मैत्रायणीसंहिता/काण्डं २/प्रपाठकः ०९
अग्निचितिः
2.9.1 अनुवाकः1
आ त्वा वहन्तु हरयः सुचेतसः श्वेतैरश्वैरिह केतुमद्भिः ।
वातजवैर् बलवद्भिर्मनोजवैरस्मिन् यज्ञे मम हव्याय शर्व ॥
देवानां च ऋषीणां चासुराणां च पूर्वजं ।
महादेवं सहस्राक्षं शिवमावाहयाम्यहं ॥
तत् पुरुषाय विद्महे महादेवाय धीमहि ।
तन् नो रुद्रः प्रचोदयात् ॥
तद् गाङ्गौच्याय विद्महे गिरिसुताय धीमहि ।
तन् नो गौरी प्रचोदयात् ॥
तत् कुमाराय विद्महे कार्त्तिकेयाय धीमहि ।
तन् नः स्कन्दः प्रचोदयात् ॥
तत् कराटाय विद्महे हस्तिमुखाय धीमहि ।
तन् नो दन्ती प्रचोदयात् ॥
तच्चतुर्मुखाय विद्महे पद्मासनाय धीमहि ।
तन् नो ब्रह्मा प्रचोदयात् ॥
तत् केशवाय विद्महे नारायणाय धीमहि ।
तन् नो विष्णुः प्रचोदयत् ॥
तद् भास्कराय विद्महे प्रभाकराय धीमहि ।
तन् नो भानुः प्रचोदयात् ॥
तत् सोमराजाय विद्महे महाराजाय धीमहि ।
तन् नश्चन्द्रः प्रचोदयात् ॥
तज् ज्वलनाय विद्महे वैश्वानराय धीमहि ।
तन् नो वह्निः प्रचोदयात् ॥
तत्त्यजपाय विद्महे महाजपाय धीमहि ।
तन् नो ध्यानः प्रचोदयात् ॥
तत् परमात्माय विद्महे वैनतेयाय धीमहि ।
तन् नः सृष्टिः प्रचोदयात् ॥
2.9.2 अनुवाकः2
नमस्ते रुद्र मन्यव उतो ता इषवे नमः ।
नमस्ते अस्तु धन्वने बाहुभ्यां उत ते नमः ॥
या ते रुद्र शिवा तनूरघोरापापकाशिनी ।
तया नस्तन्वा शंतमया गिरिशन्ताभिचाकशीहि ॥
यां इषुं गिरिशन्त हस्ते बिभर्य्शस्तवे ।
शिवां गिरिश तां कुरु मा हिंसीः पुरुषं जगत् ॥
शिवेन वचसा त्वा गिरिशाछा वदामसि ।
यथा नः सर्वा इज्जनः संगमे सुमना असत् ॥
अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् ।
अहींश्च सर्वान् जम्भयन्त्सर्वाश्च यातुधान्योऽधराचीः परासुव ॥
असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ।
ये चेमे अभितो रुद्रा दिक्षु श्रिताः सहस्रशोऽवैषां हेड ईमहे ॥
असौ योऽवसर्पति नीलग्रीवो विलोहितः ।
उतैनं गोपा अदृश्रन्नुतैनं उदहार्यः ।
उतैनं विश्वा भूतानि स दृष्टो मृडयातु नः ॥
नमो नीलकपर्दाय सहस्राक्षाय मीढुषे ।
अथो ये अस्य सत्वान इदं तेभ्योऽकरं नमः ॥
नमस्ता आयुधायानातताय धृष्णवे ।
उभाभ्यां उत ते नमो बाहुभ्यां तव धन्वने ॥
प्रमुञ्च धन्वनस्त्वमुभयोरार्त्न्योर् ज्याम् ।
याश्च ते हस्ता इषवः परा ता भगवो वप ॥
अवतत्य धनुष्ट्वं सहस्राक्ष शतेषुधे ।
प्रशीर्य शल्यानां मुखं शिवो नः सुमना भव ॥
विज्यं धनुः कपर्दिनो विशल्यो बाणवं उत ।
अनेशन्नस्य या इषव आभूरस्य निषङ्गथिः ॥
परि ते धन्वनो हेतिर् अस्मान् वृणक्तु विश्वतः ।
अथो य इषुधिस्तवारे अस्मिन् निधेहि तं ॥
या ते हेतिर् मीढुष्टम शिवं बभूव ते धनुः ।
तयास्मान् विश्वतो त्वमयक्ष्मया परिभुज ॥
2.9.3 अनुवाकः3
नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो , नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो , नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो , नमः शष्पिञ्जराय त्विषीमते पथीनां पतये नमो , नमो बभ्लुशाय व्याधिने अन्नस्य पतये नमो , नमो रुद्रायाततायिने क्षेत्रस्य पतये नमो , नमो भवस्य हेत्यै जगतस्पतये नमो , नमः सूतायाहन्त्वाय वनानां पतये नमो , नमो रोहिताय स्थपतये वृक्षाणां पतये नमो , नमो मन्त्रिणे वाणिजाय, कक्षाणां पतये नमो , नमो भुवन्तये वारिवस्कृताय , ओषधीनां पतये नमो , नमः सहमानाय निव्याधिने , आव्याधिनीनां पतये नमो , नम आक्रन्दयत उच्चैर्घोषाय सत्वानां पतये नमो , नमः कृत्न्पवीताय धावते पत्तीनां पतये नमो , नमो निषङ्गिणे ककुभाय स्तेनानां पतये नमो , नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो , नमो निचेरवे परिचराय , अरण्यानां पतये नमो , नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो , नमः सृगायिभ्यो जिघांसद्भ्यो मुष्णतां पतये नमो , नमोऽसिमद्भ्यो नक्तं चरद्भ्यः प्रकृन्तानां पतये नमो, नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नमः ॥
2.9.4 अनुवाकः4
नम इषुकृद्भ्यो धनुष्कृद्भ्यश्च वो नमो , नमा इषुमद्भ्यो धन्वायिभ्यश्च वो नमो , नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो , नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो , नमोऽस्यद्भ्यो विध्यद्भ्यश्च वो नमो, नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो , नमः शयानेभ्या आसीनेभ्यश्च वो नमो , नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो , नमः सभाभ्यः सभापतिभ्यश्च वो नमो , नमोऽश्वेभ्योऽश्वपतिभ्यश्च वो नमो , नम आव्याधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो , नमा उगणाभ्यस्तृंहतीभ्यश्च वो नमो , नमो गणेभ्यो गणपतिभ्यश्च वो नमो , नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो , नमः कृछ्रेभ्यः कृछ्रपतिभ्यश्च वो नमो , नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो , नमः सेनाभ्यः सेनानीभ्यश्च वो नमो , नमो रथिभ्यो वरूथिभ्यश्च वो नमो , नमः क्षत्तॄभ्यः संग्रहीतृभ्यश्च वो नमो , नमो बृहद्भ्योऽर्भकेभ्यश्च वो नमो , नमो युवभ्य आशीनेभ्यश्च वो नमो नमः ॥
2.9.5 अनुवाकः5
नमो ब्राह्मणेभ्यो राजन्येभ्यश्च वो नमो , नमः सूतेभ्यो विश्येभ्यश्च वो नमो , नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो , नमः कुलालेभ्यः कर्मारेभ्यश्च वोनमो, , नमो निषादेभ्यः पुञ्जिष्टेभ्यश्च वो नमो , नमः श्वनीभ्यो मृगयुभ्यश्च वो नमो , नमः श्वभ्यः श्वपतिभ्यश्च वो नमो , नमो भवाय च शर्वाय च, नमो रुद्राय च पशुपतये च, नमो व्युप्तकेशाय च कपर्दिने च, नमो नीलग्रीवाय च शितिकण्ठाय च, नमः सहस्राक्षाय च शतधन्वने च, नमो गिरिशाय च शिपिविष्टाय च, नमो मीढुष्टराय चेषुमते च, नमो ह्रस्वाय च वामनाय च, नमो बृहते च वर्षीयसे च, नमो वृद्धाय च सुवृध्वने च, नमोऽग्रीयाय च प्रथमाय च, नम आशवे चाजिराय च, नमः शीभाय च शीघ्राय च, नमा ऊर्म्याय चावस्वन्याय च, नमो द्वीप्याय च स्रोतस्याय च ॥
