मैत्रायणीसंहिता/काण्डं २/प्रपाठकः १३

अग्निचितिः

2.13.1 अनुवाकः1
समन्या यन्त्य् उपयन्त्यन्याः समानं ऊर्वं नद्यः पृणन्ति ।
तमु शुचिं शुचयो दीदिवांसं अपां नपातं परितस्थुरापः ॥
हिरण्यवर्णः स हिरण्यसंदृगपां नपात् सेदु हिरण्यवर्णः ।
हिरण्ययात् परि योनेर् निषद्य हिरण्यदा ददत्यन्नमस्मै ॥
हिरण्यवर्णाः शुचयः पावका यासु जातः कश्यपो यास्विन्द्रः ।
अग्निं या गर्भं दधिरे विरूपास्ता ना आपः शं स्योना भवन्तु ॥
यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यन् जनानां ।
मधुश्चुतः शुचयो याः पावकास्ता ना आपः शं स्योना भवन्तु ॥
यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति ।
याः पृथिवीं पयसोन्दन्ति शुक्रास्ता ना आपः शं स्योना भवन्तु ॥
शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोपस्पृशत त्वचं मे ।
सर्वं अग्नींरप्सुषदो हुवे मयि वर्चो बलं ओजो निधत्त ॥
यददः संप्रयतीरहा अनदता हते ।
तस्मादा नद्यो नाम स्थ ता वो नामानि सिन्धवः ॥
संप्रच्युता वरुणेन यच् शीभं समवल्गत ।
तदाप्नोदिन्द्रो वो यतीस्तस्मादापो अनुष्ठन ॥
अपकामं स्यन्दमाना अवीवरत वो हि कं ।
इन्द्रो वः शक्तिभिर्देवीस्तस्माद्वार्नाम वो हितं ॥
एको वो देवो अप्यतिष्ठत् स्यन्दमाना यथावशम् ।
उदानिषुर्महीरिति तस्मादुदकमुच्यते ॥
आदित् पश्याम्युत वा शृणोम्या मा घोषो गच्छति वार्वाचंसां ।
तीव्रो रसो मधुपृचामरंगम आ मा प्राणेन सह वर्चसागन् ॥
आपो देवीर्घृतमिन्वा ऊ आपो अग्नीषोमौ बिभ्रत्यापा इत् ताः ।
मन्ये भेजानो अमृतस्य तर्हि हिरण्यवर्णा अतृपं यदा वः ॥
आपो हि ष्ठेति तिस्रः ॥
दिवि श्रयस्व , अन्तरिक्षे यतस्व, पृथिव्याः संभव, भ्राजं गच्छ ॥

2.13.2 अनुवाकः2
तपो योनिरसि, विश्वाभिस्त्वा धीभिरछिद्रामुपदधामि , ऋतं योनिः, सत्यं योनिः , ब्रह्म योनिः, क्षत्रं योनिः, पृथिवी योनिः , अन्तरिक्षं योनिः , द्यौर् योनिः , दिशो योनिः ॥

2.13.3 अनुवाकः3
प्राणादपानं संतनु , अपानाद् व्यानं संतनु, व्यानाच्चक्षुः संतनु, चक्षुषः श्रोत्रं संतनु, श्रोत्रात्पृथिवीं संतनु, पृथिव्या अन्तरिक्षं संतनु , अन्तरिक्षाद्दिवं संतनु, दिवो दिशः संतनु, दिग्यः ि स्वर्गं लोकमनुसंतनु ॥

2.13.4 अनुवाकः4
ऋचा त्वा छन्दसा सादयामि, वषट्कारेण त्वा छन्दसा सादयामि, हिंकारेण त्वा छन्दसा सादयामि, प्रस्तावेन त्वा छन्दसा सादयामि , उद्गीथेन त्वा छन्दसा सादयामि, प्रतिहारेण त्वा छन्दसा सादयामि, स्तुतेन त्वा छन्दसा सादयामि, निधनेन त्वा छन्दसा सादयामि ॥

