मैत्रायणीसंहिता/काण्डं ४/प्रपाठकः १२

याज्यानुवाक्याः

4.12.1 अनुवाकः1
इदं वां आस्ये हविः प्रियमिन्द्राबृहस्पती ।
उक्थं मदश्च शस्यते ॥
अस्मे इन्द्राबृहस्पती रयिं धत्तं शतग्विनं ।
अश्वावन्तं सहस्रिणं ॥
एह्य् उ षु ब्रवाणि तेऽग्ने इत्थेतरा गिरः ।
एभिर्वर्धासा इन्दुभिः ॥
इमं यज्ञं इदं वचः ॥
त्यान्नु क्षत्रियं अव आदित्यान् याचिषामहे ।
सुमृडीकं अभिष्टये ॥
येभ्यो माता मधुमत् पिन्वते पयः पीयूषं द्यौर् अदितिरद्रिबर्हाः ।
उक्थशुष्मान् वृषभरान्स्विथप्नसस्तमादित्यं अनुमदात् स्वस्तये ॥
धारयन्त आदित्यासो जगत् स्था देवा विश्वस्य भुवनस्य गोपाः ।
दीर्घाधियो रक्षमाणा असुर्यम् ऋतावानश्चयमाना ऋणानि ॥
त्री रोचना दिव्या धारयन्त हिरण्यया शुचयो धारपूताः ।
अवृजिना अनवद्या अदब्धा उरुशंसा ऋजवे मर्त्याय ॥
तत् सूर्यस्य, भद्रा अश्वा , हिरण्यगर्भो , यः प्राणतः ॥
बृहस्पतिः प्रथमं जायमानो महो ज्योतिक्षः परमे व्योमन् ।
सप्तास्यस्तुविजातो रवेण वि सप्तरश्मिरधमत्तमांसि ॥
यदा वाजमसनद्विश्वरूपमा द्यामरुक्षदुत्तराणि सद्म ।
बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तो बिभ्रतो ज्योतिरासां ॥
बृहस्पतिं हवामहे विश्वतः सगणं वयम् ।
उप नो यज्ञमागमत् ॥
स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेण ।
बृहस्पतिरुस्रिया हव्यसूदः कनिक्रदद्वावशतीरुदाजत् ॥
ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व ।
विश्वं तद् भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥
ब्रह्मणस्पते सूयमस्य विश्वहा रायः स्याम रथ्यो वयस्वतः ।
वीरेषु वीरं उपपृङ्धि नस्त्वं यदीशानो ब्रह्मणा वेषि मे हवं ॥
उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे ।
उप प्रयन्तु मरुतः सुदानवा इन्द्र प्राशूर्भवा सचा ॥
अग्निरुक्थे पुरोहितो ग्रावाणो बर्हिरध्वरे ।
ऋचा यामि मरुतो ब्रह्मणस्पतिं देवं अवो वरेण्यम् ॥
नमस्ते रुद्र मन्यवे , इमा रुद्राय ॥
को अद्धा वेद क इह प्रवोचत् कुता आजाता कुत इयं विसृष्टिः ।
अर्वाग् देवा अस्य विसर्जनेनाथा को वेद यत आबभूव ॥
इयं विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न ।
यो अस्याध्यक्षः परमे व्योमन्त्सो अङ्ग वेद यदि वा न वेद ॥
इदं विष्णुर्विचक्रमे ॥
तदस्य प्रियमभि पाथो अश्यां नरो यत्र देवयवो मदन्ति ।
उरुक्रमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्वा उत्सः ॥
विश्वे देवा ऋतावृधः ॥
विश्वे देवाः शृणुतेमं हवं मे ये अन्तरिक्षे य उप द्यवि ष्ठ ।
ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन् बर्हिषि मादयध्वं ॥
