मौल्यव्यवस्था
अयं लेखः सम्भाषणसन्देशः इत्येतस्यां संस्कृतमासपत्रिकायां प्रकाशितपूर्वः । |
अद्य वयं धनव्यवहारं रूप्यकमानेन कुर्म: । यद्यपि ‘पैसा’मानम् अपि अस्ति, किन्तु तत् अस्ति केवलायां गणनायाम् । व्यवहारे तस्य सत्ता अत्यल्पा ।
एवमेव दूर-प्रदेश-भारादिविषये अपि । अद्य तु किलोमानम् आधिक्येन दृश्यते । शतात् वर्षेभ्य: पूर्वम् अन्यविधा: एव व्यवहारा: आसन् ।
यज्ञवेदिकादीनां निर्माणे प्रदेशमानस्य आवश्यकता आसीत् एव । तद्बलात् एव गणितशास्त्रस्य विकास: जात: । सामान्ये अपि यज्ञवेदिनिर्माणे पूर्वजा: तादृशीं गणितीयपरिष्कृततां चिन्तयन्ति स्म, यादृशी परिष्कृतता अतिसूक्ष्मेषु निर्माणेषु आधुनिकै: चिन्त्येत । अत: स्पष्टं यत् प्रदेशमानस्य सुपरिष्कार: वेदकाले एव जात: आसीत् इति ।
आयुर्वेदशास्त्रे औषधनिर्माणे तुलामानस्य उपयोग: आधिक्येन क्रियते स्म । यदि वस्तुयोजने परिमाणस्य अल्प: अपि भेद: स्यात् तर्हि औषधस्य सेवितु: प्राणापाय: अपि भवेत् । अत: तत्रापि तुलामानस्य सुपरिष्कृतता आसीत् इति स्पष्टम् । द्रव्यमाने अपि एषा एव कथा ।
प्राचीने काले यद्यपि गोधनव्यवस्थाया: एव प्राधान्यम् आसीत्, तथापि गोधनाभावे द्रव्यरूपस्य धनस्यापि उपयोग: क्रियते स्म एव । यस्य गोदाने सामर्थ्यं नास्ति स: तुल्यं द्रव्यं ददाति स्म । धनिकदरिद्रादिभेदेन द्रव्यदाने भेदोऽपि निर्दिश्यते स्म शास्त्रकारै: ।
यद्यपि भारतदेश: सुविशाल: आसीत्, देशे लघूनि राज्यानि अपि बहूनि आसन्, तथापि मानभेद: प्रतिराज्यं न भिद्यते स्म । समग्रे देशे पञ्चविधानि मानानि आसन् पूर्वपश्चिमादिप्रदेशभेदेन । तानि च - वराटकमानं, ताम्रमानं, रौप्यमानं, रजतमानं, सुवर्णमानं चेति । तत्र दक्षिणदेशे रौप्यमानेन व्यवहार: भवति स्म इति भासते । पूर्वदेशे प्राय: वराटकपणेन व्यवहार: भवति स्म । यथा अद्य रूप्यक-डालर्-पौण्ड्-युरोप्रभृतीनि मानानि सन्ति तथा प्राचीने काले सुवर्णरजतादिमानानि आसन् ।
यथा डालरस्य मूल्यं रूप्यकमानेन पौण्ड्मानेन येन्मानेन अन्यमानेन वा विभिन्नं भवति तथैव प्राचीने काले पणादीनां मूल्यं मानभेदेन भिद्यते स्म । तद्यथा –
एकः पणः = ८० कपर्दिकाः - वराटकमानम्
- =८० ताम्रगुञ्जाः - ताम्रमानम्
- =१ १/२ सर्षपमितं सुवर्णम् - रौप्यमानम्
- =६ १/४ गुञ्जामितं सुवर्णम् - सुवर्णमानम्
- =६ १/४ गुञ्जामितं सुवर्णम् - राजतमानम्
‘एकस्या: गो: द्वात्रिंशत्पणकमूल्यम्’ इति वदति कात्यायन: मूल्याध्यायपरिशिष्टे ।
अत: एकस्या: गो: मूल्यं विविधै: मानै: इत्थं भवति –