2.13.5 अनुवाकः5
दूतं वो विश्ववेदसं हव्यवाहममर्त्यम् ।
यजिष्ठम् ऋञ्जसे गिरा ॥
अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे ।
चित्रभानुं रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चं ॥
अयमिह ॥
दधन्वे वा यद् ईमनु वोचद् ब्रह्माणि वेरु तत् ।
परि विश्वानि काव्या नेमिश्चक्रमिवाभुवत् ॥
ओभे सुश्चन्द्र विश्पते दर्वी श्रीणीष आसनि ।
उतो ना उत् पुपूर्या उक्थेषु शवसस्पता इषं स्तोतृभ्या आभर ॥

2.13.5 अनुवाकः6
इन्द्रो दधीचो अस्थभिर् वृत्राण्यप्रतिष्कुतः ।
जघान नवतीर्नव ॥
अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् ।
इत्था चन्द्रमसो गृहे ॥
इछन्नश्वस्य यच् शिरः पर्वतेष्वपश्रितं ।
अविन्दच् शर्यणावति ॥
इन्द्रमिद् गाथिनो बृहदिन्द्रमर्केभिरर्किणः ।
इन्द्रं वाणीरनूषत ॥
इन्द्रो दीर्घाय चक्षसा आ सूर्यं रोहयद्दिवि ।
वि गोभिरद्रिमैरयत् ॥
इन्द्रा इद्धर्योः सचा संमिश्ला आ वचोयुजा ।
इन्द्रो वज्री हिरण्ययः ॥
इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च ।
उग्र उग्राभिर् ऊतिभिः ॥
तं इन्द्रं वाजयामसि महे वृत्राय हन्तवे ।
स वृषा वृषभो भुवत् ॥
इन्द्रः स दामने कृत ओजिष्ठः स बले हितः ।
द्युम्नी श्लोकी स सोम्यः ॥
गिरा वज्रो न संभृतः सबलो अनपच्युतः ।
ववक्ष उग्रो अस्तृतः ॥

2.13.7 अनुवाकः7
अयमग्निः सहस्रिणः , अग्निर्मूर्धा, त्वामग्ने पुष्करादधि ॥
अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासं ।
यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सिस्रते नाकमछ ॥
अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे ।
गविष्ठिरो नमसा स्तोममग्नौ दिवीव रुक्मं उरुव्यञ्चमश्रेत् ॥
अबोधि होता यजथाय देवान् ऊर्ध्वो अग्निः सुमनाः प्रातरस्थात् ।
समिद्धस्य रुशददर्शि पाजो महान् देवस्तमसो निरमोचि ॥
जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे ।
घृतप्रतीको बृहता दिविस्पृशा द्युमद्विभाति भरतेभ्यः शुचिः ॥
त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ् शिश्रियाणं वने वने ।
स जायसे मथ्यमानः सहो महत् त्वामाहुः सहसस्पुत्रमङ्गिरः ॥
तुभ्येदमग्ने मधुमत्तमं वचस्तुभ्यं मनीषा इयमस्तु शं हृदे ।
त्वां गिरः सिन्धुमिवावनीर्महीरापृणन्ति शवसा वर्धयन्ति च ॥
संसमिद् युवसे वृषन्नग्ने विश्वानि अर्य आ ।
इडस्पदे समिध्यसे स नो वसूनि आभर ॥
अग्निं वः पूर्व्यं गिरा देवं इडे वसूनां ।
सपर्यवः पुरुप्रियं मित्रं न क्षेत्रसाधसं ॥
त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः ।
शोचिष्केशं पुरुप्रियाग्ने हव्याय वोढवे ॥
आ ते अग्न इधीमहि द्युमन्तं देवाजरं ।
यद्ध स्या ते पनीयसी समिद् दीदयति द्यवि इषं स्तोतृभ्या आभर ॥
अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः ।
अस्तमर्वन्त आशवोऽस्तं नित्यासो वाजिना इषं स्तोतृभ्या आभर ॥
सो अग्निर् यो वसुर्गृणे सं यमायन्ति धेनवः ।
सं अर्वन्तो रघुद्रुवः सं सुजातासः सूरया इषं स्तोतृभ्या आभर ॥