इन्द्राणी पत्या सुजितं जिगाय सेना ह नाम पृथिवी धनंजया विश्वव्यचा अदितिः सूर्यत्वक् ।
इन्द्राणी प्रासहा संजयन्ती तस्यै त एना हविषा विधेम ॥
उपप्रेहि वाचस्पते देवेन मनसा सह ।
वसुपते विरमय मय्येव तन्वं मम ॥
ये त्रिसप्ताः परियन्ति विश्वा रूपाणि बिभ्रतः ।
वाचस्पतिर् बला तेषां तन्वोऽद्य दधातु मे ॥

4.12.2 अनुवाकः2
अग्निः प्रथमो वसुभिर्नो अव्यात् सोमो रुद्रैरभिरक्षतु त्मना ।
इन्द्रो मरुद्भिर् ऋतुथा कृणोत्व् आदित्यैर् नो वरुणः शर्म यंसत् ॥
समग्निर्वसुभिर् नो अव्यात् सं सोमो रुद्रियाभिस्तनूभिः ।
समिन्द्रो रातहव्यो मरुद्भिः समादित्यैर्वरुणो विश्ववेदाः ॥
अग्ने दा दाशुषे रयिँ वीरवन्तं परीणसं ।
शिशीहि नः सूनुमतः ॥
दा नो अग्ने शतिनो दाः सहस्रिणो दुरो न वाजं श्रुत्या अपावृधि ।
प्राची द्यावापृथिवी ब्रह्मणा कृधि स्वर्ण शुक्रमुषसो विदिद्युतुः ॥
हिरण्यपाणिमूतये सवितारं उपह्वये ।
स चेत्ता देवता पदं ॥
वामं अद्य सवितर्वामं उ श्वो दिवेदिवे वाममस्मभ्यँ सावीः ॥
वामस्य हि क्षयस्य देव भूरेरया धिया वामभाजः स्याम ॥
प्र वायुम् , प्र याभिः ॥
स्योना पृथिवि भवानृक्षरा निवेशनी ।
यछा नः शर्म सप्रथः ॥
बडित्था पर्वतानां खिद्रं बिभर्षि पृथिवि ।
प्र या भूमिं प्रवत्वति मह्ना हिनोषि महिनि ॥
पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परियातो अध्वरम् ।
विश्वानि अन्यो भुवना विचष्ट ऋतूँरन्यो विदधज्जायते पुनः ॥
नवो नवो भवति जायमानोऽह्नां केतुरुषसां एत्यग्रम् ।
भागं देवेभ्यो विदधात्यायन् प्र चन्द्रमास्तिरते दीर्घम् आयुः ॥
यथादित्या अंशुमाप्याययन्ति यथाक्षितिम् अक्षितयः पिबन्ति ।
एवास्मान् इन्द्रो वरुणो बृहस्पतिर् आप्याययन्तु भुवनस्य गोपाः ॥
प्राच्यां दिशि त्वमिन्द्रासि राजोतोदीच्यां वृत्रहन् वृत्रहासि ।
यत्र यन्ति स्रोत्यास्तज्जितं ते दक्षिणतो वृषभो हव्य एधि ॥
अस्येदेव प्ररिरिचे महित्वं दिवो पृथिव्याः पर्यन्तरिक्षात् ।
स्वराड् इन्द्रो दमा आ विश्वगूर्तः स्वरिरमत्रो ववक्षे रणाय ॥
त्वमिन्द्रास्यधिराजस्त्वं भवाधिपतिर्जनानां ।
दैवीर्विशस्त्वमुता विराजौजस्वत् क्षत्रमजरं ते अस्तु ॥
आ यस्मिन्त्सप्त वासवा रोहन्ति पूर्व्या रुहः ।
ऋषिर्ह दीर्घश्रुत्तमा इन्द्रस्य घर्मो अतिथिः ॥
मदो न यः सोम्यो बोधिचक्षा वातश्च नु च्यवन इन्दुविक्षाः ।
स तप्नुः शुचसे न सूरः स स्वेदयुः शुशुचानो न घर्मः ॥
इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु ।
इन्द्र तानि ता आवृणे ॥
अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वमनु वृत्रहत्ये ।
