पूर्ववर्ती पृष्ठः (प्रपाठकाः १ -३)
तैत्तिरीय आरण्यकम् (प्रपाठकाः ४ - ८)
प्रपाठक ४
प्रवर्ग्यमन्त्राः
4.1 अनुवाक १
नमो वाचे या चोदिता या चानुदिता तस्यै वाचे नमो नमो वाचे नमो वाचस्पतये नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो मा मामृषयो मन्त्रकृतो मन्त्रपतयः परा दुर्माहमृषीन्मन्त्रकृतो मन्त्रपतीन्परादाम् १ वैश्वदेवीं वाचमुद्यासँ शिवामदस्तां जुष्टां देवेभ्यः २ शर्म मे द्यौः शर्म पृथिवी शर्म विश्वमिदं जगत् शर्म चन्द्रश्च सूर्यश्च शर्म ब्रह्मप्रजापती ३ भूतं वदिष्ये भुवनं वदिष्ये तेजो वदिष्ये यशो वदिष्ये तपो वदिष्ये ब्रह्म वदिष्ये सत्यं वदिष्ये ४ तस्मा अहमिदमुपस्तरणमुपस्तृण उपस्तरणं मे प्रजायै पशूनां भूयादुपस्तरणमहं प्रजायै पशूनां भूयासम् ५ प्राणापानौ मृत्योर्मा पातं प्राणापानौ मा मा हासिष्टम् ६ मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीं देवेभ्यो वाचमुद्यासँ शुश्रूषेण्यां
मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनु मदन्तु ७
ॐ शान्तिः शान्तिः शान्तिः ८ 4.1
4.2 अनुवाक २
युञ्जते मन उत युञ्जते धियः । विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविदेक इत् । मही देवस्य सवितुः परिष्टुतिः १ देवस्य त्वा सवितुः प्रसवे । अश्विनोर्बाहुभ्याम् । पूष्णो हस्ताभ्यामा ददे २ अभ्रिरसि नारिरसि । अध्वरकृद्देवेभ्यः ३ उत्तिष्ठ ब्रह्मणस्पते । देवयन्तस्त्वेमहे । उप प्र यन्तु मरुतः सुदानवः । इन्द्र प्राशूर्भवा सचा ४ प्रैतु ब्रह्मणस्पतिः । प्र देव्येतु सूनृता । अच्छा वीरं नर्यं पङ्क्तिराधसं । देवा यज्ञं नयन्तु नः ५ देवी द्यावापृथिवी अनु मे मँ साथाम् ६ ऋध्यासमद्य । मखस्य शिरः ७ मखाय त्वा । मखस्य त्वा शीर्ष्णे ८ इयत्यग्र आसीः ९ ऋध्यासमद्य । मखस्य शिरः । मखाय त्वा । मखस्य त्वा शीर्ष्णे १० देवीर्वम्रीरस्य भूतस्य प्रथमजा ऋतावरीः ११ ऋध्यासमद्य । मखस्य शिरः । मखाय त्वा । मखस्य त्वा शीर्ष्णे १२ इन्द्र स्यौजोसि । ऋध्यासमद्य । मखस्य शिरः । मखाय त्वा । मखस्य त्वा शीर्ष्णे १३ अग्निजा असि प्रजापते रेतः । ऋध्यासमद्य । मखस्य शिरः । मखाय त्वा । मखस्य त्वा शीर्ष्णे १४ आयुर्धेहि प्राणं धेहि । अपानं धेहि व्यानं धेहि । चक्षुर्धेहि श्रोत्रं धेहि । मनो धेहि वाचं धेहि । आत्मानं धेहि प्रतिष्ठां धेहि । मां धेहि मयि धेहि १५ मधु त्वा मधुला करोतु १६ मखस्य शिरोऽसि १७ यज्ञस्य पदे स्थः । गायत्रेण त्वा छन्दसा करोमि । त्रैष्टुभेन त्वा छन्दसा करोमि । जागतेन त्वा छन्दसा करोमि । मखस्य रास्नासि । अदितिस्ते बिलं गृह्णातु । पाङ्क्तेन छन्दसा । सूर्यस्य हरसा श्राय । मखोऽसि । पते शिरः ऋतावरीरृध्यासमद्य मखस्य शिरः शिरः शिरोऽसि नव च । इयति देवीरिन्द्र स्यौ
जोऽस्यग्निजा अस्यायुर्धेहि प्राणं पञ्च
4.3 अनुवाक ३
वृष्णो अश्वस्य निष्पदसि । वरुणस्त्वा धृतव्रत आधूपयतु । मित्रावरुणयोर्ध्रुवेण धर्मणा १ अर्चिषे त्वा । शोचिषे त्वा ।ज्योतिषे त्वा । तपसे त्वा २ अभीमं महिना दिवम् । मित्रो बभूव सप्रथाः । उत श्रवसा पृथिवीम् । मित्रस्य चर्षणीधृतः । श्रवो देवस्य सानसिम् । द्युम्नं चित्रश्रवस्तमम् ३ सिद्ध्यै त्वा ४ देवस्त्वा सवितोद्वपतु । सुपाणिः स्वङ्गुरिः । सुबाहुरुत शक्त्या ५ अपद्यमानः पृथिव्याम् । आशा दिश आपृण । उत्तिष्ठ बृहन्भव । ऊर्ध्वस्तिष्ठ ध्रुवस्त्वम् ६ सूर्यस्य त्वा चक्षुषान्वीक्षे । ऋजवे त्वा । साधवे त्वा । सुक्षित्यै त्वा भूत्यै त्वा ७ इदमहममुमामुष्यायणं विशा पशुभिर्ब्रह्मवर्चसेन पर्यूहामि ८ गायत्रेण त्वा छन्दसाच्छृणद्मि । त्रैष्टुभेन त्वा छन्दसाच्छृणद्मि । जागतेन त्वा छन्दसाच्छृणद्मि । छृणत्तु त्वा वाक् । छृणत्तु त्वोर्क् । छृणत्तु त्वा हविः । छृन्धि वाचम् । छृन्ध्यूर्जम् । छृन्धि हविः ९ देव पुरश्चर सध्यासं त्वा
१० पृथिवीं भव वाक्षट्च
4.4 अनुवाक ४
ब्रह्मन्प्रवर्ग्येण प्र चरिष्यामः । होतर्घर्ममभि ष्टुहि । अग्नीद्रौ हिणौ पुरोडाशावधि श्रय । प्रतिप्रस्थातर्वि हर । प्रस्तोतः सामानि गाय १यजुर्युक्तँ सामभिराक्तखं त्वा । विश्वैर्देवैरनुमतं मरुद्भिः । दक्षिणाभिः प्रततं पारयिष्णुम् । स्तुभो वहन्तु सुमनस्यमानम् । स नो रुचं धेह्यहृणीयमानः । भूर्भुवः
सुवः । ओमिन्द्र वन्तः प्र चरत २ अहृणीयमानो द्वे च
4.5 अनुवाक ५
ब्रह्मन्प्र चरिष्यामः । होतर्घर्ममभि ष्टुहि १यमाय त्वा मखाय त्वा । सूर्यस्य हरसे त्वा २प्राणाय स्वाहा व्यानाय स्वाहापानाय स्वाहा । चक्षुषे स्वाहा श्रोत्राय स्वाहा । मनसे स्वाहा वाचे सरस्वत्यै स्वाहा । दक्षाय स्वाहा क्रतवे स्वाहा । ओजसे स्वाहा बलाय स्वाहा ३देवस्त्वा सविता मध्वानक्तु ४ पृथिवीं तपसस्त्रायस्व ५ अर्चिरसि शोचिरसि ज्योतिरसि तपोऽसि ६ सँ सीदस्व महाँ असि । शोचस्व देववीतमः । वि धूममग्ने अरुषं मियेध्य । सृज प्रशस्तदर्शतम् ७ अञ्जन्ति यं प्रथयन्तो न विप्राः । वपावन्तं नाग्निना तपन्तः । पितुर्न पुत्र उपसि प्रेष्ठः । आ घर्मो अग्निमृतयन्नसादीत् ८ अनाधृष्या पुरस्तात् । अग्नेराधिपत्ये । आयुर्मे दाः । पुत्रवती दक्षिणतः । इन्द्र स्याधिपत्ये । प्रजां मे दाः । सुषदा पश्चात् । देवस्य सवितुराधिपत्ये । प्राणं मे दाः । आश्रुतिरुत्तरतः । मित्रावरुणयोराधिपत्ये । श्रोत्रं मे दाः । विधृतिरुपरिष्टात् । बृहस्पतेराधिपत्ये । ब्रह्म मे दाः क्षत्त्रं मे दाः । । तेजो मे धा। वर्चो मे धाः । यशो मे धास्तपो मे धाः । मनो मे धाः ९ मनोरश्वासि भूरिपुत्रा । विश्वाभ्यो मा नाष्ट्राभ्यः पाहि । सूपसदा मे भूया मा मा हिँ सीः १० तपो ष्वग्ने अन्तराँ अमित्रान् । तपा शँ समररुषः परस्य । तपा वसो चिकितानो अचित्तान् । वि ते तिष्ठन्तामजरा अयासः ११ चितः स्थ परिचितः । स्वाहा मरुद्भिः परि श्रयस्व १२ मा असि । प्रमा असि । प्रतिमा असि । संमा असि । विमा असि । उन्मा असि । अन्तरिक्षस्यान्तर्धिरसि १३ दिवं तपसस्त्रायस्व १४आभिर्गीर्भिर्यदतो न ऊनम् । आप्यायय हरिवो वर्धमानः । यदा स्तोतृभ्यो महिगोत्रा रुजासि । भूयिष्ठभाजो अध ते स्याम १५ शुक्रं ते अन्यद्यजतं ते अन्यत् । विषुरूपे अहनी द्यौरिवासि । विश्वा हि माया अवसि स्वधावः । भद्रा ते पूषन्निह रातिरस्तु १६ अर्हन्बिभर्षि सायकानि धन्व । अर्हन्निष्कं यजतं विश्वरूपम् । अर्हन्निदं दयसे विश्वमब्भुवम् । न वा ओजीयो रुद्र त्वदस्ति १७ गायत्रमसि । त्रैष्टुभमसि । जागतमसि १८ मधु मधु मधु । अनक्त्वसादीदुत्तरतः पाहि
प्रतिमा असि यजतं ते अन्यज् जागतमस्येकं च १९
4.6 अनुवाक ६
दश प्राचीर्दश भासि दक्षिणा । दश प्रतीचीर्दश भास्युदीचीः । दशोर्ध्वा भासि सुमनस्यमानः । स नो रुचं धेह्यहृणीयमानः १ अग्निष् ट्वा वसुभिः पुरस्ताद्रो चयतु गायत्रेण छन्दसा । स मा रुचितो रोचय २ इन्द्र स्त्वा रुद्रै र्दक्षिणतो रोचयतु त्रैष्टुभेन छन्दसा । स मा रुचितो रोचय । वरुणस्त्वादित्यैः पश्चाद्रो चयतु जागतेन छन्दसा । स मा रुचितो रोचय । द्युतानस्त्वा मारुतो मरुद्भिरुत्तरतो रोचयनानुष्टुभेन छन्दसा । स मा रुचितो रोचय । बृहस्पतिस्त्वा विश्वैर्देवैरुपरिष्टाद्रो चयतु पाङ्क्तेन छन्दसा । स मा रुचितो रोचय ३ रोचितस्त्वं देव घर्म देवेष्वसि । रोचिषीयाहं मनुष्येषु ४ सम्राड्घर्म रुचितस्त्वं देवेष्वायुष्माँ स्तेजस्वी ब्रह्मवर्चस्यसि । रुचितोऽहं मनुष्येष्वायुष्माँ स्तेजस्वी ब्रह्मवर्चसी भूयासम् ५ रुगसि । रुचं मयि धेहि । मयि रुक् ६ दश पुरस्ताद्रो चसे । दश दक्षिणा । दश प्रत्यङ् । दशोदङ् । दशोर्ध्वो भासि सुमनस्यमानः । स नः सम्राडिषमूर्जं धेहि । वाजी वाजिने
पवस्व । रोचितो घर्मो रुचीय ७ रोचय धेहि नव च
4.7 अनुवाक ७
अपश्यं गोपामनिपद्यमानम् । आ च परा च पथिभिश्चरन्तम् । स सध्रीचीः स विषूचीर्वसानः । आ वरीवर्ति भुवनेष्वन्तः १ अत्र प्रावीः । मधुमाध्वीभ्यां मधुमाधूचीभ्याम् । अनु वां देववीतये २ समग्निरग्निनागत । सं देवेन सवित्रा । सँ सूर्येण रोचते ३ स्वाहा समग्निस्तपसागत । सं देवेन सवित्रा । सं सूर्येणारोचिष्ट ४ धर्ता दिवो विभासि रजसः । पृथिव्या धर्ता । उरोरन्तरिक्षस्य धर्ता । धर्ता देवो देवानाम् । अमर्त्यस्तपोजाः ५ हृदे त्वा मनसे त्वा । दिवे त्वा सूर्याय त्वा । ऊर्ध्वमिममध्वरं कृधि । दिवि देवेषु होत्रा यच्छ ६ विश्वासां भुवां पते । विश्वस्य भुवनस्पते । विश्वस्य मनसस्पते । विश्वस्य वचसस्पते । विश्वस्य तपसस्पते । विश्वस्य ब्रह्मणस्पते ७ देवश्रूस्त्वं देव घर्म देवान्पाहि ८ तपोजां वाचमस्मे नियच्छ देवायुवम् ९ गर्भो देवानाम् १० पिता मतीनाम् ११ पतिः प्रजानाम् १२ मतिः कवीनाम् १३ सं देवो देवेन सवित्रायतिष्ट । सँ सूर्येणारुक्त १४ आयुर्दस्त्वमस्मभ्यं घर्म वर्चोदा असि १५ पिता नोऽसि पिता नो बोध १६ आयुर्धास्तनूधाः पयोधाः । वर्चोदा वरिवोदा द्र विणोदाः । अन्तरिक्षप्र उरोर्वरीयान् । अशीमहि त्वा मा मा हिँ सीः १७ त्वमग्ने गृहपतिर्विशामसि । विश्वासां मानुषीणाम् । शतं पूर्भिर्यविष्ठ पाह्यँहसः । समेद्धारँ शतँ हिमाः । तन्द्रा विणँ हार्दिवानम् । इहैव रातयः सन्तु १८ त्वष्टीमती ते सपेय । सुरेता रेतो दधाना । वीरं विदेय तव संदृशि । माहँ रायस्पोषेण वि योषम् १९ रोचते सूर्याय त्वा देवायुवं द्र विणोदा दधाना द्वे च
4.8 अनुवाक ८
देवस्य त्वा सवितुः प्रसवे । अश्विनोर्बाहुभ्याम् । पूष्णो हस्ताभ्यामाददे १ अदित्यै रास्नासि २ इड एहि । अदित एहि । सरस्वत्येहि ३ असावेहि । असावेहि । असावेहि ४ अदित्या उष्णीषमसि ५ वायुरस्यैडः ६ पूषा त्वोपावसृजतु । अश्विभां प्र दापय ७ यस्ते स्तनः शशयो यो मयोभूः । येन विश्वा पुष्यसि वार्यणि । यो रत्नधा वसुविद्यः सुदत्रः । सरस्वति तमिह धातवे कः ८ उस्र घर्मँ शिँ ष । उस्र घर्मं पाहि । घर्माय शिँ ष ९ बृहस्पतिस्त्वोप सीदतु १० दानवः स्थ पेरवः । विष्वग्वृतो लोहितेन ११ अश्विभ्यां पिन्वस्व । सरस्वत्यै पिन्वस्व । पूष्णे पिन्वस्व । बृहस्पतये पिन्वस्व । इन्द्रा य पिन्वस्व । इन्द्रा य पिन्वस्व १२ गायत्रोऽसि । त्रैष्टुभोऽसि । जागतमसि १३ सहोर्जो भागेनोप मेहि १४ इन्द्रा श्विना मधुनः सारघस्य । घर्मं पात वसवो यजता वट् १५ स्वाहा त्वा सूर्यस्य रश्मये वृष्टिवनये जुहोमि १६ मधु हविरसि १७ सूर्यस्य तपस्तप १८ द्यावापृथिवीभ्यां त्वा परि गृह्णामि १९ अन्तरिक्षेण त्वोप यच्छामि २० देवानां त्वा पितृणामनुमतो भर्तुँ शकेयम् २१ तेजोऽसि । तेजोऽनुप्रेहि । दिविस्पृङ्मा मा हिँ सीः । अन्तरिक्षस्पृङ्मा मा हिँ सीः । पृथिविस्पृङ्मा मा हिँ सीः । सुवरसि सुवर्मे यच्छ । दिवं यच्छ दिवो मा पाहि २२ एहि पाहि पिन्वस्व
गृह्णामि नव च
4.9 अनुवाक ९
समुद्रा य त्वा वाताय स्वाहा । सलिलाय त्वा वाताय स्वाहा । अनाधृष्याय त्वा वाताय स्वाहा । अप्रतिधृष्याय त्वा वाताय स्वाहा । अवस्यवे त्वा वाताय स्वाहा । दुवस्वते त्वा वाताय स्वाहा । शिमिद्वते त्वा वाताय स्वाहा । अग्नये त्वा वसुमते स्वाहा । सोमाय त्वा रुद्र वते स्वाहा । वरुणाय त्वादित्यवते स्वाहा । बृहस्पतये त्वा विश्वदेव्यावते स्वाहा । सवित्रे त्वर्भुमते विभुमते प्रभुमते वाजवते स्वाहा । यमाय त्वाङिरस्वते पितृमते स्वाहा १ विश्वा आशा दक्षिणसत् २ विश्वान्देवानयाडिह ३ स्वाहाकृतस्य घर्मस्य । मधोः पिबतमश्विना । स्वाहाग्नये यज्ञियाय । शं यजुर्भिः ४ अश्विना घर्मं पातँ हार्दिवानम् । अहर्दिवाभिरूतिभिः । अनु वां द्यावापृथिवी मँ साताम् । स्वाहेन्द्रा य ५ स्वाहेन्द्रा वट् ६ घर्ममपातमश्विना हार्दिवानम् । अहर्दिवाभिरूतिभिः । अनु वां द्यावापृथिवी अमँ साताम् । तं प्राव्यं यथावट् । नमो दिवे । नमः पृथिव्यै । दिवि धा इमं यज्ञम् । यज्ञमिमं दिवि धाः । दिवं गच्छ । अन्तरिकं गच्छ । पृथिवीं गच्छ । पञ्च प्रदिशो गच्छ । देवान्घर्मपान्गच्छ । पित् । ॠन्घर्मपान्गच्छ । ७ आदित्यवते स्वाहा हार्दिवानं पृथिव्या अष्टौ च
4.10 अनुवाक १०
इषे पीपिहि । ऊर्जे पीपिहि । ब्रह्मणे पीपिहि । क्षत्राय पीपिहि । अद्भ्यः पीपिहि । ओषधीभ्यः पीपिहि । वनस्पतिभ्यः पीपिहि । द्यावापृथिवीभ्यां पीपिहि । सुभूताय पीपिहि । ब्रह्मवर्चसाय पीपिहि । यजमानाय पीपिहि । मह्यं ज्यैष्ठाय पीपिहि १ त्विष्यै त्वा । द्युम्नाय त्वा । इन्द्रि याय त्वा भूत्यै त्वा २ धर्मासि सुधर्मामेन्यस्मे । ब्रह्माणि धारय । क्षत्त्राणि धारय । विशं धारय । नेत्त्वा वातः स्कन्दयात् ३ अमुष्य त्वा प्राणे सादयामि । अमुना सह निरर्थं गच्छ । योऽस्मान्द्वेष्टि । यं च वयं द्विष्मः ४ पूष्णे शरसे स्वाहा । ग्रावेभ्यः स्वाहा । प्रतिरेभ्यः स्वाहा । द्यावापृथिवीभ्याँ स्वाहा । पितृभ्यो घर्मपेभ्यः स्वाहा ५ रुद्रा य रुद्र होत्रे स्वाहा ६ अहर्ज्योतिः केतुना जुषताम् । सुज्योतिर्ज्योतिषाँ स्वाहा । रात्रिर्ज्योतिः केतुना जुषताम् । सुज्योतिर्ज्योतिषाँ स्वाहा ७ अपीपरो माऽह्नो रात्रियै मा पाहि । एषा ते अग्ने समित् । तया समिध्यस्व । आयुर्मे दाः । वर्चसा माञ्जीः । अपीपरो मा रात्रिया अह्नो मा पाहि । एषा ते अग्ने समित् । तया समिध्यस्व । आयुर्मे दाः । वर्चसा माञ्जीः ८ अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा । सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा ९ भूः स्वाहा १० हुतँ हविः । मधु हविः । इन्द्र तमेऽग्नौ । पिता नोऽसि मा मा हिँ सीः । अश्याम ते देव घर्म । मधुमतो वाजवतः पितुमतः । अङ्गिरस्वतः स्वधाविनः । अशीमहि त्वा मा मा हिँ सीः ११ स्वाहा त्वा सूर्यस्य रश्मिभ्यः । स्वाहा त्वा नक्षत्रेभ्यः १२ ब्रह्मवर्चसाय पीपिहि स्कन्दयाद्रुद्रा य रुद्र होत्रे स्वाहाऽह्नो मा पाह्यग्नौ सप्त
