मैत्रायणीसंहिता/काण्डं ४/प्रपाठकः ११

याज्यानुवाक्याः

4.11.1 अनुवाकः1
इन्द्राग्नी रोचना दिवः, प्र चर्षणिभ्या , इन्द्राग्नी नवतिं पुरः, श्नथद् वृत्रम् ॥
जुष्टो दमूना अतिथिर्दुरोण इमं नो यज्ञं उपयाहि विद्वान् ।
विश्वा अग्ने अभियुजो विहत्या शत्रूयताम् आभरा भोजनानि ॥
अग्ने शर्ध महते सौभगाय तव द्युम्नानि उत्तमानि सन्तु ।
सं जास्पत्यं सुयममाकृणुष्व शत्रूयतामभितिष्ठा महाँसि ॥
प्र वामर्चन्य् े उक्थिनो नीथाविदो जरितारः ।
इन्द्राग्नी इषा आवृणे ॥
उपो ह यद्विदथं वाजिनो गुर् धीभिर्विप्राः प्रमतिमिछमानाः ।
अर्वन्तो न काष्ठां नक्षमाणा इन्द्राग्नी जोहुवतो नरस्ते ॥
अग्निर्ददाति सत्पतिं सासाह यो युधा नृभिः ।
अग्निरत्यं रघुष्यदं जेतारं अपराजितं ॥
अग्निस्तुविश्रवस्तमं तुविब्रह्माणं उत्तमं ।
अतूर्तं श्रावयत्पतिं पुत्रं ददाति दाशुषे ॥
या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा ।
इन्द्राग्नी ताभिरागतं ॥
शुचिं नु स्तोमं नवजातमद्येन्द्राग्नी वृत्रहणा जुषेथां ।
उभा हि वां सुहवा जोहवीमि ता वाजं सद्य उशते धेष्ठा ॥
पूषा गा अन्वेतु नः, शुक्रं ते अन्यत् ॥
क्षेत्रस्य पतिना वयं हितेनेव जयामसि ।
गामश्वं पोषयित्व्ना आ स नो मृडातीदृशे ॥
मधुमतीर् ओषधीर् द्यावा आपो मधुमन् नो भवत्व् अन्तरिक्षम् ।
क्षेत्रस्य पतिर्मधुमान् नो अस्त्वरिष्यन्तो अन्वेनं चरेम ॥
संसमित् ॥
सखायः सं वः सम्यञ्चमिषं स्तोमं चाग्नये ।
वर्षिष्ठाय क्षितीनां ऊर्जो नप्त्रे सहस्वते ॥
वैश्वानरो न ऊत्या, पृष्टो दिवि ॥
ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् ।
अजस्रं घर्मम् ईमहे ॥
वैश्वानर तव धामानि आचके येभिः स्वर्विदभवो विचक्षण ।
जात आपृणो भुवनानि रोदसी अग्ने ता विश्वा परिभूरसि त्मना ॥
इडामग्ने ॥
त्वं नो अग्ने सनये धनानां यशसं कारुं कृणुहि स्तवानः ।
शकेम कर्मापसा नवेन देवैर् द्यावापृथिवी प्रावतं नः ॥
वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः ।
इतो जातो विश्वमिदं विचष्टे वैश्वानरो यतते सूर्येण ॥
अस्माकमग्ने मघवत्सु धारयानामि क्षत्रमजरं सुवीरं ।
वयं जयेम शतिनं सहस्रिणं वैश्वानर वाजमग्ने तवोतिभिः ॥
विश्वं विव्याच पृथिवीव पुष्टमन्यमन्यत् प्रतिगृभ्णात्यायत् ।
वैश्वानरस्य महतो महिम्ना स्योनं अन्नं मधुमन्मे कृणोमि ॥
स जायमानः परमे व्योमनि व्रतानि अग्निर् व्रतपा अरक्षत ।
व्यन्तरिक्षममिमीत सुक्रतुर्वैश्वानरो महिना नाकमस्पृशत् ॥
यथा ह त्यत् ॥
त्रीण्यायूंषि तव जातवेदस्तिस्र आजानीरुषसस्ते अग्ने ।
ताभिर्देवानामवो यक्षि विद्वानथा भव यजमानाय शं योः ॥
नि अग्निं जातवेदसं होत्रवाहं यविष्ठ्यम् ।
दधाता देवं ऋत्विजं ॥
इडायास्त्वा पदे वयम् , दधिक्राव्णो अकारिषं ॥
दधिक्रावाणं बुबुधानो अग्निम् उप ब्रुव उषसं सूर्यं गां ।
ब्रध्नं मंश्चतोर्वरुणस्य बभ्रुं ते विश्वास्मद् दुरिता यावयन्तु ॥
अग्निर् होता न्यसीदद्यजीयानुपस्थे मातुः सुरभा उलोके ।