अनु क्षत्रमनु सहो यजत्रेन्द्र देवेभिरनु ते नृषह्ये ॥
अनवस्ते रथमश्वाय तक्षन् त्वष्टा वज्रं पुरुहूत द्युमन्तम् ।
ब्रह्माणा इन्द्रं महयन्तो अर्कैरवर्धयन्नहये हन्तवा उ ॥
वृष्णे यत्ते वृषणो अर्कमर्चानिन्द्र ग्रावाणो अदितिः सजोषाः ।
अनश्वासो ये पवयोऽरथा इन्द्रेषिता अभ्यवर्तन्त दस्यून् ॥

4.12.3 अनुवाकः3
विवेष यन्मा धिषणा जजान स्तवै पुरा पार्यादिन्द्रमह्नः ।
अंहसो यत्र पीपरद्यथा नो नावेव यान्तम् उभये हवन्ते ॥
अंहोमुचे प्रभरेमा मनीषां भूयिष्ठदाव्ने सुमतिमावृणानः ।
इदमिन्द्र प्रति हव्यं जुषस्व सत्याः सन्तु यजमानस्य कामाः ॥
त्रातारं इन्द्रमवितारं इन्द्रं हवेहवे सुहवं शूरमिन्द्रम् ।
हुवे नु शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा धात्विन्द्रः ॥
मा ते अस्यां सहसावन् परिष्टा अघाय भूम हरिवः परादैः ।
त्रायस्व नोऽवृकेभिर्वरूथैस्तव प्रियासः सूरिषु स्याम ॥
अनु त्वाहिघ्ने अध देव देवा मदन् विश्वे कवितमं कवीनां ।
करो यत्र वरिवो बाधिताय दिवे जनाय तन्वे गृणानः ॥
अनु द्यावापृथिवी तत्ता ओजोऽमर्त्या जिहत इन्द्र देवाः ।
कृष्वा कृत्नो अकृतं यत्ते अस्त्य् उक्थं नवीयो जनयस्व यज्ञैः ॥
अभि प्रभर धृषता धृषन्मनः श्रवश्चित्ते असद् बृहत् ।
अर्षन्व्भा आपो जवसा वि मातरो हनो वृत्रं जया स्वः ॥
अस्मा इदु प्रभरा तूतुजानो वृत्राय वज्रं ईशानः कियेधाः ।
गोर्न पर्व विरदा तिरश्चेष्यन्नर्णांस्यपां चरध्यै ॥
वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः ।
अधस्पदं तमीं कृधि यो अस्मं अभिदासति ॥
मृगो न भीमः कुचरो गिरिष्ठाः परावता आजगन्था परस्याः ।
सृकं संशाय पविमिन्द्र तिग्मं वि शत्रून् ताढि वि मृधो नुदस्व ॥
आकरे वसोर्जरिता पनस्यतेऽनेहसः स्तुभा इन्द्रो दुवस्यति ।
विवस्वतः सदना आ हि पिप्रिये सत्रासाहमभिमातिहनं स्तुहि ॥
त्वं सपत्नान् पृतनासु जिष्णुरिन्द्राभिषाडभिमातीरपघ्नन् ।
पिबा सोमं वज्रबाहो विषह्यास्मभ्यं पणीँरर्वस्वामुखाय ॥
पुरुष्टुतस्य नामभिः शतेन महयामसि ।
इन्द्रस्य चर्षणीसहः ॥
नामानि ते शतक्रतो विश्वाभिर् गीर्भिरीमहे ।
इन्द्राभिमातिषाह्ये ॥
अर्वावतो ना आगहि परावतश्च वृत्रहन् ।
इमा जुषस्व नो गिरः ॥
यदन्तरा परावतमर्वावतं च हूयसे ।
इन्द्रेह तता आगहि ॥
एन्द्र सानसिँ रयिँ सजित्वानं सदासहं ।
वर्षिष्ठम् ऊतये भर ॥
प्रससाहिषे पुरुहूत शत्रून् ज्येष्ठस्ते शुष्म इह रातिरस्तु ।
इन्द्राभर दक्षिणेना वसूनि पतिः सिन्धूनामसि रेवतीनां ॥
इन्द्रं नरो नेमधिता हवन्ते यत्पार्या युनजते धियस्ताः ।
शूरो नृषाता श्रवसश्चकान आ गोमति व्रजे भजा त्वं नः ॥