2.13.8 अनुवाकः8
एना वो अग्निं नमसोर्जो नपातमाहुवे ।
प्रियं चेतिष्ठमरतिं स्वध्वरं विश्वस्य दूतममृतं ॥
त्वमग्ने गृहपतिस्त्वं होता नो अध्वरे ।
त्वं पोता विश्ववार प्रचेता यक्षि वेषि च वार्यम् ॥
देवो वो द्रविणोदाः पूर्णां विवष्ट्यासिचं ।
उद्वा सिञ्चध्वं उप वा पृणध्वं आदिद्वो देव ओहते ।
अग्ने वाजस्य गोमता ईशानः सहसो यहो ।
अस्मे धेहि जातवेदो महि श्रवः ॥
स इधानो वसुः कविरग्निर् ईडेन्यो गिरा ।
रेवदस्मभ्यं पुर्वणीक दीदिहि ॥
क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषसः ।
स तिग्मजम्भ रक्षसो दह प्रति ॥
अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् ।
ऋध्यामा ता ओहैः ॥
अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः ।
रथीर् ऋतस्य बृहतो बभूथ ॥
आभिष्टे अद्य गीर्भिर्गृणन्तो अग्ने दाशेम ।
प्र ते दिवो न स्तनयन्त शुष्मैः ।
अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसं ।
य ऊर्ध्वया स्वध्वरो देवाच्या कृपा । घृतस्य विभ्राष्टिमनु शुक्रशोचिषः ॥
आजुह्वानस्य सर्पिषः ॥
हंसः शुचिषत् , अभि त्यं देवं सवितारं, अग्ने त्वं नो अन्तमः ॥
अधा ह्यग्ने एवा ह्यग्ने ॥

2.13.9 अनुवाकः9
आयाहि सुषुमा हि ता इन्द्र सोमं पिबा इमं ।
एदं बर्हिः सदो मम ॥
आ त्वा ब्रह्मयुजा हरी वहताम् इन्द्र केशिना ।
उप ब्रह्माणि नः शृणु ॥
ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः ।
सुतावन्तो हवामहे ॥
अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः ।
ईशानं अस्य जगतः स्वर्दृशम् ईशानमिन्द्र तस्थुषः ।
न त्वावं अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।
अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥
त्वामिद्धि हवामहे साता वाजस्य कारवः ।
त्वां वृत्रेष्विन्द्र सत्पतिं नरस् त्वां काष्ठास्व् अर्वतः ॥
स त्वं नश्चित्र वज्रहस्त धृष्णुया महः स्तवानो अद्रिवः ।
गामश्वं रथ्यमिन्द्र संकिर सत्रा वाजं न जिग्युषे ॥
कया नश्चित्र आभुवद् ऊती सदावृधः सखा ।
कया शचिष्ठया वृता ॥
कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः ।
दृढा चिदारुजे वसु ॥
अभी षु णः सखीनामविता जरितॄणां ।
शतं भवास्यूतिभिः ॥
यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे ।
प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शँसिषं ॥
ऊर्जो नपातं स हिनायमस्मयुर् दाशेम हव्यदातये ।
भुवद्वाजेष्वविता भुवद् वृध उत त्राता तनूनां ॥