युवा कविः पुरुनिष्ठ ऋतावा धर्ता कृष्टीनां उत मध्य इद्धः ॥
साध्वीमकर्देववीतिं नो अद्य यज्ञस्य जिह्वामविदाम गुह्यम् ।
स आयुरागात् सुरभिर्वसानो भद्रामकर्देवहूतिं नो अद्य ॥
यच् चिद्धि ते ॥
महश्चिदग्ना एनसो अभीक ऊर्वाद्देवानां उत मर्त्यानां ।
मा ते सखायः सदमिद् रिषाम यछा तोकाय तनयाय शं योः ॥
मही द्यौः पृथिवी च नः ॥
घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा ।
द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा ॥

4.11.2 अनुवाकः2
पृथुपाजा, स्तं सबाधः ॥
ईडे अग्निं विपश्चितं गिरा यज्ञस्य साधनं ।
श्रुष्टीवानं धितावानं ॥
अग्ने शकेम ते वयं यमं देवस्य वाजिनः ।
अति द्वेषांसि तरेम ॥
उप त्वा रण्वसंदृशं प्रयस्वन्तः सहस्कृत ।
अग्ने संसृज्महे गिरः ॥
उप छायामिव घृणेरगन्म शर्म ते वयम् ।
अग्ने हिरण्यसंदृशः ॥
अग्निर् वृत्राणि जङ्घनत् , त्वं सोमासि सत्पति , रग्नीषोमा युवमेतानि, श्रीणां उदारः ॥
सोमस्य मा तवसं वक्ष्यग्ने वह्निं चकर्थ विदथे यजध्यै ।
देवं अछा दीद्यद् युञ्जे अद्रिँ शमाये अग्ने तन्वं जुषस्व ॥
सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः ।
जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्नमृतस्य नाभिम् ॥
इमौ देवौ जायमानौ जुषन्तेमौ तमांसि गूहताम् अजुष्टा ।
आभ्यामिन्द्रः पक्वमामास्वन्तः सोमापूषभ्यां जनदुस्रियासु ॥
उत नो ब्रह्मन् हविष उक्थेषु देवहूतमः ।
शं नः शोचा मरुद्वृधोऽग्ने सहस्रसातमः ॥
नू नो रास्व सहस्रवत् तोकवत् पुष्टिमद्वसु ।
द्युमदग्ने सुवीर्यं वर्षिष्ठमनुपक्षितं ॥
त्वा युजा तव तत् सोम सख्य इन्द्रो अपो मनवे सस्रुतस्कः ।
अहन्नहिमरिणात्सप्त सिन्धूनपावृणोदपिहितेव खानि ॥
ऋदूदरेण सख्या सचेय यो मा न रिष्येद्धर्यश्व पीतः ।
अयं यः सोमो न्यधाय्यस्मे तस्मा इन्द्रं प्रतिरमेम्यायुः ॥
त्वं नो अग्ने, स त्वं नो अग्ने , अग्निं वः पूर्व्यं गिरा ॥
मक्षू देववतो रथः शूरो वा पृत्सु कासुचित् ।
देवानां य इन्मनो यजमाना इयक्षति अभीदयज्वनो भुवत् ॥
नकिष्टं कर्मणा नशन् न प्रयोषन् न योषति ।
देवानां य इन्मनो यजमाना इयक्षति अभीदयज्वनो भुवत् ॥
असदत्र सुवीर्यमुत त्यदाश्वश्व्यम् ।
दे वानांय इन्मनो यजमाना इयक्षति अभीदयज्वनो भुवत् ॥
उपक्षरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं च धेनवः ।
पृणन्तं च पपुरिं च श्रवस्यवो घृतस्य धारा उपयन्ति विश्वतः ॥
सोमारुद्रा युवं एतानि अस्मे विश्वा तनूषु भेषजानि धत्तं ।
अवस्यतं मुञ्चतं यन् नो अस्ति तनूषु बद्धं कृतमेनो अस्मत् ॥
सोमारुद्रा धारयेथां असुर्यं प्र वां इष्टयोऽरमश्नुवन्तु ।
दमेदमे सप्त रत्ना दधाना शं नो भूतं द्विपदे शं चतुष्पदे ॥
सोमारुद्रा विवृहतं विषूचीममीवा या नो गयमाविवेश ।
आरे बाधेथां निर्ऋतिं पराचैरस्मे भद्रा सौश्रवसानि सन्तु ॥
तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्रा इह सु मृडतं नः ।
