मैत्रायणीसंहिता/काण्डं ३/प्रपाठकः १६

अश्वमेधः

3.16.1 अनुवाकः1
मा नो मित्रो वरुणो अर्यमायुरिन्द्र ऋभुक्षा मरुतः परिक्शन् ।
यद्वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि ॥
यन् निर्णिजा रेक्णसा प्रावृतस्य रातिं गृभीतां मुखतो नयन्ति ।
सुप्राङ् अजो मेम्यद्विश्वरूपा इन्द्रापूष्णोः प्रियमप्येतु पाथः ॥
एष छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः ।
अभिप्रियं यत् पुरोडाशमर्वता त्वष्टेदेनं सौश्रवसाय जिन्वति ॥
यद्धविष्यम् ऋतुशो देवयानं त्रिर्मानुषाः पर्यश्वं नयन्ति ।
अत्रा पूष्णः प्रथमो भाग एति यज्ञं देवेभ्यः प्रतिवेदयन्नजः ॥
उप प्रागात् सुमन्मेऽधायि मन्म देवानामाशा उप वीतपृष्ठः ।
अन्वेनं विप्रा ऋषयो मदन्ति देवानां पुष्टे चकृमा सुबन्धुम् ॥
होताध्वर्युरावया अग्निमिन्धो ग्रावग्राभ उत शंस्ता सुविप्रः ।
तेन यज्ञेन स्वरंकृतेन स्विष्टेन वक्षणा आपृणध्वं ॥
यूपव्रस्का उत ये यूपवाहाश्चषालं ये अश्वयूपाय तक्षति ।
ये चार्वते पचनं संभरन्य्ष् उतो तेषामभिगूर्तिर्न इन्वतु ॥
यद्वाजिनो दाम संदानमर्वतो या शीर्षण्या रशना रज्जुरस्य ।
यद्वा घास्य प्रभृतमास्ये तृणं सर्वा ता ते अपि देवेष्वस्तु ॥
यदूवध्यम् उदरस्यापवाति य आमस्य क्रविषो गन्धो अस्ति ।
सुकृता तच् शमितारः कृण्वन्तूत मेधं शृतपाकं पचन्तु ॥
यदश्वस्य क्रविषो मक्षिकाश यद्वा स्वरौ स्वधितौ रिप्रमस्ति ।
यद्धस्तयोः शमितुर् यन् नखेषु सर्वा ता ते अपि देवेष्वस्तु ॥
यत्ते गात्रादग्निना पच्यमानादभि शूलं निहतस्यावधावति ।
मा तद् भूम्यामाश्रिषन्मा तृणेषु देवेभ्यस्तदुशद्भ्यो रातमस्तु ॥
ये वाजिनं परिपश्यन्ति पक्वं य ईमाहुः सुरभिर् निर्हरेति ।
ये चार्वतो मांसभिक्षामुपासते उतो तेषामभिगूर्तिर्न इन्वतु ॥
यन्नीक्षणं मांस्पचन्या उखाया या पात्राणि यूष्ण आसेचनानि ।
ऊष्मण्यापिधाना चरूणामङ्काः सूनाः परिभूषन्त्यश्वम् ॥
यदश्वाय वास उपस्तृणन्त्यधिवासं या हिरण्यानि अस्मै ।
संदानं अर्वन्तं पड्वीशं प्रिया देवेष्वायामयन्ति ॥
निक्रमणं निषदनं विवर्तनं यच्च पड्वीशमर्वतः ।
यच्च पपौ यच्च घासिं जघास सर्वा ता ते अपि देवेष्वस्तु ॥
मा त्वाग्निर् धनयीद् धूमगन्धिर् मोखा भ्राजन्त्यभिविक्त जघ्रिः ।
इष्टं वीतमभिगूर्तं वषट्कृतं तं देवासः प्रतिगृभ्णन्त्यश्वम् ॥

3.16.2 अनुवाकः2
समिद्धो अञ्जन् कृदरं मतीनां घृतमग्ने मधुमत् पिन्वमानः ।
वाजी वहन् वाजिनं जातवेदो देवानां वक्षि प्रियमा सधस्थम् ॥
तनूनपात् सं पथो देवयानान् प्रजानन् वाज्यप्येतु देवान् ।
अनु त्वा सप्ते प्रदिशः सचन्तां स्वधां देवैर्यजमानाय धेहि ॥
ईड्यश्चासि वन्द्यश्चासि वाजिन्न् आशुश्चासि मेध्यश्चासि सप्ते ।
अग्निष्ट्वा देवैर्वसुभिः सजोषाः प्रीतं वह्निं वहतु जातवेदाः ॥
स्तीर्णं बर्हिः सुष्टरीमा जुषाणोरु पृथु प्रथमानं पृथिव्याम् ।
देवेभिरक्तं अदितिः सजोषाः स्योनं कृण्वाना सुविते दधातु ॥
एता उ वः सुभगा विश्ववारा वि पक्षोभिः श्रयमाणा उदातैः ।