4.11 अनुवाक ११
घर्म या ते दिवि शुक् । या गायत्रे छन्दसि । या ब्राह्मणे । या हविर्धाने । तां त एतेनावयजे स्वाहा १ घर्म या तेऽन्तरिक्षे शुक् । या त्रैष्टुभे छन्दसि । या राजन्ये । याग्नीध्रे । तां त एतेनावयजे स्वाहा । घर्म या ते पृथिव्याँ शुक् । या जागते छन्दसि । या वैश्ये । या सदसि । तां त एतेनावयजे स्वाहा २ अनु नोऽद्यानुमतिः । अन्!विदनुमते त्वम् ३ दिवस्त्वा परस्पायाः । अन्तरिक्षस्य तनुवः पाहि । पृथिव्यास्त्वा धर्मणा । वयमनुक्रामाम सुविताय नव्यसे ४ ब्रह्मणस्त्वा परस्पायाः । क्षत्त्रस्य तनुवः पाहि । विशस्त्वा धर्मणा । वयमनुक्रामाम सुविताय नव्यसे ५ प्राणस्य त्वा परस्पायै । चक्षुषस्तनुवः पाहि । श्रोत्रस्य त्वा धर्मणा । वयमनुक्रामाम सुविताय नव्यसे ६ वल्गुरसि शंयुधायाः । शिषुर्जनधायाः ७ शं च वक्षि परि च वक्षि ८ चतुःस्रक्तिर्नाभिरृतस्य ९ सदो विश्वायुः शर्म सप्रथाः १० अप द्वेषो अप ह्वरः । अन्यद्व्रतस्य सश्चिम ११ घर्मैतत्तेऽन्नमेतत्पुरीषम् । तेन वर्धस्व चा च प्यायस्व । वर्धिषीमहि च वयम् । आ च प्यासिषीमहि १२ रन्तिर्नामासि दिव्यो गन्धर्वः । तस्य ते पद्वद्धविर्धानम् । अग्निरध्यक्षः । रुद्रो ऽधिपतिः १३ समहमायुषा । सं प्राणेन । सं वर्चसा । सं पयसा । सं गौपत्येन । सँ रायस्पोषेण १४ व्यसौ । योऽस्मान्द्वेष्टि । यं च वयं द्विष्मः १५ अचिक्रदद्वृषा हरिः । महान्मित्रो न दर्शतः । सँ सूर्येण रोचते १६ चिदसि समुद्र योनिः । इन्दुर्दक्षः श्येन ऋतावा । हिरण्यपक्षः शकुनो बुरण्युः । महान्त्सधस्थे ध्रुव आ निषत्तः । नमस्ते अस्तु मा मा हिँ सीः १७ विश्वावसुँ सोमगन्धर्वम् । आपो ददृशुषीः । तदृतेना व्यायन् । तदन्ववैत् । इन्द्रो रारहाण आसाम् । परि सूर्यस्य परिधीँ रपश्यत् १८ विश्वावसुरभि तन्नो गृणातु । दिव्यो गन्धर्वो रजसो विमानः । यद्वा घा सत्यमुत यन्न विद्म । धियो हिन्वानो धिय इन्नो अव्यात् १९ सस्निमविन्दच्चरणे नदीनाम् । अपावृणोद्दुरो अश्मव्रजानाम् । प्रासां गन्धर्वो अमृतानि वोचत् । इन्द्रो दक्षं परि जानादहीनम् २० एतत्त्वं देव घर्म देवो देवानुपागाः २१ इदमहं मनुष्यो मनुष्यान् । सोमपीथानु मेहि । सह प्रजया सह रायस्पोषेण २२ सुमित्रा न आप ओषधयः सन्तु । दुर्मित्रास्तस्मै भूयासुः । योऽस्मान्द्वेष्टि । यं च वयं द्विष्मः २३ उद्वयं तमसस्परि । उदु त्यं चित्रम् २४ इममू षु त्यमस्मभ्यँ सनिम् । गायत्रं नवीयाँ सम् । अग्ने देवेषु प्र वोचः २५ याग्नीध्रे तां त एतेनावयजे स्वाहा धर्मणा शंयुधायाः प्यासिषीमहि पोषेण निषत्तो विद्म
सन्त्वष्टौ च
4.12 अनुवाक १२
महीनां पयोऽसि विहितं देवत्रा १ ज्योतिर्भा असि वनस्पतीनामोषधीनाँ रसः
२ वाजिनं त्वा वाजिनोऽव नयामः । ऊर्ध्वं मनः सुवर्गं ३
4.13 अनुवाक १३
अस्कान्द्यौः पृथिवीम् । अस्कानृषभो युवा गाः । स्कन्नेमा विश्वा भुवना । स्कन्नो यज्ञः प्र जनयतु १ अस्कानजनि प्राजनि । आ स्कन्नाज् जायते वृषा
। स्कन्नात्प्र जनिषीमहि २
4.14 अनुवाक १४
या पुरस्ताद्विद्युदापतत् । तां त एतेनावयजे स्वाहा । या दक्षिणतः । या
पश्चात् । योत्तरतः । योपरिष्टाद्विद्युदापतत् । तां त एतेनावयजे स्वाहा १
4.15 अनुवाक १५
प्राणाय स्वाहा व्यानाय स्वाहाऽपानाय स्वाहाचक्षुषे स्वाहा श्रोत्राय स्वाहा ।
मनसे स्वाहा वाचे सरस्वत्यै स्वाहा १
4.16 अनुवाक १६
पूष्णे स्वाहा पूष्णे शरसे स्वाहा । पूष्णे प्रपथ्याय स्वाहा पूष्णे नरंधियाय स्वाहा । पूष्णेऽङ्घृणये स्वाहा पूष्णे नरुणाय स्वाहा । पूष्णे साकेताय स्वाहा
१
4.17 अनुवाक १७
उदस्य शुष्माद्भानुर्नार्त बिभर्ति । भारं पृथिवी न भूम । प्र शुक्रैतु देवी मनीषा । अस्मत्सुतष्टो रथो न वाजी । अर्चन्त एके महि साम मन्वत । तेन सूर्यमधारयन् । तेन सूर्यमरोचयन् । घर्मः शिरस्तदयमग्निः । पुरीषमसि संप्रियं प्रजया पशुभिर्भुवत् । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिर
स्वद्ध्रुवा सीद १
4.18 अनुवाक १८
यास्त अग्न आद्रा र्! योनयो याः कुलायिनीः । ये ते अग्न इन्दवो या उ नाभयः । यास्ते अग्ने तनुव ऊर्जो नाम । ताभिस्त्वमुभयीभिः संविदानः । प्रजाभिरग्ने द्र विणेह सीद । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद
१
4.19 अनुवाक १९
अग्निरसि वैश्वानरोऽसि । संवत्सरोऽसि परिवत्सरोऽसि । इदावत्सरोऽसीदुवत्सरोऽसि । इद्वत्सरोऽसि वत्सरोऽसि । तस्य ते वसन्तः शिरः । ग्रीष्मो दक्षिणः पक्षः । वर्षाः पुच्छम् । शरदुत्तरः पक्षः । हेमन्तो मध्यम् । पूर्वपक्षाश्चितयः । अपरपक्षाः पुरीषम् । अहोरात्राणीष्टकाः । तस्य ते मासाश्चार्धमासाश्च कल्पन्ताम् । ऋतवस्ते कल्पन्ताम् । संवत्सरस्ते कल्पन्ताम् । अहोरात्राणि ते कल्पन्ताम् । एति प्रेति वीति समित्युदिति ।
प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिरस्वद्ध्रुवः सीद १
4.20 अनुवाक २०
भूर्भुवः सुवः । ऊर्ध्व ऊ षु ण ऊतये । ऊर्ध्वो नः पाह्यँ हसः १ विधुं दद्रा णँ समने बहूनाम् । युवानँ सन्तं पलितो जगार । देवस्य पश्य काव्यं महित्वाऽद्या ममार । स ह्यः समान २ यदृते चिदभिश्रिषः । पुरा जर्तृभ्य आतृदः । संधाता संधिं मघवा पुरोवसुः । निष्कर्ता विह्रुतं पुनः ३ पुनरूर्जा सह रय्या ४ मा नो घर्म व्यथितो विव्यथो नः । मा नः परमधरं मा रजो नैः । मो ष्वस्माँ स्तमस्यन्तरा धाः । मा रुद्रि यासो अभिगुर्वृधानः ५ मा नः क्रतुभिर्हीडितेभिरस्मान् । द्विषा सुनीते मा परा दाः । मा नो रुद्रो निरृतिर्मा नो अस्ता । मा द्यावापृथिवी हीडिषाताम् ६ उप नो मित्रावरुणाविहावतम् । अन्वादीध्याथामिह नः सखाया । आदित्यानां प्रसितिर्हेतिः । उग्रा शतापाष्ठा घ विषा परि णो वृणक्तु ७ इमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयासि ८ उद्वयं तमसस्परि उदु त्यं चित्रम् वयः सुपर्णाः ९ पुरोवसुर्हीडिषाताँ सुपर्णाः
4.21 अनुवाक २१
भूर्भुवः सुवः । मयि त्यदिन्द्रि यं महत् । मयि दक्षो मयि क्रतुः । मयि धायि सुवीर्यम् । त्रिशुग्घर्मो वि भातु मे । आकूत्या मनसा सह । विराजा ज्योतिषा सह । यज्ञेन पयसा सह । ब्रह्मणा तेजसा सह । क्षत्त्रेण यशसा सह । सत्येन तपसा सह । तस्य दोहमशीमहि । तस्य सुम्नमशीमहि । तस्य भक्षमशीमहि । तस्य त इन्द्रे ण पीतस्य मधुमतः । उपहूतस्योपहूतो
भक्षयामि १
4.22 अनुवाक २२
यास्ते अग्ने घोरास्तनुवः । क्षुच्च तृष्णा च । अस्नुक्चानाहुतिश्च । अशनया च पिपासा च । सेदिश्चामतिश्च । एतास्ते अग्ने घोरास्तनुवः । ताभिरमुं
गच्छ । यो स्मान्द्वेष्टि । यं च वयं द्विष्मः १
4.23 अनुवाक २३
स्निक्च स्नीहितिश्च स्निहितिश्च । उष्णा च शीता च । उग्रा च भीमा च ।
सदाम्नी सेदिरनिरा । एतास्ते अग्ने घोरास्तनुवः । ताभिरमुं गच्छ ।
योऽस्मान्द्वेष्टि । यं च वयं द्विष्मः १
4.24 अनुवाक २४
धुनिश्च ध्वान्तश्च ध्वनश्च ध्वनयँ श्च । निलिम्पश्च विलिम्पश्च विक्षिपः १
4.25 अनुवाक २५
उग्रश्च धुनिश्च ध्वान्तश्च ध्वनश्च ध्वनयँ श्च । सहसह्वाँ श्च सहमानश्च सहस्वाँ श्च
सहीयाँ श्च । एत्य प्रेत्य विक्षिपः १
4.26 अनुवाक २६
अहोरात्रे त्वोदीरयताम् । अर्धमासास्त्वोदीँ जयन्तु । मासास्त्वा श्रपयन्तु
। ऋतवस्त्वा पचन्तु । संवत्सरस्त्वा हन्त्वसौ १
4.27 अनुवाक २७
खट्फट्जहि । छिन्धी भिन्धी हन्धी कट् । इति वाचः क्रूराणि १
4.28 अनुवाक २८
वि गा इन्द्र विचरन्त्स्पाशयस्व । स्वपन्त इन्द्र पशुमन्तमिच्छा । वज्रेणामुं बोधय दुर्विदत्रम् । स्वपतोऽस्य प्रहर भोजनेभ्यः १अग्ने अग्निना सं वदस्व । मृत्यो मृत्युना सं वदस्व । नमस्ते अस्तु भगवः २सकृत्ते अग्ने नमः । द्विस्ते नमः । त्रिस्ते नमः । चतुस्ते नमः । पञ्चकृत्वस्ते नमःदशकृत्वस्ते नम । शतकृत्वस्ते नमः । आसहस्रकृत्वस्ते नमः । अपरिमितकृत्वस्ते
नमः । नमस्ते अस्तु मा मा हिँ सीः ३
4.29 अनुवाक २९
असृङ्मुखो रुधिरेणाव्यक्त । यमस्य दूतः श्वपाद्वि धावसि । गृध्रः सुपर्णः
कुणपं नि षेवसे । यमस्य दूतः प्रहितो भवस्य चोभयोः १
4.30 अनुवाक ३०
यदेतद्वृकसो भूत्वा । वाग्देव्यभिरायसि । द्विषन्तं मेऽभिराय । तं मृत्यो
मृत्यवे नय । स आर्त्यार्तिमार्च्छतु १
4.31 अनुवाक ३१
यदीषितो यदि वा स्वकामी । भयेडको वदति वाचमेताम् । तामिन्द्रा ग्नी
ब्रह्मणा संविदानौ । शिवामस्मभ्यं कृणुतं गृहेषु १
4.32 अनुवाक ३२
दीर्घमुखि दुर्हणु । मा स्म दक्षिणतो वदः । यदि दक्षिणतो वदाद्द्विषन्तं
मेऽवबाधासै १
4.33 अनुवाक ३३
इत्थादुलूक आपप्तत् । हिरण्याक्षो अयोमुखः । रक्षसां दूत आगतः ।
तमितो नाशयाग्ने १
4.34 अनुवाक ३४
यदेतद्भूतान्यन्वाविश्य । दैवीं वाचं वदसि । द्विषतो नः परावद । तान्मृत्यो
मृत्यवे नय । त आर्त्यार्तिमार्च्छन्तु । अग्निनाग्निः सं वदताम् १
4.35 अनुवाक ३५
प्रसार्य सक्थ्यौ पतसि । सव्यमक्षि निपेपि च । मेह कस्य चनाममत् १
4.36 अनुवाक ३६
अत्रिणा त्वा क्रिमे हन्मि । कण्वेन जमदनिना । विश्वावसोर्ब्रह्मणा हतः । क्रिमीणाँ राजा । अप्येषाँ स्थपतिर्हतः । अथो माताथो पिता । अथो स्थूरा अथो क्षुद्रा ः! । अथो कृष्णा अथो श्वेताः । अथो आशातिका हताः ।
श्वेताभिः सह सर्वे हताः १
4.37 अनुवाक ३७
आहरावद्य । शृतस्य हविषो यथा । तत्सत्यम् । यदमुं यमस्य जम्भयोः
। आदधामि तथा हि तत् । खण्फण्म्रसि १
4.38 अनुवाक ३८
ब्रह्मणा त्वा शपामि । ब्रह्मणस्त्वा शपथेन शपामि । घोरेण त्वा भृगूणां चक्षुषा प्रेक्षे । रौद्रे ण त्वाङिरसां मनसा ध्यायामि । अघस्य त्वा धारया
विध्यामि । अधरो मत्पद्यस्वासौ १
4.39 अनुवाक ३९
उत्तुद शिमिजावरि । तल्पेजे तल्प उत्तुद । गिरीँ रनु प्र वेशय । मरीचीरुप सं नुद । यावदितः पुरस्तादुदयाति सूर्यः । तावदितोऽमुं नाशय ।
योऽस्मान्द्वेष्टि । यं च वयं द्विष्मः १
4.40 अनुवाक ४०
भूर्भुवः सुवो भूर्भुवः सुवो भूर्भुवः सुवः । भुवोऽद्धायि भुवोऽद्धायि भुवोऽद्धायि । नृम्णायि नृम्णं नृम्णायि नृम्णं नृम्णायि नृम्णम् । निधाय्योऽवायि
निधाय्योऽवायि निधाय्योऽवायि । ए अस्मे अस्मे । सुवर्न ज्योतीः १
4.41 अनुवाक ४१
पृथिवी समित् । तामग्निः समिन्धे । साऽग्निँ समिन्धे । तामहँ समिन्धे । सा मा समिद्धा । आयुषा तेजसा । वर्चसा श्रिया । यशसा ब्रह्मवर्चसेन । अन्नाद्येन समिन्ताँ स्वाहा १ अन्तरिक्षँ समित् । तां वायुः समिन्धे । सा वायुँ समिन्धे । तामहँ समिन्धे । सा मा समिद्धा । आयुषा तेजसा । वर्चसा श्रिया । यशसा ब्रह्मवर्चसेन । अन्नाद्येन समिन्ताँ स्वाहा २ द्यौः समित् । तामादित्यः समिन्धे । सादित्यँ समिन्धे । तामहँ समिन्धे । सा मा समिद्धा । आयुषा तेजसा । वर्चसा श्रिया । यशसा ब्रह्मवर्चसेन । अन्नाद्येन समिन्ताँ स्वाहा ३ प्राजापत्या मे समिदसि सपत्नक्षयणी । भ्रातृव्यहा मेऽसि स्वाहा ४ अग्ने व्रतपते व्रतं चरिष्यामि । तच्छकेयं तन्मे राध्यताम् । वायो व्रतपत आदित्य व्रतपते । व्रतानां व्रतपते व्रतं चरिष्यामि । तच्छकेयं तन्मे राध्यताम् ५ द्यौः समित् । तामादित्यः समिन्धे । सादित्यँ समिन्धे । तामहँ समिन्धे । सा मा समिद्धा । आयुषा तेजसा । वर्चसा श्रियायशसा ब्रह्मवर्चसेन । अन्नाद्येन समिन्ताँ स्वाहा । अन्तरिक्षँ समित् । तां वायुः समिन्धेसा वायुँ समिन्धे । तामहँ समिन्धे । सा मा समिद्धा । आयुषा तेजसा । वर्चसा श्रिया । यशसा ब्रह्मवर्चसेन । अन्नाद्येन समिन्ताँ स्वाहा । पृथिवी समित् । तामग्निः समिन्धे । साऽग्निँ समिन्धे । तामहँ समिन्धे । सा मा समिद्धा । आयुषा तेजसा । वर्चसा श्रिया । यशसा ब्रह्मवर्चसेन । अन्नाद्येन समिन्ताँ स्वाहा । प्राजापत्या मे समिदसि सपत्नक्षयणी । भ्रातृव्यहा मेऽसि स्वाहा । आदित्य व्रतपते व्रतमचारिषम् । तदशकं तन्मेऽराधि । वायो व्रतपतेऽग्ने व्रतपते । व्रतानां व्रतपते व्रतमचारिषम् । तदशकं तन्मेऽराधि ६ समित्समिन्धे व्रतं चरिष्यामि
तेजसा श्रिया यशसा ब्रह्मवर्चसेनाष्टौ च
4.42 अनुवाक ४२