मुमुक्तमस्मान् ग्रसितानभीके प्रयच्छतं वृषणा शंतमानि ॥
अग्नाविष्णू सजोषसा , अग्नाविष्णू महि धाम प्रियं वां ॥
अग्नाविष्णू महि तद् वां महित्वं वीथो घृतस्य गुह्या जुषाणा ।
दमे दमे सुष्टुती वावृधाना नु वां जिह्वा घृतमाचरण्यत् ॥
पावका नः सरस्वती ॥
सरस्वत्यभि नो नेषि वस्यो मापस्फरीः पयसा मा ना आधक् ।
जुषस्व नः सख्या वेश्या च मा त्वत् क्षेत्राण्यरण्यानि गन्म ॥
आ नो दिवः ॥
बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य ।
रास्व रत्नानि दाशुषे ॥
एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर्विधेम नमसा हविर्भिः ।
बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणां ॥
आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतं ।
मध्वा रजांसि सुक्रतू ॥
प्र बाहवा सिसृतं जीवसे ना आ नो गव्यूतिमुक्षतं घृतेन ।
आ नो जने श्रवयतं युवाना श्रुतं मे मित्रावरुणा हवेमा ॥
और्वभृगुवच् शुचिमप्नवानवदाहुवे ।
अग्निं समुद्रवाससं ॥
आ सवं सवितुर् यथा भगस्येव भुजिं हुवे ।
अग्निं समुद्रवाससं ॥
हुवे वातस्वनं कविं पर्जन्यक्रद्यं सहः ।
अग्निं समुद्रवाससं ॥
वृषा सोम द्युमं असि ॥
आ ये तन्वन्ति रश्मिभिस्तिरः समुद्रमर्णवं ।
मरुद्भिरग्ना आगहि ॥
आ वो यन्तूदवाहासो अद्य वृष्टिँ ये विश्वे मरुतो जुनन्ति ।
अयं यो अग्निर्मरुतः समिद्ध एतं जुषध्वं कवयो युवानः ॥
यं त्वा देवापिः शुशुचानो अग्न आर्ष्टिषेणो मनुष्यः समीधे ।
विश्वेभिर्देवैरनुमद्यमानः प्र पर्जन्यम् ईरया वृष्टिमन्तम् ॥
अग्ने बाधस्व वि मृधो वि दुर्गहापामीवां अप रक्षांसि सेध ।
अस्मात्समुद्राद् बृहतो दिवो नोऽपां भूमानं उप नः सृजेह ॥
प्रिया वो नाम हुवे तुराणामा यत् तृपन्मरुतो वावशानः ॥
श्रियसे कं भानुभिः संमिमिक्षिरे ते रश्मिभिस्त ऋक्वभिः सुखादयः ।
ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः ॥
मरुतो यद्ध वो दिवः ॥
प्रैषामज्मेषु विथुरेव रेजते भूमिर् यामेषु यद्ध युञ्जते शुभे ।
ते क्रीडयो धुनयो भ्राजदृष्ट्यः स्वयं महित्वं पनयन्त धूतयः ॥

4.11.3 अनुवाकः3
कया शुभा सवयसः सनीडाः समान्या मरुतः संमिमिक्षुः ।
कया मती कुता एतास एतेऽर्चन्ति शुष्मं वृषणो वसूया ॥
कस्य ब्रह्माणि जुजुषुर् युवानः को अध्वरे मरुता आववर्त ।
श्येनमिव ध्रजतो अन्तरिक्षे केन महा मनसा रीरमाम ॥
कुतस्त्वमिन्द्र माहिनः सन्नेको यासि सत्पते किं त इत्था ।
संपृच्छसे समराणः शुभानैर्वोचेस्तन्नो हरिवो यत्ते अस्मे ॥
ब्रह्माणि मे मतयः शं सुतासः शुष्म इयर्ति प्रभृतो मे अद्रिः ।
आशासते प्रतिहर्यन्य्तः उक्थेमा हरी वहतस्ता नो अच्छ ॥
अतो वयमन्तमेभिर् युजानाः स्वक्षत्रेभिस्तन्वः शुम्भमानाः ।
महोभिरेकमुपयुज्महे न्विन्द्रः स्वधामनु हि नो बभूथ ॥
क्व स्या वो मरुतः स्वधासीद्यन्मामेकं समधत्ताहिहत्ये ।
अहं ह्युग्रस्तविषस्तुविष्मान् विश्वस्य शत्रोरनमं वधस्नैः ॥
भूरि चकर्थ युज्येभिरस्मे समानेभिर् वृषभ पौँस्येभिः ।
