'
[[लेखकः :|]]
यक्षयुधिष्ठिरसंवादः
कैलासनाथः एम् ए
१९२९

( २२३ )

यक्ष-युधिष्ठिर-संवादः ।

१. यक्ष उवाच- किंस्विदादित्यमुन्नयति के च तस्याभितश्चराः । कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति ॥ १ ॥

युधिष्ठिर उवाच- ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः। धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति ॥ २ ॥

२.यक्ष उवाच- केनस्विच्छ्रोत्रियो भवति केनस्विद्विन्दते महत् । केनस्विद्द्वितीयवान्भवति राजन्केन च बुद्धिमान् ॥ ३ ॥

युधिष्ठिर उवाच- श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् । धृत्या द्वितीयवान्भवति बुद्धिमान्वृद्धसेवया ॥ ४ ॥

३.यक्ष उवाच- किं ब्राह्मणानां देवत्वं कश्च धर्मः सतामिव । कश्चैषां मानुषो भावः किमेषामसतामिव ॥ ५ ॥

युधिष्ठिर उवाच- स्वाध्याय एषां देवत्वं तप एषां सतामिव । मरणं मानुषो भावः परिवादोऽसतामिव ॥ ६ ॥

४. यक्ष उवाच- किं क्षत्रियाणां देवत्वं कश्च धर्मः सतामिव । कश्चैषां मानुषो भावः किमेषामसतामिव ॥ ७ ॥

युधिष्ठिर उवाच- इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतामिव । भयं वै मानुषो भावः परित्यागोऽसतामिव ॥ ८ ॥ ( २२४ ) ५. यक्ष उवाच- किमेकं यज्ञियं साम किमेकं यज्ञियं यजुः । का चैषां वृणुते यज्ञं कां यज्ञो नातिवर्तते ॥ ९ ॥

युधिष्ठिर उवाच- प्राणो वै यज्ञियं साम मनो वै यज्ञियं यजुः । ऋगेका वृणुते यज्ञं तां यज्ञो नातिवर्तते ॥ १० ॥

६. यक्ष उवाच- किंस्विदावपतां श्रेष्ठं किंस्विन्निर्वपतां वरम् । किंस्वित्प्रतिष्ठमानानां किंस्वित्प्रसवतां वरम् ॥ ११ ॥

युधिष्ठिर उवाच- वर्षमावपतां श्रेष्ठं बीजं निर्वपतां वरम् । गावः प्रतिष्ठमानानां पुत्रः प्रसवतां वरः ॥ १२ ॥

७. यक्ष उवाच- इन्द्रियार्थाननुभवन्बुद्धिमाँल्लोकपूजितः । संमतः सर्वभूतानामुच्छ्वसन्को न जीवति ॥ १३ ॥

युधिष्ठिर उवाच- देवतातिथिभृत्यानां पितॄणामात्मनश्च यः । न र्निवपति पञ्चानामुच्छ्वसन्न स जीवति ॥ १४ ॥

८.यक्ष उवाच- किंस्विद्गुरुतरं भूमेः किंस्विदुच्चतरं च खात् । किंस्विच्छीघ्रतरं वायोः किंस्विद्बहुतरं तृणात् ॥ १५ ॥

युधिष्ठिर उवाच- माता गुरुतरा भूमेः खात्पितोच्चतरस्तथा । मनः शीघ्रतरं वाताच्चिन्ता बहुतरी तृणात् ॥ १६ ॥

९. यक्ष उवाच- किंस्वित्सुप्तं न निमिषति किंस्विज्जातं न चेङ्गते । ( २२५ ) कस्यस्विद्धृदयं नास्ति कास्विद्वेगेन वर्धते ॥ १७ ॥

युधिष्ठिर उवाच- मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चेङ्गते । अश्मनो हृदयं नास्ति नदी वेगेन वर्धते ॥ १८ ॥

१०. यक्ष उवाच- किंस्वित्प्रवसतो मित्रं किंस्विन्मित्रं गृहे सतः। आतुरस्य च किं मित्रं किंखिन्मित्रं मरिष्यतः ॥ १९ ॥

युधिष्ठिर उवाच- विद्या प्रवसतो मित्रं भार्या मित्रं गृहे सतः। आतुरस्य भिषङ्मित्रं दानं मित्रं मरिष्यतः ॥ २० ॥

११. यक्ष उवाच- कोऽतिथिः सर्वभूतानां किंस्विद्धर्मं सनातनम् । अमृतं किंस्विद्राजेन्द्र किंस्वित्सर्वमिदं जगत् ॥ २१ ॥

युधिष्ठिर उवाच- अतिथिः सर्वभूतानामग्निः सोमो गवामृतम् । सनातनोऽमृतो धर्मो वायुः सर्वमिदं जगत् ॥ २२ ॥