गौः = २५६० वराटकाः - वराटकमानम्
- =२५६० ताम्रगुञ्जाः - ताम्रमानम्
- =२ गुञ्जे १ यवः - रौप्यमानम्
- =४० राजतमाषाः - रजतमानम्
- =२ १/३ कर्षाः - सुवर्णमानम्
अद्य गृहादीनाम् अधिकं मूल्यम् । प्राचीने काले तेषां मूल्यम् अत्यल्पम् एव आसीत् । अश्वगजादय: अधिकमूल्यवन्त: भवन्ति स्म ।
कात्यायनकाले (क्रि.पू. 500) कस्य मूल्यं कियत् आसीत् इति किञ्चित् पश्याम -
- अज: - 8 पणा:
- मेष: - 12 पणा:
- गौ: - 12 पणा: (यदि सा दुग्धदा सवत्सा च भवेत् तर्हि 160 पणा:)
- दोला (नरवाह्यं यानम्) - 80 पणा:
- रथ: - 96 पणा:
- वृषभ: - 96 पणा: (यदि स: भारवहनादिसमर्थ: तर्हि 128 पणा:)
- गृहम् - 128 पणा:
- अश्व: - 240 पणा:
- गज: - 8000 पणा:
सर्वमानानां मूलं भवति स्म त्रसरेणु: । त्रसरेणुलक्षणं यथा -
- जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रज: ।
- प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते ॥ इति ।
इत: एव भूमिमानं, धान्यमानं, तुलामानम् इत्यादीनि सर्वाणि मानानि प्रवर्तन्ते स्म । तद्यथा –
त्रसरेणुः = द्रव्यमानम् – सर्षपः, यवः, कृष्णलः माषः, पलम्, धरणं, कार्षापणः, निष्कः…….
- भूमिमानम् – सर्षपः, यवः, अङ्गुलम्, शङ्कुः, हस्तः, क्रोशः, गव्यूतिः, योजनम्…..
- कृष्णलः, पलम्, प्रस्थः, आढकः, द्रोणः, कुम्भः, शूर्पः, खारी ……
विदेशीयानां शासनस्य कारणत: द्रम्म-दीनारादीनि द्रव्यमानसम्बद्धानि पदानि यथा, तथैव सेरमणादीनि तुलामानसम्बद्धानि पदानि अपि संस्कृतग्रन्थेषु दृश्यन्ते स्म ।
यथा लीलावत्याम् -
- पादोनगद्याणकतुल्यटङ्कै: द्विसप्ततुल्यै: कथितोऽत्र सेर: ।
- मणाभिधान: खयुगैश्च सेरै: धान्यादितौल्येषु तुरुष्कसंज्ञा ॥
स्मृतिग्रन्था:, कौटिलीयम् अर्थशास्त्रं, पाणिने: अष्टाध्यायी. आयुर्वेदग्रन्था:, अमरकोष: इत्यादिषु विविधेषु ग्रन्थेषु मानसम्बद्धा: शब्दा: तत्तच्छब्दसम्बद्धानि विवरणानि च उपलभ्यन्ते । एतादृशानाम् अध्ययनत: आधुनिके व्यवहारे न किमपि विशेषप्रयोजनं, तथापि अर्थशास्त्रदृष्ट्या समाजशास्त्रदृष्ट्या मुद्राशास्त्रदृष्ट्या च एतादृशस्य अध्ययनस्य विशेषमहत्त्वम् अस्ति एव ।
मूल्याध्यायः’ नाम…
सम्पाद्यताम्‘मूल्याध्यायो’ नाम परिशिष्टग्रन्थ: महर्षिणा कात्यायनेन (क्रि.पू. 500) विरचित: । वार्तिककार: वररुचि: एव अयं कात्यायन: इति एक: पक्ष: । वार्तिककारात् अन्य: एव आसीत् कात्यायन: इति तु अपर: पक्ष: ।
