISIATIC SOCIETY

AND SOLD AT

22 ALBEMARLE STREET, LONDON

1911


(copyright, by the Royal Asiatic Society, on England and lndia.)


MEGHADUTA

    यस्य भृङ्गावलिः कण्ठे दानाम्भोराजिराजिते ।
    भाति रुद्राक्षमालेव स नः पायाद्गणाधिपः ॥ १ ॥

    कालिदासवचः कुत्र व्याख्यातारो वयं क्व च ।
    तदिदं मन्ददीपेन राजवेश्मप्रकाशनम् ॥ २ ॥

    तथापि क्रियतेऽस्माभिर्मेघदूतस्य पञ्चिका ।
    उन्नताश्रयमाहात्म्यस्वरूपख्यातिलालसः ॥ ३॥

 अथ यदेतद्भवान्व्याचष्टे किमेतदुच्यते । मन्त्रदूतश्रवणाद्यभावान्महाकाव्यमपि खण्डकाव्यवत् भवति । तथाख्यायिकाव्यपदेशस्तु दूरापेत एवात्र । प्रावृडाश्रयः प्रवासविप्रलम्भः कवेर्वर्णयितुमिष्टोऽत्र । स च नायकमनाश्रित्य वर्ण्यमानस्तथा रसवत्तां न धारयति । न च शृङ्गारविधानम् । गुह्यकोऽत्र नायकतयाश्रितः । तस्य च विरहोन्मत्तत्त्वाद्दूत्ये मेघप्रेरणमपि नायुक्तमिति केलिकाव्यमित्येतत्सर्वं स्वस्थम् ।

  कश्चित्कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः
  शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः ।

  यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु
  स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १ ॥

 कश्चिद्यक्षः पुण्यजनो रामगिर्याश्रमेषु चित्रकुटाचलतपोवनेषु वसतिं चक्रे व्यधात् । निजपुरीमलकामपहाय तत्र वासे कारणमाह । भर्तुः प्रभोर्धनदस्य शापेनास्तंगमितमहिमा नष्टतेजाः । कीदृशेन । कान्ताविरहगुरुणा प्रियाविरहदुःखेन । तथा वर्षभोग्यण' संवत्सरमनुभाव्येन । किमिति तेनास्य शापोऽदायीत्याह । स्वाधिकारप्रमत्तो निजव्यापारावलिप्तः । स हि जायायां व्यसनित्वात्स्वमधिकारमनपेक्षमाणो राजराजेन । तथैव तव वर्षं विरहोऽस्तु । महिमा ते नश्यत्विति शप्तः । रामाद्रिमतः स आययौ । कीदृशेष्वाश्रमेषु । जनकतनयास्नामपुण्योदकेषु सीतामज्जनपवित्रतोयेषु । यदध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते । राघवसंनिधानेऽपि सीतायाः प्रशंमा शृङ्गाराश्रयत्वेन काव्यस्य चिकीर्षितत्वात् । तथा स्निग्धा अपरुषा छायाप्रधानास्तरवो येष्विति सेव्यत्वकथनम् । वर्षं भोग्यो वर्षभोग्यः । काला अत्यन्तमयोगे चेति ममासः । रामगिरिरत्र चित्रकूटः । न तु ऋष्यमूकः । तत्र सीताया वासाभावात् । सर्वत्र मन्दाक्रान्ता वृत्तम् । प्रवासविप्रलम्भो रसः ॥ १ ॥

  तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी
  नीत्वा मासान्कनकवलभ्रंशरिक्तप्रकोष्ठः ।
  आषाढस्य प्रशमदिवसे मेघमाश्लिष्टसानुं
  वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २ ॥

 ततोऽसौ यक्षः कतिचित्सप्ताष्टान्मासान्नीत्वातिवाह्य तस्मिन्नद्रौ चित्रकूटे मेघं ददर्शालोकितवान् । अबलाविप्रयुक्तः प्रियाविरहितः । अतश्च दौर्बल्यात्कनकलयभ्रंशेन सौवर्णकटकपातेन रिक्तप्रकोष्ठः शून्यभुजः । कामी व्यसनी । कीदृशम् । आश्लिष्टसानुमालिङ्गिताद्रिप्रस्थम् । अतश्च वप्रकीडार्थं तटाघातकेलिनिमित्तं परिणतो दत्तप्रहारो यो गजस्तत्प्रेक्षणीयं दृश्यम् । सानुलग्नेभमित्यर्थः । कदा । आषाढस्य प्रशमदिवसे समाप्तिदिने ग्रीष्मावमाने । केचित्तु शकारथ कारयोर्लिपिसारूप्यमोहात्प्रथम इत्यूचुः कथं कथमपि चैतमेवार्थ प्रतिपन्नाः । वर्षाकालस्य प्रस्तुतत्वादादिदिनमित्येतत्त्वतीव विरुद्धम् ॥ २ ॥

  तस्य स्थित्वा कथमपि पुरः केतकाधानहेतो.'
  रन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ ।
  मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः
  कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ ३ ॥

 तस्य जीमूतस्य पुरोऽग्रतः कथमपि स्थित्वा राजराजस्य वैश्रवणस्यानुचरो भृत्योऽन्तर्बाष्पो ऽस्रुकण्ठः किमप्यज्ञायमानं वस्तु चिरं दध्यावचिन्तयत् । कीदृशस्य । केतकाधानहेतोः केतकाख्यष्पजननकारणस्य । प्रावृषि तेषामुद्भवात् । अथ जलददर्शनमात्रेण कस्मादस्यान्तर्बाष्पत्वं ध्यानं चेत्याह । सुखिनोऽप्यवियुक्तस्यापि मेघालोके वर्षाकाले चेतोऽन्यथावृक्ति सविपर्ययमनल्पोत्कण्ठासंकुलम् । किं पुनः कण्ठाश्लेषप्रणयिनि प्रियतमाख्ये जने दूरवर्तिनि सति । वर्षासमयमागतमवलोक्य स्वस्था अपि यत्रोत्कण्ठन्ते तत्र विरहिणां का कथेत्यर्थः । कण्ठाश्लेष एव प्रणयोऽर्थिता विद्यते यस्य । मेघा आलोक्यन्ते यस्मिन्निति वर्षाः । स्वरूपात्प्रच्युतावस्थमन्यथावृत्ति ॥ ३ ॥

  प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी
  जीमूतेन स्वकुशलमयीं हारयिष्यन्प्रवृत्तिम् ।
  स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै
  प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ ४ ॥

 ततोऽसौ गुह्यकस्तस्मै मेघाय स्वागतं व्याजहार । शोभनमागतं तेऽत्स्वित्यब्रवीत् । प्रीतिप्रमुखाणि स्नेहपूर्वकाणि वचनानि यत्र स्वागते तद्यथा । भद्रं स्वस्थोऽसि । कुशलं ते सर्वत्र । विश्रम्यताम् । पवित्रीक्रियतामिदं स्थानमिति । कीदृशोऽसौ । जीमूतेन मेघेन स्वकुशलमयीमात्मश्रेयोरूपां प्रवृत्तिं वार्तां हारयिष्यन्नाययिष्यन् । यतोऽसौ दयिताया जीवितालम्बनं प्राणसंधारणमर्थयते। भर्तृकल्याणाधिगमाद्धि प्रियतमानां समाश्वामो जायते । कीदृशाय तस्मै । सरसैः कुटजकुममैः कल्पितार्घाय विहितपूजाय । अत एवासौ प्रीतः । आषाढस्य प्रशदिवस इति' य एवार्थ उक्तः स एव प्रत्यामने नभसीत्यनूदितः । नभाः श्रावणः । यदि वा जलदनिचितत्वात्प्रत्यासन्ने निकटवर्तिनीव नभसि गगन इति व्याख्येयमिति केचित् । गगम एव जीमूतो वार्तां नयति। स हि प्रीतिं कुर्वन्नाययति । प्रीत्या हारयिष्यन्निति णिजुत्पत्तिः । ततो मृद शेषे चेति' चकारात्क्रियार्थायामुपपदे लृट् । प्रवृत्तिं हारयितुं स्वागतं व्याजहारेत्यर्थः । जीमूतेनेति ह्र्यक्रोरन्यतरस्यामिति' यक्षे यथाप्राप्तं कर्तृत्वम् । तस्मा इति क्रियया यमभिप्रति म संप्रदानमिति' संप्रदानवचनम् ॥ ४ ॥

 नन्वचेतमस्य मेघम्य दूत्यं कथमित्याह ।

  धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः
  संदेशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः ।
  इत्यौत्सुक्यादपरिगणयन्गुह्यकस्तं ययाचे
  कामार्ता हि प्रणयकृपणाश्वेतनाचेतनेषु ॥ ५ ॥

 गुह्यकः पुण्यजन औत्सुक्यादुत्कण्ठावशादित्येवमपरिगणयन्नविमृशंस्तं मेघं ययाचे प्रार्थयत । किमित्याह । क्व मेघः क्व संदेशार्था वार्त्तावस्तूनि । मेघस्तावद्धूमज्योतिःसलिलमरतां समुदायः । धूमादिमयान्यचेतनानि ह्यभ्राणि । संदेशार्थाः पटुकरणैश्चतुरेन्द्रियैः प्राणिभिर्मानवैः प्रापणीया नेतुं शक्याः । न तु निर्बुद्धिभिः । कथं तर्ह्येतदसौ न विमृष्टवानित्याह । यस्माद्ये कामार्ता मदनवागुरापीडितास्ते चेतनाचेतनेषु सिंहपादपादिषु प्रणयकृपणाः प्रार्थनादीना भवन्ति । न हि ते विषयमविषयं वा विवेक्तुं समर्था इति भङ्ग्या कविः स्वदोषं निरस्यति ॥ ५ ॥

 तामेव याच्ञां चाटुपूर्विकामाह ।

  जातं वंशे भुवनविदिते पुष्करावर्तकानां
  जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः ।
  तेनार्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतोऽहं
  याच्ञा वन्ध्या वरमधिगुणे नाधमे लब्धकामा ॥ ६ ॥

 यतस्त्वामहमेवंविधं वेदातोऽहं प्रार्थित्वं प्राप्तः । कीदृशम् । पुष्करावर्तकानां प्रलयमेघानां वंशे कुले जातमिति कुलीनत्वोक्तिः । तथा मघोन इन्द्रस्य प्रकृतिपुरुषममात्यपुरुषमिति प्रभावकथनम् । प्रकृतिषु ह्यमात्याः प्रधानभूताः । इन्द्रम्य च मेघा एव प्रियकराः । प्रकृतिषु प्रकृतिश्चासाविति वा पुरुषः प्रकृतिपुरुषः । स्वाम्यमात्यौ च राष्ट्रं च कोशो दुर्गं बलं सुहृत् । सप्त प्रकृतयो ह्येताः सप्ताङ्गं राज्यमुच्यते ॥ कामरूपं मनोज्ञं म्वेच्छारूपं वा । बह्वरूपत्वान्मेघानाम् । तदेव वक्ष्यति । पुष्पमेघीकृतात्मेति । अत एव विधिवशादहं दूरबन्धुरसंनिहितदारस्त्वय्यर्थित्वं गतो याच्ञाकरः संपन्नः । यद्येवंगुणयुक्तोऽहं तर्हि किमित्येतावता मय्यर्थनेत्याह । यस्मादधिगुणे कुलादिगुणोत्कृष्टे पुरुषे याच्ञा वन्ध्या निष्फला वरं भद्रम् । अलज्जावहत्वात् । न त्वधमे निकृष्टे लब्धकामा प्राप्तेष्टार्थापीति । भिन्नलिङ्गत्वेऽपि सामान्योपक्रमात्सामानाधिकरण्यम् । यथा। वरं कृपशताद्वापीत्यादौ' ॥ ६ ॥

 न च तवास्मदर्थनानङ्गीकरणं युक्तमित्याह ।

  संतप्तानां त्वमसि शरणं तत्पयोद प्रियायाः
  संदेशं मे हर धनपतिक्रोधविश्लेषितस्य ।

  गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां
  बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥ ७ ॥

 हे पयोद संतप्तानामम्बुदानेन त्वं यदा शरणं त्राणं भवसि तन्ममापि विरहसंतप्तस्य संदेशं वार्तां प्रियायाः सकाशं हर नय प्रापय । धनपतिक्रोधविश्लेषितस्येति संतप्तत्वप्रतिपादनम् । क्व मया गन्तव्यमित्याह । गुह्यकाधिपानां वसतिरलका नाम पुरी ते गन्तव्या यातव्या । न च सा दुर्ज्ञानेत्याह' । बाह्योद्याने कैलासोपवने । बाह्यं च तदुदवानं च । तत्र स्थितो यो हरस्तस्य शिरश्चन्द्रिकया धौतानि हर्म्याणि यत्र सा दिनेऽपि विक्षालितसौधा । त इति कृत्यानां कर्तरि वा ॥ ७ ॥

  त्वामारूढं पवनपदवीमुद्गृहीतालकान्ताः
  प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसन्त्यः ।
  कः संनद्धे विरहविधुरां त्वय्युपेक्षेत जायां
  न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः॥ ८ ॥

 वातमार्गं खमुद्गतं भवन्तं पान्थाङ्गना विरहिण्योऽलकानुत्क्षिप्य द्रक्ष्यन्ति । यतः प्रत्ययान्निश्चयोत्पादनादाश्वसन्त्यः । अयं जीमूत उदितः । अत्रावश्यमस्मत्प्राणेश्वरैरागन्तव्यमिति । तद्दर्शनमात्रे कस्मादाशा कृतेत्याह । त्वयि संनद्धे कृतोद्योगे सति वियोगाकुलां प्रेयसीं क उपेक्षेत विरहयेत् । यद्यन्योऽपि जनस्तादृशो न स्यात् । कीदृशः । मादृशः पराधीनवृत्तिः । अथ वा कोऽन्यो जनो जायामुपेक्षेतेत्यत्र सबन्धः । स्वाधीना हि कान्ताभिः सह रममाणाः प्रावृषमतिवाहयन्ति । संनद्धादयः शब्दाः एवमादावोपचारिकाः ॥ ८ ॥

 इदानीं प्रायेणोपदेशमाह ।

  आपृच्छस्व प्रियसखममुंं तुङ्गमालिङ्ग्य शैलं
  वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेखलामु ।
  काले काले भवति भवता यस्य संयोगमेत्य
  स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम् ॥ ९ ॥

 अमुं शैलं चित्रकूटमालिङ्ग्यापृच्छस्व सोत्कण्ठं [अस्पष्टं मुद्रणम्]ज्योककुरु । यतः प्रियसखमिष्टमित्रम् । मेघानां ह्यद्रयः सुहृदः । ततस्तेषामुदयात् । सखा च गमनकाले ज्योक्क्रियते । कीदृशममुम् । तुङ्गमुन्नतम् । तथा सर्वजनपूज्यैः रामपदै रामपादैर्मेखलासु नितम्बभागेष्वङ्कितं मुद्रितमिति पावनत्वोक्तिः । सखिधर्ममाह | यस्याद्रेः काले काले सर्वस्मिन्समागमममये त्वया सह संयोगमेत्य चिरविरहजमुष्णं बाष्पमूष्माणं त्यजतः स्नेहव्यक्तिर्भवति । यः स्निह्यतीत्यर्थः । पर्वता हि जलदवृष्ट्या स्निग्धा भवन्ति वाष्पं च मुञ्चन्ति । एतदेव महत्त्वं यच्चिरेण सख्यौ दृष्टे बाष्पस्नेहौ जायेते । आपृच्छस्वेत्याङि नुप्रच्छ्योरित्यात्मनेपदम् । प्रियश्चासौ सखा चेति प्रियसखः । राजाहःसखिभ्यष्टच् । संयोगमेत्येति बाष्पमोक्षापेक्षं पौर्वकाख्यं स्नेहक्रियापेक्षं वा ॥ ९ ॥

 न च त्वमेकाकी भविष्यसीति शुभनिमित्तकथनात्साधयन्नाह ।

  मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां
  वामश्चायं नदति मधुरं चातकस्तोयगृध्नुः ।
  गर्भाधानस्थिरपरिचयान्नूनमाबद्धमालाः
  सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥ १० ॥

 यथेदं शुभमीक्ष्यते तथा निश्चितं मे च मुन्दरं त्वामाकाशे बलाकाः सेविष्यन्ते श्रयिष्यन्ते । किमितीत्याह । हितो वातो यथा त्वां मन्दं मन्दं प्रेरयति यथा चायं चातको मयूरो मधुरं कूजति । वामो वामपार्श्वस्थो वल्गुवादी वा। तोयगृधुर्जलमभिलाषुकः । वार्षिकलिङ्गदर्शनाद्बलाका अप्यायास्यन्तीति प्रावृड्धर्मोऽयम् । कीदृक्ष्यस्ताः । गर्भाधानेन स्थिरः परिचयो यासां ताः । मेघगर्जितेन हि ताः सगर्भा भवन्तीति वार्त्ता । आबद्धमाला रचितपङ्क्त्यः । मन्दं मन्दमित्याधिक्ये द्वित्वम् ॥ १० ॥