ऋष्वाः सतीः कवषः शुम्भमाना द्वारो देवीः सुप्रायणा भवन्तु ॥
अन्तरा मित्रावरुणा चरन्ती मुखं यज्ञानामभि संविदाने ।
उषासा वां सुहिरण्ये सुशिल्पे ऋतस्य योना इह सादयामि ॥
प्रथमा वां सरथिना सुवर्णा देवौ पश्यन्तौ भुवनानि विश्वा ।
अपिप्रयं चोदना वां मिमाना होतारा ज्योतिः प्रदिशा दिशन्ता ॥
आदित्यैर् नो भारती वष्टु यज्ञं सरस्वती सह रुद्रैर्न आवीत् ।
इडोपहूता वसुभिः सजोषाः स्योनं कृण्वाना सुविते दधातु ॥
त्वष्टा वीरं देवकामं जजान त्वष्टुरर्वा जायत आशुरश्वः ॥
त्वष्टेमा विश्वा भुवना जजान बहोः कर्तारं इह यक्षि होतः ॥
अश्वो घृतेन त्मन्या समक्ता उप देवं ऋतुशः पाथ एतु ।
वनस्पतिर् देवलोकं प्रजानन्नग्निना हव्या स्वदितानि वक्षत् ॥
प्रजापतेस्तपसा वावृधानः सद्यो जातो दधिषे यज्ञं अग्ने ।
स्वाहाकृतेन हविषा पुरोगा याहि साध्या हविरदन्तु देवाः ॥

3.16.3 अनुवाकः3
युञ्जन्ति ब्रध्नं अरुषं चरन्तं परि तस्थुषः ।
रोचन्ते रोचना दिवि ॥
युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ।
शोणा धृष्णू नृवाहसा ॥
केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे ।
सं उषद्भिरजायथाः ॥
जीमूतस्येव भवति प्रतीकं यद्वर्मी याति समदाम् उपस्थे ।
अनाविद्धया तन्वा जय त्वं स त्वा वर्मणो महिमा पिपर्तु ॥
धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम ।
धनुः शत्रोरपकामं कृणोतु धन्वना सर्वाः पृतना जयेम ॥
वक्ष्यन्तीवेदागनीगन्ति कर्णं प्रियं सखायं परिषस्वजाना ।
योषेव शिङ्क्ते वितताधि धन्वञ् ज्या इयं समने पारयन्ती ॥
ते आचरन्ती समनेव योषा मातेव पुत्रं बिभृताम् उपस्थे ।
अप शत्रून् विध्यतः संविदाने आर्त्नी इमे विस्फुरन्ती अमित्रान् ॥
बहूनां पिता बहुरस्य पुत्रः चिश्चा कृणोति समनावगत्य ।
इषुधिः सङ्काः पृतनाश्च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः ॥
रथे तिष्ठन् नयति वाजिनः पुरो यत्रयत्र कामयते सुषारथिः ।
अभीशूनां महिमानं पनायत मनः पश्चादनुयच्छन्ति रश्मयः ॥
तीव्रान् घोषान् कृण्वते वृषपाणयोऽश्वा रथेभिः सह वाजयन्तः ।
अवक्रामन्तः प्रपदैरमित्रान् क्षिणन्ति शत्रून् रनपव्ययन्तः ॥
वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः ।
गोभिः संनद्धो असि वीडयस्वास्थाता ते जयतु जेत्वानि ॥
दिवस्पृथिव्याः पर्यन्तरिक्षाद्वनस्पतिभ्यः पर्यावृतं सहः ।
अपामोज्मानं परि गोभिरावृतं इन्द्रस्य वज्रं हविषा रथं यज ॥
इन्द्रस्य वज्रो मरुताम् अनीकं मित्रस्य गर्भो वरुणस्य नाभिः ।
सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥
स्वादुषंसदः पितरो वयोधाः कृछ्रेश्रितः शक्तीवन्तो गभीराः ।
चित्रसेना इषुबला अमृध्राः सतोवीरा उरवो व्रातसाहाः ॥
ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवी उभे स्ताम् ।
पूषा नः पातु दुरिताद् ऋतावृधो रक्षा माकिर् नो अघशँस ईशत ॥
ऋजीते परिवृङ्धिता नोऽश्मा भवतु नस्तनूः ।
सोमो अधिब्रवीतु नोऽदितिः शर्म यच्छतु ॥