हृदं न हि त्वा नयृषन्य्चक ऊर्मयो ब्रह्माणीन्द्र तव यानि वर्धना ।
त्वष्टा चित्ते युज्यं वावृधे शवस्ततक्ष वज्रं अभिभूत्योजसं ॥
अभि स्ववृष्टिं मदे अस्य युध्यतो रघ्वीरिव प्रवणे सस्रुरूतयः ।
इन्द्रो यद्वज्री धृषमाणो अन्धसा भिनद्वलस्य परिधीँरिव त्रितः ॥
तमिन्द्रं वाजयामसि, युजे रथं ॥
वृत्रतुरं मघवानं शचीपतिम् इन्द्रं गिरो बृहतीरभ्यनूषत ।
वावृधानं पुरुहूतं सुवृक्तिभिरमर्त्यं जरमाणं दिवेदिवे ॥
अहन् वृत्रं वृत्रतरं व्यंसमिन्द्रो वज्रेण महता वधेन ।
स्कन्धांसीव कुलिशेना विवृक्णाहिः शयत उपपृक् पृथिव्याः ॥
अभितिष्ठ पृतन्यतोऽधरे सन्तु शत्रवः ।
इन्द्र इव दस्युहा भवापः क्षेत्राणि संजय ॥
आशीर्ना ऊर्जमुत सुप्रजास्त्वमिषं दधातु द्रविणं सवर्चसं ।
संजयन् क्षेत्राणि सहसाहमिन्द्र कृण्वानो अन्यं अधरान्त्सपत्नान् ॥
त्वमिन्द्रास्यधिराजः ॥
इन्द्रो जयति न पराजयते अधिराजो राजसु राजयते ।
विश्वा अभिष्टिः पृतना जयत्य् उपसद्यो नमsयो यथासत् ॥
आ ते मह इन्द्रोत्युग्र समन्यवो यत्समरन्त सेनाः ।
पताति दिद्युन् नर्यस्य बाह्वोर्मा ते मनो विष्वद्र्यग् विचारीत् ॥
यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत् ।
यस्य शुष्माद् रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनासा इन्द्रः ॥
मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणो विश्ववेदाः ।
मन्युँ विश ईडते मानुषीर्या अवा नो मन्यो तपसा सजोषाः ॥
त्वं हि मन्यो अभिभूत्योजाः स्वयंजो भामो अभिमातिषाहः ।
विश्वचर्षणिः सहुरिः सहावान्त्स हूयमानो अमृताय गच्छत् ॥
इडामग्ने, त्वं नो अग्ने, किमित्ते विष्णो, प्र तत्ते अद्य ॥
दीर्घस्ते अsत्वङ्कुशो येना वसु प्रयच्छसि ।
यजमानाय सुन्वते ॥
भद्रा ते हस्ता सुकृतोत पाणी प्रयन्तारा स्तुवते राध इन्द्र ।
का ते निषत्तिः (निशत्रिः) किमु नो ममत्सि किं नोदुदु हर्षसे दातवा उ ॥

4.12.4 अनुवाकः4
इन्द्रावरुणा युवमध्वराय नो विशे जनाय महि शर्म यच्छतं ।
दीर्घप्रयज्युमति यो वनुष्यति वयं जयेम पृतनासु दूढ्यः ॥
सम्राड् अन्यः स्वराडन्य उच्यते वां महान्ता इन्द्रावरुणा महावसू ।
विश्वे देवासः परमे व्योमनि सं वामोजो वृषणा सं बलं दधुः ॥
विश्वाहेन्रोवा अधिवक्ता नो अस्त्वपरिहृताः सनुयाम वाजं ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥
एनां मुखेन वायुमिन्द्रवन्तोऽचिष्याम वृजने विश्व ऊती ।
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ॥
कुत्रा चिद्यस्य समृतौ रण्वा नरो नृषदने ।
अर्हन्तश्चिद्यमिन्धते संजनयन्ति जन्तवः ॥
