तैत्तिरीयब्राह्मणम् (विस्वरपाठः)

(यजुर्वेदः/ब्राह्मणम् इत्यस्मात् पुनर्निर्दिष्टम्)

काण्डः १

काण्डः २

काण्डः ३

टंकित सामग्र्याः स्रोतं -

Peter Freund Vedic Literature


तैत्तिरीय ब्राह्मणम् काण्ड 1 पौरोडाशिक काण्ड? प्रपाठक: 1 अग्न्याधानम् अनुवाक 1 VERSE: 1 { 1.1.1.1} ब्रह्म संधत्तं तन् मे जिन्वतम् । क्षत्रꣳ संधत्तं तन् मे जिन्वतम् । इषꣳ संधत्तं तां मे जिन्वतम् । ऊर्जꣳ संधत्तं तां मे जिन्वतम् । रयिꣳ संधत्तं तां मे जिन्वतम् । पुष्टिꣳ संधत्तं तां मे जिन्वतम् । प्रजाꣳ संधत्तं तां मे जिन्वतम् । पशून् संधत्तं तान् मे जिन्वतम् । स्तुतो ऽसि जनधाः । देवास् त्वा शुक्रपाः प्रणयन्तु ।

VERSE: 2 { 1.1.1.2} सुवीराः प्रजाः प्रजनयन् परीहि । शुक्रः शुक्रशोचिषा । स्तुतो ऽसि जनधाः

। देवास् त्वा मन्थिपाः प्रणयन्तु । सुप्रजाः प्रजाः प्रजनयन् परीहि । मन्थी मन्थिशोचिषा । संजग्मानौ दिव आ पृथिव्यायुः । संधत्तं तन् मे जिन्वतम् । प्राणꣳ संधत्तं तं मे जिन्वतम् । अपानꣳ संधत्तं तं मे जिन्वतम् ।

VERSE: 3 { 1.1.1.3} व्यानꣳ संधत्तं तं मे जिन्वतम् । चक्षुः संधत्तं तन् मे जिन्वतम् । श्रोत्रꣳ संधत्तं तन् मे जिन्वतम् । मनः संधत्तं तन् मे जिन्वतम् । वाचꣳ संधत्तं तां मे जिन्वतम् । आयुः स्थ आयुर् मे धत्तम् । आयुर् यज्ञाय धत्तम् । आयुर् यज्ञपतये धत्तम् । प्राणः स्थः प्राणं मे धत्तं । प्राणं यज्ञाय धत्तम् ।

VERSE: 4 { 1.1.1.4} प्राणं यज्ञपतये धत्तम् । चक्षुः स्थश् चक्षुर् मे धत्तम् । चक्षुर् यज्ञाय धत्तम् । चक्षुर् यज्ञपतये धत्तम् । श्रोत्रꣳ स्थः श्रोत्रं मे धत्तम् । श्रोत्रं यज्ञाय धत्तम् । श्रोत्रं यज्ञपतये धत्तम् । तौ देवौ शुक्रामन्थिनौ । कल्पयतं दैवीर् विशः । कल्पयतं मानुषीः ।

VERSE: 5 { 1.1.1.5} इषमूर्जम् अस्मासु धत्तम् । प्राणान् पशुषु । प्रजां मयि च यजमाने च । निरस्तः शण्डः । निरस्तो मर्कः । अपनुत्तौ शण्डाम् अर्कौ सहामुना । शुक्रस्य समिद् असि । मन्थिनः समिद् असि । स प्रथमः संकृतिर् विश्वकर्मा । स प्रथमो मित्रो वरुणो अग्निः । स प्रथमो बृहस्पतिश् चिकित्वान् । तस्मा इन्द्राय सुतम् आजुहोमि ।

1.1.2 अनुवाक 2 अग्न्याधानम् VERSE: 1 { 1.1.2.1} कृत्तिकास्व् अग्निम् आदधीत । एतद् वा अग्नेर् नक्षत्रम् । यत् कृत्तिकाः । स्वायाम् एवैनं देवतायाम् आधाय । ब्रह्मवर्चसी भवति । मुखं वा एतन् नक्षत्राणाम् । यत् कृत्तिकाः । यः कृत्तिकास्व् अग्निम् आधत्ते । मुख्य एव भवति । अथो खलु

VERSE: 2 { 1.1.2.2} अग्निनक्षत्रम् इत्य् अपचायन्ति । गृहान् ह दाहुको भवति । प्रजापती रोहिण्याम् अग्निम् असृजत । तं देवा रोहिण्याम् आदधत । ततो वै ते सर्वान् रोहान् अरोहन् । तद् रोहिण्यै रोहिणित्वम् । यो रोहिण्याम् अग्निम् आधत्ते । ऋध्नोत्य् एव । सर्वान् रोहान् रोहति । देवा वै भद्राः सन्तो ऽग्निम् आधित्सन्त

VERSE: 3 { 1.1.2.3} तेषाम् अनाहितो ऽग्निर् आसीत् । अथैभ्यो वामं वस्व् अपाक्रामत् । ते पुनर्वस्वोर् आदधत । ततो वै तान् वामं वसूपावर्तत । यः पुरा भद्रः सन् पापीयान्त् स्यात् । स पुनर्वस्वोर् अग्निम् आदधीत । पुनर् एवैनं वामं वसूपावर्तते । भद्रो भवति । यः कामयेत दानकामा मे प्रजाः स्युर् इति । स पूर्वयोः फल्गुन्योर् अग्निम् आदधीत ।

VERSE: 4 { 1.1.2.4} अर्यम्णो वा एतन् नक्षत्रम् । यत् पूर्वे फल्गुनी । अर्यमा_इति तम् आहुर् यो ददाति । दानकामा अस्मै प्रजा भवन्ति । यः कामयेत भगी स्याम् इति । स उत्तरयोः फल्गुन्योर् अग्निम् आदधीत । भगस्य वा एतन् नक्षत्रम् । यद् उत्तरे फल्गुनी । भग्य् एव भवति । कालकञ्जा वै नाम_असुरा आसन् ।

VERSE: 5 { 1.1.2.5} ते सुवर्गाय लोकाय_अग्निम् अचिन्वन्त । पुरुष इष्टकाम् उपादधात् पुरुष इष्टकाम् । स इन्द्रो ब्राह्मणो ब्रुवाण इष्टकाम् उपाधत्त । एषा मे चित्रा नामेति । ते सुवर्गꣳ लोकम् आप्रारोहन् । स इन्द्र इष्टकाम् आवृहत् । ते ऽवाकीर्यन्त । ये ऽवाकीर्यन्त । त ऊर्णावभयो ऽभवन् । द्वाव् उदपतताम् ।

VERSE: 6 { 1.1.2.6} तौ दिव्यौ श्वानाव् अभवताम् । यो भ्रातृव्यवान्त् स्यात् । स चित्रायाम् अग्निम् आदधीत । अवकीर्य_एव भ्रातृव्यान् । ओजो बलम् इन्द्रियं वीर्यम् आत्मन् धत्ते । वसन्ता ब्राह्मणो ऽग्निम् आदधीत । वसन्तो वै ब्राह्मणस्य_ऋतुः । स्व एवैनम् ऋताव् आधाय । ब्रह्मवर्चसी भवति । मुखं वा एतद् ऋतूनाम् ।

VERSE: 7 { 1.1.2.7} यद् वसन्तः । यो वसन्त_अग्निम् आधत्ते । मुख्य एव भवति । अथो योनिमन्तम् एवैनं प्रजातम् आधत्ते । ग्रीष्मे राजन्य आदधीत । ग्रीष्मो वै राजन्यस्य_ऋतुः । स्व एवैनम् ऋताव् आधाय । इन्द्रियावी भवति । शरदि वैश्य आदधीत । शरद् वै वैश्यस्य_ऋतुः

VERSE: 8 { 1.1.2.8} स्व एवैनम् ऋताव् आधाय । पशुमान् भवति । न पूर्वयोः फल्गुन्योर् अग्निम् आदधीत । एषा वै जघन्या रात्रिः संवत्सरस्य । यत् पूर्वे फल्गुनी । पृष्टित एव संवत्सरस्य_अग्निम् आधाय । पापीयान् भवति । उत्तरयोर् आदधीत । एषा वै प्रथमा रात्रिः संवत्सरस्य । यद् उत्तरे फल्गुनी । मुखत एव संवत्सरस्य_अग्निम् आधाय । वसीयान् भवति । अथो खलु । यदा_एवैनं यज्ञ उपनमेत् । अथ_आदधीत । सैवास्य_ऋद्धिः ।

1.1.3 अनुवाक 3 अग्न्याधानम् VERSE: 1 { 1.1.3.1} उद्धन्ति । यद् एवास्या अमेध्यम् । तद् अपहन्ति । अपो ऽवोक्षति शान्त्यै । सिकता निवपति । एतद् वा अग्नेर् वैश्वानरस्य रूपम् । रूपेणैव वैश्वानरम् अवरुन्द्धे । ऊषान् निवपति । पुष्टिर् वा एषा प्रजननम् । यद् ऊषाः ।

VERSE: 2 { 1.1.3.2} पुष्ट्याम् एव प्रजनने ऽग्निम् आधत्ते । अथो संज्ञान एव । संज्ञानꣳ ह्य् एतत् पशूनाम् । यद् ऊषाः । द्यावापृथिवी सह_आऽऽस्ताम् । ते वियती अब्रूताम् । अस्त्व् एव नौ सह यज्ञियम् इति । यद् अमुष्या यज्ञियम् आसीत् । तद् अस्याम् अदधात् । त ऊषा अभवन् ।

VERSE: 3 { 1.1.3.3} यद् अस्या यज्ञियम् आसीत् । तद् अमुष्याम् अदधात् । तद् अदश् चन्द्रमसि कृष्णम् । ऊषान् निवपन्न् अदो ध्यायेत् । द्यावापृथिव्योर् एव यज्ञिये ऽग्निम् आधत्ते । अग्निर् देवेभ्यो निलायत । आखू रूपं कृत्वा । स पृथिवीं प्राविशत् । स ऊतीः कुर्वाणः पृथिवीम् अनु समचरत् । 0 तद् आखुकरीषम् अभवत् ।

VERSE: 4 { 1.1.3.4} यद् आखुकरीषꣳ संभारो भवति । यद् एवास्य तत्र न्यक्तम् । तद् एव_अवरुन्द्धे । ऊर्जं वा एतꣳ रसं पृथिव्या उपदीका उद्दिहन्ति । यद् वल्मीकम् । यद् वल्मीकवपा संभारो भवति । ऊर्जम् एव रसं पृथिव्या अवरुन्द्धे । अथो श्रोत्रम् एव । श्रोत्रꣳ ह्य् एतत् पृथिव्याः । यद् वल्मीकः

VERSE: 5 { 1.1.3.5} अबधिरो भवति । य एवं वेद । प्रजापतिः प्रजा असृजत । तासाम् अन्नम् उपाक्षीयत । ताभ्यः सूदम् उप प्राभिनत् । ततो वै तासाम् अन्नं न_अक्षीयत । यस्य सूदः संभारो भवति । नास्य गृहे ऽन्नं क्षीयते । आपो वा इदम् अग्रे सलिलम् आसीत् । तेन प्रजापतिर् अश्राम्यत् ।

VERSE: 6 { 1.1.3.6} कथम् इदꣳ स्याद् इति । सो ऽपश्यत् पुष्करपर्णं तिष्ठत् । सो ऽमन्यत । अस्ति वै तत् । यस्मिन्न् इदम् अधि तिष्ठति_इति । स वराहो रूपं कृत्वा_उप न्यमज्जत् । स पृथिवीम् अध आर्छत् । तस्या उपहत्य_उदमज्जत् । तत् पुष्करपर्णे ऽप्रथयत् । यद् अप्रथयत् ।

VERSE: 7 { 1.1.3.7} तत् पृथिव्यै पृथिवित्वम् । अभूद् वा इदम् इति । तद् भूम्यै भूमित्वम् । तां दिशो ऽनु वातः समवहत् । ताꣳ शर्कराभिर् अदृꣳहत् । शं वै नो ऽभूद् इति । तच् छर्कराणाꣳ शर्करत्वम् । यद् वराहविहतꣳ संभारो भवति । अस्याम् एवाच्छम्बट्कारम् अग्निम् आधत्ते । शर्करा भवन्ति धृत्यै ।

VERSE: 8 { 1.1.3.8} अथो शंत्वाय । सरेता अग्निर् आधेय इत्य् आहुः । आपो वरुणस्य पत्नय आसन् । ता अग्निर् अभ्यध्यायत् । ताः समभवन् । तस्य रेतः परापतत् । तद् धिरण्यम् अभवत् । यद् धिरण्यम् उपास्यति । सरेतसम् एवाग्निम् आधत्ते । पुरुष इन् न्वै स्वाद् रेतसो बीभत्सत इत्य् आहुः ।

VERSE: 9 { 1.1.3.9} उत्तरत उपास्यत्य् अबीभत्सायै । अति प्रयच्छति । आर्तिम् एव_अतिप्रयच्छति । अग्निर् देवेभ्यो निलायत । अश्वो रूपं कृत्वा । सो ऽश्वत्थे संवत्सरम् अतिष्ठत् । तद् अश्वत्थस्याश्वत्थत्वम् । यद् आश्वत्थः संभारो भवति । यद् एवास्य तत्र न्यक्तम् । तद् एव_अवरुन्द्धे ।

VERSE: 10 { 1.1.3.10} देवा वा ऊर्जं व्यभजन्त । तत उदुम्बर उदतिष्ठत् । ऊर्ग् वा उदुम्बरः । यद् औदुम्बरः संभारो भवति । ऊर्जम् एव_अवरुन्द्धे । तृतीयस्याम् इतो दिवि सोम आसीत् । तं गायत्र्या_अहरत् । तस्य पर्णम् अच्छिद्यत । तत् पर्णो ऽभवत् । तत् पर्णस्य पर्णत्वम् ।

VERSE: 11 { 1.1.3.11} यस्य पर्णमयः संभारो भवति । सोमपीथम् एव_अवरुन्द्धे । देवा वै ब्रह्मन्न् अवदन्त । तत् पर्ण उपाशृणोत् । सुश्रवा वै नाम । यत् पर्णमयः संभारो भवति । ब्रह्मवर्चसम् एव_अवरुन्द्धे । प्रजापतिर् अग्निम् असृजत । सो ऽबिभेत् प्र मा धक्ष्यति_इति । तꣳ शम्याशमयत् ।

VERSE: 12 { 1.1.3.12} तच् छम्यै शमित्वं । यच् छमीमयः संभारो भवति । शान्त्या अप्रदाहाय । अग्नेः सृष्टस्य यतः । विकङ्कतं भा आर्च्छत् । यद् वैकङ्कतः संभारो भवति । भा एव_अवरुन्द्धे । सहृदयो ऽग्निर् आधेय इत्य् आहुः । मरुतो ऽद्भिर् अग्निम् अतमयन् । तस्य तान्तस्य हृदयम् आच्छिन्दन् । साशनिर् अभवत् । यद् अशनिहतस्य वृक्षस्य सम्भारो भवति । सहृदयम् एव_अग्निम् आधत्ते ।

अनुवाक 4 अग्न्याधानम् VERSE: 1 { 1.1.4.1} द्वादशसु विक्रामेष्व् अग्निम् आदधीत । द्वादश मासाः सम्वत्सरः । संवत्सराद् एवैनम् अवरुध्य_आधत्ते । यद् द्वादशसु विक्रामेष्व् आदधीत । परिमितम् अवरुन्धीत । चक्षुर्निमित आदधीत । इयद् द्वादशविक्रामा3 इति । परिमितं चैव_अपरिमितं च_अवरुन्द्धे । अनृतं वै वाचा वदति । अनृतं मनसा ध्यायति ।

VERSE: 2 { 1.1.4.2} चक्षुर् वै सत्यम् । अद्रा3ग् इत्य् आह । अदर्शम् इति । तत् सत्यम् । यश् चक्षुर्निमिते ऽग्निम् आधत्ते । सत्य एवैनम् आधत्ते । तस्माद् आहिताग्निर् न_अनृतं वदेत् । नास्य ब्राह्मणो ऽनाश्वान् गृहे वसेत् । सत्ये ह्य् अस्याग्निर् आहितः । आग्नेयी वै रात्रिः ।

VERSE: 3 { 1.1.4.3} आग्नेयाः पशवः । ऐन्द्रम् अहः । नक्तं गार्हपत्यम् आदधाति । पशून् एव_अवरुन्द्धे । दिवा_आहवनीयम् । इन्द्रियम् एवावरुन्द्धे । अर्धोदिते सूर्य आहवनीयम् आदधाति । एतस्मिन् वै लोके प्रजापतिः प्रजा असृजत । प्रजा एव तद् यजमानः सृजते । अथो भूतं चैव भविष्यच् च_अवरुन्द्धे ।

VERSE: 4 { 1.1.4.4} इडा वै मानवी यज्ञानुकाशिन्य् आसीत् । साऽशृणोत् । असुरा अग्निम् आदधत इति । तद् अगच्छत् । त आहवनीयम् अग्र आदधत । अथ गार्हपत्यम् । अथ_अन्वाहार्यपचनम् । सोब्रवीत् । प्रतीच्य् एषाꣳ श्रीर् अगात् । भद्रा भूत्वा पराभविष्यन्तीति ।

VERSE: 5 { 1.1.4.5} यस्यैवम् अग्निर् आधीयते । प्रतीच्य् अस्य श्रीर् एति । भद्रो भूत्वा पराभवति । साऽशृणोत् । देवा अग्निम् आदधत इति । तद् अगच्छत् । ते ऽन्वाहार्यपचनम् अग्र आदधत । अथ गार्हपत्यम् । अथ_आहवनीयम् । साऽब्रवीत्

VERSE: 6 { 1.1.4.6} प्राच्य् एषाꣳ श्रीर् अगात् । भद्रा भूत्वा सुवर्गं लोकम् एष्यन्ति । प्रजां तु न वेत्स्यन्त इति । यस्यैवम् अग्निर् आधीयते । प्राच्य् अस्य श्रीर् एति । भद्रो भूत्वा सुवर्गं लोकम् एति । प्रजां तु न विन्दते । साब्रवीद् इडा मनुम् । तथा वा अहं तव_अग्निम् आधास्यामि । यथा प्र प्रजया पशुभिर् मिथुनैर् जनिष्यसे ।

VERSE: 7 { 1.1.4.7} प्रत्य् अस्मिꣳल् लोके स्थास्यसि । अभि सुवर्गं लोकं जेष्यसीति । गार्हपत्यम् अग्र आदधात् । गार्हपत्यं वा अनु प्रजाः पशवः प्रजायन्ते । गार्हपत्येनैवास्मै प्रजां पशून् प्राजनयत् । अथ_अन्वाहार्यपचनम् । तिर्यङ्ङ् इव वा अयं लोकः । अस्मिन्न् एव तेन लोके प्रत्यतिष्ठत् । अथ_आहवनीयम् । 0 तेनैव सुवर्गं लोकम् अभ्यजयत् ।

VERSE: 8 { 1.1.4.8} यस्यैवम् अग्निर् आधीयते । प्र प्रजया पशुभिर् मिथुनैर् जायते । प्रत्य् अस्मिꣳल् लोके तिष्ठति । अभि सुवर्गं लोकं जयति । यस्य वा अयथादेवतम् अग्निर् आधीयते । आ देवताभ्यो वृश्च्यते । पापीयान् भवति । यस्य यथादेवतम् । न देवताभ्य आ वृश्च्यते । वसीयान् भवति । { 1.1.4.9} भृगूणां त्वा_अङ्गिरसां व्रतपते व्रतेन_आदधामीति भृग्वङ्गिरसाम् आदध्यात् । आदित्यानां त्वा देवानां व्रतपते व्रतेन_आदधामीत्य् अन्यासां ब्राह्मणीनां प्रजानाम् । वरुणस्य त्वा राज्ञो व्रतपते व्रतेन_आदधामीति राज्ञः । इन्द्रस्य त्वा_इन्द्रियेण व्रतपते व्रतेन_आदधामि_इति राजन्यस्य । मनोस् त्वा ग्रामण्यो व्रतपते व्रतेन_आदधामीति वैश्यस्य । ऋभूणां त्वा देवानां व्रतपते व्रतेन_आदधामि_इति रथकारस्य । यथादेवतम् अग्निर् आधीयते । न देवताभ्य आ वृश्च्यते । वसीयान् भवति ।

अनुवाक 5 अग्न्याधानम् VERSE: 1 { 1.1.5.1} प्रजापतिर् वाचः सत्यम् अपश्यत् । तेन_अग्निम् आधत्त । तेन वै स आर्ध्नोत् । भूर् भुवः सुवर् इत्य् आह । एतद् वै वाचः सत्यम् । य एतेन_अग्निम् आधत्ते । ऋध्नोत्य् एव । अथो सत्यप्राशूर् एव भवति । अथो य एवं विद्वान् अभिचरति । स्तृणुत एवैनम्

VERSE: 2 { 1.1.5.2} भूर् इत्य् आह । प्रजा एव तद् यजमानः सृजते । भुव इत्य् आह । अस्मिन्न् एव लोके प्रतितिष्ठति । सुवर् इत्य् आह । सुवर्ग एव लोके प्रतितिष्ठति । त्रिभिर् अक्षरैर् गार्हपत्यम् आदधाति । त्रय इमे लोकाः । एष्व् एवैनं लोकेषु प्रतिष्ठितम् आधत्ते । सर्वैः पञ्चभिर् आहवनीयम् ।

VERSE: 3 { 1.1.5.3} सुवर्गाय वा एष लोकाय_आधीयते । यद् आहवनीयः । सुवर्ग एवास्मै लोके वाचः सत्यꣳ सर्वम् आप्नोति । त्रिभिर् गार्हपत्यम् आदधाति । पञ्चभिर् आहवनीयम् । अष्टौ संपद्यन्ते । अष्टाक्षरा गायत्री ।गायत्रो ऽग्निः । यावान् एवाग्निः । तम् आधत्ते ।

VERSE: 4 { 1.1.5.4} प्रजापतिः प्रजा असृजत । ता अस्मात् सृष्टाः पराचीर् आयन्न् । ताभ्यो ज्योतिर् उदगृह्णात् । तं ज्योतिः पश्यन्तीः प्रजा अभि समावर्तन्त । उपरि_इव_अग्निम् उद्ग्रृह्णीयाद् उद्धरन् । ज्योतिर् एव पश्यन्तीः प्रजा यजमानम् अभि समावर्तन्ते । प्रजापतेर् अक्ष्य् अश्वयत् । तत् परापतत् । तद् अश्वो ऽभवत् । तद् अश्वस्य_अश्वत्वम् ।

VERSE: 5 { 1.1.5.5} एष वै प्रजापतिः । यद् अग्निः प्राजापत्यो ऽश्वः । यद् अश्वं पुरस्तान् नयति । स्वम् एव चक्षुः पश्यन् प्रजापतिर् अनूदेति । वज्री वा एषः । यद् अश्वः । यद् अश्वं पुरस्तान् नयति । जातान् एव भ्रातृव्यान् प्रणुदते । पुनर् आवर्तयति ।

VERSE: 6 { 1.1.5.6} जनिष्यमाणान् एव प्रतिनुदते । न्य् आहवनीयो गार्हपत्यम् अकामयत । नि गार्हपत्य आहवनीयम् । तौ विभाजं नाशक्नोत् । सो ऽश्वः पूर्ववाड् भूत्वा । प्राञ्चं पूर्वम् उदवहत् । तत् पूर्ववाहः पूर्ववाट्त्वम् । यद् अश्वं पुरस्तान् नयति । विभक्तिर् एवैनयोः सा । अथो नानावीर्याव् एवैनौ कुरुते ।

VERSE: 7 { 1.1.5.7} यद् उपर्य्_उपरि शिरो हरेत् । प्राणान् विच्छिन्द्यात् । अधोऽधः शिरो हरति । प्राणानां गोपीथाय । इयत्य् अग्रे हरति । अथ_इयत्य् अथ_इयति । त्रय इमे लोकाः । एष्व् एवैनं लोकेषु प्रतिष्ठितम् आधत्ते । प्रजापतिर् अग्निम् असृजत । सो ऽबिभेत् प्र मा धक्ष्यतीति ।

VERSE: 8 { 1.1.5.8} तस्य त्रेधा महिमानं व्यौहत् । शान्त्या अप्रदाहाय । यत् त्रेधा_अग्निर् आधीयते । महिमानम् एवास्य तद् व्यूहति । शान्त्या अप्रदाहाय । पुनर् आवर्तयति । महिमानम् एवास्य संदधाति । पशुर् वा एषः । यद् अश्वः । एष रुद्रः ।

VERSE: 9 { 1.1.5.9} यद् अग्निः । यद् अश्वस्य पदे ऽग्निम् आदध्यात् । रुद्राय पशून् अपिदध्यात् । अपशुर् यजमानः स्यात् । यन् नाऽऽक्रमयेत् । अनवरुद्धा अस्य पशवः स्युः । पार्श्वत आक्रमयेत् । यथाहितस्य_अग्नेर् अङ्गारा अभ्यववर्तेरन् । अवरुद्धा अस्य पशवो भवन्ति । न रुद्राय_अपिदधाति ।

VERSE: 10 { 1.1.5.10} त्रीणि हवीꣳषि निर्वपति । विराज एव विक्रान्तं यजमानो ऽनु विक्रमते । अग्नये पवमानाय । अग्नये पावकाय । अग्नये शुचये । यद् अग्नये पवमानाय निर्वपति । पुनात्य् एवैनम् । यद् अग्नये पावकाय । पूत एवास्मिन्न् अन्नाद्यं दधाति । यद् अग्नये शुचये । ब्रह्मवर्चसम् एवास्मिन्न् उपरिष्टाद् दधाति ।

अनुवाक 6 अग्न्याधानम् VERSE: 1 { 1.1.6.1} देवासुराः संयत्ता आसन्न् । ते देवा विजयम् उपयन्तः । अग्नौ वामं वसु सं न्यदधत । इदम् उ नो भविष्यति । यदि नो जेष्यन्ति_इति । तद् अग्निर् न_उत्सहम् अशक्नोत् । तत् त्रेधा विन्यदधात् । पशुषु तृतीयम् । अप्सु तृतीयम् । आदित्ये तृतीयम् ।

VERSE: 2 { 1.1.6.2} तद् देवा विजित्य । पुनर् अवारुरुत्सन्त । ते ऽग्नये पवमानाय पुरोडाशम् अष्टाकपालं निरवपन् । पशवो वा अग्निः पवमानः । यद् एव पशुष्व् आसीत् । तत् तेन_अवारुन्धत । ते ऽग्नये पावकाय । आपो वा अग्निः पावकः । यद् एव_अप्स्व् आसीत् । तत् तेन_अवारुन्धत ।

VERSE: 3 { 1.1.6.3} ते ऽग्नये शुचये । असौ वा आदित्यो ऽग्निः शुचिः । यद् एवाऽऽदित्य आसीत् । तत् तेन_अवारुन्धत । ब्रह्मवादिनो वदन्ति । तनुवो वावैता अग्न्याधेयस्य । आग्नेयो वा अष्टाकपालो ऽग्न्याधेयम् इति । यत् तं निर्वपेत् । न_एतानि । यथाऽऽत्मा स्यात् ।

VERSE: 4 { 1.1.6.4} न_अङ्गानि । तादृग् एव तत् । यद् एतानि निर्वपेत् । न तम् । यथाङ्गानि स्युः । न_आत्मा । तादृग् एव तत् । उभयानि सह निरुप्याणि । यज्ञस्य सात्मत्वाय । उभयं वा एतस्य_इन्द्रियं वीर्यम् आप्यते ।

VERSE: 5 { 1.1.6.5} यो ऽग्निम् आधत्ते । ऐन्द्राग्नम् एकादशकपालम् अनु निर्वपेत् । आदित्यं चरुम् । इन्द्राग्नी वै देवानाम् अयातयामानौ । ये एव देवते अयातयाम्नी । ताभ्याम् एवास्मा इन्द्रियं वीर्यम् अवरुन्द्धे । आदित्यो भवति । इयं वा अदितिः । अस्याम् एव प्रतितिष्ठति । धेन्वै वा एतद् रेतः ।

VERSE: 6 { 1.1.6.6} यद् आज्यम् । अनडुहस् तण्डुलाः । मिथुनम् एव_अवरुन्द्धे । घृते भवति । यज्ञस्य_अलूक्षान्तत्वाय । चत्वार आर्षेयाः । प्राश्नन्ति । दिशाम् एव ज्योतिषि जुहोति । पशवो वा एतानि हवीꣳषि । एष रुद्रः । यद् अग्निः ।

VERSE: 7 { 1.1.6.7} यत् सद्य एतानि हवीꣳषि निर्वपेत् । रुद्राय पशून् अपि दध्यात् । अपशुर् यजमानः स्यात् । यन् न_अनुनिर्वपेत् । अनवरुद्धा अस्य पशवः स्युः । द्वादशसु रात्रीष्व् अनु निर्वपेत् । संवत्सरप्रतिमा वै द्वादश रात्रयः । संवत्सरेणैवास्मै रुद्रꣳ शमयित्वा । पशून् अवरुन्द्धे । यद् एकम्_एकम् एतानि हवीꣳषि निर्वपेत् ।

VERSE: 8 { 1.1.6.8} यथा त्रीण्य् आवपनानि पूरयेत् । तादृक् तत् । न प्रजननम् उच्छिꣳषेत् । एकं निरुप्य । उत्तरे समस्येत् । तृतीयम् एवास्मै लोकम् उच्छिꣳषति प्रजननाय । तं प्रजया पशुभिर् अनु प्रजायते । अथो यज्ञस्यैवैषा_अभिक्रान्तिः । रथचक्रं प्रवर्तयति । मनुष्यरथेनैव देवरथं प्रत्यवरोहति ।

VERSE: 9 { 1.1.6.9} ब्रह्मवादिनो वदन्ति । होतव्यम् अग्निहोत्रा3ं न होतव्या3म् इति । यद् यजुषा जुहुयात् । अयथापूर्वम् आहुतीर्जुहुयात् । यन् न जुहुयात् । अग्निः पराभवेत् । तूष्णीम् एव होतव्यम् । यथापूर्वम् आहुतीर्जुहोति । न_अग्निः पराभवति । अग्नीधे ददाति ।

VERSE: 10 { 1.1.6.10} अग्निमुखान् एव_ऋतून् प्रीणाति । उपबर्हणं ददाति । रूपाणाम् अवरुद्ध्यै । अश्वं ब्रह्मणे । इन्द्रियम् एव_अवरुन्धे । धेनुꣳ होत्रे । आशिष एव_अवरुन्द्धे । अनड्वाहम् अध्वर्यवे । वह्निर् वा अनड्वान् । वह्निर् अध्वर्युः ।

VERSE: 11 { 1.1.6.11} वह्निनैव वह्नि यज्ञस्य_अवरुन्द्धे । मिथुनौ गावौ ददाति । मिथुनस्य_अवरुद्ध्यै । वासो ददाति । सर्वदेवत्यं वै वासः । सर्वा एव देवताः प्रीणाति । आ द्वादशभ्यो ददाति । द्वादश मासाः संवत्सरः । संवत्सर एव प्रतितिष्ठति । काममूर्ध्वं देयम् । अपरिमितस्य_अवरुद्ध्यै ।

अनुवाक 7 अग्न्याधानम् VERSE: 1 { 1.1.7.1} घर्मः शिरस् तद् अयम् अग्निः । संप्रियः पशुभिर् भुवत् । छर्दिस् तोकाय तनयाय यच्छ । वातः प्राणस्तद् अयम् अग्निः । संप्रियः पशुभिर् भुवत् । स्वदितं तोकाय तनयाय पितुं पच । प्राचीम् अनु प्रदिशं प्रेहि विद्वान् । अग्नेर् अग्ने पुरो अग्निर् भवेह । विश्वा आशा दीद्यानो विभाहि । ऊर्जं नो धेहि द्विपदे चतुष्पदे ।

VERSE: 2 { 1.1.7.2} अर्कश् चक्षुस् तद् असौ सूर्यस् तद् अयम् अग्निः । संप्रियः पशुभिर् भुवत् । यत् ते शुक्र शुक्रं वर्चः शुक्रा तनूः । शुक्रं ज्योतिर् अजस्रम् । तेन मे दीदिहि तेन त्वा_आदधे । अग्निनाऽग्ने ब्रह्मणा । आनशे व्यानशे सर्वम् आयुर् व्यानशे । ये ते अग्ने शिवे तनुवौ । विराट् च स्वराट् च । ते मा विशतां ते मा जिन्वताम् ।

VERSE: 3 { 1.1.7.3} ये ते अग्ने शिवे तनुवौ । सम्राट् च_अभिभूश् च । ते मा विशतां ते मा जिन्वताम् । ये ते अग्ने शिवे तनुवौ । विभूश् च परिभूश् च । ते मा विशतां ते मा जिन्वताम् । ये ते अग्ने शिवे तनुवौ । प्रभ्वी च प्रभूतिश् च । ते मा विशतां ते मा जिन्वताम् । यास् ते अग्ने शिवास् तनुवः । ताभिस् त्वा_आदधे । यास् ते अग्ने घोरास् तनुवः । ताभिर् अमुं गच्छ ।

अनुवाक 8 अग्न्याधानम् VERSE: 1 { 1.1.8.1} इमे वा एते लोका अग्नयः । ते यद् अव्यावृत्ता आधीयेरन् । शोचयेयुर् यजमानम् । घर्मः शिर इति गार्हपत्यम् आदधाति । वातः प्राण इत्य् अन्वाहार्यपचनम् । अर्कश् चक्षुर् इत्य् आहवनीयम् । तेनैवैनान् व्यावर्तयति । तथा न शोचयन्ति यजमानम् । रथन्तरम् अभिगायते गार्हपत्य आधीयमाने । राथन्तरो वा अयं लोकः ।

VERSE: 2 { 1.1.8.2} अस्मिन्न् एवैनं लोके प्रतिष्ठितम् आधत्ते । वामदेव्यम् अभिगायत उद्ध्रियमाणे । अन्तरिक्षं वै वामदेव्यम् । अन्तरिक्ष एवैनं प्रतिष्ठितम् आधत्ते । अथो शान्तिर् वै वामदेव्यम् । शान्तम् एवैनं पशव्यम् उद्धरते । बृहद् अभिगायत आहवनीय आधीयमाने । बार्हतो वा असौ लोकः । अमुष्मिन्न् एवैनं लोके प्रतिष्ठितम् आधत्ते । प्रजापतिर् अग्निम् असृजत ।

VERSE: 3 { 1.1.8.3} सो ऽश्वो वारो भूत्वा पराङ् ऐत् । तं वारवन्तीयेन_अवारयत । तद् वारवन्तीयस्य वारवन्तीयत्वम् । श्यैतेन श्येती अकुरुत । तच् छ्यैतस्य श्यैतत्वम् । यद् वारवन्तीयम् अभिगायते । वारयित्वा_एवैनं प्रतिष्ठितम् आधत्ते । श्यैतेन श्येती कुरुते । घर्मः शिर इति गार्हपत्यम् आदधाति । सशीर्षाणम् एवैनम् आधत्ते ।

VERSE: 4 { 1.1.8.4} उप_एनम् उत्तरो यज्ञो नमति । रुद्रो वा एषः । यद् अग्निः । स आधीयमान ईश्वरो यजमानस्य पशून् हिꣳसितोः । संप्रियः पशुभिर् भुवद् इत्य् आह । पशुभिर् एवैनꣳ संप्रियं करोति । पशूनाम् अहिꣳसायै । छर्दिस् तोकाय तनयाय यच्छ_इत्य् आह । आशिषम् एवैताम् आशास्ते । वातः प्राण इत्य् अन्वाहार्यपचनम् ।

VERSE: 5 { 1.1.8.5} सप्राणम् एवैनम् आधत्ते । स्वदितं तोकाय तनयाय पितुं पचेत्य् आह । अन्नम् एवास्मै स्वदयति । प्राचीम् अनु प्रदिशं प्रेहि विद्वान् इत्य् आह । विभक्तिर् एवैनयोः सा । अथो नानावीर्याव् एवैनौ कुरुते । ऊर्जं नो धेहि द्विपदे चतुष्पद इत्य् आह । आशिषम् एवैताम् आशास्ते । अर्कश् चक्षुर् इत्य् आहवनीयम् । अर्को वै देवानाम् अन्नम् ।

VERSE: 6 { 1.1.8.6} अन्नम् एव_अवरुन्धे । तेन मे दीदिहि_इत्य् आह । समिन्ध एवैनम् । आनशे व्यानश इति त्रिर् उदिङ्गयति । त्रय इमे लोकाः । एष्व् एवैनं लोकेषु प्रतिष्ठितम् आधत्ते । तत् तथा न कार्यम् । वीङ्गितम् अप्रतिष्ठितम् आदधीत । उद्धृत्य_एव_आधाय_अभिमन्त्र्यः । अवीङ्गितम् एवैनं प्रतिष्ठितम् आधत्ते । विराट् च स्वराट् च यास् ते अग्ने शिवास् तनुवस् ताभिस् त्वा_आदध इत्य् आह । एता वा अग्नेः शिवास् तनुवः । ताभिर् एवैनꣳ समर्धयति । यास् ते अग्ने घोरास् तनुवस् ताभिर् अमुं गच्छेति ब्रूयाद् यं द्विष्यात् । ताभिर् एवैनं पराभावयति ।

अनुवाक 9 अग्न्याधानम् VERSE: 1 { 1.1.9.1} शमीगर्भाद् अग्निं मन्थति । एषा वा अग्नेर् यज्ञिया तनूः । ताम् एवास्मै जनयति । अदितिः पुत्रकामा । साध्येभ्यो देवेभ्यो ब्रह्मौदनम् अपचत् । तस्या उच्छेषणम् अददुः । तत् प्राऽऽश्नात् । सा रेतो ऽधत्त । तस्यै धाता च_अर्यमा च_अजायेताम् । सा द्वितीयम् अपचत्

VERSE: 2 { 1.1.9.2} तस्या उच्छेषणम् अददुः । तत् प्राऽऽश्नात् । सा रेतो ऽधत्त तस्यै मित्रश् च वरुणश् च_अजायेताम् । सा तृतीयम् अपचत् । तस्या उच्छेषणम् अददुः । तत् प्राऽऽश्नात् । सा रेतो ऽधत्त । तस्या अꣳशश् च भगश् च_अजायेताम् । सा चतुर्थम् अपचत् ।

VERSE: 3 { 1.1.9.3} तस्या उच्छेषणम् अददुः । तत् प्राऽऽश्नात् । सा रेतो ऽधत्त । तस्या इन्द्रश् च विवस्वाꣳश् चाजायेताम् । ब्रह्मौदनं पचति । रेत एव तद् दधाति । प्राश्नन्ति ब्राह्मणा ओदनम् । यद् आज्यम् उच्छिष्यते । तेन समिधो ऽभ्यज्य_आदधाति । उच्छेषणाद् वा अदिती रेतो ऽधत्त ।

VERSE: 4 { 1.1.9.4} उच्छेषणाद् एव तद् रेतो धत्ते । अस्थि वा एतत् । यत् समिधः । एतद् रेतः । यद् आज्यम् । यद् आज्येन समिधो ऽभ्यज्य_आदधाति । अस्थ्य् एव तद् रेतसि दधाति । तिस्र आदधाति मिथुनत्वाय । इयतीर् भवन्ति । प्रजापतिना यज्ञमुखेन संमिताः

VERSE: 5 { 1.1.9.5} इयतीर् भवन्ति । यज्ञपरुषा संमिताः । इयतीर् भवन्ति । एतावद् वै पुरुषे वीर्यम् । वीर्यसंमिताः । आर्द्रा भवन्ति । आर्द्रम् इव हि रेतः सिच्यते । चित्रियस्य_अश्वत्थस्य_आदधाति । चित्रम् एव भवति । घृतवतीभिर् आदधाति ।

VERSE: 6 { 1.1.9.6} एतद् वा अग्नेः प्रियं धाम । यद् घृतम् । प्रियेणैवैनं धाम्ना समर्धयति । अथो तेजसा । गायत्रीभिर् ब्राह्मणस्य_आदध्यात् । गायत्रच्छन्दा वै ब्राह्मणः । स्वस्य च्छन्दसः प्रत्ययनस्त्वाय । त्रिष्टुग्भी राजन्यस्य । त्रिष्टुप्छन्दा वै राजन्यः । स्वस्य छन्दसः प्रत्ययनस्त्वाय ।

VERSE: 7 { 1.1.9.7} जगतीभिर् वैश्यस्य । जगतीछन्दा वै वैश्यः । स्वस्य छन्दसः प्रत्ययनस्त्वाय । तꣳ संवत्सरं गोपायेत् । संवत्सरꣳ हि रेतो हितं वर्धते । यद्य् एनꣳ संवत्सरे नोपनमेत् । समिधः पुनर् आदध्यात् । रेत एव तद् धितं वर्धमानम् एति । न माꣳसम् अश्नीयात् । 0 न स्त्रियम् उपेयात् { उपेयात्} ।

VERSE: 8 { 1.1.9.8} यन् {आनंदा. यन्} माꣳसम् अश्नीयात् । यत् स्त्रियम् उपेयात् । निर्वीर्यः स्यात् । न_एनम् अग्निर् उपनमेत् । श्व आधास्यमानो ब्रह्मौदनं पचति । आदित्या वा इत उत्तमाः सुवर्गं लोकम् आयन्न् । ते वा इतो यन्तं प्रतिनुदन्ते । एते खलु वाव_आदित्याः । यद् ब्राह्मणाः । तैर् एव सन्त्वं गच्छति ।

VERSE: 9 { 1.1.9.9} न_एनं प्रतिनुदन्ते । ब्रह्मवादिनो वदन्ति । क्वा सः । अग्निः कार्यः । यो ऽस्मै प्रजां पशून् प्रजनयति_इति । शल्कैस् ताꣳ रात्रिम् अग्निम् इन्धीत । तस्मिन्न् उपव्युषम् अरणी निष्टपेत् । यथा_ऋषभाय वाशिता न्याविच्छायति । तादृग् एव तत् । अपोदूह्य भस्माग्निं मन्थति ।

VERSE: 10 { 1.1.9.10} सैव साऽग्नेः संततिः । तं मन्थित्वा प्राञ्चम् उद्धरति । संवत्सरम् एव तद् रेतो हितं प्रजनयति । अनाहितस् तस्य_अग्निर् इत्य् आहुः । यः समिधो ऽनाधाय_अग्निम् आधत्त इति । ताः संवत्सरे पुरस्ताद् आदध्यात् । संवत्सराद् एवैनम् अवरुध्य_आधत्ते । यदि संवत्सरे नादध्यात् । द्वादश्यां पुरस्ताद् आदध्यात् संवत्सरप्रतिमा वै द्वादश रात्रयः । संवत्सरम् एवास्य_आहिता भवन्ति । यदि द्वादश्यां न_आदध्यात् । त्र्यहे पुरस्ताद् आदध्यात् । आहिता एवास्य भवन्ति ।

अनुवाक 10 अग्न्याधानम् VERSE: 1 { 1.1.10.1} प्रजापतिः प्रजा असृजत । स रिरिचानो ऽमन्यत । स तपो ऽतप्यत । स आत्मन् वीर्यम् अपश्यत् । तद् अवर्धत । तद् अस्मात् सहसोर्ध्वम् असृज्यत । सा विराड् अभवत् । तां देवासुरा व्यगृह्णत । सो ऽब्रवीत् प्रजापतिः । मम वा एषा ।

VERSE: 2 { 1.1.10.2} दोहा एव युष्माकम् इति । सा ततः प्राच्य् उदक्रामत् । तत् प्रजापतिः पर्यगृह्णात् । अथर्व पितुं मे गोपाय_इति । सा द्वितीयम् उदक्रामत् । तत् प्रजापतिः पर्यगृह्णात् । नर्य प्रजां मे गोपाय_इति । सा तृतीयम् उदक्रामत् । तत् प्रजापतिः पर्यगृह्णात् । शꣳस्य पशून् मे गोपाय_इति ।

VERSE: 3 { 1.1.10.3} सा चतुर्थम् उदक्रामत् । तत् प्रजापतिः पर्यगृह्णात् । सप्रथ सभां मे गोपायेति । सा पञ्चमम् उदक्रामत् । तत् प्रजापतिः पर्यगृह्णात् । अहे बुध्निय मन्त्रं मे गोपाय_इति । अग्नीन् वाव सा तान् व्यक्रमत । तान् प्रजापतिः पर्यगृह्णात् । अथो पङ्क्तिम् एव । पङ्क्तिर् वा एषा ब्राह्मणे प्रविष्टा ।

VERSE: 4 { 1.1.10.4} ताम् आत्मनो ऽधि निर्मिमीते । यद् अग्निर् आधीयते । तस्माद् एतावन्तो ऽग्नय आधीयन्ते । पाङ्क्तं वा इदꣳ सर्वम् । पाश्रूनैव पाङ्क्तꣳ स्पृणोति । अथर्व पितुं मे गोपाय_इत्य् आह । अन्नम् एवैतेन स्पृणोति । नर्य प्रजां मे गोपाय_इत्य् आह । प्रजाम् एवतेन स्पृणोति । शꣳस्य पशून् मे गोपाय_इत्य् आह ।

VERSE: 5 { 1.1.10.5} पशून् एवैतेन स्पृणोति । सप्रथ सभां मे गोपाय_इत्य् आह । सभाम् एवैतेन_इन्द्रियꣳ स्पृणोति । अहे बुध्निय मन्त्रं मे गोपाय_इत्य् आह । मन्त्रम् एवैतेन श्रियꣳ स्पृणोति । यद् अन्वाहार्यपचने ऽन्वाहार्यं पचन्ति । तेन सो ऽस्य_अभीष्टः प्रीतः । यद् गार्हपत्य आज्यम् अधिश्रयन्ति संपत्नीर् याजयन्ति । तेन सो ऽस्य_अभीष्टः प्रीतः । यद् आहवनीये जुह्वति ।

