मोहमुद्गरः
मोहमुद्गरः शङ्कराचार्यः १९१० |
भज गोविंद भज गोविंद भज गोविंद मूढमते ।
प्राप्ते सन्निहिते मरणे न हि न हि रक्षति डुकृञ् करणे ॥ १ ॥
मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिं मनसि वितृष्णाम् ।
यल्लभसे निजकर्मोपात्तं वित्त तेन विनोदय चित्तम् ॥ २॥
नारीस्तनभरनाभीदेश दृष्ट्वा मा गा मोहावेशम् ।
एतन्मांसवसादिविकारं मनसि विचिंतय वारं वारम् ॥ ३ ॥
नलिनीदलगतजलमतितरल तद्वज्जीवितमतिशयचपलम् ।
विद्धि व्याध्यभिमानग्रस्तं लोकं शोकहत च समस्तम् ॥ ४ ॥
यावद्वित्तोपार्जनसक्तस्तावन्निजपरिवारो रक्तः ।
पश्चाजीवति जर्जरदेहे वार्ता पृच्छति कोऽपि न गेहे ।। ५ ।।
यावत्पवनो निवसति देहे तावत्पृच्छति कुशल गेहे ।
गतवति वायो देहापाये भार्या बिभ्यति तस्मिन्काये ।। ६ ॥
बालस्तावत्क्रीडासत्तरतरुणस्तावत्तरुणीसक्तः ।
वृद्धस्तावञ्चिंतामग्नः परे ब्रह्मणि कोऽपि न सक्तः ॥ ७॥
का ते कांता कस्ते पुत्रः संसारोऽयमतीव विचित्रः ।
कस्य त्व कः कुत आयातस्तत्त्व चिंतय यदिद भ्रातः ॥ ८ ॥
सत्संगत्वे निःसंगत्वं निःसंगत्वे निर्मोहत्वम् |
निर्मोहत्वे निश्चलितत्व निश्चलितत्वे जीवन्मुक्तिः ॥ ९॥
वयसि गते कः कामविकारः शुष्के नीरे कः कासारः।
क्षीणे वित्ते का परिवारो ज्ञाते तत्त्वे कः ससारः ॥ १० ॥
मा कुरु धनजनयौवनगर्व हरति निमेषात्कालः सर्वम् ।
मायामयमिदमखिल हित्वा ब्रह्मपद त्व प्रविश विदित्वा ॥ ११ ॥
दिनयामिन्यौ साय प्रातः शिशिरवसतौ पुनरायातः ।
कालः क्रीडति गच्छत्यायुस्तदपि न मुंचत्याशावायुः ॥ १२ ॥
का ते काताधनगतचिंता वातुल किं तव नास्ति नियंता ।
त्रिजगति सज्जनसगतिरेका भवति भवार्णवतरणे नौका । ॥१३॥
जटिली मुंडी लुचितकेशः काषायांवरबहुकृतवेषः ।
पश्यन्नपि च न पश्यति मूढो ह्युदरनिमित्तं बहुकृतवेषः ॥ १४ ॥
अगं गलित पलित मुड दशनविहीनं जात तुडम् ।
वृद्धो याति गृहीत्वा दड तदपि न मुचत्याशापिंडम् ॥ १५ ॥
अग्रे वह्निः पृष्ठे भानू रात्रौ चुबुकसमर्पितजानुः ।
करतलभिक्षातरुतलवासस्तदपि न मुचत्याशापाशः ॥ १६ ॥
कुरुते गगासागरगमन व्रतपरिपालनमथवा दानम् ।
ज्ञानविहीनः सर्वमतेन मुक्तिं न भजति जन्मशतेन ॥ १७ ॥
सुरमदिरतरुमूलनिवासः शय्या भूतलमजिनं वासः ।
सर्वपरिग्रहभोगत्यागः कस्य सुख न करोति विरागः ॥ १८ ॥
योगरतो वा भोगरतो वा सगरतो वा संगविहीन ।
यस्य ब्रह्मणि रमते चित्तं नदति नदति नदत्येव ॥ १९ ॥
भगवद्गीता किंचिदधीता गगाजललवकणिका पीता ।
सकृदपि येन मुरारिसमर्चा क्रियते तस्य यमेन न चर्चा ॥ २० ॥
पुनरपि जनन पुनरपि मरण पुनरपि जननीजठरे शयनम् ।
इह ससारे बहुदुस्तारे कृपयापारे पाहि मुरारे ॥ २१ ॥
रथ्याकर्पटविरचितकंथः पुण्यापुण्यविवर्जितपथः ।
योगी योगनियोजितचित्तो रमने बालोन्मत्तवदेव ॥ २२॥
कस्त्व कोऽह कुत आयातः का मे जननी को मे तातः।
इति परिभावय सर्वमसार विश्व त्यक्त्वा स्वप्नविचारम् ॥ २३ ॥
यि मयि चान्यत्रैको विष्णुर्व्यर्थ कुप्यसि मय्यसहिष्णुः ।
सर्वस्मिन्नपि पश्यात्मान सर्वत्रोत्सृज भेदाज्ञानम् ॥ २४ ॥
शत्रौ मित्रे पुत्रे बंधौ मा कुरु यत्न विग्रहसंधौ ।
भव समचित्तः सर्वत्र त्वं वांछस्यचिराद्यदि विष्णुत्वम् ॥ २५ ॥
कामं क्रोधं लोभं मोह त्यक्त्वात्मान भावय कोऽहम् |
आत्मज्ञानविहीना मूढास्ते पच्यन्ते नरकनिगूढाः ॥ २६ ॥
गेयं गीतानामसहस्रं ध्येयं श्रीपतिरूपमजस्त्रम् |
नेयं सज्जनसगे चित्तं देयं दीनजनाय च वित्तम् ॥ २७ ॥
सुखतः क्रियते रामाभोगः पश्चाद्धत शरीरे रोगः ।
यद्यपि लोके मरणं शरण तदपि न मुंचति पापाचरणम् ॥ २८
अर्थमनर्थ भावय नित्यं नास्ति ततः सुखलेशः सत्यम् ।
पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता रीतिः ॥ २९ ॥
प्राणायाम प्रत्याहारं नित्यानित्यविवेकविचारम् |
जाप्यसमेतसमाधिविधान कुर्ववधान महदवधानम् ॥ ३०॥
गुरुचरणाबुजनिर्भरभक्तः संसारादचिराद्भव मुक्तः ।
सेद्रियमानसनियमादेवं द्रक्ष्यसि निजहृदयस्थ देवम् ॥ ३१ ॥
॥ इति मोहमुद्गरः समाप्तः ॥