शं नो वातः पवतां मातरिश्वा शं नस्तपतु सूर्यः । अहानि शं भवन्तु नः शं रात्रिः प्रति धीयताम् १ शमुषा नो व्यच्छतु । शमादित्य उदेतु नः । शिवा नः शंतमा भव सुमृडीका सरस्वति । मा ते व्योम संदृशि २ इडायै वास्त्वसि वास्तुमद्वास्तुमन्तो भूयास्म मा वास्तोश्छित्स्म ह्यवास्तुः स भूयाद्योऽस्मान्द्वेष्टि यं च वयं द्विष्मः ३ प्रतिष्ठाऽसि प्रतिष्ठावन्तो भूयास्म मा प्रतिष्ठायाश्छित्स्म ह्यप्रतिष्ठः स भूयाद्योऽस्मान्द्वेष्टि यं च वयं द्विष्मः ४ आ वात वाहि भेषजं वि वात वाहि यद्र पः । त्वँ हि विश्वभेषजो देवानां दूत ईयसे ५ द्वविमौ वातौ वात आ सिन्धोरा परावतः । दक्षं मे अन्य आवातु पराऽन्यो वातु यद्र पः ६ यददो वात ते गृहेऽमृतस्य निधिर्हितः । ततो नो देहि जीवसे ततो नो धेहि भेषजम् । ततो नो मह आ वह ७ वात आ वातु भेषजँ शंभूर्मयोभूर्नो हृदे । प्र ण आयूँ षि तारिषत् ८ इन्द्र स्य गृहोऽसि तं त्वा प्रपद्ये सगुः साश्वः । सह यन्मे अस्ति तेन ९ भूः प्रपद्ये भुवः प्रपद्ये सुवः प्रपद्ये भूर्भुवः सुवः प्रपद्ये वायुं प्रपद्येऽनार्तां देवतां प्रपद्येऽश्मानमाखणं प्रपद्ये प्रजापतेर्ब्रह्मकोशं ब्रह्म प्रपद्य ॐ प्रपद्ये १० अन्तरिक्षं म उर्वन्तरं बृहदग्नयः पर्वताश्च यया वातः स्वस्त्या स्वस्ति मां तया स्वस्त्या स्वस्ति मानसानि ११ प्राणापानौ मृत्योर्मा पातं प्राणापानौ मा मा हासिष्टम् १२ मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु मयि मेधां मयि प्रजां मयीन्द्र इन्द्रि यं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु १३ द्युभिरक्तुभिः परि पातमस्मानरिष्टेभिरश्विना सौभगेभिः । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः १४ कया नश्चित्र आभुवदूती सदावृधः सखा । कया शचिष्ठया वृता १५ कस्त्वा सत्यो मदानां मँ हिष्ठो मत्सदन्धसः । दृढा चिदारुजे वसु १६ अभी षु णः सखीनामविता जरितृऋणाम् । शतं भवास्यूतिभिः १७ वयः सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः । अप ध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् १८ शं नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभि स्रवन्तु नः १९ ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् । अपो याचामि भेषजम् २० सुमित्रा न आप ओषधयः सन्तु दुर्मित्रास्तस्मै भूयासुर्यो स्मान्द्वेष्टि यं च वयं द्विष्मः २१ आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे २२ यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः २३ तस्मा अरङ्गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः २४ पृथिवी शान्ता साग्निना शान्ता सा मे शान्ता शुचँ शमयतु २५ अन्तरिक्षँ शान्तं तद्वायुना शान्तं तन्मे शान्तँ शुचँ शमयतु २६ द्यौः शान्ता सादित्येन शान्ता सा मे शान्ता शुचँ शमयतु २७ पृथिवी शान्तिरन्तरिक्षँ शान्तिर्द्यौः शान्तिर्दिशः शान्तिरवान्तरदिशाः शान्तिरग्निः शान्तिर्वायुः शान्तिरादित्यः शान्तिश्चन्द्र माः शान्तिर्नक्षत्राणि शान्तिरापः शान्तिरोषधयः शान्तिर्वनस्पतयः शान्तिर्गौः शान्तिरजा शान्तिरश्वः शान्तिः पुरुषः शान्तिर्ब्रह्म शान्तिर्ब्राह्मणः शान्तिः शान्तिरेव शान्तिः शान्तिर्मे अस्तु शान्तिः २८ तयाहँ शान्त्या सर्वशान्त्या मह्यं द्विपदे चतुष्पदे च शान्तिङ् करोमि शान्तिर्मे अस्तु शान्तिः २९ एह श्रीश्च ह्रीश्च धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्यां धर्मश्चैतानि मोत्तिष्ठन्तमनूत्तिष्ठन्तु मा माँ श्रीश्च ह्रीश्च धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्यं धर्मश्चैतानि मा मा हासिषुः ३० उदायुषा स्वायुषोदोषधीनाँ रसेनोत्पर्जन्यस्य शुष्मेणोदस्थाममृताँ अनु ३१ तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् । पश्येम शरदः शतं जीवेम शरदः शतं नन्दाम शरदः शतं मोदाम शरदः शतं भवाम शरदः शतं शृणवाम शरदः शतं प्र ब्रवाम शरदः शतं अजीताः स्याम शरदः शतं ज्योक्च सूर्यं दृशे ३२ य उदगान्महतोऽर्णवाद्विभ्राजमानः सरिरस्य मध्यात्स मा वृषभो लोहिताक्षः सूर्यो विपश्चिन्मनसा पुनातु ३३ ब्रह्मणः श्चोतन्यसि ब्रह्मण आणी स्थो ब्रह्मण आवपनमसि धारितेयं पृथिवी ब्रह्मणा मही धारितमेनेन महदन्तरिक्षं दिओवं दाधार पृथिवीँ सदेवां यदहं वेद तदहं धारयाणि मा मद्वेदोऽधि वि स्रसत् ३४ मेधामनीषे माविशताँ समीची भूतस्य भव्यस्यावरुद्ध्यै सर्वमायुरयाणि सर्वमायुरयाणि ३५ आभिर्गीर्भिर्यदतो न ऊनमाप्यायय हरिवो वर्धमानः । यदा स्तोतृभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अध ते स्याम ३६ ब्रह्म प्रावादिष्म तन्नो मा हासीत् । ॐ शान्तिः शान्तिः शान्तिः ३७ परावतो
दधातु बद्धाञ् जिन्वथ दृशे सप्त च 4.42
प्रपाठक ५
प्रवर्ग्यब्राह्मण
हरिः ॐ । शं नः तन्नो मा हासीत् । ॐ शान्तिः शान्तिः शान्तिः ।
5.1 अनुवाक १
देवा वै सत्रमासत । ऋद्धिपरिमितं यशस्कामाः । तेऽब्रुवन् । यन्नः प्रथमं यश ऋच्छात् । सर्वेषां नस्तत्सहासदिति । तेषां कुरुक्षेत्रं वेदिरासीत् । तस्यै खाण्डवो दक्षिणार्ध आसीत् । तूर्घ्नमुत्तरार्धः । परीणज् जघनार्धः । मरव उत्करः १ तेषां मखं वैष्णवं याश आर्च्छत् । तन्न्यकामयत । तेनापाक्रामत् । तं देवा अन्वायन् । यशो वरुरुत्समानाः । तस्यान्वागतस्य । सव्याद्धनुरजायत । दक्षिणादिषवः । तस्मादिषुधन्वं पुण्यजन्म । यज्ञजन्मा हि २ तमेकँ सन्तम् । बहवो नाभ्यधृष्णुवन् । तस्मादेकमिषुधन्!विनम् । बहवोऽनिषुधन्वा नाभि धृष्णुवन्ति । सोऽस्मयत । एकं मा सन्तं बहवो नाभ्यधर्षिषुरिति । तस्य सिष्मियाणस्य तेजोऽपाक्रामत् । तद्देवा ओषधीषु न्यमृजुः । ते श्यामाका अभवन् । स्मयाका वै नामैते ३ तत्स्मयाकानाँ स्मयाकत्वम् । तस्माद्दीक्षितेनापिगृह्य स्मेतव्यम् । तेजसो धृत्यै । स धनुः प्रतिष्कभ्यातिष्ठत् । ता उपदीका अब्रुवन्वरं वृणामहै । अथ व इमँ रन्धयाम । यत्र क्व च खनाम । तदपोऽभि तृणदामेति । तस्मादुपदीका यत्र क्व च खनन्ति । तदपोऽभि तृन्दन्ति ४ वारेवृतँ ह्यासाम् । तस्य ज्यामप्यादन् । तस्य धनुर्विप्रवमाणँ शिर उदवर्तयत् । तद्द्यावापृथिवी अनु प्रावर्तत यत्प्रावर्तत । तत्प्रवर्ग्यस्य प्रवर्ग्यत्वम् । यद्घ्राँ ३ इत्यपतत् । तद्घर्मस्य घर्मत्वम् । महतो वीर्यमपप्तदिति । तन्महावीरस्य महावीरत्वम् ५ यदस्याः समभरन् । तत्सम्राज्ञः सम्राट्त्वम् । तँ स्तृतं देवतास्त्रेधा व्यगृह्णत । अग्निः प्रातःसवनम् । इन्द्रो माध्यंदिनँ सवनम् । विश्वे देवास्तृतीयसवनम् । तेनापशिर्ष्णा यज्ञेन यजमानाः । नाशिषोऽवारुन्धत । न सुवर्गं लोकमभ्यजयन् । ते देवा अश्विनावब्रुवन् ६ भिषजौ वै स्थः । इदं यज्ञस्य शिरः प्रति धत्तमिति । तावब्रूतां वरं वृणावहै । ग्रह एव नावत्रापि गृह्यतामिति । ताभ्यामेतमाश्विनमगृह्णन् । तावेतद्यज्ञस्य शिरः प्रत्यधत्ताम् । यत्प्रवर्ग्यः । तेन सशीर्ष्णा यज्ञेन यजमानाः । अवाशिषोऽरुन्धत । अभि सुवर्गं लोकमजयन् । यत्प्रवर्ग्यं प्रवृणक्ति । यज्ञस्यैव तच्छिरः प्रति दधाति । तेन सशीर्ष्णा यज्ञेन यजमानः । अवाशिषो रुन्धे । अभि सुवर्गं लोकां जयति । तस्मादेष आश्विनप्रवया इव । यत्प्रवर्ग्यः
७ उत्करो ह्येते तृन्दन्ति महावीरत्वमब्रुवन्नजयन्त्सप्त च
5.2 अनुवाक २
सावित्रं जुहोति प्रसूत्यै । चतुर्गृहीतेन जुहोति । चतुष्पादः पशवः । पशूनेवाव रुन्धे । चतस्रो दिशः । दिक्ष्वेव प्रति तिष्ठति । छन्दाँ सि देवेभ्योऽपाक्रामन् । न वो भागानि हव्यं वक्ष्याम इति । तेभ्य एतच्चतुर्गृहीतमधारयन् । पुरोनुवाक्यायै याज्यायै १ देवतायै वषट्काराय । यच्चतुर्गृहीतं जुहोति । छन्दाँ स्येव तत्प्रीणाति । तान्यस्य प्रीतानि देवेभ्यो हव्यं वहन्ति । ब्रह्मवादिनो वदन्ति । होतव्यं दीक्षितस्य गृहाइ!३ न होतव्या३मिति । हविर्वै दीक्षितः । यज् जुहुयात् । हविष्कृतं यजमानमग्नौ प्र दध्यात् । यन्न जुहुयात् २ यज्ञपरुरन्तरियात् । यजुरेव वदेत् । न हविष्कृतं यजमानमग्नौ प्रदधाति । न यज्ञपरुरन्तरेति । गायत्री छन्दाँ स्यत्यमन्यत । तस्यै वषट्कारोऽभ्यय्य शिरोऽच्छिनत् । तस्यै द्वेधा रसः परापतत् । पृथिवीमर्धः प्राविशत् । पशूनर्धः । यः पृथिवीं प्रावि । सत् ३ स खदिरोऽभवत् । यः पशून् । सोऽजाम् । यत्खादिर्यभ्रिर्भवति । छन्दसामेव रसेन यज्ञस्य शिरः सं भरति । यदौदुम्बरी । ऊर्ग्वा उदुम्बरः । ऊर्जैव यज्ञस्य शिरः सं भरति । यद्वैणवी । तेजो वै वेणुः ४ तेजसैव यज्ञ्स्य शिरः सं भरति । यद्वैकङ्कती । भा एवाव रुन्धे । देवस्य त्वा सवितुः प्रसव् । अ इत्यभ्रिमा दत्ते प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह । अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह यत्यै । वज्र इव वा एषा । यदभ्रिः । अभ्रिरसि नारिरसीत्याह शान्त्यै ५ अध्वरकृद्देवेभ्य इत्याह । यज्ञो वा अध्वरः । यज्ञकृद्देवेभ्य इति वावैतदाह । उत्तिष्ठ ब्रह्मणस्पत इत्याह । ब्रह्मणैव यज्ञस्य शिरोऽच्छैति । प्रैतु ब्रह्मणस्पतिरित्याह । प्रेत्यैव यज्ञस्य शिरोऽच्छैति । प्र देव्येतु सूनृतेत्याह । यज्ञो वै सूनृता । अच्छा वीरं नर्यं पङ्क्तिराधसमित्याह ६ पाङ्क्तो हि यज्ञः । देवा यज्ञं नयन्तु न इत्याह । देवानेव यज्ञनियः कुरुते । देवी द्यावापृथिवी अनु मे मँ साथामित्याह आभ्यामेवानुमतो यज्ञस्य शिरः सं भरति । ऋध्यासमद्य मखस्य शिर इत्याह । यज्ञो वै मखः । ऋध्यासमद्य यज्ञस्य शिर इति वावैतदाह । मखाय त्वा मखस्य त्वा शीर्ष्ण इत्याह । निर्दिश्यैवैनद्धरति ७ त्रिर्हरति । त्रय इमे लोकाः । एभ्य एव लोकेभ्यो यज्ञस्य शिरः सं भरति । तूष्णीं चतुर्थँ हरति । अपरिमितादेव यज्ञस्य शिरः सं भरति । मृत्खनादग्रे हरति । तस्मान्मृत्खनः करुण्यतमः । इयत्यग्र आसीरित्याह । अस्यामेवाच्छंबट्कारं यज्ञस्य शिरः सं भरति । ऊर्जं वा एतँ रसं पृथिव्या उपदीका उद्दिहन्ति ८ यद्वल्मीकम् । यद्वल्मीकवपा संभारो भवति । ऊर्जमेव रसं पृथिव्या अव रुन्धे । अथो श्रोत्रमेव । श्रोत्रँ ह्येतत्पृथिव्याः । यद्वल्मीक । अबधिरो भवति । य एवं वेद । इन्द्रो वृत्राय वज्रमुदयच्छत् । स यत्रयत्र पराक्रमत ९ तन्नाध्रियत । स पूतीकस्तम्बे पराक्रमत । सोऽध्रियत । सोऽब्रवीत् । ऊतिं वै मेऽधा इति । तदूतीकानामूतीकत्वम् । यदूतीका भवन्ति । यज्ञायैवोतिं दधति । अग्निजा असि प्रजापते रेत इत्याह । य एव रसः पशून्प्राविशत् १० तमेवाव रुन्धे । पञ्चैते संभारा भवन्ति । पाङ्क्तो यज्ञः । यावानेव यज्ञः । तस्य शिरः सं भरति । यद्ग्राम्याणां पशूनां चर्मणा संभरेत् । ग्राम्यान्पशूञ् छुचार्पयेत् । कृष्णाजिनेन सं भरति । आरण्यानेव पशूञ् छुचार्पयति । तस्मात्समावत्पशूनां प्रजायमानानाम् ११ आरण्याः पशवः कनीयाँ सः । शुचा ह्यृताःलोमतः सं भरति । अतो ह्यस्य मेध्यम् । परिगृह्या यन्ति । रक्षसामपहत्यै । बहवो हरन्ति । अपचितिमेवास्मिन्दधति । उद्धते सिकतोपोप्ते परिश्रिते नि दधति शान्त्यै । मदन्तीभिरुप सृजति १२ तेज एवास्मिन्दधाति । मधु त्वा मधुला करोत्वित्याह । ब्रह्मणैवास्मिन्तेजो दधाति । यद्ग्राम्याणं पात्राणां कपालैः सँ सृजेत् । ग्राम्याणि पात्राणि शुचार्पयेत् । अर्मकपालैः सँ सृजति । एतानि वा अनुपजीवनीयानि । तान्येव शुचार्पयति । शर्कराभिः सँ सृजति धृत्यै । अथो शंत्वाय । अजलोमैः सँ सृजति । एषा वा अग्नेः प्रिया तनूः । यदजा । प्रिययैवैनं तनुवा सँ सृजति । अथोतेजसा । कृष्णाजिनस्य लोमभिः सँ सृजति । यज्ञो वै कृष्णाजिनम् । यज्ञेनैव यज्ञँ सँ सृजति १३ याज्यायै न जुहुयादविश्द्वेणुः शान्त्यै पङ्क्तिराधसमित्याह
हरति दिहन्ति पराक्रमताविशत्प्रजायमानानाँ सृजति शंत्वायाष्टौ च
5.3 अनुवाक ३
परिश्रिते करोति । ब्रह्मवर्चसस्य परिगृहीत्यै । न कुर्वन्नभि प्राण्यात् । यत्कुर्वन्नभिप्राण्यात् । प्राणाञ् छुचार्पयेतपहाय प्राणिति । प्राणानां गोपीथाय । न प्रवर्ग्यं चादित्यं चान्तरेयात् । यदन्तरेयात् । दुश्चर्मा स्यात् १ तस्मान्नान्तराय्यम् । आत्मनो गोपीथाय । वेणुना करोति । तेजो वै वेणुः । तेजः प्रवर्ग्यः । तेजसैव तेजः समर्धयति । मखस्य शिरोऽसीत्याह । यज्ञो वै मखः । तस्यैतच्छिरः । यत्प्रवर्ग्यः २ तस्मादेवमाह । यज्ञस्य पदे स्थ इत्याह । यज्ञस्य ह्येते पदे । अथो प्रतिष्ठित्यै । गायत्रेण त्वा छन्दसा करोमीत्याह । छन्दोभिरेवैनं करोति । त्र्! युद्धिं करोति । त्रय इमे लोकाः । एषां लोकानामाप्त्यै । छन्दोभिः करोति ३ वीर्यं वै छन्दाँ सि । वीर्येणैवैनं करोति । यजुषा बिलं करोति व्यावृत्त्यै । इयन्तं करोति । प्रजापतिना यज्ञमुखेन संमितम् । इयन्तं करोति । यज्ञपरुषा संमितम् । इयन्तं करोति । एतावद्वै पुरुषे वीर्यम् । वीर्यसंमितम् ४ अपरिमितं करोति । अपरिमितस्यावरुद्ध्यै । परिग्रीवं करोति धृत्यै । सूर्यस्य हरसा श्रायेत्याह । यथायजुरेवैतत् । अश्वशकेन धूपयति । प्राजापत्यो वा अश्वः सयोनित्वाय । वृष्णो अश्वस्य निष्पदसीत्याह । असौ वा आदित्यो वृशाश्वः । तस्य छन्दाँ सि निष्पत् ५ छन्दोभिरेवैनं धूपयति । अर्चिषे त्वा शोचिषे त्वेत्याह । तेज एवास्मिन्दधाति । वारुणो भीद्धः । मैत्रियोपैति शान्त्यै । सिद्ध्यै त्वेत्याह । यथायजुरेवैतत् । देवस्त्वा सवितोद्वपत्वित्याह । सवितृप्रसूत एवैनं ब्रह्मणा देवताभिरुद्वपति । अपद्यमानः पृथिव्यामाशा दिश आपृणेत्याह ६ तस्मादग्निः सर्वा दिशोऽनु वि भाति । उत्तिष्ठ बृहन्भवोर्ध्वस्तिष्ठ ध्रुवस्त्वमित्याह प्रतिष्ठित्यै । ईश्वरो वा एशोऽन्धो भवितोः । यः प्रवर्ग्यमन्वीक्षते । सूर्यस्य त्वा चक्षुषान्वीक्ष इत्याह । चक्षुषो गोपीथाय । ऋजवे त्वा साधवे त्वा सुक्षित्यै त्वा भूत्यै त्वेत्याह । इयं वा ऋजुः । अन्तरिक्षँ साधु । असौ सुक्षितिः ७ दिशो भूतिः । इमानेवास्मै लोकान्कल्पयति । अथो प्रतिष्ठित्यै । इदमहममुमामुष्यायणं विशा पशुभिर्ब्रह्मवर्चसेन पर्यूहामीत्याह । विशैवैनं पशुभिर्ब्रह्मवर्चसेन पर्यूहति । विशेति राजन्यस्य ब्रूयात् । विशैवैनं पर्यूहति । पशुभिरिति वैश्यस्य । पशुभिरेवैनं पर्यूहति । असुर्यं पात्रमनाच्छृण्णम् ८ आ च्छृणत्ति । देवत्राकः । अजक्षीरेणा च्छृणत्ति । परमं वा एतत्पयः । यदजक्षीरम् । परमेणैवैनं पयसा च्छृणत्ति । यजुषा व्यावृत्त्यै । छन्दोघिरा च्छृणत्ति । छन्दोभिर्वा एष क्रियते । छन्दोभिरेव छन्दाँ स्या च्छृणत्ति । छृन्धि वाचमित्याह । वाचमेवाव रुन्धे । छृन्ध्यूर्जमित्याह । ऊर्जमेवाव रुन्धे । छृन्धि हविरित्याह । हविरेवाकः । देव पुरश्चर सघ्यासं त्वेत्याह । यथायजुरेवैतत् ९ स्याद्यत्प्रवर्ग्यश्छन्दोभिः करोति वीर्यसमितं छन्दाँ सि निष्पत्पृणेत्याह