VERSE: 6 { 1.1.10.6} तेन सो ऽस्य_अभीष्टः प्रीतः । यत् सभायां विजयन्ते । तेन सो ऽस्य_अभीष्टः प्रीतः । यद् आवसथे ऽन्नꣳ हरन्ति । तेन सो ऽस्य_अभीष्टः प्रीतः । तथाऽस्य सर्वे प्रीता अभीष्टा आधीयन्ते । प्रवसथम् एष्यन्न् एवम् उपतिष्ठेत_एकम्_एकम् । यथा ब्राह्मणाय गृहे वासिने परिदाय गृहान् एति । तादृग् एव तत् । पुनर् आगत्य_उपतिष्ठते । साऽभागेयम् एवैषां तत् । सा तत ऊर्ध्वा_आरोहत् । सा रोहिण्य् अभवत् । तद् रोहिण्यै रोहिणित्वम् । रोहिण्याम् अग्निम् आदधीत । स्व एवैनं योनौ प्रतिष्ठितम् आधत्ते । ऋध्नोत्य् एनेन ।


प्रपाठक: 2 गवामयनशेषः अनुवाक 1 गवामयनशेषः VERSE: 1 { 1.2.1.1} उद्धन्यमानम् अस्या अमेध्यम् । अप पाप्मानं यजमानस्य हन्तु । शिवा नः सन्तु प्रदिशश् चतस्रः । शं नो माता पृथिवी तोकसाता । शं नो देवीर् अभिष्टये । आपो भवन्तु पीतये । शं योर् अभि स्रवन्तु नः । वैश्वानरस्य रूपम् । पृथिव्यां परिस्रसा । ` स्योनम् आविशन्तु नः ।

VERSE: 2 { 1.2.1.2} यद् इदं दिवो यद् अदः पृथिव्याः । संजज्ञाने रोदसी संबभूवतुः । ऊषान् कृष्णम् अवतु कृष्णमूषाः । इह_उभयोर् यज्ञियम् आगमिष्ठाः । ऊतीः कुर्वाणो यत् पृथिवीम् अचरः । गुहाकारम् आखुरूपं प्रतीत्य । तत् ते न्यक्तम् इह संभरन्तः । शतं जीवेम शरदः सवीराः । ऊर्जं पृथिव्या रसम् आभरन्तः । शतं जीवेम शरदः पुरूचीः ।

VERSE: 3 { 1.2.1.3} वम्रीभिर् अनुवित्तं गुहासु । श्रोत्रं त उर्व्य् अबधिरा भवामः । प्रजापतिसृष्टानां प्रजानाम् । क्षुधा_उपहत्यै सुवितं नो अस्तु । उपप्रभिन्नम् इषमूर्जं प्रजाभ्यः । सूदं गृहेभ्यो रसम् आभरामि । यस्य रूपं बिभ्रद् इमाम् अविन्दत् । गुहा प्रविष्टाꣳ सरिरस्य मध्ये । तस्येदं विहतम् आभरन्तः । अच्छंबट्कारम् अस्यां विधेम ।

VERSE: 4 { 1.2.1.4} यत् पर्यपश्यत् सरिरस्य मध्ये । उर्वीम् अपश्यज् जगतः प्रतिष्ठाम् । तत् पुष्करस्य_आयतनाद् धि जातम् । पर्णं पृथिव्याः प्रथनꣳ हरामि । याभिर् अदृꣳहज् जगतः प्रतिष्ठाम् । उर्वीम् इमां विश्वजनस्य भर्त्रीम् । ता नः शिवाः शर्कराः सन्तु सर्वाः । अग्ने रेतश् चन्द्रꣳ हिरण्यम् । अद्भ्यः संभूतम् अमृतं प्रजासु । तत् संभरन्न् उत्तरतो निधाय ।

VERSE: 5 { 1.2.1.5} अतिप्रयच्छन् दुरितिं तरेयम् । अश्वो रूपं कृत्वा यद् अश्वत्थे ऽतिष्ठः । संवत्सरं देवेभ्यो निलाय । तत् ते न्यक्तम् इह संभरन्तः । शतं जीवेम शरदः सवीराः । ऊर्जः पृथिव्या अध्युत्थितो ऽसि । वनस्पते शतवल्शो विरोह । त्वया वयम् इषमूर्जं मदन्तः । रायस् पोषेण सम् इषा मदेम । गायत्रिया ह्रियमाणस्य यत् ते ।

VERSE: 6 { 1.2.1.6} पर्णम् अपतत् तृतीयस्यै दिवो ऽधि । सो ऽयं पर्णः सोमपर्णाद् धि जातः । ततो हरामि सोमपीथस्य_अवरुद्ध्यै । देवानां ब्रह्मवादं वदतां यत् । उपाशृणोः सुश्रवा वै श्रुतो ऽसि । ततो माम् आविशतु ब्रह्मवर्चसम् । तत् संभरꣳस् तद् अवरुन्धीय साक्षात् । यया ते सृष्टस्य_अग्नेः । हेतिम् अशमयत् प्रजापतिः ।ताम् इमाम् अप्रदाहाय ।

VERSE: 7 { 1.2.1.7} शमीꣳ शान्त्यै हराम्य् अहम् । यत् ते सृष्टस्य यतः । विकङ्कतं भा आर्च्छज् जातवेदः । तया भासा संमितः । उरुं नो लोकम् अनु प्रभाहि । यत् ते तान्तस्य हृदयम् आच्छिन्दञ् जातवेदः । मरुतो ऽद्भिस् तमयित्वा । एतत् ते तद् अशनेः सं भरामि । सात्मा अग्ने सहृदयो भवेह । चित्रियाद् अश्वत्थात् संभृता बृहत्यः ।

VERSE: 8 { 1.2.1.8} शरीरम् अभि सꣳस्कृताः स्थ । प्रजापतिना यज्ञमुखेन संमिताः । तिस्रस् त्रिवृद्भिर् मिथुनाः प्रजात्यै । अश्वत्थाद् धव्यवाहाद् धि जाताम् । अग्नेस् तनूं यज्ञियाꣳ संभरामि । शान्तयोनिꣳ शमीगर्भम् । अग्नये प्रजनयितवे । यो अश्वत्थः शमीगर्भः । आरुरोह त्वे सचा । तं ते हरामि ब्रह्मणा ।

VERSE: 9 { 1.2.1.9} यज्ञियैः केतुभिः सह । यं त्वा समभरञ् जातवेदः । यथाशरीरं भूतेषु न्यक्तम् । स संभृतः सीद शिवः प्रजाभ्यः । उरुं नो लोकम् अनुनेषि विद्वान् । प्रवेधसे कवये मेध्याय । वचो वन्दारु वृषभाय वृष्णे । यतो भयम् अभयं तन् नो अस्तु । अव देवान् यजे हेड्यान् । समिधाग्निं दुवस्यत ।

VERSE: 10 { 1.2.1.10} घृतैर् बोधयत_अतिथिम् । आस्मिन् हव्या जुहोतन । उप त्वाग्ने हविष्मतीः । घृताचीर् यन्तु हर्यत । जुषस्व समिधो मम । तं त्वा समिद्भिर् अङ्गिरः । घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्य । समिध्यमानः प्रथमो नु धर्मः । समक्तुभिर् अज्यते विश्ववारः ।

VERSE: 11 { 1.2.1.11} शोचिष्केशो घृतनिर्णिक् पावकः । सुयज्ञो अग्निर् यजथाय देवान् । घृतयोनिर् अग्निः । घृतैः समिद्धो घृतम् अस्य_अन्नम् । घृतप्रुषस् त्वा सरितो वहन्ति । घृतं पिबन् सुयजा यक्षि देवान् । आयुर्दा अग्ने हविषो जुषाणः । घृतप्रतीको घृतयोनिर् एधि । घृतं पीत्वा मधु चारु गव्यम् । पितेव पुत्रम् अभिरक्षताद् इमम् ।

VERSE: 12 { 1.2.1.12} त्वाम् अग्ने समिधानं यविष्ठ । देवा दूतं चक्रिरे हव्यवाहम् । उरुज्रयसं घृतयोनिम् आहुतम् । त्वेषं चक्षुर् दधिरे चोदयन्वति । त्वाम् अग्ने प्रदिव आहुतं घृतेन । सुम्नायवः सुषमिधा समीधिरे । स वावृधान ओषधीभिर् उक्षितः । उरु ज्रयाꣳसि पार्थिवा वितिष्ठसे । घृतप्रतीकं च ऋतस्य धूर्षदम् । अग्निं मित्रं न समिधान ऋञ्जते ।

VERSE: 13 { 1.2.1.13} इन्धानो अक्रो विदथेषु दीद्यत् । शुक्रवर्णाम् उद् उ नो यꣳसते धियम् । प्रजा अग्ने संवासय । आशाश् च पशुभिः सह । राष्ट्राण्य् अस्मा आधेहि । यान्य् आसन् सवितुः सवे । मही विश्पत्नी सदने ऋतस्य । अर्वाची एतं धरुणे रयीणाम् । अन्तर्वत्नी जन्यं जातवेदसम् । अध्वराणां जनयथः पुरोगाम् ।

VERSE: 14 { 1.2.1.14} आरोहतं दशतꣳ शक्वरीर् मम । ऋतेन_अग्न आयुषा वर्चसा सह । ज्योग् जीवन्त उत्तराम् उत्तराꣳ समाम् । दर्शम् अहं पूर्णमासं यज्ञं यथा यजै । ऋत्वियवती स्थो अग्निरेतसौ । गर्भं दधाथां ते वाम् अहं ददे । तत् सत्यं यद् वीरं बिभृथः । वीरं जनयिष्यथः । ते मत् प्रातः प्रजनिष्येथे । ते मा प्रजाते प्रजनयिष्यथः ।

VERSE: 15 { 1.2.1.15} प्रजया पशुभिर् ब्रह्मवर्चसेन सुवर्गे लोके । अनृतात् सत्यम् उपैमि । मानुषाद् दैव्यम् उपैमि । दैवीं वाचं यच्छामि । शल्कैर् अग्निम् इन्धानः । उभौ लोकौ सनेमहम् । उभयोर् लोकयोर् ऋद्ध्वा । अति मृत्युं तराम्य् अहम् । जातवेदो भुवनस्य रेतः । इह सिञ्च तपसो यज् जनिष्यते ।

VERSE: 16 { 1.2.1.16} अग्निम् अश्वत्थाद् अधि हव्यवाहम् । शमीगर्भाज् जनयन् यो मयोभूः । अयं ते योनिर् ऋत्वियः । यतो जातो अरोचथाः । तं जानन्न् अग्न आरोह । अथा नो वर्धया रयिम् । अपेत वीत वि च सर्पत_अतः । ये ऽत्र स्थ पुराणा ये च नूतनाः । अदाद् इदं यमो ऽवसानं पृथिव्याः । अक्रन्न् इमं पितरो लोकम् अस्मै ।

VERSE: 17 { 1.2.1.17} अग्नेर् भस्म_अस्य् अग्नेः पुरीषम् असि । संज्ञानम् असि कामधरणम् । मयि ते कामधरणं भूयात् । सं वः सृजामि हृदयानि । सꣳसृष्टं मनो अस्तु वः । सꣳसृष्टः प्राणो अस्तु वः । सं या वः प्रियास् तनुवः । सं प्रिया हृदयानि वः । आत्मा वो अस्तु सं प्रियः । सं प्रियास् तनुवो मम ।

VERSE: 18 { 1.2.1.18} कल्पेतां द्यावापृथिवी । कल्पन्ताम् आप ओषधीः । कल्पन्ताम् अग्नयः पृथक् । मम ज्यैष्ठ्याय सव्रताः । ये ऽग्नयः समनसः । अन्तरा द्यावापृथिवी । वासन्तिकाव् ऋतू अभि कल्पमानाः । इन्द्रम् इव देवा अभि संविशन्तु । दिवस् त्वा वीर्येण । पृथिव्यै महिम्ना ।

VERSE: 19 { 1.2.1.19} अन्तरिक्षस्य पोषेण । सर्वपशुम् आदधे । अजीजनन्न् अमृतं मर्त्यासः । अस्रेमाणं तरणिं वीडुजम्भम् । दश स्वसारो अग्रुवः समीचीः । पुमाꣳसं जातम् अभि सꣳरभन्ताम् । प्रजापतेस् त्वा प्राणेन_अभि प्राणिमि । पूष्णः पोषेण मह्यम् । दीर्घायुत्वाय शतशारदाय । शतꣳ शरद्भ्य आयुषे वर्चसे ।

VERSE: 20 { 1.2.1.20} जीवात्वै पुण्याय । अहं त्वद् अस्मि मद् असि त्वम् एतत् । मम_असि योनिस् तव योनिर् अस्मि । ममैव सन् वह हव्यान्य् अग्ने । पुत्रः पित्रे लोककृज् जातवेदः । प्राणे त्वा_अमृतम् आदधामि । अन्नादम् अन्नाद्याय । गोप्तारं गुप्त्यै । सुगार्हपत्यो विदहन्न् अरातीः । उषसः श्रेयसीश्श्रेयसीर् दधत्

VERSE: 21 { 1.2.1.21} अग्ने सपत्नाꣳ अप बाधमानः । रायस् पोषम् इषमूर्जम् अस्मासु धेहि । इमा उ माम् उप तिष्ठन्तु रायः । आभिः प्रजाभिर् इह सं वसेय । इहो इडा तिष्ठतु विश्वरूपी । मध्ये वसोर् दीदिहि जातवेदः । ओजसे बलाय त्वा_उद्यच्छे । वृषणे शुष्माय_आयुषे वर्चसे । सपत्नतूर् असि वृत्रतूः । यस् ते देवेषु महिमा सुवर्गः ।

VERSE: 22 { 1.2.1.22} यस् त आत्मा पशुषु प्रविष्टः । पुष्टिर् या ते मनुष्येषु पप्रथे । तया {आनंदा. तया ।} नो अग्ने जुषमाण एहि । दिवः पृथिव्याः पर्य् अन्तरिक्षात् । वातात् पशुभ्यो अध्य् ओषधीभ्यः । यत्र_यत्र जातवेदः संबभूथ । ततो नो अग्ने जुषमाण एहि । प्राचीम् अनु प्रदिशं प्रेहि विद्वान् । अग्नेर् अग्ने पुरो अग्निर् भवेह । विश्वा आशा दीद्यानो वि भाहि ।

VERSE: 23 { 1.2.1.23} ऊर्जं नो धेहि द्विपदे चतुष्पदे । अन्व् अग्निर् उषसाम् अग्रम् अख्यत् । अन्व् अहानि प्रथमो जातवेदाः । अनु सूर्यस्य पुरुत्रा च रश्मीन् । अनु द्यावापृथिवी आततान । विक्रमस्व महाꣳ असि । वेदिषन् मानुषेभ्यः । त्रिषु लोकेषु जागृहि । यद् इदं दिवो यद् अदः पृथिव्याः । संविदाने रोदसी संबभूवतुः ।

VERSE: 24 { 1.2.1.24} तयोः पृष्ठे सीदतु जातवेदाः । शंभूः प्रजाभ्यस् तनुवे स्योनः । प्राणं त्वामृत आदधामि । अन्नादम् अन्नाद्याय । गोप्तारं गुप्त्यै । यत् ते शुक्र शुक्रं वर्चः शुक्रा तनूः । शुक्रं ज्योतिर् अजस्रम् । तेन मे दीदिहि तेन त्वादधे । अग्निनाग्ने ब्रह्मणा । आनशे व्यानशे सर्वम् आयुर् व्यानशे ।

VERSE: 25 { 1.2.1.25} नर्य प्रजां मे गोपाय । अमृतत्वाय जीवसे । जातां जनिष्यमाणां च । अमृते सत्ये प्रतिष्ठिताम् । अथर्व पितुं मे गोपाय । रसम् अन्नम् इहायुषे । अदब्धायो ऽशीततनो । अविषं नः पितुं कृणु । शꣳस्य पशून् मे गोपाय । द्विपादो ये चतुष्पदः ।

VERSE: 26 { 1.2.1.26} अष्टाशफाश् च य इहाग्ने । ये चैकशफा आशुगाः । सप्रथ सभां मे गोपाय । ये च सभ्याः सभासदः । तान् इन्द्रियावतः कुरु । सर्वमायुर् उपासताम् । अहे बुध्निय मन्त्रं मे गोपाय । यम् ऋषयस्त्रैविदा विदुः । ऋचः सामानि यजूꣳषि । सा हि श्रीर् अमृता सताम् ।

VERSE: 27 { 1.2.1.27} चतुःशिखण्डा युवतिः सुपेशाः । घृतप्रतीका भुवनस्य मध्ये । मर्मृज्यमाना महते सौभगाय । मह्यं धुक्ष्व यजमानाय कामान् । इहैव सन् तत्र सतो वो अग्नयः । प्राणेन वाचा मनसा बिभर्मि । तिरो मा सन्तम् आयुर् मा प्रहासीत् । ज्योतिषा वो वैश्वानरेणोपतिष्ठे । पञ्चधाग्नीन् व्यक्रामत् । विराट् सृष्टा प्रजापतेः । ऊर्ध्वाऽऽरोहद्रोहिणी । योनिर् अग्नेः प्रतिष्ठितिः ।

अनुवाक 2 गवामयनशेषः VERSE: 1 { 1.2.2.1} नवैतान्य् अहानि भवन्ति । नव वै सुवर्गा लोकाः । यद् एतान्य् अहान्य् उपयन्ति । नवस्व् एव तत् सुवर्गेषु लोकेषु सत्रिणः प्रतितिष्ठन्तो यन्ति । अग्निष्टोमाः परःसामानः कार्या इत्य् आहुः । अग्निष्टोमसंमितः सुवर्गो लोक इति । द्वादशाग्निष्टोमस्य स्तोत्राणि । द्वादश मासाः संवत्सरः । तत् तन् न सूर्क्ष्यम् । उक्थ्या एव सप्तदशाः परःसामानः कार्याः ।

VERSE: 2 { 1.2.2.2} पशवो वा उक्थानि । पशूनाम् अवरुध्यै । विश्वजिदभिजिताव् अग्निष्टोमौ । उक्थ्याः सप्तदशाः परःसामानः । ते सꣳस्तुता विराजम् अभि संपद्यन्ते । द्वे चर्चाव् अति रिच्येते । एकया गौर् अतिरिक्तः । एकयायुर् ऊनः । सुवर्गो वै लोको ज्योतिः । ऊर्ग् विराट् ।

VERSE: 3 { 1.2.2.3} सुवर्गम् एव तेन लोकम् अभि जयन्ति । यत् परꣳ राथन्तरम् । तत् प्रथमे ऽहन् कार्यम् । बृहद् द्वितीये । वैरूपं तृतीये । वैराजं चतुर्थे । शाक्वरं पञ्चमे । रैवतꣳ षष्ठे । तद् उ पृष्ठेभ्यो नयन्ति । संतनय एते ग्रहा गृह्यन्ते ।

VERSE: 4 { 1.2.2.4} अतिग्राह्याः परःसामसु । इमान् एवैतैर् लोकान् सं तन्वन्ति । मिथुना एते ग्रहा गृह्यन्ते । अतिग्राह्याः परःसामसु । मिथुनम् एव तैर् यजमाना अवरुन्धते । बृहत् पृष्ठं भवति । बृहद् वै सुवर्गो लोकः । बृहतैव सुवर्गं लोकं यन्ति । त्रयस्त्रिꣳशि नाम साम । मध्यन्दिने पवमाने भवति ।

VERSE: 5 { 1.2.2.5} त्रयस्त्रिꣳशद् वै देवताः । देवता एवावरुन्धते । ये वा इतः पराञ्चꣳ संवत्सरम् उपयन्ति । न हैनं ते स्वस्ति समश्नुवते । अथ ये ऽमुतो ऽर्वाञ्चम् उप यन्ति । ते हैनꣳ स्वस्ति समश्नुवते । एतद् वा अमुतो ऽर्वाञ्चम् उप यन्ति । यद् एवम् । यो ह खलु वाव प्रजापतिः । स उ वेवेन्द्रः । तद् उ देवेभ्यो नयन्ति ।

अनुवाक 3 गवामयनशेषः VERSE: 1 { 1.2.3.1} संततिर् वा एते ग्रहाः । यत् परःसामानः । विषूवान् दिवाकीर्त्यम् । यथा शालायै पक्षसी । एवꣳ संवत्सरस्य पक्षसी । यद् एते न गृहेरन् । विषूची संवत्सरस्य पक्षसी व्यवस्रꣳसेयाताम् । आर्तिम् आर्छेयुः । यद् एते गृह्यन्ते । यथा शालायै पक्षसी मध्यमं वꣳशम् अभि समायच्छति ।

VERSE: 2 { 1.2.3.2} एवꣳ संवत्सरस्य पक्षसी दिवाकीर्त्यम् अभि संतन्वन्ति । नार्तिम् आर्छन्ति । एकविꣳशम् अहर् भवति । शुक्राग्रा ग्रहा गृह्यन्ते । प्रत्युत्तब्ध्यै सयत्वाय । सौर्य एतद् अहः पशुर् आलभ्यते । सौर्यो ऽतिग्राह्यो गृह्यते । अहर् एव रूपेण समर्धयन्ति । अथो अह्न एवैष बलिर् ह्रियते । सप्तैतद् अहर् अतिग्राह्या गृह्यन्ते ।

VERSE: 3 { 1.2.3.3} सप्त वै शीर्षण्याः प्राणाः । असाव् आदित्यः शिरः प्रजानाम् । शीर्षन्न् एव प्रजानां प्राणान् दधाति । तस्मात् सप्त शीर्षन् प्राणाः । इन्द्रो वृत्रꣳ हत्वा । असुरान् पराभाव्य । स इमाꣳल् लोकान् अभ्यजयत् । तस्यासौ लोको ऽनभिजित आसीत् । तं विश्वकर्मा भूत्वाभ्यजयत् । यद् वैश्वकर्मणो गृह्यते ।

VERSE: 4 { 1.2.3.4} सुवर्गस्य लोकस्याभिजित्यै । प्र वा एते ऽस्माल् लोकाच् च्यवन्ते । ये वैश्वकर्मणं गृह्णते । आदित्यः श्वो गृह्यते । इयं वा अदितिः । अस्याम् एव प्रति तिष्ठन्ति । अन्योन्यो गृह्येते । विश्वान्य् एवान्येन कर्माणि कुर्वाणा यन्ति । अस्याम् अन्येन प्रति तिष्ठन्ति । ताव् आपरार्धात् संवत्सरस्यान्योन्यो गृह्येते । ताव् उभौ सह महाव्रते गृह्येते । यज्ञस्यैवान्तं गत्वा । उभयोर् लोकयोः प्रतितिष्ठन्ति । अर्क्यम् उक्थं भवति । अन्नाद्यस्यावरुद्ध्यै ।

अनुवाक 4 गवामयनशेषः VERSE: 1 { 1.2.4.1} एकविꣳश एष भवति । एतेन वै देवा एकविꣳशेन । आदित्यम् इत उत्तमꣳ सुवर्गं लोकम् आरोहयन्न् । स वा एष इत एकविꣳशः । तस्य दशावस्ताद् अहानि । दश परस्तात् । स वा एष विराज्य् उभयतः प्रतिष्ठितः । विराजि हि वा एष उभयतः प्रतिष्ठितः । तस्माद् अन्तरेमौ लोकौ यन् । सर्वेषु सुवर्गेषु लोकेष्व् अभितपन्न् एति ।

VERSE: 2 { 1.2.4.2} देवा वा आदित्यस्य सुवर्गस्य लोकस्य । पराचो ऽतिपादाद् अबिभयुः । तं छन्दोभिर् अदृꣳहन् धृत्यै । देवा वा आदित्यस्य सुवर्गस्य लोकस्य । अवाचो ऽवपादाद् अबिभयुः । तं पञ्चभी रश्मिभिर् उदवयन्न् । तस्माद् एकविꣳशे ऽहन् पञ्च दिवाकीर्त्यानि क्रियन्ते । रश्मयो वै दिवाकीर्त्यानि । ये गायत्रे । ते गायत्रीषूत्तरयोः पवमानयोः ।

VERSE: 3 { 1.2.4.3} महादिवाकीर्त्यꣳ होतुः पृष्ठम् । विकर्णं ब्रह्मसाम । भासो ऽग्निष्टोमः । अथैतानि पराणि । परैर् वै देवा आदित्यꣳ सुवर्गं लोकम् अपारयन्न् । यद् अपारयन्न् । तत् पराणां परत्वम् । पारयन्त्य् एनं पराणि । य एवं वेद । अथैतानि स्पराणि । स्परैर्वै देवा आदित्यꣳ सुवर्गं लोकम् अस्पारयन्न् । यद् अस्पारयन्न् । तत् स्पराणाꣳ स्परत्वम् । स्पारयन्त्य् एनꣳ स्पराणि । य एवं वेद ।

अनुवाक 5 गवामयनशेषः VERSE: 1 { 1.2.5.1} अप्रतिष्ठां वा एते गच्छन्ति । येषाꣳ संवत्सरे ऽनाप्ते ऽथ । एकादशिन्य् आप्यते । वैष्णवं वामनम् आलभन्ते । यज्ञो वै विष्णुः । यज्ञम् एवालभन्ते प्रतिष्ठित्यै । ऐन्द्राग्नम् आलभन्ते । इन्द्राग्नी वै देवानाम् अयातयामानौ । ये एव देवते अयातयाम्नी । ते एवालभन्ते ।

VERSE: 2 { 1.2.5.2} वैश्वदेवम् आलभन्ते । देवता एवावरुन्धते । द्यावापृथिव्यां धेनुम् आलभन्ते । द्यावापृथिव्योर् एव प्रति तिष्ठन्ति । वायव्यं वत्सम् आलभन्ते । वायुर् एवैभ्यो यथायतनाद् देवता अवरुन्धे । आदित्याम् अविं वशाम् आलभन्ते । इयं वा अदितिः । अस्याम् एव प्रतितिष्ठन्ति । मैत्रावरुणीम् आलभन्ते ।

VERSE: 3 { 1.2.5.3} मित्रेणैव यज्ञस्य स्विष्टꣳ शमयन्ति । वरुणेन दुरिष्टम् । प्राजापत्यं तूपरं महाव्रत आलभन्ते । प्राजापत्यो ऽतिग्राह्यो गृह्यते । अहर् एव रूपेण समर्धयन्ति । अथो अह्न एवैष बलिर् ह्रियते । आग्नेयम् आलभन्ते प्रति प्रज्ञात्यै । अजपेत्वान् वा एते पूर्वैर् मासैर् अवरुन्धते । यद् एते गव्याः पशव आलभ्यन्ते । उभयेषां पशूनाम् अवरुध्यै । { 1.2.5.4} यद् अतिरिक्ताम् एकादशिनीम् आलभेरन् । अप्रियं भ्रातृव्यम् अभ्यतिरिच्येत । यद् द्वौद्वौ पशू समस्येयुः । कनीय आयुः कुर्वीरन् । यद् एते ब्राह्मणवन्तः पशव आलभ्यन्ते । नाप्रियं भ्रातृव्यम् अभ्यतिरिच्यते । न कनीय आयुः कुर्वते ।

अनुवाक 6 गवामयनशेषः VERSE: 1 { 1.2.6.1} प्रजापतिः प्रजाः सृष्ट्वा वृत्तो ऽशयत् । तं देवा भूतानाꣳ रसं तेजः संभृत्य । तेनैनम् अभिषज्यन् । महान् अववर्तीति । तन् महाव्रतस्य महाव्रतत्वम् । महद् व्रतम् इति । तन् महाव्रतस्य महाव्रतत्वम् । महतो व्रतम् इति । तन् महाव्रतस्य महाव्रतत्वम् । पञ्चविꣳशः स्तोमो भवति ।

VERSE: 2 { 1.2.6.2} चतुर्विꣳशत्यर्धमासः संवत्सरः । यद् वा एतस्मिन् संवत्सरे ऽधि प्राजायत । तद् अन्नं पञ्चविꣳशम् अभवत् । मध्यतः क्रियते । मध्यतो ह्य् अन्नम् अशितꣳ धिनोति । अथो मध्यत एव प्रजानामूर्ग् धीयते । अथ यद् वा इदम् अन्ततः क्रियते । तस्माद् उदन्ते प्रजाः समेधन्ते । अन्ततः क्रियते प्रजननायैव । त्रिवृच् छिरो भवति ।

VERSE: 3 { 1.2.6.3} त्रेधा विहितꣳ हि शिरः । लोम च्छवीर् अस्थि । पराचा स्तुवन्ति । तस्मात् तत् सदृग् एव । न मेद्यतो ऽनु मेद्यति । न कृश्यतो ऽनु कृश्यति । पञ्चदशो ऽन्यः पक्षो भवति । सप्तदशो ऽन्यः । तस्माद् वयाꣳस्य् अन्यतरम् अर्धम् अभि पर्यावर्तन्ते । अन्यतरतो हि तद् गरीयः क्रियते ।

VERSE: 4 { 1.2.6.4} पञ्चविꣳश आत्मा भवति । तस्मान् मध्यतः पशवो वरिष्ठाः । एकविꣳशं पुच्छम् । द्विपदासु स्तुवन्ति प्रतिष्ठित्यै । सर्वेण सह स्तुवन्ति । सर्वेण ह्य् आत्मनात्मन्वी । सहोत्पतन्ति । एकैकाम् उच्छिꣳषन्ति । आत्मन्न् ह्य् अङ्गानि बद्धानि । न वा एतेन सर्वः पुरुषः ।

VERSE: 5 { 1.2.6.5} यद् इत_इतो लोमानि दतो नखान् । परिमादः क्रियन्ते । तान्य् एव तेन प्रत्युप्यन्ते । औदुम्बरस् तल्पो भवति । ऊर्ग् वा अन्नम् उदुम्बरः । ऊर्ज एवान्नाद्यस्यावरुद्ध्यै । यस्य तल्पसद्यम् अनभिजितꣳ स्यात् । स देवानाꣳ साम्यक्षे । तल्पसद्यम् अभिजयानीति तल्पम् आरुह्योद्गायेत् । तल्पसद्यम् एवाभिजयति ।

VERSE: 6 { 1.2.6.6} यस्य तल्पसद्यम् अभिजितꣳ स्यात् । स देवानाꣳ साम्यक्षे । तल्पसद्यं मा पराजेषीति तल्पम् आरुह्योद्गायेत् । न तल्पसद्यं पराजयते । प्लेङ्खे शꣳसति । महो वै प्लेङ्खः । महस एवान्नाद्यस्यावरुद्ध्यै । देवासुराः संयत्ता आसन् । त आदित्ये व्यायच्छन्त । तं देवाः समजयन् ।

VERSE: 7 { 1.2.6.7} ब्राह्मणश् च शूद्रश् च चर्मकर्ते व्यायच्छेते । दैव्यो वै वर्णो ब्राह्मणः । असुर्यः शूद्रः । इमे ऽरात्सुर् इमे सुभूतम् अक्रन्न् इत्य् अन्यतरो ब्रूयात् । इम उद्वासीकारिण इमे दुर्भूतम् अक्रन्न् इत्य् अन्यतरः । यद् एवैषाꣳ सुकृतं या राद्धिः । तद् अन्यतरो ऽभिश्रीणाति । यद् एवैषां दुष्कृतं या राद्धिः । तद् अन्यतरो ऽपहन्ति । ब्राह्मणः संजयति । अमुम् एवादित्यं भ्रातृव्यस्य संविन्दन्ते ।



प्रपाठक: 3 वाजपेयः अनुवाक 1 वाजपेयः VERSE: 1 { 1.3.1.1} देवासुराः संयत्ता आसन् । ते देवा विजयम् उपयन्तः । अग्नीषोमयोस् तेजस्विनीस् तनूस् संन्यदधत । इदम् उ नो भविष्यति । यदि नो जेष्यन्तीति । तेनाग्नीषोमाव् अपाक्रामताम् । ते देवा विजित्य । अग्नीषोमाव् अन्वैच्छन् । ते ऽग्निम् अन्वविन्दन्न् ऋतुषूत्सन्नम् । तस्य विभक्तीभिस् तेजस्विनीस् तनूर् अवारुन्धत ।

VERSE: 2 { 1.3.1.2} ते सोमम् अन्वविन्दन् । तम् अघ्नन् । तस्य यथाभिज्ञायं तनूर् व्यगृह्णत । ते ग्रहा अभवन् । तद् ग्रहाणां ग्रहत्वम् । यस्यैवं विदुषो ग्रहा गृह्यन्ते । तस्य त्व् एव गृहीताः । नानाग्नेयं पुनराधेये कुर्यात् । यद् अनाग्नेयं पुनराधेये कुर्यात् । व्यृद्धम् एव तत् {आनंदा. एव तत्} ।

VERSE: 3 { 1.3.1.3} अनाग्नेयं वा एतत् क्रियते । यत् समिधस् तनून् अपातम् इडो बर्हिर् यजति । उभाव् आग्नेयाव् आज्यभागौ स्याताम् । अनाज्यभागौ भवत इत्य् आहुः । यद् उभाव् आग्नेयाव् अन्वञ्चाव् इति । अग्नये पवमानायोत्तरः स्यात् । यत् पवमानाय । तेनाज्यभागः । तेन सौम्यः । बुधन्वत्य् आग्नेयस्याज्यभागस्य पुरोऽनुवाक्या भवति ।

VERSE: 4 { 1.3.1.4} यथा सुप्तं बोधयति । तादृग् एव तत् । अग्निन्यक्ताः पत्नीसंयाजानाम् ऋचः स्युः । तेनाग्नेयꣳ सर्वं भवति । एकधा तेजस्विनीं देवतामुपैतीत्य् आहुः । सैनम् ईश्वरा प्रदह इति । नेति ब्रूयात् । प्रजननं वा अग्निः । प्रजननम् एवोपैतीति । कृतयजुः संभृतसंभार इत्य् आहुः ।

VERSE: 5 { 1.3.1.5} न संभृत्याः संभाराः । न यजुः कार्यम् इति । अथो खलु । संभृत्या एव संभाराः । कार्यं यजुः । पुनराधेयस्य समृद्ध्यै । तेनोपाꣳशु प्रचरति । एष्य इव वा एषः । यत् पुनराधेयः । यथोपाꣳशु नष्टम् इच्छति ।

VERSE: 6 { 1.3.1.6} तादृग् एव तत् । उच्चैः स्विष्टकृतम् उत्सृजति । यथा नष्टं वित्त्वा प्राहायम् इति । तादृग् एव तत् । एकधा तेजस्विनीं देवताम् उपैतीत्य् आहुः । सैनम् ईश्वरा प्रदह इति । तत् तथा नोपैति । प्रयाजानूयाजेष्व् एव विभक्तीः कुर्यात् । यथापूर्वम् आज्यभागौ स्याताम् । एवं पत्नीसंयाजाः ।

VERSE: 7 { 1.3.1.7} तद् वैश्वानरवत् प्रजननवत्तरम् उपैतीति । तद् आहुः । व्यृद्धं वा एतत् । अनाग्नेयं वा एतत् क्रियत इति । नेति ब्रूयात् । अग्निं प्रथमं विभक्तीनां यजति । अग्निम् उत्तमं पत्नीसंयाजानाम् । तेनाग्नेयम् । तेन समृद्धं क्रियत इति ।

अनुवाक 2 वाजपेयः VERSE: 1 { 1.3.2.1} देवा वै यथादर्शं यज्ञान् आहरन्त । यो ऽग्निष्टोमम् । य उक्थ्यम् । यो ऽतिरात्रम् । ते सहैव सर्वे वाजपेयम् अपश्यन् । ते । अन्योन्यस्मै नातिष्ठन्त । अहम् अनेन यजा इति । ते ऽब्रुवन् । आजिम् अस्य धावामेति ।

VERSE: 2 { 1.3.2.2} तस्मिन्न् आजिम् अधावन् । तं बृहस्पतिर् उदजयत् । तेनायजत । स स्वाराज्यम् अगच्छत् । तम् इन्द्रो ऽब्रवीत् । माम् अनेन याजयेति । तेनेन्द्रम् अयाजयत् । सो ऽग्रं देवतानां पर्यैत् । अगच्छत् स्वाराज्यम् । अतिष्ठन्तास्मै ज्यैष्ठ्याय ।

VERSE: 3 { 1.3.2.3} य एवं विद्वान् वाजपेयेन यजते । गच्छति स्वाराज्यम् । अग्रꣳ समानानां पर्येति । तिष्ठन्ते ऽस्मै ज्यैष्ठ्याय । स वा एष ब्राह्मणस्य चैव राजन्यस्य च यज्ञः । तं वा एतं वाजपेय इत्य् आहुः । वाजाप्यो वा एषः । वाजꣳ ह्य् एतेन देवा ऐप्सन्न् । सोमो वै वाजपेयः । यो वै सोमं वाजपेयं वेद ।

VERSE: 4 { 1.3.2.11} वाज्य् एवैनं पीत्वा भवति । आॆस्य वाजी जायते । अन्नं वै वाजपेयः । य एवं वेद । अत्त्य् अन्नम् । आॆस्यान्नादो जायते । ब्रह्म वै वाजपेयः । य एवं वेद । अत्ति ब्रह्मणान्नम् । आॆस्य ब्रह्मा जायते ।

VERSE: 5 { 1.3.2.12} वाग् वै वाजस्य प्रसवः । य एवं वेद । करोति वाचा वीर्यम् । ऐनं वाचा गच्छति । अपिवतीं वाचं वदति । प्रजापतिर् देवेभ्यो यज्ञान् व्यादिशत् । स आत्मन् वाजपेयम् अधत्त । तं देवा अब्रुवन् । एष वाव यज्ञः । यद् वाजपेयः ।

VERSE: 6 { 1.3.2.6} अप्य् एव नो ऽत्र_अस्त्व् इति । तेभ्य एतान् उज्जितीः प्रायच्छत् । ता वा एता उज्जितयो व्याख्यायन्ते । यज्ञस्य सर्वत्वाय । देवतानाम् अनिर्भागाय । देवा वै ब्रह्मणश् चान्नस्य च शमलम् अपाघ्नन् । यद् ब्रह्मणः शमलम् आसीत् । सा गाथा नाराशꣳस्य् अभवत् । यद् अन्नस्य । सा सुरा ।

VERSE: 7 { 1.3.2.7} तस्माद् गायतश् च मत्तस्य च न प्रतिगृह्यम् । यत्प्रतिगृह्णीयात् । शमलं प्रतिगृह्णीयात् । सर्वा वा एतस्य वाचो ऽवरुद्धाः । यो वाजपेययाजी । या पृथिव्यां याग्नौ या रथन्तरे । यान्तरिक्षे या वायौ या वामदेव्ये । या दिवि यादित्ये या बृहति । याॆप्सु यौषधीषु या वनस्पतिषु । तस्माद् वाजपेययाज्य् आर्त्विजीनः । सर्वा ह्य् अस्य वाचो ऽवरुद्धाः ।

अनुवाक 3 वाजपेयः VERSE: 1 { 1.3.3.1} देवा वै यद् अन्यैर् ग्रहैर् यज्ञस्य नावारुन्धत । तद् अतिग्राह्यैर् अतिग्राह्यावारुन्धत। तद् अतिग्राह्याणाम् अतिग्राह्यत्वम् । यद् अतिग्राह्या गृह्यन्ते । यद् एवान्यैर् ग्रहैर् यज्ञस्य नावरुन्धे । तद् एव तैर् अतिगृह्यावरुन्धे । पञ्च गृह्यन्ते । पाङ्क्तो यज्ञः । यावान् एव यज्ञः । तम् आप्त्वावरुन्धे ।

VERSE: 2 { 1.3.3.2} सर्व ऐन्द्रा भवन्ति । एकधैव यजमान इन्द्रियं दधति । सप्तदश प्राजापत्या ग्रहा गृह्यन्ते । सप्तदशः प्रजापतिः । प्रजापतेर् आप्त्यै । एकयर्चा गृह्णाति । एकधैव यजमाने वीर्यं दधाति । सोमग्रहाꣳश् च सुराग्रहाꣳश् च गृह्णाति । एतद् वै देवानां परमम् अन्नम् । यत् सोमः ।

VERSE: 3 { 1.3.3.3} एतन् मनुष्याणाम् । यत् सुरा । परमेणैवास्मा अन्नाद्येनावरम् अन्नाद्यम् अवरुन्धे । सोमग्रहान् गृह्णाति । ब्रह्मणो वा एतत् तेजः । यत् सोमः । ब्रह्मण एव तेजसा तेजो यजमाने दधाति । सुराग्रहान् गृह्णाति । अन्नस्य वा एतच् छमलम् । यत् सुरा ।

VERSE: 4 { 1.3.3.4} अन्नस्यैव शमलेन शमलं यजमानाद् अपहन्ति । सोमग्रहाꣳश् च सुराग्रहाꣳश् च गृह्णाति । पुमान् वै सोमः । स्त्री सुरा । तन् मिथुनम् । मिथुनम् एवास्य तद् यज्ञे करोति प्रजननाय । आत्मानम् एव सोमग्रहैः स्पृणोति । जायाꣳ सुराग्रहैः । तस्माद् वाजपेययाज्य् अमुष्मिꣳल् लोके स्त्रियꣳ संभवति । वाजपेयाभिजितꣳ ह्य् अस्य ।

VERSE: 5 { 1.3.3.5} पूर्वे सोमग्रहा गृह्यन्ते । अपरे सुराग्रहाः । पुरोक्षꣳ सोमग्रहान् सादयति । पश्चादक्षꣳ सुराग्रहान् । पापवस्यसस्य विधृत्यै । एष वै यजमानः । यत् सोमः । अन्नꣳ सुरा । सोमग्रहाꣳश् च सुराग्रहाꣳश् च व्यतिषजति । अन्नाद्येनैवैनं व्यतिषजति ।

VERSE: 6 { 1.3.3.6} संपृचः स्थ सं मा भद्रेण पृङ्क्तेत्य् आह । अन्नं वै भद्रम् । अन्नाद्येनैवैनꣳ सꣳसृजति । अन्नस्य वा एतच् छमलम् । यत् सुरा । पाप्मेव खलु वै शमलम् । पाप्मना वा एतम् एतच्छमलेन व्यतिषजति । यत् सोमग्रहाꣳश् च सुराग्रहाꣳश् च व्यतिषजति । विपृचः स्थ वि मा पाप्मना पृङ्क्तेत्य् आह । पाप्मनैवैनꣳ शमलेन व्यावर्तयति ।

VERSE: 7 { 1.3.3.7} तस्माद् वाजपेययाजी पूतो मेध्यो दक्षिण्यः । प्राङ् द्रवति सोमग्रहैः । अमुम् एव तैर् लोकम् अभिजयति । प्रत्यङ् सुराग्रहैः । इमम् एव तैर् लोकम् अभिजयति । प्रतिष्ठन्ति सोमग्रहैः । यावद् एव सत्यम् । तेन सूयते । वाजसृद्भ्यः सुराग्रहान् हरन्ति । अनृतेनैव विशꣳ सꣳसृजति । हिरण्यपात्रं मधोः पूर्णं ददाति । मधव्यो ऽसानीति । एकधा ब्रह्मण उपहरति । एकधैव यजमान आयुस् तेजो दधाति ।

अनुवाक 4 वाजपेयः VERSE: 1 { 1.3.4.1} ब्रह्मवादिनो वदन्ति । न_अग्निष्टोमो न_उक्थ्यः । न षोडशी न_अतिरात्रः । अथ कस्माद् वाजपेये सर्वे यज्ञक्रतवो ऽवरुध्यन्त इति । पशुभिर् इति ब्रूयात् । आग्नेयं पशुम् आलभते । अग्निष्टोमम् एव तेन_अवरुन्धे । ऐन्द्राग्नेन_उक्थ्यम् । ऐन्द्रेण षोडशिनः स्तोत्रम् । सारस्वत्या_अतिरात्रम् ।

VERSE: 2 { 1.3.4.2} मारुत्या बृहतः स्तोत्रम् । एतावन्तो वै यज्ञक्रतवः । तान् पशुभिर् एव_अवरुन्धे । आत्मानम् एव स्पृणोत्य् अग्निष्टोमेन । प्राणापानाव् उक्थ्येन । वीर्यꣳ षोडशिनः स्तोत्रेण । वाचम् अतिरात्रेण । प्रजां बृहतः स्तोत्रेण । इमम् एव लोकम् अभिजयत्य् अग्निष्टोमेन । अन्तरिक्षम् उक्थ्येन ।

VERSE: 3 { 1.3.4.3} सुवर्गं लोकꣳ षोडशिनः स्तोत्रेण । देवयानान् एव पथ आरोहत्य् अतिरात्रेण । नाकꣳ रोहति बृहतः स्तोत्रेण । तेज एवात्मन् धत्त आग्नेयेन पशुना । ओजो बलम् ऐन्द्राग्नेन । इन्द्रियम् ऐन्द्रेण । वाचꣳ सारस्वत्या । उभाव् एव देवलोकं च मनुष्यलोकं च_अभिजयति मारुत्या वशया । सप्तदश प्राजापत्यान् पशून् आलभते । सप्तदशः प्रजापतिः ।

VERSE: 4 { 1.3.4.4} प्रजापतेर् आप्त्यै । श्यामा एकरूपा भवन्ति । एवम् इव हि प्रजापतिः समृद्ध्यै । तान् पर्यग्निकृतान् उत्सृजति । मरुतो यज्ञम् अजिघाꣳसन् प्रजापतेः । तेभ्य एतां मारुतीं वशाम् आलभत । तयैवैनान् अशमयत् । मारुत्या प्रचर्य । एतान् संज्ञपयेत् । मरुत एव शमयित्वा ।

VERSE: 5 { 1.3.4.5} एतैः प्रचरति । यज्ञस्य_अघाताय । एकधा वपा जुहोति । एकदेवत्या हि । एते । अथो एकधैव यजमाने वीर्यं दधाति । नैवारेण सप्तदशशरावेणैतर्हि प्रचरति । एतत् पुरोडाशा ह्य् एते । अथो पशूनाम् एव च्छिद्रम् अपिदधाति । सारस्वत्या_उत्तमया प्रचरति । वाग् वै सरस्वती । तस्मात् प्राणानां वाग् उत्तमा । अथो प्रजापताव् एव यज्ञं प्रतिष्ठापयति । प्रजापतिर् हि वाक् । अपन्नदती भवति । तस्मान् मनुष्याः सर्वां वाचं वदन्ति ।