2.9.6 अनुवाकः6
नम आशुषेणाय चाशुरथाय च, नमो बिल्मिने च कवचिने च, नमो वर्मिणे च वरूथिने च, नमः शूराय चावभिन्दते च, नमः श्रुताय च श्रुतसेनाय च, नमो ज्यायसे च कनीयसे च, नमः पूर्वजाय चापरजाय च, नमो मध्यमाय चापगल्भाय च, नमो जघन्याय च बुध्न्याय च, नमः सोभ्याय च प्रतिसराय च, नमो याम्याय च क्षेम्याय च, नमोऽवसान्याय च श्लोक्याय च, नम उर्वर्याय च खल्याय च, नमो वन्याय च कक्ष्याय च, नमः श्रवाय च प्रतिश्रवाय च, नमः पथ्याय च स्रुत्याय च, नमो नाद्याय च वैशन्ताय च, नमो नीप्याय च भिद्याय च, नमोऽवट्याय च कूप्याय च, नमः सूद्याय च सरस्याय च ॥
2.9.7 अनुवाकः7
नमो दुन्दुभये चाहननीयाय च, नमो धृष्णवे च प्रमृशाय च, नमो निषङ्गिणे चेषुधिमते च, नमस्तिग्मेषवे चायुधिने च, नमः स्वायुधाय च सुधन्वने च, नमो मेघ्याय च विद्युत्याय च, नमो वर्ष्याय चावर्ष्याय च, नमो वीध्रियाय चातप्याय च, नमो वात्याय च रेष्मण्याय च, नमो वास्तव्याय च वास्तुपाय च, नमः सोमाय च रुद्राय च, नमस्ताम्राय चारुणाय च, नमः शंगवे च पशुपतये च, नम उग्राय च भीमाय च, नमो ऽग्रेवधाय च दूरेवधाय च, नमो हन्त्रे च हनीयसे च, नमो वृक्षेभ्यो हरिकेशेभ्यो , नमस्ताराय, नमः शंभवे च मयोभवे च, नमः शंकराय च मयस्कराय च, नमः शिवाय च शिवतराय च ॥
2.9.8 अनुवाकः8
नमः शिखण्डिने च पुलस्तिने च, नमः किंशिलाय च क्षेणाय च, नम इरिण्याय च प्रपथ्याय च, नमो गृह्याय च गोष्ठ्याय च, नमो गेह्याय च तल्प्याय च, नमः कूल्याय च तीर्थ्याय च, नमः पार्याय चावार्याय च, नमः प्रतरणाय चोत्तरणाय च, नमः प्रवाह्याय च सिकत्याय च, नमः फेन्याय च शष्प्याय च, नमो नीवेष्याय च हृद्याय च, नमः काट्याय च गह्वरेष्याचाय च, नमः शुष्याय च हरित्याय च, नमः पांसव्याय च रजस्याय च, नमो लोप्याय चोलपाय च, नमा ऊर्म्याय च सूर्म्याय च, नमः पर्णाय च पर्णशादाय च, नमोऽपगुरमाणाय चाभिघ्नते च, नम आखिदते च प्रखिदते च, नम आखिदाय च प्रखिदाय च ॥
2.9.9 अनुवाकः9
नमो गिरिकेभ्यो देवानां हृदयेभ्यो , नमो विचिन्वत्केभ्यो , नम आक्षिणकेभ्यो , नम आनृहतेभ्यः ॥
द्रापे अन्धसस्पते दरिद्र नीललोहित ।
एषां पशूनामासां प्रजानां मा भैर्मा रुङ् मो च नः किं चनाममत् ॥
इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतीः ।
यथा नः शमसद् द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् ॥
या ते रुद्र शिवा तनूः शिवा विश्वाह भेषजा ।
शिवा रुतस्य भेषजा तया नो मृड जीवसे ॥
परि नो रुद्रस्य हेतिर् वृणक्तु परि त्वेषस्य दुर्मतिरघायोः ।
अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृड ॥
मीढुष्टम शिवतम शिवो न एधि सुमना भव ।