सुक्षितिरनाच्छृण्णं छन्दाँ स्याच्छृणत्त्यष्टौ च
5.4 अनुवाक ४
ब्रह्मन्प्रचरिष्यामो होतर्घर्ममभि ष्टुहीत्याह । एष वा एतर्हि बृहस्पतिः । यद्ब्रह्मा । तस्मा एव प्रतिप्रोच्य प्रचरति । आत्मनोऽनार्त्यै । यमाय त्वा मखाय त्वेत्याह । एता वा एतस्य देवताः । ताभिरेवैनँ समर्धयति । मदन्तीभिः प्रोक्षति । तेज एवास्मिन्दधाति १अभिपूर्वं प्रोक्षति । अभिपूर्वमेवास्मिन्तेजो दधाति । त्रिः प्रोक्षति । त्र्! यावृद्धि यज्ञः । अथो मेध्यत्वाय । होतान्वाह । रक्षसामपहत्यै । अनवानम् । प्राणानाँ सन्तत्यै । त्रिष्टुभः सतीर्गायत्रीरिवान्वाह २ गायत्रो हि प्राणः । प्राणमेव यजमाने दधाति । सन्ततमन्वाह । प्राणानामन्नाद्यस्य सन्तत्यै । अथो रक्षसामपहत्यै । यत्परिमिता अनुब्रूयात् । परिमितमव रुन्धीत । अपरिमिता अन्वाह । अपरिमितस्यावरुद्ध्यै । शिरो वा एतद्यज्ञस्य ३ यत्प्रवर्ग्यः । ऊर्ङ्मुञ्जाः । यन्मौञ्जो वेदो भवति । ऊर्जैव यज्ञस्य शिरः समर्धयति । प्राणाहुतीर्जुहोति । प्राणानेव यजमाने दधाति । सप्त जुहोति । सप्त वै शीर्षण्याः प्राणाः । प्राणानेवास्मिन्दधाति । देवस्त्वा सविता मध्वानक्त्वित्याह ४ तेजसैवैनमनक्ति । पृथिवीं तपसस्त्रायस्वेति हिरण्यमुपास्यति । अस्या अनतिदाहाय । शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः । अग्निः सर्वा देवताः । प्रलवानादीप्योपास्यति । देवतास्वेव यज्ञस्य शिरः प्रति दधाति । अप्रतिशीर्णाग्रं भवति । एतद्बर्हिर्ह्येषः ५ अर्चिरसि शोचिरसीत्याह । तेज एवास्मिन्ब्रह्मवर्चसं दधाति । सँ सीदस्व महाँ असीत्याह । महान्ह्येषः । ब्रह्मवादिनो वदन्ति । एते वाव त ऋत्विजः । ये दर्शपूर्णमासयोः । अथ कथा होता यजमानायाशिषो ना शास्त इति । पुरस्तादाशीः खलु वा अन्यो यज्ञः । उपरिष्टादाशीरन्यः ६ अनाधृष्या पुरस्तादिति यदेतानि यजूँ ष्याह । शीर्षत एव यज्ञस्य यजमान आशिषोऽव रुन्धे । आयुः पुरस्तादाह । प्रजां दक्षिणतः । प्राणं पश्चात् । श्रोत्रमुत्तरतः । विधृतिमुपरिष्टात् । प्राणानेवास्मै समीचो दधाति । ईश्वरो वा एष दिशोऽनून्मदितोः । यं दिशोऽनु व्यास्थापयन्ति ७ मनोरश्वासि भूरिपुत्रेतीमामभि मृशति । इयं वै मनोरश्वा भूरिपुत्रा । अस्यामेव प्रति तिष्ठत्यनुन्मादाय । सूपसदा मे भूया मा मा हिँ सीरित्याहाहिँ सायै । चितः स्थ परिचित इत्याह । अपचितिमेवास्मिन्दधाति । शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः । असौ खलु वा आदित्यः प्रवर्ग्यः । तस्य मरुतो रश्मयः ८ स्वाहा मरुद्भिः परि श्रयस्वेत्याह । अमुमेवादित्यँ रश्मिभिः पर्यूहति । तस्मादसावादित्योऽमुष्मिल्ँ लोके रश्मिभिः पर्यूढः । तस्माद्रा जा विशा पर्यूढः । तस्माद्ग्रामणीः सजातैः पर्यूढः । अग्नेः सृष्टस्य यतः । विकङ्कतं भा आर्छत् । यद्वैकङ्कताः परिधयो भवन्ति । भा एवाव रुन्धे । द्वादश भवन्ति ९ द्वादश मासाः संवत्सरः । संवत्सरमेवाव रुन्धे । अस्ति त्रयोदशो मास इत्याहुः । यत्त्रयोदशः परिधिर्भवति । तेनैव त्रयोदशं मासमव रुन्धे । अन्तरिक्षस्यान्तर्धिरसीत्याह व्यावृत्त्यै । दिवं तपसस्त्रायस्वेत्युपरिष्टाद्धिरण्यमाधि नि दधाति । अमुष्या अनतिदाहाय । अथो आभ्यामेवैनमुभयतः परि गृह्णाति । अर्हन्बिभर्षि सायकानि धन्वेत्याह १० स्तौत्येवैनमेतत् । गायत्रमसि त्रैष्टुभमसि जागतमसीति धवित्राण्या दत्ते । छन्दोभिरेवैनान्या दत्ते । मधु मध्विति धूनोति । प्राणो वै मधु । प्राणमेव यजमाने दधाति । त्रिः परि यन्ति । त्रिवृद्धि प्राणः । त्रिः परि यन्ति । त्र्! यावृद्धि यज्ञः ११ अथो रक्षसामपहत्यै । त्रिः पुनः परि यन्ति । षट्सं पद्यन्ते । षड्वा ऋतवः । ऋतुष्वेव प्रति तिष्ठन्ति । यो वै घर्मस्य प्रियां तनुवमाक्रामति । दुश्चर्मा वै स भवति । एष ह वा अस्य प्रियां तनुवमा क्रामति । यस्त्रिः परीत्य चतुर्थं पर्येति । एताँ ह वा अस्योग्रदेवो राजनिरा चक्राम १२ ततो वै स दुश्चर्माभवत् । तस्मात्त्रिः परीत्य न चतुर्थं परीयात् । आत्मनो गोपीथाय । प्राणा वै धवित्राणि । अव्यतिषङ्गं धून्वन्ति । प्राणानामव्यतिषङ्गाय क्ळ्प्त्यै । विनिषद्य धून्वन्ति । दिक्ष्वेव प्रति तिष्ठन्ति । ऊर्ध्वं धून्वन्ति । सुवर्गस्य लोकस्य समष्ट्यै । सर्वतो धून्वन्ति । तस्मादयं सर्वतः पवते १३ दधातीवान्वाह यज्ञस्याहैष उपरिष्टादा । षीरन्यो व्यास्थापयन्ति रश्मयो भवन्ति धन्वेत्याह यज्ञश्चक्राम समष्ट्यै द्वे च
5.5 अनुवाक ५
अग्निष्ट्वा वसुभिः पुरस्ताद्रोचयतु गायत्रेण छन्दसेत्याह । अग्निरेवैनं वसुभिः पुरस्ताद्रो चयति गायत्रेण छन्दसा । स मा रुचितो रोचयेत्याह । आशिषमेवैतामा शास्ते । इन्द्र स्त्वा रुद्रै र्दक्षिणतो रोचयतु त्रैष्टुभेन छन्दसेत्याह । इन्द्र एवैनँ रुद्रै र्दक्षिणतो रोचयति त्रैष्टुभेन छन्दसा । स मा रुचितो रोचयेत्याह । आशिषमेवैतामा शास्ते । वरुणस्त्वादित्यैः पश्चाद्रो चयतु जागतेन छन्दसेत्याह । वरुणएवैनं आदित्यैः पश्चाद्रो चयति जागतेन छन्दसा १ स मा रुचितो रोचयेत्याह । आशिषमेवैतामा शास्ते । द्युतानस्त्वा मारुतो मरुद्भिरुत्तरतो रोचयत्वानुष्टुभेन छन्दसेत्याह । द्युतान एवैनं मारुतो मरुद्भिरुत्तरतो रोचयत्यानुष्टुभेन छन्दसा । स मा रुचितो रोचयेत्याह । आशिषमेवैतामा शास्ते । बृहस्पतिस्त्वा विश्वैर्देवैरुपरिष्टाद्रो चयतु पाङ्क्तेन छन्दसेत्याह । बृहस्पतिरेवैनं विश्वैर्देवैरुपरिष्टाद्रो चयतु पाङ्क्तेन छन्दसा । स मा रुचितो रोचयेत्याह । आशिषमेवैतामा शास्ते । रोचितस्त्वं देव घर्म देवेष्वसीत्याह । रोचितो ह्येष देवेषु । रोचिषीयाहं मनुष्येष्वित्याह । रोचत एवैष मनुष्येषु (४) । सम्राड्घर्म रुचितस्त्वं देवेष्वायुष्माँ स्तेजस्वी ब्रह्मवर्चस्यसीत्याह । रुचितो ह्येष देवेष्वायुष्माँ स्तेजस्वी ब्रह्मवर्चसी । रुचितोऽहं मनुष्येष्वायुष्माँ स्तेजस्वी ब्रह्मवर्चसी भूयासमित्याह । रुचित एवैष मनुष्येष्वायुष्माँ स्तेजस्वी ब्रह्मवर्चसी भवति । रुगसि रुचं मयि धेहि मयि रुगित्याह । आशिषमेवैतामा शास्ते । तं यदेतैर्यजुर्भिररोचयित्वा । रुचितो घर्म इति प्रब्रूयात् । अरोचुकोऽध्वरुः स्यात् । अरोचुको यजमानः । अथ यदेनमेतैर्यजुर्भी रोचयित्वा । रुचितो घर्म इति प्राह । रोचुकोऽध्वर्युर्भवति । रोचुको यजमानः १ पश्चाद्रो चयति जागतेन छन्दसा स मा रुचितो रोचये
त्याहाशिषमेवैतामा शास्तेऽष्टौ च
5.6 अनुवाक ६
शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः । ग्रीवा उपसदः । पुरस्तादुपसदां प्रवर्ग्यं प्र वृणक्ति । ग्रीवास्वेव यज्ञस्य शिरः प्रति दधाति । त्रिः प्र वृणक्ति । त्रय इमे लोकाः । एभ्य एव लोकेभो यज्ञस्य शिरोऽव रुन्धे । षट्सं पद्यन्ते । षड्वा ऋतवः १ ऋतुभ्य एव यज्ञस्य शिरोऽव रुन्धे । द्वादश कृत्वः प्र वृणक्ति । द्वादश मासाः संवत्सरः । संवत्सरादेव यज्ञस्य शिरोऽव रुन्धे । चतुर्विँ शतिः सं पद्यन्ते । चतुर्विँ शतिरर्धमासाः । अर्धमासेभ्य एव यज्ञस्य शिरोऽव रुन्धे । अथो खलु । सकृदेव प्रवृज्यः । एकँ हि शिरः २ अग्निष्टोमे प्र वृणक्ति । एतावान्वै यज्ञः । यावानग्निष्टोमः । यावानेव यज्ञः । तस्य शिरः प्रति दधाति । नोक्थ्ये प्र वृञ्ज्यात् । प्रजा वै पशव उक्थानि । यदुक्थ्ये प्रवृञ्ज्यात् । प्रजां पशूनस्य निर्दहेत् । विश्वजिति सर्वपृष्ठे प्र वृणक्ति ३ पृष्ठानि वा अच्युतं च्यावयन्ति । पृष्ठैरेवास्मा अच्युतं च्यावयित्वाव रुन्धे । अपश्यं गोपामित्याह । प्राणो वै गोपाः । प्राणमेव प्रजासु वि यातयति । अपश्यं गोपामित्याह । असौ वा आदित्यो गोपाः । स हीमाः प्रजा गोपायति । तमेव प्रजानां गोप्तारं कुरुते । अनिपद्यमानमित्याह ४ न ह्येष निपद्यते । आ च परा च पथिभिश्चरन्तमित्याह । आ च ह्येश परा च पथिभिश्चरति । स सध्रीचीः स विषूचीर्वसान इत्याह । सध्रीचीश्च ह्येष विषूचीश्च वसानः प्रजा अभि विपश्यति । आ वरीवर्ति भुवनेष्वन्तरित्याह । आ ह्येष वरीवर्ति भुवनेष्वन्तः । अत्र प्रावीर्मधु माध्वीभ्यां मधु माधूचीभ्यामित्याह । वासन्तिकावेवास्मा ऋतू कल्पयति । समग्निरग्निनागतेत्याह ५ ग्रैष्मावेवास्मा ऋतू कल्पयति । समग्निरग्निनागतेत्याह । अग्निर्ह्येवैषोऽग्निना संगच्छते स्वाहा समग्निस्तपसागतेत्याह । पूर्वमेवोदितम् । उत्तरेणाभि गृणाति । धर्ता दिवो वि भासि रजसः पृथिव्या इत्याह । वार्षिकावेवास्मा ऋतू कल्पयति । हृदे त्वा मनसे त्वेत्याह । शारदावेवास्मा ऋतू कल्पयति ६ दिवि देवेषु होत्रा यच्छेत्याह । होत्राभिरेवेमाल्ँ लोकान्त्सं दधाति । विश्वासां भुवां पत इत्याह । हैमन्तिकावेवास्मा ऋतू कल्पयति । देवश्रूस्त्वं देव घर्म देवान्पाहीत्याह । शैशिरावेवास्मा ऋतू कल्पयति । तपोजां वाचमस्मे नि यच्छ देवायुवमित्याह । या वै मेध्या वाक् । सा तपोजाः । तामेवाव रुन्धे ७ गर्भो देवानामित्याह । गर्भो ह्येष देवानाम् । पिता मतीनामित्याह । प्रजा वै मतयः । तासामेष एव पिता । यत्प्रवर्ग्यः । तस्मादेवमाह । पतिः प्रजानामित्याह । पतिर्ह्येष प्रजानाम् । मतिः कवीनामित्याह ८ मतिर्ह्येष कवीनाम् । सं देवो देवेन सवित्रायतिष्ट सं सूर्येणारुक्तेत्याह । अमुं चैवादित्यं प्रवर्ग्यं च सं शास्ति । आयुर्दास्त्वमस्मभ्यं घर्म वर्चोदा असीत्याह । आशिषमेवैतामा शास्ते । पिता नोऽसि पिता नो बोधेत्याह । बोधयत्येवैनम् । नवैतेऽवकाशा भवन्ति । पत्नियै दशमः । नव वै पुरुषे प्राणाः ९ नाभिर्दशमी । प्राणानेव यजमाने दधाति । अथो दशाक्षरा विराट् । अन्नं विराट् । विराजैवान्नाद्यमव रुन्धे । यज्ञस्य शिरोऽच्छिद्यत । तद्देवा होत्राभिः प्रत्यदधुः । ऋत्विजोऽवेक्षन्ते । एता वै होत्राः । होत्राभिरेव यज्ञस्य शिरः प्रति दधाति १० रुचितमवेक्षन्ते । रुचिताद्वै प्रजापतिः प्रजा असृजत । प्रजानाँ सृष्ट्यै । रुचितमवेक्षन्ते । रुचिताद्वै पर्जन्यो वर्षति । वर्षुकः पर्जन्यो भवति । सं प्रजा एधन्ते । रुचितमवेक्षन्ते । रुचितं वै ब्रह्मवर्चसम् । ब्रह्मवर्चसिनो भवन्ति ११ अधीयन्तोऽवेक्षन्ते । सर्वमायुर्यन्ति । न पत्न्यवेक्षेत । यत्पत्न्यवेक्षेत । प्र जायेत । प्रजां त्वस्यै निर्दहेत् । यन्नावेक्षेत । न प्र जायेत । नास्यै प्रजां निर्दहेत् । तिरस्कृत्य यजुर्वाचयति १२ प्र जायते । नास्यै प्रजां निर्दहति । त्वष्टीमती ते सपेयेत्याह । सपाद्धि प्रजाः प्रजायन्ते १३ ऋतवो हि शिरः सर्वपृष्ठे प्रवृणक्त्यनिपद्यमानमित्याह शारदावेवास्मा ऋतू कल्पयति रुन्धे कवीनामित्याह प्राणाः प्रति दधाति
भवन्ति वाचयति चत्वारि च
5.7 अनुवाक ७