अनुवाक 5 वाजपेयः VERSE: 1 { 1.3.5.1} सावित्रं जुहोति कर्मणः कर्मणः पुरस्तात् । कस् तद् वेद_इत्य् आहुः । यद् वाजपेयस्य पूर्वं यद् अपरम् इति । सवितृप्रसूत एव यथापूर्वं कर्माणि करोति । सवने_सवने जुहोति । आक्रमणम् एव तत् सेतुं यजमानः कुरुते । सुवर्गस्य लोकस्य समष्ट्यै । वाचस्पतिर् वाचम् अद्य स्वदाति न इत्य् आह । वाग् वै देवानां पुरान्नम् आसीत् । वाचम् एवास्मा अन्नꣳ स्वदयति ।

VERSE: 2 { 1.3.5.2} इन्द्रस्य वज्रो ऽसि वार्त्रघ्न इति रथम् उपावहरति विजित्यै । वाजस्य नु प्रसवे मातरं महीम् इत्य् आह । यच् चैव_इयम् । यच् च_अस्याम् अधि । तदेव_अवरुन्धे । अथो तस्मिन्न् एव_उभये ऽभिषिच्यते । अप्स्व् अन्तर् अमृतम् अप्सु भेषजम् इत्य् अश्वान् पल्पूलयति । अप्सु वा अश्वस्य तृतीयं प्रविष्टम् । तद् अनुवेनन् _ अवप्लवते । यद् अप्सु पल्पूलयति ।

VERSE: 3 { 1.3.5.3} यद् एवास्य_अप्सु प्रविष्टम् । तद् एव_अवरुन्धे । बहु वा अश्वो ऽमेध्यम् उपगच्छति । यद् अप्सु पल्पूलयति । मेध्यान् एवैनान् करोति । वायुर् वा त्वा मनुर् वा त्वा_इत्य् आह । एता वा एतं देवता अग्रे अश्वम् अयुञ्जन् । ताभिर् एवैनान् युनक्ति । सवस्य_उज्जित्यै । यजुषा युनक्ति व्यावृत्त्यै ।

VERSE: 4 { 1.3.5.4} अपांनपाद् आशुहेमन्न् इति संमार्ष्टि । मेध्यान् एवैनान् करोति । अथो स्तौत्य् एवैनान् आजिꣳ सरिष्यतः । विष्णुक्रमान् क्रमते । विष्णुर् एव भूत्वेमान् लोकान् अभिजयति । वैश्वदेवो वै रथः । अङ्कौ न्यङ्काव् अभितो रथं याव् इत्य् आह । या एव देवता रथे प्रविष्टाः । ताभ्य एव नमस्करोति । आत्मनो ऽनार्त्यै । अशमरथंभावुको ऽस्य रथो भवति । य एवं वेद ।

अनुवाक 6 वाजपेयः VERSE: 1 { 1.3.6.1} देवस्याहꣳ सवितुः प्रसवे बृहस्पतिना वाजजिता वाजं जेषम् इत्य् आह । सवितृप्रसूत एव ब्रह्मणा वाजम् उज्जयति । देवस्याहꣳ सवितुः प्रसवे बृहस्पतिना वाजजिता वर्षिष्ठं नाकꣳ रुहेयम् इत्य् आह । सवितृप्रसूत एव ब्रह्मणा वर्षिष्ठं नाकꣳ रोहति । चात्वाले रथचक्रं निमितꣳ रोहति । अतो वा अङ्गिरस उत्तमाः सुवर्गं लोकम् आयन् । साक्षाद् एव यजमानः सुवर्गं लोकम् एति । आवेष्टयति । वज्रो वै रथः । वज्रेणैव दिशो ऽभिजयति ।

VERSE: 2 { 1.3.6.2} वाजिनाꣳ साम गायते । अन्नं वै वाजः । अन्नम् एव_अवरुन्धे । वाचो वर्ष्म देवेभ्यो ऽपाक्रामत् । तद् वनस्पतीन् प्राविशत् । सैषा वाग् वनस्पतिषु वदति । या दुन्दुभौ । तस्माद् दुन्दुभिः सर्वा वाचो ऽतिवदति । दुन्दुभीन् समाघ्नन्ति । परमा वा एषा वाक् ।

VERSE: 3 { 1.3.6.3} या दुन्दुभौ । परमयैव वाचा_अवरां वाचम् अवरुन्धे । अथो वाच एव वर्ष्म यजमानो ऽवरुन्धे । इन्द्राय वाचं वदत_इन्द्रं वाजं जापयत_इन्द्रो वाजम् अजयिद् इत्य् आह । एष वा एतर्हि_इन्द्रः । यो यजते । यजमान एव वाजम् उज्जयति । सप्तदश प्रव्याधान् आजिं धावन्ति । सप्तदशꣳ स्तोत्रं भवति । सप्तदश_सप्तदश दीयन्ते ।

VERSE: 4 { 1.3.6.4} सप्तदशः प्रजापतिः । प्रजापतेर् आप्त्यै । अर्वा_असि सप्तिर् असि वाज्यसीत्य् आह । अग्निर् वा अर्वा । वायुः सप्तिः । आदित्यो वाजी । एताभिर् एवास्मै देवताभिर् देवरथं युनक्ति । प्रष्टिवाहिनं युनक्ति । प्रष्टिवाही वै देवरथः । देवरथम् एवास्मै युनक्ति ।

VERSE: 5 { 1.3.6.5} वाजिनो वाजं धावत काष्ठा गच्छतेत्य् आह । सुवर्गो वै लोकः काष्ठा । सुवर्गम् एव लोकं यन्ति । सुवर्गं वा एते लोकं यन्ति । य आजिं धावन्ति । प्राञ्चो धावन्ति । प्राङ् इव हि सुवर्गो लोकः । चतसृभिर् अनुमन्त्रयते । चत्वारि च्छन्दाꣳसि । छन्दोभिर् एवैना(नान्) सुवर्गं लोकं गमयति ।

VERSE: 6 { 1.3.6.6} प्र वा एते ऽस्माल् लोकाच् च्यवते (च्यवन्ते) । य आजिं धावन्ति । उदञ्च आवर्तन्ते । अस्माद् एव तेन लोकान् नयन्ति । रथविमोचनीयं जुहोति प्रतिष्ठित्यै । आ मा वाजस्य प्रसवो जगम्याद् इत्य् आह । अन्नं वै वाजः । अन्नम् एव_अवरुन्धे । यथालोकं वा एत उज्जयन्ति । य आजिं धावन्ति ।

VERSE: 7 { 1.3.6.7} कृष्णलं_कृष्णलं वाजसृद्भ्यः प्रयच्छति । यम् एव ते वाजं लोकम् उज्जयन्ति । तं परिक्रीय_अवरुन्धे । एकधा ब्रह्मण उपहरति । एकधैव यजमाने वीर्यं दधाति । देवा वा ओषधीष्व् आजिम् अयुः । ता बृहस्पतिर् उदजयत् । स नीवारान् निरवृणीत । तन् नीवाराणां नीवारत्वम् । नैवारश् चरुर् भवति ।

VERSE: 8 { 1.3.6.8} एतद् वै देवानां परमम् अन्नम् । यन् नीवाराः । परमेणैवास्मा अन्नाद्येन_अवरम् अन्नाद्यम् अवरुन्धे । सप्तदशशरावो भवति । सप्तदशः प्रजापतिः । प्रजापतेर् आप्त्यै । क्षीरे भवति । रुचम् एवास्मिन् दधाति । सर्पिष्वान् भवति मेध्यत्वाय । बार्हस्पत्यो वा एष देवतया ।

VERSE: 9 { 1.3.6.9} यो वाजपेयेन यजते । बार्हस्पत्य एष चरुः । अश्वान् सरिष्यतः सस्रुषश् च_अवघ्रापयति । यम् एव ते वाजं लोकम् उज्जयन्ति । तम् एव_अवरुन्धे । अजीजिपत वनस्पतय इन्द्रं वाजं विमुच्यध्वम् इति दुन्दुभीन् विमुञ्चति । यम् एव ते वाजं लोकम् इन्द्रियं दुन्दुभय उज्जयन्ति । तम् एव_अवरुन्धे ।

अनुवाक 7 वाजपेयः VERSE: 1 { 1.3.7.1} तार्प्यं यजमानं परिधापयति । यज्ञो वै तार्प्यम् । यज्ञेनैवैनꣳ समर्धयति । दर्भमयं परिधापयति । पवित्रं वै दर्भाः । पुनात्य् एवैनम् । वाजं वा एषो ऽवरुरुत्सते । यो वाजपेयेन यजते । ओषधयः खलु वै वाजः । यद् दर्भमयं परिधापयति ।

VERSE: 2 { 1.3.7.2} वाजस्य_अवरुद्ध्यै । जाय एहि सुवो रोहाव_इत्य् आह । पत्निया एवैष यज्ञस्य_अन्वारम्भो ऽनवच्छित्यै । सप्तदशारत्निर् यूपो भवति । सप्तदशः प्रजापतिः । प्रजापतेर् आप्त्यै । तूपरश् चतुरश्रिर् भवति । गौधूमं चषालम् । न वा एते व्रीहयो न यवाः । यद् गोधूमाः ।

VERSE: 3 { 1.3.7.3} एवम् इव हि प्रजापतिः समृद्ध्यै । अथो अमुम् एवास्मै लोकम् अन्नवन्तं करोति । वासोभिर् वेष्टयति । एष वै यजमानः । यद् यूपः । सर्वदेवत्यं वासः । सर्वाभिर् एवैनं देवताभिः समर्धयति । अथो आक्रमणम् एव तत् सेतुं यजमानः कुरुते । सुवर्गस्य लोकस्य समष्ट्यै । द्वादश वाजप्रसवीयानि जुहोति ।

VERSE: 4 { 1.3.7.4} द्वादश मासाः संवत्सरः । संवत्सरम् एव प्रीणाति । अथो संवत्सरम् एवास्मा उपदधाति । सुवर्गस्य लोकस्य समष्ट्यै । दशभिः कल्पै रोहति । नव वै पुरुषे प्राणाः । नाभिर् दशमी । प्राणान् एव यथास्थानं कल्पयित्वा । सुवर्गं लोकम् एति । एतावद् वै पुरुषस्य स्वम् ।

VERSE: 5 { 1.3.7.5} यावत् प्राणाः । यावद् एवास्य_अस्ति । तेन सह सुवर्गं लोकम् एति । सुवर् देवाꣳ अगन्म_इत्य् आह । सुवर्गम् एव लोकम् एति । अमृता अभूम_इत्य् आह । अमृतम् इव हि सुवर्गो लोकः । प्रजापतेः प्रजा अभूम_इत्य् आह । प्राजापत्यो वा अयं लोकः । अस्माद् एव तेन लोकान् न_एति ।

VERSE: 6 { 1.3.7.6} सम् अहं प्रजया सं मया प्रजा_इत्य् आह । आशिषम् एवैताम् आशास्ते । आसपुटैर् घ्नन्ति । अन्नं वा इयम् । अन्नाद्येनैवैनꣳ समर्धयन्ति । ऊषैर् घ्नन्ति । एते हि साक्षाद् अन्नम् । यद् ऊषाः । साक्षाद् एवैनम् अन्नाद्येन समर्धयन्ति । पुरस्तात् प्रत्यञ्चं घ्नन्ति ।

VERSE: 7 { 1.3.7.7} पुरस्ताद् धि प्रतीचीनम् अन्नम् अद्यते । शीर्षतो घ्नन्ति । शीर्षतो ह्य् अन्नम् अद्यते । दिग्भ्यो घ्नन्ति । दिग्भ्य एवास्मा अन्नाद्यम् अवरुन्धते । ईश्वरो वा एष पराङ् प्रदघः । यो यूपꣳ रोहति । हिरण्यम् अध्य् अवरोहति । अमृतं वै हिरण्यम् । अमृतꣳ सुवर्गो लोकः । { 1.3.7.7} अमृत एव सुवर्गे लोके प्रतितिष्ठति । शतमानं भवति । शतायुः पुरुषः शतेन्द्रियः । आयुष्य् एव_इन्द्रिये प्रतितिष्ठति । पुष्ट्यै वा एतद् रूपम् । यद् अजा । त्रिः संवत्सरस्यान्यान् पशून् परि प्रजायते । बस्ताजिनम् अध्य् अवरोहति । पुष्ट्याम् एव प्रजनने प्रतितिष्ठति ।

अनुवाक 8 वाजपेयः VERSE: 1 { 1.3.8.1} सप्तान्नहोमाञ् जुहोति । सप्त वा अन्नानि । यावन्त्य् एव_अन्नानि । तान्य् एव_अवरुन्धे । सप्त ग्राम्या ओषधयः । सप्त_अरण्याः । उभयीषाम् अवरुद्ध्यै । अन्नस्य_अन्नस्य जुहोति । अन्नस्य_अन्नस्य_अवरुद्ध्यै । यद् वाजपेययाज्य् अनवरुद्धस्य_अश्नीयात् ।

VERSE: 2 { 1.3.8.2} अवरुद्धेन व्यृध्येत । सर्वस्य समवदाय जुहोति । अनवरुद्धस्य_अवरुद्ध्यै । औदुम्बरेण स्रुवेण जुहोति । ऊर्ग् वा अन्नम् उदुम्बरः । ऊर्ज एव_अन्नाद्यस्य_अवरुद्ध्यै । देवस्य त्वा सवितुः प्रसव इत्य् आह । सवितृप्रसूत {सवितृप्रसव} एवैनं ब्रह्मणा देवताभिर् अभिषिञ्चति । अन्नस्यान्नस्याभिषिञ्चति । 0 अन्नस्य_अन्नस्यावरुद्ध्यै ।

VERSE: 3 { 1.3.8.3} पुरस्तात् प्रत्यञ्चम् अभिषिञ्चति । पुरस्ताद् धि प्रतीचीनम् अन्नम् अद्यते । शीर्षतो ऽभिषिञ्चति । शीर्षतो ह्य् अन्नम् अद्यते । आ मुखाद् अन्व् अवस्रावयति । मुखत एवास्मा अन्नाद्यं दधाति । अग्नेस् त्वा साम्राज्येन_अभिषिञ्चामि_इत्य् आह । एष वा अग्नेः सवः । तेनैवैनम् अभिषिञ्चति । इन्द्रस्य त्वा साम्राज्येन_अभिषिञ्चामि_इत्य् आह ।

VERSE: 4 { 1.3.8.4} इन्द्रियम् एवास्मिन्न् एतेन दधाति । बृहस्पतेस् त्वा साम्राज्येन_अभिषिञ्चामि_इत्य् आह । ब्रह्म वै देवानां बृहस्पतिः । ब्रह्मणा_एवैनम् अभिषिञ्चति । सोमग्रहाꣳश् च_अवदानीयानि च_ऋत्विग्भ्य उप हरन्ति । अमुम् एव तैर् लोकम् अन्नवन्तं करोति । सुराग्रहाꣳश् च_अनवदानीयानि च वाजसृद्भ्यः । इमम् एव तैर् लोकम् अन्नवन्तं करोति । अथो उभयीष्व् एव_अभिषिच्यते । विमाथं कुर्वते वाजसृतः ।

VERSE: 5 { 1.3.8.52} इन्द्रियस्य_अवरुद्ध्यै । अनिरुक्ताभिः प्रातःसवने स्तुवते । अनिरुक्तः प्रजापतिः । प्रजापतेर् आप्त्यै । वाजवतीभिर् माध्यन्दिने । अन्नं वै वाजः । अन्नम् एव_अवरुन्धे । शिपिविष्टवतीभिस् तृतीयसवने । यज्ञो वै विष्णुः । पशवः शिपिः । यज्ञ एव पशुषु प्रतितिष्ठति । बृहद् अन्त्यं भवति । अन्तम् एवैनꣳ श्रियै गमयति ।

अनुवाक 9 वाजपेयः VERSE: 1 { 1.3.9.1} नृषदं त्वा_इत्य् आह । प्रजा वै नॄन् । प्रजानाम् एवैतेन सूयते । द्रुषदम् इत्य् आह । वनस्पतयो वै द्रु । वनस्पतीनाम् एवैतेन सूयते । भुवनसदम् इत्य् आह । यदा वै वसीयान् भवति । भुवनम् अगन्न् इति वै तम् आहुः । भुवनम् एवैतेन गच्छति ।

VERSE: 2 { 1.3.9.2} अप्सुषदं त्वा घृतसदम् इत्य् आह । अपाम् एवैतेन घृतस्य सूयते । व्योमसदम् इत्य् आह । यदा वै वसीयान् भवति । व्योमागन्न् इति वै तम् आहुः । व्योमैवैतेन गच्छति । पृथिविषदं त्वा_अन्तरिक्षसदम् इत्य् आह । एषाम् एवैतेन लोकानाꣳ सूयते । तस्माद् वाजपेययाजी न कं चन प्रत्यवरोहति । अपीव हि देवतानाꣳ सूयते । { 1.3.9.2} नाकसदम् इत्य् आह । यदा वै वसीयान् भवति । नाकम् अगन्न् इति वैतम् आहुः । नाकम् एवैतेन गच्छति । ये ग्रहाः पञ्चजनीना इत्य् आह । पञ्चजनानाम् एवैतेन सूयते । अपाꣳ रसम् उद् वयसम् इत्य् आह । अपाम् एवैतेन रसस्य सूयते । सूर्यरश्मिꣳ समाभृतम् इत्य् आह सशुक्रत्वाय ।

अनुवाक 10 वाजपेयः VERSE: 1 { 1.3.10.1} इन्द्रो वृत्रꣳ हत्वा । असुरान् पराभाव्य । सो ऽमावास्यां प्रत्य् आगच्छत् । ते पितरः पूर्वेद्युर् आगच्छन् । पितॄन् यज्ञो ऽगच्छत् । तं देवाः पुनर् अयाचन्त । तम् एभ्यो न पुनर् अददुः । ते ऽब्रुवन् वरं वृणामहै । अथ वः पुनर् दास्यामः । अस्मभ्यम् एव पूर्वेद्युः क्रियाता इति ।

VERSE: 2 { 1.3.10.2} तम् एभ्यः पुनर् अददुः । तस्मात् पितृभ्यः पूर्वेद्युः क्रियते । यत् पितृभ्यः पूर्वेद्युः करोति । पितृभ्य एव तद् यज्ञं निष्क्रीय यजमानः प्रतनुते । सोमाय पितृपीताय स्वधा नम इत्य् आह । पितुर् एव_अधि सोमपीथम् अवरुन्धे । न हि पिता प्रमीयमाण आहैष सोमपीथ इति । इन्द्रियं वै सोमपीथः । इन्द्रियम् एव सोमपीथम् अवरुन्धे । तेन_इन्द्रियेण द्वितीयां जायाम् अभ्यश्नुते ।

VERSE: 3 { 1.3.10.3} एतद् वै ब्राह्मणं पुरा वाजश्रवसा विदाम् अक्रन्न् । तस्मात् ते द्वे_द्वे जाये अभ्याक्षत । य एवं वेद । अभि द्वितीयां जायाम् अश्नुते । अग्नये कव्यवाहनाय स्वधा नम इत्य् आह । य एव पितॄणाम् अग्निः । तं प्रीणाति । तिस्र आहुतीर् जुहोति । त्रिर् निदधाति । षट् संपद्यन्ते ।

VERSE: 4 { 1.3.10.4} षड् वा ऋतवः । ऋतून् एव प्रीणाति । तूष्णीं मेक्षणम् आदधाति । अस्ति वा हि षष्ठ ऋतुर् न वा । देवान् वै पितॄन् प्रीतान् । मनुष्याः पितरो ऽनु प्रपिपते । तिस्र आहुतीर् जुहोति त्रिर् निदधाति । षट् संपद्यन्ते । षड् वा ऋतवः ।

VERSE: 5 { 1.3.10.5} ऋतवः खलु वै देवाः पितरः । ऋतून् एव देवान् पितॄन् प्रीणाति । तान् प्रीतान् । मनुष्याः पितरो ऽनु प्रपिपते । सकृदाच्छिन्नं बर्हिर् भवति । सकृद् इव हि पितरः । त्रिर् निदधाति । तृतीये वा इतो लोके पितरः । तान् एव प्रीणाति । पराङ् आवर्तते ।

VERSE: 6 { 1.3.10.61} ह्लीका हि पितरः । आ_उष्मणो व्यावृत उपास्ते । ऊष्मभागा हि पितरः । ब्रह्मवादिनो वदन्ति । प्राश्या3ं न प्राश्या3म् इति । यत् प्राश्नीयात् । जन्यम् अन्नम् अद्यात् । प्रमायुकः स्यात् । यन् न प्राश्नीयात् । अहवि स्यात् ।

VERSE: 7 { 1.3.10.7} पितृभ्य आवृश्च्येत । अवघ्रेयम् एव । तन् न_इव प्राशितं न_इव_अप्राशितम् । वीरं वा वै पितरः प्रयन्तो हरन्ति । वीरं वा ददति । दशां च्छिनत्ति । हरणभागा हि पितरः । पितॄन् एव निरवदयते । उत्तर आयुषि लोम छिन्दीत । पितॄणाꣳ ह्य् एतर्हि नेदीयः ।

VERSE: 8 { 1.3.10.8} नमस्करोति । नमस्कारो हि पितॄणाम् । नमो वः पितरो रसाय । नमो वः पितरः शुष्माय । नमो वः पितरो जीवाय । नमो वः पितरः स्वधायै । नमो वः पितरो मन्यवे । नमो वः पितरो घोराय । पितरो नमो वः । य एतस्मिन् लोके स्थ ।

VERSE: 9 { 1.3.10.9} युष्माꣳस् ते ऽनु । ये ऽस्मिन् लोके । मां ते ऽनु । य एतस्मिꣳल् लोके स्थ । यूयं तेषां वसिष्ठा भूयास्त । ये ऽस्मिꣳल् लोके । अहं तेषां वसिष्ठो भूयासम् इत्य् आह । वसिष्ठः समानानां भवति । य एवं विद्वान् पितृभ्यः करोति । एष वै मनुष्याणां यज्ञः ।

VERSE: 10 { 1.3.10.10} देवानां वा इतरे यज्ञाः । तेन वा एतत् पितृलोके चरति । यः पितृभ्यः करोति । स ईश्वरः प्रमेतोः । प्राजापत्यया_ऋचा पुनर् ऐति । यज्ञो वै प्रजापतिः । यज्ञेनैव सह पुनर् ऐति । न प्रमायुको भवति । पितृलोके वा एतद् यजमानश् चरति । यत् पितृभ्यः करोति । स ईश्वर आर्तिम् आर्तोः । प्रजापतिस् त्वा वैनं तत उन्नेतुम् अर्हति_इत्य् आहुः । यत् प्राजापत्यया_ऋचा {प्राजापत्ययर्चा} पुनर् ऐति । प्रजापतिर् एवैनं तत उन्नयति । न_आर्तिम् आर्छति यजमानः ।


प्रपाठक: 4 अनुवाक 1 ग्रहाः VERSE: 1 { 1.4.1.1} उभये वा एते प्रजापतेर् अध्यसृज्यन्त । देवाश् च_असुराश् च । तान् न व्यजानात् । इमे ऽन्य इमे ऽन्य इति । स देवानꣳशून् अकरोत् । तान् अभ्यषुणोत् । तान् पवित्रेण_अपुनात् । तान् परस्तात् पवित्रस्य व्यगृह्णात् । ते ग्रहा अभवन् । तद् ग्रहाणां ग्रहत्वम् ।

VERSE: 2 { 1.4.1.2} देवता वा एता यजमानस्य गृहे गृह्यन्ते । यद् ग्रहाः । विदुर् एनं देवाः । यस्यैवं विदुष एते ग्रहा गृह्यन्ते । एषा वै सोमस्य_आहुतिः । यद् उपाꣳशुः । सोमेन देवाꣳस् तर्पयाणि_इति खलु वै सोमेन यजते । यद् उपाꣳशुं जुहोति । सोमेनैव तद् देवाꣳस् तर्पयति । यद् ग्रहाञ् जुहोति ।

VERSE: 3 { 1.4.1.3} देवा एव तद् देवान् गच्छन्ति । यच् चमसाञ् जुहोति । तेनैव_अनुरूपेण यजमानः सुवर्गं लोकम् एति । किं न्व् एतद् अग्र आसीद् इत्य् आहुः । यत् पात्राणि_इति । इयं वा एतद् अग्र आसीत् । मृन्मयानि वा एतान्य् आसन् । तैर् देवा न व्यावृतम् अगच्छन् । त एतानि दारुमयाणि पात्राण्य् अपश्यन् । 0 तान्य् अकुर्वत ।

VERSE: 4 { 1.4.1.4} तैर् वै ते व्यावृतम् अगच्छन् । यद् दारुमयाणि पात्राणि भवन्ति । व्यावृतम् एव तैर् यजमानो गच्छति । यानि दारुमयाणि पात्राणि भवन्ति । अमुम् एव तैर् लोकम् अभिजयति । यानि मृन्मयानि । इममेव तैर् लोकम् अभिजयति । ब्रह्मवादिनो वदन्ति । काश् चतस्रः स्थालीर् वायव्याः सोमग्रहणीर् इति । देवा वै पृश्निम् अदुह्रन् ।

VERSE: 5 { 1.4.1.5} तस्या एते स्तना आसन् । इयं वै पृश्निः । ताम् आदित्या आदित्यस्थाल्या चतुष्पदः पशून् अदुह्रन् । यद् आदित्यस्थाली भवति । चतुष्पद एव तया पशून् यजमान इमां दुहे । ताम् इन्द्र उक्थ्यस्थाल्या_इन्द्रियम् अदुहत् । यद् उक्थ्यस्थाली भवति । इन्द्रियम् एव तया यजमान इमां दुहे । तां विश्वे देवा आग्रयणस्थाल्या_ऊर्जम् अदुह्रन् । यद् आग्रयणस्थाली भवति ।

VERSE: 6 { 1.4.1.6} ऊर्जम् एव तया यजमान इमां दुहे । तां मनुष्या ध्रुवस्थाल्या_आयुर् अदुह्रन् । यद् ध्रुवस्थाली भवति । आयुर् एव तया यजमान इमां दुहे । स्थाल्या गृह्णाति । वायव्येन जुहोति । तस्माद् अन्येन पात्रेण पशून् दुहन्ति । अन्येन प्रतिगृह्णन्ति । अथो व्यावृतम् एव तद् यजमानो गच्छति ।

अनुवाक 2 सौत्रामणिशेषामन्त्राः VERSE: 1 { 1.4.2.1} युवꣳ सुरामम् अश्विना । नमुचाव् आसुरे सचा । विपिपाना शुभस्पती । इन्द्रं कर्मस्वावतम् । पुत्रम् इव पितराव् अश्विना_उभा । इन्द्र_आवतं कर्मणा दꣳसनाभिः । यत् सुरामं व्यपिबः शचीभिः । सरस्वती त्वा मघवन्न् अभीष्णात् । अहाव्य् अग्ने हविर् आस्ये ते । स्रुचि_इव { स्रुचीवं} घृतं चमू इव सोमः ।

VERSE: 2 { 1.4.2.2} वाजसनिꣳ रयिम् अस्मे सुवीरम् । प्रशस्तं धेहि यशसं बृहन्तम् । यस्मिन्न् अश्वास ऋषभास उक्षणः । वशा मेषा अवसृष्टास आहुताः । कीलालपे सोमपृष्ठाय वेधसे । हृदा मतिं जनय चारुम् अग्नये । नाना हि वां देवहितꣳ सदो मितम् । मा सꣳसृक्षाथां परमे व्योमन् । सुरा त्वम् असि शुष्मिणी सोम एषः । 0 मा मा हिꣳसीः स्वां योनिम् आविशन् ।

VERSE: 3 { 1.4.2.3} यद् अत्र शिष्टꣳ रसिनः सुतस्य । यद् इन्द्रो अपिबच्_शचीभिः । अहं तद् अस्य मनसा शिवेन । सोमꣳ राजानम् इह भक्षयामि । द्वे स्रुती अशृणवं पितॄणाम् । अहं देवानाम् उत मर्त्यानाम् । ताभ्याम् इदं विश्वं भुवनꣳ समेति । अन्तरा पूर्वम् अपरं च केतुम् । यस् ते देव वरुण गायत्रछन्दाः पाशः । तं त एतेन_अवयजे ।

VERSE: 4 { 1.4.2.4} यस् ते देव वरुण त्रिष्टुप्छन्दाः पाशः । तं त एतेन_अवयजे । यस् ते देव वरुण जगती छन्दाः पाशः । तं त एतेन_अवयजे । सोमो वा एतस्य राज्यम् आदत्ते । यो राजा सन् राज्यो वा सोमेन यजते । देवसुवाम् एतानि हवीꣳषि भवन्ति । एतावन्तो वै देवानाꣳ सवाः । त एवास्मै सवान् प्रयच्छन्ति । त एनं पुनः सुवन्ते राज्याय । देवसू राजा भवति ।

अनुवाक 3 अग्निहोत्रे दोहविषयं प्रायश्चित्तं VERSE: 1 { 1.4.3.1} उदस्थाद् देव्य् अदितिर् विश्वरूपी । आयुर् यज्ञपताव् अधात् । इन्द्राय कृण्वती भागम् । मित्राय वरुणाय च । इयं वा अग्निहोत्री । इयं वा एतस्य निषीदति । यस्य_अग्निहोत्री निषीदति । ताम् उत्थापयेत् । उदस्थाद् देव्य् अदितिर् इति । इयं वै देव्य् अदितिः ।

VERSE: 2 { 1.4.3.2} इमाम् एवास्मा उत्थापयति । आयुर् यज्ञपताव् अधाद् इत्य् आह । आयुर् एवास्मिन् दधाति । इन्द्राय कृण्वती भागं मित्राय वरुणाय च_इत्य् आह । यथायजुर् एवैतत् । अवर्तिं वा एषैतस्य पाप्मानं प्रतिख्याय निषीदति । यस्य_अग्निहोत्र्य् उपसृष्टा निषीदति । तां दुग्ध्वा ब्राह्मणाय दद्यात् । यस्य_अन्नं न_अद्यात् । अवर्तिम् एवास्मिन् पाप्मानं प्रतिमुञ्चति ।

VERSE: 3 { 1.4.3.3} दुग्ध्वा ददाति । न ह्य् अदृष्टा दक्षिणा दीयते । पृथिवीं वा एतस्य पयः प्रविशति । यस्य_अग्निहोत्रं दुह्यमानꣳ स्कन्दति । यद् अद्य दुग्धं पृथिवीम् असक्त । यद् ओषधीर् अप्यसरद् यद् आपः । पयो गृहेषु पयो अघ्नियासु । पयो वत्सेषु पयो अस्तु तन् मयि_इत्य् आह । पय एवाऽऽत्मन् गृहेषु पशुषु धत्ते । अप उपसृजति ।

VERSE: 4 { 1.4.3.4} अद्भिर् एवैनद् आप्नोति । यो वै यज्ञस्य_आर्तेन_अनार्तꣳ सꣳसृजति । उभे वै ते तर्हि_ आर्छतः । आर्छति खलु वा एतद् अग्निहोत्रम् । यद् दुह्यमानꣳ स्कन्दति । यद् अभिदुह्यात् । आर्तेन_अनार्तं यज्ञस्य सꣳसृजेत् । तद् एव यादृक् कीदृक् च होतव्यम् । अथ_अन्यां दुग्ध्वा पुनर् होतव्यम् । अनार्तेनैव_आर्तं यज्ञस्य निष्करोति ।

VERSE: 5 { 1.4.3.15} यद्य् उद्द्रुतस्य स्कन्देत् । यत् ततो ऽहुत्वा पुनर् एयात् । यज्ञं विच्छिन्द्यात् । यत्र स्कन्देत् । तन् निषद्य पुनर् गृह्णीयात् । यत्रैव स्कन्दति । तत एवैनत् पुनर् गृह्णाति । तद् एव यादृक् कीदृक् च होतव्यम् । अथ_अन्यां दुग्ध्वा पुनर् होतव्यम् । अनार्तेनैव_आर्तं यज्ञस्य निष्करोति ।

VERSE: 6 { 1.4.3.6} वि वा एतस्य यज्ञश् छिद्यते । यस्य_अग्निहोत्रे ऽधिश्रिते श्वा_अन्तरा धावति । रुद्रः खलु वा एषः । यद् अग्निः । यद् गाम् अन्वत्यावर्तयेत् । रुद्राय पशून् अपिदध्यात् । अपशुर् यजमानः स्यात् । यद् अपो ऽन्वतिषिञ्चेत् । अनाद्यम् अग्नेर् आपः । अनाद्यम् आभ्याम् अपिदध्यात् । गार्हपत्याद् भस्म_आदाय । इदं विष्णुर् विचक्रम इति वैष्णव्या_ऋचा_आहवनीयाद् ध्वꣳसयन्न् उद्द्रवेत् । यज्ञो वै विष्णुः । यज्ञेनैव यज्ञꣳ संतनोति । भस्मना पदमपि वपति शान्त्यै ।

अनुवाक 4 अग्निहोत्रे वह्निविषयं प्रायश्चित्तं VERSE: 1 { 1.4.4.1} नि वा एतस्य_आहवनीयो गार्हपत्यं कामयते । नि गार्हपत्य आहवनीयम् । यस्य_अग्निम् अनुद्धृतꣳ सूर्यो ऽभिनिम्रोचति । दर्भेण हिरण्यं प्रबध्य पुरस्ताद्धरेत् । अथ_अग्निम् । अथ_अग्निहोत्रम् । यद्धिरण्यं पुरस्ताद्धरति । ज्योतिर् वै हिरण्यम् । ज्योतिर् एवैनं पश्यन्न् उद्धरति । यद् अग्निं पूर्वꣳ हरत्य् अथ_अग्निहोत्रम् ।

VERSE: 2 { 1.4.4.2} भागधेयेनैवैनं प्रणयति । ब्राह्मण आर्षेय उद्धरेत् । ब्राह्मणो वै सर्वा देवताः । सर्वाभिर् एवैनं देवताभिर् उद्धरति । अग्निहोत्रम् उपसाद्य_आतमितोर् आसीत । व्रतम् एव हतम् अनुम्रियते । अन्तं वा एष आत्मनो गच्छति । यस् ताम्यति । अन्तम् एष यज्ञस्य गच्छति । यस्य_अग्निम् अनुद्धृतꣳ सूर्यो ऽभिनिम्रोचति ।

VERSE: 3 { 1.4.4.3} पुनः समन्य जुहोति । अन्तेनैव_अन्तं यज्ञस्य निष्करोति । वरुणो वा एतस्य यज्ञं गृह्णाति । यस्य_अग्निम् अनुद्धृतꣳ सूर्यो ऽभिनिम्रोचति । वारुणं चरुं निर्वपेत् । तेनैव यज्ञं निष्क्रीणीते । नि वा एतस्य_आहवनीयो गार्हपत्यं कामयते । नि गार्हपत्य आहवनीयम् । यस्य_अग्निम् अनुद्धृतꣳ सूर्यो ऽभ्युदेति । चतुर्गृहीतम् आज्यं पुरस्ताद्धरेत् ।

VERSE: 4 { 1.4.4.4} अथ_अग्निम् । अथ_अग्निहोत्रम् । यद् आज्यं पुरस्ताद् धरति । एतद् वा अग्नेः प्रियं धाम । यद् आज्यम् । प्रियेणैवैनं धाम्ना समर्धयति । यद् अग्निं पूर्वꣳ हरत्य् अथ_अग्निहोत्रम् । भागधेयेनैवैनं प्रणयति । ब्राह्मण आर्षेय उद्धरेत् । ब्राह्मणो वै सर्वा देवताः ।

VERSE: 5 { 1.4.4.5} सर्वाभिर् एवैनं देवताभिर् उद्धरति । पराची वा एतस्मै व्युच्छन्ती व्युच्छति । यस्य_अग्निम् अनुद्धृतꣳ सूर्यो ऽभ्युदेति । उषाः केतुना जुषताम् । यज्ञं देवेभिर् इन्वितम् । देवेभ्यो मधुमत्तमꣳ स्वाहेति प्रत्यङ् निषद्य_आज्येन जुहुयात् । प्रतीचीम् एवास्मै विवासयति । अग्निहोत्रम् उपसाद्य_आतमितोर् आसीत । व्रतम् एव हतम् अनुम्रियते । अन्तं वा एष आत्मनो गच्छति ।

VERSE: 6 { 1.4.4.6} यस् ताम्यति । अन्तम् एष यज्ञस्य गच्छति । यस्य_अग्निम् अनुद्धृतꣳ सूर्यो ऽभ्युदेति । पुनः समन्य जुहोति । अन्तेनैव_अन्तं यज्ञस्य निष्करोति । मित्रो वा एतस्य यज्ञं गृह्णाति । यस्य_अग्निम् अनुद्धृतꣳ सूर्यो ऽभ्युदेति । मैत्रं चरुं निर्वपेत् । तेनैव यज्ञं निष्क्रीणीते । यस्य_आहवनीये ऽनुद्वाते गार्हपत्य उद्वायेत् ।

VERSE: 7 { 1.4.4.7} यद् आहवनीयम् अनुद्वाप्य गार्हपत्यं मन्थेत् । विच्छिन्द्यात् । भ्रातृव्यम् अस्मै जनयेत् । यद् वै यज्ञस्य वास्तव्यं क्रियते । तद् अनु रुद्रो ऽवचरति । यत् पूर्वम् अन्ववस्येत् । वास्तव्यम् अग्निम् उपासीत । रुद्रो ऽस्य पशून् घातुकः स्यात् । आहवनीयम् उद्वाप्य । गार्हपत्यं मन्थेत् ।

VERSE: 8 { 1.4.4.8} इतः प्रथमं जज्ञे अग्निः । स्वाद् योनेर् अधि जातवेदाः । स गायत्रिया त्रिष्टुभा जगत्या । देवेभ्यो हव्यं वहतु प्रजानन्न् इति । छन्दोभिर् एवैनꣳ स्वाद् योनेः प्रजनयति । गार्हपत्यं मन्थति । गार्हपत्यं वा अन्व् आहिताग्नेः पशव उपतिष्ठन्ते । स यद् उद्वायति । तद् अनु पशवो ऽपक्रामन्ति । इषे रय्यै रमस्व ।

VERSE: 9 { 1.4.4.9} सहसे द्युम्नाय । ऊर्जे पत्यायेत्य् आह । पशवो वै रयिः । पशून् एवास्मै रमयति । सारस्वतौ त्वा_उत्सौ समिन्धाताम् इत्य् आह । ऋक्सामे वै सारस्वताव् उत्सौ । ऋक्सामाभ्याम् एवैनꣳ समिन्धे । सम्राड् असि विराड् असि_इत्य् आह । रथन्तरं वै सम्राट् । बृहद् विराट् ।

VERSE: 10 { 1.4.4.10} ताभ्याम् एवैनꣳ समिन्धे । वज्रो वै चक्रम् । वज्रो वा एतस्य यज्ञं विच्छिनत्ति । यस्य_अनो वा रथो वा_अन्तरा_अग्नी याति । आहवनीयम् उद्वाप्य । गार्हपत्याद् उद्धरेत् । यद् अग्ने पूर्वं प्रभृतं पदꣳ हि ते । सूर्यस्य रश्मीन् अन्व् आततान । तत्र रयिष्ठाम् अनु संभर_एतम् । सं नः सृज सुमत्या वाजवत्या_इति । { 1.4.4.9} पूर्वेणैवास्य यज्ञेन यज्ञम् अनु संतनोति । त्वम् अग्ने सप्रथा असि_इत्य् आह । अग्निः सर्वा देवताः । देवताभिर् एव यज्ञꣳ संतनोति । अग्नये पथिकृते पुरोडाशम् अष्टाकपालं निर्वपेत् । अग्निम् एव पथिकृतꣳ स्वेन भागधेयेन_उपधावति । स एवैनं यज्ञियं पन्थाम् अपिनयति । अनड्वान् दक्षिणा । वही ह्य् एष समृद्ध्यै ।

अनुवाक 5 सोमातिरेक प्रायश्चित्तम् VERSE: 1 { 1.4.5.1} यस्य प्रातःसवने सोमो ऽतिरिच्यते । माध्यन्दिनꣳ सवनं कामयमानो ऽभ्यतिरिच्यते । गौर् धयति मरुताम् इति धयद्वतीषु कुर्वन्ति । हिनस्ति वै सन्ध्य् अधीतम् । सन्धि_इव खलु वा एतत् । यत् सवनस्य_अतिरिच्यते । यद् धयद्वतीषु कुर्वन्ति । सन्धेः शान्त्यै । गायत्रꣳ साम भवति पञ्चदशः स्तोमः । तेनैव प्रातःसवनान् न यन्ति ।

VERSE: 2 { 1.4.5.2} मरुत्वतीषु कुर्वन्ति । तेनैव माध्यन्दिनात् सवनान् न यन्ति । होतुश् चमसम् अनु_उन्नयन्ते । होता_अनुशꣳसति । मध्यत एव यज्ञꣳ समादधाति । यस्य माध्यन्दिने सवने सोमो ऽतिरिच्यते । आदित्यं तृतीयसवनं कामयमानो ऽभ्यतिरिच्यते । गौरिवीतꣳ साम भवति । अतिरिक्तं वै गौरिवीतम् । अतिरिक्तं यत् सवनस्य_अतिरिच्यते ।

VERSE: 3 { 1.4.5.2} अतिरिक्तस्य शान्त्यै । बण्महाꣳ असि सूर्य_इति कुर्वन्ति । यस्यैवाऽऽदित्यस्य सवनस्य कामेन_अतिरिच्यते । तेनैवैनं कामेन समर्धयन्ति । गौरिवीतꣳ साम भवति । तेनैव माध्यन्दिनात् सवनान् न यन्ति । सप्तदशः स्तोमः । तेनैव तृतीयसवनान् न यन्ति । होतुश् चमसम् अनु_उन्नयन्ते । होता_अनुशꣳसति ।

VERSE: 4 { 1.4.5.4} मध्यत एव यज्ञꣳ समादधाति । यस्य तृतीयसवने सोमो ऽतिरिच्येत । उक्थ्यं कुर्वीत । यस्य_उक्थ्ये ऽतिरिच्येत । अतिरात्रं कुर्वीत । यस्य_अतिरात्रे ऽतिरिच्येत । तत् त्वै दुष्प्रज्ञानम् । यजमानं वा एतत् पशव आसाह्य यन्ति । बृहत् साम भवति । बृहद् वा इमाꣳल् लोकान् दाधार । बार्हताः पशवः । बृहता_एवास्मै पशून् दाधार । शिपिविष्टवतीषु कुर्वन्ति शिपिविष्टो वै देवानां पुष्टं । पुष्ट्या_एवैनꣳ समर्धयन्ति । होतुश् चमसम् अनु_उन्नयन्ते । होता_अनुशꣳसति । मध्यत एव यज्ञꣳ समादधाति ।

अनुवाक 6 एकग्रामवर्तिबहुसोमयाग विशेषः VERSE: 1 { 1.4.6.1} एकैको वै जनतायाम् इन्द्रः । एकं वा एताव् इन्द्रम् अभि सꣳसुनुतः । यौ द्वौ सꣳसुनुतः । प्रजापतिर् वा एष वितायते । यद् यज्ञः । तस्य ग्रावाणो दन्ताः । अन्यतरं वा एते सꣳसुन्वतोर् निर्बप्सति । पूर्वेण_उपसृत्या देवता इत्य् आहुः । पूर्वोपसृतस्य वै श्रेयान् भवति । एतिवन्त्य् आज्यानि भवन्त्य् अभिजित्यै ।

VERSE: 2 { 1.4.6.2} मरुत्वतीः प्रतिपदः । मरुतो वै देवानाम् अपराजितम् आयतनम् । देवानाम् एव_अपराजित आयतने यतते । उभे बृहद्रथन्तरे भवतः । इयं वाव रथन्तरम् । असौ बृहत् । आभ्याम् एवैनम् अन्तरेति । वाचश् च मनसश् च । प्राणाच् च_अपानाच् च । दिवश् च पृथिव्याश् च ।

VERSE: 3 { 1.4.6.3} सर्वस्माद् वित्ताद् वेद्यात् । अभिवर्तो ब्रह्मसामं भवति । सुवर्गस्य लोकस्य_अभिवृत्त्यै । अभिजिद् भवति । सुवर्गस्य लोकस्य_अभिजित्यै । विश्वजिद् भवति । विश्वस्य जित्यै । यस्य भूयाꣳसो यज्ञक्रतव इत्य् आहुः । स देवता वृङ्क्त इति । यद्य् अग्निष्टोमः सोमः परस्तात् स्यात् ।

VERSE: 4 { 1.4.6.4} उक्थ्यं कुर्वीत । यद्य् उक्थ्यः स्यात् । अतिरात्रं कुर्वीत । यज्ञक्रतुभिर् एवास्य देवता वृङ्क्ते । यो वै छन्दोभिर् अभिभवति । स संसुन्वतोर् अभिभवति । संवेशाय त्वा_उपवेशाय त्वा_इत्य् आह । छन्दाꣳसि वै संवेश उपवेषः । छन्दोभिर् एवास्य छन्दाꣳस्य् अभिभवति । इष्टर्गो वा ऋत्विजाम् अध्वर्युः ।

VERSE: 5 { 1.4.6.36} इष्टर्गः खलु वै पूर्वो ऽर्ष्टुः क्षीयते । प्राणापानौ मृत्योर् मा पातम् इत्य् आह । प्राणापानयोरेव श्रयते । प्राणापानौ मा मा हासिष्टम् इत्य् आह । नैनं पुरा_आयुषः प्राणापानौ जहितः । आर्तिं वा एते नियन्ति । येषां दीक्षितानां प्रमीयते । तं यद् अववर्जेयुः । क्रूरकृताम् इवैषां लोकः स्यात् । आहर दह_इति ब्रूयात् ।

VERSE: 6 { 1.4.6.6} तं दक्षिणतो वेद्यै निधाय । सर्पराज्ञिया ऋग्भिः स्तुयुः । इयं वै सर्पतो राज्ञी । अस्या एवैनं परिददति । व्यृद्धं तद् इत्य् आहुः । यत् स्तुतम् अननुशस्तम् इति । होता प्रथमः प्राचीनावीती मार्जालीयं परीयात् । यामीर् अनुब्रुवन् । सर्पराज्ञीनां कीर्तयेत् । उभयोर् एवैनं लोकयोः परिददति ।