सं यदिषो वनामहे सं हव्या मानुषाणां ।
उत द्युम्नस्य शवस ऋतस्य रश्मिम् आददे ॥
यदद्य सूर्य ब्रवोऽनागा उद्यन् मित्राय वरुणाय सत्यं ।
वयं देवत्रादिते स्याम तव प्रियासो अर्यमन् गृणन्तः ॥
उद् वां पृक्षासो मधुमन्तो अस्थुरा सूर्यो अरुहच् शुक्रमर्णः ।
यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणः सजोषाः ॥
उपेमसृक्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे ।
अपां नपादाशुहेमा कुवित्स सुपेशसस्करति जोषिषद्धि ॥
समन्या यन्ति ॥
अपां नपादा ह्यस्थादुपस्थं जिह्मानां ऊर्ध्वो विद्युतं वसानः ।
तस्य ज्येष्ठं महिमानं वहन्तीर् हिरण्यवर्णाः परियन्ति यह्वीः ॥
तमस्मेरा युवतयो युवानं मर्मृज्यमानाः परियन्या ोपः ।
स शुक्रेभिः शिक्वभी रेवदग्निर् दीदायानिध्मां घृतनिर्णिगप्सु ॥
अग्ना आयूंषि पवसे ॥
आयुर्दा देव जरसं वृणानो घृतप्रतीको घृतपृष्ठो अग्ने ।
घृतं पिबन्नमृतं चारु गव्यं पितेव पुत्रं जरसे म एमम् ॥
गयस्फानो अमीवहा ॥
या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तु यज्ञं ।
गयस्फानः प्रतरणः सुवीरोऽवीरहा प्रचरा सोम दुर्यान् ॥
सुत्रामाणं, महीम् ऊ षु , इमं मे वरुण, तत् त्वा यामि, वैश्वानरो न ऊत्या, पृष्टो दिवि , अभि त्वा शूर नोनुम, स्त्वामिद्धि हवामहे ॥
आपप्राथ महिना वृष्यारा वृषन् विश्वा शविष्ठ शवसा ।
अस्मँ अव मघवन् गोमति व्रजे वज्रिञ् चित्राभिरूतिभिः ॥
बोधा सु मे मघवन् वाचं एमां यां ते वसिष्ठो अर्चति प्रशस्तिम् ।
इमा ब्रह्म सधमादे जुषस्व ॥
रेवतीर् नः सधमादा इन्द्रे सन्तु तुविवाजाः ।
क्षुमन्तो याभिर्मदेम ॥
प्रो ष्व् अस्मै पुरोरथमिन्द्राय शूषमर्चत ।
अभीके चिदु लोककृत्सङ्गे समत्सु वृत्रहा ।
अस्माकं बोधि चोदिता नभन्तामन्यकेषाम् ज्याका अधि धन्वसु ॥
आ नो अग्ने सुचेतुना ॥
आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् ।
विश्वासु पृत्सु दुष्टरं ॥
इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः ।
तं इन्महत्स्व् आजिषूतेमर्भे हवामहे स वाजेषु प्र नोऽविषत् ॥
मदे मदे हि नो ददिर् यूथा गवां ऋजुक्रतुः ।
संगृभाय पुरू शतोभयाहस्त्या वसु शिशीहि राय आभर ॥
ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः ।
व्रतानि अस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यं ॥
ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः ।
प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यं ॥
घृतं न पूतं तनूररेपाः शुचि हिरण्यम् ।
तत्ते रुक्मो न रोचत स्वधावः ॥
ओभे सुश्चन्द्र विश्पते ॥