देवस्य त्वा सवितुः प्रसव इति रशनामा दत्ते प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह । अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह यत्यै । आ ददेऽदित्यै रास्नासीत्याह यजुष्कृत्यै । इड एह्यदित एहि सरस्वत्येहीत्याह । एतानि वा अस्यै देवनामानि । देवनामैरेवैनामा ह्वयति । असावेह्यसावेह्यसावेहीत्याह । एतानि वा अस्यै मनुष्यनामानि १ मनुष्यनामैरेवैनामा ह्वयति । षट्सं पद्यन्ते । षड्वा ऋतआस्। ऋतुभिरेवैनामा ह्वयति । अदित्या उष्णीअमसीत्याह । यथायजुरेवैतत् । वायुरस्यैड इत्याह । वायुदेवत्यो वै वत्सः । पूषा त्वोपावसृजत्वित्याह । पौष्णा वै देवतया पशवः २ स्वयैवैनं देवतयोपावसृजति । अश्विभ्यां प्र दापयेत्याह । अश्विनौ वै देवानां भिषजौ । ताभामेवास्मै भेषजं करोति । यस्ते स्तनः शशय इत्याह । स्तौत्येवैनाम् । उस्र घर्मँ शिँ षोस्र घर्मं पाहि घर्माय शिँ षेत्याह । यथा ब्रूयादमुष्मै देहीति । तादृगेव तत् । बृहस्पतिस्त्वोप सीदत्वित्याह ३ ब्रह्म वै देवानां बृहस्पतिः । ब्रह्मणैवैनामुप सीदति । दानवः स्थ पेरव इत्याह । मेध्यानेवैनान्करोति । विष्वग्वृतो लोहितेनेत्याह व्यावृत्यै । अश्विभ्यां पिन्वस्व सरस्वत्यै पिन्वस्व पूष्णे पिन्वस्व बृहस्पतये पिन्वस्वेत्याह । एताभ्यो ह्येषा देवताभ्यः पिन्वते । इन्द्रा य पिन्वस्वेन्द्रा य पिन्वस्वेत्याह । इन्द्र मेव भागधेयेन समर्धयति । द्विरिन्द्रा येत्याह ४ तस्मादिन्द्रो देवतानां भूयिष्ठभाक्तमः । गायत्रोऽसि त्रैष्टुभोऽसि जागतमसीति शफोपयमाना दत्ते । छन्दोभिरेवैनाना दत्ते । सहोर्जो भागेनोप मेहीत्याह । ऊर्ज एवैनं भागमकः । अश्विनौ वा एतद्यज्ञस्य शिरः प्रतिदधतावब्रूताम् । आवाभ्यामेव पूर्वाभ्यां वषट्क्रियाता इति । इन्द्रा श्विना मधुनः सारघस्येत्याह । अश्विभ्यामेव पूर्वाभ्यां वषट्करोति । अथो अश्विनावेव भागधेयेन समर्धयति ५ घर्मं पात वसवो यजता वडित्याह । वसूनेव भागधेयेन समर्धयति । यद्वषट्कुर्यात् । यातयामास्य वषट्कारः स्यात् । यन्न वषट्कुर्यात् । रक्षाँ सि यज्ञं हन्युः । वडित्याह । परोक्षमेव वषट्करोति । नास्य यातयामा वषट्कारो भवति । न यज्ञँ रक्शाँ सि घ्नन्ति ६ स्वाहा त्वा सूर्यस्य रश्मये वृष्टिवनये जुहोमीत्याह । यो वा अस्य पुण्यो रश्मिः । स वृष्टिवनिः । तस्मा एवैनं जुहोति । मधु हविरसीत्याह । स्वदयत्येवैनम् । सूर्यस्य तपस्तपेत्याह । यथायजुरेवैतत् । द्यावापृथिवीभ्यां त्वा परि गृह्णामीत्याह । द्यावापृथिवीभ्यां एवैनं परि गृह्णाति ७ अन्तरिक्षेण त्वोपयच्छामीत्याह । अन्तरिक्षेणैवैनमुप यच्छति । न वा एतं मनुष्यो भर्तुमर्हति । देवानां त्वा पितृणामनुमतो भर्तुँ शकेयमित्याह । देवैरेवैनं पितृभिरनुमत आ दत्ते । वि वा एनमेतदर्धयन्ति । यत्पश्चात्प्रवृज्य पुरो जुह्वति । तेजोऽसि तेजोऽनु प्रेहीत्याह । तेज एवास्मिन्दधाति । दिविस्पृङ्मा मा हिँ सीरन्तरिक्षस्पृङ्मा मा हिँ सीः पृथिविस्पृङ्मा मा हिँ सीरित्याहाहिँ सायै ८ सुवरसि सुवर्मे यच्छ दिवं यच्छ दिवो मा पाहीत्याह । आशिषमेवैतामा शास्ते । शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः । आत्मा वायुः । उद्यत्य वातनामान्याह । आत्मन्नेव यज्ञस्य शिरः प्रति दधाति । अनवानम् । प्राणानाँ संतत्यै । पञ्चाह ९ पाङ्क्तो यज्ञः । यावानेव यज्ञः । तस्य शिरः प्रति दधाति । अग्नये त्वा वसुमते स्वाहेत्याह । असौ वा आदित्योऽग्निर्वसुमान् । तस्मा एवैनं जुहोति । सोमाय त्वा रुद्र वते स्वाहेत्याह । चन्द्र मा वै सोमो रुद्र वान् । तस्मा एवैनं जुहोति । वरुणाय त्वादित्यवते स्वाहेत्याह १० अप्सु वै वरुण आदित्यवान् । तस्मा एवैनं जुहोति । बृहस्पतये त्वा विश्वदेव्यावते स्वाहेत्याह । ब्रह्म वै देवानां बृहस्पतिः । ब्रह्मण एवैनं जुहोति । सवित्रे त्वर्भुमते विभुमते प्रभुमते वाजवते स्वाहेत्याह । संवत्सरो वै सवितुर्भुमान्!विभुमान्प्रभुमान्वाजवान् । तस्मा एवैनं जुहोति । यमाय त्वाङ्गिरस्वते पितृमते स्वाहेत्याह । प्राणो वै यमोऽङ्गिरस्वान्पितृवान् ११ तस्मा एवैनं जुहोति । एताभ्य एवैनं देवताभ्यो जुहोति । दश सं पद्यन्ते । दशाक्षरा विराट् । अन्नं विराट् । विराजैवान्नाद्यमव रुन्धे । रौहिणाभ्यां वै देवाः सुवर्गमायन् । तद्रौ हिणयो रौहिणत्वम् । यद्रौ हिणौ भवतः । रौहिणाभ्यामेव तद्यजमानः सुवर्गं लोकमेति । अहर्ज्योतिः केतुना जुषताँ सुज्योतिर्ज्योतिषाँ स्वाहा रात्रिर्ज्योतिः केतुना जुषताँ सुज्योतिर्ज्योतिषाँ स्वाहेत्याह । आदित्यमेव तदमुष्मिल्ँ लोकेऽह्ना परस्ताद्दाधार । रात्रिया अवस्तात् । तस्मादसावादित्योऽमुष्मिँ लोकेऽहोरात्राभ्यं धृतः १२ मनुष्यनामानि पशवः सीदत्वित्याहेन्द्रा येत्याहार्धयति घ्नन्ति गृह्णात्यहिँ सायै
पञ्चाहादित्यवते स्वाहेत्याह पितृमानेति चत्वारि च
5.8 अनुवाक ८
विश्वा आशा दक्षिणसदित्याह । विश्वानेव देवान्प्रीणाति । अथो दुरिष्ट्या एवैनं पाति । विश्वान्देवानयाडिहेत्याह । विश्वानेव देवान्भागधेयेन समर्धयति । स्वाहाकृतस्य घर्मस्य मधोः पिबतमश्विनेत्याह । अश्विनावेव भागधेयेन समर्धयति । स्वाहाग्नये यज्ञियाय शं यजुर्भिरित्याह । अभ्येवैनं घारयति । अथो हविरेवाकः १ अश्विना घर्मं पातँ हार्दिवानमहर्दिवाभिरूतिभिरित्याह । अश्विनावेव भागधेयेन समर्धयति । अनु वां द्यावापृथिवी मँ सातामित्याहानुमत्यै । स्वाहेन्द्रा य स्वाहेन्द्रा वडित्याह । इन्द्रा य हि पुरो हूयते । आश्राव्याह घर्मस्य यजेति । वषट्कृते जुहोति । रक्षसामपहत्यै । अनु यजति स्वगाकृत्यै । घर्ममपातमश्विनेत्याह २ पूर्वमेवोदितम् । उत्तरेणाभि गृणाति । अनु वां द्यावापृथिवी अमँ सातामित्याहानुमत्यै । तं प्राव्यं यथावण्णमो दिवे नमः पृथिव्या इत्याह । यथायजुरेवैतत् । दिवि धा इमं यज्ञं यज्ञमिमं दिवि धा इत्याह । सुवर्गमेवैनं लोकं गमयति । दिवं गच्छान्तरिक्षं गच्छ पृथिवीं गच्छेत्याह । एष्वेवैनं लोकेषु प्रति ष्ठापयति । पञ्च प्रदिषो गच्छेत्याह ३ दिक्ष्वेवैनं प्रति ष्ठापयति । देवान्घर्मपान्गच्छ पितॄन्घर्मपान्गच्छेत्याह । उभयेष्वेवैनं प्रति ष्ठापयति । यत्पिन्वते । वर्षुकः पर्जन्यो भवति । तस्मात्पिन्वमानः पुण्यः । यत्प्राङ् पिन्वते । तद्देवानाम् । यद्दक्षिणा । तत्पितृणाम् ४ यत्प्रत्यक् । तन्मनुष्यानाम् । यदुदङ् । तद्रुद्रा णाम् । प्राञ्चमुदञ्चं पिन्वयति । देवत्राकः । अथो खलु । सर्वा अनु दिशः पिन्वयति । सर्वा दिशः समेधन्ते । अन्तःपरिधि पिन्वयति ५ तेजसोऽस्कन्दाय । इषे पीपिह्यूर्जे पीपिहीत्याह । इषमेवोर्जं यजमाने दधाति । यजमानाय पीपिहीत्याह । यजमानायैवैतामाशिषमा शास्ते । मह्यं ज्यैष्ठ्याय पीपिहीत्याह । आत्मन एवैतामाशिषमा शास्ते । त्विष्यै त्वा द्युम्नाय त्वेन्द्रि याय त्वा भूत्यै त्वेत्याह । यथायजुरेवैतत् । धर्मासि सुधर्मामेन्यस्मे ब्रह्माणि धारयेत्याह ६ ब्रह्मन्नेवैनं प्रति ष्ठापयति । नेत्त्वा वातः स्कन्दयादिति यद्यभिचरेत् । अमुष्य त्वा प्राणे सादयाम्यमुना सह निरर्थं गच्छेति ब्रूयाद्यं द्विष्यात् । यमेव द्वेष्टि । तेनैनँ सह निरर्थं गमयति । पूष्णे शरसे स्वाहेत्याह । या एव देवता हुतभागाः । ताभ्य एवैनं जुहोति । ग्रावभ्यः स्वाहेत्याह । या एवान्तरिक्षे वाचः ७ ताभ्य एवैनं जुहोति । प्रतिरेभ्यः स्वाहेत्याह । प्राणा वै देवाः प्रतिराः । तेभ्य एवैनं जुहोति । द्यावापृथिवीभ्यः स्वाहेत्याह । द्यावापृथिवीभ्यामेवैनं जुहोति । पितृभ्यो घर्मपेभ्यः स्वाहेत्याह । ये वै यज्वानः । ते पितरो घर्मपाः । तेभ्य एवैनं जुहोति ८ रुद्रा य रुद्र होत्रे स्वाहेत्याह । रुद्र मेव भागधेयेन समर्धयति । सर्वतः समनक्ति । सर्वत एव रुद्रं निरवदयते । उदञ्चं निरस्यति । एषा वै रुद्र स्य दिक् । स्वायामेव दिशि रुद्रं निरवदयते । अप उप स्पृशति मेध्यत्वाय । नान्वीक्षते । यदन्वीक्षेत ९ चक्षुरस्य प्रमायुकँ स्यात् । तस्मान्नान्वीक्ष्यः । अपीपरो माह्नो रात्रियै मा पाह्येषा ते अग्ने समित्तया समिध्यस्वायुर्मे दा वर्चसा माञ्जीरित्याह । आयुरेवास्मिन्वर्चो दधाति । अपीपरो मा रात्रिया अह्नो मा पाह्येषा ते अग्ने समित्तया समिध्यस्वायुर्मे दा वर्चसा माञ्जीरित्याह । आयुरेवास्मिन्वर्चो दधाति । अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेत्याह । यथायजुरेवैतत् । ब्रह्मवादिनो वदन्ति । होतव्यमग्निहोत्रा३ं! न होतव्या३मिति १० यद्यजुषा जुहुयात् । अयथापूर्वमाहुती जुहुयात् । यन्न जुहुयात् । अग्निः परा भवेत् । भूः स्वाहेत्येव होतव्यम् । यथापूर्वमाहुती जुहोति । नाग्निः परा भवति । हुतँ हविर्मधु हविरित्याह । स्वदयत्येवैनम् । इन्द्र तमेऽग्नावित्याह ११ प्राणो वा इन्द्र तमोऽग्निः । प्राण एवैनमिन्द्र तमेऽग्नौ जुहोति । पिता नोऽसि मा मा हिँ सीरित्याहाहिँ सायै । अश्याम ते देव घर्म मधुमतो वाजवतः पितुमत इत्याह । आशिषमेवैतामा शास्ते । स्वधाविनोऽशीमहि त्वा मा मा हिँ सीरित्याहाहिँ सायै । तेजसा वा एते व्यृध्यन्ते । ये प्रवर्ग्येण चरन्ति । प्राश्नन्ति । तेज एवात्मन्दधते १२ संवत्सरं न माँ समश्नीयात् । न रामामुपेयात् । न मृन्मयेन पिबेत् । नास्य राम उच्छिष्टं पिबेत् । तेज एव तत्सँ श्यति । देवासुराः संयत्ता आसन् । ते देवा विजयमुपयन्तः । विभ्राजि सौर्ये ब्रह्म सं न्यदधत । यत्किं च दिवाकीर्त्यम् । तदेतेनैव व्रतेनागोपायत् । तस्मादेतद्व्रतं चार्यम् । तेजसो गोपीथाय । तस्मादेतानि यजूँ षि विभ्राजः सौर्यस्येत्याहुः । स्वाहा त्वा सूर्यस्य रश्मिभ्य इति प्रातः सँ सादयति । स्वाहा त्वा नक्षत्रेभ्य इति सायम् । एता वा एतस्य देवताः । ताभिरेवैनँ समर्धयति १३ अजरश्विनेत्याह प्रदिशो गच्छेत्याह पितृणामन्तःपरिधि पिन्वयति धारयेत्याह वाचो घर्मपास्तेभ्य एवैनं जुहोत्यन्वीक्षेत होतव्या३मित्यग्नावित्याह दधतेऽगोपायत्सप्त च
5.9 अनुवाक ९
घर्म या ते दिवि शुगिति तिस्र आहुतीर्जुहोति । छन्दोभिरेवास्यैभ्यो लोकेभ्यः शुचमव यजते । इयत्यग्रे जुहोति । अथेयत्यथेयति । त्रय इमे लोकाः । एभ्य एव लोकेभ्यः शुचमव यजते । अनु नोऽद्यानुमतिरित्याहानुमत्यै । दिवस्त्वा परस्पाया इत्याह । दिव एवेमाँ लोकान्दाधार । ब्रह्मणस्त्वा परस्पाया इत्याह १ एष्वेव लोकेषु प्रजा दाधार । प्राणस्य त्वा परस्पाया इत्याह । प्रजास्वे । व प्राणान्दाधार । शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः । असौ खलु वा आदित्यः प्रवर्ग्यः । तं यद्दक्षिणा प्रत्यञ्चमुदञ्चमुद्वासयेत् । जिह्मं यज्ञस्य शिरो हरेत् । प्राञ्चमुद्वासयति । पुरस्तादेव यज्ञस्य शिरः प्रति दधाति २ प्राञ्चमुद्वासयति । तस्मादसावादित्यः पुरस्तादुदेति । शफोपयमान्धवित्राणि धृष्टी इत्यन्ववहरन्ति । सात्मानमेवैनँ सतनुं करोति । सात्माऽमुष्मिँ लोके भवति । य एवं वेद । औदुम्बराणि भवन्ति । ऊर्ग्वा उदुम्बरः । ऊर्जमेवाव रुन्धे । वर्त्मना वा अन्!वित्य ३ यज्ञँ रक्षाँ सि जिघाँ सन्ति । साम्ना प्रस्तोताऽन्ववैति । साम वै रक्षोहा । रक्षसामपहत्यै । त्रिर्निधनमुपैति । त्रय इमे लोकाः । एभ्य एव लोकेभ्यो रक्षाँ स्यप हन्ति । पुरुषःपुरुषो निधनमुपैति । पुरुषःपुरुषो हि रक्षस्वी । रक्षसामपहत्यै ४ यत्पृथिव्यामुद्वासयेत् । पृथिवीँ शुचार्पयेत् । यदप्सु । अपः शुचार्पयेत् । यदोषधीषु । ओषधीः शुचार्पयेत् । यद्वनस्पतिषु । वनस्पतीञ् छुचार्पयेत् । हिरण्यं निधायोद्वासयति । अमृतं वै हिरण्यम् ५ अमृत एवैनं प्रति ष्ठापयति । वल्गुरसि शंयुधाया इति त्रिः परिषिञ्चन्पर्येति । त्रिवृद्वा अग्निः । यावानेवाग्निः । तस्य शुचँ शमयति । त्रिः पुनः पर्येति । षट्सं पद्यन्ते । षड्वा ऋतवः । ऋतुभिरेवास्य शुचँ शमयति । चतुःस्रक्तिर्नाभिरृतस्येत्याह ६ इयं वा ऋतम् । तस्या एष एव नाभिः । यत्प्रवर्ग्यः । तस्मादेवमाह । सदो विश्वायुरित्याह । सदो हीयम् । अप द्वेषो अप ह्वर इत्याह भ्रातृव्यापनुत्यै । घर्मैतत्तेऽन्नमेतत्पुरीषमिति दध्ना मधुमिश्रेण पूरयति । ऊर्ग्वा अन्नाद्यं दधि । ऊर्जैवैनमन्नाद्येन समर्धयति ७ अनशनायुको भवति । य एवं वेद । रन्तिर्नामासि दिव्यो गन्धर्व इत्याह । रूपमेवास्यैतन्महिमानँ रन्तिं बन्धुतां व्या चष्टे । समहमायुषा सं प्राणेनेत्याह । आशिषमेवैतामा शास्ते । व्यसौ योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्याह । अभिचार एवास्यैषः । अचिक्रदद्वृषा हरिरित्याह । वृषा ह्येषः ८ वृषा हरिः । महान्मित्रो न दर्शत इत्याह । स्तौत्येवैनमेतत् । चिदसि समुद्र योनिरित्याह । स्वामेवैनं योनिं गमयति । नमस्ते अस्तु मा मा हिँ सीरित्याहाहिँ सायै । विश्वावसुँ सोम गन्धर्वमित्याह । यदेवास्य क्रियमाणस्यान्तर्यन्ति । तदेवास्यैतेना प्याययति । विश्वावसुरभि तन्नो गृणात्वित्याह ९ पूर्वमेवोदितम् । उत्तरेणाभि गृणाति । धियो हिन्वानो धिय इन्नो अव्यादित्याह । ऋतूनेवास्मै कल्पयति । प्रासां गन्धर्वो अमृतानि वोचदित्याह । प्राणा वा अमृताः । प्राणानेवास्मै कल्पयति । एतत्त्वं देव घर्म देवो देवानुपागा इत्याह । देवो ह्येष सन्देवानुपैति । इदमहं मनुष्यो मनुष्यानित्याह १० मनुष्यो हि । एष सन्मनुष्यानुपैति । ईश्वरो वै प्रवर्ग्यमुद्वासयन् । प्रजां पशून्त्सोमपीथमनूद्वासः सोमपीथानु मेहि । सह प्रजया सह रायस्पोषेणेत्याह । प्रजामेव पशून्त्सोमपीथमात्मन्धत्ते । सुमित्रा न आप ओषधयः सन्त्वित्याह । आशिषमेवैतामा शास्ते । दुर्मित्रास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्याह । अभिचार एवास्यैषः । प्र वा एषोऽस्माल्लोकाच्च्यवते । यः प्रवर्ग्यमुद्वासयति । उदु त्यं चित्रमिति सौरीभ्यामृघ्यां पुनरेत्य गार्हपत्ये जुहोति । अयं वै लोको गार्हपत्यः । अस्मिन्नेव लोके प्रति तिष्ठति । असौ खलु वा आदित्यः सुवर्गो लोकः । यत्सौरी भवतः । तेनैव सुवर्गाल्लोकान्नैति ११ ब्रह्मणस्त्वा परस्पाया इत्याह दधात्यन्!वित्य रक्षस्वी रक्षसामपहत्यै वै हिरण्यमाहार्धयति ह्येष गृणात्वित्याह