2.13.10 अनुवाकः10
ऋतूनां पत्नी प्रथमेयमागाद् अह्नां नेत्री जनित्य्ना उत प्रजानां ।
एका सती बहुधोषो व्युछाजीर्णा त्वं जरय सर्वमन्यत् ॥
को विराजो मिथुनत्वं प्रवेद ऋतून् को अस्याः क उ वेद रूपं ।
दोहान् को वेद कतिधा विदुग्धाः कति धामानि कति ये विवासाः ॥
इयमेव सा या प्रथमा व्यौच्छत् साप्स्वन्तश्चरति प्रविष्टा ।
वधूर् मिमाय नवगज्जनित्री त्रय एनां महिमानः सचन्ते ॥
छन्दस्वती उषसौ पेपिशाने समानं योनिमनुसंचरेते ।
सूर्यपत्नी विचरतः प्रजानती केतुमती अजरे भूरिरेतसौ ॥
ऋतस्य पन्थां अनु तिस्र आगुस्त्रयो घर्मासो अनु रेतसागुः ।
प्रजां एका जिन्वत्यूर्जं एका क्षत्रमेका रक्षति देवयूनां ॥
चतुष्टोमं अदधाद्या तुरीया यज्ञस्य पक्षा ऋषयो भवन्ती ।
गायत्रीं त्रैष्टुभं जगतीं विराजमर्कं युञ्जानाः स्वराभरन्न् इदं ॥
पञ्चभिर् धाता विदधा इदं तासां स्वरजनन् पञ्चपञ्च ।
तासां उ यन्ति प्रयवेण पञ्च नाना रूपाणि क्रतवो वसानाः ॥
ऋतस्य धामन् प्रथमा व्यूषुष्यपामेका महिमानं बिभर्ति ।
सूर्यस्यैका चरति निष्कृतानि घर्मस्यैका सवितैकां नियच्छते ॥
इदं श्रेयो मन्यमानो वा आगामहं वो अस्मि सख्याय शेवः ।
समानजन्मा क्रतुरस्त्येकः सर्वः सर्वा विचरतु प्रजानन् ॥
भूयास्म ते सुमतौ विश्ववेदा आष्ठाः प्रतिष्ठां अविदो हि गाधम् ।
सत्यं वदन्तीर्महिमानं आपान्या वो अन्यामति मा प्रयुक्त ॥
रुशद्विधाना समना पुरस्तात् प्रजानती यामं उषा अयासीत् ।
ब्रह्मद्विषस्तमसा देवशत्रूनभिवहन्ती विश्ववारा व्यवाट् ॥
पञ्च व्युष्टीरनु पञ्च दोहा गां पञ्चनाम्नीम् ऋतवोऽनु पञ्च ।
पञ्च दिशः पञ्चदशेन क्लृप्ताः समानमूर्नीनीरभि लोकं एकं ॥
त्रिंशत् स्वसारा उपयन्ति निष्कृतं समानं केतुं प्रतिमुञ्चमानाः ।
ऋतूंस्तन्वते कवयः प्रजानतीर्मध्ये छन्दसः परियन्ति भास्वतीः ॥
ज्योतिष्मतीः प्रतिमुञ्चते नभो देवी रात्री सूर्यस्य व्रतानि ।
विपश्यन्ति पशवो जायमाना नानारूपा मातुरस्या उपस्थे ॥
प्रथमा ह व्युवास सा धेनुरभवद्यमे ।
सा नः पयस्वती दुहा उत्तरामुत्तरां समां ॥

2.13.11 अनुवाकः11
पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीराविवेश ।
वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु नक्तं ॥
त्वं यविष्ठ दाशुषो नॄंष्पाहि शृणुधी गिरः ।
रक्षा तोकमुत त्मना ॥
अग्ने धामानि तव जातवेदो देव स्वधावोऽमृतस्य नाम ।
याश्च माया मायिनां विश्वमिन्व त्वे पूर्वीः संदधुः पृष्टबन्धो ॥

2.13.12 अनुवाकः12
यवा अयवा ऊमा एवा अब्दः सगरः सुमेको , अग्ने कह्य , अग्ने किंशिला , अग्ने दुध्र , अग्ने वन्य , अग्ने कक्ष्य, या ता इषुर् युवा नाम तया विधेम, तस्यै ते नम, स्तस्यास्ता उप पत्सुतो जीवा भूयास्म, ते यं द्विष्मो यश्च नो द्वेष्टि तमस्या जंभे दध्मः ॥

2.13.13 अनुवाकः13
यो अप्स्वन्तरग्निर् यो वृत्रे यः पुरुषे यो अश्मनि ।
य आविवेशौषधीर् यो वनस्पतींस्तेभ्यो अग्निभ्यो हुतमस्त्व् एतत् ॥
यः सोमे अन्तर् यो गोष्वन्तर्वयांसि य आविवेश यो मृगेषु ।
य आविवेश द्विपदो यश्चतुष्पदस्तेभ्यो अग्निभ्यो हुतमस्त्व् एतत् ॥
येनेन्द्रस्य रथं संबभूवुर् यो वैश्वानर उत विश्वदाव्यः ।
धीरो यः शक्रः परिभूरदाभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्व् एतत् ॥
विश्वादमग्निं यम् उ कामं आहुर् यं दातारं प्रतिग्रहीतारं आहुः ।
यं जोहवीमि पृतनासु सासहिं तेभ्यो अग्निभ्यो हुतमस्त्व् एतत् ॥
उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे ।
स्तोमैर्विधेमाग्नये ॥
वैश्वानरज्येष्ठेभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्व् एतत् ॥