 न च तव निरर्थकः क्लेशो भविष्यतीत्याह ।

  तां चावश्यं दिवसगणनातत्परामेकपत्नी-
  मव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् ।
  आशावन्धः कुसुमसदृशं प्रायशो पहनानां
  सद्यःपातप्रणयिहृदयं विप्रयोगे रुणद्धि ॥ ११ ॥

 तां भ्रातृजायां मित्रभार्यां निश्चितमव्यापन्नाममृतामीक्षिष्यसे । कीदृशीम् । दिवसगणनातत्पराम् । कियान्कालो गतः । कियाञ्शेष इत्यधिगणनापरायणाम् । यत एकपत्नीं पतिव्रताम् । एकः पतिर्यस्याः सा ताम् । एवंविधां चेत्कथं तर्ह्यव्यापन्नामित्याह । यस्मान्नारीणां प्रियविरहे हृदयमाशावन्धः प्रायेण रुणद्ध्यवलम्बते । यतः कुमुमसदृशम् । अत एव सद्यःपातप्रणयि तत्क्षणविनाशोन्मुखम् । एवंविधमप्याशया धार्यते । नूनमस्माकं पुनः प्रियेण संयोगो भावीति । आशाबन्ध आशाबन्ध इव । यथाशाबन्धो जालकारकृततन्तुनिकरः कुसुममपि शुष्कं वातेरितं रुन्धे । चशब्दः पूर्ववाक्यापेक्षया समुच्चये । एवमन्यत्र । प्रणयः प्रीतिवन्मुखता । एकपत्नीमिति नित्यं सपत्न्यादिष्विति' ङीब्नकारौ । भातृजायाशब्दे ऋतो विद्यायोनिसंबन्धेभ्य इत्यनुगभावश्चिन्त्यः ॥ ११ ॥

 सहायान्तरसंपत्तिमाह ।

  कर्तुं यच्च प्रभवति महीमुच्छिलिन्ध्रामवन्ध्यं"
  तच्छ्रुत्वा ते श्रवणमुभगं गर्जितं मानसोकाः ।

  आ कैलासाद्बिसकिसलयच्छेदपाथेयवन्तः
  संपत्स्यन्ते नभसि भवतो राजहंसाः महायाः ॥ १२ ॥

 तत्त्वदीयं ध्वनितमाकर्ण्य तव राजहंमा अनुचराः कैलासाद्रिपर्यन्तं भविष्यन्ति । यतो मानमोत्का मानमोत्काः मानसोन्मनसः । प्रावृषि हि ते शरणार्थं तत्र यान्ति । किं तद्गर्जितमित्याह । यन्महीमवनिमुच्छिलिन्ध्रामुद्भूतशिलिन्ध्राख्यकुमुमां विधातुं प्रभवति शक्नोति । तानि हि मेघगर्जितेन जायन्ते । अत एव तदवन्ध्यं सफलम् । श्रवणसुभगं कर्णसुखकारीति चाटुपदम् । कीदृशा हंसाः । बिसानां किसलयानि तेषां छेदः खण्डः स एव पाथेयमध्वभोजनं विद्यते येषां ते तथोक्ताः । बिसकिसलयच्छेदपाथेयवन्त इति विग्रहः । आ कैलासादित्यव्ययीभावो विभाषितः ॥ १२ ॥

  मार्गं तावच्छृणु कथयतस्त्वत्प्रयाणानुकूलं
  संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् ।
  खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र
  क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपयुज्य ॥ १३ ॥

 हे जलद मम गदतोऽध्वानं तावद्भवद्गमनहितमाकर्णय । तदनन्तरं श्रोत्रपेयं कर्णानन्दनं संदेशं श्रोष्यसि निशमयिष्यसि । कीदृशं मार्गमित्यानुकूल्यमाह । खिन्नः खिन्न इति । श्रान्तः संस्त्वं यत्र मार्गेऽद्रिषु पदं न्यस्य क्रमं निक्षिप्य गन्तामि यास्यसि क्षीणप्रायश्च नदीनामगुरु तोयमुपयुज्येति पीत्वा शीघ्रं यास्यसि । पानविश्रामौ हि पथि सुतरामुपयुज्येते । तदनुतदुपरीत्यादयः पूर्वकविप्रयोगदर्शनात्साधवः । अव्ययेन हि षष्ठीममामो निषिध्यते । श्रोत्रपेयमिति कृत्यैरधिकार्थवचने । खिन्नः खिन्न इत्यादावाधिको द्वित्वमिति कर्मधारयवत्त्वात्सुब्लुप् भवति । आधिक्ये च द्वित्वमाहितमिति महत्या संज्ञया' ज्ञापितम् । गन्तासीति लुट् । परिलघ्विति क्रियाविशेषणम् ॥ १३ ॥

 मार्गप्रारम्भमाह ।

  अद्रेः शृङ्गं हरति पवनः किं स्विदित्युन्मुखीभि-
  र्दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः ।
  स्थानादस्मात्सरसनिचुलादुत्पतोदङ्मुखः खं
  दिङ्नागानां पथि परिहरन्स्थूलहस्तावलेहान्' ॥ १४ ॥

 अस्मात्प्रदेशात्त्वमुत्तराभिमुखः खमुद्गच्छ । सरसा निचुला वेतसा यत्रेति प्रावृड्वर्णनम् । त्वं कीदृशः । चकितचकितं सवासमुद्वक्ताभिर्मुग्धसिद्धवधूभिरित्थं दृष्टोत्साहो दृष्टोद्यमः । कथमित्याह । पवनो वायुः किं स्विदचलशिखरं हरत्यपनयति । अतश्च पातशङ्कया चकितत्वम् । अत एव मुग्धत्वम् । किं कुर्वन् । दिङ्गागानामाशाकरिणां पथि स्थूलहस्तावलेहान्महाकरग्रहान्वर्जयन् । ते हि तं प्रतिद्विरदभ्रान्या ग्रहीतुमिच्छन्ति । दिङ्नागाश्च पातालादारभ्य । यदाह । मन्दाकिन्याः पयः शेषं दिग्वारणमदाविलम्' । तथा । नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे' । चकितचकितमिति प्रकारे द्वित्वम् ॥ १४ ॥

  रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ता-
  द्वल्मीकाग्रात्प्रभवति धनुष्खण्डमाखखण्डलस्य ।
  येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते
  बर्हेणेव स्फुरितरुचिना गोपवेशस्य विष्णोः ॥ १५ ॥

 एतत्पुरस्तादग्रे वल्मीकाग्रात्पिपीलिकोत्खातमृत्कूटप्रान्तादाखण्डलस्येन्द्रस्य धनुष्खण्डं चापैकदेशः प्रभवत्युत्पद्यते । सर्पगर्भं वल्मीकमिति सुरचापम्य प्रावृषि प्रभव इत्यागमः । कीदृशं तत् । अनेकवर्णत्वाद्रत्नच्छायाव्यतिकर इव बहुविधमणिकान्तिसंपर्कवत्प्रेक्षणीयं रम्यम् । येन च तव कृष्णं शरीरमतितरां कान्तिमापत्स्यते । यथा वल्लवरूपस्य हरेः प्रसरत्कान्तिना पिञ्छेन वपुः कान्तिमाप्तवत् । गोपा हि प्रायेण शवरवन्मयूरपिञ्छधारिणः । प्रसङ्गाच्च वर्षावर्णनमपि कविना क्रियत इति मार्गोपदेशेऽपि नास्य श्लोकस्यानवमरः । व्यतिकरो मिश्रीभावः । धनुष्खण्ड इति नित्यं समाम इति षत्वम् ॥ १५ ॥

  त्वय्यायत्तं कृषिफलमिति भ्रूविलासानभिज्ञैः'
  प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः ।
  सद्यःसीरोत्कषणसुरभि क्षेत्रमारुह्य मालं
  किंचित्पश्चात्प्रवलय गतिं भूय एवोत्तरेण ॥ १६ ॥

 मालमुड्डारं" क्षेत्रं किंचिन्मनागारुह्य पश्चादनन्तरमुत्तरेणोत्तरस्यां दिशि भूयो बहुतरं गतिं प्रवलय व्यावर्तय । मालं हि दक्षिणाशास्थं तेन चोत्तरागा गन्तव्येति गतिप्रवलनम् । मालारोहणं वृष्ट्या वधूप्रीत्यर्थम् । मालेन हि तदुपरिभवमाकाशं लक्ष्यते । कीदृशस्त्वम् । वृष्टिदानात्त्वय्यायत्तं कृषिफलमित्यतो हेतोर्जनपदवधूलोचनैः पीयमानः साभिलाषं दृश्यमानः । कीदृशीः । ग्राम्यत्वादभ्रूविलासानभिज्ञैः । अत एव प्रीतिवशात्स्निग्धैररूक्षैः । कीदृशं मालम् । सद्यस्तत्क्षणं सीरेण हलेन यदुत्कषणं विलेखनं तेन सुरभि मुगन्धि । हलोत्कृष्टा हि भूर्जलदजलकणव्यतिकरात्सुरभिर्भवति । प्रवलनं स्फिरणम् । उत्तरेणेत्येनबन्तः ॥१६॥

  त्वामासारप्रशमितवनोपप्लवं साधु मूर्ध्ना
  वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः ।
  न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय
  प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥ १७ ॥

 अध्वश्रमेण परिगतं व्याप्तं भवन्तं सानुमानद्रिराम्रकूटो मूर्ध्ना शृङ्गेण साधु मम्यग्वक्ष्यति धारयिष्यति । यत आसारेण प्रशमितवनोपप्लवस्त्वम् । त्वया ह्यस्य वेगवर्षेण दावाग्निर्निर्वापितः । किमित्येतावता शिरसा वहनमित्याह । न क्षुद्रोऽपीत्यादि । संश्रयाय वासार्थं सुहृद्यायाते सति क्षुद्रोऽपि दुर्जनोऽपि विमुखो न भवति । किं पुनर्यस्तथा तेन प्रकारेणोच्चैरुन्नतः । कुतः । प्रथमसुकृतापेक्षया । आदावेतेन मे महदुपकृतम् । इदानीमेतस्याहं प्रत्युपकरोमीति पूर्वोपकार प्रत्यालोचनया न पराङ्मुखीभावः । क्षुद्रः खलो ह्रस्वश्च । उच्चैः प्रांशुर्महामनाश्च । वक्ष्यतीति वहेरूपम् । सानुमान् पर्वतः । तथेत्यनेनोच्चैस्त्वस्य प्रसिद्धिमाह ॥ १७ ॥

  छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रै-
  स्त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे ।
  नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां
  मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥ १८ ॥

 त्वयि शृङ्गमुद्गते सत्याम्रकूटोऽचलो निश्चितं सुरयुगलालोकनीयां रम्यां दशामापत्स्यते । यतः परिणतफलद्योतिभिः पक्वाम्रशोभिभिर्वनाम्रवृक्षेच्छन्नोपान्तच्छादितपर्यन्तः । स्वमपि स्निग्धवेणीसवर्णोऽरूक्षकेशकलापकालः । अतश्च कृष्णचूचुकः समस्तपीतः महीकुच इवेत्युपमा । अत एव देवद्वन्द्वदर्शनम् ॥ १८ ॥

  स्थित्वा तस्मिन्वनचरवधूभुक्तकुञ्जे' मुहूर्तं
  तोयोत्सर्गद्रुततरगतिस्तत्परं वर्त्म तीर्णः ।

  रेवां द्रक्ष्यम्युपलविषमे विन्ध्यपादे विशीर्णां
  भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ १९ ॥

 अश्वमुखादीनां वनेचराणां कान्ताभिः सेवितगहने तत्राद्रौ क्षणं स्थित्वा तदनन्तरं वर्त्म मार्गमवतीर्णस्त्वं रेवां नर्मदामालोकयिष्यसि । कीदृशीम् । उपलविषमे विन्ध्याद्रेः पादेऽधोभागे विशीर्णां विक्षिप्ताम् । अतश्च भक्तिच्छेदविच्छित्तिविभागैर्दत्तां गजवपुषि भूतिं सुधामिवेत्युपमा । तोयोत्सर्गेण जलत्यागेन द्रुततरा चतुरा गतिर्यस्येति वर्त्मतरणे कारणम् । वनचरशब्दे न सप्तम्या अलुक् । बाहुलकात् ॥ १९ ॥

  तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टि-
  र्जम्बूषण्डप्रतिहतरयं तोयमादाय गच्छेः ।
  अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां
  रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ २० ॥

 तस्या रेवाया जलमादाय गृहीत्वा त्वं यायाः । यतो वान्तवृष्टिरुत्सृष्टतोयः । कीदृशं जलम् । तिक्तः कटुकैर्वनगजमदैर्वासितं सुरभीकृतम् । विन्ध्यो हि गजावासः । तथा तीरजेन जम्बूषण्डेन जम्बूवनेन प्रतिहतरयं जडीकृतवेगमिति मुग्रहत्वोक्तिः । रेवा हि वेगगामिनी । अनेन गुणमाह । हे घनाम्भःपानादन्तःसारं परिपूर्णं सन्तं मारुतस्त्वां तुलयितुं परिच्छेत्तुं न प्रभविष्यति । यस्मात्सर्व एव कश्चिद्रिक्तः शून्योऽर्थरहितो लघुर्भवत्यवमानास्पदत्वं याति । पूर्णता तु गौरवाय भवति । आढ्यो हि सर्वेणाद्रियते । तेन तव जन्लेन गुरुत्वे सति नानिलात्परिभवप्राप्तिः ॥ २० ॥

  नीपं दृष्ट्वा हरितकपिशं केसरैरर्धरूंढै-
  राविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् ।
  दग्धारण्येष्वधिकसुरभिं गन्धमाघ्राय चोर्व्याः
  सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥ २१ ॥

 जललवमुचस्तोयकणवर्षिणस्तव सारङ्गा मयूरा मार्गं सूचयिष्यन्ति

चिह्नैरूहिष्यन्ते । नूममनेन पथास्मत्सुहृज्जीमूत आयात इति । तर्हि मेघात्तोयकणाः पातव्या इति तदनुसरणम् । स्वादादिहृतचित्तत्वाद्व्रजंश्चासौ तैर्न लक्षित इति मार्गोन्नयनम् । किं कृत्वा सूचयिष्यन्तीति चिह्नान्याह । अर्धं रूढैः सामिपक्वैः केसरैर्हरितकपिशं नीलपिङ्गं नीपकुममं दृष्ट्वा । तद्धि वर्षासु नवजलपातं विना न जायते । तथाविर्भूतप्रथममुकुला उत्पन्नाद्यकोरकाः कन्दलीलता अनुकच्छं तीरममीपे दृष्ट्वा । ता हि वर्षामु फुल्लन्ति । तथा दग्धारण्येषु निदाघप्लुष्टकाननेष्वधिकसुरभिं गन्धं पृथिव्या आघ्राय शिङ्घित्वा । जलकणपाताद्धि तत्र सौगन्ध्याविर्भावः । जललवमुच इति मेघविशेषणं न तु जसन्तम् ॥ २१ ॥

  उत्पश्यामि तमपि सखे मत्प्रियार्थं यियासोः
  कालक्षेपं ककुभमुरभौ पर्वते पर्वते ते ।
  शुक्लापाङ्गैः सनयनजलैः स्वागतीकृत्य केकाः
  प्रत्युद्यातः कथमपि भवान्गन्तुमाशु व्यवस्येत् ॥ २२ ॥

 अस्मद्धितार्थं त्वरितमपि जिगमिषोस्तव ककुभकुसुममुगन्धौ सर्वस्मिन्नद्रौ तवाहं कालहारमुत्पश्याम्युत्प्रेक्षे । कुत इत्याह । यस्मात्प्रियमित्रैः शुक्लापाङ्गैर्मयूरैः सनयमजलैर्नेत्रोदकयुक्तैः केकाः स्वागतीकृत्य वाग्भिः स्वागतं कृत्वा प्रत्युद्गत इत्युक्तिप्रत्युक्तिवशात्कालक्षेपः । अतश्चार्थये त्वाम् । अस्मदर्थं कथमपि भवान्गन्तुं व्यवस्येद्व्यायामं कुर्यात् । अहमार्तस्त्वं चोन्नत इति भावः । सनयनजलत्वमत्र चिरेण मित्रालोकनात् ॥ २२ ॥

  पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नै-
  र्नीडारम्भैर्गृहबलिभुजामाकुलयामचैत्याः ।
  त्वय्यासन्ने फलपरिणतिश्यामजम्बूवनान्ताः
  संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ २३ ॥