सुपर्णं वस्ते मृगो अस्या दन्तो गोभिः संनद्धा पतति प्रसूता ।
यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यमिषवः शर्म यंसन् ॥
अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः ।
हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमांसं परिपातु विश्वतः ॥
आजङ्घन्ति सान्वेषां जघनं उपजिघ्नतु ।
अश्वाजनि प्रचेतसोऽश्वान्त्समत्सु नोदय ॥
उपश्वासय पृथिवीं उत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् ।
सं दुन्दुभे सजूरिन्द्रेण देवैराराद् दवीयो अपसेध शत्रून् ॥
आक्रन्दय बलं ओजो ना आधा निष्टनिहि दुरिता बाधमानः ।
अपप्रोथ दुन्दुभे दुच्छुना इत इन्द्रस्य मुष्टिरसि वीडयस्व ॥
आमूरज प्रत्यावर्तयेमाः केतुमद् दुन्दुभिर्वावदीति ।
सं अश्वपर्णाश्चरन्तु नो नरोऽस्माकमिन्द्र रथिनो जयन्तु ॥

3.16.4 अनुवाकः4
समिद्दिशामाशयानः स्वर्विन्मधु रेतो माधवः पात्वस्मान् ।
अग्निर्देवो दुष्टरीतुरदब्ध इदं क्षत्रं रक्षतु पात्वस्मान् ॥
रथन्तरं सामभिः पात्वस्मान् गायत्री छन्दसां विश्वरूपा ।
त्रिवृन् नो विष्ठया स्तोमो अह्ना समुद्रो वात इदमोजः पिपर्तु ॥
उग्रा दिशामभिभूतिर्वयोधाः शुचिः शुक्रे अहन्न् ओजसीने ।
इन्द्राधिपत्यैः पिपृतादतो नो महि क्षत्रं विश्वतो धारयेदं ॥
बृहत् साम क्षत्रभृद् वृद्धवृष्णं त्रिष्टुभौजः शुभितं उग्रवीरं ।
इन्द्रः स्तोमेन पञ्चदशेन मध्यमिदं वातेन सगरेण रक्षतु ॥
प्राची दिशां सहयशा यशस्वती विश्वे देवाः प्रावृषाह्नां स्वर्वती ।
वैरूपे सामन्नधि तच् शकेयं जगत्यैनं विक्ष्वावेशयामि ॥
इदं क्षत्रं दुष्टरं अस्त्व् ओजोऽनाधृष्टँ सहस्यं सहस्वत् ।
विश्वे देवाः सप्तदशेन वर्च इदं क्षत्रं सलिलवातमुग्रम् ॥
धर्रीश् दिशां क्षत्रमिदं दाधारोपस्थाशानां मित्रवदस्त्वोजः ।
मित्रावरुणा शरदाह्ना चिकित्तमस्मे राष्ट्राय महि शर्म यच्छतम् ॥
वैराजे सामन्नधि मे मनीषानुष्टुभा संभृतं वीर्यं सहः ।
इदं क्षत्रं मित्रवदार्द्रदानु मित्रावरुणा रक्षतमाधिपत्यैः ॥
सम्राड् दिशां सहसाम्नी सहस्वत्य् ऋतुर् हेमन्तो विष्ठया नः पिपर्तु ।
अवस्युवाता बृहती न शक्वरी दिशां तेव्यवतु नो घृताची ॥
स्वर्वती सुदुघा नः पयस्वतीमं यज्ञमवतु या घृताची ।
त्वं गोपाः पुरएतोत पश्चाद् बृहस्पते याम्यां युङ्धिची वाचं ॥
ऊर्ध्वा दिशां रन्तीराशौषधीनां संवत्सरेण सविता नो अह्ना ।
रेवत् सामातिछन्दा उ छन्दोऽजातशत्रुः स्योना नो अस्तु ॥
स्तोमस्त्रयस्त्रिंशे भुवनस्य पत्नी विवस्वद्वाते अभि नो गृणीहि ।
घृतवती सवितुराधिपत्ये पयस्वती रातिराशा नो अस्तु ॥
अन्व् अद्य नो अनुमतिर् यज्ञं देवेषु मन्यताम् ।
अग्निश्च हव्यवाहनो भवतं दाशुषे मयः ॥
अन्व् इदमुमते त्वं मन्यासै शं च नस्कृधि ।
क्रत्वे दक्षाय नो हिनु प्र ना आयूंषि तारिषत् ॥
वैश्वानरो न ऊत्या प्रयातु परावतः ।
अग्निरुक्थेन वाहसा ॥
पृष्टो दिवि ॥
ध्रुवा दिशां विष्णुपत्नि अघोरास्येशाना सहसो या मनोता ।
बृहस्पतिर् मातरिश्वोत वायुः संध्वाना वाता अभि नो गृणन्तु ॥