१२. यक्ष उवाच- किंस्विदेको विचरते जातः को जायते पुनः । किंस्विद्धिमस्य भैषज्यं किंस्विदावपनं महत् ॥ २३ ॥

युधिष्ठिर उवाच- सूर्यो एको विचरते चन्द्रमा जायते पुनः । अग्निर्हिमस्य भैषज्यं भूमिरावपनं महत् ॥ २४ ॥

१३. यक्ष उवाच- किंस्विदेकपदं धर्म्यं किंस्विदेकपदं यशः । किंस्विदेकपदं स्वर्ग्यं किंस्विदेकपदं सुखम् ॥ २५ ॥ ( २२६ ) युधिष्ठिर उवाच- दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः । सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम् ॥ २६ ॥

१४. यक्ष उवाच- किंस्विदात्मा मनुष्यस्य किंस्विद्दैवकृतः सखा । उपजीवनं च किंस्वित्य किंस्विदस्य परायणम् ॥ २७ ॥

युधिष्ठिर उवाच- पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा । उपजीवनं च पर्जन्यो दानमस्य परायणम् ॥ २८ ॥

१५. यक्ष उवाच- धन्यानामुत्तमं किंस्विद्धनानां स्याकिमुत्तमम् । लाभानामुत्तमं किं स्यात्सुखानां स्यात्किमुत्तमम् ॥ २९ ॥

युधिष्ठिर उवाच- धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् । लाभानां श्रेय आरोग्यं सुखानां तुष्टिरुत्तमा ॥ ३० ॥

१६. यक्ष उवाच- किंस्विद्धर्मपरं लोके कश्च धर्मः सदाफलः । किं नियम्य न शोचन्ति कैश्च सन्धिर्न जीर्यते ॥ ३१ ॥

युधिष्ठिर उवाच- आनृशंस्यं परं धर्मात्त्रेताधर्मः सदाफलः । मनो यम्य न शोचन्ति सन्धिः सद्भिर्न जीर्यते ॥ ३२ ॥

१७. यक्ष उवाच- किं नु हित्वा प्रियो भवति किं नु हित्वा न शोचति । किं नु हित्वाऽर्थवान्भवति किं नु हित्वा सुखी भवेत् ॥ ३३ ॥

युधिष्ठिर उवाच- मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति । ( २२७ ) कामं हित्वाऽर्थवान्भवति लोभं हित्वा सुखी भवेत् ॥ ३४ ॥

१८. यक्ष उवाच- किमर्थं ब्राह्मणे दानं किमर्थं नटनर्तके । किमर्थं चैव भृत्येषु किमर्थं चैव राजसु ॥ ३५ ॥

युधिष्ठिर उवाच- धर्मार्थंब्राह्मणे दानं यशोऽर्थं नटनर्तके। भृत्येषु संग्रहार्थं च भयार्थं चैव राजसु ॥ ३६ ॥

१९. यक्ष उवाच- केनस्विदावृतो लोकः केनस्विन्न प्रकाशते । केन त्यजति मित्राणि केन स्वर्गं न गच्छति ॥ ३७ ॥

युधिष्ठिर उवाच- अज्ञानेनावृतो लोकस्तमसा न प्रकाशते । लोभात्यजति मित्राणि सङ्गात्स्वर्गं न गच्छति ॥ ३८ ॥

२०. यक्ष उवाच- मृतः कथं स्यात्पुरुषः कथं राष्ट्रं मृतं भवेत् । श्राद्धं मृतं कथं वा स्यात्कथं यज्ञो मृतो भवेत् ॥ ३९ ॥

युधिष्ठिर उवाच- मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम् । मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः ॥ ४० ॥

२१. यक्ष उवाच- का दिक्किमुदकं पार्थ किमन्नं किं च वै विषम् । श्राद्धस्य कालमाख्याहि ततः पिब हरस्व च ॥ ४१ ॥

युधिष्ठिर उवाच- सन्तो दिग्जलमाकाशं गौरन्नं ब्राह्मणं विषम् । श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे ॥ ४२ ॥ ( २२८ )

२२. यक्ष उवाच- तपः किं लक्षणं प्रोक्तं को दमश्च प्रकीर्तितः । क्षमा च का परा प्रोक्ता का च ह्रीः परिकीर्तिता ॥ ४३ ॥

युधिष्ठिर उवाच- तपः स्वधर्मवर्तित्वं मनसो दमनं दमः । क्षमा द्वन्द्वसहिष्णुत्वं ह्रीरकार्यनिवर्तनम् ॥ ४४ ॥

२३. यक्ष उवाच- किं ज्ञानं प्रोच्यते राजन्कः शमश्च प्रकीर्तितः । दया च का परा प्रोक्ता किं चार्जवमुदाहृतम् ॥ ४५ ॥