 त्वयि निकटे सति दशार्णाख्या जनपदा एवंविधाः संपत्स्यन्ते भविष्यन्ति । कीदृशाः । केतकैः पुष्पैः पाण्डुच्छायाः शुक्लशोभा उपवनवृतय उद्यानकण्ठ्यो येषाम् । मितत्वात्केतकानाम् । सूच्या गर्भकण्टकेन भिन्नैर्विदारितैः । तेषां ह्यन्तःस्था सूचिर्भित्त्वा विनिर्याति । तथा गृहबलिभुजां काकानां नीडारम्भैरालयक्रमैराकुलानि व्याप्तानि ग्रामचैत्यानि येषु । वर्षभयाद्धि पक्षिणः प्रावृषि नान्यत्र निर्यान्ति । चैत्यं बुद्धालयः । यदि वा महाभोगप्रज्ञाततमो वनस्पतिश्चैत्यः । तथा फलानां परिणत्या पाकेन श्यामा जम्बूवनान्ता यत्र । कपित्थानीव हि जम्बूफलानि पाकेन श्यामायन्ते । कतिपयदिनस्थायिनश्च हंसा येषु । मेघालोके मानसगमनात् ॥ २३ ॥

  तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं
  गत्वा सद्यः फलमविकलं कामुकत्वस्य लब्धा ।
  तीरोपान्तस्तनितमुभगं पास्यसि स्वादु यत्त-
  त्सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्चलोमि ॥ २४ ॥

 तेषां दशार्णानां विदिशाख्यां राजधानीं गत्वा तत्क्षणमविकलं परिपूर्णं कामुकत्वस्य फलं त्वं लब्धा प्राप्स्यसि । कुत इत्याह । यद्यस्माद्वेत्रवत्याः सरितस्तदेवंविधं पयः पास्यमि । कीदृशम् । तीरोपान्ते स्तनितेन पक्षिकूजितेन स्खलितेन वा सुभगं सुन्दरं स्वादु रुच्यं चलोर्मि स्खलितवीचि । अत एव सभ्रूभेदेन मुखेन तुल्यम् । अत एव कामित्वफललाभः । कामी हि कामिन्याः कुटिलभ्रु वक्त्रं स्वादु धयति । ऊर्मीणां भ्रुव उपमानम् । यदिति हेतुपदम् । तदिति पयोनिर्देशः । विदिशाशब्दः पृषोदरादिः । लक्षणं नाम । लब्धेति तृन्नन्तः ॥ २४ ॥

  नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतो-
  स्त्वत्संपर्कात्पुलकितमिव प्रौढपुष्पैः कदम्बैः ।

  यः पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणा-
  मुद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि ॥ २५ ॥

 तत्र विदिशायां नीचैराख्यमद्रिं विश्रामार्थं त्वमधिवसेरधितिष्ठेराश्रयेः । कीदृशम् । प्रौढपुष्पैर्विकसितकुमुमैः कदम्बैस्ततरुभिर्हेतुभिस्तव सुखदः संक्षेपात्पुलकितमिव रोमाञ्चितमिव । फुलस्य हि कदम्बकुमुमस्य रोमशोभा जायते । केचित्त्वप्रौढेति पेठुर्मुकुलितत्त्वाच्च पुलकाकारतामाहुः । यश्चाद्रिर्नागराणां विदग्धानामुद्दामानि प्रचण्डानि यौवनानि शिलावेश्मभिः प्रख्यापयति । यतः पण्यस्त्रीरतिपरिमलोद्गारिभिर्गणिकासुरतामोदमोचिभिः । विश्रामशब्दः कवीनां प्रमादजः ॥ २५ ॥

  विश्रान्तः सन्व्रज वननदीतीरजातानि सिञ्च-
  न्नुद्यानानां नवजलकणैर्यूथिकाजालकानि ।
  गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां
  छायादानात्क्षणपरिचितः पुष्पलावीमुखानाम् ॥ २६ ॥

 तत्र विश्रान्तः सन्ननन्तरं त्वं यायाः । किं कुर्वन् । वननदी काननसरिन्नदीविशेषो वा । तत्कूलेभवान्युपवनानां यूथिकाजालकानि हरिणीगुल्मान्नवजलकणिरुक्षन् । पुष्पनावीमुखानां मालाकाराङ्गनामुखानां छायादानाद्धेतोः क्षणमात्रं परिचितः सुहृत् । तापापहरत्वात् । कीदृशानां मुखानाम् । कपोलयोर्यः स्वेदो घर्मस्तस्यापनयनेनोत्पुंसनेन या रुजा बाध उपमर्दस्तया क्लान्तकर्णोत्पलानां म्लानश्रवणकुवलयानाम् । रुजाचोत्पलानामेव । भिदादित्वादङ् । पुष्पाणि लुनन्तीति पुष्पलाव्यः । कर्मण्यण् ॥ २६ ॥

  वक्रः पन्था यदपि भवतः प्रस्थितस्योतराशां
  सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुज्जयिन्याः ।

  विद्युद्दामस्फुरितचकितैस्तत्र पौराङ्गनानां
  लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितोऽसि ॥ २७ ॥

 कौबेरीमाशां तव यियासोरुज्जयिनीं प्रति यद्यपि वक्रः पन्थाः कुटिलोऽध्वा तथाप्युज्जयिन्याः सौधोत्सङ्गप्रणयविमुखो हर्म्याङ्कोपभोगवितृष्णो मा भूः । अवश्यं गच्छेरित्यर्थः । यस्मात्तत्र नागरिकाणां नेत्रविभ्रमैर्यदि न रमसे न क्रीडसे तद्वञ्चितोऽसि । द्रष्टव्यादर्शनात् । कीदृशीः । विद्युद्दामस्फुरितचकितैः शम्पागुणविलसनत्रस्तैः । तथा लोलापाङ्गैश्चतुरपर्यन्तैः ॥ २७ ॥

 इदानीमुज्जयिनीमार्गोपदेशमाह ।

  वीचिक्षोभस्तिमितविहगश्रेणिकाञ्चीगुणायाः
  संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः ।
  निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः संनिपत्य
  स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ २६ ॥

 निर्विन्ध्याख्या नदी । तस्याः पथि प्रवाहे संनिपत्य संश्लिष्य रसाभ्यन्तरो भव पानीयगर्भः स्याः । अपः पिबेरित्यर्थः । अथ च रमाभ्यन्तरः शृङ्गारवासितो भवेरिति वक्रोक्तिः । तां कामयेथा इत्यर्थः । कामिनीसाधर्म्यमाह । कीदृश्यास्तस्याः । वीचिक्षोभण कल्लोलकम्पेन स्तनिता कोकूयमाना या विहगश्रेणी पक्षिमाला सैव काञ्चीगुणो रशनादाम यस्याः । तथाभ्यादौ स्खलितेन परिलुठितेन सुभगं सुन्दरं संसर्पन्त्या वहन्त्याः । तथा दर्शितावर्त एव नाभिर्यस्या तस्याः । आह्वानाभावे कथं मम रागिता युक्तेत्याह । नारीणां विभ्रमो विलास एव यस्मात्प्रियेषु प्रणयवचनं प्रार्थनावचः प्रीतिवाक्यं वा । यदालोकनवशादानानां विभ्रमाः प्रवर्तन्ते तैरेवासावभ्यर्थितो भवेत् । साक्षात्तु तासां प्रार्थना लाघवकारिणी । अत्र चावर्तनाभिदर्शनादिको विलासः प्रवृत्त एव ॥ २८ ॥

  वेणीभूतप्रतनुसलिलां तामतीतस्य मिन्धुं
  पाण्डुच्छायां तटरूहतरुभ्रंशिभिर्जीर्णपर्णैः ।
  सौभाग्यं ते सुभग विरहावस्थया व्यनयन्ती
  कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ २९ ॥

 हे सुभग तां निर्विध्यां कार्श्यं कर्तृ येन विधिना प्रकारेण प्रकृतिस्थं त्यजति स विधिर्भवतैव संपाद्यः । वर्षेस्तत्रेवेत्यर्थः । एवं हि तोयपूरागमान्नदी कृशा न भवति । कस्मात्कार्श्यत्यागाय तत्र वर्षामीत्याह । यतसतवातीतस्य विरहावस्थया सौभाग्यं वाज्जभ्यं व्यञ्जयन्तीं कथयन्तीम् । तथा हि त्वद्विरहेण वेणीभूतं प्रतनुत्वात्सलिलं यस्याः । वेणी केशपाशः । तथा तटरुहेभ्यस्तीरजेभ्यस्तरुभ्यो भ्रष्टैर्जीर्णपर्णैःर्जर्जरकिसलयैः पाण्डुरीभुताम् । प्रियविरहे हि नारी तनुः पाण्डुश्च भवति ॥ २९ ॥

  प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धा-
  न्पूर्वोद्दिष्टामनुमर पुरीं श्रीविशालां विशालाम् ।
  स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां
  शेषैः पुण्यैर्हृतमिव दिवः कान्तिमत्खण्डमेकम् ॥ ३० ॥

 ततोऽवन्तीनाम जनपदानासाद्य पूर्वोद्दिष्टां पूर्वोक्तां नगरीमुज्जयिनीमनुसर गच्छ । कीदृशांस्तान् । उदयनकथा बृहत्कथावत्सराजवृत्तान्तः । तत्र कोविदाः प्रवीणा ग्रामवृद्धाश्चिरन्तना येषु । तस्य तत्र वर्णनीयत्वात् । पुरीं कीदृशीम् । श्रिया ऋद्ध्या विशालामनल्पां विविधाश्च शाला यस्यास्ताम् । यां चोत्पेक्षामहे । दिव एकं भास्वरं खपदमिव । स्वर्गैकदेशस्य कस्तवागम इत्याह । स्वर्गिणां पुण्यवतं सुचरितफले सुकृतफले उपभुक्तत्वादल्पीभूते किंचिच्छिष्टे सति गां गतानां भुवं प्राप्तानां पुण्यशेषेणाहतं भुवमानीतं मूर्तिमत्स्वर्गखण्डमिवेत्यर्थः । अवन्तीनां निवासो जनपदोऽवन्तयः ॥ ३० ॥

  दीर्घीकुर्वन्पटु मदकलं कूजितं सारसानां
  प्रत्यूपेषु स्फुटितकमलामोदमैत्रीकषायः ।
  यत्र स्त्रीणां हरति सुरतग्लानिमानुकूलः
  सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ ३१ ॥

 यत्रोज्जयिन्यां कामिनीनां सिप्रासरिदनिलः सुरतग्लानिं मोहनखेदं हरत्यपास्यति । कीदृशः । सारसानां लक्ष्मणानां मदेन मधुरं स्फुटं च कूजितं दी|कुर्वन्प्रमारयन् । तथा प्रभातेषु स्फुटितानि विकसितानि यानि कमलानि तेषामामोदः सौरभं तस्य मैत्र्या संपर्केण कषायः कषायरसयुक्तः । भावित इत्यर्थः । अङ्गानुकूलो गात्रसुखकारी । शीतलसुरभित्वात् । क इव हरतीत्याह । प्रार्थनया चाटुकारः प्रियकृत्प्रेयान्यथा कामिन्या अङ्गग्लानिमपहरति । सिप्राख्योज्जयिन्यां नदी ॥ ३१ ॥

  जालोद्गीर्णैरुपचितवपुः केशसंस्कारधूमै-
  र्बन्धप्रीत्या भवनशिखिभिर्दत्तनृत्तोपहारः ।
  हर्म्येष्वस्याः कुमुमसुरभिष्वध्वखिन्नान्तरात्मा
  नीत्वा रात्रिं ललितवनितापादरागाङ्कितेषु ॥ ३२ ॥

  भर्तुः कण्ठच्छविरिति गणैः सादरं दृश्यमानः
  पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डेश्वरस्य ।
  धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या-
  स्तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः ॥ ३३ ॥

युगलकम् ॥

 अस्या उज्जयिन्याः सौधेष्वध्वखिन्नानन्तरात्मा निशामतिवाह्य चण्डेश्वरम्य शंभोर्धामायतनं याया गच्छेः । कीदृशः । जालोद्गीर्णैर्गवाक्षविवरनिर्गतैरङ्गनामूर्धजोपस्कारधूमैरुपचितवपुः पीवरतनुः । धूमप्रायत्वादभ्राणाम् । तथा गृहमयूरैः सुहृत्स्नेहाद्दत्तो वितीर्णो नृत्तमेवोपहारो बलिर्यस्य । ते हि त्वामालोक्य सुहृत्स्नेहान्नृत्यन्ति । कीदृशेषु हर्म्येषु । कुसुमैरूपकारपुष्पैः सुगन्धिषु । तथा ललितानां सविलासानां वनितानां पादानामलक्तकेनाङ्कितेषु चिह्नितेषु । त्वं कीदृशः । गणैः प्रीत्यालोक्यमानः । कुतः । भर्तुः शम्भोः कण्ठच्छविर्गलनिभकान्तिरित्यतो हेतोः । कीदृशं धाम । पुण्यं पवित्रम् । तथा गन्धवत्याख्याया नद्या मरुद्भिर्वातैर्धूतोद्यानमुल्लसितोपवनम् । कीदृशैः । कुवलयरजोगन्धिभिरुत्पलरेणुसौरभं विद्यते येषां तैः । तथा तोयक्रीडायां जलकेलौ निरताः सक्ता या युवतयस्तासां स्नानेन तिक्तैः कटुकैः । अङ्गरागसंक्रमणात् ॥ ३२ ॥ ३३ ॥

  अप्यन्यस्मिञ्जलधर महाकालमासाद्य काले
  स्थातव्यं ते नयनविषयं यावदभ्येति भानुः ।
  कुर्वन्संध्याबलिपटहतां शूलिनः श्लाघनीया-
  मामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥ ३४ ॥

हे जनधरान्यस्मिन्नपि कालेऽवसरे महाकालाभिधानं भगवन्तमासाद्य तावत्त्वयासितव्यं यावदर्कश्चक्षुर्गोचरतां चक्षुर्दृश्यत्वमुपैति । प्रातःसंध्यासमयपर्यन्तमित्यर्थः । किमर्थमित्याह । शूलिनो महाकालस्य संध्याबल्यर्थं पटहतां तूर्यत्वं श्लाघनीयां विदधत्त्वमामन्द्राणां सर्वमधुराणां गर्जितानां परिपूर्णं फलं प्राप्स्यसि । देवानां हि बलिकाले ढक्कापटहादिवाद्यैर्भाव्यम् । तत्र तु भवद्ध्वनितान्येव पटहीभविष्यन्तीति तत्साफल्यम् । स्थातव्यं त इति कृत्यानां कर्तरि वा ॥ ३४ ॥

  पादन्यासक्क्वणितरशनास्तत्र लीलावधूतै
  रत्नच्छायाखचितवलिभिश्चामरः क्लान्तहस्ताः ।

  वेश्यास्त्वत्तो नखपदसुखान्प्राप्य वर्षाग्र्यबिन्दू-
  नामोक्ष्यन्ति त्वयि मधुकरश्रेणिदीर्घान्कटाक्षान् ॥ ३५ ॥

 तत्र महाकालधाम्नि वेश्या भगवद्गणिकास्त्वत्तो भवत्सकाशान्नखपदसुखकरान्वर्षाग्रबिन्दून्प्रथमजलकणानासाद्य प्रीतिवशात्त्वयि भ्रमरपालीपृथुलान्कटाक्षानाक्षेप्स्यन्ति । कीदृश्यस्ताः । पादन्यासेन क्वणितरशना रणन्मेखलाः । तथा विलासवलितैर्बालव्यजनैः खिद्यमानकरा इति सौकुमार्योक्तिः । ता हि देवं वीजयन्त्यः सेवन्ते । कोदृशैस्तैः । रत्नच्छायया खचिताः प्रकटीकृता वलय उदरलेखा यैः । तासां हि वासोयुगाच्छादितानां चामरमणिभासा मध्यवलयः प्रकटीभवन्ति ॥ ३५ ॥

  पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः
  सांध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः ।
  नृत्तारम्भे हर पशुपतेरार्द्रनागाजिनेछां
  शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥ ३६ ॥

 पश्चादनन्तरं तत्र पशुपतेः शंभोर्नृत्तारम्भ आर्द्रगजाजिनेच्छां रुधिरसरसगजचर्माभिलाषं हर नाशय । तव तन्निभत्वात् । तथा हि कीदृशस्त्वम् । उच्चैरुद्गतं भुजतरुवनं दोर्द्रुमषण्डं मण्डलेन तिर्यगभिलीनः संश्रितः । तथाभिनवजपापुष्पवल्लोहितं सांध्यं तेजो बिभ्रत् । एवं च नवगजाजिनकाङ्क्षाहरणम् । भवान्या गोर्या दृष्टभक्तिरालोकितेत्थं विधमेवनः । कथम् । विद्युदुन्मेषाभावाच्छान्तोद्वेगानि निवृत्तखेदान्यत एव स्तिमितानि नयनानि यत्र दर्शने ॥ ३६ ॥

  गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं
  रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः ।
  सौदामिन्या कनकनिकषस्निग्धया दर्शयोर्वीं
  तोयोत्सर्गस्तनितमुखरो मा स्म भूर्विक्लवास्ताः ॥ ३७ ॥