VERSE: 7 { 1.4.6.7} अथो धुवन्त्य् एवैनम् । अथो ऽन्ये वाऽस्मै ह्नुवते । त्रिः परियन्ति । त्रय इमे लोकाः । एभ्य एवैनं लोकेभ्यो धुवते । त्रिः पुनः परियन्ति । षट् संपद्यन्ते । षड् वा ऋतवः । ऋतुभिर् एवैनं धुवते । अग्न आयूꣳषि पवस इति प्रतिपदं कुर्वीरन् । रथन्तरसामैषाꣳ सोमः स्यात् । आयुर् एवाऽऽत्मन् दधते । अथो पाप्मानम् एव विजहतो यन्ति ।

अनुवाक 7 यूपविरोहणादि प्रायश्चित्तानि VERSE: 1 { 1.4.7.1} असुर्यं वा एतस्माद् वर्णं कृत्वा । पशवो वीर्यम् अपक्रामन्ति । यस्य यूपो विरोहति । त्वाष्ट्रं बहुरूपम् आलभेत । त्वष्टा वै रूपाणाम् ईशे । य एव रूपाणाम् ईशे । सो ऽस्मिन् पशून् वीर्यं यच्छति । न_अस्मात् पशवो वीर्यम् अप क्रामन्ति । आर्तिं वा एते नियन्ति । येषां दीक्षितानाम् अग्निर् उद्वायति ।

VERSE: 2 { 1.4.7.2} यद् आहवनीय उद्वायेत् । यत् तं मन्थेत् । विच्छिन्द्यात् । भ्रातृव्यम् अस्मै जनयेत् । यद् आहवनीय उद्वायेत् । आग्नीध्राद् उद्धरेत् । यद् आग्नीध्र उद्वायेत् । गार्हपत्याद् उद्धरेत् । यद् गार्हपत्य उद्वायेत् । अत एव पुनर् मन्थेत् ।

VERSE: 3 { 1.4.7.3} अत्र वाव स निलयते । यत्र खलु वै निलीनम् उत्तमं पश्यन्ति । तदेनम् इच्छन्ति । यस्माद् दारोर् उद्वायेत् । तस्य_अरणी कुर्यात् । क्रुमुकम् अपि कुर्यात् । एषा वा अग्नेः प्रिया तनूः । यत् क्रुमुकः । प्रियया_एवैनं तनुवा समर्धयति । गार्हपत्यं मन्थति ।

VERSE: 4 { 1.4.7.4} गार्हपत्यो वा अग्नेर् योनिः । स्वाद् एवैनं योनेर् जनयति । न_अस्मै भ्रातृव्यं जनयति । यस्य सोम उपदस्येत् । सुवर्णꣳ हिरण्यं द्वेधा विच्छिद्य । ऋजीषे ऽन्यद् आधूनुयात् । जुहुयाद् अन्यत् । सोमम् एव_अभिषुणोति । सोमं जुहोति । सोमस्य वा अभिषूयमाणस्य प्रिया तनूर् उदक्रामत् ।

VERSE: 5 { 1.4.7.5} तत् सुवर्णꣳ हिरण्यम् अभवत् । यत् सुवर्णꣳ हिरण्यं कुर्वन्ति । प्रियया_एवैनं तनुवा समर्धयन्ति । यस्य_अक्रीतꣳ सोमम् अपहरेयुः । क्रीणीयाद् एव । सा_एव ततः प्रायश्चित्तिः । यस्य क्रीतम् अपहरेयुः । आदाराꣳश्च फाल्गुनानि च_अभिषुणुयात् । गायत्री यꣳ सोमम् आहरत् । तस्य यो ऽꣳशुः परापतत् ।

VERSE: 6 { 1.4.7.6} त आदारा अभवन् । इन्द्रो वृत्रम् अहन् । तस्य वल्कः परापतत् । तानि फाल्गुनान्य् अभवन् । पशवो वै फाल्गुनानि । पशवः सोमो राजा । यद् आदाराꣳश् च फाल्गुनानि च_अभिषुणोति । सोमम् एव राजानमभिषुणोति । शृतेन प्रातःसवने श्रीणीयात् । दध्ना मध्यंदिने ।

VERSE: 7 { 1.4.7.7} नीतमिश्रेण तृतीयसवने । अग्निष्टोमः सोमः स्याद् रथन्तरसाम । य एव_ऋत्विजो वृताः स्युः । त एनं याजयेयुः । एकां गां दक्षिणां दद्यात् तेभ्य एव । पुनः सोमं क्रीणीयात् । यज्ञेनैव तद् यज्ञम् इच्छति । सा_एव ततः प्रायश्चित्तिः । सर्वाभ्यो वा एष देवताभ्यः सर्वेभ्यः पृष्ठेभ्य आत्मानम् आगुरते । यः सत्त्राय_आगुरते । एतावान् खलु वै पुरुषः । यावद् अस्य वित्तम् । सर्ववेदसेन यजेत । सर्वपृष्ठो ऽस्य सोमः स्यात् । सर्वाभ्य एव देवताभ्यः सर्वेभ्यः पृष्ठेभ्य आत्मानं निष्क्रीणीते ।

अनुवाक 8 शुद्धिहेतवो मन्त्राः VERSE: 1 { 1.4.8.1} पवमानः सुवर्जनः । पवित्रेण विचर्षणिः । यः पोता स पुनातु मा । पुनन्तु मा देवजनाः । पुनन्तु मनवो धिया । पुनन्तु विश्व आयवः । जातवेदः पवित्रवत् । पवित्रेण पुनाहि मा । शुक्रेण देव दीद्यत् । अग्ने क्रत्वा क्रतूꣳरनु ।

VERSE: 2 { 1.4.8.2} यत् ते पवित्रम् अर्चिषि । अग्ने विततम् अन्तरा । ब्रह्म तेन पुनीमहे । उभाभ्यां देव सवितः । पवित्रेण सवेन च । इदं ब्रह्म पुनीमहे । वैश्वदेवी पुनती देव्य् आगात् । यस्यै बह्वीस् तनुवो वीतपृष्ठाः । तया मदन्तः सधमाद्येषु । वयꣳ स्याम पतयो रयीणाम् ।

VERSE: 3 { 1.4.8.3} वैश्वानरो रश्मिभिर् मा पुनातु । वातः प्राणेन_इषिरो मयोभूः । द्यावापृथिवी पयसा पयोभिः । ऋतावरी यज्ञिये मा पुनीताम् । बृहद्भिः सवितस्तृभिः । वर्षिष्ठैर् देव मन्मभिः । अग्ने दक्षैः पुनाहि मा । येन देवा अपुनत । येन_आपो दिव्यं कशः । तेन दिव्येन ब्रह्मणा ।

VERSE: 4 { 1.4.8.4} इदं ब्रह्म पुनीमहे । यः पावमानीर् अध्येति । ऋषिभिः संभृतꣳ रसम् । सर्वꣳ स पूतम् अश्नाति । स्वदितं मातरिश्वना । पावमानीर् यो अध्येति । ऋषिभिः संभृतꣳ रसम् । तस्मै सरस्वती दुहे । क्षीरꣳ सर्पिर् मधूदकम् । पावमानीः स्वस्त्ययनीः ।

VERSE: 5 { 1.4.8.5} सुदुघा हि पयस्वतीः । ऋषिभिः संभृतो रसः । ब्राह्मणेष्व् अमृतꣳ हितम् । पावमानीर् दिशन्तु नः । इमं लोकम् अथो अमुम् । कामान् समर्धयन्तु नः । देवीर् देवैः समाभृताः । पावमानीः स्वस्त्ययनीः । सुदुघा हि घृतश्चुतः । ऋषिभिः सम्भृतो रसः ।

VERSE: 6 { 1.4.8.6} ब्राह्मणेष्व् अमृतꣳ हितम् । येन देवाः पवित्रेण । आत्मानं पुनते सदा । तेन सहस्रधारेण । पावमान्यः पुनन्तु मा । प्राजापत्यं पवित्रम् । शत_उद्यामꣳ हिरण्मयम् । तेन ब्रह्मविदो वयम् । पूतं ब्रह्म पुनीमहे । इन्द्रः सुनीती सह मा पुनातु । सोमः स्वस्त्या वरुणः समीच्या । यमो राजा प्रमृणाभिः पुनातु मा । जातवेदा मा_ऊर्जयन्त्या पुनातु ।

अनुवाक 9 राजसूयगत चातुर्मास्यशेषः VERSE: 1 { 1.4.9.1} प्रजा वै सत्रम् आसत तपस् तप्यमाना अजुह्वतीः । देवा अपश्यं चमसं घृतस्य पूर्णꣳ स्वधाम् । तम् उप_उदतिष्ठन्तम् अजुहवुः । तेन_अर्धमास ऊर्जम् अवारुन्धत । तस्माद् अर्धमासे देवा इज्यन्ते । पितरो ऽपश्यं चमसं घृतस्य पूर्णꣳ स्वधाम् । तम् उप_उदतिष्ठन्तम् अजुहवुः । तेन मास्यूर्जम् अवारुन्धत । तस्मान् मासि पितृभ्यः क्रियते । मनुष्या अपश्यं चमसं घृतस्य पूर्णꣳ स्वधाम् ।

VERSE: 2 { 1.4.9.53} तम् उप_उदतिष्ठन्तम् अजुहवुः । तेन द्वयीमूर्जम् अवारुन्धत । तस्माद् द्विर् अह्नो मनुष्येभ्य उपह्रियते । प्रातश् च सायं च । पशवो ऽपश्यं चमसं घृतस्य पूर्णꣳ स्वधाम् । तम् उप_उदतिष्ठन्तम् अजुहवुः । तेन त्रयीमूर्जम् अवारुन्धत । तस्मात् त्रिर् अह्नः पशवः प्रेरते । प्रातः संगवे सायम् । असुरा अपश्यं चमसं घृतस्य पूर्णꣳ स्वधाम् ।

VERSE: 3 { 1.4.9.3} तम् उप_उदतिष्ठन्तम् अजुहवुः । तेन संवत्सर ऊर्जम् अवारुन्धत । ते देवा अमन्यन्त । अमी वा इदम् अभूवन् । यद् वयꣳ स्म इति । त एतानि चातुर्मास्यान्य् अपश्यन् । तानि निरवपन् । तैर् एवैषां तामूर्जम् अवृञ्जत । ततो देवा अभवन् । परा_असुराः ।

VERSE: 4 { 1.4.9.4} यद् यजते । याम् एव देवा ऊर्जम् अवारुन्धत । तां तेन_अवरुन्धे । यत् पितृभ्यः करोति । याम् एव पितर ऊर्जम् अवारुन्धत । तां तेन_अवरुन्धे । यद् आवसथे ऽन्नꣳ हरन्ति । याम् एव मनुष्या ऊर्जम् अवारुन्धत । तां तेन_अवरुन्धे । यद् दक्षिणां ददाति ।

VERSE: 5 { 1.4.9.5} याम् एव पशव ऊर्जम् अवारुन्धत । तां तेन_अवरुन्धे । यच् चातुर्मास्यैर् यजते । याम् एव_असुरा ऊर्जम् अवारुन्धत । तां तेन_अवरुन्धे । भवत्य् आत्मना । परा_अस्य भ्रातृव्यो भवति । विराजो वा एषा विक्रान्तिः । यच् चातुर्मास्यानि । वैश्वदेवेन_अस्मिꣳल् लोके प्रत्यतिष्ठत् । वरुणप्रघासैर् अन्तरिक्षे । साकमेधैर् अमुष्मिꣳल् लोके । एष हत्वा वै तत् सर्वं भवति । य एवं विद्वाꣳश् चातुर्मास्यैर् यजते ।

अनुवाक 10 राजसूयगत चातुर्मास्यशेषः VERSE: 1 { 1.4.10.1} अग्निर् वाव संवत्सरः । आदित्यः परिवत्सरः । चन्द्रमा इदावत्सरः । वायुर् अनुवत्सरः । यद् वैश्वदेवेन यजते । अग्निम् एव तत् संवत्सरम् आप्नोति । तस्माद् वैश्वदेवेन यजमानः । संवत्सरीणाꣳ स्वस्तिम् आशास्त इत्य् आशासीत । यद् वरुणप्रघासैर् यजते । आदित्यम् एव तत् परिवत्सरम् आप्नोति ।

VERSE: 2 { 1.4.10.2} तस्माद् वरुणप्रघासैर् यजमानः । परिवत्सरीणाꣳ स्वस्तिम् आशास्त इत्य् आशासीत । यत् साकमेधैर् यजते । चन्द्रमसम् एव तद् इदावत्सरम् आप्नोति । तस्मात् साकमेधैर् यजमानः । इदावत्सरीणाꣳ स्वस्तिम् आशास्त इत्य् आशासीत । यत् पितृयज्ञेन यजते । देवान् एव तद् अन्ववस्यति । अथ वा अस्य वायुश् च_अनुवत्सरश् च_अप्रीताव् उच्छिष्येते । यत्_शुनासीरीयेण यजते ।

VERSE: 3 { 1.4.10.3} वायुम् एव तद् अनुवत्सरम् आप्नोति । तस्मात्_शुनासीरीयेण यजमानः । अनुवत्सरीणाꣳ स्वस्तिम् आशास्त इत्य् आशासीत । संवत्सरं वा एष ईप्सति_इत्य् आहुः । यश् चातुर्मास्यैर् यजत इति । एष ह त्वै संवत्सरम् आप्नोति । य एवं विद्वाꣳश् चातुर्मास्यैर् यजते । विश्वे देवाः समयजन्त । ते ऽग्निम् एव_अयजन्त । त एतं लोकम् अजयन् ।

VERSE: 4 { 1.4.10.4} यस्मिन्न् अग्निः । यद् वैश्वदेवेन यजते । एतम् एव लोकं जयति । यस्मिन्न् अग्निः । अग्नेर् एव सायुज्यम् उपैति । यदा वैश्वदेवेन यजते । अथ संवत्सरस्य गृहपतिम् आप्नोति । यदा संवत्सरस्य गृहपतिम् आप्नोति । अथ सहस्रयाजिनम् आप्नोति । यदा सहस्रयाजिनम् आप्नोति ।

VERSE: 5 { 1.4.10.5} अथ गृहमेधिनम् आप्नोति । यदा गृहमेधिनम् आप्नोति । अथ_अग्निर् भवति । यदा_अग्निर् भवति । अथ गौर् भवति । एषा वै वैश्वदेवस्य मात्रा । एतद् वा एतेषाम् अवमम् । अतो_ऽतो वा उत्तराणि श्रेयाꣳसि भवन्ति । यद् विश्वे देवाः समयजन्त । तद् वैश्वदेवस्य वैश्वदेवत्वम् ।

VERSE: 6 { 1.4.10.6} अथ_आदित्यो वरुणꣳ राजानं वरुणप्रघासैर् अयजत । स एतं लोकम् अजयत् । यस्मिन्न् आदित्यः । यद् वरुणप्रघासैर् यजते । एतम् एव लोकं जयति । यस्मिन्न् आदित्यः । आदित्यस्यैव सायुज्यम् उपैति । यद् आदित्यो वरुणꣳ राजानं वरुणप्रघासैर् अयजत । तद् वरुणप्रघासानं वरुणप्रघासत्वम् । अथ सोमो राजा छन्दाꣳसि साकमेधैर् अयजत ।

VERSE: 7 { 1.4.10.7} स एतं लोकम् अजयत् । यस्मिꣳश् चन्द्रमा विभाति । यत् साकमेधैर् यजते । एतम् एव लोकं जयति । यस्मिꣳश् चन्द्रमा विभाति । चन्द्रमस एव सायुज्यम् उपैति । सोमो वै चन्द्रमाः । एष ह त्वै साक्षात् सोमं भक्षयति । य एवं विद्वान् साकमेधैर् यजते । यत् सोमश् च राजा छन्दाꣳसि च समैधन्त ।

VERSE: 8 { 1.4.10.8} तत् साकमेधानाꣳ साकमेधात्वम् । अथ_ऋतवः पितरः प्रजापतिं पितरं पितृयज्ञेन_अयजन्त । त एतं लोकम् अजयन् । यस्मिन्न् ऋतवः । यत् पितृयज्ञेन यजते । एतम् एव लोकं जयति । यस्मिन्न् ऋतवः । ऋतूनाम् एव सायुज्यम् उपैति । यद् ऋतवः पितरः प्रजापतिं पितरं पितृयज्ञेन_अयजन्त । तत् पितृयज्ञस्य पितृयज्ञत्वम् ।

VERSE: 9 { 1.4.10.9} अथ_ओषधय इमं देवं त्र्यम्बकैर् अयजन्त प्रथेमहि_इति । ततो वै ता अप्रथन्त । य एवं विद्वाꣳस् त्र्यम्बकैर् यजते । प्रथते प्रजया पशुभिः । अथ वायुः परमेष्ठिनꣳ शुनासीरीयेण_अयजत । स एतं लोकम् अजयत् । यस्मिन् वायुः । यत्_शुनासीरीयेण यजते । एतम् एव लोकं जयति । यस्मिन् वायुः ।

VERSE: 10 { 1.4.10.10} वायोर् एव सायुज्यम् उपैति । ब्रह्मवादिनो वदन्ति । प्र चातुर्मास्ययाजी मीयता3 न प्रमीयता3 इति । जीवन् वा एष ऋतून् अप्येति । यदि वसन्ता प्रमीयते । वसन्तो भवति । यदि ग्रीष्मे ग्रीष्मः । यदि वर्षासु वर्षाः । यदि शरदि शरत् । यदि हेमन् हेमन्तः । ऋतुर् भूत्वा संवत्सरम् अप्येति । संवत्सरः प्रजापतिः । प्रजापतिर् वावैषः ।


प्रपाठक: 5 नक्षत्रेष्टका अनुवाक 1 वैकृतिनक्षत्रेष्टकामन्त्राः VERSE: 1 { 1.5.1.1} अग्नेः कृत्तिकाः । शुक्रं परस्तात्_ ज्योतिर् अवस्तात् । प्रजापते रोहिणी । आपः परस्ताद् ओषधयो ऽवस्तात् । सोमस्य_इन्वका । विततानि परस्ताद् वयन्तो ऽवस्तात् । रुद्रस्य बाहू । मृगयवः परस्ताद् विक्षारो ऽवस्तात् । अदित्यै पुनर्वसू । वातः परस्ताद् आर्द्रम् अवस्तात् ।

VERSE: 2 { 1.5.1.2} बृहस्पतेस् तिष्यः । जुह्वतः परस्ताद् यजमाना अवस्तात् । सर्पाणाम् आश्रेषाः । अभ्यागच्छन्तः परस्ताद् अभ्यानृत्यन्तो ऽवस्तात् । पितृणां मघाः । रुदन्तः परस्ताद् अपभ्रꣳशो ऽवस्तात् । अर्यम्णः पूर्वे फल्गुनी । जाया परस्ताद् ऋषभो ऽवस्तात् । भगस्य_उत्तरे । वहतवः परस्ताद् वहमाना अवस्तात् ।

VERSE: 3 { 1.5.1.3} देवस्य सवितुर् हस्तः । प्रसवः परस्तात् सनिर् अवस्तात् । इन्द्रस्य चित्रा । ऋतं परस्तात् सत्यम् अवस्तात् । वायोर् निष्ट्या । व्रततिः परस्ताद् असिद्धिर् अवस्तात् । इन्द्राग्नियोर् विशाखे । युगानि परस्तात् कृषमाणा अवस्तात् । मित्रस्य_अनूराधाः । अभ्यारोहत् परस्ताद् अभ्यारूढम् अवस्तात् ।

VERSE: 4 { 1.5.1.4} इन्द्रस्य रोहिणी । शृणत् परस्तात् प्रतिशृणद् अवस्तात् । निर्ऋत्यै मूलवर्हणी । प्रतिभञ्जन्तः परस्तात् प्रतिशृणन्तो ऽवस्तात् । अपां पूर्वा अषाढाः । वर्चः परस्तात् समितिर् अवस्तात् । विश्वेषां देवानाम् उत्तराः । अभिजयत् परस्ताद् अभिजितम् अवस्तात् । विष्णोः श्रोणा । पृच्छमानाः परस्तात् पन्था अवस्तात् ।

VERSE: 5 { 1.5.1.5} वसूनाꣳ श्रविष्ठाः । भूतं परस्ताद् भूतिर् अवस्तात् । इन्द्रस्य शतभिषक् । विश्वव्यचाः परस्ताद् विश्वक्षितिर् अवस्तात् । अजस्य_एकपदः पूर्वे प्रोष्ठपदाः । वैश्वानरं परस्ताद् वैश्वावसवम् अवस्तात् । अहेर् बुध्नियस्य_उत्तरे । अभिषिञ्चन्तः परस्ताद् अभिषुण्वन्तो ऽवस्तात् । पूष्णो रेवती । गावः परस्ताद् वत्सा अवस्तात् । अश्विनोर् अश्वयुजौ । ग्रामः परस्तात् सेना_अवस्तात् । यमस्य_अपभरणीः । अपकर्षन्तः परस्ताद् अपवहन्तो ऽवस्तात् । पूर्णा पश्चाद् यत् ते देवा अदधुः ।

अनुवाक 2 कर्मानुष्ठानाय पुण्यकालः VERSE: 1 { 1.5.2.1} यत् पुण्यं नक्षत्रम् । तद् बट् कुर्वीत_उपव्युषम् । यदा वै सूर्य उदेति । अथ नक्षत्रं न_एति । यावति तत्र सूर्यो गच्छेत् । यत्र जघन्यं पश्येत् । तावति कुर्वीत यत्कारी स्यात् । पुण्याह एव कुरुते । एवꣳ ह वै यज्ञेषुं च शतद्युम्नं च मात्स्यो निरवसाययाञ् चकार ।

VERSE: 2 { 1.5.2.2} यो वै नक्षत्रियं प्रजापतिं वेद । उभयोर् एनं लोकयोर् विदुः । हस्त एव_अस्य हस्तः । चित्रा शिरः । निष्ट्या हृदयम् । ऊरू विशाखे । प्रतिष्ठा_अनूराधाः । एष वै नक्षत्रियः प्रजापतिः । य एवं वेद । उभयोर् एनं लोकयोर् विदुः ।

VERSE: 3 { 1.5.2.3} अस्मिꣳश् च_अमुष्मिꣳश् च । यां कामयेत दुहितरं प्रिया स्याद् इति । तां निष्ट्यायां दद्यात् । प्रिया_एव भवति । नैव तु पुनर् आगच्छति । अभिजित्_ नाम नक्षत्रम् । उपरिष्टाद् अषाढानाम् । अवस्तात्_श्रोणायै । देवासुराः संयत्ता आसन् । ते देवास् तस्मिन् नक्षत्रे ऽभ्यजयन् ।

VERSE: 4 { 1.5.2.4} यद् अभ्यजयन् । तद् अभिजितो ऽभिजित्त्वम् । यं कामयेत_अनपजय्यं जयेद् इति । तम् एतस्मिन् नक्षत्रे यातयेत् । अनपजय्यम् एव जयति । पापपराजितम् इव तु । प्रजापतिः पशून् असृजत । ते नक्षत्रंनक्षत्रम् उपातिष्ठन्त । ते समावन्त एव_अभवन् । ते रेवतीम् उपातिष्ठन्त ।

VERSE: 5 { 1.5.2.10} ते रेवत्यां प्राभवन् । तस्माद् रेवत्यां पशूनां कुर्वीत । यत् किं च_अर्वाचीनꣳ सोमात् । प्र_एव भवन्ति । सलिलं वा इदम् अन्तरासीत् । यद् अतरन् । तत् तारकाणां तारकत्वम् । यो वा इह यजते । अमुꣳ स लोकं नक्षते । तन् नक्षत्राणां नक्षत्रत्वम् ।

VERSE: 6 { 1.5.2.6} देवगृहा वै नक्षत्राणि । य एवं वेद । गृह्य् एव भवति । यानि वा इमानि पृथिव्याश् चित्राणि । तानि नक्षत्राणि । तस्माद् अश्लीलनामꣳश् चित्रे । न_आवस्येन् न यजेत । यथा पापाहे कुरुते । तादृग् एव तत् । देवनक्षत्राणि वा अन्यानि ।

VERSE: 7 { 1.5.2.7} यमनक्षत्त्राण्य् अन्यानि । कृत्तिकाः प्रथमम् । विशाखे उत्तमम् । तानि देवनक्षत्राणि । अनूराधाः प्रथमम् । अपभरणीर् उत्तमम् । तानि यमनक्षत्राणि । यानि देवनक्षत्राणि । तानि दक्षिणेन परियन्ति । यानि यमनक्षत्राणि ।

VERSE: 8 { 1.5.2.8} तान्य् उत्तरेण । अन्व् एषाम् अरात्स्म_इति । तद् अनूराधाः । ज्येष्ठम् एषाम् अवधिष्म_इति । तज् ज्येष्ठघ्नी । मूलम् एषाम् अवृक्षाम_इति । तन् मूलबर्हणी { मूलवर्हणी} । यन् न_असहन्त । तद् अषाढाः । यद् अश्लोणत् ।

VERSE: 9 { 1.5.2.9} तत्_श्रोणा । यद् अशृणोत् । तत्_श्रविष्ठाः । यत्_शतम् अभिषज्यन् । तत्_शतभिषक् । प्रोष्ठपदेषु_उदयच्छन्त । रेवत्याम् अरवन्त । अश्वयुजोर् अयुञ्जत । अपभरणीष्व् अपावहन् । तानि वा एतानि यमनक्षत्राणि । यान्य् एव देवनक्षत्राणि । तेषु कुर्वीत यत्कारी स्यात् । पुण्याह एव कुरुते ।

अनुवाक 3 दिवसभागोपजीवनेन पुण्यकालः VERSE: 1 { 1.5.3.1} देवस्य सवितुः प्रातः प्रस्वः प्राणः । वरुणस्य सायम् आसवो ऽपानः । यत् प्रतीचीनं प्रातस्तनात् । प्राचीनꣳ संगवात् । ततो देवा अग्निष्टोमं निरमिमत । तत् तद् आत्तवीर्यं निर्मार्गः । मित्रस्य संगवः । तत् पुण्यं तेजस्व्य् अहः । तस्मा तर्हि पशवः समायन्ति । यत् प्रतीचीनꣳ संगवात् ।

VERSE: 2 { 1.5.3.2} प्राचीनं मध्यंदिनात् । ततो देवा उक्थ्यं निरमिमत । तत् तद् आत्तवीर्यं निर्मार्गः । बृहस्पतेर् मध्यंदिनः । तत् पुण्यं तेजस्व्य् अहः । तस्मात् तर्हि तेक्ष्णिष्ठं तपति । यत् प्रतीचीनं मध्यंदिनात् । प्राचीनम् अपराह्णात् । ततो देवाः षोडशिनं निरमिमत । तत् तद् आत्तवीर्यं निर्मार्गः ।

VERSE: 3 { 1.5.3.17} भगस्य_अपराह्णः । तत् पुण्यं तेजस्व्यहः । तस्माद् अपराह्णे कुमार्यो भगम् इच्छमानाश् चरन्ति । यत् प्रतीचीनम् अपराह्णात् । प्राचीनꣳ सायात् । ततो देवा अतिरात्रं निरमिमत । तत् तद् आत्तवीर्यं निर्मार्गः । वरुणस्य सायम् । तत् पुण्यं तेजस्व्यहः । तस्मात् तर्हि न_अनृतं वदेत् ।

VERSE: 4 { 1.5.3.4} ब्राह्मणो वा अष्टाविꣳशो नक्षत्राणाम् । समानस्य_अह्नः पञ्च पुण्यानि नक्षत्राणि । चत्वार्य् अश्लीलानि । तानि नव । यच् च परस्तान् नक्षत्राणां यच् च_अवस्तात् । तान्य् एकादश । ब्राह्मणो द्वादशः । य एवं विद्वान् संवत्सरं व्रतं चरति । संवत्सरेणैवास्य व्रतं गुप्तं भवति । समानस्य_अह्नः पञ्च पुण्यानि नक्षत्राणि । चत्वार्य् अश्लीलानि । तानि नव । आग्नेयी रात्रिः । ऐन्द्रम् अहः । तान्य् एकादश । आदित्यो द्वादशः । य एवं विद्वान् संवत्सरं व्रतं चरति । संवत्सरेणैवास्य व्रतं गुप्तं भवति ।

अनुवाक 4 सोमशेषभूता पात्रस्तुतिः VERSE: 1 { 1.5.4.1} ब्रह्मवादिनो वदन्ति । कति पात्राणि यज्ञं वहन्ति_इति । त्रयोदश_इति । ब्रूयात् । स यद् ब्रूयात् । कस् तानि निरमिमीत_इति । प्रजापतिर् इति ब्रूयात् । स यद् ब्रूयात् । कुतस् तानि निरमिमीत_इति । आत्मन इति । प्राणापानाभ्याम् एव_उपाꣳश्वन्तर्यामौ निरमिमीत ।

VERSE: 2 { 1.5.4.2} व्यानाद् उपाꣳशुसवनम् । वाच ऐन्द्रवायवम् । दक्षक्रतुभ्यां मैत्रावरुणम् । श्रोत्राद् आश्विनम् । चक्षुषः शुक्रामन्थिनौ । आत्मन आग्रयणम् । अङ्गेभ्य उक्थ्यम् । आयुषो ध्रुवम् । प्रतिष्ठाया ऋतुपात्रे । यज्ञं वाव तं प्रजापतिर् निरमिमीत । स निर्मितो न_आध्रियत समव्लीयत । स एतान् प्रजापतिर् अपिवापान् अपश्यत् । तान् निरवपत् । तैर् वै स यज्ञम् अप्यवपत् । यद् अपिवापा भवन्ति । यज्ञस्य धृत्या असंव्लयाय ।

अनुवाक 5 चातुर्मास्यशेषाः वपनमन्त्राः VERSE: 1 { 1.5.5.1} ऋतम् एव परमेष्ठि । ऋतं न_अत्येति किं चन । ऋते समुद्र आहितः । ऋते भूमिर् इयꣳ श्रिता । अग्निस् तिग्मेन शोचिषा । तप आक्रान्तम् उष्णिहा । शिरस् तपस्य् आहितम् । वैश्वानरस्य तेजसा । ऋतेन_अस्य निवर्तये । सत्येन परिवर्तये ।

VERSE: 2 { 1.5.5.2} तपसाऽस्य_अनुवर्तये । शिवेन_अस्य_उपवर्तये । शग्मेन_अस्य_अभिवर्तये । तद् ऋतं तत् सत्यम् । तद् व्रतं तत्_शकेयम् । तेन शकेयं तेन राध्यासम् । यद् घर्मः पर्यवर्तयत् । अन्तान् पृथिव्या दिवः । अग्निर् ईशान ओजसा । वरुणो धीतिभिः सह ।

VERSE: 3 { 1.5.5.3} इन्द्रो मरुद्भिः सखिभिः सह । अग्निस् तिग्मेन शोचिषा । तप आक्रान्तम् उष्णिहा । शिरस् तपस्य् आहितम् । वैश्वानरस्य तेजसा । ऋतेन_अस्य निवर्तये । सत्येन परिवर्तये । तपसाऽस्य_अनुवर्तये । शिवेन_अस्य_उपवर्तये । शग्मेन_अस्य_अभिवर्तये ।

VERSE: 4 { 1.5.5.4} तद् ऋतं तत् सत्यम् । तद् व्रतं तत्_शकेयम् । तेन शकेयं तेन राध्यासम् । यो अस्याः पृथिव्यास् त्वचि । निवर्तयत्य् ओषधीः । अग्निर् ईशान ओजसा । वरुणो धीतिभिः सह । इन्द्रो मरुद्भिः सखिभिः सह । अग्निस् तिग्मेन शोचिषा । तप आक्रान्तम् उष्णिहा ।

VERSE: 5 { 1.5.5.5} शिरस् तपस्य् आहितम् । वैश्वानरस्य तेजसा । ऋतेन_अस्य निवर्तये । सत्येन परिवर्तये । तपसाऽस्य_अनुवर्तये । शिवेन_अस्य_उपवर्तये । शग्मेन_अस्य_अभिवर्तये । तद् ऋतं तत् सत्यम् । तद् व्रतं तत्_शकेयम् । तेन शकेयं तेन राध्यासम् ।

VERSE: 6 { 1.5.5.6} एकं मासम् उदसृजत् । परमेष्ठी प्रजाभ्यः । तेन_आभ्यो मह आवहत् । अमृतं मर्त्याभ्यः । प्रजाम् अनु प्रजायसे । तद् उ ते मर्त्य_अमृतम् । येन मासा अर्धमासाः । ऋतवः परिवत्सराः । येन ते ते प्रजापते । ईजानस्य न्यवर्तयन् ।

VERSE: 7 { 1.5.5.7} तेन_अहम् अस्य ब्रह्मणा । निवर्तयामि जीवसे । अग्निस् तिग्मेन शोचिषा । तप आक्रान्तम् उष्णिहा । शिरस् तपस्य् आहितम् । वैश्वानरस्य तेजसा । ऋतेन_अस्य निवर्तये । सत्येन परिवर्तये । तपसाऽस्य_अनुवर्तये । शिवेन_अस्य_उपवर्तये । शग्मेन_अस्य_अभिवर्तये । तद् ऋतं तत् सत्यम् । तद् व्रतं तत्_शकेयम् । तेन शकेयं तेन राध्यासम् ।

अनुवाक 6 चातुर्मास्यशेषो वपनविधिः VERSE: 1 { 1.5.6.1} देवा वै यद् यज्ञे ऽकुर्वत । तद् असुरा अकुर्वत । ते ऽसुरा ऊर्ध्वं पृष्ठेभ्यो न_अपश्यन् । ते केशान् अग्रे ऽवपन्त । अथ श्मश्रूणि । अथ_उपपक्षौ । ततस् ते ऽवाञ्च आयन् । पराभवन् । यस्यैवं वपन्ति । अवाङ् एति ।

VERSE: 2 { 1.5.6.2} अथो परा_इव भवति । अथ देवा ऊर्ध्वं पृष्ठेभ्यो ऽपश्यन् । त उपपक्षाव् अग्रे ऽवपन्त । अथ श्मश्रूणि । अथ केशान् । ततस् ते ऽभवन् । सुवर्गं लोकम् आयन् । यस्यैवं वपन्ति । भवत्य् आत्मना । अथो सुवर्गं लोकम् एति ।

VERSE: 3 { 1.5.6.3} अथैतन् मनुर् वप्त्रे मिथुनम् अपश्यत् । स श्मश्रूण्य् अग्रे ऽवपत । अथ_उपपक्षौ । अथ केशान् । ततो वै स प्राजायत प्रजया पशुभिः । यस्यैवं वपन्ति । प्र प्रजया पशुभिर् मिथुनैर् जायते । देव_असुराः संयत्ता आसन् । ते संवत्सरे व्यायच्छन्त । तान् देवाश् चातुर्मास्यैर् एव_अभि प्रायुञ्जत ।

VERSE: 4 { 1.5.6.4} वैश्वदेवेन चतुरो मासो ऽवृञ्जत_इन्द्रराजानः । तान्_शीर्षन् {आनंदा. ताञ् छीर्षं} नि च_अवर्तयन्त परि च । वरुणप्रघासैश् चतुरो मासो ऽवृञ्जत वरुणराजानः । ताञ् छीर्षं नि च_अवर्तयन्त परि च । साकमेधैश् चतुरो मासो ऽवृञ्जत सोमराजानः । ताञ् छीर्षं नि च_अवर्तयन्त परि च । या संवत्सर उपजीवा_आसीत् । ताम् एषाम् अवृञ्जत । ततो देवा अभवन् । परा_असुराः ।

VERSE: 5 { 1.5.6.5} य एवं विद्वाꣳश् चातुर्मास्यैर् यजते । भ्रातृव्यस्यैव मासो वृक्त्वा । शीर्षन् नि च वर्तयते परि च । यैषा संवत्सर उपजीवा । वृङ्क्ते तां भ्रातृव्यस्य । क्षुधा_अस्य भ्रातृव्यः पराभवति । लोहितायसेन निवर्तयते । यद् वा इमाम् अग्निर् ऋताव् आगते निवर्तयति । एतद् एवैनाꣳ रूपं कृत्वा निवर्तयति । सा ततः श्वः_श्वो भूयसी भवन्त्य् एति ।

VERSE: 6 { 1.5.6.6} प्रजायते । य एवं विद्वान् लोहितायसेन निवर्तयते । एतद् एव रूपं कृत्वा निवर्तयते । स ततः श्वः_श्वो भूयान् भवन्न् एति । प्र_एव जायते । त्रेण्या शलल्या निवर्तयेत । त्रीणि त्रीणि वै देवानाम् ऋद्धानि । त्रीणि च्छन्दाꣳसि । त्रीणि सवनानि । त्रय इमे लोकाः ।

VERSE: 7 { 1.5.6.7} ऋद्भ्याम् एव तद् वीर्य एषु लोकेषु प्रतितिष्ठति । यच् चातुर्मास्ययाज्य् आत्मनो न_अवद्येत् । देवेभ्य आवृश्च्येत । चतृषु_चतृषु मासेषु निवर्तयेत । परोक्षम् एव तद् देवेभ्य आत्मनो ऽवद्यत्य् अनाव्रस्काय । देवानां वा एष आनीतः । यश् चातुर्मास्ययाजी य एवं विद्वान् नि च वर्तयते परि च । देवता एव_अप्येति । न_अस्य रुद्रः प्रजां पशून् अभिमन्यते ।

अनुवाक 7 संतताख्येष्टका मन्त्राः VERSE: 1 { 1.5.7.1} आयुषः प्राणꣳ संतनु । प्राणाद् अपानꣳ संतनु । अपानाद् व्यानꣳ संतनु । व्यानाच् चक्षुः संतनु । चक्षुषः श्रोत्रꣳ संतनु । श्रोत्रान् मनः संतनु । मनसो वाचꣳ संतनु । वाच आत्मानꣳ संतनु । आत्मनः पृथिवीꣳ संतनु । पृथिव्या अन्तरिक्षꣳ संतनु । अन्तरिक्षाद् दिवꣳ संतनु । दिवः सुवः संतनु ।

अनुवाक 8 अथर्वशिरोभिधानानां इष्टकानां मन्त्राः VERSE: 1 { 1.5.8.1} इन्द्रो दधीचो अस्थभिः । वृत्राण्य् अप्रतिष्कुतः । जघान नवतीर् नव । इच्छन्न् अश्वस्य यत्_शिरः । पर्वतेष्व् अपश्रितम् । तद् विदत्_शर्यणावति । अत्र_आह गोरमन्वत । नाम त्वष्टुर् अपीच्यम् । इत्था चन्द्रमसो गृहे । इन्द्रम् इद् गाथिनो बृहत् ।

VERSE: 2 { 1.5.8.2} इन्द्रम् अर्केभिर् अर्किणः । इन्द्रं वाणीर् अनूषत । इन्द्र इद्_ हर्योः सचा । संमिश्ल आ वचोयुजा । इन्द्रो वज्री हिरण्ययः । इन्द्रो दीर्घाय चक्षसे । आ सूर्यꣳ रोहयद् दिवि । वि गोभिर् अद्रिमैरयत् । इन्द्र वाजेषु नो अव । सहस्रप्रधनेषु च ।

VERSE: 3 { 1.5.8.3} उग्र उग्राभिर् ऊतिभिः । तम् इन्द्रं वाजयामसि । महे वृत्राय हन्तवे । स वृषा वृषभोऽभुवत्} । इन्द्रः स दामने कृतः । ओजिष्ठः स बले हितः । द्युम्नी श्लोकी स सौम्यः । गिरा वज्रो न संभृतः । सबलो अनपच्युतः । ववक्षुर् उग्रो अस्तृतः ।

अनुवाक 9 दीक्षणीयादीनि बहिष्पवमानोपक्रमान्तानि सोमाङ्गानि VERSE: 1 { 1.5.9.1} देव_असुराः संयत्ता आसन् । स प्रजापतिर् इन्द्रं ज्येष्ठं पुत्रम् अप न्यधत्त । न_इद् एनम् असुरा बलीयाꣳसो ऽहनन्न् इति । प्रह्रादो ह वै कायाधवः । विरोचनꣳ स्वं पुत्रम् अप न्यधत्त । न_इद् एनं देवा अहनन्न् इति । ते देवाः प्रजापतिम् उपसमेत्य_ऊचुः । न_अराजकस्य युद्धम् अस्ति । इन्द्रम् अन्विच्छाम_इति । तं यज्ञक्रतुभिर् अन्वैच्छन् ।

VERSE: 2 { 1.5.9.2} तं यज्ञक्रतुभिर् न_अन्वविन्दन् । तम् इष्टिभिर् अन्वैच्छन् । तम् इष्टिभिर् अन्वविन्दन् । तद् इष्टीनाम् इष्टित्वम् । एष्टयो ह वै नाम । ता इष्टय इत्य् आचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः । तस्मा एतम् आग्नावैष्णवम् एकादशकपालं दीक्षणीयं निरवपन् । तद् अपद्रुत्य_अतन्वत । तान् पत्नीसंयाजान् त उपानयन् ।

VERSE: 3 { 1.5.9.3} ते तदन्तम् एव कृत्वा_उदद्रवन् । ते प्रायणीयम् अभि समारोहन् । तद् अपद्रुत्य_अतन्वत । तान्_शंय्वन्त उपानयन् । ते तदन्तम् एव कृत्वा_उदद्रवन् । त आतिथ्यम् अभि समारोहन् । तद् अपद्रुत्य_अतन्वत । तान् इडान्त उपानयन् । ते तदन्तम् एव कृत्वा_उदद्रवन् । तस्माद् एता एतदन्ता इष्टयः संतिष्ठन्ते ।

VERSE: 4 { 1.5.9.4} एवꣳ हि देवा अकुर्वत । इति देवा अकुर्वत । इत्य् उ वै मनुष्याः कुर्वते । ते देवा ऊचुः । यद् वा इदम् उच्चैर् यज्ञेन चराम । तन् नो ऽसुराः पाप्मा_अनुविन्दन्ति । उपाꣳशु_उपसदा चराम । तथा नो ऽसुराः पाप्मा न_अनुवेत्स्यन्ति_इति । त उपाꣳशु_उपसदम् अतन्वत । तिस्र एव सामिधेनीर् अनूच्य ।

VERSE: 5 { 1.5.9.5} स्रुवेण_आघारम् आघार्य । तिस्रः पराचीर् आहुतीर् हुत्वा । स्रुवेण_उपसदं जुहवाञ् चक्रुः । उग्रं वचो अपावधीं त्वेषं वचो अपावधीꣳ स्वाहा_इति । अशनयापिपासे ह वा उग्रं वचः । एनश् च वैरहत्यं च त्वेषं वचः । एतꣳ ह वाव तच् चतुर्धाविहितं पाप्मानं देवा अपजघ्निरे । तथो एवैतद् एवंविद् यजमानः । तिस्र एव सामिधेनीर् अनूच्य । स्रुवेण_आघारम् आघार्य ।

VERSE: 6 { 1.5.9.6} तिस्रः पराचीर् आहुतीर् हुत्वा । स्रुवेण_उपसदं जुहोति । उग्रं वचो अपावधीं त्वेषं वचो अपावधीꣳ स्वाहा_इति । अशनयापिपासे ह वा उग्रं वचः । एनश् च वैरहत्यं च त्वेषं वचः । एतम् एव तत्_ चतुर्धाविहितं पाप्मानं यजमानो ऽपहते । ते ऽभिनीय_एव_अहः पशुम् आलभन्त । अह्न एव तद् देवा अवर्तिं पाप्मानं मृत्युम् अपजघ्निरे । तेन_अभिनीय_इव रात्रेः प्राचरन् । रात्रिया एव तद् देवा अवर्तिं पाप्मानं मृत्युम् अपजघ्निरे ।

VERSE: 7 { 1.5.9.7} तस्माद् अभिनीय_एव_अहः पशुम् आलभेत । अह्न एव तद् यजमानो ऽवर्तिं पाप्मानं भ्रातृव्यान् अपनुदते । तेन_अभिनीय_इव रात्रेः प्रचरेत् । रात्रिया एव तद् यजमानो ऽवर्तिं पाप्मानं भ्रातृव्यान् अपनुदते । स एष उपवसथीये ऽहन् द्विदेवत्यः पशुर् आलभ्यते । द्वयं वा अस्मिꣳल् लोके यजमानः । अस्थि च माꣳसं च । अस्थि चैव तेन माꣳसं च यजमानः सꣳस्कुरुते । ता वा एताः पञ्च देवताः । अग्नीषोमाव् अग्निर् मित्रावरुणौ । { 1.5.9.7} पञ्च पञ्ची वै यजमानः । त्वङ् माꣳसꣳ स्नाव_अस्थि मज्जा । एतम् एव तत् पञ्चधा विहितम् आत्मानं वरुणपाशान् मुञ्चति । भेषजतायै निर्वरुणत्वाय । तꣳ सप्तभिश् छन्दोभिः प्रातर् अह्वयन् । तस्मात् सप्त चतुरुत्तराणि छन्दाꣳसि प्रातरनुवाके ऽनूच्यन्ते । तम् एतया_उपसमेत्य_उपासीदन् । उप_अस्मै गायता नर इति । तस्माद् एतया बहिष्पवमान उपसद्यः ।

अनुवाक 10 त्रिवृदादि स्तोमाः VERSE: 1 { 1.5.10.1} स समुद्र उत्तरतः प्राज्वलद् भूम्यन्तेन । एष वाव स समुद्रः । यच् चात्वालः । एष उ वेव स भूम्यन्तः । यद् वेद्यन्तः । तद् एतत् त्रिशलं त्रिपूरुषम् । तस्मात् तं त्रिवितस्तं खनन्ति । स सुवर्णरजताभ्यां कुशीभ्यां परिगृहीत आसीत् । तं यद् अस्या अध्यजनयन् । तस्माद् आदित्यः ।