भूरीणि हि कृणवामा शविष्ठेन्द्रः कृत्वा मरुतो यद्वशाम ॥
वधीँ वृत्रं मरुत इन्द्रियेण स्वेन भामेन तविषो बभूवान् ।
अहमेता मनवे विश्वश्चन्द्राः सुगा अपश्चकर वज्रबाहुः ॥
अनुत्तमा ते मघवन् नकिर्णु न त्वावं अस्ति देवता विदानः ।
न जायमानो नशते न जातो यानि करिष्या कृणुहि प्रवृद्ध ॥
एकस्य चिन् मे विभ्वस्त्व् ओजो या नु दधृष्वान् कृणवै मनीषा ॥
अहं ह्युग्रो मरुतो विदानो यानि च्यवमिन्द्रा इदीश एषाम् ॥
अमन्दन्मा मरुतः स्तोमो अत्र यन्मे नरः श्रुत्यं ब्रह्म चक्र ।
इन्द्राय वृष्णे सुमखाय मह्यं सख्ये सखायस्तन्वे तनूभिः ॥
एवेदेते प्रति मा रोचमाना अनेद्यः श्रवा एषो दधानाः ।
संचक्ष्या मरुतश्चन्द्रवर्णा अछान्त मे छदयाथा च नूनं ॥
को न्व् अत्र मरुतो मामहे वः प्रयातन सखीँरछा सखायः ।
मन्मानि चित्रा अपिवातयन्त एषां भूत नवेदा म ऋतानां ॥
आ यद् दुवस्याद् दुवसे न कारुरस्माँश्चक्रे मान्यस्य मेधा ।
ओ षू वर्त मरुतो विप्रमछेमा ब्रह्माणि जरिता वो अर्चत् ॥
एष वः स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः ।
एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥

4.11.4 अनुवाकः4
इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः ।
अस्माकमस्तु केवलः ॥
आ ते शुष्मो वृषभ एतु पश्चादोत्तरादधरादा पुरस्तात् ।
आ विश्वतो अभि समेत्वर्वाङ् इन्द्र द्युम्नं स्वर्वद् धेह्यस्मे ॥
मरुतो यद्ध वो दिवो , या वः शर्म ॥
आ तू न इन्द्र वृत्रहन्नस्माकमर्धमागहि ।
महान्महीभिरूतिभिः ॥
त्वं महं इन्द्र तुभ्यँ ह क्षा अनु क्षत्रं मंहना मन्यत द्यौः ।
त्वं वृत्रं शवसा जघन्वान्त्सृजः सिन्धूँरहिना जग्रसानान् ॥
मरुतो यद्ध वो बलं जनं अचुच्यवीतन ।
गिरींरचुच्यवीतन ॥
ऋष्टयो वो मरुतो अंसयोरधि सहा ओजो बाह्वोर्वो बलं हितं ।
नृम्णा शीर्षस्वायुधा रथेषु नो विश्वा वः श्रीरधि तनूषु पिपिशे ॥
पुरुत्रा हि सदृङ्ङ् असि विशो विश्वा अनु प्रभुः ।
समत्सु त्वा हवामहे ॥
समत्स्व् अग्निमवसे वाजयन्तो हवामहे ।
वाजेषु चित्रराधसं ॥
अग्ने नया , आ देवानां , त्वमग्ने व्रतपा असि, यद्वो वयम् ॥
त्वमग्ने व्रतभृच् शुचिरग्ने देवं इहावह ।
उप यज्ञं हविश्च नः ॥
व्रता नु बिभ्रद् व्रतपा अदब्धो यजानो देवो अजरः सुवीरः ।
दधद्रत्नानि सुमृडीको अग्ने गोपाय नो जीवसे जातवेदः ॥
श्रेष्ठँ यविष्ठ भारताग्ने द्युमन्तमाभर ।
वसो पुरुस्पृहं रयिम् ॥
तुभ्यं भरन्ति क्षितयो यविष्ठ बलिमग्ने अन्तिता ओत दूरात् ।
आ भन्दिष्ठस्य सुमतिं चिकिद्धि महत्ते अग्ने महि शर्म भद्रम् ॥
त्वामग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतं ।
स नो रास्व सुवीर्यम् ॥
अयं नो अग्नि , रनीकैर् द्वेषो अर्दय, सैनानीकेन , इदं विष्णुः, प्र तद्विष्णुः ॥
आ वो राजानं अध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः ।
अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वं ॥