तत्रोज्जयिन्यामभिसारिकाणां सौदामिन्या तडिता राजमार्गं दर्शय प्रकाशय। यतो नक्तं रात्रौ प्रियतमवसतिं व्रजन्तीनाम् । अत एवातिघनत्वात्सूच्या भेद्यस्तमोभी रद्धालोकेऽवष्टब्धप्रकाशे पथि । कीदृश्या तया । कनकनिकषवत्सुवर्णघर्षणवत्स्निग्धयारूक्षया । एवं च कृत्वा तोयोत्सर्गार्थं स्तनितेन गर्जितडम्बरेण मुखरः सशब्दो मा भूः । यतस्ता योषिद्भावात्कातराम्बग्नवः[अस्पष्टं मुद्रणम्] ॥ ३७ ॥

  तां कस्यांचिद्भवनवलभौ सुप्तपारावतायां
  नीत्वा रात्रिं चिरविलसनात्खिन्नविद्युत्कलत्रः ।
  दृष्टे सूर्ये पुनरपि भवान्वाहयेदध्वशेषं
  मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥ ३८ ॥

 तां पूर्वोक्तां रात्रिं कस्यामपि भवनवलभौ गृहोपरिपुरे नीत्वातिवाह्य ततः मूर्योदये भूयोऽपि भवान्मार्गमवशिष्टं वाहयेदुल्लङ्घयेत् । यस्मान्मित्राणां यैरर्थकृत्यं प्रयोजनमभ्युपेतमूरीकृतं शिरसाङ्गीकृतं ते न खलु मन्दायन्ते नैवालसा भवन्ति । कीदृश्यां वलभौ । सुप्ताः पारावताः कपोतविशेषाः यत्र । ते हि कण्ठरुतश्रवणार्थं नागरकैर्गृहे धार्यन्ते । त्वं कीदृशः । चिरं विलसनात्स्विन्नं श्रान्तं विद्युदेव कलत्रं भार्या यस्य सः । अत एव वलभौ विश्रमणम् । अमन्दो मन्दो भवति मन्दायते । भृशादित्वात्क्यङ् । अर्थश्चासौ कृत्यमर्थकृत्यम् । अर्थः प्रयोजनम् । अवश्यकार्यत्वाच्चास्य कृत्यत्वम् ॥ ३८ ॥

  तस्मिन्काले नयनसलिलं योषितां खण्डितानां
  शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु ।
  प्रालेयानं कमलवदनात्सोऽपि हर्तुं नलिन्याः
  प्रत्यावृत्तस्त्वयि कररूधि स्यादनल्पाभ्यमूयः ॥ ३९ ॥

 अतः कारणाद्भानोः सूर्यस्य वर्त्म मार्गं त्यज । माच्छादको भूरित्यर्थः । यतस्तस्मिकाले प्रभाताख्ये खण्डितानां विप्रलब्धानामङ्गनानां प्रियैरागत्यास्रु नेत्रजलं शमनीयम् । यदि त्वमस्य पटनिभो भवसि तदालोकनपाटवाभावान्निशाशङ्कया नागमनं स्यादिति वर्त्म भानोस्त्यज । किं च सोऽपि भानुः खण्डितायाः कमलिन्याः प्रियायाः कमालादेव वदनात्प्रालेयमवश्यायमेवास्रु हर्तुं शमयितुं प्रत्यावृत्तः प्रत्यागतः । तेनापि पद्मिन्याः प्रार्थना कार्येत्यर्थः । अतस्त्वयि कररुधि रश्मिरोधकेऽनल्पाभ्यसूयो भवेत् । त्वयि महान्तं रोषं भावयेत् । यस्य हि प्रियां प्रार्थयमानस्य यः करमवष्टम्भीयात्तस्य तत्र मन्युर्भवति । निद्राकषायमुकुलीकृतेत्यादि' ॥ ३९ ॥

  गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने
  छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् ।
  तस्मात्तस्याः कुमुदविशदान्यर्हसि त्वं न धैर्या-
  न्मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥ ४० ॥

 गम्भीराख्यायाः सरितः पयसि प्रसन्ने तव स्वभावसुन्दरच्छायारूपोऽप्यात्मा प्रतिबिम्बरूपश्चेतसीव प्रवेशं लप्स्यते । तस्मात्कारणादस्या नद्याः कैरवसितानि चपलशफरोद्वर्तनप्रेक्षितानि कम्पमानमीनम्फुरितावलोकितानि धाैर्याद्गाम्भीर्यान्मोघीकर्तुं वन्ध्ययितुं नार्हसि । ततो मा गम इत्यर्थः । गमनाद्धि तानि निष्फलानि स्युः । यश्च नागरः स प्रेयस्यां रागेण वीक्षमाणायां विलम्बते । स हि तस्याश्चेतसि प्रविष्टः ॥ ४० ॥

  तस्याः किंचित्करतधृमिव प्राप्तवानीरशाखं
  हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् ।
  प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि
  ज्ञातास्वादः पुलिनजघनां को विहातुं समर्थः ॥४१॥

 तस्या गम्भीराया नीलं मलिनमेव वसनमम्बरं पानवशाद्धृत्वापास्य तव लम्बमानस्य जलभरमन्थरत्वात्तचेव तिष्ठतः प्रस्थानं कथमपि भावि प्रयाणं कथमपि भविष्यति । यम्माद्यो ज्ञातास्वादोऽमुभूतरसः स पुनिमजघनां तीरपृथुनितम्बां युवतिं कस्त्यक्तुं समर्थः । त्वं च पानी यपानाद्विदितास्वादः । सापि पुलिनमेव जघनं यस्याः सा पुलिनजघना । कीदृशं सलिलवसनम् । प्राप्तं लब्धवद्वानीरशाखा वेतसीलताः । वानीरशाखाश्लिष्टमित्यर्थः । प्राप्तापन्ने च दितीयया । यदि वा प्राप्ता वानीरशाखा येनेति बहुव्रीहिः । अतश्चोत्प्रेक्षते । करधृतमिव हस्तावष्टब्धं यथा । अंशुकं हरतो हि कामिनो नार्यः कराभ्यां रुन्धन्ति । नीलं हरितम् । ग्रीष्मेऽल्पत्वात् । अतश्च हरणान्मुक्तमुत्सृष्टं रोधस्तीरमेव नितम्बो येन । यदप्यम्बरं ह्रियते तन्मुक्तनितम्बं भवति । भविष्यतीति भावि॥ ४१ ॥

  त्वनिष्यन्दोच्छ्वसितवसुधागन्धसंपर्कपुण्यः
  स्रोतोरन्ध्रध्वनितमुभगं दन्तिभिः पीयमानः ।
  नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरिं ते
  शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥ ४२ ॥

 ततो देवगिरिमुपजिगमिषोर्यियासोस्तव सतुषारः पवनो नीचैर्वास्यति मन्थरं गमिष्यति । कीदृशः । तव निष्यन्देन तोयमोक्षणोच्छ्वसिता विकसिता हृषिता यासौ वसुधा भूमिस्तस्या गन्धसंपर्केण सौरभव्यतिकरेण पुण्यो मनोज्ञः । तथा सौख्याद्दन्तिभिः पीयमानः । कथम् । स्रोतोरन्ध्रं करविवरं तस्य ध्वनितं शूत्कारस्तेन सुभगं रम्यम् । सशूस्कृतमित्यर्थः । मुषिरे हि वातप्रवेशादधिको ध्वनिर्भवति । स्रोतः करः करिणः । यथा । प्रासप्रोतसोतसान्तःक्षतेनेति माघस्य । तथा कानमे वन उदुम्बरफलानां परिणमयिता पाचयिता । तद्वशात्पाकोत्पत्तेः ॥ ४२ ॥

  तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा
  पुष्पासारैः स्नपयतु भवान्व्योमगङ्गाजलार्द्रैः ।
  रक्षाहेतोर्नवशशिभृता वासवीनां चमूना-
  मत्यादिन्यं हुतवहमुखे संभृतं तद्धि तेजः ॥ ४३ ॥

 तत्र देवगिरौ सदासंनिहितं कुमारं त्वं सुरसरिदुदकरसैः कुसुमवर्षैः पुष्पमेघीकृतात्मत्वात्स्नपयेः पूजयेः । यस्माद्वासवीनां चमूनामैन्द्रीणां सेनानां रक्षार्थं नवशशिभृता चन्द्रमौलिनात्यादित्यं सूर्यादप्यधिकं तत्तेजो वीर्यं संभृतं क्षिप्तम् । असुरोपद्रुतसुररक्षार्थं हि कार्तिकेयो हरेण गौर्यां जनित इत्यागमः । तच्च शुक्रं स्वस्थानचलितमग्निना पीतमभूत् । वासवीनामिति दुर्लभः प्रयोगः । वृद्धाच्छेनाणो बाधितत्वात् । अतिक्रान्त आदित्यो येन तदत्यादित्यम् ॥ ४३ ॥

  ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी
  पुत्रप्रीत्या कुवलयपदप्रापि कर्णे करोति ।
  धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूरं
  पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः ॥ ४४ ॥

 पश्चादनन्तरं पावकेः स्कन्दस्य तं वाहनं मयूरं गर्जितैर्नर्तयेथा लास्यं कारयेथाः । जलदरवनिशमनाद्धि बर्हिणो नृत्यन्ति । तमित्युक्तम् । कं तमित्याह । यस्य गलितं भ्रष्टं बर्हं पक्षं गौरी पुत्रप्रीत्या कर्णे करोत्यवतंसीकुरुते । तच्च कुवलयपदप्राप्युत्पलस्थानारूढम् । ज्योतिर्लेखावलयं तेजोराजिमण्डलं विद्यते यस्य तत्तथोक्तम् । हरशशिरुचा शिवशिरश्चन्द्रश्चन्द्रिकया धौतापाङ्गं क्षालितनेत्रान्तम् । गर्जितैः कीदृशैः । अद्रिग्रहणगुरुभिः पर्वतप्राप्तिपीवरैः । अद्रिग्रहणशब्दे न कर्तृपष्ठीसमासः । नर्तयेथा इति न पादमीत्यादिनात्मनेपदम् ॥ ४४ ॥

  आराध्यैवं शरवणभुवं देवमुल्लङ्घिताध्वा
  सिद्धद्वन्द्वैर्जलकणभयाद्वीणिभिर्मुक्तमार्गः ।
  व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्य-
  स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥ ४५ ॥

 शरवणभुवं कुमारमेवं पुष्पासारैः स्नपनादिप्रकारेणाराध्य किंचिच्चाध्वानमतिक्रम्य रन्तिदेवम्य राज्ञः कीर्तिं चर्मण्वत्याख्यां मानयिष्यन्पूजयितुं व्यालम्बेथाः श्रयेथा गच्छेः । कीदृशीम् । सुरभितनया गावस्तासामालम्भनं प्रोक्षणं ततो जाता प्रसूता भुवि च स्रोतोमूर्त्या प्रवाहरूपेण परिणतां रूपान्तरं गताम् । तेन हि नृपेण क्रतुष्वतिबृंहीयस्यो गावः संक्षापिता यासं रुधिराच्चर्मभ्यश्च चर्मण्वती सम्पन्नेत्यागमः । त्वं कीदृशः । सिद्धमिथुनस्तोयबिन्दुत्रासान्मुक्तमार्गः परिहृतपथः । यतो वीणिभिर्वल्लकीहस्तैः । तन्त्रीर्हि' जलार्द्रा विस्वरा भवति । अपरासाद्य वीर्यं सोढुमक्षमया गङ्गया शरवणे त्यक्तमित्यतः शरजत्वं स्कन्दस्य । प्रतिरन्तःशरेक्षुप्लक्षेत्यादिना णत्वम् ॥ ४५ ॥

  त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे
  तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाहम् ।
  प्रेक्षिष्यन्ते गगनगतयो दूरमावर्ज्य दृष्टी-
  रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥ ४६ ॥

 त्वयि तोयं ग्रहीतुमवनते लम्बमाने सति तस्याः मिन्धोश्चर्मण्वत्याः प्रवाहं सिताख्या नभश्चराश्चक्षूंषि दूरमत्यर्थमावर्ज्य निक्षिप्य कौतुकाद्द्रक्ष्यन्ति । यतो भुवः स्थूलमध्येन्द्रनीलमेकं मुक्तागुणं मौक्तिकदामेव । स्रोतसो मुक्तागुणनिभत्वादम्बुदस्य च महानीलतुल्यत्वात् । कीदृशं प्रवाहम् । पृथुमपि तनुं विस्तीमपि स्वल्पम् । कुतः । दूरभावाद्विप्रकर्षात् । दूराद्धि महदपि स्वल्पं दृश्यते । अत एव मुक्तागुणसारूप्यम् । त्वयि कीदृशे । सजलत्वात्कृष्णस्य वर्णचौरे नीले । एतेनेन्द्रनीलनिभत्वमुक्तम् ॥ ४६ ॥

  तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां
  पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशारप्रभाणाम् ।
  कुन्दक्षोपानुगमधुकरश्रीमुषामात्मबिम्बं
  पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥ ४७ ॥

 तां चर्मण्वतीमतीत्य दशपुराख्ये नगरे युवतिनयनकौतुकानामात्मानं पात्रीकुर्वस्तासां नेत्रविषयं नयनन्गच्छेः । दशपुरनिकटेन याया यथा तन्नागरिकास्त्वामीक्षेरन्नित्यर्थः । कीदृशानाम् । नागरिकत्वात्परिचिता अभ्यस्ता भ्रूशाखाविलासा येषाम् । तथा त्वदालोकनवशात्पक्ष्मोत्क्षेपेणोपरि विलसन्ती स्फुरन्ती कृपणशारप्रभा येषाम् । अतश्च कुन्दकुसुमस्य यः क्षेपः प्रेरणां तस्यानुगा अनुयायिनो ये भ्रमरास्तेषां श्रियं शोभां मुष्णन्ति यानि तेषाम् । कुन्दानां मितत्वादलीनां च कालत्वात् । यद्यपि कौतूहलविशेषणान्येतानि तथापि वस्तुबलात्तद्वत्तां नेत्राणामिवैते गुणाः ॥ ४७ ॥

  ब्रह्मावर्तं जनपदमधश्छायया गाहमानः
  क्षेत्रं क्षात्रप्रधनपिशुनं कौरवं तद्भजेथाः ।
  राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा
  धारापातैस्त्वमिव कमलान्यभ्यषिञ्चन्मुखानि' ॥ ४८ ॥

 ततो ब्रह्मावर्ताख्यं जनपदमधश्छायया प्रतिबिम्बेन संस्पृशंस्तत्कुरुक्षेत्रं यायाः । कीदृशम् । क्षत्रप्रधनपिशुनं राजन्यकसमरसूचकम् । अद्यापि शरशकलाद्यालोकनात् । यत्र च क्षत्रियाणां तीक्ष्णशरशतैरर्जुनो वदनान्यभ्यषिञ्जत्संधुक्षयामास निर्भरीचकार । भवानिव जलवृष्टिभिर्नलिनानीति शरबाहुल्यकथनम् ॥ ४८ ॥

  हित्वा हालामभिमतरसां रेवतीलोचनाङ्कां
  बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे ।
  कृत्वा तासामभिगममपां सोम्य सारस्वतीना-
  मन्तःस्वच्छस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥ ४९ ॥

 हे सोम्य दर्शनीयं तासां सरस्वतीसम्बन्धिनीनामपामभिगमं सेवनं विधाय निश्चेतनस्त्वमप्यन्तःस्वच्छोऽभ्यन्तरनिर्मलो भविता भविष्यसि । केवलं वर्णमात्रेण कृष्णः काल इति महा[अस्पष्टं मुद्रणम्]पुण्यत्वोक्तिः । अथ च वस्तुस्वभाव एवैष यन्मेघानां पानीयपानाद्बहिःकृष्णत्वमिति । तामामित्युक्तम् । कामामित्याह । या अपो लाङ्गलो हलधरो हालां मुरां हित्वोपेक्ष्य सिषेवे भेजे । बन्धूनां कुरुपाण्डवानां प्रीत्या वेसुख्यरक्षया । स हि तैर्योद्धुमर्थितः । द्वयेऽपि मे बान्धवाः । तत्कुत्र व्रजामीति विचार्य वेश्म त्याक्त्वा सारस्वततीर्थयात्रामकरोत् । हालात्यागेन नियमग्रहणं तीर्थसेवने प्रतिपादयति । कीदृशीं हालाम् । अभिमतरसामिष्टास्वादाम् । स हि सुराप्रियः । रेवती तद्भार्या । तस्या लोचने एवाङ्कश्चिह्नं प्रतिविम्बवशाद्यस्याः । भवितेति तृजन्तः । स हि कालसामान्ये । सोम व सोम्यः । शाखादिभ्यो यत् ॥ ४९ ॥

  तस्माद्गच्छेरनुकनखलं शैलराजावतीर्णां
  जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् ।
  गौरीवक्त्र भ्रुकुटिरचनां या विहस्येव फेनैः
  शंभोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता ॥ ५० ॥