मनुष्यानित्याहास्यैषोऽष्टौ च
5.10 अनुवाक १०
प्रजापतिं वै देवाः शुक्रं पयोऽदुह्रन् । तदेभ्यो न व्यभवत् । तदग्निर्व्यकरोत् । तानि शुक्रियाणि सामान्यभवन् । तेषां यो रसोऽत्यक्षरत् । तानि शुक्रयजूँ ष्यभवन् । शुक्रियाणां वा एतानि शुक्रियाणि । सामपयसं वा एतयोरन्यत् । देवानामन्यत्पयः । यद्गोः पयः १ तत्साम्नः पयः । यदजायै पयः । तद्देवानां पयः । तस्माद्यत्रैतैर्यजुर्भिश्चरन्ति । तत्पयसा चरन्ति । प्रजापतिमेव तद्देवान्पयसान्नाद्येन समर्धयन्ति । एष ह त्वै साक्षात्प्रवर्ग्यं भक्षयति । यस्यैवं विदुषः प्रवर्ग्यः प्रवृज्यते । उत्तरवेद्यामुद्वासयेत्तेजस्कामस्य । तेजो वा उत्तरवेदिः २ तेजः प्रवर्ग्यः । तेजसैव तेजः समर्धयति । उत्तरवेद्यामुद्वासयेदन्नकामस्य । शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः । मुखमुत्तरवेदिः । शीर्ष्णैव मुखँ सं दधात्यन्नाद्याय । अन्नाद एव भवति । यत्र खलु वा एतमुद्वासितं वयाँ सि पर्यासते । परि वै तां समां प्रजा वयाँ स्यासते ३ तस्मादुत्तरवेद्यामेवोद्वासयेत् । प्रजानां गोपीथाय । पुरो वा पश्चाद्वोद्वासयेत् । पुरस्ताद्वा एतज् ज्योतिरुदेति । तत्पश्चान्नि म्रोचति । स्वामेवैनं योनिमनूद्वासयति । अपां मध्य उद्वासयेत् । अपां वा एतन्मध्याज् ज्योतिरजायत । ज्योतिः प्रवर्ग्यः । स्व एवैनं योनौ प्रति ष्ठापयति ४ यं द्विष्यात् । यत्र स स्यात् । तस्यां दिश्युद्वासयेत् । एष वा अग्निर्वैश्वानरः । यत्प्रवर्ग्यः । अग्निनैवैनं वैश्वानरेणाभि प्र वर्तयति । औदुम्बर्याँ शाखायामुद्वासयेत् । ऊर्ग्वा उदुम्बरः । अन्नं प्राणः । शुग्घर्मः ५ इदमहममुष्यामुष्यायणस्य शुचा प्राणमपि दहामीत्याह । शुचैवास्य प्राणमपि दहति । ताजगार्तिमार्च्छति । यत्र दर्भा उपदीकसन्तताः स्युः । तदुद्वासयेद्वृष्टिकामस्य । एता वा अपामनूज्जआवर्यो नाम । यद्दर्भाः । असौ खलु वा आदित्य इतो वृष्टिमुदीरयति । असावेवास्मा आदित्यो वृष्टिं नि यच्छति । ता आपो नियता धन्वना यन्ति ६ गोः पय उत्तरवेदिरासते स्थापयति घर्मो यन्ति
5.11 अनुवाक ११
प्रजापतिः संभ्रियमाणः । संराट्संभृतः । घर्मः प्रवृक्तः । महावीर उद्वासितः । असौ खलु वावैष आदित्यः । यत्प्रवर्ग्यः । स एतानि नामान्यकुरुत । य एवं वेद । विदुरेनं नाम्ना । ब्रह्मवादिनो वदन्ति १ यो वै वसीयाँ सं यथानाममुपचरति । पुण्यार्तिं वै स तस्मै कामयते । पुण्यार्तिं अस्मै कामयन्ते । य एवं वेद । तस्मादेवं विद्वान् । घर्म इति दिवा चक्षीत । संराडिति नक्तम् । एते वा एतस्य प्रिये तनुवौ । एते अस्य प्रिये नामनी । प्रिययैवैनं तनुवा २ प्रियेण नाम्ना समर्धयति । कीर्तिरस्य पूर्वा गच्छति जनतामायतः । गायत्री देवेभ्योऽपाक्रामत् । तां देवाः प्रवर्ग्येणैवानु व्यभवन् । प्रवर्ग्येणाप्नुवन् । यच्चतुर्विँ शतिः कृत्वः प्रवर्ग्यं प्रवृणक्ति । गायत्रीमेव तदनु वि भवति । गायत्रीमाप्नोति । पूर्वास्य जनं यतः कीर्तिर्गच्छति । वैश्वदेवः सँ सन्नः ३ वसवः प्रवृक्तः । सोमोऽभिकीर्यमाणः । आश्विनः पयस्यानीयमाने । मारुतः क्वथन् । पौष्ण उदन्तःसारस्वतो विष्यन्दमानः । मैत्रः शरोगृहीतः । तेज उद्यतो वायुः । ह्रियमाणः प्रजापतिः । हूयमानो वाग्घृतः ४ असौ खलु वावैष आदित्यः । यत्प्रवर्ग्यः । स एतानि नामान्यकुरुत । य एवं वेद । विदुरेनं नाम्ना । ब्रह्मवादिनो वदन्ति । यन्मृन्मयमाहुतिं नाश्नुतेऽथ । कस्मादेषोऽश्नुत इति । वागेष इति ब्रूयात् । वाच्येव वाचं दधाति ५ तस्मादश्नुते । प्रजापतिर्वा एष द्वादशधा विहितः । यत्प्रवर्ग्यः । यत्प्रागवकाशेभ्यः । तेन प्रजा असृजत । अवकाशैर्देवासुरानसृजत । यदूर्ध्वमवकाशेभ्यः । तेनान्नमसृजत । अन्नं प्रजापतिः । प्रजापतिर्वावैषः
६ वदन्ति तनुवा सँ सन्नो हूयमानो वाग्घुतो दधात्येषः
5.12 अनुवाक १२
सविता भूत्वा प्रथमेऽहन्प्र वृज्यते । तेन कामाँ एति । यद्द्वितीयेऽहन्प्रवृज्यते । अग्निर्भूत्वा देवानेति । यत्तृतीयेऽहन्प्रवृज्यते । वायुर्भूत्वा प्राणानेति । यच्चतुर्थेऽहन्प्रवृज्यते । आदित्यो भूत्वा रश्मीनेति । यत्पमे हन्प्रवृज्यते । चन्द्र मा भूत्वा नक्षत्राण्येति १ यत्षष्ठेऽहन्प्रवृज्यते । ऋतुर्भूत्वा संवत्सरमेति । यत्सप्तमेऽहन्प्रवृज्यते । धाता भूत्वा शक्वरीमेति । यदष्ठमेऽहन्प्रवृज्यते । बृहस्पतिर्भूत्वा गायत्रीमेति । यन्नवमेऽहन्प्रवृज्यते । मित्रो भूत्वा त्रिवृत इमाँ लोकानेति । यद्दशमेऽहन्प्रवृज्यते । वरुणो भूत्वा विराजमेति २ यदेकादशेऽहन्प्रवृज्यते । इन्द्रो भूत्वा त्रिष्टुभमेति । यद्द्वादशेऽहन्प्रवृज्यते । सोमो भूत्वा सुत्यामेति । यत्पुरस्तादुपसदां प्रवृज्यते । तस्मादितः पराङ् अमूँ लोकाँ स्तपन्नेति । यदुपरिष्टादुपसदां प्रवृज्यते । तस्मादमुतोऽर्वाङ् इमाङ् लोकाँ स्तपन्नेति । य एवं वेद । ऐव तपति ३ नक्षत्राण्येति विराजमेति
तपति शं नः तन्नो मा हासीत्
ॐ शान्तिः शान्तिः शान्तिः
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके पञ्चमप्रपाठकः समाप्तः
अथ कृष्णयजुर्वेदीय तैत्तिरीयारण्यके षष्ठप्रपाठकस्यारम्भः
सं त्वा सिञ्चामि यजुषा प्रजामायुर्धनं च ।।
ॐ शान्तिः शान्तिः शान्तिः ॐ ।।
6.1 अनुवाक १
परे युवाꣳसं प्रवतो महीरनु बहुभ्यः पन्थामनपस्पशानम् । वैवस्वतꣳ संगमनं जनानां यमꣳ राजानꣳ हविषा दुवस्यत, इति । इदं त्वा वस्त्रं प्रथमं न्वागन्, इति । अपैतदूह यदिहाबिभः पुरा । इष्टापूर्तमनुसंपश्य दक्षिणां यथा ते दत्तं बहुधा वि बन्धुषु, इति । इमौ युनज्मि ते वह्नी असुनीथाय वोढवे । याभ्यां यमस्य सादनꣳ सुकृतां चापि गच्छतात् । पूषा त्वेतश्च्यावयतु प्र विद्वाननष्टपशर्भुवनस्य गोपाः । सं त्वैतेभ्यः परिददात्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रेभ्यः । पूषेमा आशा अनुवेद सर्वाः सो अस्माꣳ अभयतमेन नेषत् । स्वस्तिदा अघृणिः सर्ववीरोऽप्रयुच्छन्पुर एतु प्रविद्वान् ( १) । आयुर्विश्वायुः परिपासति त्वा पूषा त्वा पातु प्रपथे पुरस्तात् । यत्राऽऽसते सुकृतो यत्र ते ययुस्तत्र त्वा देवः सविता दधातु । भुवनस्य पत इदꣳ हविः, इति । अग्नये रयिमते स्वाहा । पुरुषस्य सयावर्यपेदघानि मृज्महे । यथा नो अत्र नापरः पुरा जरस आयति, इति । पुरुषस्य सयावरि वि ते प्राणमसिस्रसम् । शरीरेण महीमिहि स्वधयेहि पितॄनुप प्रजयाऽस्मानिहाऽऽवह । मैवं माꣳस्ता प्रियेऽहं देवी सती पितृलोकं यदैषि । विश्ववारा नमसा(नभसा?) संव्ययन्त्युभौ नो लोकौ पयसाऽभ्याववृत्स्व ( २) । इयं नारी पतिलोकं वृणाना निपद्यत उप त्वा मर्त्य प्रेतम् । विश्वं पुराणमनुपालयन्ती तस्मै प्रजां द्रविणं चेह धेहि । उदीर्ष्व नार्यभि जीवलोकमितासुमेतमुपशेष एहि । हस्तग्राभस्य दिधिषोस्त्वमेतत्पत्युर्जनित्वमभिसंबभूव । सुवर्णꣳ हस्तादाददाना मृतस्य श्रियै ब्रह्मणे तेजसे बलाय । अत्रैव त्वमिह वयꣳ सुशेवा विश्वा स्पृधो अभिमातीर्जयेम ।
धनुर्हस्तादाददाना मृतस्य श्रियै क्षत्त्रायौजसे बलाय । अत्रैव त्वमिह वयꣳ सुशेवा विश्वा स्पृधो अभिमातीर्जयेम । मणिꣳ हस्तादाददाना मृतस्य श्रियै विशे पुष्ट्यै बलाय । अत्रैव त्वमिह वयꣳ सुशेवा विश्वा स्पृधो अभिमातीर्जयेम ( ३) । इममग्ने चमसं मा विजीह्वरः प्रियो देवानामुत सोम्यानाम् । एष यश्चमसो देवपानस्तस्मिन्देवा अमृता मादयन्ताम् । अग्नेर्वर्म परि गोभिर्व्ययस्व संप्रोर्णुष्व मेदसा पीवसा च । नेत्त्वा धृष्णुर्हरसा जर्हृषाणो दधद्विधक्ष्यन्पर्यङ्खयातै । मैनमग्ने विदहो माऽभिशोचो माऽस्य त्वचं चिक्षिपो मा शरीरम् । यदा शृतं करवो जातवेदोऽथेमेनं प्रहिणुतात्पितृभ्यः । शृतं यदाऽकरसि जातवेदोऽथेमेनं परिदत्तात्पितृभ्यः । यदा गच्छात्यसुनीतिमेतामथा देवानां वशनीर्भवाति । सूर्यं ते चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च धर्मणा । अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रतितिष्ठा शरीरैः । अजोऽभागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः । यास्ते शिवास्तनुवो जातवेदस्ताभिर्वहेमꣳ सुकृतां यत्र लोकाः । अयं वै त्वमस्मादधि त्वमेतदयं वै तदस्य योनिरसि । वैश्वानरः पुत्रः पित्रे लोककृज्जातवेदो वहेमꣳ सुकृतां यत्र लोकाः ( ४) ।। विद्वानभ्याववृत्स्वाभिमातीर्जयेम शरीरैश्चत्वारि च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके प्रथमोऽनुवाकः ।। १ ।।
6.2 अनुवाक २
य एतस्य पथो गोप्तारस्तेभ्यः स्वाहा य एतस्य पथो रक्षितारस्तेभ्यः स्वाहा य एतस्य पथोऽभि रक्षितारस्तेभ्यः स्वाहा ख्यात्रे स्वाहाऽपाख्यात्रे स्वाहाऽभिलालपते स्वाहाऽपलालपते स्वाहाऽग्नये कर्मकृते स्वाहा यमत्र नाधीमस्तस्मै स्वाहा, इति ।
यस्त इध्मं जभरत्सिष्विदानो मूर्धानं वा ततपते त्वाया । दिवो विश्वस्मात्सीमघायत उरुष्यः, इति । अस्मात्त्वमधि जातोऽसि त्वदयं जायतां पुनः । अग्नये वैश्वानराय सुवर्गाय लोकाय स्वाहा ( १), इति । य एतस्य त्वत्पञ्च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके द्वितीयोऽनुवाकः ।। २ । ।
6.3 अनुवाक ३
प्र केतुना बृहता भात्यग्निराविर्विश्वानि वृषभो रोरवीति । दिवश्चिदन्तादुप मामुदानडपामुपस्ये महिषो ववर्ध, इति । इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा संविशस्व । संवेशनस्तनुवै चारुरेधि प्रियो देवानां परमे सधस्थे, इति ।
नाके सुपर्णमुप यत्पतन्तꣳ हृदा वेनन्तो अभ्यचक्षत त्वा । हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम्, इति । अतिद्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना पथा । अथा पितॄन्त्सुविदत्राꣳ अपीहि यमेन ये सधमादं मदन्ति, इति । यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसा । ताभ्याꣳ राजन्परिदेह्येनꣳ स्वस्ति चास्मा अनमीवं च धेहि ( १), इति । उरुणसावसुतृपावुलुंबलौ यमस्य दूती चरतोऽवशाꣳ अनु । तावस्मभ्यं दृशये सूर्याय पुनर्दत्तावसुमद्येह भद्रम्, इति ।
सोम एकेभ्यः पवते घृतमेक उपासते । येभ्यो मधु प्रधावति ताꣳश्चिदेवापि गच्छतात्, इति । ये युध्यन्ते प्रधनेषु शूरासो ये तनुत्यजः । ये वा सहस्रदक्षिणास्ताꣳश्चिदेवापि गच्छतात्, इति । तपसा ये अनाधृष्यास्तपसा ये सुवर्गताः । तपो ये चक्रिरे महत्ताꣳश्चिदेवापि गच्छतात्, इति । अश्मन्वती रेवतीः सꣳरभध्वमुत्तिष्ठत प्रतरता सखायः । अत्रा जहाम ये असन्नशेवाः शिवान्वयमभि वाजानुत्तरेम ( २), इति । यद्वै देवस्य सवितुः पवित्रꣳ सहस्रधारं विततमन्तरिक्षे । येनापुनादिन्द्रमनार्तमार्त्यै तेनाहं माꣳ सर्वतनुं पुनामि । या राष्ट्रात्पन्नादपयन्ति शाखा अभिमृता नृपतिमिच्छमानाः । धातुस्ताः सर्वाः पवनेन पूताः प्रजयाऽस्मान्रय्या वर्चसा सꣳसृजाथ । उद्वयं तमसस्परिपश्यन्तो ज्योतिरुत्तरम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम्, इति । धाता पुनातु सविता पुनातु । अग्नेस्तेजसा सूर्यस्य वर्चसा ( ३) ।। धेह्युत्तरेमाष्टौ च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके तृतीयोऽनुवाकः ।। ३ ।।
6.4 अनुवाक ४
यं ते अग्निममन्थाम वृषभायेव पक्तवे । इमं तꣳ शमयामसि क्षीरेण चोदकेन च, इति । यं त्वमग्ने समदहस्त्वमु निर्वापया पुनः । क्याम्बूरत्र जायतां पाकदूर्वाव्यल्कशा, इति । शीतिके शीतिकावति ह्रादुके ह्रादुकावति । मण्डूक्यासु संगमयेमꣳ स्वग्निꣳ शमय, इति । शं ते धन्वन्या आपः शमु ते सन्त्वनूक्याः । शं ते समुद्रिया आपः शमु ते सन्तु वर्ष्याः, इति । शं ते स्रवन्तीस्तनुवे शमु ते सन्तु कूप्याः । शं ते नीहारो वर्षतु शमु पृष्वाऽवशीयताम् (१), इति । अवसृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधाभिः । आयुर्वसान उपयातु शेषꣳ संगच्छतां तनुवा जातवेदः, इति । संगच्छस्व पितृभिः सꣳ स्वधाभिः समिष्टापूर्तेन परमे व्योमन् । यत्र भूम्यै वृणसे तत्र गच्छ तत्र त्वा देवः सविता दधातु, इति । यत्ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः । अग्निष्टद्विश्वादनृणं कृणोतु सोमश्च यो ब्राह्मणमाविवेश, इति । उत्तिष्ठातस्तनुवꣳ संभरस्व मेह गात्रमवहा मा शरीरम् । यत्र भूम्यै वृणसे तत्र गच्छ तत्र त्वा देवः सविता दधातु । इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा संविशस्व । संवेशनस्तुनवै चारुरेधि प्रियो देवानां परमे सधस्थे, इति । उत्तिष्ठ प्रेहि प्रद्रवौकः कृणुष्व परमे व्योमन् । यमेन त्वं यम्या संविदानोत्तमं नाकमधिरोहेमम् । अश्मन्वती रेवतीर्यद्वै देवस्य सवितुः पवित्रं या राष्ट्रात्पन्नादुद्वयं तमसस्परि धाता पुनातु, इति। अस्मात्त्वमधिजातोऽस्ययं त्वदधिजायताम् । अग्नये वैश्वानराय सुवर्गाय लोकाय स्वाहा (२), इति ।। अवशीयताꣳ सधस्थे पञ्च च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्टप्रपाठके चतुर्थोऽनुवाकः ।। ४ ।।
6.5 अनुवाक ५