2.13.14 अनुवाकः14
मा छन्द, स्तत्पृथिवी , अग्निर्देवता, तेन छन्दसा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥
प्रमा छन्द, स्तदन्तरिक्षम् , वायुर्देवता, प्रतिमा छन्द, स्तद् द्यौः सूर्यो देवता , अस्रीवीश्छन्द, स्तद्दिशः, सोमो देवता, गायत्री छन्द, स्तदजा, बृहस्पतिर् देवता, त्रिष्टुप् छन्द, स्तद्धिरण्यम्, इन्द्रो देवता, जगती छन्द, स्तद् गौः, प्रजापतिर् देवता , अनुष्टुप् छन्द, स्तदायु , र्मित्रो देवता , उष्णिक् छन्द, स्तच्चक्षुः, पूषा देवता, विराट् छन्द, स्तदश्वो , वरुणो देवता, बृहती छन्द, स्तत् कृषिः,पर्जन्यो देवता, पङ्क्तिश्छन्द, स्तत् पुरुषः, परमेष्ठी देवता, तेन छन्दसा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥

2.13.15 अनुवाकः15
पृथिव्यसि जन्मना वशा, साग्निं गर्भमधत्थाः, सा मया संभव , अन्तरिक्षमसि जन्मना वशा, सा वायुं गर्भमधत्थाः, सा मया संभव, द्यौरसि जन्मना वशा, सादित्यं गर्भमधत्थाः, सा मया संभव, नक्षत्राण्यसि जन्मना वशा, सा चन्द्रमसं गर्भमधत्थाः, सा मया संभव, ऋगसि जन्मना वशा, सा साम गर्भमधत्थाः, सा मया संभव, विडसि जन्मना वशा, सा राजानं गर्भमधत्थाः, सा मया संभव, वागसि जन्मना वशा, सा प्राणं गर्भमधत्थाः, सा मया संभव , आपोऽसि जन्मना वशा, सा यज्ञं गर्भमधत्थाः, सा मया संभव ॥

2.13.16 अनुवाकः16
या देव्यसीष्टके कुमार्य् उपशीवरी सा मोपशेष्व जायेव सदमित् पतिम् , या देव्यसीष्टके प्रफर्य्मि उपशीवरी सा मोपशेष्व जायेव सदमित् पतिम् , या देव्यसीष्टके युवतिरुपशीवरी सा मोपशेष्व जायेव सदमित् पतिम् , या देव्यसीष्टक आयुर्दाः प्राणदा अपानदा व्यानदाश्चक्षुर्दाः श्रोत्रदाः पृथिव्यामन्तरिक्षे दिवः पृष्ठ उपशीवरी सा मोपशेष्व जायेव सदमित् पतिम् , या देवीः स्थेष्टकाः सुशेवा उपशीवरीस्ता मोपशेध्वं जाया इव सदमित् पतिम् ॥

2.13.17 अनुवाकः17
सवयसे त्वा , अभिवयसे त्वा , ऊर्ध्ववयसे त्वा, बृहद्वयसे त्वा, सहीयसे त्वा, सहमानाय त्वा, सासहये त्वा, सहस्वते त्वा , अभीषाहे त्वा , अभिभ्वे त्वा , अभिमातिषाहे त्वा , अभिमातिघ्ने त्वा ॥

2.13.18 अनुवाकः18
भूयस्कृदसि, वरिवस्कृदसि, प्राच्यसि , ऊर्ध्वासि , अन्तरिक्षमसि , oजोदां त्वौजसि सादयामि, पयोदां त्वा पयसि सादयामि, तेजोदां त्वा तेजसि सादयामि, यशोदां त्वा यशसि सादयामि, वर्चोदां त्वा वर्चसि सादयामि, पृथिव्यास्त्वा द्रविणे सादयामि , अन्तरिक्षस्य त्वा द्रविणे सादयामि, दिवस्त्वा द्रविणे सादयामि, दिशां त्वा द्रविणे सादयामि, द्रविणोदां त्वा द्रविणे सादयामि , अप्सुषदसि, गृध्रसदसि, श्येनसदसि, सुपर्णसदसि, नाकसदसि ॥