 तस्मात्सरस्वतीदेशादनकनखलं कनखलाख्यतीर्थ समोपे हिमवतः प्रभृतां जाह्नवीं यायाः । कीदृशीम । सगरात्मजानां यष्टिसहस्रसंख्यानां स्वर्गार्थं सोपानपङ्क्तिं निःश्रेणिमालाम् । तत्प्राप्तापायत्वात् । ते हि पाताले कपिलेन रोषाद्दग्धा भगीरथावतारितया भागीरथ्याप्लावितभस्मानस्त्रिदिवमापुः । या च देवी भुवमवतरन्ती गौरीवक्त्रभ्रुकुटिरचनां दिण्डीरैरवहस्येव सपत्नीव शंभोः केशग्रहणमकरोदिति युवतिधर्मारोपः । इन्दौ लग्ना ऊर्मय एव हस्ता यस्याः सा । करेण हि केशाकर्षणं क्रियते । मत्संनिधावेवानया केशा गृह्यन्त इति गौर्या भ्रुकुटिबन्धः । केशेषु धारणाद्गङ्गायाः केशग्राहित्वम् । सा हि स्वर्गात्पतन्ती हरेण जटाग्रे धृतेत्यागमः । भ्रूकुटिवद्भ्रुकुटिशब्दः संयोगादिरप्यस्तीति न वृत्तभङ्गः ॥ ५० ॥

  तस्याः पातुं सुरगज इव व्योम्नि पूर्वार्धलम्बी
  त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः ।
  संसर्पन्त्या सपदि भवतः स्रोतसि च्छायया सा
  स्यादस्थानोपनतयमुनासंगमेवाभिरामा ॥ ५१ ॥

 तस्या जाह्नव्या अमलस्फटिकधवलमुदकं त्वं चेत्पातुं तर्कयेः पश्येस्तत्प्रवाहे प्रसरन्त्या भवतच्छायया कान्या सपदि तत्क्षणं मा गङ्गास्थानोपनतयमुनासंगमेवाभिरामा स्यात् । प्रयागादन्यत्रापि संपन्नकालिन्दीसमागमा यथा रम्या भवेत् । त्वत्प्रतिबिम्बस्य यमुनाकारत्वात् । कीदृशस्त्वम् । सुरगज इवैरावणवन्नभसि पूर्वार्धेनोत्तरभागेण लम्बते यः स पूर्वार्धलम्बी ॥ ५१ ॥

  आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां
  तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः ।
  वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्गे निषण्णः
  शोभां रम्यां त्रिनयनवृषोत्खातपङ्कोपमेयाम् ॥ ५२ ॥

 तस्या एव खनद्याः प्रभवं जनकमचलमद्रिं हिमवन्तमासाद्य तदीयशिखरे स्थितस्त्वं हरवृषशिरीषदारितकर्दमसदृशीं मनोहरां शोभां वक्ष्यसि धारयिष्यसि । तस्य वृषभसितत्वात्तव च पङ्ककालत्वात् । कीदृशमचलम् । मृगाणां कस्तूरिकाकुरङ्गाणामुपविष्टानां नाभिगन्धैः सुगन्धीकृतशिलम् । तुषारैर्हिमैर्गौरं शुभ्रम् । तुहिनशीतलत्वाच्च शृङ्गस्य मार्गस्वेदनिवर्तकत्वम् । प्रभवत्यस्मादिति प्रभवः ॥ ५२ ॥

  तं चेद्वायौ सरति मरलस्कन्धसंघटजन्मा
  बोधेतोल्काक्षपितचमरीबालभारो दवाग्निः ।
  अर्हस्येनं शमयितुमलं वारिधारासहस्रै-
  रापन्नार्तिप्रशमनफलाः संपदो ह्युत्तमानाम् ॥ ५३ ॥

 तं नगं यदि दावानलो बाधेत दहेत्तदेनमग्नि त्वमासारेण वेगवद्वर्षेण निर्वापयितुमर्हसि । यस्मान्महतामृद्धय आपन्नार्तिप्रशमितफलाः । यदि ह्यार्तानामापन्न विनाश्यते तत्किं समृद्ध्या प्रयोजनम् । कीदृशो दवाग्निः । वाते वहति सति सरलस्कन्धसंघट्टजन्या देवदारुविटपसंयोगसमुत्थितः । तत्संघट्टवशाद्धि दावानलो जायते । तथोल्काभिर्ज्वालाभिर्दग्धचमरीबालभारः ॥ ५३ ॥

  ये त्वां मुक्तध्वनिमसहनाः कायभङ्गाय तस्मि-
  न्दर्पोत्सेकादुपरि शरभा लङ्घयिष्यन्त्यलङ्घ्यम् ।
  तान्कुर्वीथास्तुमुलकरकावृष्टिहासावकीर्णा-
  न्के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ ५४ ॥

 त्वां च गर्जन्तं तत्राद्रौ ये शरभाख्याः सत्त्वा दर्पोत्सेकान्मदोद्रेकादसहमानाः सन्तोऽलङ्घ्यमपि लङ्यिष्यन्ति जिघृक्षन्ति तांस्त्वं तुमुलकरकावृष्टिहासावकीर्णान्विषमोपलवर्षस्मिताच्छादितान्कुर्वीथाः । बाधेथा इत्यर्थः । न तच्चित्रं यत्ते नश्यन्ति । यतो निष्फल आरम्भे यत्नो येषां ते तथाविधाः के परिभवस्य स्थानं पात्रं न भवेयुः । अवश्यं ते परिभूयन्त इत्यर्थः । त्वदाक्रमणेच्छा शरभाणां निष्फला । तव ग्रहोतुमशक्यत्वात् ॥ ५४ ॥

  तत्र व्यक्तं दृषदि चरणन्यासमर्धेन्दुमौलेः
  शश्वत्सिद्धेरुपहृतबलिं भक्तिनम्रः परीयाः ।
  यस्मिन्दृष्टे करणविगमादूर्ध्वमुद्भूतपापाः
  कल्पन्तेऽस्य स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ ५५ ॥

 तत्र हिमवति दृषदि शिलायामर्धेन्दुमौलेः शिवस्य व्यक्तं चरणन्यासं प्रकटां पादमुद्रां त्वं भक्त्या प्रणतः परीयाः प्रदक्षिणीकुर्याः । यस्मात्तस्मिन्नवलोकिते क्षपितकिल्बिषाः सन्तः श्रद्दधाना भक्ताः करणविगमादूर्ध्वं देहपातादनन्तरमस्य देवस्य स्थिरगणपदप्राप्तये कल्पन्ते । अनश्वराः प्रमथाः संपद्यन्ते । अत एव सदा सिद्धैर्निवेदितोपहारम् । इन्दोरर्धमर्धेन्दुर्मालौ शेखरे यस्य सोऽर्धेन्दुमौलिः । कलामात्रधारित्वेऽपि संस्थानापेक्षमर्धत्वम् । इणः परिपूर्वस्य लिङः सिपि परीया इति रूपम् । करणानीन्द्रियाणि विद्यन्ते यत्र तत्करणं वपुः । अर्श आदिभ्योऽच् ॥ ५५ ॥

  शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः
  संरक्ताभिस्त्रिपुरविजयो गीयते किंनरीभिः ।
  निर्हादी ते मुरज इव चेत्कन्दरासु ध्वनिः स्या-
  त्संगीतार्थो ननु पशुपतेस्तच्च भावी समस्तः ॥ ५६ ॥

 तव ध्वनिः कन्दरासु गुहासु निर्ह्रादी घूर्णमानो मुरज इव यदि भवेत्तत्तत्र हरस्य संगीतार्थो गुणनिकावस्तु समस्तोऽखण्डो भावी भविष्यति । अन्या हि तव सामग्री विद्यते । तथा हि कीचका वंशा वातैरुद्धूता मधुरं शब्दायन्ते ध्वनन्ति । भाविताभिश्च किंपुरुषाङ्गनाभिस्त्रिपुरदाहाख्यं काव्यं गीयते । त्वदीयश्च शब्दप्रतिबिम्बो मुरजनिभो यदि स्यात्तत्संगीतार्थः पशुपतेस्तच्च भावी समस्तः । शब्दं कुर्वन्ति शब्दायन्ते । निर्ह्रादी गम्भीरः ॥ ५६ ॥

  प्रालेयाद्रेरुपतटमतिक्रम्य तांस्तांन्विशेषा-
  न्हंसद्वारं भृगुपतियशोवर्त्म यत्क्रौञ्चरन्ध्रम् ।
  तेनोदीचीं दिशमभिसरेस्तिर्यगायामशोभी
  श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः ॥ ५७ ॥

 प्रालेयाद्रेर्हिमवत उपतटं पर्यन्ते तांस्तान्विशेषांश्चरणन्यासादीनद्भुतानतिक्रम्योल्लङ्घ्य यत्कौञ्चाद्रिच्छिद्रं हंसानां द्वारभूतं विद्यते तेन रन्ध्रेण त्वं कौबेरीमाशामभिसरेर्गच्छेः । तिर्यग्य आयामो विस्तारस्तेन शोभमानः । अतश्च बलिवचनोत्थितस्य विष्णो: श्यामश्चरण इवेत्युपमा । कीदृग्रन्ध्रम् । भृगुपतिः परशुरामस्तदीयस्य यशसो वर्त्म प्रसरणमार्गः । तेन क्रौञ्चस्य भज्यमानत्वात् । प्रालेयं हिमम् । अतिक्रम्येति परावरयोगे चेति क्त्वा ॥ ५७ ॥

  गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधेः
  कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः ।
  शृङ्गोच्छ्रायः कुमुदविशदैर्यो वितत्य स्थितः खं
  राशीभूतः प्रतिनिशमिव त्र्यम्बकस्याट्टहासः ॥ ५८ ॥

 ऊर्ध्वमनन्तरं गत्वा कैलासाद्रेरतिथिः स्याः । तं गछेरित्यर्थः । कीदृशस्य । दशमुखभुजोच्छ्वासितप्रस्थसंधेः पौलस्त्यबाहुदलितसानुबन्धस्य । स हि तेन दर्पादुन्मूलयितुमिष्टोऽभूत् । तथा सुरललनानां दर्पणस्यादर्शनिभस्य । स्फाटिकत्वेन मुखावलोकनात् । यश्च कैरवधवलैरुन्नतैः शिखरैर्नभो व्याप्य स्थितः । अतश्चोत्प्रेक्षते । अनुक्षपं पुञ्जीभूतः शिवस्याट्टहास उद्यतस्मितमिव ॥ ५८ ॥

  उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे
  सद्यःकृत्तद्विरददशनच्छेदगौरस्य तस्य ।

  लीलामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्री-
  मंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ ५९ ॥

 त्वयि शिखरस्थिते सति तस्य कैलासस्यानिमिषलोचनदृश्यां भाविनीं शोभामुत्प्रेक्षेऽहम् । तस्य कस्येव । अंसन्यस्ते स्कन्धप्रावृते मेचके कृष्णे वस्त्रे हलधरस्येव । मेघस्य कालत्वात् । स्निग्धभिन्नाञ्जनाभेऽरूक्षपिष्टकज्जलनिभ इति मेघविशेषणम् । तस्य तु तत्क्षणच्छिन्नदन्तिदन्तखण्डवलक्षस्य । गौरोऽपि शुभ्रः ॥ ५९॥

  हित्वा नीलं भुजगवलयं शंभुना दत्तहस्ता
  क्रीडाशैले यदि च विहरेत्पादचारेण गौरी ।
  भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलोऽस्याः
  सोपानत्वं कुरु सुखपदस्पर्शमारोहणेषु ॥ ६० ॥

 तस्मिंश्च केलिपर्वते कैलासे शिवेनालम्बितकरा पार्वती यदि पादचारेण चरणाभ्यां विहरेच्चङ्क्रम्येत तदस्यास्त्वमारोहणेषु सोपामत्वं कुर्याः । यतो भङ्गीभक्त्या तरंगविच्छित्या कल्लोलाकारेण विरचितदेहः । अत एव तत्सुखपदस्पर्शं पारुष्याभावाच्छीतलत्वाच्च चरणप्रीतिकारि । स्तम्भितं निश्चलीकृतमन्तरुदरे जलं येन । अन्यथा हि पादसादः स्यात् । भयंकरत्वादेव नीलं सर्पकटकं हित्वा त्यक्त्वा । पादाभ्यां चारो गमनं पादचारः ॥ ६० ॥

  तत्रावश्यं जनितसलिलोद्गारमन्तःप्रवेशा-"
  न्नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् ।

  ताभ्यो मोक्षस्तव यदि सखे धर्मलब्धस्य न स्या-
  क्रीडालोलाः श्रवणपरुषैर्गर्जितैर्भाययेस्ताः ॥ ६१ ॥

 तत्राद्रौ जनितललिलोद्गारं वर्षन्तं त्वामभ्यन्तरप्रवेशान्निश्चितं त्रिदशवनिता नाकयुवत्यो यन्त्रधारागृहत्वं नेष्यन्ति प्रापयिष्यन्ति । यदि किलानिलवशाद्वेश्ममध्ये निक्षिप्तो विरलं वर्षसि तदा त्वमेव यन्त्रधारामयं गृहं संपद्यसे । ग्रीष्मे हि संतापनिवारणायाढ्या धारागृहान्कुर्वते । एवं सति धर्मे लब्धस्य तव ताभ्यः सकाशात्केलिलम्पटाभ्यो यदि त्यागो मोक्षो न स्यात्तत्कर्णकटुकैर्गर्जितैस्ता भाययेस्त्रासयेः । यथोद्विज्य त्वां मुञ्चेयुरिति भावः । उद्गारः प्रसरः ॥ ६१ ॥

  हेमाम्भोजप्रसवि सलिलं मानसस्याददानः
  कुर्वन्कामात्क्षणमुखपटप्रीतिमैरावणस्य ।
  धुन्वन्वातैः सजलपृषतैः कल्पवृक्षांशुकानि'
  च्छायाभिन्नः स्फटिकविशदं निर्विशे: पर्वतं तम् ॥ ६२ ॥

 छायया प्रतिविम्बेन भिन्नो द्विधाभूतस्त्वं सितमणिनिर्मलं तं पर्वतं निर्विशेरुपभुञ्जीथाः । उपभोगमाह । कीदृशस्त्वम् । हेमाम्भोजानि सुवर्णपद्मानि प्रसूते जनयति यत्तदुदकं मानससंवन्ध्याददानो गृह्णन् । प्रसवोऽत्र गीर्णः । तथा कामात्स्वेच्छात एवैरावणस्य क्षणं मुखपटप्रीतिं कुर्वन् । गजा हि मुखपटेन प्रीयन्ते । सजलपृषतैस्तोयकणयुक्तैरनिलः सुरतरुवासांसि धुन्वन्दोलयन् । धुनोतेः सौवादिकस्य ह्रस्वान्तस्याभ्युपगमाद्धुन्वन्निति रूपम् ॥ ६२ ॥

  तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुगूलां
  न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् ।
  या वः काले वहति सलिलोद्गारमुच्चैर्विमाना
  मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥ ६३ ॥

 तत्र कैलासे दृष्ट्वास्मत्पुरीमलकां न न ज्ञास्यसे । अपि तु निःसंदेहं वेत्स्यस्येव यथा नूनमियं सालकेति । यतस्तस्याद्रेरुत्सङ्गेऽङ्के स्रस्त भ्रष्टं गङ्गैव दुगूलमम्बरं यस्यास्ताम् । जाह्नवी हि तत्र वहति । या चालका वः काले युष्माकं समये वर्षाख्येऽभ्रवृन्दं वहति । कीदृशम् । सलिलमुद्गिरति स्रवतीति सलिलोद्गारम् । कर्मण्यण् । का यथा कीदृशं किं वहतीत्याह । मुक्ताजालालंकृतमलकं यया कामिनी बिभर्ति । सापि प्रियस्योत्सङ्गे स्रस्तदुगूला भवति । सलिलस्य मुक्ताजालमुपमानम् । अभ्राणां लम्लाटकेशाः । उचैर्विमाना प्रांशुगृहा । कामचारिन्निति मेघस्य जडत्वं निराकृतम् ॥ ६३ ॥

  विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः
  संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् ।
  अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः
  प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥ ६४ ॥

 यत्रालकायां प्रासादा गृहास्तैस्तैरुच्यमानधर्मैर्भवन्तं तुलयितुमलमनुकर्तुं शक्ताः । तथा हि त्वां विद्युत्वन्तं सतडित्कं तेऽपि ललितवनिताः सविलासाङ्गनाः । त्वां सेन्द्रचापं ससुरायुधं तेऽपि सचित्राः सालेख्याः । त्वां स्निग्धगम्भीरघोषं मधुरधीरध्वनितं तेऽपि संगीताय गुणनिकार्थं प्रहतमुरजा वादितमृदङ्गाः । त्वामन्तस्तोयं तेऽपि मणिमयभुवः स्फाटिकावनयः । त्वां तुङ्गमुन्नतं तेऽप्यभ्रंलिहाग्रा व्योमस्पृक्शिखराः । एवं सर्वसादृश्यम् । अभ्रं खं लेढि व्याप्नोतीत्यभ्रंलिहमग्रं येषाम् । वहाभ्रे लिहः । तुलिरदन्तोऽपि ॥ ६४ ॥