आयातु देवः सुमनाभिरूतिभिर्यमो ह वेह प्रयताभिरक्ता । आसीदताꣳ सुप्रयते ह बर्हिष्यूर्जाय जात्यै मम शत्रुहत्यै । यमे इव यतमाने यदैतं प्र वां भरन्मानुषा देवयन्तः । आसीदतꣳ स्वमु लोकं विदाने स्वासस्थे भवतमिन्दवे नः, इति ।
यमाय सोमꣳ सुनुत यमाय जुहुता हविः । यमꣳ ह यज्ञो गच्छत्यग्निदूतो अरंकृतः । यमाय घृतवद्धविर्जुहोत प्र च तिष्ठत । स नो देवेष्वायमद्दीर्घमायुः प्रजीवसे । यमाय मधुमत्तमꣳ राज्ञे हव्यं जुहोतन । इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः (१) । योऽस्य कौष्ठ्य जगतः पार्थिवस्यैक इद्वशी । यमं भङ्ग्यश्रवो गाय यो राजाऽनपरोध्यः, इति । यमं गाय भङ्ग्यश्रवो यो राजाऽनपरोध्यः । येनाऽऽपो नद्यो धन्वानि येन द्यौः पृथिवी दृढा, इति । हिरण्यकक्ष्यान्त्सुधुरान्हिरण्याक्षानयःशफान् । अश्वाननश्यतो दानं यमो राजाऽभितिष्ठति, इति । यमो दाधार पृथिवीं यमो विश्वमिदं जगत् । यमाय सर्वमित्रस्थे यत्प्राणद्वायुरक्षितम्, इति । यथा पञ्च यथा षड्यथा पञ्चदशर्षयः । यमं यो विद्यात्स ब्रूयाद्यथैक ऋषिर्विजानते (२), इति । त्रिकद्रुकेभिः पतति षडु्र्वीरेकमिद्बृहत् । गायत्री त्रिष्टुप्छन्दाꣳसि सर्वा ता यम आहिता, इति । अहरहर्नयमानो गामश्वं पुरुषं जगत् । वैवस्वतो न तृप्यति पञ्चभिर्मानवैर्यमः, इति । वैवस्वते विविच्यन्ते यमे राजनि ते जनाः । ये चेह सत्येनेच्छन्ते य उ चानृतवादिनः, इति । ते राजन्निह विविच्यन्तेऽथा यन्ति त्वामुप । देवाꣳश्च ये नमस्यन्ति ब्राह्मणाꣳश्चापचित्यति, इति । यस्मिन्वृक्षे सुपलाशे देवैः संपिबते यमः । अत्रा नो विश्पतिः पिता पुराणा अनुवेनति (३), इति ।। पथिकृद्भ्यो विजानतेऽनुवेनति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके पञ्चमोऽनुवाकः ।। ५ ।।
6.6 अनुवाक ६
वैश्वानरे हविरिदं जुहोमि साहस्रमुत्सꣳ शतधारमेतम् । तस्मिन्नेष पितरं पितामहं प्रपितामहं बिभरत्पिन्वमाने, इति । द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः । तृतीयं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः, इति । इमꣳ समुद्रꣳ शतधारमुत्सं व्यच्यमानं भुवनस्य मध्ये । घृतं दुहानामदितिं जनायाग्ने मा हिꣳसीः परमे व्योमन्, इति । अपेत वीत वि च सर्पतातो येऽत्र स्थ पुराणा ये च नूतनाः । अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्ववसानमस्मै, इति । सवितैतानि शरीराणि पृथिव्यै मातुरुपस्थ आदधे । तेभिर्युज्यन्तामघ्नियाः ( १ ), इति । शुनं वाहाः शुनं नाराः शुनं कृषतु लाङ्गलम् । शुनं वरत्रा बध्यꣳन्ताꣳ शुनमष्ट्रामुदिङ्गय शुनासीरा शुनमस्मासु धत्तम्, इति । शुनासीराविमां वाचं यद्दिवि चक्रथुः पयः । तेनेमामुपसिञ्चतम्, इति । सीते वन्दामहे त्वाऽर्वाची सुभगे भव । यया नः सुभगा ससि यथा नः सुफला ससि, इति । सवितैतानि शरीराणि पृथिव्यै मातुरुपस्थ आदधे । तेभिरदिते शं भव, इति । विमुच्यध्वमघ्निया देवयाना अतारिष्म तमसस्पाꣳरमस्य । ज्योतिरापाम सुवरगन्म ( २), इति । प्र वाता वान्ति पतयन्ति विद्युत उदोषधीर्जिꣳहते पिन्वते सुवः । इरा विश्वस्मै भुवनाय जायते यत्पर्जन्यः पृथिवीꣳ रेतसाऽवति, इति । यथा यमाय हार्म्यमवपन्पञ्च मानवाः । एवं वपामि हार्म्यं यथाऽसाम जीवलोके भूरयः, इति । चितः स्थ परिचित ऊर्ध्वचितः श्रयध्वं पितरो देवता । प्रजापतिर्वः सादयतु तया देवतया, इति। आप्यायस्व, सं ते ( ३), इति ।।
अघ्निया अगन्म सप्त च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके षष्ठोऽनुवाकः ।। ६ ।।
6.7 अनुवाक ७
उत्ते तभ्नोमि पृथिवीं त्वत्परीमं लोकं निदधन्मो अहꣳ रिषम् । एताꣳ स्थूणां पितरो धारꣳयन्तु तेऽत्रा यमः सादनात्ते मिनोतु, इति । उपसर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीꣳ सुशेवाम् । ऊर्णम्रदा युवतिर्दक्षिणावत्येषा त्वा पातु निर्ऋत्या उपस्थे, इति । उच्छ्मञ्चस्व पृथिवि मा विबाधिथाः सूपायनाऽस्मै भव सूपवञ्चना । माता पुत्रं यथा सिचाऽभ्येनं भूमि वृणु. इति । उच्छ्रमञ्चमाना पृथिवी हि तिष्ठसि सहस्रं मित उप हि श्रयन्ताम् । ते गृहासो मधुश्चुतो विश्वाहाऽस्मै शरणाः सन्त्वत्र, इति । एणीर्धाना हरिणीरर्जुनीः सन्तु धेनवः । तिलवत्सा ऊर्जमस्मै दुहाना विश्वाहा सन्त्वनपस्फुरन्तीः ( १), इति । एषा ते यमसादने स्वधा निधीयते गृहे । अक्षितिर्नाम ते असौ, इति । इदं पितृभ्यः प्रभरेम बर्हिर्देवेभ्यो जीवन्त उत्तरं भरेम । तत्त्वमारोहासो मेध्यो भवं(भव?) यमेन त्वं यम्या संविदानः, इति । मा त्वा वृक्षौ संबाधिष्टां मा माता पृथिवि त्वम् । पितॄन्ह्यत्र गच्छास्येधांसं यमराज्ये, इति । मा त्वा वृक्षौ संबाधेथां मा माता पृथिवी मही । वैवस्वतꣳ हि गच्छासि यमराज्ये विराजसि, इति । नळं प्लवमारोहैतं नळेन पथोऽन्विहि । स त्वं नळप्लवो भूत्वा संतर प्रतरोत्तर ( २), इति । सवितैतानि शरीराणि पृथिव्यै मातुरुपस्थ आदधे । तेभ्यः पृथिवि शं भव, इति । षड्ढोता सूर्यं ते चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च धर्मणा । अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रतितिष्ठा शरीरैः, इति । परं मृत्यो अनुपरेहि पन्थां यस्ते स्व इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजाꣳ रीरिषो मोत वीरान्, इति । शं वातः शꣳ हि ते घृणिः शमु ते सन्त्वोषधीः । कल्पन्तां मे दिशः शग्माः, इति । पृथिव्यास्त्वा लोके सादयाम्यमुष्य शर्मासि पितरो देवता । प्रजापतिस्त्वा सादयतु तया देवतया, इति । अन्तरिक्षस्य त्वा दिवस्त्वा दिशां त्वा नाकस्य त्वा पृष्ठे ब्रध्नस्य त्वा विष्टपे सादयाम्यमुष्य शर्मासि पितरो देवता । प्रजापतिस्त्वा सादयतु तया देवतया ( ३), इति ।।
अनपस्फुरन्तीरुत्तर देवतया द्वे च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके सप्तमोऽनुवाकः ।। ७ ।।
6.8 अनुवाक ८
अपूपवान्घृतवाꣳश्चरुरेह सीदतूत्तभ्नुवन्पृथिवीं द्यामुतोपरि । योनिकृतः पथिकृतः सपर्यत ये देवानां घृतभागा इह स्थ । एषा ते यमसादने स्वधा निधीयते गृहेऽसौ । दशाक्षरा ताꣳ रक्षस्व तां गोपायस्व तां ते परिददामि तस्यां त्वा मा दभन्पितरो देवता । प्रजापतिस्त्वा सादयतु तया देवतया, इति । अपूपवाञ्शृतवान्क्षीरवान्दधिवान्मधुमाꣳश्चरुरेह सीदतूत्तभ्नुवन्पृथिवीं द्यामुतोपरि। योनि कृतः पथिकृतः सपर्यत ये देवानाꣳ शृतभागाः क्षःइ(?)भागा दधिभागा (?)भागा इह स्थ। एष ते यमुसादने स्वधा निधीयते गृहेऽसौ । शताक्षरा सहस्राक्षराऽयुताक्षराऽच्युताक्षरा ताꣳ रक्षस्व तां गोपायस्व तां ते परिददामि तस्यां त्वामादभन्पितरो देवता । प्रजापतिस्त्वा सादयतु तया देवतया ( १), इति ।।
अपूपवानसौ दश ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठकेऽष्टमोऽनुवाकः ।। ८ ।।
6.9 अनुवाक ९
एतास्ते स्वधा अमृताः करोमि यास्ते धानाः परिकिराम्यत्र । तास्ते यमः पितृभिः संविदानोऽत्र धेनूः कामदुघाः करोतु, इति । त्वामर्जुनौपधीनां पयो ब्रह्माण इद्विदुः । तासां त्वा मध्यादाददे चरुभ्यो अपिधातवे, इति । दूर्वाणाꣳ स्तम्बमाहरैतां प्रियतमां मम । इमां दिशं मनुष्याणां भूयिष्ठाऽनु विरोहतु इति । काशानाꣳ स्तम्बमाहर रक्षसामपहत्यै । य एतस्यै दिशः पराभवन्नघायवो यथा ते नाभवान्पुनः, इति । दर्भाणाꣳ स्तम्बमाहर पितृणामोषधीं प्रियाम् । अन्वस्यै मूलं जीवादनु काण्डमथो फलम्, इति । लोकं पृण ता अस्य सूददोहसः इति । शं वातः शꣳ हि ते घृणिः शमु ते सन्त्वोषधीः । कल्पन्तां ते दिशः सर्वाः, इति । इदमेव मेतोऽपरामार्तिमाराम कांचन । तथा तदश्विभ्यां कृतं मित्रेण वरुणेन च, इति । वरणो वारयादिदं देवो वनस्पतिः । आर्त्यै निर्कत्यै द्वेषाच्च वनस्पतिः, इति । विधृतिरसि विधारयास्मदघा द्वेषाꣳसि, इति । शमि शमयास्मदघा द्वेषाꣳसि, इति । यव यवयास्मदघा द्वेषाꣳसि, इति । पृथिवीं गच्छान्तरिक्षं गच्छ दिवं गच्छ दिशो गच्छ सुवर्गच्छ सुवर्गच्छ दिशो गच्छ दिवं गच्छान्तरिक्षं गच्छ पृथिवीं गच्छापो वा गच्छ यदि तत्र ते हितमोषधीषु प्रतितिष्ठा शरीरैः, इति । अश्मन्वती रेवतीर्यद्वै देवस्य सवितुः पवित्रं या राष्ट्रात्पन्नादुद्वयं तमसस्परि धाता पुनातु(२), इति ।। अथो फलं पुनातु ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके नवमोऽनुवाकः ।। ९ ।।
6.10 अनुवाक १०
आरोहताऽऽयुर्जरसं गृणाना अनुपूर्वं यतमाना यतिष्ट । इह त्वष्टा सुजनिमा सुरत्नो दीर्घमायुः करतु जीवसे वः, इति । यथाऽहान्यनुपूर्वं भवन्ति यथर्तव ऋतुभिर्यन्ति क्लृप्ताः । यथा न पूर्वमपरो जहात्येवा धातरायूꣳषि कल्पयैषाम्, इति । न हि ते अग्ने तनुवै क्रूरं चकार मर्त्यः । कपिर्बभस्ति तेजनं पुनर्जरायु गौरिव । अप नः शोशुचदघमग्ने शुशुध्या रयिम् । अप नः शोशुचदघं मृत्यवे स्वाहा । अनड्वाहमन्वारभामहे स्वस्तये । स न इन्द्र इव देवेभ्यो वह्निः संपारणो भव ( १), इति । इमे जीवा वि मृतैराववर्तिन्नभूद्भद्रा देवहूतिं नो अद्य । प्राञ्जोऽगामा नृतये हसाय द्रघीय आयुः प्रतरां दधानाः, इति । मृत्योः पदं योपयन्तो यदैम द्राघीय आयुः
प्रतरां दधानाः । आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवथ यज्ञियासः, इति । इमं जीवेभ्यः परिधिं दधामि मा नोऽनुगाद परो अर्धमेतम् । शतं जीवन्तु शरदः पुरूचीस्तिरो मृत्युं दद्महे पर्वतेन, इति । इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा समृशन्ताम् । अनश्रवो अनमीवा सुशेवा आरोहन्तु जनयो योनिमग्रे, इति । यदाञ्जनं त्रैककुदं जातꣳ हिमवतस्परि । तेनामृतस्य मूलेनारातीर्जम्भयामसि, इति । यथा त्वमुद्भिनत्स्योषधे पृथिव्या अधि । एवमिम उद्भिन्दन्तु कीर्त्या यशसा ब्रह्मवर्चसेन, इति । अजोऽस्यजास्मदघा द्वेषाꣳसि, इति । यवोऽसि यवयास्मदघा द्वेषाꣳसि ( २), इति ।।
संपारणो भव जम्भयामसि त्रीणि च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके दशमोऽनुवाकः ।। १० ।।
6.11 अनुवाक ११
अप नः शोशुचदघमग्ने शुशुध्या रयिम् । अप नः शोशुचदघम्, इति । सुक्षेत्रिया सुगातुया वसूया च यजामहे । अप नः शोशुचदघम्, इति । प्र यद्भन्दिष्ठ एषां प्राऽऽस्माकासश्च सूरयः । अप नः शोशुचदघम्, इति । प्र यदग्नेः सहस्वतो विश्वतो यन्ति सूरयः । अप नः शोशुचदघम्, इति । प्र यत्ते अग्ने सूरयो जायेमहि प्र ते वयम् । अप नः शोशुचदघम् ( १), इति । त्वꣳ हि विश्वतोमुख विश्वतः परिभूरसि । अप नः शोशुचदघम्, इति । द्विषो नो विश्वतो मुखाऽति नावेव पारय । अप नः शोशुचदघम्, इति । स नः सिन्धुमिव नावयाऽतिपर्षा स्वस्तये । अप नः शोशुचदघम्, इति । आपः प्रवणादिव यतीरपास्मत्स्यन्दतामघम् । अप नः शोशुचदघम्, इति । उद्वनादुदकानीवापास्मत्स्यन्दतामघम् । अप नः शोशुचदघम्, इति । आनन्दाय प्रमोदाय पुनरागाꣳ स्वान्गृहान् । अप नः शोशुचदघम्, इति । न वै तत्र प्रमीयते गौरश्वः पुरुषः पशुः । यत्रेदं ब्रह्म क्रियते परिधिर्जीवनाय कमप नः शोशुचदघम् (२),इति ।।
अघमघं चत्वारि च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठक एकादशोऽनुवाकः ।। ११ ।।
6.12 अनुवाक १२
अपश्याम युवतिमाचरन्तीं मृताय जीवां परिणीयमानाम् । अन्धेन या तमसा प्रावृताऽसि प्राचीमवाचीमवयन्नरिष्ट्यै, इति । मयैतां माꣳस्तां भ्रियमाणा देवी सती पितृलोकं यदैषि । विश्ववारा नभसा संव्ययन्त्युभौ नो लोकौ पयसाऽऽवृणीहि, इति । रयिष्ठामग्निं मधुमन्तमूर्मिणमूर्जः सन्तं त्वा पयसोपसꣳसदेम । सꣳ रय्या समु वर्चसा सचस्वा नः स्वस्तये, इति । ये जीवा ये च मृता ये जाता ये च जन्त्याः ।
तेभ्यो घृतस्य धारयितुं मधुधारा व्युन्दती, इति । माता रुद्राणां दुहिता वसूनाꣳ स्वसाऽऽदित्यानाममृतस्य नाभिः । प्र णु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट, इति । पिबतूदकं तृणान्यत्तु । ओमुत्सृजत ( १) इति ।।
वधिष्ट द्वे च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके द्वादशोऽनुवाकः ।। १२ ।।
ॐ शान्तिः शान्तिः शान्तिः ।
हरिः ॐ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठः प्रपाठकः समाप्तः ।। ६ ।।
Credits ( For prapathaka 1.1 to 1.6, prapathaka 4 and prapathaka 5):
Sources: 1. The Taittiriya Ìraöyaka of the Black Yajur Veda with the Commentary of S?yaö?c?rya, edited by R?jendral?la Mitra, Calcutta 1872.
2. The Taittir´y?raöyaka with the Commentary of Bhaÿÿabh?skara Mi§ra,
edited by A. Mah?deva ê?stri and K. Ra?g?c?rya, originally appeared as vols. 26, 27 and 29 of The Government Oriental Library Series, Bibliotheca Sanskrita, Mysore 19001902, reprinted Delhi 1985.
3. K¨·öayajurved´yaµ Taittir´y?raöyakam êr´matS?yaö?c?ryaviracitaBh?·yaSametam (Sapari§i·ÿam.) ... etat Pustakam ve. ê?. R?. R?. "B?b?§?str´ Pha¶ake" ity etaiú saµ§odhitaµ. Tacca Hari N?r?yaöa ?paÿe ityanena puöy?khyapattane Ìnand?§ramaMudraö?laye Ìyas?k·arair Mudrayitv? Prak?§itam.
(=Ìnand?§ramaSaµsk¨taGranth?valiú, Granth??kaú 36) Poona 1897 2 vols.