याज्ञिका: क्रिया: वेदस्य अङ्गभूता: । दक्षिणादिकं यज्ञस्य अङ्गम् । दक्षिणादानादिषु लोप: यदि न भवेत् तर्हि एव यज्ञस्य निर्दोषप्रवर्तनं स्यात् । अत: एव कात्यायनेन मूल्याध्यायो नाम परिशिष्टग्रन्थ: रचित: । माध्यन्दिनीयशाखासम्बद्धत्वेन परिगणित: अस्ति अयं परिशिष्टग्रन्थ: । सप्तश्लोकात्मक: लघुकाय: एव अस्ति अयं ग्रन्थ: । तथापि एतस्य चत्वारि व्याख्यानानि उपलभ्यन्ते । (पञ्चमं नाम्ना श्रूयते, न तु उपलभ्यते ।) एतदेव एतस्य वैशिष्ट्यं द्योतयति ।
- लेखोक्तविषयान् अतिरिच्य अत्र उक्त: धनिकदरिद्रादिभेद: अपि अस्ति अवधानाय अर्ह: । निकदरिद्रादय: सलक्षणम् अत्र व्याख्याने निरूपिता: । तद्यथा -
- धनिक: - वर्धयित्वा धनं यस्तु तस्माद्ग्रासमपीह य: । न खादेत् सङ्ग्रहपरो धनिक: स उदाहृत: ॥
- मध्यम: - पोषणीयकुटुम्बस्य निर्वाहो यावता भवेत् । तावदेव सुखं यस्तु लभते प्रातिवार्षिकम् ॥ ऋणं यस्य च नास्त्येव स मध्यम उदाहृत: ।
- महाधन: - धनं पूर्वापरं यस्य वर्तते बहुसङ्ख्यया । अधिकस्यार्जको य: स्यात् स महाधन उच्यते ॥
- दरिद्र: - सदाचाररतो विप्रो धनार्जनपराङ्मुख: । कुटुम्बयत्नमतिक: स दरिद्र उदाहृत: ॥
- महादरिद्र: - यस्य स्यादशनाभाव: सदाचाररतस्य हि । महादरिद्र: स भवेत् वासोधान्यविवर्जित: ॥
- धन्य: - वर्धयित्वा धनं यस्तु ग्रासं वार्षिकमर्जयेत् । स वै धन्य इति प्रोक्तश्चैकवर्षेण य: पुमान् ॥
- धीर: - धनेनैव विना यस्तु ग्रासं वार्षिकमर्जयेत् । स वै धीर इति प्रोक्तस्तारतम्यं च पूर्ववत् ॥
- सङ्ख्यावाचका: शब्दा: (तत्पुरुषे) संज्ञायाम् एव समस्यन्ते, न इतरत्र इति वदति पाणिनिसूत्रम् । (दिक्संख्ये संज्ञायाम् - 2.1.50) तथापि मल्लिनाथमम्मटादीनां शिष्टानां प्रयोगदर्शनात् सङ्ख्यया सह समास: (तत्पुरुष:) अपि अङ्गीक्रियते कैश्चित् । इह मूल्याध्यायपरिशिष्टस्य व्याख्यानेषु तादृशा: समस्तप्रयोगा: बहुधा दृश्यन्ते । कानिचन उदाहरणानि यथा –
- विंशतिकपर्दिकाभि: काकिणी
- चतुष्काकिणीभि: पण:
- अशीतिकपर्दिकाभि: एक: पण:
- गो: मूल्यं षष्ट्यधिकपञ्चविंशतिवराटिका
- अशीतिवराटिकानाम् एक: पण:
- पञ्चकृष्णलानाम् एको माष:
- षोडषपणानाम् एक: पुराण: पण: मदनरत्नोक्त:
- षोडषमाषाणाम् एक: सुवर्ण:
- चत्वारिंशत्सेटकानाम्....
- कैश्चित् षोडषमाषै: स: ....... – परशुरामपद्धतौ
[लेखेऽस्मिन् प्रस्तुताः सर्वे अंशाः डा. ओम्प्रकाशपाण्डेयेन सम्पादितात् व्याख्याचतुष्टयोपेतात् कात्यायनप्रणीतात् मूल्याध्यायपरिशिष्टात् उद्धृताः ।]
आधारः
सम्पाद्यताम्'सम्भाषणसन्देशः' - अक्टोबर् २००९
|