VERSE: 2 { 1.5.10.2} अथ यत् सुवर्णरजताभ्यां कुशीभ्यां परिगृहीत आसीत् । सास्य कौशिकता । तं त्रिवृता_अभि प्रास्तुवत । तं त्रिवृता_आददत । तं त्रिवृता_अहरन् । यावती त्रिवृतो मात्रा । तं पञ्चदशेन_अभि प्रास्तुवत । तं पञ्चदशेना_आददत । तं पञ्चदशेन_अहरन् । यावती पञ्चदशस्य मात्रा ।

VERSE: 3 { 1.5.10.3} तꣳ सप्तदशेन_अभि प्रास्तुवत । तꣳ सप्तदशेन_आददत । तꣳ सप्तदशेन_अहरन् । यावती सप्तदशस्य मात्रा । तस्य सप्तदशेन ह्रियमाणस्य तेजो हरो ऽपतत् । तम् एकविꣳशेन_अभि प्रास्तुवत । तम् एकविꣳशेन_आददत । तम् एकविꣳशेन_अहरन् । यावत्य् एकविꣳशस्य मात्रा । ते यत् त्रिवृता स्तुवते ।

VERSE: 4 { 1.5.10.4} त्रिवृता_एव तद् यजमानम् आददते । तं त्रिवृता_एव हरन्ति । यावती त्रिवृतो मात्रा । अग्निर् वै त्रिवृत् । यावद् वा अग्नेर् दहतो धूम उदेत्य_अनु व्येति । तावती त्रिवृतो मात्रा । अग्नेर् एवैनं तत् । मात्राꣳ सायुज्यꣳ सलोकतां गमयन्ति । अथो यत् पञ्चदशेन स्तुवते । 0 पञ्चदशेन_एव तद् यजमानम् आददते ।

VERSE: 5 { 1.5.10.5} तं पञ्चदशेन_एव हरन्ति । यावती पञ्चदशस्य मात्रा । चन्द्रमा वै पञ्चदशः । एष हि पञ्चदश्याम् अपक्षीयते । पञ्चदश्याम् आपूर्यते । चन्द्रमस एवैनं तत् । मात्राꣳ सायुज्यꣳ सलोकतां गमयन्ति । अथ यत् सप्तदशेन स्तुवते । सप्तदशेन_एव तद् यजमानम् आददते । तꣳ सप्तदशेन_एव हरन्ति ।

VERSE: 6 { 1.5.10.6} यावती सप्तदशस्य मात्रा । प्रजापतिर् वै सप्तदशः । प्रजापतेर् एवैनं तत् । मात्राꣳ सायुज्यꣳ सलोकतां गमयन्ति । अथ यद् एकविꣳशेन स्तुवते । एकविꣳशेन_एव तद् यजमानम् आददते । तम् एकविꣳशेन_एव हरन्ति । यावत्य् एकविꣳशस्य मात्रा । असौ वा आदित्य एकविꣳशः । आदित्यस्यैवैनं तत् ।

VERSE: 7 { 1.5.10.7} मात्राꣳ सायुज्यꣳ सलोकतां गमयन्ति । ते कुश्यौ । व्यघ्नन् । ते अहोरात्रे अभवताम् । अहर् एव सुवर्णा_अभवत् । रजता रात्रिः । स यद् आदित्य उदेति । एताम् एव तत् सुवर्णां कुशीम् अनु समेति । अथ यद् अस्तमेति । एताम् एव तद् रजतां कुशीम् अनु संविशति । प्रह्रादो ह वै कायाधवः । विरोचनꣳ स्वं पुत्रम् उदास्यत् । स प्रदरो ऽभवत् । तस्मात् प्रदराद् उदकं न_आचामेत् ।

अनुवाक 11 सवनीय पुरोडाशाः VERSE: 1 { 1.5.11.1} ये वै चत्वारः स्तोमाः । कृतं तत् । अथ ये पञ्च । कलिः सः । तस्माच् चतुष्टोमः । तच् चतुष्टोमस्य चतुष्टोमत्वम् । तद् आहुः । कतमानि तानि ज्योतीꣳषि । य एतस्य स्तोमा इति । त्रिवृत् पञ्चदशः सप्तदश एकविꣳशः ।

VERSE: 2 { 1.5.11.2} एतानि वाव तानि ज्योतीꣳषि । य एतस्य स्तोमाः । सो ऽब्रवीत् । सप्तदशेन ह्रियमाणो व्यलेशिषि । भिषज्यत मा_इति । तम् अश्विनौ धानाभिर् अभिषज्यताम् । पूषा करम्भेण । भारती परिवापेण । मित्रावरुणौ पयस्यया । तद् आहुः ।

VERSE: 3 { 1.5.11.3} यद् अश्विभ्यां धानाः । पूष्णः करम्भः । भारत्यै परिवापः । मित्रावरुणयोः पयस्याथ । कस्माद् एतेषाꣳ हविषाम् इन्द्रम् एव यजन्ति_इति । एता ह्य् एनं देवता इति ब्रूयात् । एतैर् हविर्भिर् अभिषज्यꣳस् तस्माद् इति । तं वसवो ऽष्टाकपालेन प्रातःसवने ऽभिषज्यन् । रुद्रा एकादशकपालेन माध्यन्दिने सवने । विश्वे देवा द्वादशकपालेन तृतीयसवने ।

VERSE: 4 { 1.5.11.4} स यद् अष्टाकपालान् प्रातःसवने कुर्यात् । एकादश कपालान् माध्यन्दिने सवने । द्वादशकपालाꣳस् तृतीयसवने । विलोम तद् यज्ञस्य क्रियेत । एकादशकपालान् एव प्रातःसवने कुर्यात् । एकादशकपालान् माध्यन्दिने सवने । एकादशकपालाꣳस् तृतीयसवने । यज्ञस्य सलोमत्वाय । तद् आहुः । यद् वसूनां प्रातःसवनम् । रुद्राणां माध्यन्दिनꣳ सवनम् । विश्वेषां देवानां तृतीयसवनम् । अथ कस्माद् एतेषाꣳ हविषाम् इन्द्रम् एव यजन्ति_इति । एता ह्य् एनं देवता इति ब्रूयात् । एतैर् हविर्भिर् अभिषज्यꣳस् तस्माद् इति ।

अनुवाक 12 सप्त छन्दांसि VERSE: 1 { 1.5.12.1} तस्या वाचो ऽवपादाद् अबिभयुः । तम् एतेषु सप्तसु छन्दःस्व् अश्रयन् । यद् अश्रयन् । तत्_श्रायन्तीयस्य श्रायन्तीयत्वम् । यद् अवारयन् । तद् वारवन्तीयस्य वारवन्तीयत्वम् । तस्या वाच एव_अवपादाद् अबिभयुः । तस्मा एतानि सप्त चतुरुत्तराणि छन्दाꣳस्य् उपादधुः । तेषाम् अति त्रीण्य् अरिच्यन्त । न त्रीण्य् उदभवन् ।

VERSE: 2 { 1.5.12.2} स बृहतीम् एव_अस्पृशत् । द्वाभ्याम् अक्षराभ्याम् । अहोरात्राभ्याम् एव । तद् आहुः । कतमा सा देवाक्षरा बृहती । यस्यां तत् प्रत्यतिष्ठत् । द्वादश पौर्णमास्यः । द्वादश_अष्टकाः । द्वादश_अमावास्याः । एषा वाव सा देवाक्षरा बृहती ।

VERSE: 3 { 1.5.12.3} यस्यां तत् प्रत्यतिष्ठद् इति । यानि च छन्दाꣳस्य् अत्यरिच्यन्त । यानि च न_उदभवन् । तानि निर्वीर्याणि हीनान्य् अमन्यन्त । साऽब्रवीद् बृहती । माम् एव भूत्वा । माम् उप सꣳश्रयत_इति । चतुर्भिर् अक्षरैर् अनुष्टुग् बृहतीं न_उदभवत् । चतुर्भिर् अक्षरैः पङ्क्तिर् बृहतीम् अत्यरिच्यत । तस्याम् एतानि चत्वार्य् अक्षराण्य् अपच्छिद्य_आदधात् ।

VERSE: 4 { 1.5.12.4} ते बृहती एव भूत्वा । बृहतीम् उप समश्रयताम् । अष्टाभिर् अक्षरैर् उष्णिग् बृहतीं न_उदभवत् । अष्टाभिर् अक्षरैस् त्रिष्टुग् बृहतीम् अत्यरिच्यत । तस्याम् एतान्य् अष्टाव् अक्षराण्य् अपच्छिद्य_आदधात् । ते बृहती एव भूत्वा । बृहतीम् उप समश्रयताम् । द्वादशभिर् अक्षरैर् गायत्री बृहतीं न_उदभवत् । द्वादशभिर् अक्षरैर् जगती बृहतीम् अत्यरिच्यत । तस्याम् एतानि द्वादश_अक्षराण्य् अपच्छिद्य_आदधात् ।

VERSE: 5 { 1.5.12.5} ते बृहती एव भूत्वा । बृहतीम् उप समश्रयताम् । सो ऽब्रवीत् प्रजापतिः । छन्दाꣳसि रथो मे भवत् । युष्माभिर् अहम् एतम् अध्वानम् अनु संचराणि_इति । तस्य गायत्री च जगती च पक्षाव् अभवताम् । उष्णिक् च त्रिष्टुप् च प्रष्ट्यौ । अनुष्टुप् च पङ्क्तिश् च धुर्यौ । बृहत्य् एव_उद्धिर् अभवत् । स एतं छन्दोरथम् आस्थाय । एतम् अध्वानम् अनु समचरत् । एतꣳ ह वै छन्दोरथम् आस्थाय । एतम् अध्वानम् अनु संचरति । येनैष एतत् संचरति । य एवं विद्वान् सोमेन यजते । य उ चैनम् एवं वेद ।



प्रपाठक: 6 राजसूयः अनुवाक 1 VERSE: 1 { 1.6.1.1} अनुमत्यै पुरोडाशम् अष्टाकपालं निर्वपति । ये प्रत्यञ्चः शम्याया अवशीयन्ते । तन् नैर्ऋतम् एककपालम् । इयं वा अनुमतिः । इयं निर्ऋतिः । नैर्ऋतेन पूर्वेण प्रचरति । पाप्मानम् एव निर्ऋतिं पूर्वां निरवदयते । एककपालो भवति । एकधा_एव निर्ऋतिं निरवदयते । यद् अहुत्वा गार्हपत्य ईयुः ।

VERSE: 2 { 1.6.1.2} रुद्रो भूत्वा_अग्निर् अनूत्थाय । अध्वर्युं च यजमानं च हन्यात् । वीहि स्वाहा_आहुतिं जुषाण इत्य् आह । आहुत्या_एवैनꣳ शमयति । न_आर्तिम् आर्छत्य् अध्वर्युर् न यजमानः । एक_उल्मुकेन यन्ति । तद् धि निर्ऋत्यै भागधेयम् । इमां दिशम् नयति । एषा वै निर्ऋत्यै दिक् । स्वायाम् एव दिशि निर्ऋतिं निरवदयते ।

VERSE: 3 { 1.6.1.3} स्वकृत इरिणे जुहोति प्रदरे वा । एतद् वै निर्ऋत्या आयतनम् । स्व एवाऽऽयतने निर्ऋतिं निरवदयते । एष ते निर्ऋते भाग इत्य् आह । निर्दिशत्य् एवैनाम् । भूते हविष्मत्य् असि_इत्य् आह । भूतिम् एव_उपावर्तते । मुञ्च_इमम् अꣳहस इत्य् आह । अꣳहस एवैनं मुञ्चति । अङ्गुष्ठाभ्यां जुहोति ।

VERSE: 4 { 1.6.1.4} अन्तत एव निर्ऋतिं निरवदयते । कृष्णं वासः कृष्णतूषं दक्षिणा । एतद् वै निर्ऋत्यै रूपम् । रूपेणैव निर्ऋतिं निरवदयते । अप्रतीक्षम् आयन्ति । निर्ऋत्या अन्तर्हित्यै । स्वाहा नमो य इदं चकार_इति पुनर् एत्य गार्हपत्ये जुहोति । आहुत्या_एव नमस्यन्तो गार्हपत्यमुपावर्तन्ते । आनुमतेन प्रचरति । इयं वा अनुमतिः ।

VERSE: 5 { 1.6.1.5} इयम् एवास्मै राज्यम् अनुमन्यते । धेनुर् दक्षिणा । इमाम् एव धेनुं कुरुते । आदित्यं चरुं निर्वपति । उभयीष्व् एव प्रजास्व् अभिषिच्यते । दैवीषु च मानुषीषु च । वरो दक्षिणा । वरो हि राज्यꣳ समृद्ध्यै । आग्नावैष्णवम् एकादशकपालं निर्वपति । अग्निः सर्वा देवताः ।

VERSE: 6 { 1.6.1.6} विष्णुर् यज्ञः । देवताश् चैव यज्ञं च_अवरुन्धे । वामनो वही दक्षिणा । यद् वही । तेन_आग्नेयः । यद् वामनः । तेन वैष्णवः समृद्ध्यै । अग्नीषोमीयम् एकादशकपालं निर्वपति । अग्नीषोमाभ्यां वा इन्द्रो वृत्रम् अहन्न् इति । यद् अग्नीषोमीयम् एकादशकपालं निर्वपति ।

VERSE: 7 { 1.6.1.7} वार्त्रघ्नम् एव विजित्यै । हिरण्यं दक्षिणा समृद्ध्यै । इन्द्रो वृत्रꣳ हत्वा । देवताभिश् च_इन्द्रियेण च व्यार्ध्यत । स एतम् ऐन्द्राग्नम् एकादशकपालम् अपश्यत् । तं निरवपत् । तेन वै स देवताश् च_इन्द्रियं चावारुन्धे। यद् ऐन्द्राग्नम् एकादशकपालं निर्वपति । देवताश् चैव तेन_इन्द्रियं च यजमानो ऽवरुन्धे । ऋषभो वही दक्षिणा ।

VERSE: 8 { 1.6.1.8} यद् वही । तेन_आग्नेयः । यद् ऋषभः । तेन_ऐन्द्रः समृद्ध्यै । आग्नेयम् अष्टाकपालं निर्वपति । ऐन्द्रं दधि । यद् आग्नेयो भवति । अग्निर् वै यज्ञमुखम् । यज्ञमुखम् एव_ऋद्धिं पुरास्ताद् धत्ते । यद् ऐन्द्रं दधि ।

VERSE: 9 { 1.6.1.9} इन्द्रियम् एव_अवरुन्धे । ऋषभो वही दक्षिणा । यद् वही । तेन_आग्नेयः । यद् ऋषभः । तेन_ऐन्द्रः समृद्ध्यै । यावतीर् वै प्रजा ओषधीनाम् अहुतानाम् आश्नन् । ताः पराभवन् । आग्रयणं भवति हुताद्याय । यजमानस्य_अपराभावाय ।

VERSE: 10 { 1.6.1.10} देवा वा ओषधीष्व् आजिम् अयुः । ता इन्द्राग्नी उदजयताम् । ताव् एतम् ऐन्द्राग्नं द्वादशकपालं निरवृणाताम् । यद् ऐन्द्राग्नो भवत्य् उज्जित्यै । द्वादशकपालो भवति । द्वादश मासाः संवत्सरः । संवत्सरेणैवास्मा अन्नम् अवरुन्धे । वैश्वदेवश् चरुर् भवति । वैश्वदेवं वा अन्नम् । अन्नम् एवास्मै स्वदयति ।

VERSE: 11 { 1.6.1.11} प्रथमजो वत्सो दक्षिणा समृद्ध्यै । सौम्यꣳ श्यामाकं चरुं निर्वपति । सोमो वा अकृष्टपच्यस्य {अकृष्टपचस्य} राजा । अकृष्टपच्यम् एवास्मै स्वदयति । वासो दक्षिणा । सौम्यꣳ हि देवतया वासः समृद्ध्यै । सरस्वत्यै चरुं निर्वपति । सरस्वते चरुम् । मिथुनम् एव_अवरुन्धे । मिथुनौ गावौ दक्षिणा समृद्ध्यै । एति वा एष यज्ञमुखाद् ऋद्ध्याः । यो ऽग्नेर् देवताया एति । अष्टाव् एतानि हवीꣳषि भवन्ति । अष्टाक्षरा गायत्री । गायत्रो ऽग्निः । तेनैव यज्ञमुखाद् ऋद्ध्या अग्नेर् देवतायै न_एति ।

अनुवाक 2 राजसूये वैश्वदेवः VERSE: 1 { 1.6.2.1} वैश्वदेवेन वै प्रजापतिः प्रजा असृजत । ताः सृष्टा न प्राजायन्त । सो ऽग्निर् अकामयत । अहम् इमाः प्रजनयेयम् इति । स प्रजापतये । शुचम् अदधात् । सो ऽशोचत् प्रजाम् इच्छमानः । तस्माद् यं च प्रजा भुनक्ति यं च न । ताव् उभौ शोचतः प्रजाम् इच्छमानौ । तास्व् अग्निम् अप्यसृजत् । ता अग्निर् अध्यैत् ।

VERSE: 2 { 1.6.2.2} सोमो रेतो ऽदधात् । सविता प्राजनयत् । सरस्वती वाचम् अदधात् । पूषा_अपोषयत् । ते वा एते त्रिः संवत्सरस्य प्रयुज्यन्ते । ये देवाः पुष्टिपतयः । संवत्सरो वै प्रजापतिः । संवत्सरेणैवास्मै प्रजाः प्राजनयत् । ताः प्रजा जाता मरुतो ऽघ्नन् । अस्मान् अपि न प्रायुक्षत_इति ।

VERSE: 3 { 1.6.2.3} स एतं प्रजापतिर् मारुतꣳ सप्तकपालम् अपश्यत् । तं निरवपत् । ततो वै प्रजाभ्यो ऽकल्पत । यन् मारुतो निरुप्यते । यज्ञस्य क्लृप्त्यै । प्रजानाम् अघाताय । सप्तकपालो भवति । सप्तगणा वै मरुतः । गणश एवास्मै विशं कल्पयति । स प्रजापतिर् अशोचत् ।

VERSE: 4 { 1.6.2.4} याः पूर्वाः प्रजा असृक्षि । मरुतस् ता अवधिषुः । कथम् अपराः सृजेया_इति । तस्य शुष्म आण्डं भूतं निरवर्तत । तद् व्युदहरत् । तद् अपोषयत् । तत् प्राजायत । आण्डस्य वा एतद् रूपम् । यद् आमिक्षा । यद् व्युद्धरति ।

VERSE: 5 { 1.6.2.5} प्रजा एव तद् यजमानः पोषयति । वैश्वदेव्य् आमिक्षा भवति । वैश्वदेव्यो वै प्रजाः । प्रजा एवास्मै प्रजनयति । वाजिनम् आनयति । प्रजास्व् एव प्रजातासु रेतो दधाति । द्यावापृथिव्य एककपालो भवति । प्रजा एव प्रजाता द्यावापृथिवीभ्याम् उभयतः परिगृह्णाति । देव_असुराः संयत्ता आसन् । सो ऽग्निर् अब्रवीत् ।

VERSE: 6 { 1.6.2.6} माम् अग्रे यजत । मया मुखेन_असुराञ् जेष्यथ_इति । मां द्वितीयम् इति सोमो ऽब्रवीत् । मया राज्ञा जेष्यथ_इति । मां तृतीयम् इति सविता । मया प्रसूता जेष्यथ_इति । मां चतुर्थीम् इति सरस्वती । इन्द्रियं वो ऽहं धास्यामि_इति मां पञ्चमम् इति पूषा । मया प्रतिष्ठया जेष्यथ_इति ।

VERSE: 7 { 1.6.2.7} ते ऽग्निना मुखेन_असुरान् अजयन् । सोमेन राज्ञा । सवित्रा प्रसूताः । सरस्वती_इन्द्रियम् अदधात् । पूषा प्रतिष्ठा_आसीत् । ततो वै देवा व्यजयन्त । यद् एतानि हवीꣳषि निरुप्यन्ते विजित्यै । न_उत्तरवेदिम् उपवपति । पशवो वा उत्तरवेदिः । अजाता इव ह्य् एतर्हि पशवः ।

अनुवाक 3 राजसूये वैश्वदेवः VERSE: 1 { 1.6.3.1} त्रिवृद् बर्हिर् भवति । माता पिता पुत्रः । तद् एव तन् मिथुनम् । उल्बं गर्भो जरायु । तद् एव तन् मिथुनम् । त्रेधा बर्हिः संनद्धं भवति । त्रय इमे लोकाः । एष्व् एव लोकेषु प्रतितिष्ठति । एकधा पुनः संनद्धं भवति । एक इव ह्य् अयं लोकः ।

VERSE: 2 { 1.6.3.2} अस्मिन्न् एव तेन लोके प्रतितिष्ठति । प्रसुवो भवन्ति । प्रथमजाम् एव पुष्टिम् अवरुन्धे । प्रथमजो वत्सो दक्षिणा समृद्ध्यै । पृषदाज्यं गृह्णाति । पशवो वै पृषदाज्यम् । पशूनेवावरुन्धे । पञ्चगृहीतं भवति । पाङ्क्ता हि पशवः । बहुरूपं भवति ।

VERSE: 3 { 1.6.3.3} बहुरूपा हि पशवः समृद्ध्यै । अग्निं मन्थन्ति । अग्निमुखा वै प्रजापतिः प्रजा असृजत । यद् अग्निं मन्थन्ति । अग्निमुखा एव तत् प्रजा यजमानः सृजते । नव प्रयाजा इज्यन्ते । नव_अनूयाजाः । अष्टौ हवीꣳषि । द्वाव् आघारौ । द्वाव् आज्यभागौ ।

VERSE: 4 { 1.6.3.4} त्रिꣳशत् संपद्यन्ते । त्रिꣳशदक्षरा विराट् । अन्नं विराट् । विराजा_एव_अन्नाद्यम् अवरुन्धे । यजमानो वा एककपालः । तेज आज्यम् । यद् एककपाल आज्यम् आनयति । यजमानम् एव तेजसा समर्धयति । यजमानो वा एककपालः । पशव आज्यम् ।

VERSE: 5 { 1.6.3.5} यद् एककपाल आज्यम् आनयति । यजमानम् एव पशुभिः समर्धयति । यद् अल्पम् आनयेत् । अल्पा एनं पशवो भुञ्जन्त उपतिष्ठेरन् । यद् बहु_ आनयेत् । बहव एनं पशवो भुञ्जन्त उपतिष्ठेरन् । बह्व् आनीय_आविः पृष्ठं कुर्यात् । बहव एवैनं पशवो भुञ्जन्त उपतिष्ठन्ते । यजमानो वा एककपालः । यद् एककपालस्य_अवद्येत् ।

VERSE: 6 { 1.6.3.6} यजमानस्य_अवद्येत् । उद् वा मद्येद् यजमानः । प्र वा मीयेत । सकृद् एव होतव्यः । सकृद् इव हि सुवर्गो लोकः । हुत्वा_अभिजुहोति । यजमानम् एव सुवर्गं लोकं गमयित्वा । तेजसा समर्धयति । यजमानो वा एककपालः । सुवर्गो लोक आहवनीयः ।

VERSE: 7 { 1.6.3.7} यद् एककपालम् आहवनीये जुहोति । यजमानम् एव सुवर्गं लोकं गमयति । यद् धस्तेन जुहुयात् । सुवर्गाल् लोकाद् यजमानमवविध्येत् । स्रुचा जुहोति । सुवर्गस्य लोकस्य समष्ट्यै । यत् प्राङ् पद्येत । देवलोकम् अभिजयेत् । यद् दक्षिणा पितृलोकम् । यत् प्रत्यक् ।

VERSE: 8 { 1.6.3.8} रक्षाꣳसि यज्ञꣳ हन्युः । यद् उदङ् । मनुष्यलोकम् अभिजयेत् । प्रतिष्ठितो होतव्यः । एककपालं वै प्रतितिष्ठन्तं द्यावापृथिवी अनु प्रतितिष्ठतः । द्यावापृथिवी ऋतवः । ऋतून् यज्ञः । यज्ञं यजमानः । यजमानं प्रजाः । तस्मात् प्रतिष्ठितो होतव्यः ।

VERSE: 9 { 1.6.3.9} वाजिनो यजति । अग्निर् वायुः सूर्यः । ते वै वाजिनः । तानेव तद् यजति । अथो खल्व् आहुः । छन्दाꣳसि वै वाजिन इति । तान्य् एव तद् यजति । ऋक्सामे वा इन्द्रस्य हरी सोमपानौ । तयोः परिधय आधानम् । वाजिनं भागधेयम् ।

VERSE: 10 { 1.6.3.10} यद् अप्रहृत्य परिधीञ् जुहुयात् । अन्तराधानाभ्यां घासं {द्या सं} प्रयच्छेत् । प्रहृत्य परिधीञ् जुहोति । निराधानाभ्याम् एव घासं { द्या सं} प्रयच्छति । बर्हिषि विषिञ्चन् वाजिनम् आनयति । प्रजा वै बर्हिः । रेतो वाजिनम् । प्रजास्व् एव रेतो दधाति । समुपहूय भक्षयन्ति । एतत् सोमपीथा ह्य् एते । अथो आत्मन्न् एव रेतो दधते । यजमान उत्तमो भक्षयति । पशवो वै वाजिनम् । यजमान एव पशून् प्रतिष्ठापयन्ति ।

अनुवाक 4 राजसूये वरुणप्रघासः VERSE: 1 { 1.6.4.1} प्रजापतिः सविता भूत्वा प्रजा असृजत । ता एनम् अत्यमन्यन्त । ता अस्माद् अपाक्रामन् । ता वरुणो भूत्वा प्रजा वरुणेन_अग्राहयत् । ताः प्रजा वरुणगृहीताः । प्रजापतिं पुनर् उपाधावन् नाथम् इच्छमानाः । स एतान् प्रजापतिर् वरुणप्रघासान् अपश्यत् । तान् निरवपत् । तैर् वै स प्रजा वरुणपाशाद् अमुञ्चत् । यद् वरुणप्रघासा निरुप्यन्ते ।

VERSE: 2 { 1.6.4.2} प्रजानाम् अवरुणग्राहाय । तासां दक्षिणो बाहुर् न्यक्न आसीत् । सव्यः प्रसृतः । स एतां द्वितीयां दक्षिणतो वेदिम् उदहन् । ततो वै स प्रजानां दक्षिणं बाहुं प्रासारयत् । यद् द्वितीयां दक्षिणतो वेदिम् उद्धन्ति । तस्माच् चातुर्मास्ययाज्य् अमुष्मिꣳल् लोक उभयाबाहुः । यज्ञ_अभिजितꣳ ह्य् अस्य । पृथमात्राद् वेदी असंभिन्ने भवतः ।

VERSE: 3 { 1.6.4.31} तस्मात् पृथमात्रं व्यꣳसौ । उत्तरस्यां वेद्याम् उत्तरवेदिम् उपवपति । पशवो वा उत्तरवेदिः । पशून् एव_अवरुन्धे । अथो यज्ञपरुषो ऽनन्तरित्यै । एतद् ब्राह्मणान्य् एव पञ्च हवीꣳषि । अथैष ऐन्द्राग्नो भवति । प्राणापानौ वा एतौ देवानाम् । यद् इन्द्राग्नी । यद् ऐन्द्राग्नो भवति ।

VERSE: 4 { 1.6.4.4} प्राणापानाव् एव_अवरुन्धे । ओजो बलं वा एतौ देवानाम् । यद् इन्द्राग्नी । यद् ऐन्द्राग्नो भवति । ओजो बलम् एव_अवरुन्धे । मारुत्य् आमिक्षा भवति । वारुण्य् आमिक्षा । मेषी च मेषश् च भवतः । मिथुना एव प्रजा वरुणपाशान् मुञ्चति । लोमशौ भवतो मेध्यत्वाय ।

VERSE: 5 { 1.6.4.5} शमीपर्णान्य् उपवपति । घासम् एवाऽऽभ्याम् अपियच्छति । प्रजापतिम् अन्नाद्यं न_उपानमत् । स एतेन शत_इध्मेन हविषा_अन्नाद्यम् अवारुन्ध । यत् परःशतानि शमीपर्णानि भवन्ति । अन्नाद्यस्य_अवरुद्ध्यै । सौम्यानि वै करीराणि । सौम्या खलु वा आहुतिर् दिवो वृष्टिं च्यावयति । यत् करीराणि भवन्ति । सौम्यया_एव_आहुत्या दिवो वृष्टिम् अवरुन्धे । काय एककपालो भवति । प्रजानां कन्त्वाय { कंत्वाय} । प्रतिपूरुषं करम्भपात्राणि भवन्ति । जाता एव प्रजा वरुणपाशान् मुञ्चति । एकम् अतिरिक्तम् । जनिष्यमाणा एव प्रजा वरुणपाशान् मुञ्चति ।

अनुवाक 5 राजसूये वरुणप्रघासः VERSE: 1 { 1.6.5.1} उत्तरस्यां वेद्याम् अन्यानि हवीꣳषि सादयति । दक्षिणायां मारुतीम् । अपधुरम् एवैनां युनक्ति । अथो ओज एवासाम् अवहरति । तस्माद् ब्रह्मणश् च क्षत्त्राच् च विशो ऽन्यतो ऽपक्रमिणीः । मारुत्या पूर्वया प्रचरति । अनृतम् एवा_अवयजते । वारुण्या_उत्तरया । अन्तत एव {एवं} वरुणम् अवयजते । यद् एव_अध्वर्युः करोति ।

VERSE: 2 { 1.6.5.2} तत् प्रतिप्रस्थाता करोति । तस्माद् यत्_ श्रेयान् करोति । तत् पापीयान् करोति । पत्नीं वाचयति । मेध्याम् एवैनां करोति । अथो तप एवैनाम् उपनयति । यत्_ जारꣳ सन्तं न प्रब्रूयात् । प्रियं ज्ञातिꣳ रुन्ध्यात् । असौ मे जार इति निर्दिशेत् । निर्दिश्य_एवैनं वरुणपाशेन ग्राहयति ।

VERSE: 3 { 1.6.5.3} प्रघास्यान् हवामह इति पत्नीम् उदानयति । अहूता_एवैनाम् { अह्वतैवैनाम्} । यत् पत्नी पुरोनुवाक्याम् अनुब्रूयात् । निर्वीर्यो यजमानः स्यात् । यजमानो ऽन्वाह । आत्मन्न् एव वीर्यं धत्ते । उभौ याज्याꣳ सवीर्यत्वाय । यद् ग्रामे यद् अरण्य इत्य् आह । यथा_उदितम् एव वरुणम् अवयजते । यजमानदेवत्यो वा आहवनीयः ।

VERSE: 4 { 1.6.5.4} भ्रातृव्यदेवत्यो दक्षिणः । यद् आहवनीये जुहुयात् । यजमानं वरुणपाशेन ग्राहयेत् । दक्षिणे ऽग्नौ जुहोति । भ्रातृव्यम् एव वरुणपाशेन ग्राहयति । शूर्पेण जुहोति । अन्यम् एव वरुणम् अवयजते । शीर्षन्न् अधिनिधाय जुहोति । शीर्षत एव वरुणम् अवयजते । प्रत्यङ् तिष्ठन्_जुहोति । {सम्पादक टिप्पणी -- चतुष्कोणगता कण्डिका_इयं पदपाठभ्रमेण दण्डपातभ्रमेण वा_अष्टपदा जाता}

VERSE: 5 { 1.6.5.5} प्रत्यङ्ङ् एव वरुणपाशान् निर्मुच्यते । अक्रन् कर्म कर्मकृत इत्य् आह । देवान् ऋणं निरवदाय । अनृणा गृहान् उपप्रेत_इति वाव_एतद् आह । वरुणगृहीतं वा एतद् यज्ञस्य । यद् यजुषा गृहीतस्य_अतिरिच्यते । तुषाश् च निष्कासश् च । तुषैश् च निष्कासेन च_अवभृथम् अवैति । वरुणगृहीतेन_एव वरुणम् अवयजते । अपो ऽवभृथम् अवैति ।

VERSE: 6 { 1.6.5.6} अप्सु वै वरुणः । साक्षाद् एव वरुणम् अवयजते । प्रतियुतो वरुणस्य पाश इत्य् आह । वरुणपाशाद् एव निर्मुच्यते । अप्रतीक्षम् आयन्ति । वरुणस्य_अन्तर्हित्यै । एधो ऽस्येधिषीमहि_इत्य् आह । समिधा_एव_अग्निं नमस्यन्त उपायन्ति । तेजो ऽसि तेजो मयि धेहि_इत्य् आह । तेज एवाऽऽत्मन् धत्ते ।

अनुवाक 6 राजसूये साकमेधः VERSE: 1 { 1.6.6.1} देव_असुराः संयत्ता आसन् । सो ऽग्निर् अब्रवीत् । मम_इयम् अनीकवती तनूः । तां प्रीणीत । अथ_असुरान् अभिभविष्यथ_इति । ते देवा अग्नये ऽनीकवते पुरोडाशम् अष्टाकपालं निरवपन् । सो ऽग्निर् अनीकवान् स्वेन भागधेयेन प्रीतः । चतुर्धा_अनीकान्य् अजनयत । ततो देवा अभवन् । परा_असुराः ।

VERSE: 2 { 1.6.6.2} यद् अग्नये ऽनीकवते पुरोडाशम् अष्टाकपालं निर्वपति । अग्निम् एव_अनीकवन्तꣳ स्वेन भगधेयेन प्रीणाति । सो ऽग्निर् अनीकवान् स्वेन भागधेयेन प्रीतः । चतुर्धा_अनीकानि जनयते । असौ वा आदित्यो ऽग्निर् अनीकवान् । तस्य रश्मयो ऽनीकानि । साकꣳ सूर्येण_उद्यता निर्वपति । साक्षाद् एवास्मा अनीकानि जनयति । ते ऽसुराः पराजिता यन्तः । द्यावापृथिवी उपाश्रयन् ।

VERSE: 3 { 1.6.6.3} ते देवा मरुद्भ्यः सांतपनेभ्यश् चरुं निरवपन् । तां द्यावापृथिवीभ्याम् एव_उभयतः समतपन् । यन् मरुद्भ्यः सांतपनेभ्यश् चरुं निर्वपति । द्यावापृथिवीभ्याम् एव तद् उभयतो यजमानो भ्रातृव्यान् संतपति । मध्यंदिने निर्वपति । तर्हि हिते ऽक्ष्णिष्ठं तपति । चरुर् भवति । सर्वत एवैनान् संतपति । ते देवाः श्वोविजयिनः सन्तः । सर्वासां दुग्धे गृहमेधीयं चरुं निरवपन् ।

VERSE: 4 { 1.6.6.4} आशिता एव_अद्य_उपवसाम । कस्य वा ह_इदम् । कस्य वा श्वो भवितेति । स शृतो ऽभवत् । तस्य_अहुतस्य न_अश्नन्न् । न हि देवा अहुतस्य_अश्नन्ति । ते ऽब्रुवन् । कस्मा इमꣳ होष्याम इति । मरुद्भ्यो गृहमेधिभ्य इत्य् अब्रुवन् । तं मरुद्भ्यो गृहमेधिभ्यो ऽजुहवुः ।

VERSE: 5 { 1.6.6.5} ततो देवा अभवन् । परा_असुराः । यस्यैवं विदुषो मरुद्भ्यो गृहमेधिभ्यो गृहे जुह्वति । भवत्य् आत्मना । परा_अस्य भ्रातृव्यो भवति । यद् वै यज्ञस्य पाकत्रा क्रियते । पशव्यं तत् । पाकत्रा वा एतत् क्रियते । यन् न_इध्माबर्हिर् भवति । न सामिधेनीर् अन्वाह ।

VERSE: 6 { 1.6.6.6} न प्रयाजा इज्यन्ते । न_अनूयाजाः । य एवं वेद । पशुमान् भवति । आज्यभागौ यजति । यज्ञस्यैव चक्षुषी न_अन्तरेति । मरुतो गृहमेधिनो यजति । भागधेयेन_एवैनान् समर्धयति । अग्निꣳ स्विष्टकृतं यजति प्रतिष्ठित्यै । इडान्तो भवति । पशवो वा इडा । पशुष्व् एव_उपरिष्टात् प्रतितिष्ठति ।

अनुवाक 7 राजसूये साकमेधः VERSE: 1 { 1.6.7.1} यत् पत्नी गृहमेधीयस्य_अश्नीयात् । गृहमेध्य् एव स्यात् । वि त्व् अस्य यज्ञ ऋध्येत । यन् न_अश्नीयात् । अगृहमेधी स्यात् । न_अस्य यज्ञो व्य्र्̥द्ध्येत । प्रतिवेशं पचेयुः । तस्य_अश्नीयात् । गृहमेध्य् एव भवति । न_अस्य यज्ञो व्यृध्यते ।

VERSE: 2 { 1.6.7.2} ते देवा गृहमेधीयेन_इष्ट्वा । आशिता अभवन् । आञ्जत_अभ्यञ्जत । अनु वत्सान् अवासयन् । तेभ्यो ऽसुराः क्षुधं प्राहिण्वन् । सा देवेषु लोकम् अवित्त्वा । असुरान् पुनर् अगच्छत् । गृहमेधीयेन_इष्ट्वा । आशिता भवन्ति । आञ्जते ऽभ्यञ्जते ।

VERSE: 3 { 1.6.7.3} अनु वत्सान् वासयन्ति । भ्रातृव्यायैव तद् यजमानः क्षुधं प्रहिणोति । ते देवा गृहमेधीयेन_इष्ट्वा । इन्द्राय निष्कासं न्यदधुः । अस्मान् एव श्व इन्द्रो निहितभाग उपावर्तितेति । तान् इन्द्रो निहितभाग उपावर्तत । गृहमेधीयेन_इष्ट्वा । इन्द्राय निष्कासं निदध्यात् । इन्द्र एवैनं निहितभाग उपावर्तते । गार्हपत्ये जुहोति ।

VERSE: 4 { 1.6.7.4} भागधेयेनैवैनꣳ समर्धयति । ऋषभम् आह्वयति । वषट्कार एवास्य सः । अथो इन्द्रियम् एव तद् वीर्यं यजमानो भ्रातृव्यस्य वृङ्क्ते । इन्द्रो वृत्रꣳ हत्वा । परां परावतम् अगच्छत् । अपाराधम् इति मन्यमानः । सो ऽब्रवीत् । क इदं वेदिष्यति_इति । ते ऽब्रुवन् मरुतो वरं वृणामहै ।

VERSE: 5 { 1.6.7.5} अथ वयं वेदाम । अस्मभ्यम् एव प्रथमꣳ हविर्निरुप्याता इति । त एनम् अध्यक्रीडन् । तत् क्रीडिनां क्रीडित्वम् । यन् मरुद्भ्यः क्रीडिभ्यः प्रथमꣳ हविर् निरुप्यते विजित्यै । साकꣳ सूर्येण_उद्यता निर्वपति । एतस्मिन् वै लोक इन्द्रो वृत्रम् अहन् समृद्ध्यै । एतद् ब्राह्मणान्य् एव पञ्च हवीꣳषि । एतद् ब्राह्मण ऐन्द्राग्नः । अथैष ऐन्द्रश् चरुर् भवति । { 1.6.7.5} उद्धारं वा एतम् इन्द्र उदहरत । वृत्रꣳ हत्वा । अन्यासु देवतास्व् अधि । यद् एष ऐन्द्रश् चरुर् भवति । उद्धारम् एव तं यजमान उद्धरते । अन्यासु प्रजास्व् अधि । वैश्वकर्मण एककपालो भवति । विश्वान्य् एव तेन कर्माणि यजमानो ऽवरुन्धे ।

अनुवाक 8 राजसूये पिण्डपितृयज्ञः VERSE: 1 { 1.6.8.1} वैश्वदेवेन वै प्रजापतिः प्रजा असृजत । ता वरुणप्रघासैर् वरुणपाशाद् अमुञ्चत् । साकमेधैः प्रत्यस्थापयत् । त्र्यम्बकैर् रुद्रं निरवादयत । पितृयज्ञेन सुवर्गं लोकम् अगमयत् । यद् वैश्वदेवेन यजते । प्रजा एव तद् यजमानः सृजते । ता वरुणप्रघासैर् वरुणपाशान् मुञ्चति । साकमेधैः प्रतिष्ठापयति । त्र्यम्बकैर् रुद्रं निरवदयते ।

VERSE: 2 { 1.6.8.2} पितृयज्ञेन सुवर्गं लोकं गमयति । दक्षिणतः प्राचीनावीती निर्वपति । दक्षिणावृद् धि पितृणाम् । अनादृत्य तत् । उत्तरत एव_उपवीय निर्वपेत् । उभये हि देवाश् च पितरश् च_इज्यन्ते । अथो यद् एव दक्षिणार्धे ऽधिश्रयति । तेन दक्षिणावृत् । सोमाय पितृमते पुरोडाशꣳ षट्कपालं निर्वपति । संवत्सरो वै सोमः पितृमान् ।

VERSE: 3 { 1.6.8.3} संवत्सरम् एव प्रीणाति । पितृभ्यो बर्हिषद्भ्यो धानाः । मासा वै पितरो बर्हिषदः । मासान् एव प्रीणाति । यस्मिन् वा ऋतौ पुरुषः प्रमीयते । सो ऽस्य_अमुष्मिꣳल् लोके भवति । बहुरूपा धाना भवन्ति । अहोरात्राणाम् अभिजित्यै । पितृभ्यो ऽग्निष्वात्तेभ्यो मन्थम् । अर्धमासा वै पितरो ऽग्निष्वात्ताः ।

VERSE: 4 { 1.6.8.4} अर्धमासान् एव प्रीणाति । अभिवान्यायै दुग्धे भवति । सा हि पितृदेवत्यं दुहे । यत् पूर्णम् । तन् मनुष्याणाम् । उपर्यर्धो देवानाम् । अर्धः पितृणाम् । अर्ध उपमन्थति । अर्धो हि पितृणाम् । एकया_उपमन्थति ।

VERSE: 5 { 1.6.8.5} एका हि पितृणाम् । दक्षिणा_उपमन्थति । दक्षिणावृद्धि पितृणाम् । अनारभ्य_उपमन्थति । तद्धि पितॄन् गच्छति । इमां दिशं वेदिम् उद्धन्ति । उभये हि देवाश् च पितरश् च_इज्यन्ते । चतुःस्रक्तिर् भवति । सर्वा ह्य् अनु दिशः पितरः । अखाता भवति ।

VERSE: 6 { 1.6.8.6} खाता हि देवानाम् । मध्यतो ऽग्निर् आधीयते । अन्ततो हि देवानाम् आधीयते । वर्षीयान् इध्म इध्माद् भवति व्यावृत्त्यै । परिश्रयति । अन्तर्हितो हि पितृलोको मनुष्यलोकात् । यत् परुषि दिनम् । तद् देवानाम् । यद् अन्तरा । तन् मनुष्याणाम् ।

VERSE: 7 { 1.6.8.7} यत् समूलम् । तत् पितृणाम् । समूलं बर्हिर् भवति व्यावृत्त्यै । दक्षिणा स्तृणाति । दक्षिणावृद्धि पितृणाम् । त्रिः पर्येति । तृतीये वा इतो लोके पितरः । तान् एव प्रीणाति । त्रिः पुनः पर्येति । षट् संपद्यन्ते ।

VERSE: 8 { 1.6.8.8} षड् वा ऋतवः । ऋतून् एव प्रीणाति । यत् प्रस्तरं यजुषा गृह्णीयात् । प्रमायुको यजमानः स्यात् । यन् न गृह्णीयात् । अनायतनः स्यात् । तूष्णीम् एव न्यस्येत् । न प्रमायुको भवति । न_अनायतनः । यत् त्रीन् परिधीन् परिदध्यात् ।

VERSE: 9 { 1.6.8.9} मृत्युना यजमानं परिगृह्णीयात् । यन् न परिदध्यात् । रक्षाꣳसि यज्ञꣳ हन्युः । द्वौ परिधी परिदधाति । रक्षसाम् अपहत्यै । अथो मृत्योर् एव यजमानम् उत्सृजति । यत् त्रीणि_त्रीणि हवीꣳष्य् उदाहरेयुः । त्रयस्_त्रय एषाꣳ साकं प्रमीयेरन् । एकैकम् अनूचीनान्य् उदाहरन्ति । एकैक एवैषाम् अन्वञ्चः प्रमीयते । कशिपु कशिपव्याय । उपबर्हणम् उपबर्हण्याय । आञ्जनम् आञ्जन्याय । अभ्यञ्जनम् अभ्यञ्जन्याय । यथाभागम् एवैनान् प्रीणाति ।

अनुवाक 9 राजसूये पितृयज्ञः VERSE: 1 { 1.6.9.1} अग्नये देवेभ्यः पितृभ्यः समिध्यमानाय_अनुब्रूहि_इत्य् आह । उभये हि देवाश् च पितरश् च_इज्यन्ते । एकाम् अन्वाह । एका हि पितृणाम् । त्रिर् अन्वाह । त्रिर् हि देवानाम् । आघाराव् आघारयति । यज्ञपरुषोर् अनन्तरित्यै । न_आर्षेयं वृणीते । न होतारम् ।

VERSE: 2 { 1.6.9.2} यद् आर्षेयं वृणीते । यद् होतारम् । प्रमायुको यजमानः स्यात् । प्रमायुको होता । तस्मान् न वृणीते । यजमानस्य होतुर् गोपीथाय । अपबर्हिषः प्रयाजान् यजति । प्रजा वै बर्हिः । प्रजा एव मृत्योर् उत्सृजति । आज्यभागौ यजति ।

VERSE: 3 { 1.6.9.3} यज्ञस्यैव चक्षुषी न_अन्तरेति । प्राचीनावीती सोमं यजति । पितृदेवत्या हि । एषा_आहुतीः । पञ्चकृत्वो ऽवद्यति । पञ्च ह्य् एता देवताः । द्वे पुरोऽनुवाक्ये । याज्या देवता वषट्कारः । ता एव प्रीणाति । सन्ततम् अवद्यति ।

VERSE: 4 { 1.6.9.4} ऋतूनाꣳ संतत्यै । प्र_एवैभ्यः पूर्वया पुरोऽनुवाक्यया_आह । प्रणयति द्वितीयया । गमयति याज्यया । तृतीये वा इतो लोके पितरः । अह्न एवैनान् {एवैनां} पूर्वया पुरोऽनुवाक्यया_अत्यानयति । रात्रियै द्वितीयया । आ_एवैनान् याज्यया गमयति । दक्षिणतो ऽवदाय । उदङ्ङ् अतिक्रामति व्यावृत्त्यै ।

