मैत्रायणीसंहिता/काण्डं ३/प्रपाठकः ०५

अध्वरादीनां त्रयाणां विधिः (वसोर्धारीयः)

3.5.1
आ वा एष प्रजापतये वृश्चते यः शिर उपदधाति नेतराण्यङ्गानि , अस्थिचिदस्य श्मशानचिद् भवति, यदेतां पुरुषचितिम् उपदधाति न प्रजापतया आवृश्चते ,
अनस्थिचिदस्याश्मशानचिद् भवति, षट्त्रिंशतं एता उपदधाति, षट्त्रिंशदक्षरा बृहती, बार्हताः पशवो , बार्हतः पुरुषः, पुरुषस्य प्रतिमोपधीयते, स ह्येष धीयते , एष ह त्वेव यजमानोऽमुं लोकं नाति प्रमीयते यस्यैता उपधीयन्ते ॥

3.5.2 अनुवाकः2
अथैताः पञ्चापञ्चीनाः, शिथिर इव वा अग्निश्चित्यो , यत् पञ्चापञ्चीना उपदधाति , अग्नेर्धृत्या अशिथिरत्वाय, पञ्चोपदधाति, पाङ्क्तो यज्ञो , यावान् एव यज्ञस्तमालब्ध, भूयस्कृदसि, वरिवस्कृदसीति , अग्ना एव भूमानं दधाति, भूयान् प्रजया पशुभिर्भवति , अप्सुषदसि, गृध्रसदसीति, वयो वा अग्निः, समिक्ष्यमेवैनं वयः करोति, वयो भूत्वा स्वर्गं लोकं एति यस्यैता उपधीयन्ते ॥

3.5.3 अनुवाकः3
चितः स्थ परिचितः स्थेति, शर्कराः परिश्रयति, यच् शर्करा अपरिश्रित्य सिकता निवपेद् रेतः सिक्तं परासिच्येता , ऽथ यच् शर्करा अपरिश्रित्य सिकता निवपति रेतसः सिक्तस्य परिगृहीत्यै ॥

3.5.4 अनुवाकः4
वि वा एष यज्ञश्छिद्यते यदसंस्थितं पशुमुत्सृजन्ति, सं ह स्म वा एतमाशोकेयः स्थापयति , आज्येन संस्थाप्यम् यज्ञस्य संतत्या अविछेदाय ॥

3.5.5 अनुवाकः5
स्वर्गं वा एष लोकमन्वारोहति योऽग्निं चिनुते, यदन्वारोहान् जुहोति स्वर्गं एवैनं लोकं गमयित्वाथ कामं चरति ॥
इत्य् उपरिकाण्डे पञ्चमः प्रपाठकः ॥