  हस्ते लीलाकमलमलके बालकुन्दानुविद्धं
  नीता लोध्रप्रसवरजसा पाण्डुतामनने श्रीः ।
  चूडापाशे नवकुरबकं चारु कर्णे शिरीषं
  सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ ६५ ॥

 यत्र चाङ्गनानामिदमिदमृतुषट्कजातमग्राम्यमाभरणम् । किं किमित्याह । करे लीलाकमलं विलासनलिनम् । अलकं बालैः कुन्दकुसुमैरनुविद्धं संमिश्रम् । मुखलक्ष्मीरपि लोध्रपुष्पपरागेण पाण्डुतां गौरत्वं प्रापिता । चूडापाशे नवं सरसं कुरबककुसुमम् । कर्णयो रम्यं शिरीषकुसुमम् । सीमन्ते च त्वदुपगमजं प्रावृषेण्यं नीपपुष्पम् । तद्धि वर्षासु जायते । तदेतेन तथाभूतेन कनकालङ्कारनिरासेन नागरत्वमङ्गनानामुक्तम् ॥ ६५ ॥

  यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि
  ज्योतिच्छायाकुसुमरचितान्युत्तमस्त्रीसहायाः ।
  आसेवन्ते मधुरतिफलं कल्पवृक्षप्रसूतं
  त्वद्गम्भीरध्वनिषु शनकैः पुष्करेष्वाहतेषु ॥ ६६ ॥

 यस्यामलकायां नित्यं वरपुरन्ध्रिसहिता गुह्यकेश्वराः सौधतलान्यागत्य रतिफलं न तु कलहादिजनकं कल्पवृक्षजं मधु रसं सेवन्ते । कीदृशानि स्थलानि । सितमणिमयानि स्फटिकानि । अत एव ज्योतिश्छायास्तारावलिप्रतिबिम्बान्येव कुसुमरचना पुष्पप्रकरो येषु । कदा सेवन्ते । भवत इव गम्भीरो निर्ह्रादो ध्वनिर्येषां तेषु पुष्करेषु वाद्यमुखेष्वाहतेष्वास्फालितेषु सत्सु । तदेतेन दम्पतीनां सदासुखित्वमुक्तम् ॥ ६६ ॥

  यत्र स्त्रीणां प्रियतमभुजोच्छ्सितालिङ्गिताना-
  मङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः ।

  त्वत्संरोधापगमविशदै श्चोतिताश्चन्द्रपादै-
  र्व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥ ६७ ॥

 यत्र पुर्यां स्त्रीणां कामिनीनां सुरतजनितामङ्गग्लानिं चन्द्रकान्तमणयो व्यालुम्पन्ति प्रशमयन्ति । कीदृशीनाम् । प्रियतमभुजालिङ्गनोच्छ्वासितानां भर्तृभुजबन्धनपीडितानाम् । कीदृशाश्चन्द्रकान्ताः । तन्तुजालेष्ववलम्बन्त इति तन्तुजालावलम्बाः । तथा त्वत्संरोधापगमविशदैर्भवदावरणनिवृत्तिनिर्मलैश्चन्द्रपादैः शशिकिरणैः द्योतिताः स्राविताः । स्फुटजललवस्यन्दिनः प्रकटतोयकणमुचः । अतश्चाङ्गग्लानिहरत्वम् ॥ ६७ ॥

  नेत्रा नीताः सततगतिना यद्विमानाग्रभूमी-
  रालेख्यानां नवजलकणैर्दोषमुत्पाद्य सद्यः ।
  शङ्कास्पृष्टा इव जलमुचस्त्वादृशा यत्र जालै-
  र्धूमोद्गारानुकृतिनिपुणं जर्जरा निष्पतन्ति ॥ ६८ ॥

 यत्र भवद्विधा मेघाश्चित्रेषु नवजलकणैर्नाशं विधाय जर्जरत्वाद्धूमोद्गारानुकृत्या धूमप्रसरसादृश्येन निपुणं प्रवीणं प्रासादजालैर्गवाक्षविवरैर्निष्पतन्ति निर्यान्ति । उत्प्रेक्षते । चित्रनाशेन शङ्कास्पृष्टा इव शङ्किता यथा । सशङ्कैर्हि सपराधत्वाद्व्याजेन पलाय्यते । कोदृशा जलदाः । यस्यामलकायां विमानाग्रभूमीर्नेत्रा वोढ़ा प्रेरकेण सततगतिना वायुना नीता अपवाहिताः । नयतीति नेता तेन । अतश्च वर्षणादालेख्यबाधः । जर्जराः खण्डा म्लानाः ॥ ६८ ॥

  नीवीबन्धोच्छ्वसनशिथिलं यत्र यक्षाङ्गनानां
  वामः कामादनिभृतकरेष्वाक्षिपत्सु प्रियेषु ।
  अर्चिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपा-
  न्ह्रीमूढानां भवति विफलप्रेरणश्चूर्णमुष्टिः ॥ ६९ ॥

 यत्र यक्षाङ्गनानां चन्दनादिचूर्णमुष्टिर्दीपशान्तिधिया प्रेरितो विफलो भवति निष्फलः संपद्यते । प्रद्योतकाप्रशमात् । कदाचिदन्यत्रामी पतितो भवेदित्याह । अर्चिन्तुङ्गान्महाज्वालान्रत्नप्रदीपानभिमुखमामाद्यापि । विफलत्वं त्वनश्वरत्वाद्रत्नार्चिषः । क्षेपस्तु वह्निदीपभ्रान्त्या । कदा विफल इत्याह । कामात्सुरतेच्छया चपलपाणिषु प्रियेष्वम्बरमपहरत्सु । कीदृशं वासः । नीवीवन्धस्योच्चयसंयमनस्योच्छूननेन विकासेन शिथिलमदृढम् । ततश्चापलात्तदपहारः । अतश्च लज्जाव्याकुलत्वात्तासां चूर्णादिभिर्मणिदीपप्रशमनेच्छा ॥ ६९ ॥

  गन्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः
  क्लृप्तच्छेद्यैः कनककमलैः कर्णविभ्रंशिभिश्च ।
  मुक्तालग्नस्तनपरिमलैश्छिन्नसूत्रैश्च हारै-
  र्नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥ ७० ॥

 यत्राभिसारिकाणां नैशो मार्गः प्रभातेऽमीभिः सूच्यते कथ्यतेऽनुमीयते

वा । कः । स्तनजघनभरेण गत्युत्कम्पात्केशच्युततैर्मन्दारकुसुमैः । कर्णभ्रष्टैश्च कनकललितैः क्लृप्तच्छेद्यै रचितविच्छित्तिविशेषैः । तथा मुक्तामणिषु लग्नः स्तनपरिमलः कुचामोदो येषां तच्छिन्नसूत्रैर्मुक्ताहारैश्च । तदेतेन भ्रष्टाभरणाग्रहणेन समृद्धिरुक्ता । छेदनीयं छेद्यं पत्रलतादि । क्लृप्त शब्दे कृषो रो लः ॥ ७० ॥

  मत्वा देवं धनपतिसखं यत्र साक्षाद्वसन्तं
  प्रायश्चापं न वहति भयान्मन्मथः षट्पदज्यम् ।
  सभूभङ्गप्रहितनयनः कामिलक्ष्येष्वमोघै-
  स्तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ॥ ७१ ॥

 यत्र पुर्यां साक्षादासीनं हरमवेत्य स्मरः षट्पदज्यं षटपदमौर्वीकं धनुः प्रायेण भयान्नादत्ते । स्वव्यापारान्न कुरुत इत्यर्थः । कथं तर्हि मिथुनेष्वन्योन्यं प्रेमेत्याह । तस्य कामचापस्यारम्भो व्यापारः प्रवीणाङ्गनाविलासैरेव संपद्यते । कीदृशः । कामिलक्ष्येषु सभ्रूभङ्गानि प्रहितानि क्षिप्तानि नयनानि येषु । तथामोघैरवन्ध्यैः कार्यकारिभिः । तदेतेन युवतिप्रावीण्यमुक्तम् ॥ ७१ ॥

  तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं
  दूराल्लक्ष्यं तदमरधनुश्वारुणा तोरणेन ।
  यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे
  हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः ॥ ७२ ॥

 तत्रैवंविधायामलकायां धनपतिगृहानुत्तरेण राजराजवेश्मान्युत्तरेण तदस्माकमगारं गृहम् । अभिज्ञानान्याह । शक्रचापरम्येण तोरणेन दूरादपि दृश्यम् । यस्य चोपान्ते निकटे बालो मन्दारवृक्षोऽस्ति । कीदृशः । मदीयया प्रियया सेकादिना पोषितः । यतः कृतकतनयः पुत्रीकृतः । बालत्वाच्च करग्राह्यैर्गुच्छैर्नम्रीभूतः । उत्तरेणेत्येनबन्तः । तद्योगे च गृहानित्येनपा द्वितीया । पञ्चम्यन्तः पाठस्त्वनार्यः ॥ ७९ ॥

 अभिज्ञानान्तराण्याह ।

  वापी चास्मिन्मरकतशिलाबद्धसोपानमार्गा
  हैमैः स्यूता कमलमुकुलैः स्निग्धवैडूर्यनालैः ।

  यस्यास्तोये कृतवसतयो मानसं संनिकृष्टं
  न ध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसा ॥ ७३ ॥

 अस्मिन्नस्मद्गृहे वापी पद्मिनी विद्यते । कीदृशी । मरकतमणिशिलाभिर्बद्धो रचितः सोपानमार्गो यस्याः । तथा स्निग्धैर्वैडूर्यमणिभिरेव नालो दण्डो येषां तैर्हंसैः सौवर्ण: पद्ममुकुल: स्यूता प्रोता संबद्वा । वाप्यां हि पद्मैर्भाव्यम् । यस्याश्च तोये कृतवसतयो हंसास्त्वामपि प्रेक्ष्य वर्षासमयेऽपि निकटमपि मानसं सरो न ध्यास्यन्ति न समरिष्यन्ति। यतो व्यपगतशुचः । तत्रैवोपद्रवाभावान्निर्दुःखाः । हेमशब्दो रजतादिः ॥ ७३ ॥

  यस्यास्तीरे निचितशिखरः पेशलैरिन्द्रनीलैः
  क्रोडाशैल: कनककदलीवेष्टनप्रेक्षणीयः ।
  मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण
  प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥ ७४ ॥

 यस्या वाप्यास्तीरे एवंविधः क्रीडाशैलोऽस्ति । कीदृशः । पेशलैमनोज्ञैरिन्द्रनीलैर्मणिभिर्निचितशिखरो बद्धशृङ्गः । कनकमयीनां च कदलीलतानां वेष्टनेन परिवलनेन प्रेक्षणीयो रम्यः । अतश्च मत्प्रियायाः कान्त इति निकटोन्नमितशतह्रदं भवन्तमालोक्य सादृश्यात्तमेवाद्रिं कातरेणाधीरेण मनसा स्मरामि। सादृश्यात्प्रियत्वाच्च स्मरणम् । कातरत्वं तु विरहवशात् । शेषत्वाविवक्षया तमित्यधीगर्थेति पष्ठ्यभावः ॥ ७४ ॥

  रक्ताशोकश्चलकिसलयः केसरश्चात्र कान्तः
  प्रत्यासन्नो कुरबकवृतेर्माधवीमण्डपस्य ।
  एकः सख्यास्तव सह मया वामपादाभिलाषी
  काक्षत्यन्यो वदनमदिरां दोहदच्छद्मनास्याः" ॥ ७५ ॥

 अत्र केलिपर्वते रक्ताशोककेसरतरू पल्लवितौ स्तः । कुरबकवृक्षैर्वृतिर्वर्णिका कण्ठी यस्य तस्य माधवीलतामण्डपस्य प्रत्यासन्नौ सविधौ । ययोश्चैकोऽशोकस्तव सख्या मद्गेहिन्या वामपादाभिलाषी । चरण प्रहारानुग्रहेण तस्य विकामात् । मया सह । अहमपि सपराधस्तदीयं पादप्रहारमभिलषामीत्यर्थः । अपरो बकुलो दोहदेच्छद्मना सेकाभिलाषव्याजेनास्या मत्प्रेयस्या वदनमदिरां काङ्क्षति । तरुणीमुखासवसेकेन तस्य विकासात् । मया सह । अहमपि तदीयां वदनमदिरां काङ्क्षामीत्यर्थः । अशोकादीनां प्रशस्तत्वादुपादानम् ॥ ७५ ॥

  तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टि-
  र्मूले नद्धा मणिभिरनतिप्रौढवंशप्रकाशः ।
  तालैः शिञ्जद्वलयसुभगैर्नर्तितः कान्तया मे
  यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः ॥ ७६ ॥

 तयोरशोककेसरयोर्मध्ये क्रीडाबर्हिणः सौवर्णो वामार्थं यष्टिदण्डोऽस्ति । कीदृशी । स्फटिकमयं फलकं पीठं यस्याः सा । मूलभागे च मणिभिर्नता संबद्धा । कैः । अनतिप्रौढा नातिपक्वा ये वंशा वेणवस्तद्वत्प्रकाशैर्द्योतमानैस्तत्सवर्णः । मरकतैरित्यर्थः । ते हि वंशवर्णाः । यां च यष्टिं दिनान्ते युष्माकं सुहृन्नीलकण्ठो मयूरोऽध्यास्ते श्रयते । कीदृशः । मत्कान्तया शिञ्जानकनककटकमनोहरैर्तालैर्वाद्यैर्नर्तितः । शिञ्जेरात्मनेपदित्वाच्छिञ्जदिति प्रयोगः प्रमादजः । अनित्यो वानुदात्तेदात्मनेपदविधिः ॥ ७६ ॥

  एभिः साधो हृदयनिहितैर्लक्षणैर्लक्षणीयं'
  द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा ।
  क्षामच्छायं भवनमधुना मद्वियोगेन नूनं
  सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥ ७७ ॥

 हे साधो पूर्वोक्तैरेतैश्चिह्नैश्चित्तस्थापितैर्मद्वेश्म त्वया लक्षणीयं बोद्धव्यम् । किं च द्वारपार्श्वे शङ्खपद्यौ निधी लिखितवपुषौ दृष्ट्वा लक्ष्यम् । कीदृशम् । इदानीं मद्विरहेण क्षामच्छायं कृशशोभम् । यस्माद्रवेरस्तमये नलिनं नैव निजां श्रियं पुष्णाति वर्धयति ॥ ७७ ॥

  गत्वा सद्यः कलभतनुतां शीघ्रसंपातहेतोः
  क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः ।
  अर्हस्यन्तर्भवनपतितां कर्तुमल्पाल्पभासं
  खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ॥ ७८ ॥

 ततस्त्वं पूर्वोक्ते रम्यसानौ क्रीडाद्राववस्थितः सन्नस्मद्वेश्माभ्यन्तरपतितां विद्युदुन्मेषदृष्टिं तडिदुद्योतनमेव दृशं कर्तुमर्हसि । यथा तां पश्यसीति भावः । किं कृत्या । तत्क्षणं कलभतनुतामिभशिशुपेलवत्वं क्षिप्रगमनार्थ प्राप्य । महति हि देहे व्यथा जायते । कीदृशीं दृष्टिम् । अल्पाल्पा कृशप्राया भाः कान्तिर्यस्यास्ताम् । अत एव च खद्योताल्या ज्योतिर्मालिश्रेण्या यद्विलसितं स्फुरणं तत्सदृशीम् ॥ ७८ ॥

  तन्वी श्यामा शिखरदशना पक्वबिम्बाधरोष्ठी
  मध्ये क्षामा चकितहरिणप्रेक्षणी निम्ननाभिः ।
  श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां
  या तत्र स्याद्युवतिविषये सृष्टिराद्येव धातुः ॥ ७९ ॥

  तां जानीथाः परिमितकथां जीवितं मे द्वितीयं
  दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ।

  गाढोत्कण्ठागुरुषु दिवसेष्वेषु गच्छत्सु बालां
  जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् ॥ ८० ॥