VERSE: 5 { 1.6.9.5} आ स्वधा_इत्य् आश्रावयति । अस्तु स्वधा_इति प्रत्याश्रावयति । स्वधा नम इति वषट्करोति । स्वधाकारो हि पितृणाम् । सोमम् अग्रे यजति । सोमप्रयाजा हि पितरः । सोमं पितृमन्तं यजति । संवत्सरो वै सोमः पितृमान् । संवत्सरम् एव तद् यजति । पितॄन् बर्हिषदो यजति ।

VERSE: 6 { 1.6.9.6} ये वै यज्वानः । ते पितरो बर्हिषदः । तान् एव तद् यजति । पितॄन् अग्निष्वात्तान् यजति । ये वा अयज्वानो गृहमेधिनः । ते पितरो ऽग्निष्वात्ताः । तान् एव तद् यजति । अग्निं कव्यवाहनं यजति । य एव पितृणाम् अग्निः । तम् एव तद् यजति ।

VERSE: 7 { 1.6.9.7} अथो यथा_अग्निꣳ स्विष्टकृतं यजति । तादृग् एव तत् । एतत् ते तत ये च त्वाम् अन्व् इति तिसृषु स्रक्तीषु निदधाति । तस्माद् आ तृतीयात् पुरुषान् नामनिगृह्णन्ति { नाम न गृह्णन्ति?} । एतावन्तो हि_इज्यन्ते । अत्र पितरो यथाभागं मन्दध्वम् इत्य् आह । ह्लीका हि पितरः । उदञ्चो निष्क्रामन्ति । एषा वै मनुष्याणां दिक् । स्वाम् एव तद् दिशम् अनु निष्क्रामन्ति ।

VERSE: 8 { 1.6.9.8} आहवनीयम् उपतिष्ठन्ते । न्य् एवास्मै तद् ध्नुवते । यत् सत्य् आहवनीये । अथ_अन्यत्र चरन्ति । आ तमितोर् उपतिष्ठन्ते । अग्निम् एव_उपद्रष्टारं कृत्वा । पितॄन् निरवदयन्ते । अन्तं वा एते प्राणानां गच्छन्ति । य आ तमितोर् उपतिष्ठन्ते । सुसंदृशं त्वा वयम् इत्य् आह ।

VERSE: 9 { 1.6.9.9} प्राणो वै सुसंदृक् । प्राणम् एवाऽऽत्मन् दधते । योजा न्व् इन्द्र ते हरी इत्य् आह । प्राणम् एव पुनर् अयुङ्क्त । अक्षन्न् अमीमदन्त हि_इति गार्हपत्यम् उपतिष्ठन्ते । अक्षन्न् अमीमदन्त_अथ त्वा_उपतिष्ठामह इति वाव_एतद् आह । अमीमदन्त पितरः सोम्या इत्य् अभिप्रपद्यन्ते । अमीमदन्त पितरो ऽथ त्वा_अभिप्रपद्यामह इति वाव_एतद् आह । अपः परिषिञ्चति । मार्जयत्य् एवैनान् ।

VERSE: 10 { 1.6.9.10} अथो तर्पयत्य् एव । तृप्यति प्रजया पशुभिः । य एवं वेद । अपबर्हिषाव् अनूयाजौ यजति । प्रजा वै बर्हिः । प्रजा एव मृत्योर् उत्सृजति । चतुरः प्रयाजान् यजति । द्वाव् अनूयाजौ । षट् संपद्यन्ते । षड् वा ऋतवः । { 1.6.9.10} ऋतून् एव प्रीणाति । न पत्न्य् अन्वास्ते । न संयाजयन्ति । यत् पत्न्य् अन्वासीत । यत् संयाजयेयुः । प्रमायुका स्यात् । तस्मान् न_अन्वास्ते । न संयाजयन्ति । पत्नियै गोपीथाय ।

अनुवाक 10 राजसूये त्र्यम्बकहविः VERSE: 1 { 1.6.10.1} प्रतिपूरुषम् एककपालान् निर्वपति । जाता एव प्रजा रुद्रान् निरवदयते । एकम् अतिरिक्तम् । जनिष्यमाणा एव प्रजा रुद्रान् निरवदयते । एककपाला भवन्ति । एकधा_एव रुद्रं निरवदयते । न_अभिघारयति । यद् अभिघारयेत् । अन्तरवचारिणꣳ रुद्रं कुर्यात् । एक_उल्मुकेन यन्ति( उल्मुके नयन्ति) ।

VERSE: 2 { 1.6.10.2} तद् धि रुद्रस्य भागधेयम् । इमां दिशं यन्ति । एषा वै रुद्रस्य दिक् । स्वायाम् एव दिशि रुद्रं निरवदयते । रुद्रो वा अपशुकाग्रा आहुत्यै न_अतिष्ठत । असौ ते पशुर् इति निर्दिशेद् यं द्विष्यात् । यम् एव द्वेष्टि । तम् अस्मै पशुं निर्दिशति । यदि न द्विष्यात् । आखुस् ते पशुर् इति ब्रूयात् ।

VERSE: 3 { 1.6.10.3} न ग्राम्यान् पशून् हिनस्ति । न_अरण्यान् । चतुष्पथे जुहोति । एष वा अग्नीनां पड्बीशो नाम । अग्निवत्य् एव जुहोति । मध्यमेन पर्णेन जुहोति । स्रुग्द् ह्य् एषा(स्रुग्ध्येषा) । अथो खलु । अन्तमेनैव होतव्यम् । अन्तत एव रुद्रं निरवदयते ।

VERSE: 4 { 1.6.10.4} एष ते रुद्र भागः सह स्वस्रा_अम्बिकया इत्य् आह । शरद् वा अस्य_अम्बिका स्वसा । तया वा एष हिनस्ति । यꣳ हिनस्ति । तया_एवैनꣳ सह शमयति । भेषजं गव इत्य् आह । यावन्त एव ग्राम्याः पशवः । तेभ्यो भेषजं करोति । अव_अम्ब रुद्रम् अदिमहि_इत्य् आह । आशिषम् एवैताम् आशास्ते ।

VERSE: 5 { 1.6.10.5} त्र्यम्बकं यजामह इत्य् आह । मृत्योर् मुक्षीय मा_अमृताद् इति वाव_एतद् आह । उत्किरन्ति । भगस्य लीप्सन्ते । मूते कृत्वा सजन्ति । यथा जनं यते ऽवसं {यतेवसं} करोति । तादृग् एव तत् । एष ते रुद्र भाग इत्य् आह निरवत्त्यै । अप्रतीक्षम् आयन्ति । अपः परिषिञ्चति । रुद्रस्य_अन्तर्हित्यै । प्र वा एते ऽस्माल् लोकाच् च्यवन्ते । ये त्र्यम्बकैश् चरन्ति । आदित्यं चरुं पुनर् एत्य निर्वपति । इयं वा अदितिः । अस्याम् एव प्रतितिष्ठन्ति ।



प्रपाठक: 7 अनुवाक 1 राजसूये शुनासीरः VERSE: 1 { 1.7.1.1} एतद् ब्राह्मणान्य् एव पञ्च हवीꣳषि । अथ_इन्द्राय शुनासीराय पुरोडाशं द्वादशकपालं निर्वपति । संवत्सरो वा इन्द्रा शुनासीरः । संवत्सरेणैवास्मा अन्नम् अवरुन्धे । वायव्यं पयो भवति । वायुर् वै वृष्ट्यै प्रदापयिता । स एवास्मै वृष्टिं प्रदापयति । सौर्य एककपालो भवति । सूर्येण वा अमुष्मिꣳल् लोके वृष्टिर् धृता । स एवास्मै वृष्टिं नियच्छति ।

VERSE: 2 { 1.7.1.2} द्वादशगवꣳ सीरं दक्षिणा समृद्ध्यै । देव_असुराः संयत्ता आसन् । ते देवा अग्निम् अब्रुवन् । त्वया वीरेण_असुरान् अभिभवाम_इति । सो ऽब्रवीत् । त्रेधा_अहम् आत्मानं विकरिष्य इति । स त्रेधा_आत्मानं व्यकुरुत । अग्निं तृतीयम् । रुद्रं तृतीयम् । वरुणं तृतीयम् ।

VERSE: 3 { 1.7.1.3} सो ऽब्रवीत् । क इदं तुरीयम् इति । अहम् इति_इन्द्रो ऽब्रवीत् । सं तु सृजावहा इति । तौ समसृजेताम् । स इन्द्रस् तुरीयम् अभवत् । यद् इन्द्रस् तुरीयम् अभवत् । तद् इन्द्रतुरीयस्य_इन्द्रतुरीयत्वम् । ततो वै देवा व्यजयन्त । यद् इन्द्रतुरीयं निरुप्यते विजित्यै ।

VERSE: 4 { 1.7.1.4} वहिनी धेनुर् दक्षिणा । यद् वहिनी तेन_आग्नेयी । यद् गौः । तेन रौद्री । यद् धेनुः । तेन_ऐन्द्री । यत् स्त्री सती दान्ता । तेन वारुणी समृद्ध्यै । प्रजापतिर् यज्ञम् असृजत ।

VERSE: 5 { 1.7.1.5} तꣳ सृष्टꣳ रक्षाꣳस्य् अजिघाꣳसन् । स एताः प्रजापतिर् आत्मनो देवता निरमिमीत । ताभिर् वै स दिग्भ्यो रक्षाꣳसि प्राणुदत । यत् पञ्चावत्तीयं जुहोति । दिग्भ्य एव तद् यजमानो रक्षाꣳसि प्रणुदते । समूढꣳ रक्षः संदग्धꣳ रक्ष इत्य् आह । रक्षाꣳस्य् एव संदहति । अग्नये रक्षोघ्ने स्वाहा_इत्य् आह । देवताभ्य एव विजिग्यानाभ्यो भागधेयं करोति । प्रष्टिवाही रथो दक्षिणा समृद्ध्यै ।

VERSE: 6 { 1.7.1.6} इन्द्रो वृत्रꣳ हत्वा । असुरान् पराभाव्य । नमुचिम् आसुरं न_अलभत[न_आलभत?] । तꣳ शच्यागृह्णात् । तौ समलभेताम् । सो ऽस्माद् अभिशुनतरो ऽभवत् । सो ऽब्रवीत् । संधाꣳ संदधावहै । अथ त्वा_वः { त्वाव} स्रक्ष्यामि । न मा शुष्केण न_आर्द्रेण हनः ।

VERSE: 7 { 1.7.1.7} न दिवा न नक्तम् इति । स एतम् अपां फेनम् असिञ्चत् । न वा एष शुष्को न_आर्द्रो व्युष्टा_आसीत् । अनुदितः सूर्यः । न वा एतद् दिवा न नक्तम् । तस्यैतस्मिꣳल् लोके । अपां फेनेन शिर उदवर्तयत् । तद् एनम् अन्ववर्तत । मित्रध्रुग् इति ।

VERSE: 8 { 1.7.1.8} स एतान् अपामार्गान् अजनयत् । तान् अजुहोत् । तैर् वै स रक्षाꣳस्य् अपाहत {अपाहन्} । यद् अपामार्गहोमो भवति । रक्षसाम् अपहत्यै । एक_उल्मुकेन यन्ति । तद्धि रक्षसां भागधेयम् । इमां दिशं यन्ति । एषा वै रक्षसां दिक् । स्वायाम् एव दिशि रक्षाꣳसि हन्ति ।

VERSE: 9 { 1.7.1.9} स्वकृत इरिणे जुहोति प्रदरे वा । एतद् वै रक्षसाम् आयतनम् । स्व एवाऽऽयतने रक्षाꣳसि हन्ति । पर्णमयेन स्रुवेण जुहोति । ब्रह्म वै पर्णः । ब्रह्मणा_एव रक्षाꣳसि हन्ति । देवस्य त्वा सवितुः प्रसव इत्य् आह । सवितृप्रसूत एव रक्षाꣳसि हन्ति । हतꣳ रक्षो वधिष्म रक्ष इत्य् आह । रक्षसाꣳ स्तृत्यै । यद् वस्ते तद् दक्षिणा निरवत्त्यै । अप्रतीक्षम् आयन्ति । रक्षसाम् अन्तर्हित्यै ।

अनुवाक 2 राजसूये देविकाहवींषि VERSE: 1 { 1.7.2.1} धात्रे पुरोडाशं द्वादशकपालं निर्वपति । संवत्सरो वै धाता । संवत्सरेणैवास्मै प्रजाः प्रजनयति । अन्व् एवास्मा अनुमतिर् मन्यते । राते राका । प्र सिनीवाली जनयति । प्रजास्व् एव प्रजातासु कुह्वा वाचं दधाति । मिथुनौ गावौ दक्षिणा समृद्ध्यै । आग्नावैष्णवम् एकादशकपालं निर्वपति । ऐन्द्रावैष्णवम् एकादशकपालम् ।

VERSE: 2 { 1.7.2.2} वैष्णवं त्रिकपालम् । वीर्यं वा अग्निः । वीर्यम् इन्द्रः । वीर्यं विष्णुः । प्रजा एव प्रजाता वीर्ये प्रतिष्ठापयति । तस्मात् प्रजा वीर्यावतीः । वामन ऋषभो वही दक्षिणा । यद् वही तेन_आग्नेयः । यद् ऋषभः ।

VERSE: 3 { 1.7.2.3} तेन_ऐन्द्रः । यद् वामनः । तेन वैष्णवः समृद्ध्यै । अग्नीषोमीयम् एकादशकपालं निर्वपति । इन्द्रासोमीयम् एकादशकपालम् । सौम्यं चरुम् । सोमो वै रेतोधाः । अग्निः प्रजानां प्रजनयिता । वृद्धानाम् इन्द्रः प्रदापयिता । सोम एवास्मै रेतो दधाति ।

VERSE: 4 { 1.7.2.4} अग्निः प्रजां प्रजनयति । वृद्धाम् इन्द्रः प्रयच्छति । बभ्रुर् दक्षिणा समृद्ध्यै । सोमापौष्णं चरुं निर्वपति । ऐन्द्रापौष्णं चरुम् । सोमो वै रेतोधाः । पूषा पशूनां प्रजनयिता । वृद्धानाम् इन्द्रः प्रदापयिता । सोम एवास्मै रेतो दधाति । पूषा पशून् प्रजनयति ।

VERSE: 5 { 1.7.2.5} वृद्धान् इन्द्रः प्रयच्छति । पौष्णश् चरु भवति । इयं वै पूषा । अस्याम् एव प्रतितिष्ठति । श्यामो दक्षिणा समृद्ध्यै । बहु वै पुरुषो ऽमेध्यम् {मेध्यम्?} उपगच्छति । वैश्वानरं द्वादशकपालं निर्वपति । संवत्सरो वा अग्निर् वैश्वानरः । संवत्सरेणैवैनꣳ स्वदयति । हिरण्यं दक्षिणा ।

VERSE: 6 { 1.7.2.6} पवित्रं वै हिरण्यम् । पुनात्य् एवैनम् । बहु वै राजन्यो ऽनृतं करोति । उप जाम्यै हरते । जिनाति ब्राह्मणम् । वदत्य् अनृतम् । अनृते खलु वै क्रियमाणे वरुणो गृह्णाति । वारुणं यवमयं चरुं निर्वपति । वरुणपाशाद् एवैनं मुञ्चति । अश्वो दक्षिणा । वारुणो हि देवतया_अश्वः समृद्ध्यै ।

अनुवाक 3 राजसूये रत्निनां हविः VERSE: 1 { 1.7.3.1} रत्निनाम् एतानि हवीꣳषि भवन्ति । एते वै राष्ट्रस्य प्रदातारः । एते ऽपादातारः (पादातारः) । य एव राष्ट्रस्य प्रदातारः । ये ऽपादातारः (पादातारः) । त एवास्मै राष्ट्रं प्रयच्छन्ति । राष्ट्रम् एव भवति । यत् समाहृत्य निर्वपेत् । अरत्निनः स्युः । यथायथं निर्वपति रत्नित्वाय ।

VERSE: 2 { 1.7.3.2} यत् सद्यो निर्वपेत् । यावतीम् एकेन हविषा_आशिषम् अवरुन्धे । तावतीम् अवरुन्धीत । अन्वहं निर्वपति । भूयसीम् एवाऽऽशिषम् अवरुन्धे । भूयसो यज्ञक्रतून् उपैति । बार्हस्पत्यं चरुं निर्वपति ब्रह्मणो गृहे । मुखत एवास्मै ब्रह्म सꣳश्यति । अथो ब्रह्मन्न् एव क्षत्त्रम् अन्वारम्भयति । शितिपृष्ठो दक्षिणा समृद्ध्यै ।

VERSE: 3 { 1.7.3.3} ऐन्द्रम् एकादशकपालꣳ राजन्यस्य गृहे । इन्द्रियम् एव_अवरुन्धे । ऋषभो दक्षिणा समृद्ध्यै । आदित्यं चरुं महिष्यै गृहे । इयं वा अदितिः । अस्याम् एव प्रतितिष्ठति । धेनुर् दक्षिणा समृद्ध्यै । भगाय चरुं वावातायै गृहे । भगम् एवास्मिन् दधाति । विचित्तगर्भा पष्ठौही दक्षिणा समृद्ध्यै ।

VERSE: 4 { 1.7.3.4} नैर्ऋतं चरुं परिवृक्त्यै गृहे कृष्णानां व्रीहीणां नखनिर्भिन्नम् । पाप्मानम् एव निर्ऋतिं निरवदयते कृष्णा कूटाँ (कूटा) दक्षिणा समृद्ध्यै । आग्नेयम् अष्टाकपालꣳ सेनान्यो गृहे । सेनाम् एवास्य सꣳश्यति । हिरण्यं दक्षिणा समृद्ध्यै । वारुणं दशकपालꣳ सूतस्य गृहे । वरुणसवम् एव_अवरुन्धे । महानिरष्टो दक्षिणा समृद्ध्यै । मारुतꣳ सप्तकपालं ग्रामण्यो गृहे ।

VERSE: 5 { 1.7.3.5} अन्नं वै मरुतः । अन्नम् एव_अवरुन्धे । पृश्निर् दक्षिणा समृद्ध्यै । सावित्रं द्वादशकपालं क्षत्तुर् गृहे प्रसूत्यै । उपध्वस्तो दक्षिणा समृद्ध्यै । आश्विनं द्विकपालꣳ संग्रहीतुर् गृहे । अश्विनौ वै देवानां भिषजौ । ताभ्याम् एवास्मै भेषजं करोति । सवात्यौ दक्षिणा समृद्ध्यै । पौष्णं चरुं भागदुघस्य गृहे ।

VERSE: 6 { 1.7.3.6} अन्नं वै पूषा । अन्नम् एव_अवरुन्धे । श्यामो दक्षिणा समृद्ध्यै । रौद्रं गावीधुकं चरुम् अक्षावापस्य गृहे । अन्तत एव रुद्रं निरवदयते । शबल उद्वारो दक्षिणा समृद्ध्यै । द्वादश_एतानि हवीꣳषि भवन्ति । द्वादश मासाः संवत्सरः । संवत्सरेण_एवास्मै राष्ट्रम् अवरुन्धे । राष्ट्रम् एव भवति ।

VERSE: 7 { 1.7.3.7} यन् न प्रतिनिर्वपेत् । रत्निन आशिषो ऽवरुन्धीरन्न् । प्रतिनिर्वपति । इन्द्राय सुत्राम्णे पुरोडाशम् एकादशकपालम् । इन्द्राय_अꣳहोमुचे । आशिष एव_अवरुन्धे । आयन् नो { अयं नो} राजा वृत्रहा राजा । भूत्वा वृत्रं वध्याद् इत्य् आह । आशिषम् एवैताम् आशास्ते । मैत्राबार्हस्पत्यं भवति । श्वेतायै श्वेतवत्सायै दुग्धे ।

VERSE: 8 { 1.7.3.8} बार्हस्पत्ये मैत्रम् अपिदधाति । ब्रह्म चैवास्मै क्षत्त्रं च समीची दधाति । अथो ब्रह्मन्न् एव क्षत्त्रं प्रतिष्ठापयति । बार्हस्पत्येन पूर्वेण प्रचरति । मुखत एवास्मै ब्रह्म सꣳश्यति । अथो ब्रह्मन्न् एव क्षत्त्रम् अन्वारम्भयति । स्वयंकृता वेदिर् भवति । स्वयंदिनं बर्हिः । स्वयंकृत इध्मः । अनभिजितस्य_अभिजित्यै । तस्माद् राज्ञाम् अरण्यम् अभिजितम् । सैव श्वेता श्वेतवत्सा दक्षिणा समृद्ध्यै ।

अनुवाक 4 राजसूये देवसुवां हविः VERSE: 1 { 1.7.4.1} देवसुवाम् एतानि हवीꣳषि भवन्ति । एतावन्तो {एतावन्तौ} वै देवानाꣳ सवाः । त एवास्मै सवान् प्रयच्छन्ति । त एनꣳ सुवन्ते । अग्निर् एवैनं गृहपतीनाꣳ सुवते । सोमो वनस्पतीनाम् । रुद्रः पशूनाम् । बृहस्पतिर् वाचाम् । इन्द्रो ज्येष्ठानाम् । मित्रः सत्यानाम् ।

VERSE: 2 { 1.7.4.2} वरुणो धर्मपतीनाम् । एतद् एव सर्वं भवति । सविता त्वा प्रसवानाꣳ सुवताम् इति हस्तं गृह्णाति प्रसूत्यै । ये देवा देवसुवः स्थ_इत्य् आह । यथायजुर् एवैतत् । महते क्षत्त्राय महत आधिपत्याय महते जानराज्याय_इत्य् आह । आशिषम् एवैताम् आशास्ते । एष वो भरता राजा सोमो ऽस्माकं ब्राह्मणानाꣳ राजा_इत्य् आह । तस्मात् सोमराजानो ब्राह्मणाः । प्रति त्यन् नाम राज्यम् अधायि_इत्य् आह ।

VERSE: 3 { 1.7.4.3} राज्यम् एवास्मिन् प्रतिदधाति । स्वां तनुवं वरुणो अशिश्रेद् इत्य् आह । वरुणसवम् एव_अवरुन्धे । शुचेर् मित्रस्य व्रत्या अभूम_इत्य् आह । शुचिम् एवैनं व्रत्यं करोति । अमन्महि महत ऋतस्य नाम_इत्य् आह । मनुत एवैनम् । सर्वे व्राता वरुणस्य_अभूवन्न् इत्य् आह । सर्वव्रातम् एवैनं करोति । वि मित्र एवैर् अरातिम् {वि मित्ररावैर् अरातिम्} अतारीद् इत्य् आह {= तै.सं.1.8.10.f} ।

VERSE: 4 { 1.7.4.4} अरातिम् एवैनं तारयति । असूषुदन्त यज्ञिया ऋतेन_इत्य् आह । स्वदयत्य् एवैनम् । व्य् उ त्रितो जरिमाणं न आनड् इत्य् आह {= तै.सं 1.8.10.f} । आयुर् एवास्मिन् दधाति । द्वाभ्यां विमृष्टे । द्विपाद् यजमानः प्रतिष्ठित्यै । अग्नीषोमीयस्य च_एकादशकपालस्य देवसुवां च हविषाम् अग्नये स्विष्टकृते समवद्यति । देवताभिर् एवैनम् उभयतः परिगृह्णाति । विष्णुक्रमान् क्रमते । विष्णुर् एव भूत्वा_इमान् लोकान् अभिजयति ।

अनुवाक 5 राजसूये जलग्रहणम् जलाहरणम् VERSE: 1 { 1.7.5.1} अर्थ_इतः स्थ_इति जुहोति । आहुत्या_एवैना निष्क्रीय गृह्णाति । अथो हविष्कृतानाम् एव_अभिघृतानां गृह्णाति । वहन्तीनां गृह्णाति । एता वा अपाꣳ राष्ट्रम् । राष्ट्रम् एवास्मै गृह्णाति । अथो श्रियम् एवैनम् अभिवहन्ति । अपां पतिर् असि_इत्य् आह । मिथुनम् एव_अकः । वृषा_अस्य् ऊर्मिर् इत्य् आह ।

VERSE: 2 { 1.7.5.2} ऊर्मिमन्तम् एवैनं करोति । वृषसेनो ऽसि_इत्य् आह । सेनाम् एवास्य सꣳश्यति । व्रजक्षितः स्थ_इत्य् आह । एता वा अपां विशः । विशम् एवास्मै पर्यूहति । मरुताम् ओजः स्थ_इत्य् आह । अन्नं वै मरुतः । अन्नम् एव_अवरुन्धे । सूर्यवर्चसः स्थ_इत्य् आह ।

VERSE: 3 { 1.7.5.3} राष्ट्रम् एव वर्चस्व्य् अकः । सूर्यत्वचसः स्थ_इत्य् आह । सत्यं वा एतत् । यद् वर्षति । अनृतं यदातपति वर्षति । सत्य_अनृते एव_अवरुन्धे । न_एनꣳ सत्य_अनृते उदिते हिꣳस्तः । य एवं वेद । मान्दा स्थ_इत्य् आह । राष्ट्रम् एव ब्रह्मवर्चस्य् अकः ।

VERSE: 4 { 1.7.5.4} वाशाः स्थ_इत्य् आह । राष्ट्रम् एव वश्य् अकः । शक्वरीः स्थ_इत्य् आह । पशवो वै शक्वरीः । पशून् एव_अवरुन्धे । विश्वभृतः स्थ_इत्य् आह । राष्ट्रम् एव पयस्व्य् अकः । जनभृतः स्थ_इत्य् आह । राष्ट्रम् एव_इन्द्रियाव्यकः । अग्नेस् तेजस्याः स्थ_इत्य् आह ।

VERSE: 5 { 1.7.5.5} राष्ट्रम् एव तेजस्व्य् अकः । अपाम् ओषधीनाꣳ रसः स्थ_इत्य् आह । राष्ट्रम् एव मधव्यम् अकः । सारस्वतं ग्रहं गृह्णाति । एषा वा अपां पृष्ठम् । यत् सरस्वती । पृष्ठम् एवैनꣳ समानानां करोति । षोडशभिर् गृह्णाति । षोडशकलो वै पुरुषः । यावान् एव पुरुषः । तस्मिन् वीर्यं दधाति । षोडशभिर् जुहोति षोडशभिर् गृह्णाति । द्वात्रिꣳशत् संपद्यन्ते । द्वात्रिꣳशदक्षरा_अनुष्टुक् । वाग् अनुष्टुप् सर्वाणि च्छन्दाꣳसि । वाचा_एवैनꣳ सर्वेभिश् छन्दोभिर् अभिषिञ्चति ।

अनुवाक 6 राजसूये जलसंस्कारः VERSE: 1 { 1.7.6.1} देवीर् आपः सं मधुमतीर् मधुमतीभिः सृज्यध्वम् इत्य् आह । ब्रह्मणा_एवैनाः सꣳसृजति । अनाधृष्टाः सीदत_इत्य् आह । ब्रह्मणा_एवैनाः सादयति । अन्तरा होतुश् च धिष्णियं ब्राह्मणाच्छꣳसिनश् च सादयति । आग्नेयो वै होता । ऐन्द्रो ब्राह्मणाच्छꣳसी । तेजसा चैव_इन्द्रियेण चोभयतो राष्ट्रं परिगृह्णाति । हिरण्येन_उत्पुनाति । आहुत्यै हि पवित्राभ्याम् उत्पुनन्ति व्यावृत्त्यै ।

VERSE: 2 { 1.7.6.2} शतमानं भवति । शतायुः । पुरुषश् शत_इन्द्रियः । आयुष्य् एव_इन्द्रिये प्रतितिष्ठति । अनिभृष्टम् असि_इत्य् आह । अनिभृष्टꣳ ह्य् एतत् । वाचो बन्धुर् इत्य् आह । वाचो ह्य् एष बन्धुः । तपोजा इत्य् आह । तपोजा ह्य् एतत् । सोमस्य दात्रम् असि_इत्य् आह ।

VERSE: 3 { 1.7.6.3} सोमस्य ह्य् एतद् दात्रम् । शुक्रा वः शुक्रेण_उत्पुनामि_इत्य् आह । शुक्रा ह्य् आपः । शुक्रꣳ हिरण्यम् । चन्द्राश् चन्द्रेण_इत्य् आह । चन्द्रा ह्य् आपः । चन्द्रꣳ हिरण्यम् । अमृता अमृतेन_इत्य् आह । अमृता ह्य् आपः । अमृतꣳ हिरण्यम् ।

VERSE: 4 { 1.7.6.4} स्वाहा राजसूयाय_इत्य् आह । राजसूयाय ह्य् एना उत्पुनाति । सधमादो द्युम्नि नीरुज { नीरूर्ज} एता इति वारुण्या_ऋचा गृह्णाति । वरुणसवम् एव_अवरुन्धे । एकया गृह्णाति । एकधा_एव यजमाने वीर्यं दधाति । क्षत्रस्य_उल्बम् असि क्षत्रस्य योनिर् असि_इति तार्प्यं च_उष्णीषं च प्रयच्छति सयोनित्वाय । एकशतेन दर्भपुञ्जीलैः पवयति । शतायुर् वै पुरुषः शतवीर्यः । आत्मा_एकशतः ।

VERSE: 5 { 1.7.6.5} यावान् एव पुरुषः । तस्मिन् वीर्यं दधाति । दध्य् आशयति । इन्द्रियम् एव_अवरुन्धे । उदुम्बरम् आशयति । अन्नाद्यस्य_अवरुद्ध्यै । शष्पाण्य् आशयति । सुराबलिम् एवैनं करोति । आविद एता भवन्ति । आविदम् एवैनं गमयन्ति ।

VERSE: 6 { 1.7.6.6} अग्निर् एवैनं गार्हपत्येन_अवति । इन्द्र इन्द्रियेण । पूषा पशुभिः । मित्रावरुणौ प्राणापानाभ्याम् । इन्द्रो वृत्राय वज्रम् उदयच्छत् । स दिवम् अलिखत् । सो ऽर्यम्णः पन्था अभवत् । स आविन्ने द्यावापृथिवी धृतव्रते इति द्यावापृथिवी उपाधावत् । स आभ्याम् एव प्रसूत इन्द्रो वृत्राय वज्रं प्राहरत् । आविन्ने द्यावापृथिवी धृतव्रते इति यद् आह ।

VERSE: 7 { 1.7.6.7} आभ्याम् एव प्रसूतो यजमानो वज्रं भ्रातृव्याय प्रहरति । आविन्ना देव्य् अदितिर् विश्वरूपी_इत्य् आह । इयं वै देव्य् अदितिर् विश्वरूपी । अस्याम् एव प्रतितिष्ठति । आविन्नो ऽयम् असाव् आमुष्यायणो ऽस्यां विश्य् अस्मिन् राष्ट्र इत्य् आह । विशा_एवैनꣳ राष्ट्रेण समर्धयति । महते क्षत्राय महत आधिपत्याय महते जानराज्याया_इत्य् आह । आशिषम् एवैताम् आशस्ते । एष वो भरता राजा सोमो ऽस्माकं ब्राह्मणानाꣳ राजा_इत्य् आह । तस्मात् सोमराजानो ब्राह्मणाः ।

VERSE: 8 { 1.7.6.8} इन्द्रस्य वज्रो ऽसि वार्त्रघ्न इति धनुः प्रयच्छति विजित्यै । शत्रुबाधनाः स्थ_इति_इषून् । शत्रून् एवास्य बाधन्ते । पात मा प्रत्यञ्चं पात मा तिर्यञ्चम् अन्वञ्चं मा पात_इत्य् आह । तिस्रो वै शरव्याः । प्रतीची तिरश्च्य् अनूची । तभ्य एवैनं पान्ति । दिग्भ्यो मा पात_इत्य् आह । दिग्भ्य एवैनं पान्ति । विश्वाभ्यो मा नाष्ट्राभ्यः पात_इत्य् आह । अपरिमिताद् एवैनं पान्ति । हिरण्यवर्णाव् उषसां विरोक इति त्रिष्टुभा बाहू उद्गृह्णाति । इन्द्रियं वै वीर्यं त्रिष्टुक् । इन्द्रियम् एव वीर्यम् उपरिष्टाद् आत्मन् धत्ते ।

अनुवाक 7 राजसूये दिग्जयध्यानम VERSE: 1 { 1.7.7.41} दिशो व्यास्थापयति । दिशाम् अभिजित्यै । यद् अनुप्रक्रामेत् । अभि दिशो जयेत् । उत् तु माद्येत् । मनसोनुप्रक्रामति । अभि दिशो जयति । न_उन्माद्यति । समिधम् आतिष्ठ_इत्य् आह । तेज एव_अवरुन्धे ।

VERSE: 2 { 1.7.7.2} उग्राम् आतिष्ठ_इत्य् आह इन्द्रियम् एव_अवरुन्धे । विराजम् आतिष्ठ_इत्य् आह । अन्नाद्यम् एव_अवरुन्धे । उदीचीम् आतिष्ठ_इत्य् आह । पशून् एव_अवरुन्धे । ऊर्ध्वाम् आतिष्ठ_इत्य् आह । सुवर्गम् एव लोकम् अभिजयति । अनूज्जिहीते । सुवर्गस्य लोकस्य समष्ट्यै ।

VERSE: 3 { 1.7.7.3} मारुत एष भवति । अन्नं वै मरुतः । अन्नम् एव_अवरुन्धे । एकविꣳशतिकपालो भवति प्रतिष्ठित्यै । यो ऽरण्ये ऽनुवाक्यो गणः । तं मध्यत उपदधाति । ग्राम्यैर् एव पशुभिर् आरण्यान् पशून् परिगृह्णाति । तस्माद् ग्राम्यैः पशुभिर् आरण्याः पशवः परिगृहीताः । पृथिर् वैन्यः । अभ्यषिच्यत ।

VERSE: 4 { 1.7.7.4} स राष्ट्रं न_अभवत् । स एतानि पार्थान्य् अपश्यत् । तान्य् अजुहोत् । तैर् वै स राष्ट्रम् अभवत् । यत् पार्थानि जुहोति । राष्ट्रम् एव भवति । बार्हस्पत्यं पूर्वेषाम् उत्तमं भवति । ऐन्द्रम् उत्तरेषां प्रथमम् । ब्रह्म चैवास्मै क्षत्रं च समीची दधाति । अथो ब्रह्मन्न् एव क्षत्रं प्रतिष्ठापयति ।

VERSE: 5 { 1.7.7.5} षट् पुरस्ताद् अभिषेकस्य जुहोति । षड् उपरिष्टात् । द्वादश संपद्यन्ते । द्वादश मासाः संवत्सरः । संवत्सरः खलु वै देवानां पूः । देवानाम् एव पुरं मध्यतो व्यवसर्पति । तस्य न कुतश् चन_उपाव्याधो भवति । भूतानाम् अवेष्टीर् {एवेष्टीर्} जुहोति । अत्र_अत्र वै मृत्युर् जायते । यत्र_यत्रैव मृत्युर् जायते । तत एवैनम् अवयजते । तस्माद् राजसूयेन_ईजानः सर्वम् आयुर् एति । सर्वे ह्य् अस्य मृत्यवो ऽवेष्टाः । तस्माद् राजसूयेन_ईजानो न_अभिचरितवै । प्रत्यग् एनम् अभिचारः स्तृणुते ।

अनुवाक 8 राजसूये अभिषेकः VERSE: 1 { 1.7.8.1} सोमस्य त्विषिर् असि तव_इव मे त्विषिर् भूयाद् इति शार्दूलचर्म_उपस्तृणाति । यैव सोमे त्विषिः । या शार्दूले । ताम् एव_अवरुन्धे । मृत्योर् वा एष वर्णः । यत्_शार्दूलः । अमृतꣳ हिरण्यम् । अमृतम् असि मृत्योर् मा पाहि_इति हिरण्यम् उपास्यति । अमृतम् एव मृत्योर् अन्तर्धत्ते । शतमानं भवति ।

VERSE: 2 { 1.7.8.2} शत_आयुः पुरुषः शत_इन्द्रियः । आयुष्य् एव_इन्द्रिये प्रतितिष्ठति । दिद्योन् मा पाहि_इत्य् उपरिष्टाद् अधिनिदधाति । उभयत एवास्मै शर्म दधाति । अवेष्टा दन्दशूका इति क्लीबꣳ सीसेन विध्यति । दन्दशूकान् एव_अवयजते । तस्मात् क्लीबं दन्दशूका दꣳशुकाः । निरस्तं नमुचेः शिर इति लोहितायसं निरस्यति । पाप्मानम् एव नमुचिं निरवदयते । प्राणा आत्मनः पूर्वे ऽभिषिच्या इत्य् आहुः ।

VERSE: 3 { 1.7.8.3} सोमो राजा वरुणः । देवा धर्मसुवश् च ये । ते_ते वाचꣳ सुवन्तां ते_ते प्राणꣳ सुवन्ताम् इत्य् आह । प्राणान् एवाऽऽत्मनः पूर्वान् अभिषिञ्चति । यद् ब्रूयात् । अग्नेस् त्वा तेजसाऽभिषिञ्चामि_इति । तेजस्व्य् एव स्यात् । दुश्चर्मा तु भवेत् । सोमस्य त्वा द्युम्नेन_अभिषिञ्चामि_इत्य् आह । सौम्यो वै देवतया पुरुषः ।

VERSE: 4 { 1.7.8.4} स्वया_एवैनं देवतया_अभिषिञ्चति । अग्नेस् तेजसा_इत्य् आह । तेज एवास्मिन् दधाति । सूर्यस्य वर्चसा_इत्य् आह । वर्च एवास्मिन् दधाति । इन्द्रस्य_इन्द्रियेण_इत्य् आह । इन्द्रियम् एवास्मिन् दधाति । मित्रावरुणयोर् वीर्येण_इत्य् आह । वीरम् एवास्मिन् दधाति । मरुताम् ओजसा_इत्य् आह ।

VERSE: 5 { 1.7.8.5} ओज एवास्मिन् दधाति । क्षत्राणां क्षत्रपतिर् असि_इत्य् आह । क्षत्राणाम् एवैनं क्षत्रपतिं करोति । अति दिवस् पाहि_इत्य् आह । अत्य् अन्यान् पाहि_इति वाव_एतद् आह । समाववृत्रन्न् अधराग् उदीचीर् इत्य् आह । राष्ट्रम् एवास्मिन् ध्रुवम् अकः । उच्छेषणेन जुहोति । उच्छेषणभागो वै रुद्रः । भागधेयेन_एव रुद्रं निरवदयते ।

VERSE: 6 { 1.7.8.6} उदङ् परेत्य_अग्नीद्ध्रे जुहोति । एषा वै रुद्रस्य दिक् । स्वायाम् एव दिशि रुद्रं निरवदयते । रुद्र यत् ते क्रयी परं नाम_इत्य् आह । यद् वा अस्य क्रयी परं नाम । तेन वा एष हिनस्ति । यꣳ हिनस्ति । तेनैवैनꣳ सह शमयति । तस्मै हुतम् असि यमेष्टम् असि_इत्य् आह । यमाद् एवास्य मृत्युम् अवयजते ।

VERSE: 7 { 1.7.8.7} प्रजापते न त्वद् एतान्य् अन्य इति तस्यै गृहे जुहुयात् । यां कामयेत राष्ट्रम् अस्यै प्रजा स्याद् इति । राष्ट्रम् एवास्यै प्रजा भवति । पर्णमयेन_अध्वर्युर् अभिषिञ्चति । ब्रह्मवर्चसम् एवास्मिन् त्विषिं दधाति । औदुम्बरेण राजन्यः । ऊर्जम् एवास्मिन्न् अन्नाद्यं दधाति । आश्वत्थेन वैश्यः । विशम् एवास्मिन् पुष्टिं दधाति । नैयग्रोधेन जन्यः । मित्राण्य् एवास्मै कल्पयति । अथो प्रतिष्ठित्यै ।

अनुवाक 9 राजसूये रथारोहणेन विजयः VERSE: 1 { 1.7.9.1} इन्द्रस्य वज्रो ऽसि वार्त्रघ्न इति रथम् उपावहरति विजित्यै । मित्रावरुणयोस् त्वा प्रशास्त्रोः प्रशिषा युनज्मि_इत्य् आह । ब्रह्मणा_एवैनं देवताभ्यां युनक्ति । प्रष्टिवाहिनं युनक्ति । प्रष्टिवाही वै देवरथः । देवरथम् एवास्मै युनक्ति । त्रयो ऽश्वा भवन्ति । रथश् चतुर्थः । द्वौ सव्येष्ठसारथी । षट् संपद्यन्ते ।

VERSE: 2 { 1.7.9.2} षड् वा ऋतवः । ऋतुभिर् एवैनं युनक्ति । विष्णुक्रमान् क्रमते । विष्णुर् एव भूत्वा_इमाꣳल् लोकान् अभिजयति । यः क्षत्रियः प्रतिहितः । सो ऽन्वारभते । राष्ट्रम् एव भवति । त्रिष्टुभा_अन्वारभते । इन्द्रियं वै त्रिष्टुक् । इन्द्रियम् एव यजमाने दधाति ।

VERSE: 3 { 1.7.9.3} मरुतां प्रसवे जेषम् इत्य् आह । मरुद्भिर् एव प्रसूत उज्जयति । आप्तं मन इत्य् आह । यद् एव {आनंदा. यदैव} मनसैप्सीत् । तद् आपत् । राजन्यं जिनाति । अनाक्रान्त एवाऽऽक्रमते । वि वा एष इन्द्रियेण वीर्येण_ऋध्यते । यो राजन्यं जिनाति । सम् अहम् इन्द्रियेण वीर्येण_इत्य् आह ।

VERSE: 4 { 1.7.9.4} इन्द्रियम् एव वीर्यम् आत्मन् धत्ते । पशूनां मन्युर् असि तव_इव मे मन्युर् भूयाद् इति वाराही उपानहाव् उपमुञ्चते । पशूनां वा एष मन्युः । यद् वराहः । तेन_एव पशूनां मन्युम् आत्मन् धत्ते । अभि वा इयꣳ सुषुवाणं कामयते । तस्य_ईश्वरा_इन्द्रियं वीर्यम् आदातोः । वाराही उपानहाव् उपमुञ्चते । अस्या एव_अन्तर्धत्ते । इन्द्रियस्य वीर्यस्य_अनात्त्यै {अनात्यै, 3.3.10.2 में भी} ।

VERSE: 5 { 1.7.9.5} नमो मात्रे पृथिव्या इत्य् आह_अहिꣳसायै । इयद् अस्य् आयुर् अस्य् आयुर् मे धेहि_इत्य् आह । आयुरेवाऽऽत्मन्धत्ते। ऊर्क्_असि_ऊर्जं मे धेहि_इत्य् आह । ऊर्जम् एवाऽऽत्मन् धत्ते । युङ्ङ् असि वर्चो ऽसि वर्चो मयि धेहि_इत्य् आह । वर्च एवाऽऽत्मन् धत्ते । एकधा ब्रह्मण उपहरति । एकधा_एव यजमान आयुर् ऊर्जं वर्चो दधाति । रथविमोचनीया जुहोति प्रतिष्ठित्यै ।

VERSE: 6 { 1.7.9.6} त्रयो ऽश्वा भवन्ति । रथश् चतुर्थः । तस्माच् चतुर् जुहोति । यद् उभौ सह_अवतिष्ठेताम् । समानं लोकम् इयाताम् । सह संग्रहीत्रा रथवाहने रथम् आदधाति । सुवर्गाद् एवैनं लोकाद् अन्तर्दधाति । हꣳसः शुचिषद् इत्य् आदधाति । ब्रह्मणा_एवैनम् उपावहरति । ब्रह्मणा दधाति । अतिच्छन्दसा_आदधाति । अतिच्छन्दा वै सर्वाणि छन्दाꣳसि । सर्वेभिर् एवैनं छन्दोभिर् आदधाति । वर्ष्म वा एषा छन्दसाम् । यद् अतिच्छन्दाः । यद् अतिच्छन्दसा दधाति {अतिच्छन्दसा_आदधाति?} । वर्ष्म_एवैनꣳ समानानां करोति ।

अनुवाक 10 राजसूये विजयादूर्ध्वं यजमानस्य सवैः सेव्यत्वम् VERSE: 1 { 1.7.10.1} मित्रो ऽसि वरुणो ऽसि_इत्य् आह । मैत्रं वा अहः । वारुणी रात्रिः । अहोरात्राभ्याम् एवैनम् उपावहरति । मित्रो ऽसि वरुणो ऽसि_इत्य् आह । मैत्रो वै दक्षिणः । वारुणः सव्यः । वैश्वदेव्य् आमिक्षा । स्वम् एवैनौ भागधेयम् उपावहरति । सम् अहं विश्वैर् देवैर् इत्य् आह ।

VERSE: 2 { 1.7.10.2} वैश्वदेव्यो वै प्रजाः । ता एव_आद्याः कुरुते । क्षत्रस्य नाभिर् असि क्षत्रस्य योनिर् असि_इत्य् अधीवासम् आस्तृणाति सयोनित्वाय । स्योनाम् आसीद सुषदाम् आसीद_इत्य् आह । यथायजुर् एवैतत् । मा त्वा हिꣳसीन् मा_मा हिꣳसीद् इत्य् आह_अहिꣳसायै । निषसाद धृतव्रतो वरुणः पस्त्यास्व् आ साम्राज्याय सुक्रतुर् इत्य् आह । साम्राज्यम् एवैनꣳ सुक्रतुं करोति । ब्रह्माँ3 त्वꣳ राजन् ब्रह्मा_असि सविताऽसि सत्यसव इत्य् आह । सवितारम् एवैनꣳ सत्यसवं करोति ।