आर्यमा याति वृषभस्तुराषाड् दाता वसूनि विदधे तनूपाः ।
सहस्राक्षो गोत्रभिद्वज्रबाहुरस्मासु देवो द्रविणं दधातु ॥
ये तेऽर्यमन् बहवो देवयानाः पन्थानो राजन् दिव आचरन्ति ।
तेभिर् नो देव महि शर्म यच्छ शं नो भव द्विपदे शं चतुष्पदे ॥
उदग्ने शुचयस्तव , अयमग्निर् वीरतम, स्तत् सूर्यस्य, भद्रा अश्वाः, सप्त त्वा हरितो रथे, तरणिर्विश्वदर्शतः ॥
चक्षुर् नो धेहि चक्षुषे चक्षुर्विख्यै तनूभ्यः ।
सं चेदं वि च पश्येम ॥
सुसंदृशं त्वा वयं प्रति पश्येम सूर्य ।
वि पश्येम नृचक्षसः ॥

4.12.5 अनुवाकः5
युवं सुरामं अश्विना ॥
होता यक्षदश्विनौ सरस्वतीमिन्द्रं सुराम्णां सोमानां पिबतु मदन्तां व्यन्तु
होतर्यज ।
पुत्रमिव पितरौ ॥
इन्द्रः सुत्रामा स्ववं अवोभिः सुमृडीको भवतु विश्ववेदाः ।
बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ।
स सुत्रामा स्ववं इन्द्रो अस्मदाराच्चिद् द्वेषः सनुतर् युयोतु ॥
अग्ने वाजस्य गोमतः ॥
भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः ।
भद्रा उत प्रशस्तयः ॥
सं समित् , एना वो अग्निम् , आ ते अग्ना इधीमहि , अग्ने त्री ते वाजिना त्री षधस्था ॥
त्रिरग्निर् बलभिद् बलं भित्त्वा सहस्रमैरयत् ।
शूरो जेतापराजितः ॥
त्रिरह्नः पवते वृषा सोमः शुक्राभिर् ऊतिभिः ।
वाजी सहस्रसातमः ॥
सं वां कर्मणा समिषा हिनोमीन्द्राविष्णू अपसस्पारे अस्य ।
जुषेथां यज्ञं द्रविणं च धत्तमरिष्टैर् नः पथिभिः पारयन्ता ॥
उभा जिग्यथुः ॥
इन्द्राविष्णू दृंहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टं ।
शतं वर्चिनः सहस्रं च साकं हथो अप्रत्यसुरस्य वीरान् ॥
उत माता महिषमन्ववेनदमी त्वा जहति पुत्र देवाः ।
अथाब्रवीद् वृत्रमिन्द्रो हनिष्यन्त्सखे विष्णो वितरं विक्रमस्व ॥
त्रीण्यायूंषि तव जातवेदः ॥
अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन् ।
अर्कस्त्रिधातू रजसो विमानोऽजस्रो घर्मो हविरस्मि नाम ॥
विद्मा ते अग्ने त्रेधा त्रयाणि ॥
वृषणं त्वा त्रिककुभं त्रिमूर्धानं त्रिसंदृशम् ।
वर्ष्मन् पृथिव्या ईमहे अग्ने हव्याय वोढवे ॥
अतिविद्धा , अस्येदेवा ॥
पर्जन्याय प्रगायत दिवस्पुत्राय मीढुषे ।
स नो यवसमिच्छतु ॥
प्र वाता वान्ति पतयन्ति विद्युता उदोषधीर् जिहते पिन्वते स्वः ।
इरा विश्वस्मै भुवनाय जायते यत् पर्जन्यः पृथिवीं रेतसावति ॥
यस्तस्तम्भ सहसा वि ज्मो अन्तान् बृहस्पतिस्त्रिषधस्थो रवेण ।
तं प्रत्नासा ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम् ॥
विभिद्या पुरं शयथेमपाचीं निः त्रीणि साकमुदधेरकृन्तत् ।
बृहस्पतिरुषसं सूर्यं गामर्कं विवेद स्तनयन्निव द्यौः ॥