Typescript: Edited by Arlo Griffiths and J.E.M. Houben
Conversion to Devanagari using Vedapad Software by Ralph Bunker
Formatted for Maharishi University of Management Vedic Literature Collection
7.1
हरिः ॐ ।
शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः, इति । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदि ष्यामि । सत्यं वदिष्यामि । तन्मामवन्तु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम्, इति ।
ॐ शान्तिः शान्तिः शान्तिः ( १) इति ।
सत्यं वदिष्यामि पञ्च च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके प्रथमोऽनुवाकः ।। १ ।।
7.2
ॐ शीक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् । साम संतानः । इत्युक्तः शीक्षाध्यायः ( १, इति । शीक्षां पञ्च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके द्वितीयोऽनुवाकः
7.3
सह नौ यशः । सह नौ ब्रह्मवर्चसम्, इति । अथातः सँहिताया उपनिषदं व्याख्यास्यामः । पञ्चस्वधिकरणेषु । अधिलोकमधिज्यौतिषमधिविद्यमधिप्रज मध्यात्मम् । ता महासंहिता इत्याचक्षते, इति । अथाधिलोकम् । पृथिवी पूर्वरूपम् । द्यौरुत्तररूपम् । आकाशः संधिः ( १) । वायुः संधानम् । इत्यधिलोकम्, इति ।
अथाधिज्यौतिषम् । अग्निः पूर्वरूपम् । आदित्य उत्तररूपम् । आपः संधिः । वैद्युतः संधानम् । इत्यधिज्यौतिषम्, इति ।
अथाधिविद्यम् । आचार्यः पूर्वरूपम् ( २) । अन्तेवास्युत्तररूपम् । विद्या संधिः । प्रवचनं संधानम् । इत्यधिविद्यम्, इति । अथाधिप्रजम् । माता पूर्वरूपम् । पितोत्तररूपम् । प्रजा संधिः । प्रजननंश संधानम् । इत्यधिप्रजम् ( ३), इति ।
अथाध्यात्मम् । अधरा हनुः पूर्वरूपम् । उत्तरा हनुरुत्तररू- पम् । वाक्संधिः । जिह्वा संधानम् । इत्यध्यात्मम्, इति । इतीमा महासंहिताः, इति । य एवमेता महासंहिता व्याख्याता वेद । संधीयते प्रजया पशुभिः । ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण लोकेन ( ४), इति ।। सधिराचार्यः पूर्वरूपमित्यधिप्रजं लोकेन ।। इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके तृतीयोऽनुवाकः ।।३।।
7.4
यश्छन्दसामृषभो विश्वरूपः । छन्दोभ्योऽध्यमृतात्संबभूव । स मेन्द्रो मेधया स्पृणोतु । अमृतस्य देव धारणो भूयासम्, इति । शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा । कर्णाभ्यां भूरि विश्रुवम् । ब्रह्मणः कोशोऽसि मेधयाऽपिहितः । श्रुतं मे गोपाय, इति ।
आवहन्ती वितन्वाना ( १) । कुर्वाणा चीरम्रात्मनः । वासांसि मम गावश्च । अन्नपाने च सर्वदा । ततो मे श्रियमावह । लोमशां पशुभिः सह स्वाहा, इति । आ मा यन्तु ब्रह्मचारिणः स्वाहा । वि माऽऽयन्तु ब्रह्मचारिणः स्वाहा । प्र माऽऽयन्तु ब्रह्मचारिणः स्वाहा । दमायन्तु ब्रह्मचारिणः स्वाहा । शमायन्तु ब्रह्मचारिणः स्वाहा ( २), इति । यशो जनेऽसानि स्वाहा । श्रेयान्वस्यसोऽसानि स्वाहा, इति । तं त्वा भग प्रविशानि स्वाहा । स मा भग प्रविश स्वाहा । तस्मिन्त्सहस्रशाखे । नि भगाहं त्वयि मृजे स्वाहा, इति । यथाऽऽपः प्रवताऽऽयन्ति । यथा मासा अहर्जरम् । एवं मां ब्रह्मचारिणः । धातरायन्तु सर्वतः स्वाहा, इति । प्रतिवेशोऽसि प्र मा भाहि प्र मा पद्यस्व( ३), इति । वितन्वाना शमायन्तु ब्रह्मचारिणः स्वाहा धातरायन्तु सर्वतः स्वाहैकं च । ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके चतुर्थोऽनुवाकः ।। ४ ।।
7.5
भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः, इति । तासामु ह स्मैतां चतुर्थीम् । माहाच- मस्यः प्रवेदयते । मह इति, इति । तद्ब्रह्म । स आत्मा । अङ्गान्यन्या देवताः, इति । भूरिति वा अयं लोकः । भुव इत्यन्तरिक्षम् । सुवरित्यसौ लोकः ( १) । मह इत्यादित्यः । आदित्येन वाव सर्वे लोका महीयन्ते, इति । भूरिति वा अग्निः । भुव इति वायुः । सुवरित्यादित्यः । मह इति चन्द्रमाः। चन्द्रमसा वाव सर्वाणि ज्योतींषि महीयन्ते। भूरिति वा ऋचः । भुव इति सामानि । सुवरिति यजूंषि (२) । मह इति ब्रह्म । ब्रह्मणा वाव सर्वे वेदा महीयन्ते, इति । भूरिति वै प्राणः । भुव इत्यपानः । सुवरिति व्यानः । मह इत्यन्नम् । अन्नेन वाव सर्वे प्राणा महीयन्ते, इति । ता वा एताश्चतस्रश्चतुर्धा । चतस्रश्चतस्रो व्याहृतयः, इति । ता यो वेद । स वेद ब्रह्म । सर्वेऽस्मै देवा बलिमावहन्ति(३), इति । असौ लोको यजूंषि वेद द्वे च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके पञ्चमोऽनुवाकः ।। ५ ।।
7.6
स य एषोऽन्तर्हृदय आकाशः । तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः, इति । अन्तरेण तालुके । य एष स्तन इवावलम्बते । सेन्द्रयोनिः । यत्रासौ केशान्तो विवर्तते । व्यपोह्य शीर्षकपाले, इति । भूरित्यग्नौ प्रतितिष्ठति । भुव इति वायौ ( १) । सुवरित्यादित्ये । मह इति ब्रह्मणि । आप्नोति स्वाराज्यम् । आप्नोति मनसस्पतिम् । वाक्पति- श्चक्षुष्पतिः । श्रोत्रपतिर्विज्ञानपतिः । एतत्ततो भवति । आकाशशरीरं ब्रह्म । सत्यात्म प्राणारामं मन आनन्दम् । शान्तिसमृद्धममृतम्, इति । इति प्राचीनयोग्योपास्स्व ( २), इति । वायावमृतमेकं च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके षष्ठोऽनुवाकः ।। ६ ।।
7.7
पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशाः । अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि । आप ओषधयो वनस्पतय आकाश आत्मा । इत्यधिभूतम्, इति । अथाध्यात्मम् । प्राणो व्यानोऽपान उदानः समानः । चक्षुः श्रोत्रं मनो वाक्त्वक् । चर्म मांसं स्नावास्थि मज्जा, इति । एतदधिविधाय ऋषिरवोचत् । पाङ्क्तं वा इदं सर्वम् । पाङ्क्तेनैव पाङ्क्तं स्पृणोतीति ( १), इति । सर्वमेकं च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके सप्तमोऽनुवाकः ।। ७ ।।
7.8
ओमिति ब्रह्म, इति । ओमितीदं सर्वम्, इति । ओमित्येतदनुकृति ह स्म वा अप्यो श्रावयत्याश्रावयन्ति । ओमिति सामानि गायन्ति । ओं शोमिति शस्त्राणि शँसन्ति । ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति । ओमिति ब्रह्म प्रसौति । ओमित्यग्निहोत्रमनुजानाति । ओमिति ब्राह्मणः प्रवक्ष्यन्नाह,-इति ।
ब्रह्मोपाप्नवानीति । ब्रह्मैवोपाप्नोति ( १) इति । ओं दश ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठकेऽष्टमोऽनुवाकः ।। ८ ।।
7.9
ऋतं च स्वाध्यायप्रवचने च । सत्यं च स्वाध्या- यप्रवचने च । तपश्च स्वाध्यायप्रवचने च । दमश्च स्वाध्यायप्रवचने च । शमश्च स्वाध्यायप्रवचने च । अग्नयश्च स्वाध्यायप्रवचने च । अग्निहोत्रं च स्वाध्यायप्रवचने च। अतिथयश्च स्वाध्यायप्रवचने च । मानुषं च स्वाध्यायप्रवचने च । प्रजा च स्वाध्यायप्रवचने च । प्रजनश्च स्वाध्यायप्रवचने च । प्रजातिश्च स्वाध्यायप्रवचने च, इति । सत्यमिति सत्यवचा राथीतरः । तप इति तपोनित्यः पौरुशिष्टिः । स्वाध्यायप्रवचने एवैति नाको मौद्गल्यः । तद्धि तपस्तद्धि तपः ( १) इति । प्रजा च स्वाध्यायप्रवचने च षट् च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके नवमोऽनुवाकः ।। ९ ।।
7.10
अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव । ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि । द्रविणं सवर्चसम् । सुमेधा अमृतोक्षितः । इति त्रिशङ्कोर्वेदानुवचनम् ( १), इति । अहं षट् ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके दशमोऽनुवाकः ।। १० ।।
7.11
सत्यं वद । धर्मं चर, इति । स्वाध्यायान्मा प्रमदः । आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः । सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् । कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् । स्वाध्यायप्रवचनाभ्यां न प्रमदि- तव्यम् (१) । देवपितृकार्याभ्यां न प्रमदितव्यम्, इति । मातृदेवो भव । पितृदेवो भव । आचार्य- देवो भव । अतिथिदेवो भव, इति । यान्यनवद्यानि कर्माणि । तानि सेवि- तव्यानि । नो इतराणि, इति । यान्यस्माकं सुचरितानि । तानि त्वयोपास्यानि ( २) । नो इतराणि, इति । ये के चास्मच्छ्रेयांसो ब्राह्मणाः । तेषां त्वयाऽऽसनेन प्रश्वसितव्यम्, इति । श्रद्धया देयम् । अश्रद्धयाऽदेयम् । श्रिया देयम् । ह्रिया देयम् । भिया देयम् । संविदा देयम्, इति । अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा ब्रा स्यात् ( ३) । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् । तथा तत्र वर्तेथाः, इति । अथाभ्याख्यातेषु । ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामः स्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तेथाः, इति । एष आदेशः । एष उपदेशः । एषा वेदोपनिषत् । एतदन्रुशासनम् । एवमुपासितव्यम् । एवमु चैतदुपास्यम् ( ४), इति । स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यं तानि त्वयोपास्यानि स्यात्तेषु वर्तेरन्त्सप्त च ।।
इति कृप्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठक एकादशोऽनुवाकः ।। ११ ।।
7.12
शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा । शं न इन्द्रो बृह- स्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवादिषम् । सत्यमवादिषम् । तन्मामावीत् । तद्वक्तारमावीत् । आवीन्माम् । आवीद्वक्तारम् । ॐ शान्तिः शान्ति शान्तिः(१),इति। सत्यमवादिषं पञ्च च ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमप्रपाठके द्वादशोऽनुवाकः ।। १२ ।।
शं नः शीक्षां सह नौ यश्छन्दसां भूः स यः पृथिव्योमित्यृतं चाहं वेदमनूच्य शं नो द्वादश ।। १२ ।।
शं नो मह इत्यादित्यो नो इतराणि त्रयोविँशतिः ।। २३ ।। शं नो मित्रः शं वरुणः ।। शं नो भवत्वर्यमा । शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः । नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि । त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् ।
ॐ शान्तिः शान्तिः शान्तिः ।।
हरिः ॐ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके सप्तमः प्रपाठकः समाप्तः ।। ७ ।।
8.1
हरिः ॐ ।
सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै । ॐ शान्तिः शान्तिः शान्तिः इति ।
ॐ ब्रह्मविदाप्नोति परम्, इति । तदेषाऽभ्युक्ता । सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सोऽश्नुते सर्वान्कामान्त्सह । ब्रह्मणा विपश्चितेति, इति । तस्माद्वा एतस्मादात्मन आकाशः संभूतः । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योऽन्नम् । अन्नात्पुरुषः, इति । स वा एष पुरुषोऽन्नरसमयः, इति । तस्येदमेव शिरः । अयं दक्षिणः पक्षः । अयमु त्तरः पक्षः । अयमात्मा । इदं पुच्छं प्रतिष्ठा, इति ।
तदप्येष श्लोको भवति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठके प्रथमोऽनुवाकः ।। १ ।।
8.2
अन्नाद्वै प्रजाः प्रजायन्ते । याः काश्च पृथिवीं श्रिताः । अथो अन्नेनैव जीवन्ति । अथैनदपियन्त्यन्ततः । अन्नं हि भूतानां ज्येष्ठम् । तस्मात्सर्वौषधमुच्यते । सर्वं वै तेऽन्नमाप्नु- वन्ति । येऽन्नं ब्रह्मोपासते । अन्नं हि भूतानां ज्येष्ठम् । तस्मा-
त्सर्वौषधमुच्यते । अन्नाद्भूतानि जायन्ते । जातान्यन्नेन वर्धन्ते । अद्यतेऽत्ति च भूतानि । तस्मादन्नं तदुच्यत इति, इति । तस्माद्वा एतस्मादन्नरसमयात् । अन्योऽन्तर आत्मा प्राणमयः । तेनैष पूर्णः, इति । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य प्राण एव शिरः । व्यानो दक्षिणः पक्षः । अपान उत्तरः पक्षः । आकाश आत्मा । पृथिवी पुच्छं प्रतिष्ठा, इति ।
तदप्येष श्लोको भवति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठके द्वितीयोऽनुवाकः ।। २ ।।
8.3
अथ तृतीयोऽनुवाकः ।
प्राणं देवा अनुप्राणन्ति । मनुष्याः पशवश्च ये । प्राणो हि श्रुतानामायुः । तस्मात्सर्वायुषमुच्यते । सर्वमेव त आयुर्यन्ति । ये प्राणं ब्रह्मोपासते । प्राणो हि भूतानामायुः । तस्मात्सर्वायुषमुच्यत इति, इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य, इति । तस्माद्वा एतस्मात्प्राणमयात् । अन्योऽन्तर आत्मा मनोमयः । तेनैष पूर्णः, इति । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य यजुरेव शिरः । ऋग्दक्षिणः पक्षः । सामोत्तरः पक्षः । आदेश आत्मा । अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा, इति ।
तदप्येष श्लोको भवति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठके तृतीयोऽनुवाकः ।। ३ ।।
8.4
अथ चतुर्थोऽनुवाकः ।
यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कदाचनेति, इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य, इति । तस्माद्वा एतस्मान्मनोमयात् । अन्योऽन्तर आत्मा विज्ञानमयः । तेनैष पूर्णः, इति । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । । अन्वयं पुरुषविधः । तस्य श्रद्धैव शिरः । ऋतं दक्षिणः पक्षः । सत्यमुत्तरः पक्षः । योग आत्मा । महः पुच्छं प्रतिष्ठा, इति ।
तदप्येष श्लोको भवति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठके चतुर्थोऽनुवाकः ।। ४ ।।
8.5
अथ पञ्चमोऽनुवाकः
विज्ञानं यज्ञं तनुते । कर्माणि तनुतेऽपि च । विज्ञानं देवाः सर्वे । ब्रह्म ज्येष्ठमुपासते । विज्ञानं ब्रह्म चेद्वेद। तस्माच्चेन्न प्रमाद्यति । शरीरे पाप्मनो हित्वा । सर्वान्कामान्त्समश्नुत इति, इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य, इति । तस्माद्वा एतस्माद्विज्ञानमयात् । अन्योऽ- न्तर आत्माऽऽनन्दमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविध ताम् । अन्वयं पुरुषविधः । तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा ।
तदप्येष श्लोको भवति ।।
इति कृप्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठके
पञ्चमोऽनुवाकः ।। ५ ।।
8.6(8.2?)
अथाष्टमे षष्ठोऽनुवाकः ।
असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुरिति, इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य, इति । अथातोऽनुप्रश्नाः इति । उताविद्वानमुं लोकं प्रेत्य । कश्चन गच्छती३ । आहो विद्वानमुं लोकं प्रेत्य । कश्चित्समश्नुता३ उ, इति । सोऽकामयत । बहु स्यां प्रजायेयेति । स तपोऽतप्यत । स तपस्तप्त्वा । इदं सर्वमसृजत, इति । अन्नाद्वै प्रजाः प्रजायन्ते । याः काश्च पृथिवीं श्रिताः । अथो अन्नेनैव जीवन्ति । अथैनदपियन्त्यन्ततः । अन्नं हि भूतानां ज्येष्ठम् । तस्मात्सर्वौषधमुच्यते । सर्वं वै तेऽन्नमाप्नुवन्ति । येऽन्नं ब्रह्मोपासते । अन्नं हि भूतानां ज्येष्ठम् । तस्मा-
त्सर्वौषधमुच्यते । अन्नाद्भूतानि जायन्ते । जातान्यन्नेन वर्धन्ते । अद्यतेऽत्ति च भूतानि । तस्मादन्नं तदुच्यत इति, इति । तस्माद्वा एतस्मादन्नरसमयात् । अन्योऽन्तर आत्मा प्राणमयः । तेनैष पूर्णः, इति । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य प्राण एव शिरः । व्यानो दक्षिणः पक्षः । अपान उत्तरः पक्षः । आकाश आत्मा । पृथिवी पुच्छं प्रतिष्ठा, इति ।
तदप्येष श्लोको भवति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठके द्वितीयोऽनुवाकः ।। २ ।।
8.3(?)
अथ तृतीयोऽनुवाकः ।
प्राणं देवा अनुप्राणन्ति । मनुष्याः पशवश्च ये । प्राणो हि भूतानामायुः । तस्मात्सर्वायुषमुच्यते । सर्वमेव त आयुर्यन्ति । ये प्राणं ब्रह्मोपासते । प्राणो हि भूतानामायुः । तस्मात्सर्वायुषमुच्यत इति, इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य, इति । तस्माद्वा एतस्मात्प्राणमयात् । अन्योऽन्तर आत्मा मनोमयः । तेनैष पूर्णः, इति । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य यजुरेव शिरः । ऋग्दक्षिणः पक्षः । सामोत्तरः पक्षः । आदेश आत्मा । अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा, इति ।
तदप्येष श्लोको भवति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठके तृतीयोऽनुवाकः ।। ३ ।।
8.4(8.6?)
अथ चतुर्थोऽनुवाकः ।
यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कदाचनेति, इति । यदिदं किंच । तत्सृष्ट्वा । तदेवानुप्राविशत्, इति । तदनुप्रविश्य । सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च । विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत् । यदिदं किंच । तत्सत्यमित्याचक्षते ।
तदप्येष श्लोको भवति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठके षष्ठोऽनुवाकः ।। ६ ।।
8.7
अथ सप्तमोऽनुवाकः
असद्वा इदमग्र आसीत् । ततो वै सदजायत । तदा- त्मानं स्वयमकुरुत । तस्मात्तत्सुकृतमुच्यत इति । यद्वैतत्सुकृतम् । रसो वै सः । रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति । को ह्येवान्यात्कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात् । एष ह्येवाऽऽनन्दयाति । यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति । यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अय तस्य भयं भवति । तत्त्वेव भयं विदुषोऽमन्वानस्य इति ।
तदप्येष श्लोको भवति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठके सप्तमोऽनुवाकः ।। ७ ।।
8.8
अथाष्टमोनुवाकः
भीषाऽस्माद्वातः पवते । भीषोदेति सूर्यः । भीषाऽ- स्वादग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चम इति । सैषाऽऽनन्दस्य मीमांसा भवति, इति । युवा स्यात्साधुयुवाऽध्यायकः। आशिष्ठो दृढिष्ठो बलिष्ठः । तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात्। स एको मानुष आनन्दः, इति । ते ये शतं मानुषा आनन्दाः ( १) । स एको मनुष्यगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य, इति । ते ये शतं मनुष्यगन्धर्वाणामानन्दाः । स एको देवग न्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य, इति । ते ये शतं देवगन्धर्वाणामानन्दाः । स एकः पितृणां चिरलो- कलोकानामानन्दः । श्रोत्रियस्य चाकामहतस्य, इति । ते ये शतं पितृणां चिरलोकलोकानामानन्दाः । स एक आजानजानां देवानामानन्दः । ( २) । श्रोत्रियस्य चाकामहतस्य, इति । ते ये शतमाजानजानां देवानामानन्दाः । स एकः कर्मदेवानां देवानामानन्दः । ये कर्मणा देवानपियन्ति । श्रोत्रियस्य चाकामहतस्य, इति । ते ये शतं कर्मदेवानां देवानामानन्दाः । स एको देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य, इति । ते ये शतं देवानामानन्दाः । स एक इन्द्रस्याऽऽ- नन्दः ( ३) श्रोत्रियस्य चाकामहतस्य, इति । ते ये शतमिन्द्रस्याऽऽनन्दाः । स एको बृहस्पतेरा- नन्दः । श्रोत्रियस्य चाकामहतस्य, इति । ते ये शतं बृहस्पतेरानन्दाः । स एकः प्रजा- पतेरानन्दः । श्रोत्रियस्य चाकामहतस्य, इति । ते ये शतं प्रजापतेरानन्दाः । स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहतस्य (४), इति । स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः, इति । स य एवंवित् । अस्माल्लोकात्प्रेत्य । एतमन्नमयमात्मानमुपसंक्रामति । एतं प्राणमयमात्मानमुपसंक्रामति । एतं मनोमयमात्मानमुपसंक्रामति । एतं विज्ञानमयमात्मानमुपसंक्रामति । एतमानन्दमयमात्मानमुपसंक्रामति, इति ।
तदप्येष श्लोको भवति ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठकेऽष्टमोऽनुवाकः ।। ८ ।।
8.9
अथ नवमोऽनुवाकः
यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कुतश्चनेति, इति । एतं ह वाव न तपति । किमहं साधु नाकरवम् । किमहं पापमकरवमिति, इति । स य एवं विद्वानेते आत्मानं स्पृणुते, इति । उभे ह्येवैष एते आत्मानं स्पृणुते । य एव वेद, इति ।
इत्युपनिषत् ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठके नवमोऽनुवाकः समाप्तः ।। ९ ।।
ब्रह्मविदिदमेकविंशतिरन्नादन्नरसमयात्प्राणो व्यानोऽपान आकाशः पृथिवी पुच्छं षड्विंशतिः प्राणं यजुर्ऋक्सामाऽऽदेशोऽथर्वाङ्गिरसः पुच्छं द्वाविंतिर्यतः श्रद्धर्तं सत्यं योगो महोऽष्टादश विज्ञानं प्रियं मोदः प्रमोद आनन्दो ब्रह्म पुच्छं द्वाविंशतिरसन्नेवाष्टाविंशतिरसत्षोडश भीषाऽस्मादेकपञ्चाशद्यतः कुतश्चैकादश ।
सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्वि नावधीतमस्तु मा विद्विषावहै ।।
ॐ शान्तिः शान्तिः शान्तिः ।
हरिः ॐ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमोऽध्यायः समाप्तः ।। ८ ।।