विष्टंभो दिवो धरुणा पृथिव्या अस्येशाना जगतो विष्णुपत्नी ।
व्यचस्वतीषयन्ती सुभूतिः शिवा नो अस्त्वदितेरुपस्थे ॥
कया नः ॥
को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् ।
आसन्निषून् हृत्स्वसो मयोभून् य एषां भृत्याम् ऋणधत् स जीवात् ॥

3.16.5 अनुवाकः5
अग्नेर्मन्वे प्रथमस्यामृतानां यं पाञ्चजन्यं बहवः समिन्धते ।
विश्वस्यां विशि प्रविविशिवांसं ईमहे स नो मुञ्चत्वंहसः ॥
यस्येदं प्राणन् निमिषद्यदेजति यस्य जातं जनमानं च केवलं ।
स्तौम्यग्निं नाथितो जोहवीमि स नो मुञ्चत्वंहसः ॥
इन्द्रस्य मन्वे प्रथमस्य प्रचेतसो वृत्रघ्नः स्तोमा उप मामुपागुः ।
यो दाशुषः सुकृतो हवं उप गन्ता स नो मुञ्चत्वंहसः ॥
यः संग्रामं नयति सं वशी युधे यः पुष्टानि संसृजति त्रयाणि ।
स्तौमीन्द्रं नाथितो जोहवीमि स नो मुञ्चत्वंहसः ॥
मन्वे वां मित्रावरुणा तस्य वित्तं सत्यौजसा दुर्हृणा यं नुदेथे ।
या राजाना सरथं यात उग्रा ता नो मुञ्चतमागसः ॥
यो वां रथ ऋजुरश्मिः सत्यधर्मा मिथुचरन्तम् उपयाति दूषयन् ।
स्तौमि मित्रावरुणौ नाथितो जोहवीमि ता नो मुञ्चतमागसः ॥
वायोः सवितुर्विदथानि मन्महे या आत्मन्वद् बिभृतो यौ च रक्षतः ।
यौ विश्वस्य परिभू बभूवथुस्ता नो मुञ्चतमागसः ॥
उप श्रेष्ठा न आशिरो देवयोर् धर्मा अस्थिरन् ।
स्तौमि वायुं सवितारं नाथितो जोहवीमि ता नो मुञ्चतमागसः ॥
रथीतमौ रथीनामह्व ऊतये शुभं गमिष्ठौ सुयमेभिरश्वैः ।
ययोर् वां देवौ देवेष्वनिषितं ओजस्ता नो मुञ्चतमागसः ॥
यदयातं वहतुं सूर्यायास्त्रिचक्रेण संसदमिछमानौ ।
स्तौमि देवा अश्विनौ नाथितो जोहवीमि ता नो मुञ्चतमागसः ॥
मरुतां मन्वे अधि नो ब्रुवन्तु प्रेमां वाचं विश्वामवन्तु विश्वे ।
आशून् हुवे सुयमान् ऊतये ते नो मुञ्चन्वेवानसः ॥
तिग्ममायुधं वीडितं सहस्वद्दिव्यं शर्धः पृतनासु जिष्णु ।
स्तौमि देवान्मरुतो नाथितो जोहवीमि ते नो मुञ्चन्वे ःनसः ॥
देवानां मन्वे अधि नो ब्रुवन्तु प्रेमां वाचं विश्वामवन्तु विश्वे ।
आशून् हुवे सुयमान् ऊतये ते नो मुञ्चन्त्वेनसः ॥
यदिदं माभिशोचति पौरुषेयेण दैव्येन ।
स्तौमि विश्वान् देवान् नाथितो जोहवीमि ते नो मुञ्चन्वेवेनसः ॥
अन्व् अद्य नो अनुमति, रन्विदनुमते त्वं , वैश्वानरो न ऊत्या ॥
त्वमग्ने शोचिषा शोशुचाना आ रोदसी अपृणा जायमानः ।
त्वं देवं अभिशस्तेरमुञ्चो वैश्वानर जातवेदो महित्वा ॥
उर्वी रोदसी वरिवस्कृणोतं क्षेत्रस्य पत्नी अधि नो ब्रुवाथः ।
स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतमंहसः ॥
ये अप्रथेताम् अमितेभिरोजोभिर् ये प्रतिष्ठे अभवतां वसूनां ।
स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतमंहसः ॥
यच् चिद्धि ते पुरुषत्रा यविष्ठाचित्तिभिश्चकृमा कच्चिदागः ।
कृधी ष्वस्मं अदितेरनागान् एनांसि शिश्रथो विष्वगग्ने ॥
यथा ह त्यद्वसवो गौर्यं चित् पदि षिताम् अमुञ्चता यजत्राः ।
एवो ष्वस्मन् मुञ्चता व्यंहः प्रतार्यग्ने प्रतरं ना आयुः ॥
इत्युपरिकाण्डे षोडशः प्रपाठकः।।
इत्युपरिकाण्डं समाप्तम्।।