कृष्णँ नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति ।
त आववृत्रन्त्सदनाद् ऋतस्यादिद् घृतेन पृथिवी व्युद्यते ॥
आ ते सुपर्णा अमिनन्त एवैः कृष्णो नोनाव वृषभो यदीदं ।
शिवाभिर्न स्मयमानाभिर् आगात् पतन्ति मिहः स्तनयन्त्यभ्राम् ॥
वाश्रेव विद्युन् मिमाति वत्सं न माता सिषक्ति ।
यदेषां वृष्टिरसर्जि ॥
पर्वतश्चिन्महि वृद्धो बिभाय दिवश्चित् सानु रेजत स्वने वः ।
यत् क्रीडथ मरुत ऋष्टिमन्ता आप इव सध्र्यञ्चो धवध्वे ॥
सृजन्ति रश्मिम् ओजसा पन्थाँ सूर्याय यातवे ।
ते भानुभिर्वितस्थिरे ॥
बहिष्ठेभिर्विहरन् यासि तन्तुमवव्ययन्नसितं देव वस्म ।
दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस्तमो अप्स्वन्तः सूर्यो अपो विगाहते रश्मिभिर्वाजसातमः ।
बोधात् स्तोमैर्वयो दधत् ॥

4.12.6 अनुवाकः6
अर्वाञ्चो अद्या भवता यजत्रा आ वो हार्दि भयमानो व्ययेयम् ।
त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्तादवपदो यजत्राः ॥
प्र वा एको मिमय भूर्यागो यन्मा पितेव कितवं शशास ।
आरे पाशा आरे अघानि देवा मा माधि पुत्रे विमिव ग्रभीष्ट ॥
आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् ।
येषामिन्द्रो युवा सखा ॥
याभ्यां स्वरजनन्नग्र एव या आतस्थतुर् भुवनानि विश्वा ।
प्र चर्षणी वृषणा वज्रबाहुमग्निमिन्द्रं वृत्रहणं हुवेम ॥
अग्ना इन्द्रश्च दाशुषो दुरोणे सुतावतो यज्ञं इहोपयातम् ।
अमर्धन्ता सोमपेयाय देवा ॥
अन्व् अद्य नो अनुमति, रन्विदनुमते त्वं ॥
राकामहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना ।
सीव्यत्वपः सूच्याछिद्यमानया ददातु वीरं शतदायम् उक्य्बम् ॥
यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि ।
ताभिर् नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा (रराण) ॥
सिनीवालि पृथुष्टुके या देवानामसि स्वसा ।
जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः ॥
या सुपाणिः स्वङ्गुरिः सुषूमा बहुसूवरी ।
तस्यै विश्पत्यैस् हविः सिनीवाल्यै जुहोतन ॥
कुहूमहं सुकृतं विद्मनापसं अस्मिन् यज्ञे सुहवां जोहवीमि ।
सा नो ददातु श्रवणं पितॄणां तस्यै ते देवि हविषा विधेम ॥
कुहूर्देवानाममृतस्य पत्नी हव्या नो अस्य हविषः शृणोतु ।
स दाशुषे किरतु भूरि वामं रायस्पोषं चिकितुषे दधातु ॥
धाता दधातु नो रयिं प्राचीं जीवातुमक्षिताम् ।
वयं देवस्य धीमहि सुमतिं सत्यधर्मणः ॥
धाता ददातु दाशुषे वसूनि प्रजाकामाय मीढुषे दुरोणे ।
तस्मै देवा अमृताः संव्ययन्तां विश्वे देवासो अदितिः सजोषाः ॥