अवतत्य धनुष् ट्वमक्रुद्धः सुमना भव ।
पिनाकं बिभ्रदागहि कृत्तिं वसाना उच्चर ॥
व्यकृड विलोहित नमस्ते अस्तु भगवः ।
यास्ते सहस्रं हेतयोऽन्यांस्ते अस्मन् निवपन्तु ताः ॥
सहस्राणि सहस्रशो हेतयस्तव बाह्वोः ।
तासां ईशानो मघवन् पराचीना मुखा कृधि ॥
असंख्याता सहस्राणि ये रुद्रा अधि भूम्याम् ।
तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥
ये अस्मिन्महत्यर्णवे अन्तरिक्षे भवा अधि ।
तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥
ये नीलग्रीवाः शितिकण्ठा दिवं रुद्रा उपश्रिताः ।
तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥
ये नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः ।
तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥
ये वृक्षेषु शष्पिञ्जरा नीलग्रीवा विलोहिताः ।
तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥
ये भूतानामधिपतयो विशिखासः कपर्दिनः ।
तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥
ये पथां पथिरक्षय ऐलमृडा वो युधः ।
तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥
ये तीर्थानि प्रचरन्ति सृगवन्तो निषङ्गिणः ॥
तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥
ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ।
तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥
य एतावन्तो वा भूयांसो वा दिशो रुद्रा वितस्थिरे ।
तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥
नमो अस्तु रुद्रेभ्यो ये दिवि येषां वर्षमिषव, स्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वा, स्तेभ्यो नमो अस्तु ते नो मृडन्तु, ते यं द्विष्मो यश्च नो द्वेष्टि तं एषां जंभे दध्मो, नमो अस्तु रुद्रेभ्यो ये अन्तरिक्षे येषां वाता इषव, स्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वा, स्तेभ्यो नमो अस्तु, ते नो मृडन्तु, ते यं द्विष्मो यश्च नो द्वेष्टि तं एषां जंभे दध्मो , नमो अस्तु रुद्रेभ्यो ये पृथिव्यां येषामन्नमिषव, स्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वा, स्तेभ्यो नमो अस्तु, ते नो मृडन्तु, ते यं द्विष्मो यश्च नो द्वेष्टि तं एषां जंभे दध्मः ॥
2.9.10 अनुवाकः10
अघोरेभ्यो अथ घोरेभ्यो अघोरघोरतरेभ्यश्च ।
सर्वतः शर्वशर्वेभ्यो नमस्ते रुद्र रूपेभ्यो नमः ॥
यः पथः समनुयाति स्वर्गं लोकं गां इव सुप्रणीतौ ।
तेन त्वं भगवान् याहि पथा ॥
इमे हिरण्यवर्णाः स्वं योनिमाविशन्तौ ॥
गच्छ त्वं भगवान् पुनरागमनाय पुनर्दर्शनाय सहदेव्याय सहवृषाय सहगणाय सहपार्षदाय यथाहुताय नमोनमाय नमःशिवाय नमस्ते अस्तु, मा मा हिंसीः ॥
आवाहितमावाहित, नमस्कृतं नमस्कृत, विसर्जितं विसर्जित, पथं गच्छ पथं गच्छ, दिवं गच्छ दिवं गच्छ, स्वर्गच्छ स्वर्गच्छ, ज्योतिर्गच्छ ज्योतिर्गच्छ नमस्ते अस्तु मा मा हिंसीः ॥