 तत्र वेश्मनि येवंविधाङ्गनानां भवेत्ता त्वं मम जीवितं द्वितीयं बहिश्चरं जानीथाः । मद्भार्यां बुध्येथाः । कीदृशी । या तन्वी कृशाङ्गी । श्यामैकवारप्रसूता । तरुणीत्यर्थः । शिखरदशना तीक्ष्णदन्ता । पक्वं यद्विम्बफलं तद्वदधरो यस्याः सा । मध्ये क्षामा कृशोदरी । चकितहरिणप्रेक्षणो त्रस्तकुरङ्गनयना । निम्ननाभिरतुन्दिला । श्रोणीभारान्नितम्बभारादलसगमना मन्थरयाता । स्तनाभोगेन च स्तोकं मनाङ्नम्रा नता । किं बहुना । युवतिविषये नारीमध्ये वेधसः आद्या सृष्टिरिव । आदौ ह्यनुद्वेगाद्रम्यं निर्माणं भवति । तां कीदृशीम् । परिमितकथां पेशलभाषिणीम् । मयि सहचरे पत्यौ दूरीभूते दूरस्थिते सति चक्रवाकीमिवैकां केवलाम् । यां च बालाममीषु गाढोत्कण्ठादुःसहेष्वहःसु व्रजत्सु शिशिरदग्धां कमलिनीमिव विरूपां संपन्नां मन्ये जाने । वाशब्द इवार्थे । तां जानीथाः इत्येतदपेक्षयात्र सर्वत्र द्वितीया ॥ ७९ ॥ ८० ॥

  नूनं तस्याः प्रवलरुदितोच्छूननेत्रं बहूनां
  निःश्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् ।
  हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वा-
  दिन्दोर्दैन्यं त्वदुपसरणक्लिष्टकान्तेर्बिभर्ति ॥ ८१ ॥

 तस्या वक्तुं निश्चितं त्वदुपसरणक्लिष्टकान्तेर्भवत्संपर्ककदर्थितशोभस्य शशिनो दैन्यं बिभर्ति विच्छायतां धत्ते । यतोऽसकलव्यक्ति न तथा प्रकटम् । कुतः । लम्बालकत्वात् । न हि विरहिणी केशान्संमार्जयति । कीदृशं तत् । प्रबलेनाविच्छिन्नेन रुदितेनोच्छूने नेत्रे यस्य । तथा श्वासपरंपराया उष्णत्वाद्भिन्नवर्णो नष्टकान्तिरधरो यस्य । हस्तन्यस्तं करविधृतम् ॥ ८१ ॥

  आलोके ते निपतति पुरा सा बलिव्याकुला वा
  मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती ।
  पृच्छन्ती वा मधुरवचनां शारिकां पञ्जरस्थां
  कञ्चिद्भर्तुः स्मरमि निभृते त्वं हि तस्य प्रियेति ॥ ८२ ॥

 मत्प्रियैवंविधा तवालोके दर्शनपथे पुरा निपतत्यचिराद्यास्यते । एवंविधान्व्यापारान्कुर्वतीं तां द्रक्ष्यसीत्यर्थः । कीदृशी । बलिव्याकुला देवपूजातत्परा । मम सादृश्यमनुकारं विरहवशात्तनु दुर्बलं भावगम्यं चित्तस्थितं लिखन्ती वा । मञ्जुवादिनी सारिकां पञ्जरस्थां पृच्छन्ती वा । किमित्याह । हे निभृते विनीते कच्चिद्भर्तुः स्मरसि मत्पतिं ध्यायसि । यस्मात्त्वं तस्यातीव प्रिया । पुरा निपततीति यावत्पुरानिपातयोर्लट् ॥ ८२ ॥

  उत्सङ्गे वा मलिनवसने सोम्य निक्षिप्य वीणां
  मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा ।
  तन्त्रीरार्द्रा नयनसलिलैः सारयित्वा कथंचि-
  द्भूयो भूयः स्वयमपि कृतां मूर्छनां विस्मरन्ती ॥ ८३ ॥

 धूसराम्बरेऽङ्के वीणां निधाय गेयमुद्गातुकामा वा । सालोके ते निपततीति सम्बन्धः । कीदृशं गेयम् । मम गोत्रं नामाङ्कचिह्नं यस्य । विरचितानि पदानि शब्दा यस्य । पदस्थो हि स्वरसंघातो गेयम् । मदीयनामान्वितमित्यर्थः । अस्रुभिर्नेत्रजलैरार्द्राः क्रूतास्तन्त्रीः क्लेशेन सारयित्वा योजयित्वा स्वयमपि दत्तां मूर्छनां मारणां विस्मरन्ती । चेतमोऽस्वास्थ्यात् ॥ ८३ ॥


.

  शेषान्मासान्गमनदिवसप्रस्तुतस्यावधेर्वा
  विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः ।
  संयोगं वा हृदयनिहितारम्भमास्वादयन्ती
  प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः ॥ ८४ ॥

 गमनदिवसात्प्रवृत्तो योऽवधिर्वर्षाख्यस्तस्य शेषान्मासानवनौ भुवि विन्यस्यन्ती स्थापयन्ती । कैः । देहल्यां द्वारविशेषे द्वारपूजार्थं दत्तैः पुष्पैर्या गणना तया । रेखापदेषु पुष्पाणि दत्त्वेत्यर्थः । हृदयनिहितारम्भं मनोरथरचितं मत्संगमं वास्वादयन्त्यनुभवन्ती । कथमवगच्छस्येतादृशान्व्यापारान्कुर्वतीत्याह । यम्मादिष्टवियोगे विरहिणीनां प्रायेणैवंविधा एव विनोदाः केलयो भवन्ति ॥ ८४ ॥

  आद्ये बद्धा विरहदिवसे या शिखादाम हित्वा
  शापस्यान्ते विगलितशुचा या मयोन्मोचनीया ।
  स्पर्शक्लिष्टामयमितनखेनासकृत्सारयन्तीं
  गण्डाभोगात्कठिनविषमादेकवेणीं करेण ॥ ८५ ॥

  सव्यापारामहनि न तथा खेदयेद्विप्रयोगः
  शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते ।
  मत्संदेशैः मुखयितुमतः पश्य साध्वीं निशीथे
  तामुन्निद्रामवनिशयनासन्नवातायनस्थः ॥ १६ ॥

 तां सखीमुन्निद्रा सतीं त्वमत: कारणान्निशीथेऽर्धरात्रे मत्संदेशैः सुखयितुं पश्येर्न तु दिवसे । कुत इत्याह । सव्यापारत्वादहनि तां विरहो न तथा दुःखयेद्यथा रात्रौ शङ्के संभावये । यतो निर्विनोदां चित्रव्यापारादिवर्जिताम् । अत एव गुरुतरशुचमतिदुःखिताम् । कोदृशीं ताम् । एवंविधामेकां वेणीं कठोरपरुषात्कपोलफलकादघटितकरजेन पाणिना मारयन्तीमालोकार्थमपास्यन्तीम् । कीदृशीं वेणीम् । याद्ये प्रथमे विरहदिवसे वियोगदिने चूडाशेखरमपास्य तया वेष्टिता । या च नष्टशोकेन मया मोचमीया । एवं ह्येष विरहाचारः । स्नेहाभावाच्च स्पर्शे क्लिष्टां परुषाम् । त्वं कीदृशः । अवनी भुवि न तु खट्टायां यच्छयनं तल्पे तस्यासन्ने निकटे वातायने गवाक्षे तिष्ठति यः स तथोक्तः ॥ ८५ ॥ ८६ ॥

  आधिक्षामां विरहशयने संनिकीर्णैकपार्श्वां
  प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः ।
  मत्संयोगः कथमुपनमेत्स्वप्नजोऽपीति निद्रा-
  माकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम् ॥ ८७ ॥

 अन्यच्च कोदृशीं ताम् । आधिक्षामां चित्तपीडाकृशाम् । अत एव यादृशे तादृशे विरहशयने संनिकीर्णं क्षिप्तमेकं पार्श्वं यया । अतश्चामावस्यायां प्राचीमूले पूर्वदिङ्मुखे कलामात्रशेषां हिमांशोश्चन्द्रमसे मूर्तिमिवेत्युपमा । तथा निद्रामभिलषन्तीम् । किमर्थम् । मया सह कथं नाम स्वप्ने समागमो घटेतेति । नयनसलिलोत्पीडेन नेत्राम्बुपूरेण रुद्धावकाशां निवृत्तप्रसराम ॥ ८७ ॥

  निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं
  शुद्धस्नानात्परुषमलकं नूनमागण्डलम्बम् ।
  नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या
  तामेवोष्णैर्विरहशयनेष्वस्रुभिर्यापयन्तीम् ॥ ८८ ॥

 दीर्घोष्णत्वादोष्ठपल्लवदाहिनोच्छ्वासेनालकं नूनमुत्क्षिपन्तीमपास्यन्तीम् । कीदृशम् । शुद्धस्नानात्पानीयमात्राभिषेकेण परुषं रूक्षम् । यदि हि सा मङ्गलार्थं कदाचित्स्नाति तत्सुरभितैलामलकादिशून्येन तोयमात्रेण । आगण्डं लम्बत इत्यागण्डलम्बं कपोलस्रस्तम् । तथा मया सहेच्छारतैर्या निशा क्षणवदतिवाहिता तामेवोष्णैर्बाष्पैर्विरहशय्यायां रोदनेन मासमिव यापयन्तीं नयन्तीम् ॥ ८८ ॥

  पादानिन्दोरमृतशिशिराञ्जालमार्गप्रविष्टा-
  न्पूर्वप्रीत्या गतमभिमुखं मंनिवृत्तं तथैव ।
  चक्षुः खेदात्सजलगुरुभिः पक्ष्मभिश्छादयन्ती
  साभ्रेऽह्नीव स्थलकमलिनीं न प्रबुद्धां न मुप्ताम् ॥ ८९ ॥

 सबाष्पत्वाद्गुरुभिर्दुःसहेः पक्ष्मभिर्लोमभिः खेदाच्चक्षुराच्छादयन्तीं स्थगयन्तीम् । कीदृशम् । पीयूषशीतलान्वातायनप्रविष्टामिन्दोः पादान्किरणान्पूर्वप्रीत्या संमुखं गतं प्रसृतम् । ततो मद्विरहेण खेदकारित्वात्तथैव संनिवृत्तम् । यद्वदेव रभसाद्गतं तद्वदेव प्रत्यागतमित्यर्थः । अतश्चाक्ष्णोः स्थगनान्न प्रबुद्धां न सुप्ताम् । नेत्रनिमीलनात्प्रबोधाभावो निद्राभावश्च स्वापशून्यतया । अतश्च साभ्रेऽहनि स्थलकमलिनीमिवेत्युपमा । सा हि साभ्रत्वान्न प्रबुद्धा दिनवशाच्च न सुप्ता । पूर्वेवात्र वाक्यत्रये क्रिया ॥ ८९ ॥

 कथमेवंविधामेतामस्वस्थामवैषीत्याह ।

  जाने सख्यास्तव मयि मनः संभृतस्नेहमस्मा-
  दित्थंभूतां प्रथमविरहे तामहं तर्कयामि ।
  वाचालं मां न खलु सुभगंमन्यभावः करोति
  प्रत्यक्षं ते निखिलमचिराद्भ्रातरुक्तं मया यत् ॥ ९० ॥

.  तस्या भवद्वयस्याया यतो मयि मनः संभृतस्नेहमतिप्रीतिमदतः कारणादित्थं भूतामेवंविधां दशामवाप्तां तामहमाद्यवियोगे तर्कयाम्युत्प्रेक्षे । न च स्नेह एव त्वयि तस्या नास्तीति वक्तुं युज्यत इत्याह । सुभगमिष्टमात्मानं मन्यते सुभगंमन्यः । तद्भावो मां नैव वाचालं यत्किंचनभाषिणं कुरुते । तस्माद्यत्तव मयोक्तमेतदशेषं तवाचिरात्प्रत्यक्षम् । अवश्यं त्वमेवंविधां तो द्विदिनैर्द्रक्ष्यसीत्यर्थः ॥ ९०॥

  सा संन्यस्ताभरणमबला पेलवं धारयन्ती
  शय्योत्सङ्गे निहितमसकृदुःखदुःखेन गात्रम् ।
  त्वामप्यस्रं नवजलमयं मोचयिष्यत्यवश्यं
  प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥ ९१ ॥

 साबला कृशाङ्गीदृशं देहं वहन्ती निश्चेतनमपि त्वां नतजलमयमस्रमवश्यं त्याजयिष्यति । कीदृशं गात्रम् । पेलवं कृशं सुकुमारम् । अत एव संन्यस्ताभरणं त्यक्तमण्डनम । तथा तल्पपृष्ठे निक्षिप्तमप्यतिक्लेशेन बिभ्रती । यद्येवंविधा सा किमित्यहं रोदिमीत्याह । यस्माद्य आर्द्रान्तरात्मा सरसचित्तः स सर्वः प्रायेण करुणावृत्तिः कृपाशीलो भवति । त्वं च सजलत्वादार्द्रान्तरः । करुणा कृपैव वृत्तिर्व्यापारो यस्य स करुणावृत्तिः । कृपार्थवृत्तेः करुणाशब्दस्य भाषितपुंस्कत्वाभावान्न पुंवद्भावः । दुःखदुःखेनेत्याधिक्ये निर्वचनम् । दुहेरिव मुचेरपि विकर्मकत्वात्त्वामस्रं मोचयिष्यतीति ॥ ९१ ॥

  रुद्धापाङ्गप्रसरसलकैरञ्जनस्नेहशून्यं
  प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् ।
  त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या
  मीनक्षोभाकुलकुवलयश्रीतुलामेष्यतीति' ॥ ९२ ॥

 भवति निकटस्थे सति तस्या हरिणनयनाया नेत्रमपरिस्पन्दित्वादनिमेषोत्पलनचटुलोत्पलशोभामाम्यं प्राप्स्यतीत्याशङ्के संभावयामीति शुभसूचनमत्र । स्त्रीणां हि वामातिक्षिस्फुरणमानन्दमासन्नमाह । कीदृशं नयनम् । लम्बैरलकैरुद्धापाङ्गप्रसरं निवृत्तकटाक्षक्षेपम् । शोकाच्चाञ्जनस्नेहेन रहितम् । तथा मद्यम्य वर्जनाद्विस्खलितभ्रूविनामम ॥ ९२ ॥

  वामो वास्याः कररुहपदैर्मुच्यमानो मदीये-
  मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या ।
  संभोगान्ते मम समुचितो हस्तसंवाहनानां
  यास्यत्यूरूः सरसकदलीस्तम्भगौरश्चलत्वम् ॥ ९३ ॥

 त्वय्यामन्ने वामो वोरुरस्याश्चलत्वं यास्यति स्फुरिष्यति । वाशब्दो नयनस्पन्दापेक्षया विकल्पे । कीदृशोऽसौ । मामकैर्नखक्षतैर्वर्ज्यमानः । नित्याभ्यस्तं च मौक्तिककलापं विधिवैधुर्यात्त्याजित उपेक्षितः । शैत्यार्थं हि तत्र तस्य करणमभूत् । तथा सुरतसमाप्तौ मम करोपमर्दनयोग्यः । अभिनवकदलीकाण्डवच्च गौरः श्वेतः ॥ ९३ ॥

  तस्मिन्काले जलद दयिता लब्धनिद्रा यदि स्या-
  दन्वास्यैनां' स्तनितविमुखो याममात्रं सहस्व ।
  मा भूदस्याः प्रणयिनि मयि स्वप्नलभ्ये कथंचि-
  त्सद्यः कण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥ ९४ ॥

 हे जलद तस्मिन्कालेऽर्धरात्रसमये प्रिया चेत्सुप्ता भवेत्तदेनामन्वास्य सेवित्वा त्यक्तगर्जितस्त्वं क्षणमात्रं सहस्व प्रतीक्षेथाः । मा स्म तां बोधयः । किमर्थमित्याह । मयि प्रेयसि कथंचिद्दैवात्स्वप्नासादिते सति तस्या गाढोपगूढं दृढालिङ्गनं सद्यस्तत्क्षणं कण्ठच्युतभुजलताग्रन्थि गलभ्रष्टबाहुवल्लीपाशं मा भूत् । आश्लेषविच्छेदो मा स्म भवदित्यर्थः । नूनं मा मामालिङ्गितमात्मना स्वप्ने द्रक्ष्यति । उपगूढशब्दो भावे । अन्वासनं सेवनम् । यथा । अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजमिति । स्थाणुं तपस्यन्तमधित्यकायाम् । अन्वास्त इति च ॥ ९४ ॥

  तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन
  प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् ।
  विद्युगर्भे निहितनयनां त्वत्सनाथे गवाक्षो
  वक्तुं धीरस्तनितवचनैर्मानिनीं प्रक्रमेथाः ॥ ९५ ॥

 ततः सुप्तां तां मनस्विनीं निजोदकबिन्दुभिस्तुषारेण समीरणेनोत्थाप्य गम्भीरगर्जितैर्नैव वचसा वक्तुं प्रकमेथाः प्रारभेथाः । कीदृशीम् । शीतवातसंस्पर्शात्समाश्वस्तां मालतीजालकैः सह । सा हि प्रभाते विकसति । तथा भवदधिष्ठितत्वाद्विद्युद्गर्भे तडित्वति वातायने दिदृक्षया क्षिप्तचक्षुषम् ॥ ९५ ॥

 किं वच्यामीत्याह ।

  भर्तुर्मित्रं प्रियमविधवे विद्धि मामबुवाहं
  तत्संदेशान्मनसि निहितादागतं त्वत्समीपम् ।
  यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां
  मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि॥ ९६ ॥