कद्धिष्यापुसु वृधसानो अग्ने कद्वाताय प्रतवसे शुभँये ।
परिज्मने नासत्याय क्षे ब्रवः कदग्ने रुद्राय नृघ्ने ॥
उक्षान्नाय वशान्नाय ॥
वातोपधूत इषितो वशं अनु त्रिषु यदन्ना वेविषद्वितिष्ठसे ।
आ ते यतन्ते रथ्यो यथा पृथक् शर्धाँस्यग्ने अजराणि धक्षतः ॥

4.11.5 अनुवाकः5
कृणुष्व पाजा इति पञ्च ॥
स ते जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुमैरत् ।
विश्वानि अस्मै सुदिनानि रायो द्युम्नानि अर्यो वि दुरो अभिद्यौत् ॥
सेदग्ने अस्तु सुभगः सुदानुर्यस्त्वा नित्येन हविषा य उक्थैः ।
पिप्रीषति स्व आयुषि दुरोणे विश्वेदस्मै सुदिना सासदिष्टिः ॥
अर्चामि ते सुमतिं घोष्यर्वाक् सं ते वावाता जरतामियं गीः ।
स्वश्वास्त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेरनु द्यून् ॥
इह त्वा भूर्याचरेदुप त्मन् दोषावस्तर् दीदिवांसं अनु द्यून् ।
क्रीडन्तस्त्वा सुमनसः सपेमाभि द्युम्ना तोथिवांसो जनानां ॥
यस्त्वा स्वश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन ।
तस्य त्राता भवसि तस्य सखा यस्त आतिथ्यमानुषग् जुजोषत् ॥
महो रुजामि बन्धुता वचोभिस्तन्मा पितुर् गोतमादन्वियाय ।
त्वं नो अस्य वचसश्चिकिद्धि होतर्यविष्ठ सुक्रतो दमूनाः ॥
अस्वप्नजस्तरणयः सुशेवा अतन्द्रासोऽवृका अश्रमिष्ठाः ।
ते पायवः सध्र्यञ्चो निषद्याग्ने तव नः पान्त्वमूर ॥
ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन् ।
ररक्ष तान्सु्यकृतो विश्ववेदा दिप्सन्ता इद् रिपवो नाह देभुः ॥
त्वया वयं सधन्यस्त्वोतास्तव प्रणीत्यश्याम वाजान् ।
उभा शंसा सूदय सत्यतातेऽनुष्ठुया कृणुह्यह्रयाण ॥
अया ते अग्ने समिधा विधेम प्रति स्तोमं शस्यमानं गृभाय ।
दहाशसो रक्षसः पाह्यस्मान् द्रुहो निदो मित्रमहो अवद्यात् ॥
अग्नी रक्षांसि सेधति शुक्रशोचिरमर्यः ृ ।
शुचिः पावक ईड्यः ॥
त्वं नः सोम विश्वतः ॥

4.11.6 अनुवाकः6
युक्वानः हि देवहूतमान् ॥
उत नो देव देवं अछा वोचो विदुष्टरः ।
श्रद्विश्वा वार्या कृधि ॥
त्वं ह यद्यविष्ठ्य सहसः सून आहुत ।
ऋतावा यज्ञियो भुवः ॥
अयमग्निः सहस्रिणः ॥
तं नेमिम् ऋभवो यथा नमस्व सहूतिभिः ।
नेदीयो यज्ञमङ्गिरः ॥
तस्मै नूनं अभिद्यवे वाचा विरूप नित्यया ।
वृष्णे चोदस्व सुष्टुतिम् ॥
कमु ष्विदस्य सेनयाग्नेरपाकचक्षसः ।
पणिं गोषु स्तरामहे ॥
मा नो देवानां विशः प्रस्नातीरिवोस्राः ।
कृशं न हासुरघ्न्याः ॥
मा नः समस्य दूढ्यः परिद्वेषसो अंहतिः ।
ऊर्मिर्न नावमावधीत् ॥
नमस्ते अग्ना ओजसे गृणन्ति देव कृष्टयः ।
अमैरमित्रमर्दय ॥
इमं यज्ञं इदं वचो जुजुषाण उपागहि ।
सोम त्वं नो वृधे भव ॥
कुवित् सु नो गइष्टयेऽग्ने संवेषिषो रयिम् ।
उरुकृदुरु णस्कृधि ॥
मा नो अस्मिन्महाधने परा वर्ग्भारभृद्यथा ।
संवर्गँ सं रयिं जय ॥
यस्याजुषन् नमस्विनः शमीमदुर्मखस्य वा ।
तं हेदग्निर्विधावति ॥
अन्यमस्मद् भिया इयम् अग्ने सिषक्तु दुच्छुना ।
वर्धा नो अमवच् शवः ॥
इति खिलकाण्डे एकादशः प्रपाठकः॥