VERSE: 3 { 1.7.10.61} ब्रह्माँ3 त्वꣳ राजन् ब्रह्मा_असि_इन्द्रो ऽसि सत्य_ओजा इत्य् आह । इन्द्रम् एवैनꣳ सत्य_ओजसं करोति । ब्रह्माँ3 त्वꣳ राजन् ब्रह्मा_असि मित्रो ऽसि सुशेव इत्य् आह । मित्रम् एवैनꣳ सुशेवं करोति । ब्रह्माँ3 त्वꣳ राजन् ब्रह्मा_असि वरुणो ऽसि सत्यधर्मा_इत्य् आह । वरुणम् एवैनꣳ सत्यधर्माणं करोति । सविता_असि सत्यसव इत्य् आह । गायत्रीम् एवैतेन_अभिव्याहरति । इन्द्रो ऽसि सत्य_ओजा इत्य् आह । त्रिष्टुभम् एवैतेन_अभिव्याहरति ।

VERSE: 4 { 1.7.10.4} मित्रो ऽसि सुशेव इत्य् आह । जगतीम् एवैतेन_अभिव्याहरति । सत्यम् एता देवताः । सत्यम् एतानि छन्दाꣳसि । सत्यम् एव_अवरुन्धे । वरुणो ऽसि सत्यधर्मा_इत्य् आह । अनुष्टुभम् एवैतेन_अभिव्याहरति । सत्य_अनृते वा अनुष्टुप् । सत्य_अनृते वरुणः । सत्य_अनृते एव_अवरुन्धे ।

VERSE: 5 { 1.7.10.5} न_एनꣳ सत्य_अनृते उदिते हिꣳस्तः । य एवं वेद । इन्द्रस्य वज्रो ऽसि वार्त्रघ्न इति स्फ्यं प्रयच्छति । वज्रो वै स्फ्यः । वज्रेणैवास्मा अवरपरꣳ रन्धयति । एवꣳ हि तत्_श्रेयः । यद् अस्मा एते रध्येयुः । दिशो ऽभ्य् अयꣳ राजा_अभूद् इति पञ्चाक्षान् प्रयच्छति । एते वै सर्वे ऽयाः । अपराजयिनम् एवैनं करोति ।

VERSE: 6 { 1.7.10.6} ओदनम् उद्ब्रुवते । परमेष्ठी वा एषः । यद् ओदनः । परमाम् एवैनꣳ श्रियं गमयति । सुश्लोका3ꣳ सुमङ्गला3ꣳ { सुश्लोका4ं सुमङ्गला4ं} सत्यराजा3न् इत्य् आह । आशिषम् एवैताम् आशास्ते । शौनःशेपम् { श्यौनःशेपम्} आख्यापयते । वरुणपाशाद् एवैनं मुञ्चति । परःशतं भवति । शत_आयुः पुरुषः शत_इन्द्रियः । आयुष्य् एव_इन्द्रिये प्रतितिष्ठति । मारुतस्य च_एकविꣳशतिकपालस्य वैश्वदेव्यै च_आमिक्षाया अग्नये स्विष्टकृते समवद्यति । देवताभिर् एवैनम् उभयतः परिगृह्णाति । अपां नप्त्रे स्वाहा_ऊर्जो नप्त्रे स्वाहा_अग्नये गृहपतये स्वाहा_इति तिस्र आहुतीर् जुहोति । त्रय इमे लोकाः । एष्व् एव लोकेषु प्रतितिष्ठति ।


प्रपाठक: 8 अनुवाक 1 राजसूये संसृपां हविः VERSE: 1 { 1.8.1.1} वरुणस्य सुषुवाणस्य दशधा_इन्द्रियं वीर्यं परापतत् । तत् सꣳसृद्भिर् अनुसमसर्पत् । तत् सꣳसृपाꣳ सꣳसृत्त्वम् । अग्निना देवेन प्रथमे ऽहन्न् अनुप्रायुङ्क्त । सरस्वत्या वाचा द्वितीये । सवित्रा प्रसवेन तृतीये । पूष्णा पशुभिश् चतुर्थे । बृहस्पतिना ब्रह्मणा पञ्चमे । इन्द्रेण देवेन षष्ठे । वरुणेन स्वया देवतया सप्तमे ।

VERSE: 2 { 1.8.1.2} सोमेन राज्ञा_अष्टमे । त्वष्ट्रा रूपेण नवमे । विष्णुना यज्ञेन_आप्नोत् । यत् सꣳसृपो भवन्ति । इन्द्रियम् एव तद् वीर्यं यजमान आप्नोति । पूर्वा_पूर्वा वेदिर् भवति । इन्द्रियस्य वीर्यस्य_अवरुद्ध्यै । पुरस्ताद् उपसदाꣳ सौम्येन प्रचरति । सोमो वै रेतोधाः । रेत एव तद् दधाति । अन्तरा त्वाष्ट्रेण । रेत एव हितं त्वष्टा रूपाणि विकरोति । उपरिष्टाद् वैष्णवेन । यज्ञो वै विष्णुः । यज्ञ एव_अन्ततः प्रतितिष्ठति ।

अनुवाक 2 राजसूये दशपेयविधिः VERSE: 1 { 1.8.2.1} जामि वा एतत् कुर्वन्ति । यत् सद्यो दीक्षयन्ति । सद्यः सोमं क्रीणन्ति । पुण्डरिस्रजां प्रयच्छत्य् अजामित्वाय । अङ्गिरसः सुवर्गं लोकं यन्तः । अप्सु दीक्षातपसी प्रावेशयन् । तत् {यत्} पुण्डरीकम् अभवत् । यत् पुण्डरिस्रजां प्रयच्छति । साक्षाद् एव दीक्षातपसी अवरुन्धे । दशभिर् वत्सतरैः सोमं क्रीणाति । दश_अक्षरा विराट् ।

VERSE: 2 { 1.8.2.2} अन्नं विराट् । विराजा_एव_अन्नाद्यम् अवरुन्धे । मुष्करा भवन्ति स_इन्द्रत्वाय । दशपेयो भवति । अन्नाद्यस्य_अवरुद्ध्यै । शतं ब्राह्मणाः पिबन्ति । शत_आयुः पुरुषः शत_इन्द्रियः । आयुष्य् एव_इन्द्रिये प्रतितिष्ठति । सप्तदशꣳ स्तोत्रं भवति । सप्तदशः प्रजापतिः ।

VERSE: 3 { 1.8.2.3} प्रजापतेर् आप्त्यै । प्रकाशाव् अध्वर्यवे ददाति { प्राक्साशावध्वर्यवे ददत्} । प्रकाशम् एवैनं गमयति । स्रजम् उद्गात्रे । व्य् एवास्मै वासयति । रुक्मꣳ होत्रे । आदित्यम् एवास्मा उन्नयति । अश्वं प्रस्तोतृप्रतिहर्तृभ्याम् । प्राजापत्यो वा अश्वः । प्रजापतेर् आप्त्यै ।

VERSE: 4 { 1.8.2.4} द्वादश पष्ठौहीर् ब्रह्मणे । आयुर् एव_अवरुन्धे । वशां मैत्रावरुणाय । राष्ट्रम् एव वश्य् अकः । ऋषभं ब्राह्मणाच्छꣳसिने । राष्ट्रम् एव_इन्द्रियाव्यकः । वाससी नेष्टापोतृभ्यां । पवित्रे एवास्यैते । स्थूरि यवाचितम् अच्छावाकाय । अन्तत एव व्वरुणम् अवयजते ।

VERSE: 5 { 1.8.2.5} अनड्वाहम् अग्नीधे । वह्निर् वा अनड्वान् । वह्निर् अग्नीत् । वह्निना_एव वह्नि यज्ञस्य_अवरुन्धे । इन्द्रस्य सुषुवाणस्य त्रेधा_इन्द्रियं वीर्यं परापतत् । भृगुस् तृतीयम् अभवत् । श्रायन्तीयं तृतीयम् । सरस्वती तृतीयम् । भार्गवो होता भवति । श्रायन्तीयं ब्रह्मसामं भवति । वारवन्तीयम् अग्निष्टोमसामम् । सारस्वतीर् अपो गृह्णाति । इन्द्रियस्य वीर्यस्य_अवरुद्ध्यै । श्रायन्तीयं ब्रह्मसामं भवति । इन्द्रियम् एवास्मिन् वीर्यꣳ श्रयति । वारवन्तीयम् अग्निष्टोमसामम् । इन्द्रियम् एवास्मिन् वीर्यं वारयति ।

अनुवाक 3 VERSE: 1 { 1.8.3.1} ईश्वरो वा एष दिशो ऽनून्मदितोः । यं दिशो ऽनु व्यास्थापयन्ति । दिशाम् अवेष्टयो भवन्ति । दिक्ष्व् एव प्रतितिष्ठत्य् अनुन्मादाय । पञ्च देवता यजति । पञ्च दिशः । दिक्ष्व् एव प्रतितिष्ठति । हविषो_हविष इष्ट्वा बार्हस्पत्यम् अभिघारययति । यजमानदेवत्यो वै बृहस्पतिः । यजमानम् एव तेजसा समर्धयति ।

VERSE: 2 { 1.8.3.2} आदित्यां मल्हां {अह्लां} गर्भिणीम् आलभते । मारुतीं पृश्निं पष्ठौहीम् । विशं चैवास्मै राष्ट्रं च समीची दधाति । आदित्यया पूर्वया प्रचरति । मारुत्या_उत्तरया । राष्ट्र एव विशम् अनुबध्नाति । उच्चैर् आदित्याया आश्रावयति । उपाꣳशु मारुत्यै । तस्माद् राष्ट्रं विशम् अतिवदति । गर्भिण्य् आदित्या भवति ।

VERSE: 3 { 1.8.3.3} इन्द्रियं वै गर्भः । राष्ट्रम् एव_इन्द्रियाव्यकः । अगर्भा मारुती । विड् वै मरुतः । विशम् एव निरिन्द्रियाम् अकः । देव_असुराः संयत्ता आसन् । ते देवा अश्विनोः पूषन् वाचः सत्यꣳ संनिधाय । अनृतेन_असुरान् अभ्यभवन् । ते ऽश्विभ्यां पूष्णे पुरोडाशं द्वादशकपालं निरवपन् । ततो वै ते वाचः सत्यम् अवारुन्धत ।

VERSE: 4 { 1.8.3.4} यद् अश्विभ्यां पूष्णे पुरोडाशं द्वादशकपालं निर्वपति । अनृतेन_एव भ्रातृव्यान् अभिभूय । वाचः सत्यम् अवरुन्धे । सरस्वते सत्यवाचे चरुम् । पूर्वम् एव_उदितम् । उत्तरेण_अभिगृणाति । सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालं प्रसूत्यै । दूतान् प्रहिणोति । आविद एता भवन्ति । आविदम् एवैनं गमयन्ति । अथो दूतेभ्य एव न च्छिद्यते । तिसृधन्वꣳ शुष्कदृतिर् दक्षिणा समृद्ध्यै ।

अनुवाक 4 राजसूये प्रयुजां हविर्विधिः VERSE: 1 { 1.8.4.1} आग्नेयम् अष्टाकपालं निर्वपति । तस्मात्_शिशिरे कुरुपञ्चालाः प्राञ्चो यान्ति । सौम्यं चरुम् । तस्माद् वसन्तं व्यवसाय_आदयन्ति । सावित्रं द्वादशकपालम् । तस्मात् पुरस्ताद् यवानाꣳ सवित्रा विरुन्धते । बार्हस्पत्यं चरुम् । सवित्रा_एव विरुध्य । ब्रह्मणा यवान् आदधते । त्वाष्ट्रम् अष्टाकपालम् ।

VERSE: 2 { 1.8.4.2} रूपाण्य् एव तेन कुर्वते । वैश्वानरं द्वादशकपालम् । तस्माज् जघन्ये नैदाघे प्रत्यञ्चः कुरुपञ्चाला यान्ति । सारस्वतं चरुं निर्वपति । तस्मात् प्रावृषि सर्वा वाचो वदन्ति । पौष्णेन व्यवस्यन्ति । मैत्रेण कृषन्ते । वारुणेन विधृता आसते । क्षैत्रपत्येन पाचयन्ते । आदित्येन_आदधते ।

VERSE: 3 { 1.8.4.3} मासि_मास्य् एतानि हवीꣳषि निरुप्याणि_इत्य् आहुः । तेनैव_ऋतून् प्रयुङ्क्त इति । अथो खल्व् आहुः । कः संवत्सरं जीविष्यति_इति । षड् एव पूर्वेद्युर् निरुप्याणि । षड् उत्तरेद्युः । तेनैव_ऋतून् प्रयुङ्क्ते । दक्षिणो रथवाहनवाहः पूर्वेषां दक्षिणा । उत्तर उत्तरेषाम् । संवत्सरस्यैव_अन्तौ युनक्ति । सुवर्गस्य लोकस्य समष्ट्यै ।

अनुवाक 5 राजसूये सौत्रामणीयागविधिः VERSE: 1 { 1.8.5.1} इन्द्रस्य सुषुवाणस्य दशधा_इन्द्रियं वीर्यं परापतत् । स यत् प्रथमं निरष्ठीवत् । तत् क्वलम् अभवत् । यद् द्वितीयम् । तद् बदरम् । यत् तृतीयम् । तत् कर्कन्धु । यन् नस्तः । स सिꣳहः । यद् अक्ष्योः ।

VERSE: 2 { 1.8.5.2} स शार्दूलः । यत् कर्णयोः । स वृकः । य ऊर्ध्वः । स सोमः । या_अवाची । सा सुरा । त्रयाः सक्तवो भवन्ति । इन्द्रियस्य_अवरुद्ध्यै । त्रयाणि लोमानि ।

VERSE: 3 { 1.8.5.3} त्विषिम् एव_अवरुन्धे । त्रयो ग्रहाः । वीर्यम् एव_अवरुन्धे । नाम्ना दशमी । नव वै पुरुषे प्राणाः । नाभिर् दशमी । प्राणा इन्द्रियं वीर्यम् । प्राणान् एव_इन्द्रियं वीर्यं यजमान आत्मन् धत्ते । सीसेन क्लीबात्_शष्पाणि क्रीणाति । न वा एतद् अयो न हिरण्यम् ।

VERSE: 4 { 1.8.5.4} यत् सीसम् । न स्त्री न पुमान् । यत् क्लीबः । न सोमो न सुरा । यत् सौत्रामणी समृद्ध्यै । स्वाद्वीं त्वा स्वादुना_इत्य् आह । सोमम् एवैनां करोति । सोमो ऽस्य् अश्विभ्यां पच्यस्व सरस्वत्यै पच्यस्व_इन्द्राय सुत्राम्णे पच्यस्व_इत्य् आह । एताभ्यो ह्य् एषा देवताभ्यः पच्यते । तिस्रः सꣳसृष्टा वसति ।

VERSE: 5 { 1.8.5.5} तिस्रो हि रात्रीः क्रीतः सोमो वसति । पुनातु ते परिस्रुतम् इति यजुषा पुनाति व्यावृत्त्यै {आनंदा. व्यावृत्यै} । पवित्रेण पुनाति । पवित्रेण हि सोमं पुनन्ति । वारेण शश्वता तना_इत्य् आह । वारेण हि सोमं पुनन्ति । वायुः पूतः पवित्रेण_इति न_एतया पुनीयात् । व्यृद्धा ह्य् एषा । अतिपवितस्यैतया पुनीयात् । कुविद् अङ्ग_इत्य् अनिरुक्तया प्राजापत्यया गृह्णाति ।

VERSE: 6 { 1.8.5.6} अनिरुक्तः प्रजापतिः । प्रजापतेर् आप्त्यै । एकया_ऋचा गृह्णाति । एकधा_एव यजमाने वीर्यं दधाति । आश्विनं धूम्रम् आलभते । अश्विनौ वै देवानां भिषजौ । ताभ्याम् एवास्मै भेषजं करोति । सारस्वतं मेषम् । वाग् वै सरस्वती । वाचा_एवैनं भिषज्यति । ऐन्द्रम् ऋषभꣳ स_इन्द्रत्वाय ।

अनुवाक 6 राजसूये सौत्रामणिविधिः VERSE: 1 { 1.8.6.21} यत् त्रिषु यूपेष्व् आलभेत । बहिर्धा_अस्माद् इन्द्रियं वीर्यं दध्यात् । भ्रातृव्यम् अस्मै जनयेत् । एकयूप आलभते । एकधा_एवास्मिन्न् इन्द्रियं वीर्यं दधाति । न_अस्मै भ्रातृव्यं जनयति । न_एतेषां पशूनां पुरोडाशा भवन्ति । ग्रहपुरोडाशा ह्य् एते । युवꣳ सुरामम् अश्विना_इति सर्वदेवत्ये याज्यानुवाक्ये भवतः । सर्वा एव देवताः प्रीणाति ।

VERSE: 2 { 1.8.6.2} ब्राह्मणं परिक्रीणीयाद् उच्छेषणस्य पातारम् । ब्राह्मणो ह्य् आहुत्या उच्छेषणस्य पाता । यदि ब्राह्मणं न विन्देत् । वल्मीकवपायाम् अवनयेत् । सा_एव ततः प्रायश्चित्तिः । यद् वै सौत्रामण्यै व्यृद्धम् । तद् अस्यै समृद्धम् । नानादेवत्याः पशवश् च पुरोडाशाश् च भवन्ति समृद्ध्यै । ऐन्द्रः पशूनाम् उत्तमो भवति । ऐन्द्रः पुरोडाशानां प्रथमः ।

VERSE: 3 { 1.8.6.3} इन्द्रिये एवास्मै समीची दधाति । पुरस्ताद् अनूयाजानां पुरोडाशैः प्रचरति । पशवो वै पुरोडाशाः । पशून् एव_अवरुन्धे । ऐन्द्रम् एकादशकपालं निर्वपति । इन्द्रियम् एव_अवरुन्धे । सावित्रं द्वादशकपालं प्रसूत्यै । वारुणं दशकपालम् । अन्तत एव वरुणम् अवयजते । वडवा दक्षिणा ।

VERSE: 4 { 1.8.6.4} उत वा एषा_अश्वꣳ सूते । उत_अश्वतरम् । उत सोम उत सुरा । यत् सौत्रामणी समृद्ध्यै । बार्हस्पत्यं पशुं चतुर्थमतिपवितस्य_आलभते । ब्रह्म वै देवानां बृहस्पतिः । ब्रह्मणा_एव यज्ञस्य व्यृद्धम् अपिवपति । पुरोडाशवान् एष पशुर् भवति । न ह्य् एतस्य ग्रहं गृह्णन्ति । सोमप्रतीकाः पितरस् तृप्णुत_इति शत_आतृण्णायाꣳ समवनयति ।

VERSE: 5 { 1.8.6.5} शत_आयुः पुरुषः शत_इन्द्रियः । आयुष्य् एव_इन्द्रिये प्रतितिष्ठति । दक्षिणे ऽग्नौ जुहोति । पापवस्यसस्य व्यावृत्त्यै । हिरण्यम् अन्तरा धारयति । पूताम् एवैनां जुहोति । शतमानं भवति । शत_आयुः पुरुषः शत_इन्द्रियः । आयुष्य् एव_इन्द्रिये प्रतितिष्ठति । 0 यत्र_एव शत_आतृण्णां धारयति ।

VERSE: 6 { 1.8.6.6} तन् निदधाति प्रतिष्ठित्यै । पितॄन् वा एतस्य_इन्द्रियं वीर्यं गच्छति । यꣳ सोमो ऽतिपवते । पितृणां याज्यानुवाक्याभिर् उप तिष्ठते । यद् एवास्य पितॄन् इन्द्रियं वीर्यं गच्छति । तद् एव_अवरुन्धे । तिसृभिर् उपतिष्ठते । तृतीये वा इतो लोके पितरः । तान् एव प्रीणाति । अथो त्रीणि वै यज्ञस्य_इन्द्रियाणि । अध्वर्युर् होता ब्रह्मा । त उपतिष्ठन्ते । यान्य् एव यज्ञस्य_इन्द्रियाणि । तैर् एवास्मै भेषजं करोति ।

अनुवाक 7 पवित्राहविधिः, अभिषेचनीयविधिः VERSE: 1 { 1.8.7.1} अग्निष्टोमम् अग्र आहरति । यज्ञमुखं वा अग्निष्टोमः । यज्ञमुखम् एव_आरभ्य सवम् आक्रमते । अथ_एषो ऽभिषेचनीयश् चतुस्त्रिंशः पवमानो भवति । त्रयस्त्रिꣳशद् वै देवताः । ता एवाऽऽप्नोति । प्रजापतिश् चतुस्त्रिꣳशः । तम् एवाऽऽप्नोति । सꣳशर एष स्तोमानाम् अयथापूर्वम् । यद् विषमाः स्तोमाः ।

VERSE: 2 { 1.8.7.2} एतावान् वै यज्ञः । यावान् पवमानाः । अन्तःश्लेषणं त्वा अन्यत् । यत् समाः पवमानाः । तेन_असꣳशरः । तेन यथापूर्वम् । आत्मना_एव_अग्निष्टोमेन_ऋध्नोति । आत्मना पुण्यो भवति । प्रजा वा उक्थानि । पशव उक्थानि {पशव उक्थानि। प्रजा वा उक्थानि इति पाठ व्यत्यय} । यद् उक्थ्यो भवत्य् अनुसंतत्यै ।

अनुवाक 8 राजसूये साममन्त्रयोर्विशेषाभिधानम् VERSE: 1 { 1.8.8.29} उप त्वा जामयो गिर इति प्रतिपद् भवति । वाग् वै वायुः । वाच एवैषो ऽभिषेकः । सर्वासाम् एव प्रजानाꣳ सूयते । सर्वा एनं प्रजा राजा_इति वदन्ति । एतम् उ त्यं दशक्षिप इत्य् आह । आदित्या वै प्रजाः । प्रजानाम् एवैतेन सूयते । यन्ति वा एते यज्ञमुखात् । ये सम्भार्या अक्रन् ।

VERSE: 2 { 1.8.8.2} यद् आह पवस्व वाचो अग्रिय इति । तेनैव यज्ञमुखान् न यन्ति । अनुष्टुक् प्रथमा भवति । अनुष्टुग् उत्तमा । वाग् वा अनुष्टुक् । वाचा_एव प्रयन्ति । वाचा_उद्यन्ति । उद्वतीर् भवन्ति । उद्वद् वा अनुष्टुभो रूपम् । आनुष्टुभो राजन्यः ।

VERSE: 3 { 1.8.8.3} तस्माद् उद्वतीर् भवन्ति । सौर्य् अनुष्टुग् उत्तमा भवति । सुवर्गस्य लोकस्य संतत्यै । यो वै सवाद् एति । न_एनꣳ सव उपनमति । यः सामभ्य एति । पापीयान् सुषुवाणो भवति । एतानि खलु वै सामानि । यत् पृष्ठानि । यत् पृष्ठानि भवन्ति ।

VERSE: 4 { 1.8.8.4} तैर् एव सवान् न_एति । यानि देवराजानाꣳ सामानि । तैर् अमुष्मिꣳल् लोक ऋध्नोति । यानि मनुष्यराजानाꣳ सामानि । तैर् अस्मिꣳल् लोक ऋध्नोति । उभयोर् एव लोकयोर् ऋध्नोति । देवलोके च मनुष्यलोके च । एकविꣳशो ऽभिषेचनीयस्य_उत्तमो भवति । एकविꣳशः केशवपनीयस्य प्रथमः । सप्तदशो दशपेयः ।

VERSE: 5 { 1.8.8.5} विड् वा एकविꣳशः । राष्ट्रꣳ सप्तदशः । विश एवैतन् मध्यतो ऽभिषिच्यते । तस्माद् वा एष विशां प्रियः । विशो हि मध्यतो ऽभिषिच्यते । यद् वा एनम् अदो दिशो ऽनु व्यास्थापयन्ति । तत् सुवर्गं लोकम् अभ्यारोहति । यद् इमं लोकं न प्रत्यवरोहेत् । अतिजनं वा_इयात् । उद् वा माद्येत् । यद् एष प्रतीचीनस्तोमो भवति । इमम् एव तेन लोकं प्रत्यवरोहति । अथो अस्मिन्न् एव लोके प्रतितिष्ठत्य् अनुन्मादाय ।

अनुवाक 9 राजसूये अभिषेकगतविशेषाभिधानम् VERSE: 1 { 1.8.9.1} इयं वै रजता । असौ हरिणी । यद् रुक्मौ भवतः । आभ्याम् एवैनम् उभयतः परिगृह्णाति । वरुणस्य वा अभिषिच्यमानस्य_आपः । इन्द्रियं वीर्यं निरघ्नन् । तत् सुवर्णꣳ हिरण्यम् अभवत् । यद् रुक्मम् अन्तर्दधाति । इन्द्रियस्य वीर्यस्य_अनिर्घाताय । शतमानो भवति शतक्षरः । शत_आयुः पुरुषः शत_इन्द्रियः । आयुष्य् एव_इन्द्रिये प्रतितिष्ठति । आयुर् वै हिरण्यम् । आयुष्या एवैनम् अभ्यतिक्षरन्ति । तेजो वै हिरण्यम् । तेजस्या एवैनम् अभ्यतिक्षरन्ति । वर्चो वै हिरण्यम् । वर्चस्या एवैनम् अभ्यतिक्षरन्ति ।

अनुवाक 10 VERSE: 1 { 1.8.10.1} अप्रतिष्ठितो वा एष इत्य् आहुः । यो राजसूयेन यजत इति । यदा वा एष एतेन द्विरात्रेण यजते । अथ प्रतिष्ठा । अथ संवत्सरम् आप्नोति । यावन्ति संवत्सरस्य_अहोरात्राणि । तावतीर् एतस्य स्तोत्रीयाः । अहोरात्रेष्व् एव प्रतितिष्ठति । अग्निष्टोमः पूर्वम् अहर् भवति । अतिरात्र उत्तरम् ।

VERSE: 2 { 1.8.10.2} नाना_एव_अहोरात्रयोः प्रतितिष्ठति । पौर्णमास्यां पूर्वम् अहर् भवति । व्यष्टकायाम् उत्तरम् । नाना_एव_अर्धमासयोः प्रतितिष्ठति । अमावास्यायां पूर्वम् अहर् भवति । उद्दृष्ट उत्तरम् । नाना_एव मासयोः प्रतितिष्ठति । अथो खलु । ये एव समानपक्षे पुण्याहे स्याताम् । तयोः कार्यं प्रतिष्ठित्यै ।

VERSE: 3 { 1.8.10.3} अपशव्यो द्विरात्र इत्य् आहुः । द्वे ह्य् एते छन्दसी । गायत्रं च त्रैष्टुभं च । जगतीम् अन्तर्यन्ति । न तेन जगती कृतेत्य् आहुः । यद् एनां तृतीयसवने कुर्वन्ति_इति । यदा वा एषा_अहीनस्य_अहर् भजते । स_अह्नस्य वा सवनम् । अथैव जगती कृता । अथ पशव्यः । व्युष्टिर् वा एष द्विरात्रः । य एवं विद्वान् द्विरात्रेण यजते । व्य् एवास्मा उच्छति । अथो तम एव_अपहते । अग्निष्टोमम् अन्तत आहरति । अग्निः सर्वा देवताः । देवतास्व् एव प्रतितिष्ठति ।


काण्ड 2 आरण्यक काण्ड?

प्रपाठक: 1 अग्निहोत्रम् अनुवाक 1 अग्निहोत्रस्योपोद्घातः VERSE: 1 { 2.1.1.1} अङ्गिरसो वै सत्त्रम् आसत । तेषां पृश्निर् घर्मधुग् आसीत् । सा_ऋजीषेण_अजीवत् । ते ऽब्रुवन् । कस्मै नु सत्त्रम् आस्महे । ये ऽस्या ओषधीर् न जनयाम इति । ते दिवो वृष्टिम् असृजन्त । यावन्तः स्तोका अवापद्यन्त । तावतीर् ओषधयो ऽजायन्त । ता जाताः पितरो विषेण_अलिम्पन् ।

VERSE: 2 { 2.1.1.2} तासां जग्ध्वा रुप्यन्त्यैत् । ते ऽब्रुवन् । क इदम् इत्थम् अकर् इति । वयं भागधेयम् इच्छमाना इति पितरो ऽब्रुवन् । किं वो भागधेयम् इति । अग्निहोत्र एव नो ऽप्य् अस्त्व् इत्य् अब्रुवन् । तेभ्य एतद् भागधेयं प्रायच्छन् । यद् धुत्वा निमार्ष्टि । ततो वै त ओषधीर् अस्वदयन् । य एवं वेद ।

VERSE: 3 { 2.1.1.3} स्वदन्ते ऽस्मा ओषधयः । ते वत्सम् उपावासृजन् । इदं नो हव्यं प्रदापय_इति । सो ऽब्रवीद् वरं वृणै । दश मा रात्रीर् जातं न दोहन् । आसंगवं मात्रा सह चराणि_इति । तस्माद् वत्सं जातं दश रात्रीर् न दुहन्ति । आसंगवं मात्रा सह चरति । वारेवृतꣳ ह्य् अस्य । तस्माद् वत्सꣳ सꣳसृष्टधयꣳ रुद्रो घातुकः । अति हि सन्धां धयति ।

अनुवाक 2 अग्निहोत्र निरूपणम् VERSE: 1 { 2.1.2.1} प्रजापतिर् अग्निम् असृजत । तं प्रजा अन्व् असृज्यन्त । तम् अभाग उपास्त । सो ऽस्य प्रजाभिर् अपाक्रामत् । तम् अवरुरुत्समानो ऽन्वैत् । तम् अवरुधन् न_अशक्नोत् । स तपो ऽतप्यत । सो ऽग्निर् उपारमत_अतापि वै स्य प्रजापतिर् इति ।

VERSE: 2 { 2.1.2.5} तद् घृतम् अभवत् । तस्माद् यस्य दक्षिणतः केशा उन्मृष्टाः । तां ज्येष्ठलक्ष्मी प्राजापत्या_इत्य् आहुः । यद् रराटाद् उदमृष्ट । तस्माद् रराटे केशा न सन्ति । तद् अग्नौ प्रागृह्णात् । तद् व्यचिकित्सत् । जुहवानी3 मा हौषा3म् इति । तद् विचिकित्सायै जन्म । य एवं विद्वान् विचिकित्सति ।

VERSE: 3 { 2.1.2.3} वसीय एव चेतयते । तं वाग् अभ्यवदज् जुहुधि_इति । सो ऽब्रवीत् । कस् त्वम् असि_इति । स्वा_एव ते वाग् इत्य् अब्रवीत् । सो ऽजुहोत् स्वाहा_इति । तत् स्वाहाकारस्य जन्म । य एवꣳ स्वाहाकारस्य जन्म वेद । करोति स्वाहाकारेण वीर्यम् । यस्यैवं विदुषः स्वाहाकारेण जुह्वति ।

VERSE: 4 { 2.1.2.4} भोगाय_एवास्य हुतं भवति । तस्या आहुत्यै पुरुषम् असृजत । द्वितीयम् अजुहोत् । सो ऽश्वम् असृजत । तृतीयम् अजुहोत् । स गाम् असृजत । चतुर्थम् अजुहोत् । सो ऽविमसृजत । पञ्चमम् अजुहोत् । सो ऽजाम् असृजत ।

VERSE: 5 { 2.1.2.5} सो ऽग्निर् अबिभेत् । आहुतीभिर् वै मा_आप्नोति_इति । स प्रजापतिं पुनः प्राविशत् । तं प्रजापतिर् अब्रवीत् । जायस्व_इति । सो ऽब्रवीत् । किं भागधेयम् अभिजनिष्य इति । तुभ्यम् एव_इदꣳ हूयाता इत्य् अब्रवीत् । स एतद् भागधेयम् अभ्यजायत । यद् अग्निहोत्रम् ।

VERSE: 6 { 2.1.2.6} तस्माद् अग्निहोत्रम् उच्यते । तद् धूयमानम् आदित्यो ऽब्रवीत् । मा हौषीः । उभयोर् वै नाव् एतद् इति । सो ऽग्निर् अब्रवीत् । कथं नौ होष्यन्ति_इति । सायम् एव तुभ्यं जुहवन् । प्रातर् मह्यम् इत्य् अब्रवीत् । तस्माद् अग्नये सायꣳ हूयते । सूर्याय प्रातः ।

VERSE: 7 { 2.1.2.7} आग्नेयी वै रात्रिः । ऐन्द्रम् अहः । यद् अनुदिते सूर्ये प्रातर् जुहुयात् । उभयम् एवाऽऽग्नेयꣳ स्यात् । उदिते सूर्ये प्रातर् जुहोति । तथा_अग्नये सायꣳ हूयते । सूर्याय प्रातः । रात्रिं वा अनु प्रजाः प्रजायन्ते । अह्ना प्रतितिष्ठन्ति । यत् सायं जुहोति ।

VERSE: 8 { 2.1.2.11} प्र_एव तेन जायते । उदिते सूर्ये प्रातर् जुहोति । प्रत्य् एव तेन तिष्ठति । प्रजापतिर् अकामयत प्रजायेय_इति । स एतद् अग्निहोत्रं मिथुनम् अपश्यत् । तद् उदिते सूर्ये ऽजुहोत् । यजुषा_अन्यत् । तूष्णीम् अन्यत् । ततो वै स प्राजायत । यस्यैवं विदुष उदिते सूर्ये ऽग्निहोत्रं जुह्वति ।

VERSE: 9 { 2.1.2.9} प्र_एव जायते । अथो यथा दिवा प्रजानन्न् एति । तादृग् एव तत् । अथो खल्व् आहुः । यस्य वै द्वौ पुण्यौ गृहे वसतः । यस् तयोर् अन्यꣳ राधयत्य् अन्यं न । उभौ वाव स ताव् ऋच्छति_इति । अग्निं वावाऽऽदित्यः सायं प्रविशति । तस्माद् अग्निर् दूरान् नक्तं ददृशे । उभे हि तेजसी संपद्येते ।

VERSE: 10 { 2.1.2.10} उद्यन्तं वावाऽऽदित्यम् अग्निर् अनुसमारोहति । तस्माद् धूम एव_अग्नेर् दिवा ददृशे । यद् अग्नये सायं जुहुयात् । आ सूर्याय वृश्च्येत । यत् सूर्याय प्रातर् जुहुयात् । आ_अग्नये वृश्च्येत । देवताभ्यः समदं दध्यात् । अग्निर् ज्योतिर् ज्योतिः सूर्यः स्वाहा_इत्य् एव सायꣳ होतव्यम् । सूर्यो ज्योतिर् ज्योतिर् अग्निः स्वाहा_इति प्रातः । तथा_उभाभ्याꣳ सायꣳ हूयते ।

VERSE: 11 { 2.1.2.11} उभाभ्यां प्रातः । न देवताभ्यः समदं दधाति । अग्निर् ज्योतिर् इत्य् आह । अग्निर् वै रेतोधाः । प्रजा ज्योतिर् इत्य् आह । प्रजा एवास्मै प्रजनयति । सूर्यो ज्योतिर् इत्य् आह । प्रजास्व् एव प्रजातासु रेतो दधाति । ज्योतिर् अग्निः स्वाहा_इत्य् आह । प्रजा एव प्रजाता अस्यां प्रतिष्ठापयति ।

VERSE: 12 { 2.1.2.12} तूष्णीम् उत्तराम् आहुतिं जुहोति । मिथुनत्वाय प्रजात्यै । यद् उदिते सूर्ये प्रातर् जुहुयात् । यथा_अतिथये प्रद्रुताय शून्याय_आवसथाय_आहार्यꣳ हरन्ति । तादृग् एव तत् । क्व_अह ततस् तद् भवति_इत्य् आहुः । यत् स न वेद । यस्मै तद्धरन्ति_इति । तस्माद् यद् औषसं जुहोति । तद् एव संप्रति । अथो यथा प्रार्थम् औषसं परिवेवेष्टि । तादृग् एव तत् ।

अनुवाक 3 अग्निहोत्रे अधिश्रयणादिका हविःसंस्कारा VERSE: 1 { 2.1.3.1} रुद्रो वा एषः । यद् अग्निः । पत्नी स्थाली । यन् मध्ये ऽग्नेर् अधिश्रयेत् । रुद्राय पत्नीम् अपिदध्यात् । प्रमायुका स्यात् । उदीचो ऽङ्गारान् निरूह्य_अधिश्रयति । पत्नियै गोपीथाय । व्यन्तान् करोति । तथा पत्न्य् अप्रमायुका भवति ।

VERSE: 2 { 2.1.3.2} घर्मो वा एषो ऽशान्तः । अहर्_अहः प्रवृज्यते । यद् अग्निहोत्रम् । प्रतिषिञ्चेत् पशुकामस्य । शान्तम् इव हि पशव्यम् । न प्रतिषिञ्चेद् ब्रह्मवर्चसकामस्य । समिद्धम् इव हि ब्रह्मवर्चसम् । अथो खलु । प्रतिषिच्यम् एव । यत् प्रतिषिञ्चति ।

VERSE: 3 { 2.1.3.3} तत् पशव्यम् । यज् जुहोति । तद् ब्रह्मवर्चसि । उभयम् एव_अकः । प्रच्युतं वा एतद् अस्माल् लोकात् । अगतं देवलोकम् । यत्_शृतꣳ हविर् अनभिघारितम् । अभिद्योतयति । अभ्य् एवैनद् घारयति । अथो देवत्रा_एवैनद् गमयति ।

VERSE: 4 { 2.1.3.4} पर्यग्नि करोति । रक्षसाम् अपहत्यै । त्रिः पर्यग्नि करोति । त्र्यावृद् धि यज्ञः । अथो मेध्यत्वाय । यत् प्राचीनम् उद्वासयेत् । यजमानꣳ शुचा_अर्पयेत् । यद् दक्षिणा । पितृदेवत्यꣳ स्यात् । यत् प्रत्यक् ।

VERSE: 5 { 2.1.3.5} पत्नीꣳ शुचा_अर्पयेत् । उदीचीनम् उद्वासयति । एषा वै देवमनुष्याणाꣳ शान्ता दिक् । ताम् एवैनद् अनूद्वासयति शान्त्यै । वर्त्म करोति । यज्ञस्य संतत्यै । निष्टपति । उप_एव तत् स्तृणाति । चतुर् उन्नयति । चतुष्पादः पशवः ।

VERSE: 6 { 2.1.3.6} पशून् एव_अवरुन्धे । सर्वान् पूर्णान् उन्नयति । सर्वे हि पुण्या राद्धाः । अनूच उन्नयति । प्रजाया अनूचीनत्वाय । अनूच्य् एवास्य प्रजा_अर्धुका भवति । संमृशति व्यावृत्त्यै । न_अहोष्यन्न् उपसादयेत् । यद् अहोष्यन्न् उपसादयेत् । यथा_अन्यस्मा उपनिधाय ।

VERSE: 7 { 2.1.3.7} अन्यस्मै प्रयच्छति । तादृग् एव तत् । आ_अस्मै वृश्च्येत । यद् एव गार्हपत्ये ऽधिश्रयति । तेन गार्हपत्यं प्रीणाति । अग्निर् अबिभेत् । आहुतयो मा_अत्येष्यन्ति_इति । स एताꣳ समिधम् अपश्यत् । ताम् आधत्त । ततो वा अग्नाव् आहुतयो ऽध्रियन्त ।

VERSE: 8 { 2.1.3.8} यद् एनꣳ समयच्छत् । तत् समिधः समित्त्वम् । समिधम् आदधाति । सम् एवैनं यच्छति । आहुतीनां धृत्यै । अथो अग्निहोत्रम् एव_इध्मवत् करोति । आहुतीनां प्रतिष्ठित्यै । ब्रह्मवादिनो वदन्ति । यद् एकाꣳ समिधम् आधाय द्वे आहुती जुहोति । अथ कस्याꣳ समिधि द्वितीयाम् आहुतिं जुहोति_इति ।

VERSE: 9 { 2.1.3.} यद् द्वे समिधाव् आदध्यात् । भ्रातृव्यम् अस्मै जनयेत् । एकाꣳ समिधम् आधाय । यजुषा_अन्याम् आहुतिं जुहोति । उभे एव समिद्वती आहुती जुहोति । न_अस्मै भ्रातृव्यं जनयति । आदीप्तायां जुहोति । समिद्धम् इव हि ब्रह्मवर्चसम् । अथो यथा_अतिथिं ज्योतिष् कृत्वा परिवेवेष्टि । तादृग् एव तत् । चतुर् उन्नयति । द्विर् जुहोति । तस्माद् द्विपाद्_चतुष्पादम् अत्ति । अथो द्विपद्य् एव चतुष्पदः प्रतिष्ठापयति ।

अनुवाक 4 अग्निहोत्रे उपयुक्त हविःसंस्काराः VERSE: 1 { 2.1.4.4} उत्तरावतीं वै देवा आहुतिम् अजुहवुः । अवाचीम् असुराः । ततो देवा अभवन् । परा_असुराः । यं कामयेत वसीयान् स्याद् इति । कनीयस् तस्य पूर्वꣳ हुत्वा । उत्तरं भूयो जुहुयात् । एषा वा उत्तरावत्य् आहुतिः । तां देवा अजुहवुः । ततस्ते ऽभवन् ।

VERSE: 2 { 2.1.4.2} यस्यैवं जुह्वति । भवत्य् एव । यं कामयेत पापीयान्त् स्याद् इति । भूयस् तस्य पूर्वꣳ हुत्वा । उत्तरं कनीयो जुहुयात् । एषा वा अवाच्य् आहुतिः । ताम् असुरा अजुहवुः । ततस् ते पराभवन् । यस्यैवं जुह्वति । परा_एव भवति ।

VERSE: 3 { 2.1.4.3} हुत्वा_उपसादयत्य् अजामित्वाय । अथो व्यावृत्त्यै । गार्हपत्यं प्रतीक्षते । अननुध्यायिनम् एवैनं करोति । अग्निहोत्रस्य वै स्थाणुर् अस्ति । तं य ऋच्छेत् । यज्ञस्थाणुम् ऋच्छेत् । एष वा अग्निहोत्रस्य स्थाणुः । यत् पूर्वा_आहुतिः । तां यद् उत्तरया_अभिजुहुयात् ।

VERSE: 4 { 2.1.4.4} यज्ञस्थाणुम् ऋच्छेत् । अतिहाय पूर्वाम् आहुतिं जुहोति । यज्ञस्थाणुम् एव परिवृणक्ति । अथो भ्रातृव्यम् एवाऽऽप्त्वा_अतिक्रामति । अवाचीनꣳ सायम् उपमार्ष्टि । रेत एव तद् दधाति । ऊर्ध्वं प्रातः । प्र जनयत्य् एव तत् । ब्रह्मवादिनो वदन्ति । चतुर् उन्नयति ।

VERSE: 5 { 2.1.4.5} द्विर् जुहोति । अथ क्व द्वे आहुती भवत इति । अग्नौ वैश्वानर इति ब्रूयात् । एष वा अग्निर् वैश्वानरः । यद् ब्राह्मणः । हुत्वा द्विः प्राश्नाति । अग्नाव् एव वैश्वानरे द्वे आहुती जुहोति । द्विर् जुहोति । द्विर् निमार्ष्टि । द्विः प्राश्नाति ।

VERSE: 6 { 2.1.4.6} षट् संपद्यन्ते । षड् वा ऋतवः । ऋतून् एव प्रीणाति । ब्रह्मवादिनो वदन्ति । किंदेवत्यम् अग्निहोत्रम् इति । वैश्वदेवम् इति ब्रूयात् । यद् यजुषा जुहोति । तद् ऐन्द्राग्नम् । यत् तूष्णीम् । तत् प्राजापत्यम् ।

VERSE: 7 { 2.1.4.7} यन् निमार्ष्टि । तद् ओषधीनाम् । यद् द्वितीयम् । तत् पितृणाम् । यत् प्राश्नाति । तद् गर्भाणाम् । तस्माद् गर्भा अनश्नन्तो वर्धन्ते । यद् आचामति । तन् मनुष्याणाम् । उदङ् पर्यावृत्य_आचामति ।

VERSE: 8 { 2.1.4.8} आत्मनो गोपीथाय । निर्णेनेक्ति शुद्ध्यै । निष्टपति स्वगाकृत्यै । उद्दिशति । सप्तऋषीन् एव प्रीणाति । दक्षिणा पर्यावर्तते । स्वम् एव वीर्यम् अनु पर्यावर्तते । तस्माद् दक्षिणो ऽर्ध आत्मनो वीर्यावत्तरः । अथो आदित्यस्यैवाऽऽवृतम् अनु पर्यावर्तते । हुत्वा_उपसमिन्धे ।

VERSE: 9 { 2.1.4.9} ब्रह्मवर्चसस्य समिद्ध्यै । न बर्हिर् अनु प्रहरेत् । असꣳस्थितो वा एष यज्ञः । यद् अग्निहोत्रम् । यद् अनुप्रहरेत् । यज्ञं विच्छिन्द्यात् । तस्मान् न_अनुप्रहृत्यम् । यज्ञस्य संतत्यै । अपो निनयति । अवभृथस्यैव रूपम् अकः ।

अनुवाक 5 अग्निहोत्रे काम्यानि होमद्रव्याणि VERSE: 1 { 2.1.5.1} ब्रह्मवादिनो वदन्ति । अग्निहोत्रप्रायणा यज्ञाः । किंप्रायणम् अग्निहोत्रम् इति । वत्सो वा अग्निहोत्रस्य प्रायणम् । अग्निहोत्रं यज्ञानाम् । तस्य पृथिवी सदः । अन्तरिक्षम् आग्नीध्रम् । द्यौर् हविर्धानम् । दिव्या आपः प्रोक्षणयः । ओषधयो बर्हिः ।

VERSE: 2 { 2.1.5.2} वनस्पतय इध्मः । दिशः परिधयः । आदित्यो यूपः । यजमानः पशुः । समुद्रो ऽवभृथः । संवत्सरः स्वगाकारः । तस्माद् आहिताग्नेः सर्वम् एव बर्हिष्यं दत्तं भवति । यत् सायं जुहोति । रात्रिम् एव तेन दक्षिण्यां कुरुते । यत् प्रातः ।

VERSE: 3 { 2.1.5.3} अहर् एव तेन दक्षिण्यं कुरुते । यत् ततो ददाति । सा दक्षिणा । यावन्तो वै देवा अहुतम् आदन् । ते पराभवन् । त एतद् अग्निहोत्रꣳ सर्वस्यैव समवदाय_अजुहवुः । तस्माद् आहुः । अग्निहोत्रं वै देवा गृहाणां निष्कृतिम् अपश्यन्न् इति । यत् सायं जुहोति । रात्रिया एव तद्धुताद्याय ।