युधिष्ठिर उवाच- ज्ञानं तत्त्वार्थसम्बोधः शमश्चित्तप्रशान्तता । दया सर्वसुखैषित्वमार्जवं समचित्तता ॥ ४६ ॥

२४. यक्ष उवाच- कः शत्रुर्दुर्जयः पुंसां कश्च व्याधिरनन्तकः । कीदृशश्च स्मृतः साधुरसाधु कीदृशः स्मृतः ॥ ४७ ॥

युधिष्ठिर उवाच- क्रोधः सुदुर्जयः शत्रुर्लोभो व्याधिरनन्तकः । सर्वभूतहितः साधुरसाधुर्निर्दयः स्मृतः ॥ ४८ ॥

२५. यक्ष उवाच- को मोहः प्रोच्यते राजन्कश्च मानः प्रकीर्तितः । किमालस्यं विज्ञेयं कश्च शोकः प्रकीर्तितः ॥ ४९ ॥

युधिष्ठिर उवाच- मोहो हि धर्ममूढत्वं मानस्त्वात्माभिमानिता । धर्मनिष्क्रियताऽऽलस्यं शोकस्त्वज्ञानमुच्यते ॥ ५० ॥

२६.यक्ष उवाच- किं स्थैर्यमृषिभिः प्रोक्तं किं च धैर्यमुदाहृतम् । ( २२६ ) स्नानं च किं परं प्रोक्तं दानं च किमिहोच्यते ॥ ५१ ॥

युधिष्ठिर उवाच- स्वधर्मे स्थिरता स्थैर्यं धैर्यमिन्द्रियनिग्रहः । स्नानं मनोमलत्यागो दानं वै भूतरक्षणम् ॥ ५२ ॥

२७. यक्ष उवाच- कः पण्डितः पुमान्ज्ञेयो नास्तिकः कश्च उच्यते । को मूर्खः कश्च कामः स्यात्को मत्सर इति स्मृतः ॥ ५३ ॥

युधिष्ठिर उवाच- धर्मज्ञः पण्डितो ज्ञेयो नास्तिको मूर्ख उच्यते । कामः संसारहेतुश्च हृत्तापो मत्सरः स्मृतः ॥ ५४ ॥

२८. यक्ष उवाच- कोऽहंकार इति प्रोक्तः कश्च दम्भः प्रकीर्तितः। किं तद्दैवं परं प्रोक्तं किं तत्पैशुन्यमुच्यते ॥ ५५ ॥

युधिष्ठिर उवाच- महाऽज्ञानमहंकारो दम्भो धर्मो ध्वजोच्छ्रया । दैवं दानफलं प्रोक्तं पैशुन्यं परदूषणम् ॥ ५६ ॥

२९. यक्ष उवाच- धर्मश्चार्थश्च कामश्च परस्परविरोधिनः । एषां नित्यविरुद्धानां कथमेकत्र संगमः ॥ ५७ ॥

युधिष्ठिर उवाच- यदा धर्मश्च भार्या च परस्परवशानुगौ । तदा धर्मार्थकामानां त्रयाणामपि संगमः ॥ ५८ ॥

३०. यक्ष उवाच- अक्षयो नरकः केन प्राप्यते भरतर्षभ । एतन्मे पृच्छतः प्रश्नं तच्छीघ्रं वक्तुमर्हसि ॥ ५९ ॥

युधिष्ठिर उवाच( २३० )

ब्राह्मणं स्वयमाहूय याचमानमकिंचनम् । पश्चान्नास्तीति यो ब्रूयात्सोऽक्षयं नरकं व्रजेत् ॥ ६० ॥ वेदेषु धर्मशास्त्रेषु मिथ्या यो वै द्विजातिषु । देवेषु पितृधर्मेषु सोऽक्षयं नरकं व्रजेत् ॥ ६१ ॥ विद्यमाने धने लोभाद्दानभोग विवर्जितः । पश्चान्नास्तीति यो ब्रूयात्सोऽक्षयं नरकं व्रजेत् ॥ ६२ ॥

३१. यक्ष उवाच-

राजन्कुलेन वृत्तेन स्वाध्यायेन श्रुतेन वा । ब्राह्मण्यं केन भवति प्रब्रूह्येतत्सुनिश्चितम् ॥ ६३ ॥