2.13.19 अनुवाकः19
ज्योतिष्मतीं त्वा सादयामि, ज्योतिष्कृतं त्वा सादयामि, ज्योतिर्विदं त्वा सादयामि , ऊर्ध्वज्योतिषं त्वा सादयामि, बृहज्ज्योतिषं त्वा सादयामि, विश्वज्योतिषं त्वा सादयामि , अजस्रां त्वा सादयामि, भास्वतीं त्वा सादयामि, दीप्यमानां त्वा सादयामि, रोचमानां त्वा सादयामि, ज्वलन्तीं त्वा सादयामि, मल्मलाभवन्तीं त्वा सादयामि, जाग्रतीं त्वा सादयामि, बोधयन्तीं त्वा सादयामि ॥

2.13.20 अनुवाकः20
कृत्तिका नक्षत्रं, अग्निर्देवता , अग्ने रुचः स्थ, प्रजापतेः सोमस्य धातु , र्ऋचे त्वा, रुचे त्वा, भासे त्वा, ज्योतिषे त्वा, तेन छन्दसा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद् ध्रुवा सीद, रोहिणी नक्षत्रं , प्रजापतिर् देवता , इन्वगा नक्षत्रं , मरुतो देवता, बाहुर्नक्षत्रं , रुद्रो देवता, पुनर्वसुर्नक्षत्रं, अदितिर् देवता, तिष्यो नक्षत्रं , बृहस्पतिर् देवता , आश्लेषा नक्षत्रं , सर्पा देवता, मघा नक्षत्रं , पितरो देवता, फल्गुनीर्नक्षत्रं , भगो देवता, फल्गुनीर्नक्षत्रं, अर्यमा देवता, हस्तो नक्षत्रं , सविता देवता, चित्रा नक्षत्रं , त्वष्टा देवता, निष्ट्यं नक्षत्रं , वायुर्देवता, विशाखं नक्षत्रं, इन्द्राग्नी देवता , अनूराधा नक्षत्रं , मित्रो देवता, ज्येष्ठा नक्षत्रं , वरुणो देवता, मूलं नक्षत्रं , निर्ऋतिर् देवता , आषाढा नक्षत्रं, आपो देवता , आषाढा नक्षत्रं , विश्वे देवा देवता , अभिजिन् नक्षत्रं , ब्रह्मा देवता, श्रोणा नक्षत्रं , विष्णुर्देवता, श्रविष्ठा नक्षत्रं , वसवो देवता, शतभिषं नक्षत्रं, इन्द्रो देवता, प्रोष्ठपदा नक्षत्रं, अहिर् बुध्योषि देवता, प्रोष्ठपदा नक्षत्रं, अज एकपाद्देवता, रेवती नक्षत्रं , पूषा देवता , अश्वयुजौ नक्षत्रं, अश्विनौ देवता, भरणीर्नक्षत्रं , यमो देवता, ब्राह्मणो नक्षत्रं , सोमो देवता , अग्ने रुचः स्थ, प्रजापतेः सोमस्य धातु, र्ऋचे त्वा, रुचे त्वा, भासे त्वा, ज्योतिषे त्वा, तेन छन्दसा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद् ध्रुवा सीद ॥