 हे अविधवे पतिवति भावत्कस्य पत्युर्मित्रं प्रियमम्बुवाहं जीमूतं मां त्वं विद्धि जानीहि । तत्संदेशान्मनसि निहितात्तदीयं संदेशं चेतसि गृहीत्वा त्वन्निकटं प्राप्तम् । यश्चाम्बुवाहो मार्गे श्राम्यतां खेदं भजतां प्रोषितानां प्रवासिनां कदम्बकानि मन्द्रस्निग्धैर्मधुरारूक्षैर्गर्जितैस्त्वरयति प्रेरयति गृहाय । यतोऽबलानां कान्तानां वेणिमोक्षणे कबर्युन्मोचन उत्सुकान्युत्कानि । मेघालोके हि विरहो दुःसहः । यस्त्वरयतीत्यम्बुवाहापेक्षया पुंस्त्वं प्रथमपुरुषनिर्देशश्च । मित्रास्मदपेक्षया तु दुर्घटमेतत्स्यात् ॥ ९६ ॥

  इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा
  त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य संभाव्य चैव ।
  श्रोष्यत्यस्मात्परमवहिता सोम्य सीमन्तिनीनां
  कान्तोदन्तः' सुहृजुपनतः संगमात्किंचिदूनः ॥ ९७ ॥

 इत्थं त्वयोक्ते सति सा त्वामुद्वक्त्रा दृशा दृष्ट्वा धिया चोपपद्यते तद्दूतस्वमस्येति संभाव्य विचार्यातः परमवहितैकाग्राकर्णयिष्यति । यस्मात्पुरंध्रीणां मित्रेणानीतः कान्तोदन्तो वल्लभवृत्तान्तः संगमात्किंचिदूनः । प्रियसमागमे समाश्वासोत्पादात्प्रियसंगमनिभ इत्यर्थः । कमिव का वीक्ष्येत्याह । पवनतनयं हनूमन्तं मैथिली सीता यथा पूर्वं दृष्टवती दूतं च संभावितवती । उत्कठ्योच्छ्वसितं मुक्तोच्छ्वासं हृदयं यस्याः सा तथोक्ता ॥ ९७ ॥

  तामायुष्मान्मम च वचनादात्मना चोपकर्तुं
  ब्रूयादेवं तव सहचरो रामगिर्याश्रमस्थः ।
  अव्यापन्नः कुशलमबले पृच्छति वां वियुक्तः
  पूर्वाशास्यं सुलभविपदां प्राणिनामेतदेव ॥ ९८ ॥

 आयुष्मान्भवान्मदीयेन वचमा स्वयं चोपकर्तुं तामित्थं ब्रूयाद्वदेत् । यथा तव सहचरः पतिश्चित्रकूटासीनोऽव्यापन्नो जीवस्त्वां कुशलं पृच्छतीति । किमित्युभयगतकुशलकथनमेवादावित्याह । यस्मात्सुप्रापवि पत्तीनां शरीरिणामेतदेव पूर्वाशास्यं प्रथमाकाङ्क्षणीयं यत्स्वास्थ्यं नाम । आयुष्मानिति वचने कर्तृपदं न त्वामन्त्रणम् । ब्रूयादिति प्रथमपुरुषप्रयोगात् । आशास्यशब्देऽनुपसर्गाधिकारादेतिस्तुशासव्रिति क्यवभावः ॥ ९८ ॥

 ततः किमित्याह।

  अङ्गेनाङं तनु च तनुना गाढतप्तेन तप्तं
  सास्रेणास्रद्रवमविरतोत्कण्ठमुत्कण्ठितेन ।
  उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती
  संकल्पस्ते विशति विधिना वैरिणा रुद्धमार्गः ॥ ९९ ॥

 तव प्रेयान्दरवर्ती संकल्पैरुत्कण्ठावशादङ्गेनाङ्गं विशति वपुषा त्वद्देहं प्रवेष्टुमिच्छति । त्वयैक्यं यियासतीत्यर्थः । भिन्नयोश्चैक्यं सारूप्याद्भवतीति तयोरङ्गयोस्तनु च तनुनेति पृथग्विशेषणैः सादृश्यकथनेन ममानुरागतामाह । अयं द्रवतीत्यनुद्रम् । पचादित्वादच् । कम्पादात्मना नायातीत्याह । विधुरेण विधिना रुद्धवर्त्मा । वियोगस्य वर्षभोग्यत्वात् । तनु च तनुनेति चार्थाभावात्प्रतनु तनुतेति पठनीयम् ॥ ९९ ॥

  शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्ता-
  त्कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् ।
  सोऽतिक्रान्तः श्रवणविषयं लोचनानामगम्य-
  स्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥ १०० ॥

 स तव प्रियो मन्मुखेनेदं वक्ष्यमाणं त्वामाह ब्रवीति । स कः । यत्किल शब्दाख्येयं प्रकटवाच्यं तदपि सखीसंनिधाने व्याजं विधाय यस्तव कर्णे वक्तुं लोलः साकाङ्क्ष आसीत् । कुतो हेतोः । आननस्पर्शलोभात् । कर्णे कथनं हि तस्य त्वन्मुखस्पर्शसुखानुभवाय । कीदृशः सः । श्रवणविषयमतिकान्तोऽप्राप्तः । दूरस्थत्वात् । अत एव लोचनानामगम्यो नेत्रैर्द्रष्टुमशक्यः । उत्कण्ठया विरचितानि पदानि शब्दा यत्रेति कथनविशेषणम् ॥ १०० ॥

 इदं किमित्याह ।

  श्यामास्वङ्गं चकितहरिणप्रेक्षिते दृष्टिपातं
  गण्डच्छायां शशिनि शिखिनां बर्हभारेषु केशान् ।
  उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासा-
  न्हन्तैकस्थं क्वचिदपि न ते भीरु सादृश्यमस्ति ॥ १०१ ॥

 हे भीरु कातरे तव सारूप्यमेकस्थं कष्टं क्वचिदपि न विद्यते । यदालोक्यात्मानं समाश्वासयेयम् । तथा हि श्यामालतामु तवाङ्गमुत्प्रेक्षे । तद्वत्तनुत्वात् । चकित हरिणप्रेक्षणे च दृष्टिपातम् । त्रस्तसारङ्गवच्चटुलावलोकनात् । एवमुत्तरत्र यथायथं योज्यम् । कपोलकान्तिं मृगाङ्क उत्पश्यामि । मयूराणां कलापाटोपेषु कचभरम् । सूक्ष्मसरित्कल्लोलेषु भ्रूविलासान् । भीर्वित्यन्वर्थं नाम नारीणाम् । संज्ञापूर्वको विधिर नित्य इति ह्रस्वगुणाभावः ॥ १०१ ॥

  त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया-
  मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।
  अस्रैस्तावन्मुहुरूपचितैर्दृष्टिरालिप्यते मे
  क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः ॥ १०२ ॥

 भवतीं प्रणयकुपितां प्रीत्या कपितां धातुरागैः सिन्दूरादिरागैर्दृषत्स्वालिख्य प्रार्थनयात्मानं तव पादगतं कर्तुं यावदिच्छामि तावत्त्वदाकारस्य स्मरणाद्बाष्परसकृदुपचितैवृद्धैश्चक्षुषी ममाच्छाद्येते । अतश्च तस्मिन्नपि त्वदाकारे तत्रापि चित्रे क्रूरो विषमो विधिर्नावावयोः समागमं न क्षमते ॥ १०२ ॥

  मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतो-
  र्लब्धायास्ते कथमपि सति स्वप्नसन्दर्शनेषु ।
  पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां
  मुक्तास्थूलास्तरूकिसलयेष्वस्रुलेशाः पतन्ति ॥ १०३ ॥

 हे सति गुणवति तव स्वप्ने दैववशात्प्राप्ताया गाढालिङ्गनायाकाशे शून्य एव प्रसारितभुजं मां वीक्षमाणानां वनदेवतानां द्रुमपल्लवेषु मौक्तिकपृथवो वाष्पकणा असकृत् खलु न पतन्ति । अपि तु भ्रश्यन्त्येव । तादृशीं मे दशामालोक्य ता अपि कृपया रुदन्तितरामित्यर्थः ॥ १०३ ॥

  भित्त्वा मद्यः किसलयपुटान्देवदारुद्रुमाणां
  ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः ।
  आलिङ्गयन्ते गुणवति मया ते तुषाराद्रिवाताः
  पूर्वस्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ १०४ ॥

 हे गुणवति शीलान्विते सरलतरूणां तत्क्षणं पल्लवकवाटानुपमृद्य तद्द्रुमसम्बन्धिक्षीरस्रुतिसुगन्धयो ये हिमालयानिला दक्षिणेन प्रवृत्ता अस्यां दिशि वातुं प्रस्तुतास्ते मयाक्षिप्यन्ते । किमर्थम् । यदि किलैभिर्मारुतैः सहवासात्कदाचित्त्वदीयं शरीरं स्पृष्टं भवेत् । अतश्च । वाहि वात यतः कान्ता तां स्पृष्ट्वा मामपि स्पृशेः । बह्वेतत्कामयानस्य शक्यमेतेन जीवितुम् । दक्षिणेनेत्येनबन्तः ॥ १०४ ॥

  संक्षिप्येरन्क्षण इव कथं दीर्घयामास्त्रियामाः
  सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात् ।
  इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे
  गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥ १०५ ॥

 हे चञ्चललोचने गाढोष्माभिस्तीव्रसन्तापाभिस्त्वद्विरहचिन्ताभिर्मम मन इत्थं दुर्लभप्रार्थनं कृतम् । यद्यद्दुष्प्रापं तत्तदभिन्नलषामीत्यर्थः । तथा हि दीर्घप्रहरास्त्रियामा निशा निमेष इव कथं नाम संक्षिप्येरन्गच्छेयुः । तथा ग्रीष्ममध्याह्नादिष्वपि सकलासु दशासु दिनमतिमृदुरविप्रभं कथं स्यादिति । एतच्च दुर्लभम् । न हि निखिला क्षणदा क्षणवत्क्षीयते । न च दिनं सर्वदा मन्दातपं भवति । गाढोष्माभिरिति डावुभाभ्यामन्यतरम्याम । संक्षिप्येरन्निति कर्मकर्तरि ॥ १०५ ॥

  नन्वात्मानं बहु विगणयन्नात्मना नावलम्बे
  तत्कल्याणि त्वमपि सुतरां मा गमः कातरत्वम् ।
  कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा
  नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ १०६ ॥

 आत्मावस्थां प्रतिपाद्य संप्रति कर्तव्यतामाह । हे कन्याणि भद्रे तवापि नन्वात्मानं बहुविधं विगणयञ्जानन्स्वयमेव नावलम्बे न । अपि त्ववलम्ब एव । पामीत्यर्थः । तत्त्वमपि प्रिये कातरत्वमधैर्यं सुतरामत्यर्थं मा गमो मा यासीः । यस्मात्कस्य संसारिणो नित्यं सुखमुपनतं घटितमेकान्ततो नियमेन दुःखं वा । यत एताः सुखासुखरूपा दशा अवस्थाश्चक्रनेमिवत्कदाचिन्नीचैर्गच्छन्त्यधो यान्ति कदाचिच्चोपरि पृष्ठे । रथाङ्गधारा हि भ्रमन्ती क्रमेणाध उपरि च याति । तदुक्तम् । सुखं च दुःखं च भवाभवौ च लाभालाभौ मरणं जीवितं च । पर्यायशः सर्वमिह स्पृशन्ति तस्माद्धीरो न प्रहृष्येत शोचेत् ॥ नन्वभिमुखीकरणे । मा गम इति लृदित्वादङ् ॥ १०६ ॥

 मुखागमे कस्तव निश्चय इत्याह ।

  शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ
  मामानन्यान्गणय चतुरो लोचने मीलयित्वा ।
  पश्चादावां विरहगणितं तं तमात्माभिलाषं
  निर्वक्ष्यावः परिणतशरच्चन्द्रिकामु क्षपामु ॥ १०७ ॥

 कार्त्तिकशुक्लद्वादश्यां भुजगशयनाच्छेषतल्पादुत्थिते शार्ङ्गपाणौ हरौ मम शापान्तो भविष्यति । तदैव वर्षस्य परिपूर्णत्वात् । अतश्चाद्यारभ्य मासचतुष्टयं लोचने मीलयित्वा यथाकथंचिद्गमयातिवाहय । ततः पश्चात्संयोगे मति चिरकालगुणितं तीक्ष्णं तं तं नानाविधमात्मनो अभिलाषं कामं परिपक्वशरदज्योत्स्नासु निशास्वावां निर्वेक्ष्याव उपभुञ्जावहे । लोचननिमीलनेनात्र यथातथात्वं लक्ष्यते ॥ १०७ ॥

 इदानीं सुस्पष्टमभिज्ञानमाह ।

  भूयश्वाह त्वमपि शयने कण्ठलग्ना पुरा मे
  निद्रां गत्वा किमपि रूदती सस्वनं विप्रबुद्धा ।
  सान्तर्हासं कथितमसकृत्पृच्छतश्च त्वया मे
  दृष्टः स्वप्रे कितव रमयन्कामपि त्वं मयेति ॥ १०८ ॥

 स त्वप्रिय एतदुक्त्वा पुनरपि स्वामिदमाह । यथा पूर्वं भवती तल्पे मामालिङ्ग्य सुप्ता केनापि निमित्तेन सशब्दं रुदती विप्रबुद्धा विनिद्रा जाता । ततो रोदनहेतुमसकृत्पृच्छतो मम त्वयोक्तम् । हे कितव धूर्त कामपि वनितां रमयन्भवान्स्वप्ने मयावलोकितः । अत ईर्ष्याकोपेनाहमरुदमिति ॥ १०८ ॥

  एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा
  मा कौलीनादमितनयने मय्यविश्वासिनी भूः ।
  स्नेहानाहुः किमपि विरहह्रासिनस्ते ह्यभोगा-
  दिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥ १०९ ॥

 हे कुवलयाक्ष्येतस्मादभिज्ञानदानान्मां स्वस्थमवेत्य कौलीनाल्लोकापवादमात्रान्मयि त्वमविश्वासिनी निष्प्रत्यया मा भूः । तदेव कौलीनमाह । किमपि कुतोऽपि हेतोः स्नेहान्विरहह्रासिनो वियोगे तनूभवतो जना प्राहुः । यथा । प्रीतिः प्रवासाश्रयादिति । एतच्चायुक्तम् । यस्मात्ते स्नेहा अभोगाद्धेतोरिष्टे वस्तुनीप्सितेऽर्थ उपचितरसाः सन्तः प्रेम्णो राशीभवन्ति प्रीतिमयाः संपद्यन्ते । हृदयवल्लभविषये वियोगवशात्सहस्रगुणः स्नेहः संपद्यत इत्यर्थः । त्वयि च मम या प्रीतिस्तां त्वमेव जानासि । कौलीनं लोकापवादः ॥ १०९ ॥

 इत्थं संदेशमुक्त्वा प्रार्थनामभ्युपगमयितुमाह ।

  कञ्चित्सोम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे
  प्रत्याख्यातुं न खलु भवतो धीरतां तर्कयामि ।
  निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः
  प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥ ११० ॥

 हे सोम्य प्रियदर्शनैतन्मित्रकार्य कच्चिद्भवता व्यवसितमंगीकृतं मम । अवश्यमत्र त्वया व्यवसायवता भाव्यम् । प्रत्याख्यातुमत्र तव धैर्यं न लक्षयामि । तथा हि त्वमर्थितः सन्नब्रुवन्नपि चातकेभ्यस्तोयं वितरसि । यस्मान्महतामर्थिष्वभिमानार्थसंपादनमेव प्रतीपवचनम् । महान्तो हि कर्मणा ब्रुवन्ति न वचमा ॥ ११० ॥

 स एवमुक्त्वाशिषमाह ।

  एतत्कृत्वा प्रियमनुचितप्रार्थनावर्त्मनो मे
  सौहार्दाद्वा विधुर इति वा मय्यनुक्रोशबुद्ध्या ।
  इष्टान्देशान्विचर जलद प्रावृषा संभृतश्री-
  र्मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥ १११ ॥

 हे जलधरानुचितप्रार्थनावर्त्मनोऽननुरूपयाच्ञामार्गस्य ममैतत्संदेशहरणलक्षणं प्रियं विधाय ततस्त्वं वर्षाकालेऽर्जितदेहोन्नतिरभिमतं स्थानं वचर भ्रम । कुतो विधाय । स्नेहेन प्रीत्या । स्नेहाभावश्चेद्विधुरो दुःखितोऽयमिति मयि कृपाधिया वा । किं बहुना । एवमनेन प्रकारेण मद्वत्तवापि निमेषमपि तडित्प्रियया विरहो मा भूदिति भद्रम् ॥ १११ ॥

जति राजानकानन्ददेवात्मजः
परमात्मचिह्नापरनाम-
वल्लभदेवविरचिता
मेघदूतविवृतिः
समाप्ता ॥