प्रातर्यजध्वं अश्विना हिनोत न सायमस्ति देवया अजुष्टं ।
उतान्यो अस्मद्यजते वि चावः पूर्वः पूर्वो यजमानो वनीयान् ॥
प्रातर्यावाणा प्रथमा यजध्वं पुरा गृध्रादररुषः पिबातः ।
प्रातर् हि यज्ञमश्विना दधाते प्रशँसन्ति कवयः पूर्वभाजः ॥
इन्द्रा नु पूषणा वयं सख्याय स्वस्तये ।
हुवेम वाजसातये ॥
यन् निर्णिजा ॥
त्वमग्ने बृहद्वयो दधासि देव दाशुषे ।
कविर्गृहपतिर् युवा ॥
हव्यवाडग्निरजरः पिता नो विभुर्विभावा सुदृशीको अस्मे ।
सुगार्हपत्याः समिषो दिदीह्यस्मद्र्यक् संमिमीहि श्रवांसि ॥
त्वं च सोम नो वशो जीवातुं न मरामहे ।
प्रियस्तोत्रो वनस्पतिः ॥
ब्रह्मा देवानां पदवीः कवीनां कविर्विप्राणां महिषो मृगाणां ।
श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रं अत्येति रेभन् ॥
आ विश्वदेवं सत्पतिं सूक्तैरद्या वृणीमहे ।
सत्यसवं सवितारं ॥
आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च ।
हिरण्ययेन सविता रथेना देवो याति भुवना विपश्यन् ॥
उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः ।
गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिम् अभ्यर्का अनावन् ॥
हंसैरिव सखिभिर्वावदद्भिरश्मन्मयानि नहना व्यस्यन् ।
बृहस्पतिरभिकनिक्रदद् गा उत प्रास्तौदुच्च विद्वं अगायत् ॥
त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः ।
इन्द्र ज्यैष्ठ्याय सुक्रतो ॥
भुवस्त्वमिन्द्र ब्रह्मणो महान् भुवो विश्वेषु सवनेषु यज्ञियः ।
भुवो नॄँश्च्यौत्नो विश्वस्मिन् भरे ज्येष्ठश्च मन्त्रो विश्वचर्षणे ॥
प्र स मित्रानमीवासः ॥
यच् चिद्धि ते विशो यथा प्र देव वरुण व्रतं ।
मिनीमसि द्यविद्यवि ॥
यत् किंचेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरामसि ।
अचित्ती यत्तव धर्मा युयोपिम मा नस्तस्मादेनसो देव रीरिषः ॥
यथा नो अदितिः करत् पश्वे नृभ्यो यथा गवे ।
यथा तोकाय रुद्रियम् ॥
मा नस्तोके तनये मा ना आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः ।
वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तो नमसा विधेम ते ॥
य इमा विश्वा जातानि आश्रावयति श्लोकेन ।
प्र च सुवाति सविता ॥
विश्वा रूपाणि ॥
अश्विना यज्ञमागतं दाशुषः पुरुदंससा ।
पूषा रक्षतु नो रयिम् ॥
इमं यज्ञमश्विना वर्धयन्तेमौ वीर्यं यजमानाय धत्तां ।
इमौ पशून् रक्षतां विश्वतो नः पूषा नः पातु सदमप्रयुच्छन् ॥
प्र ते महे सरस्वति सुभगे वाजिनीवति ।
सत्यवाचे भरे मतिम् ॥
इदं ते हव्यं घृतवत्सरस्वति सत्यवाचे प्रयतेमा हवींषि ।
इमानि त उदिता शंतमानि तेभिर्वयं सुभगासः स्याम ॥
इति खिलकाण्डे द्वादशः प्रपाठकः॥