युधिष्ठिर उवाच-

शृणु यक्ष कुलं तात न स्वाध्यायो न च श्रुतम्। कारणं हि द्विजत्वे च वृत्तमेव न संशयः ॥ ६४ ॥ वृत्तं यत्नेन संरक्ष्यं ब्राह्मणेन विशेषतः । अक्षीणवृत्तो न क्षीणो वृत्ततस्तु हतो हतः ॥ ६५ ॥ पाठकाः पाठकाश्चैव ये चान्ये शास्त्रचिन्तकाः । सर्वे व्यसनिनो मूर्खा यः क्रियावान्स पण्डितः ॥ ६६ ॥ चतुर्वेदोऽपि दुर्वृत्तः स शूद्रादतिरिच्यते । योऽग्निहोत्रपरो दान्तः स ब्राह्मण इति स्मृतः ॥ ६७ ॥

३२. यक्ष उवाच-

प्रियवचनवादी किं लभते विमृशितकार्यकरः किं लभते । बहुमित्रकरः किं लभते धर्मे रतः किं लभते कथय ॥ ६८ ॥

युधिष्ठिर उवाच--

प्रियवचनवादी प्रियो भवति विमृशितकार्यकरोऽधिकं जयति । ( २३१ )

बहुमित्रकरः सुखं वसते यश्च धर्मरतः स गतिं लभेत ॥ ६९ ॥

३३. यक्ष उवाच-

को मोदते किमाश्चर्यं कः पन्थाः का च वार्तिका । वद मे चतुरः प्रश्नान्मृता जीवन्तु बान्धवाः ॥ ७० ॥

युधिष्ठिर उवाच-

पञ्चमेऽहनि षष्ठे वा शाकं पचति स्वगृहे । अनृणी चाप्रवासी च स वारिचर मोदते ॥ ७१ ॥ अहन्यहनि भूतानि गच्छन्तीह यमालयम् । शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतः परम् ॥ ७२ ॥ तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना नैको मुनिर्यस्य मतं प्रमाणम् । धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ॥ ७३ ॥ पृथ्वी विभाण्डं गगनं पिधानं सूर्याग्निना रात्रिदिवेन्धनेन् । मासर्तुदर्वीपरिघट्टनेन भूतानि कालः पचतीति वार्ता ॥ ७४ ॥

३४. यक्ष उवाच-

व्याख्याता मे त्वया प्रश्ना यथातत्वं परंतप । पुरुष त्विदानीं व्याख्याहि यः सर्वधनी नरः ॥ ७५ ॥

युधिष्ठिर उवाच-

दिवं स्पृशति भूमिं च शब्दः पुण्येन कर्मणा । यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥ ७६ ॥ तुल्ये प्रियाप्रिये यस्य सुखदुःखे तथैव च । अतीतानागते चोभे स वै पुरुष उच्यते ॥ ७७ ॥ समत्वं यस्य सर्वेषु निस्पृहः शान्तमानसः । सुप्रसन्नः सदा योगी स वै सर्वधनी नरः ॥ ७८ ॥ ( २३२ ) ३५. यक्ष उवाच-

व्याख्यातः पुरुषो राजन्यश्च सर्वधनी नरः ।
तस्मात्त्वमेकं भ्रातॄणां यमिच्छसि स जीवतु ॥ ७९ ॥

युधिष्ठिर उवाच-

श्यामो य एष रक्ताक्षो वृहत्साल इवोत्थितः ।
व्यूढोरस्को महाबाहुर्नकुलो यक्ष जीवतु ॥ ८० ॥

३६. यक्ष उवाच-

प्रियस्ते भीमसेनोऽयमर्जुनो वः परायणम् ।
त्वं कस्मान्नकुलं राजन्सापत्नं जीवमिच्छसि ॥ ८१ ॥
तस्य नागसहस्रेण दशसङ्ख्येन वै बलम् ।
तुल्यं तं भीममुत्सृज्य नकुलं जीवमिच्छसि ॥ ८२ ॥
तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव ।
अथ केनानुभावेन सापत्नं जीवमिच्छसि ॥ ८३ ॥

युधिष्ठिर उवाच-

धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ।
तस्माद्धर्मं न त्यजामि मा नो धर्मो हतोऽवधीत् ॥ ८४ ॥
आनृशंस्यं परो धर्मः परमार्थाच्च मे मतम् ।
आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु ॥ ५ ॥
धर्मशीलः सदा राजा इति मां मानवाः विदुः ।
स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु ॥ ८६ ॥
कुन्ती चैव माद्री च द्वे भार्ये तु पितुर्मम ।
उभे सपुत्रे स्यातां वै इति मे धीयते मतिः ॥ ८७ ॥
यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः ।
मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु ॥ ८८ ॥

३७. यक्ष उवाच-

यस्य तेऽर्थाच्च कामाच्च आनृशंस्यं परं मतम् ।
तस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ ॥ ८९ ॥

"https://sa.wikisource.org/w/index.php?title=यक्षयुधिष्ठिरसंवादः&oldid=309246" इत्यस्माद् प्रतिप्राप्तम्