2.13.21 अनुवाकः21
समीची नामासि, प्राची दिक्, तस्यास्तेऽग्निरधिपति, रसितो रक्षिता, यश्च तेऽधिपतिर् यश्च रक्षिता ताभ्यां नमो अस्तु, तौ नो मृडताम् , ते यं द्विष्मो यश्च नो द्वेष्टि तं एनयोर्जंभे दध्म , ओजस्या नामासि, दक्षिणा दिक्, तस्यास्ता इन्द्रोऽधिपति, स्तिरश्चीनराजी रक्षिता, यश्च तेऽधिपतिर् यश्च रक्षिता ताभ्यां नमो अस्तु, तौ नो मृडताम् , ते यं द्विष्मो यश्च नो द्वेष्टि तं एनयोर्जम्भे दध्मः, प्राची नामासि, प्रतीची दिक्, तस्यास्ते सोमोऽधिपतिः, स्वजो रक्षिता, यश्च तेऽधिपतिर् यश्च रक्षिता ताभ्यां नमो अस्तु, तौ नो मृडताम् , ते यं द्विष्मो यश्च नो द्वेष्टि तं एनयोर्जम्भे दध्मः, सुषदा नामासि , उदीची दिक्, तस्यास्ते वरुणोऽधिपतिः, सृदागू रक्षिता, यश्च तेऽधिपतिर् यश्च रक्षिता ताभ्यां नमो अस्तु, तौ नो मृडताम् , ते यं द्विष्मो यश्च नो द्वेष्टि तं एनयोर्जंभे दध्मो , अवस्था नामासि , अवाची दिक्, तस्यास्ते विष्णुरधिपतिः, कल्माषग्रीवो रक्षिता, यश्च तेऽधिपतिर् यश्च रक्षिता ताभ्यां नमो अस्तु, तौ नो मृडताम् , ते यं द्विष्मो यश्च नो द्वेष्टि तं एनयोर्जंभे दध्मो , अधिपत्नी नामासि , ऊर्ध्वा दिक्, तस्यास्ते बृहस्पतिर् अधिपति , श्चित्रो रक्षिता, यश्च तेऽधिपतिर् यश्च रक्षिता ताभ्यां नमो अस्तु, तौ नो मृडताम् , ते यं द्विष्मो यश्च नो द्वेष्टि तं एनयोर्जम्भे दध्मः ॥

2.13.22 अनुवाकः22
स्वयं कृण्वानः सुगं अप्रयावं तिग्मशृङ्गो वृषभः शोशुचानः ।
प्रत्नं सधस्थमनुपश्यमाना आ तन्तुमग्निर् दिव्यं ततान ॥
त्वं तन्तुरुत सेतुर् अग्ने त्वं पन्था भवसि देवयानः ।
त्वयाग्ने पृष्ठं वयमारुहेम यत्र देवैः सधमादं मदेम ॥
अतिसर्गं ददतो मानवायोर्ध्वं पन्थां अनुपश्यमानाः ।
अजुषन्त मरुतो यज्ञमेतं वृष्टिद्यावानं अमृतं स्वर्विदं ॥
आवर्तमानो भुवनस्य मध्ये प्रजाः कृण्वन् जनयन् विरूपाः ।
संवत्सरः परमेष्ठी धृतव्रतो यज्ञं नः पातु रजसः परस्मात् ॥
प्रजां ददातु परिवत्सरो नो धाता दधातु सुमनस्यमानः ।
बह्वीः साकं बहुधा विश्वरूपा एकव्रता मामभिसंविशन्तु ॥

2.13.23 अनुवाकः23
हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ।
स दाधार पृथिवीं द्यां उतेमां कस्मै देवाय हविषा विधेम ॥
यः प्राणतो निमिषतश्च राजा पतिर् विश्वस्य जगतो बभूव ।
ईशे यो अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥
य ओजोदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः ।
यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥
यस्येमे विश्वे गिरयो महित्वा समुद्रं यस्य रसया सहाहुः ।
दिशो यस्य प्रदिशः पञ्च देवीः कस्मै देवाय हविषा विधेम ॥
येन द्यौरुग्रा पृथिवी च दृढा येन स्वः स्तभितं येन नाकः ।
यो अन्तरिक्षं विममे वरीयः कस्मै देवाय हविषा विधेम ॥
य इमे द्यावापृथिवी तस्तभाने अधारयद् रोदसी रेजमाने ।
यस्मिन्नधि विततः सूरा एति कस्मै देवाय हविषा विधेम ।
आपो ह यन्महतीर्विश्वमायन् गर्भं दधाना जनयन्तीरग्निम् ।
ततो देवानां निरवर्ततासुः कस्मै देवाय हविषा विधेम ॥
आ नः प्रजां जनयतु प्रजापतिर् धाता दधातु सुमनस्यमानः ।
संवत्सर ऋतुभिः संविदानो मयि पुष्टिं पुष्टिपतिर् दधातु ॥
इति मध्यमकाण्डे त्रयोदशः प्रपाठकः।।