VERSE: 4 { 2.1.5.4} यजमानस्य_अपराभावाय । यत् प्रातः । अह्न एव तद्धुताद्याय । यजमानस्य_अपराभावाय । यत् ततो ऽश्नाति । हुतम् एव तत् । द्वयोः पयसा जुहुयात् पशुकामस्य । एतद् वा अग्निहोत्रं मिथुनम् । य एवं वेद । प्र प्रजया पशुभिर् मिथुनैर् जायते ।

VERSE: 5 { 2.1.5.5} इमाम् एव पूर्वया दुहे । अमूम् उत्तरया । अधिश्रित्य_उत्तरम् आनयति । योनाव् एव तद् रेतः सिञ्चति प्रजनने । आज्येन जुहुयात् तेजस्कामस्य । तेजो वा आज्यम् । तेजस्व्य् एव भवति । पयसा पशुकामस्य । एतद् वै पशूनाꣳ रूपम् । रूपेण_एवास्मै पशून् अवरुन्धे ।

VERSE: 6 { 2.1.5.6} पशुमान् एव भवति । दध्ना_इन्द्रियकामस्य । इन्द्रियं वै दधि । इन्द्रियाव्य् एव भवति । यवाग्वा ग्रामकामस्य_ओषधा वै मनुष्याः । भागधेयेनैवास्मै सजातान् अवरुन्धे । ग्राम्य् एव भवति । अयज्ञो वा एषः । यो ऽसामा ।

VERSE: 7 { 2.1.5.7} चतुर् उन्नयति । चतुरक्षरꣳ रथंतरम् । रथन्तरस्यैष वर्णः । उपरि_इव हरति । अन्तरिक्षं वामदेव्यम् । वामदेव्यस्यैष वर्णः । द्विर् जुहोति । द्व्यक्षरं बृहत् । बृहत एष वर्णः । अग्निहोत्रम् एव तत् सामन्वत् करोति ।

VERSE: 8 { 2.1.5.8} यो वा अग्निहोत्रस्य_उपसदो वेद । उप_एनम् उपसदो नमन्ति । विन्दत उपसत्तारम् । उन्नीय_उपसादयति । पृथिवीम् एव प्रीणाति । होष्यन्न् उपसादयति । अन्तरिक्षम् एव प्रीणाति । हुत्वा_उपसादयति । दिवम् एव प्रीणाति । एता वा अग्निहोत्रस्य_उपसदः ।

VERSE: 9 { 2.1.5.9} य एवं वेद । उप_एनम् उपसदो नमन्ति । विन्दत उपसत्तारम् । यो वा अग्निहोत्रस्य_आश्रावितं प्रत्याश्रावितꣳ होतारं ब्रह्माणं वषट्कारं वेद । तस्य त्व् एव हुतम् । प्राणो वा अग्निहोत्रस्य_आश्रावितम् । अपानः प्रत्याश्रावितम् । मनो होता । चक्षुर् ब्रह्मा । निमेषो वषट्कारः ।

VERSE: 10 { 2.1.5.10} य एवं वेद । तस्य त्व् एव हुतम् । सायंयावानश् च वै देवाः प्रातर्यावाणश् च_अग्निहोत्रिणो गृहम् आगच्छन्ति । तान् यन् न तर्पयेत् । प्रजया_अस्य पशुभिर् वितिष्ठेरन् । यत् तर्पयेत् । तृप्ता एनं प्रजया पशुभिस् तर्पयेयुः । सजूर् देवैः सायं यावभिर् इति सायꣳ संमृशति । सजूर् देवैः प्रातर् यावभिर् इति प्रातः । ये चैव देवाः सायंयावानो ये च प्रातर्यावाणः ।

VERSE: 11 { 2.1.5.11} तान् एव_उभयाꣳस् तर्पयति । त एनं तृप्ताः प्रजया पशुभिस् तर्पयन्ति । अरुणो ह स्म_आह_औपवेशिः । अग्निहोत्र एव_अहꣳ सायं_प्रातर् वज्रं भ्रातृव्येभ्यः प्रहरामि । तस्मान् मत् पापीयाꣳसो भ्रातृव्या इति । चतुर् उन्नयति । द्विर् जुहोति । समित् सप्तमी । सप्तपदा शक्वरी । शाक्वरो वज्रः । अग्निहोत्र एव तत् सायं_प्रातर् वज्रं यजमानो भ्रातृव्याय प्रहरति । भवत्य् आत्मना । परा_अस्य भ्रातृव्यो भवति ।

अनुवाक 6 अग्निहोत्रे अभ्युद्द्रवणं होमाभावप्रतीकारं च VERSE: 1 { 2.1.6.1} प्रजापतिर् अकामयत_आत्मन्वन् मे जायेत_इति । सो ऽजुहोत् । तस्य_आत्मन्वद् अजायत । अग्निर् वायुर् आदित्यः । ते ऽब्रुवन् । प्रजापतिर् अहौषीद् आत्मन्वन् मे जायेत_इति । तस्य वयम् अजनिष्महि । जायतां न आत्मन्वद् इति ते ऽजुहवुः । प्राणानाम् अग्निः । तनुवै वायुः ।

VERSE: 2 { 2.1.6.2} चक्षुष आदित्यः । तेषाꣳ हुताद् अजायत गौर् एव । तस्यै पयसि व्यायच्छन्त । मम हुताद् अजनि मम_इति । ते प्रजापतिं प्रश्नम् आयन् । स आदित्यो ऽग्निम् अब्रवीत् । यतरो नौ जयात् । तन् नौ सह_असद् इति । कस्य_एको { कस्यैको} { कस्यै को} ऽहौषीद् इति प्रजापतिर् अब्रवीत् कस्य_एक { कस्यैको} कस्यै क} इति । प्राणानाम् अहम् इत्य् अग्निः ।

VERSE: 3 { 2.1.6.3} तनुवा अहम् इति वायुः । चक्षुषो ऽहम् इत्य् आदित्यः । य एव प्राणानाम् अहौषीत् । तस्य हुताद् अजनि_इति । अग्नेर् हुताद् अजनि_इति । तद् अग्निहोत्रस्य_अग्निहोत्रत्वम् । गौर् वा अग्निहोत्रम् । य एवं वेद गौर् अग्निहोत्रम् इति । प्राणापानाभ्याम् एव_अग्निꣳ समर्धयति । अव्यर्धुकः प्राणापानाभ्यां भवति ।

VERSE: 4 { 2.1.6.4} य एवं वेद । तौ वायुर् अब्रवीत् । अनु मा_आभजतम् इति । यद् एव गार्हपत्ये ऽधिश्रित्य_आहवनीयम् अभ्युद्द्रवान् । तेन त्वां प्रीणान् इत्य् अब्रूताम् । तस्माद् यद् गार्हपत्ये ऽधिश्रित्य_आहवनीयम् अभ्युद्द्रवति । वायुम् एव तेन प्रीणाति । प्रजापतिर् देवताः सृजमानः । अग्निम् एव देवतानां प्रथमम् असृजत । सो ऽन्यद् आलम्भ्यम् अवित्त्वा।

VERSE: 5 { 2.1.6.5} प्रजापतिम् अभि पर्यावर्तत । स मृत्योर् अबिभेत् । सो ऽमुम् आदित्यम् आत्मनो निरमिमीत । तꣳ हुत्वा पराङ् पर्यावर्तत । ततो वै स मृत्युम् अपाजयत् । अप मृत्युं जयति । य एवं वेद । तस्माद् यस्यैवं विदुषः । उतैकाहम् उत द्व्यहं न जुह्वति । हुतम् एवास्य भवति । असौ ह्य् आदित्यो ऽग्निहोत्रम् ।

अनुवाक 7 अग्निहोत्रे हविषः सर्वदेवतासम्बन्धेन प्रशंसा VERSE: 1 { 2.1.7.7} रौद्रं गवि । वायव्यम् उपसृष्टम् । आश्विनं दुह्यमानम् । सौम्यं दुग्धम् । वारुणम् अधिश्रितम् । वैश्वदेवा भिन्दवः । पौष्णम् उदन्तम् । सारस्वतं विष्यन्दमानम् । मैत्रꣳ शरः । धातुर् उद्वासितम् । बृहस्पतेर् उन्नीतम् । सवितुः प्रक्रान्तम् । द्यावापृथिव्यꣳ ह्रियमाणम् । ऐन्द्राग्नम् उपसन्नम् । अग्नेः पूर्वा_आहुतिः । प्रजापतेर् उत्तरा । ऐन्द्रꣳ हुतम् ।

अनुवाक 8 अग्निहोत्रे दोहनप्रकारः VERSE: 1 { 2.1.8.8} दक्षिणत उपसृजति । पितृलोकम् एव तेन जयति । प्राचीम् आवर्तयति । देवलोकम् एव तेन जयति । उदीचीम् आव्रत्य {आवृत्य} दोग्धि । मनुष्यलोकम् एव तेन जयति । पूर्वौ दुह्याज् ज्येष्ठस्य ज्यैष्ठिनेयस्य । यो वा गतश्रीः {ऽऽगतश्रीः} स्यात् । अपरौ दुह्यात् कनिष्ठस्य कानिष्ठिनेयस्य । यो वा बुभूषेत् ।

VERSE: 2 { 2.1.8.2} न संमृशति । पापवस्यसस्य व्यावृत्त्यै । वायव्यं वा एतद् उपसृष्टम् । आश्विनं दुह्यमानम् । मैत्रं दुग्धम् । अर्यम्ण उद्वास्यमानम् । त्वाष्ट्रम् उन्नीयमानम् । बृहस्पतेर् उन्नीतम् । सवितुः प्रक्रान्तम् । द्यावापृथिव्यꣳ ह्रियमाणम् ।

VERSE: 3 { 2.1.8.3} ऐन्द्राग्नम् उपसादितम् । सर्वाभ्यो वा एष देवताभ्यो जुहोति । यो ऽग्निहोत्रं जुहोति । यथा खलु वै धेनुं तीर्थे तर्पयति । एवम् अग्निहोत्री यजमानं तर्पयति । तृप्यति प्रजया पशुभिः । प्र सुवर्गं लोकं जानाति । पश्यति पुत्रम् । पश्यति पौत्रम् । प्र प्रजया पशुभिर् मिथुनैर् जायते । यस्यैवं विदुषो ऽग्निहोत्रं जुह्वति । य उ चैनद् एवं वेद ।

अनुवाक 9 अग्निहोत्रे असंसृष्टहोममन्त्रौ VERSE: 1 { 2.1.9.1} त्रयो वै प्रैयमेधा आसन् । तेषां त्रिर् एको ऽग्निहोत्रम् अजुहोत् । द्विर् एकः । सकृद् एकः । तेषां यस् त्रिर् अजुहोत् । स ऋचा_अजुहोत् । यो द्विः । स यजुषा । यः सकृत् । स तूष्णीम् ।

VERSE: 2 { 2.1.9.2} यश् च यजुषा_अजुहोद् यश् च तूष्णीम् । ताव् उभाव् आर्ध्नुताम् । तस्माद् यजुषा_आहुतिः पूर्वा होतव्या । तूष्णीम् उत्तरा । उभे एव_ऋद्धी अवरुन्धे । अग्निर् ज्योतिर् ज्योतिर् अग्निः स्वाहा_इति सायं जुहोति । रेत एव तद् दधाति । सूर्यो ज्योतिर् ज्योतिः सूर्यः स्वाहा_इति प्रातः । रेत एव हितं प्रजनयति । रेतो वा एतस्य हितं न प्रजायते ।

VERSE: 3 { 2.1.9.3} यस्य_अग्निहोत्रम् अहुतꣳ सूर्यो ऽभ्य् उदेति । यद्य् अन्ते स्यात् । उन्नीय प्राङ् उदाद्रवेत् । स उपसाद्य_आतमितोर् आसीत । स यदाताम्येत् । अथ भूः स्वाहा_इति जुहुयात् । प्रजापतिर् वै भूतः । तम् एव_उपासरत् । स एवैनं तत उन्नयति । न_आर्तिम् आर्च्छति यजमानः ।

अनुवाक 10 अग्निहोत्रे वह्नेरवस्थाविशेषानुसारेण होमप्राशस्त्यं VERSE: 1 { 2.1.10.1} यद् अग्निम् उद्धरति । वसवस् तर्ह्य् अग्निः । तस्मिन् यस्य तथाविधे जुह्वति । वसुष्व् एवास्य_अग्निहोत्रꣳ हुतं भवति । निहितो धूपायञ्_ शेते । रुद्रास् तर्ह्य् अग्निः । तस्मिन् यस्य तथाविधे जुह्वति । रुद्रेष्व् एव_अस्य_अग्निहोत्रꣳ हुतं भवति । प्रथमम् इध्मम् अर्चिर् आलभते । आदित्यास् तर्ह्य् अग्निः ।

VERSE: 2 { 2.1.10.2} तस्मिन् यस्य तथाविधे जुह्वति । आदित्येष्व् एवास्य_अग्निहोत्रꣳ हुतं भवति । सर्व एव सर्वश इध्म आदीप्तो भवति । विश्वे देवास् तर्ह्य् अग्निः । तस्मिन् यस्य तथाविधे जुह्वति । विश्वेष्व् एवास्य देवेष्व् अग्निहोत्रꣳ हुतं भवति । नितराम् अर्चिर् उपावैति लोहिनीका_इव भवति । इन्द्रस् तर्ह्य् अग्निः । तस्मिन् यस्य तथाविधे जुह्वति । इन्द्र एवास्य_अग्निहोत्रꣳ हुतं भवति ।

VERSE: 3 { 2.1.10.3} अङ्गारा भवन्ति । तेभ्यो ऽङ्गारेभ्यो ऽर्चिर् उदेति । प्रजापतिस् तर्ह्य् अग्निः । तस्मिन् यस्य तथाविधे जुह्वति । प्रजापताव् एवास्य_अग्निहोत्रꣳ हुतं भवति । शरो ऽङ्गारा अध्यूहन्ते । ब्रह्म तर्ह्य् अग्निः । तस्मिन् यस्य तथाविधे जुह्वति । ब्रह्मन्न् एवास्य_अग्निहोत्रꣳ हुतं भवति । वसुषु रुद्रेष्व् आदित्येषु विश्वेषु देवेषु । इन्द्रे प्रजापतौ ब्रह्मन् । अपरिवर्गम् एवास्यैतासु देवतासु हुतं भवति । यस्यैवं विदुषो ऽग्निहोत्रं जुह्वति । य उ चैनद् एवं वेद ।

अनुवाक 11 अग्निहोत्रे कालभेदेन परिषेचनं VERSE: 1 { 2.1.11.1} ऋतं त्वा सत्येन परिषिञ्चामि_इति सायं परिषिञ्चति । सत्यं त्वा_ऋतेन परिषिञ्चामि_इति प्रातः । अग्निर् वा ऋतम् । असाव् आदित्यः सत्यम् । अग्निम् एव तद् आदित्येन सायं परिषिञ्चति । अग्निना_आदित्यं प्रातः सः । यावद् अहोरात्रे भवतः । तावद् अस्य लोकस्य । न_अर्तिर् न ऋष्टिः । न_अन्तो न पर्यन्तो ऽस्ति । यस्यैवं विदुषो ऽग्निहोत्रं जुह्वति । य उ चैनद् एवं वेद ।


प्रपाठक: 2 दशहोत्रादयः मन्त्राः तद्ब्राह्मणं अनुवाक 1 VERSE: 1 { 2.2.1.1} प्रजापतिर् अकामयत प्रजाः सृजेय_इति । स एतं दशहोतारम् अपश्यत् । तं मनसोनुद्रुत्य दर्भस्तम्बे ऽजुहोत् । ततो वै स प्रजा असृजत । ता अस्मात् सृष्टा अपाक्रामन् । ता ग्रहेण_अगृह्णात् । तद् ग्रहस्य ग्रहत्वम् । यः कामयेत प्रजायेय_इति । स दशहोतारं मनसोनुद्रुत्य दर्भस्तम्बे जुहुयात् । 0 प्रजापतिर् वै दशहोता ।

VERSE: 2 { 2.2.1.2} प्रजापतिर् एव भूत्वा प्रजायते । मनसा जुहोति । मन इव हि प्रजापतिः । प्रजापतेर् आप्त्यै {।} पूर्णया जुहोति । पूर्ण इव हि प्रजापतिः । प्रजापतेराप्त्यै । न्यूनया जुहोति । न्यूनाद् धि प्रजापतिः प्रजा असृजत । प्रजानाꣳ सृष्ट्यै ।

VERSE: 3 { 2.2.1.3} दर्भस्तम्बे जुहोति । एतस्माद् वै योनेः प्रजापतिः प्रजा असृजत । यस्माद् एव योनेः प्रजापतिः प्रजा असृजत । तस्माद् एव योनेः प्र जायते । ब्राह्मणो दक्षिणत उपास्ते । ब्राह्मणो वै प्रजानाम् उपद्रष्टा । उपद्रष्टुमत्य् एव प्रजायते । ग्रहो भवति । प्रजानाꣳ सृष्टानां धृत्यै । 0 यं ब्राह्मणं विद्यां विद्वाꣳसं यशो न_ऋच्छेत् { नर्च्छेत्} ।

VERSE: 4 { 2.2.1.4} सो ऽरण्यं परेत्य । दर्भस्तम्बम् उद्ग्र्áथ्य । ब्राह्मणं दक्षिणतो निषद्य । चतुर्होतॄन् व्याचक्षीत । एतद् वै देवानां परमं गुह्यं ब्रह्म । यच् चतुर्होतारः । तद् एव प्रकाशं गमयति । तद् एनं प्रकाशं गतम् । प्रकाशं प्रजानां गमयति । 0 दर्भस्तम्बम् उद्ग्र्áथ्य व्याचष्टे ।

VERSE: 5 { 2.2.1.5} अग्निवान् वै दर्भस्तम्बः । अग्निवत्य् एव व्याचष्टे । ब्राह्मणो दक्षिणत उपास्ते । ब्राह्मणो वै प्रजानाम् उपद्रष्टा । उपद्रष्टुमत्य् एवैनं यश ऋच्छति । ईश्वरं तं यशो ऽर्तोर् इत्य् आहुः । यस्यां ते व्याचष्ट इति । वरस् तस्मै देयः । यद् एवैनं तत्र_उपनमति । 0 तद् एव_अवरुन्धे ।

VERSE: 6 { 2.2.1.6} अग्निम् आदधानो दशहोत्रा_अरणिम् अवदध्यात् । प्रजातम् एवैनम् आधत्ते । तेनैव_उद्द्र्úत्य_अग्निहोत्रं जुहुयात् । प्रजातम् एवैनज् जुहोति । हविर् निर्वप्स्यन् दशहोतारं व्याचक्षीत । प्रजातम् एवैनं निर्वपति । सामिधेनीर् अनुवक्ष्यन् दशहोतारं व्याचक्षीत । सामिधेनिर् एव सृष्ट्वा_आरभ्य प्रतनुते । अथो यज्ञो वै दशहोता । 0 यज्ञम् एव तनुते ।

VERSE: 7 { 2.2.1.7} अभिचरन् दशहोतारं जुहुयात् । नव वै पुरुषे प्राणाः । नाभिर् दशमी । सप्राणम् एवैनम् अभिचरति । एतावद् वै पुरुषस्य स्वम् । यावत् प्राणाः । यावद् एवास्य_अस्ति । तद् अभिचरति । स्वकृत इरिणे जुहोति प्रदरे वा । 0 एतद् वा अस्यै निर्ऋतिगृहीतम् । 1 निर्ऋतिगृहीत एवैनं निर्ऋत्या ग्राहयति । 2 यद् वाचः क्रूरम् । 3 तेन वषट्करोति । 4 वाच एवैनं क्रूरेण प्रवृश्चति । 5 ता जगार्तिम् आर्च्छति ।

अनुवाक 2 VERSE: 1 { 2.2.2.1} प्रजापतिर् अकामयत दर्शपूर्णमासौ सृजेय_इति । स एतं चतुर्होतारम् अपश्यत् । तं मनसोनुद्रुत्य_आहवनीये ऽजुहोत् । ततो वै स दर्शपूर्णमासाव् असृजत । ताव् अस्मात् सृष्टाव् अपाक्रामताम् { अपाक्रामताम्} । तौ ग्रहेण_अगृह्णात् । तद् ग्रहस्य ग्रहत्वम् । दर्शपूर्णमासाव् आलभमानः । चतुर्होतारं मनसोनुद्रुत्य_आहवनीये जुहुयात् । दर्शपूर्णमासाव् एव सृष्ट्वा_आरभ्य प्रतनुते ।

VERSE: 2 { 2.2.2.2} ग्रहो भवति । दर्शपूर्णमासयोः सृष्टयोर् धृत्यै । सो ऽकामयत चातुर्मास्यानि सृजेय_इति । स एतं पञ्चहोतारम् अपश्यत् । तं मनसोनुद्रुत्य_आहवनीये ऽजुहोत् । ततो वै स चातुर्मास्यान्य् असृजत । तान्य् अस्मात् सृष्टान्य् अपाक्रामन् । तानि ग्रहेण_अगृह्णात् । तद् ग्रहस्य ग्रहत्वम् । चातुर्मास्यान्य् आलभमानः ।

VERSE: 3 { 2.2.2.3} पञ्चहोतारं मनसोनुद्रुत्य_आहवनीये जुहुयात् । चातुर्मास्यान्य् एव सृष्ट्वा_आरभ्य प्रतनुते । ग्रहो भवति । चातुर्मास्यानाꣳ सृष्टानां धृत्यै । सो ऽकामयत पशुबन्धꣳ सृजेय_इति । स एतꣳ षड्ड्होतारम् अपश्यत् । तं मन्स्ā_अनुद्रुत्य_आहवनीये ऽजुहोत् । ततो वै स पशुबन्धम् असृजत । सो ऽस्मात् सृष्टो ऽपाक्रामत् । तं ग्रहेण_अगृह्णात् ।

VERSE: 4 { 2.2.2.4} तद् ग्रहस्य ग्रहत्वम् । पशुबन्धेन यक्ष्यमाणः । षड्ड्होतारं मनसोनुद्रुत्य_आहवनीये जुहुयात् । पशुबन्धम् एव सृष्ट्वा_आरभ्य प्रतनुते । ग्रहो भवति । पशुबन्धस्य सृष्टस्य धृत्यै । सो ऽकामयत सौम्यम् अध्वरꣳ सृजेय_इति । स एतꣳ सप्तहोतारम् अपश्यत् । तं मनसोनुद्रुत्य_आहवनीये ऽजुहोत् । ततो वै स सौम्यम् अध्वरम् असृजत ।

VERSE: 5 { 2.2.2.5} सो ऽस्मात् सृष्टो ऽपाक्रामत् । तं ग्रहेण_अगृह्णात् । तद् ग्रहस्य ग्रहत्वम् । दीक्षिष्यमाणः । सप्तहोतारं मनसोनुद्रुत्य_आहवनीये जुहुयात् । सौम्यम् एव_अध्वरꣳ सृष्ट्वा_आरभ्य प्रतनुते । ग्रहो भवति । सौम्यस्य_अध्वरस्य सृष्टस्य धृत्यै । देवेभ्यो वै यज्ञो न प्राभवत् । तम् एतावत्_शस् समभरन् ।

VERSE: 6 { 2.2.2.6} यत् संभाराः । ततो वै तेभ्यो यज्ञः प्राभवत् । यत् संभारा भवनि । यज्ञस्य प्रभूत्यै । आतिथ्यम् आसाद्य व्याचष्टे । यज्ञमुखं वा आतिथ्यं । मुखत एव यज्ञꣳ संभृत्य प्रतनुते । अयज्ञो वा एषः । यो ऽपत्नीकः । न प्रजाः { ।} प्रजायेरन् । पत्नीर् व्याचष्टे । यज्ञम् एव_अकः । प्रजानां प्रजननाय । उपसत्सु व्याचष्टे । एतद् वै पत्नीनाम् आयतनम् । स्व एवैना आयतने ऽवकल्पयति ।

अनुवाक 3 VERSE: 1 { 2.2.3.1} प्रजापतिर् अकामयत प्रजायेय_इति । स तपो ऽतप्यत । स त्रिवृतꣳ स्तोमम् असृजत । तं पञ्चदशस्तोमो मध्यत उदतृणत् । तौ पूर्वपक्षश् च_अपरपक्षश् च_अभवताम् । पूर्वपक्षं देवा अन्वसृज्यन्त । अपरपक्षम् अन्व् असुराः । ततो देवा अभवन् । परा_असुराः । यं कामयेत वसीयान्त् स्याद् इति ।

VERSE: 2 { 2.2.3.2} तं पूर्वपक्षे याजयेत् । वसीयान् एव भवति । यं कामयेत पापीयान्त् स्याद् इति । तम् अपरपक्षे याजयेत् । पापीयान् एव भवति । तस्मात् पूर्वपक्षो ऽपरपक्षात् करुण्यतरः । प्रजापतिर् वै दशहोता । चतुर्होता पञ्चहोता । षड्ड्होता सप्तहोता । ऋतवः संवत्सरः ।

VERSE: 3 { 2.2.3.3} प्रजाः पशव इमे लोकाः । य एवं प्रजापतिं बहोर् भूयाꣳसं वेद । बहोर् एव भूयान् भवति । प्रजापतिर् देव_असुरान् असृजत । स इन्द्रम् अपि न_असृजत । तं देवा अब्रुवन् । इन्द्रं नो जनय_इति । सो ऽब्रवीत् । यथा_अहं युष्माꣳस् तपसोसृक्षि । एवम् इन्द्रं जनयध्वम् इति ।

VERSE: 4 { 2.2.3.4} ते तपो ऽतप्यन्त । त आत्मन्न् इन्द्रम् अपश्यन् । तम् अब्रुवन् । जायस्व_इति । सो ऽब्रवीत् । किम् भागधेयम् अभिजनिष्य इति । ऋतून्त् संवत्सरम् । प्रजाः प्रशून् । इमान्_लोकान् इत्य् अब्रुवन् । तं वै मा_आहुत्या प्रजनयत_इत्य् अब्रवीत् ।

VERSE: 5 { 2.2.3.5} तं चतुर्होत्रा प्राजनयन् । यः कामयेत वीरो म आजायेत_इति । स चतुर्होतारं जुहुयात् । प्रजापतिर् वै चतुर्होता । प्रजापतिर् एव भूत्वा प्रजायते । जजनद् इन्द्रम् इन्द्रियाय स्वाहा_इति ग्रहेण जुहोति । आस्य वीरो जायते । वीरꣳ हि देवा एतया_आहुत्या प्राजनयन् । आदित्याश् च_अङ्गिरसश् च सुवर्गे लोके ऽस्पर्धन्त । वयं पूर्वे सुवर्गं लोकम् इयाम वयं पूर्व इति ।

VERSE: 6 { 2.2.3.6} त आदित्या एतं पञ्चहोतारम् अपश्यन् । तं पुरा प्रातरनुवाकाद् आग्नीध्रे ऽजुहवुः । ततो वै ते पूर्वे सुवर्गं लोकम् आयन् । यः सुवर्गकामः स्यात् । स पञ्चहोतारं पुरा प्रातरनुवाकाद् आग्नीध्रे जुहुयात् । संवत्सरो वै पञ्चहोता । संवत्सरः सुवर्गो लोकः । संवत्सर एव_ऋतुषु प्रतिष्ठाय । सुवर्गं लोकम् एति । ते ऽब्रुवन्न् अङ्गिरस आदित्यान् ।

VERSE: 7 { 2.2.3.7} क्व स्थ । क्व वः सद्भ्यो हव्यं वक्ष्याम इति । छन्दःस्व् इत्य् अब्रुवन् । गायत्रियां त्रिष्टुभि जगत्याम् इति । तस्माच् छन्दःसु सद्भ्य आदित्येभ्यः । आङ्गीरसीः प्रजा हव्यं वहन्ति । वहन्त्य् अस्मै प्रजा बलिम् । आ_एनम् अप्रतिख्यातं गच्छति । य एवं वेद । द्वादश मासाः पञ्च_ऋतवः । त्रय इमे लोकाः । असाव् आदित्य एकविꣳशः । एतस्मिन् वा एष श्रितः । एतस्मिन् प्रतिष्ठितः । य एवम् एतꣳ श्रितं प्रतिष्ठितं वेद । प्रत्य् एव तिष्ठति ।

अनुवाक 4 VERSE: 1 { 2.2.4.1} प्रजापतिर् अकामयत प्रजायेय_इति । स एतं दशहोतारम् अपश्यत् । तेन दशधा_आत्मानं विधाय । दशहोत्रा_अतप्यत । तस्य चित्तिः स्रुग् आसीत् । चित्तम् आज्यम् । तस्यैत्ā̀वत्य् एव वाग् आसीत् । एतावान् यज्ञक्रतुः । स चतुर्होतारम् असृजत । सो ऽनन्दत् ।

VERSE: 2 { 2.2.4.2} असृक्षि वा इमम् इति । तस्य सोमो हविर् आसित् । स चतुर्होत्रा_अतप्यत । सो ऽताम्यत् । स भूर् इति व्याहरत् । स भूमिम् असृजत । अग्निहोत्रं दर्शापूर्णमासौ यजूꣳषि । स द्वितीयम् अतप्यत । सो ऽताम्यत् । स भुव इति व्याहरत् ।

VERSE: 3 { 2.2.4.3} सो ऽन्तरिक्षम् असृजत । चातुर्मास्यानि सामानि । स तृतीयम् अतप्यत । सो ऽताम्यत् । स सुवर् इति व्याहरत् । स दिवम् असृजत । अग्निष्टोमम् उक्थ्यम् अतिरात्रम् ऋचः । एता वै व्याहृतय इमे लोकाः । इमान् खलु वै लोकान् अनु प्रजाः पशवश् छन्दाꣳसि प्राजायन्त । य एवम् एताः प्रजापतेः प्रथमा व्याहृतीः प्रजाता वेद ।

VERSE: 4 { 2.2.4.4} प्र प्रजया पशुभिर् मिथुनैर् जायते । स पञ्चहोतारम् असृजत । स हविर् न_अविन्दत । तस्मै सोमस् तनुवं प्रायच्छत् । एतत् ते हविर् इति । स पञ्चहोत्रा_अतप्यत । सो ऽताम्यत् । स प्रत्यङ्ङ् अबाधत । सो ऽसुरान् असृजत । तद् अस्य_अप्रियम् आसीत् ।

VERSE: 5 { 2.2.4.5} तद् दुर्वर्णꣳ हिरण्यम् अभवत् । तद् दुर्वर्णस्य हिरण्यस्य जन्म । स द्वितीयम् अतप्यत । सो ऽताम्यत् । स प्राङ् अबाधत । स देवान् असृजत । तद् अस्य प्रियम् असीत् । तत् सुवर्णꣳ हिरण्यम् अभवत् । तत् सुवर्णस्य हिरण्यस्य जन्म । 0 य एवꣳ सुवर्णस्य हिरण्यस्य जन्म वेद ।

VERSE: 6 { 2.2.4.6} सुवर्ण आत्मना भवति । दुर्वर्णो ऽस्य भ्रातृव्यः । तस्मात् सुवर्णꣳ हिरण्यं भार्यम् । सुवर्ण एव भवति । आ_एनं प्रियं गच्छति न_अप्रियम् । स सप्तहोतारम् असृजत । स सप्तहोत्रा_एव सुवर्गं लोकम् ऐत् । त्रिणवेन स्तोमेन_एभ्यो लोकेभ्यो ऽसुरान् प्राणुदत । त्रयस्त्रिꣳशेन प्रत्यतिष्ठत् । एकविꣳशेन रुचम् अधत्त ।

VERSE: 7 { 2.2.4.7} सप्तदशेन प्राजायत । य एवं विद्वान्त् सोमेन यजते । सप्तहोत्रा_एव सुवर्गं लोकम् एति । त्रिणवेन स्तोमेन_एभ्यो लोकेभ्यो भ्रातृव्यान् प्रणुदते । त्रयस्त्रिꣳशेन प्रतितिष्ठति । एकविꣳशेन रुचं धत्ते । सप्तदशेन प्रजायते । तस्मात् सप्तदशः स्तोमो न निर्ह्ŕ̥त्यः । प्रजापतिर् वै सप्तदशः । प्रजापतिम् एव मध्यतो धत्ते प्रजात्यै ।

अनुवाक 5 VERSE: 1 { 2.2.5.1} देवा वै वरुणम् अयाजयन् । स यस्यै_यस्यै देवतायै दक्षिणाम् अनयत् । ताम् अव्लीनात् । ते ऽब्रुवन् । व्यावृत्य प्रति गृह्णाम । तथा नो दक्षिणा न व्लेष्यति_इति । ते व्यावृत्य प्रत्यगृह्णन् । ततो वै तान् { तां} दक्षिणा न_अव्लीनात् । य एवं विद्वान् व्यावृत्य दक्षिणां प्रतिगृह्णाति । न_एनं दक्षिणा व्लीनाति ।

VERSE: 2 { 2.2.5.2} राजा त्वा वरुणो नयतु देवि दक्षिण्è ऽग्नये हिरण्यम् इत्य् आह । आग्नेयं वै हिरण्यम् । स्वया_एवैनद् देवतया प्रतिगृह्णाति । सोमाय वास इत्य् आह । सौम्यं वै वासः । स्वया_एवैनद् देवतया प्रतिगृह्णाति । रुद्राय गाम् इत्य् आह । रौद्री वै गौः । स्वया_एवैनां देवतया प्रतिगृह्णाति । वरुणाय_अश्वम् इत्य् आह ।

VERSE: 3 { 2.2.5.3} वारुणो वा अश्वः । स्वया_एवैनं देवतया प्रतिगृह्णाति । प्राजापतये पुरुषम् इत्य् आह । प्राजापत्यो वै पुरुषः । स्वया_एवैनं देवतया प्रतिगृह्णाति । मनवे तल्पम् इत्य् आह । मानवो वै तल्पः । स्वया_एवैनं देवतया प्रतिगृह्णाति । उत्तानाया_आङ्गीरस_अयान इत्य् आह । इयं वा उत्तान आङ्गीरसः ।

VERSE: 4 { 2.2.5.4} अनया_एवैनत् प्रतिगृह्णाति । वैश्वानर्या_ऋचा रथं प्रतिगृह्णाति । वैश्वानरो वै देवतया रथः । स्वया_एवैनं देवतया प्रतिगृह्णाति । तेन_अमृतत्वम् अश्याम् इत्य् आह । अमृतम् एवाऽऽत्मन् धत्ते । वयो दात्र इत्य् आह । वय एवैनं कृत्वा । सुवर्गं लोकं गमयति । मयो मह्यम् अस्तु प्रतिग्रहीत्र इत्य् आह ।

VERSE: 5 { 2.2.5.5} यद् वै शिवम् । तन् मयः । आत्मन एवैषा परीत्तिः । क इदं कस्मा अदाद् इत्य् आह । प्रजापतिर् वै कः । स प्रजापतये ददाति । कामः कामाय_इत्य् आह । कामेन हि ददाति । कामेन प्रतिगृह्णाति । कामो दाता कामः प्रतिग्रहीतेत्य् आह ।

VERSE: 6 { 2.2.5.6} कामो हि दाता । कामः प्रतिग्रहीता । कामꣳ समुद्रमाविश_इत्य् आह । समुद्र इव हि कामः । न_इव हि कामस्य_अन्तो ऽस्ति । न समुद्रस्य । कामेन त्वा प्रतिगृह्णामि_इत्य् आह । येन कामेन प्रतिगृह्णाति । स एवैनम् अमुष्मिन्_लोके काम आगच्छति । कामैतत् त एषा ते काम दक्षिणा_इत्य् आह । काम एव तद् यजमानो ऽमुष्मिन्_लोके दक्षिणाम् इच्छ्ति । न प्रतिग्रहीतरि । य एवं विद्वान् दक्षिणां प्रतिगृह्णाति । अनृणाम् एवैनां प्रतिगृह्णाति ।

अनुवाक 6 VERSE: 1 { 2.2.6.1} अन्तो वा एष यज्ञस्य । यद् दशमम् अहः । दशमे ऽहन् सर्पराज्ञिया ऋग्भिः स्तुवन्ति । यज्ञस्यैव_अन्तं गत्वा । अन्नाद्यम् अवरुन्धते । तिसृभिः स्तुवन्ति । त्रय इमे लोकाः । एभ्य एव लोकेभ्यो ऽन्नाद्यम् अवरुन्धते । पृश्निवतीर् भवन्ति । अन्नं वै पृश्नि ।

VERSE: 2 { 2.2.6.2} अन्नम् एव_अवरुन्धते । मनसा प्रस्तौति । मनसोद्गायति । मनसा प्रतिहरति । मन इव हि प्रजापतिः । प्रजापतेर् आप्त्यै । देवा वै सर्पाः । तेषाम् इयꣳ राज्ञी । यत् सर्पराज्ञिया ऋग्भिः स्तुवन्ति । अस्याम् एव प्रतितिष्ठन्ति ।

VERSE: 3 { 2.2.6.3} चतुर्होतॄन् होता व्याचष्टे । स्तुतम् अनुशꣳसति शान्त्यै । अन्तो वा एष यज्ञस्य । यद् दशमम् अहः । एतत् खलु वै देवानां परमं गुह्यं ब्रह्म । यच् चतुर्होतारः । दशमे ऽहꣳश् चतुर्होतॄन् व्याचष्टे । यज्ञस्यैव_अन्तं गत्वा । परमं देवानां गुह्यं ब्रह्मावरुन्धे । तद् एव प्रकाशं गमयति ।

VERSE: 4 { 2.2.6.4} तद् एनं प्रकाशं गतम् । प्रकाशं प्रजानां गमयति । वाचं यच्छति । यज्ञस्य धृत्यै । यजमानदेवत्यं वा अहः । भ्रातृव्यदेवत्या रात्रिः । अह्ना रात्रिं ध्यायेत् । भ्रातृव्यस्यैव तल् लोकं वृङ्क्ते । यद् दिवा वाचं विसृजेत् । अहर् भ्रातृव्याय_उच्छिꣳषेत् । यन् नक्तं विसृजेत् । रात्रिं भ्रातृव्याय_उच्छिꣳषेत् । अधिवृक्षसूर्ये वाचं विसृजति । एतावन्तम् एवास्मै लोकम् उच्छिꣳषति । यावद् आदित्यो ऽस्तमेति ।

अनुवाक 7 VERSE: 1 { 2.2.7.1} प्रजापतिः प्रजा असृजत । ताः सृष्टाः समश्लिष्यन् । ता रूपेण_अनुप्राविशत् । तस्माद् आहुः । रूपं वै प्रजापतिर् इति । ता नाम्ना_अनुप्राविशत् । तस्माद् आहुः । नाम वै प्रजापतिर् इति । तस्माद् अप्य् आमित्रौ संगत्य । नाम्ना चेद् ध्वयेते ।

VERSE: 2 { 2.2.7.2} मित्रम् एव भवतः । प्रजापतिर् देव_असुरान् असृजत । स इन्द्रम् अपि न_असृजत । तं देवा अब्रुवन् । इन्द्रं नो जनय_इति । स आत्मन्न् इन्द्रम् अपश्यत् । तम् असृजत । तं त्रिष्टुग् वीर्यं भूत्वा_अनुप्राविशत् । तस्य वज्रः पञ्चदशो हस्त आपद्यत । तेन_उदय्य_असुरान् अभ्यभवत् ।

VERSE: 3 { 2.2.7.3} य एवं वेद । अभि भ्रातृव्यान् भवति । ते देवा असुरैर् विजित्य । सुवर्गं लोकम् आयन् । ते ऽमुष्मिन्_लोके व्यक्षुध्यन् । ते ऽब्रुवन् । अमुतः प्रदानं वा उपजिजीविम_इति । ते सप्तहोतारं यज्ञं विधाय_अयास्यम् । आङ्गीरसं प्राहिण्वन् । एतेन_अमुत्र कल्पय_इति ।

VERSE: 4 { 2.2.7.4} तस्य वा इयं क्लृप्तिः । यद् इदं किं च । य एवं वेद । कल्पते ऽस्मै । स वा अयं मनुष्येषु यज्ञः सप्तहोता । अमुत्र सद्भ्यो देवेभ्यो हव्यं वहति । य एवं वेद । उप_एनं यज्ञो नमति । सो ऽमन्यत । अभि वा इमे ऽस्माल् लोकाद् अमुं लोकं कमिष्यन्त इति । स वाचस्पते हृद् इति व्याहरत् । तस्मात् पुत्त्र्ó हृदयम् । तस्माद् अस्माल् लोकाद् अमुं लोकं न_अभिकामयन्ते । पुत्रो हि हृदयम् ।

अनुवाक 8 VERSE: 1 { 2.2.8.1} देवा वै चतुर्होतृभिर् यज्ञम् अतन्वत । ते वि पाप्मना भ्रातृव्येण_अजयन्त । अभि सुवर्गं लोकम् अजयन् । य एवं विद्वाꣳश् चतुर्होतृभिर् यज्ञं तनुते । वि पाप्मना भ्रातृव्येण जयते । अभि सुवर्गं लोकं जयति । षड्ड्होत्रा प्रायणीयम् आसादयति । अमुष्मै वै लोकाय षड्ड्होता । घ्नन्ति खलु वा एतत् सोमम् । यद् अभिषुण्वन्ति ।

VERSE: 2 { 2.2.8.2} ऋजुधा_एवैनम् अमुं लोकं गमयति । चतुर्होत्रा_आतिथ्यम् । यशो वै चतुर्होता । यश एवाऽऽत्मन् धत्ते । पञ्चहोत्रा पशुम् उपसादयति । सुवर्ग्यो वै पञ्चहोता । यजमानः पशुः । यजमानम् एव सुवर्गं लोकं गमयति । ग्रहान् गृहीत्वा सप्तहोतारं जुहोति । इन्द्रियं वै सप्तहोता ।

VERSE: 3 { 2.2.8.3} इन्द्रियम् एवाऽऽत्मन् धत्ते । यो वै चतुर्होतॄन् अनुसवनं तर्पयति । तृप्यति प्रजया पशुभिः । उप_एनꣳ सोमपीथो नमति । बहिष्पवमाने दशहोतारं व्याचक्षीत । माध्यन्दिने पवमाने चतुर्होतारम् । आर्भवे पवमाने पञ्चहोतारम् । पितृयज्ञे षड्ड्होतारम् । यज्ञायज्ञियस्य स्तोत्रे सप्तहोतारम् । अनुसवनम् एवैनाꣳस् तर्पयति ।

VERSE: 4 { 2.2.8.4} तृप्यति प्रजया पशुभिः । उप_एनꣳ सोमपीथो नमति । देवा वै चतुर्होतृभिः सत्त्रम् आसत । ऋद्धिपरिमितं यशस्कामाः । ते ऽब्रुवन् । यन् नः प्रथमं यश ऋच्छात् । सर्वेषां नस् तत् सह_असद् इति । सोमश् चतुर्होत्रा । अग्निः पञ्चहोत्रा । धाता षड्ड्होत्रा ।

VERSE: 5 { 2.2.8.5} इन्द्रः सप्तहोत्रा । प्रजापतिर् दशहोत्रा । तेषाꣳ सोमꣳ राजानं यश आर्च्चत् । तन् न्यकामयत । तेन_अपाक्रामत् । तेन प्रलायम् अचरत् । तं देवाः प्रैषइः प्रैषम् ऐच्छन् । तत् प्रैषाणां प्रैषत्वम् । निविद्भिर् न्यवेदयन् । तन् निविदां निवित्त्वम् ।

VERSE: 6 { 2.2.8.6} आप्रीभिर् आप्नुवन् ।तद् आप्रीणाम् आप्रित्वम् । तम् अघ्नन् । तस्य यशो व्यगृह्णत । ते ग्रहा अभवन् । तद् ग्रहाणां ग्रहत्वम् । यस्यैवं विदुषो ग्रहा गृह्यन्ते । तस्य त्व् एव गृहीताः । ते ऽब्रुवन् । यो वै नः श्रेष्ठो ऽभूत् ।

VERSE: 7 { 2.2.8.7} तम् अवधिष्म । पुनर् इमꣳ सुवामहा इति । तं छन्दोभिर् असुवन्त । तच् छन्दसां छन्दस्त्वम् । साम्ना समानयन् । तत् साम्नः सामत्वम् । उक्थइर् उदस्थापयन् । तद् उक्थानाम् उक्थत्वम् । य एवं वेद । प्रत्य् एव तिष्ठति ।

VERSE: 8 { 2.2.8.8} सर्वम् आयुर् एति । सोमो वै यशः । य एवं विद्वान्त् सोमम् आगच्छति । यश एवैनम् ऋच्छति । तस्माद् आहुः । यश् चैवं वेद यश् च न । ताव् उभौ सोमम् आगच्छतः । सोमो हि यशः । तं त्वा व यश ऋच्छति_इत्य् आहुः । 0 यः सोमे सोमं प्राह_इति । 1 तस्मात् सोमे सोमः प्रोच्यः । 2 यश एवैनम् ऋच्छति ।

अनुवाक 9 VERSE: 1 { 2.2.9.1} इदं वा अग्रे न_एव किं चन_आसीत् । न द्यौर् आसीत् । न पृथिवी । न_अन्तरिक्षम् । तद् असद् एव सन् मनो ऽकुरुत स्याम् इति । तद् अतप्यत । तस्मात् तेपानाद् धूमो ऽजायत । तद् भूयो ऽतप्यत । तस्मात् तेपानाद् अग्निर् अजायत । तद् भूयो ऽतप्यत ।

VERSE: 2 { 2.2.9.2} तस्मात् तेपानाज् ज्योतिर् अजायत । तद् भूयो ऽतप्यत । तस्मात् तेपानाद् अर्चिर् अजायत । तद् भूयो ऽतप्यत । तस्मात् तेपानान् मरीचयो ऽजायन्त । तद् भूयो ऽतप्यत । तस्मात् तेपानाद् उदारा अजायन्त । तद् भूयो ऽतप्यत । तद् अब्ब्ʰरम् इव समहन्यत । तद् वस्तिम् अभिनत् ।

VERSE: 3 { 2.2.9.3} स समुद्रो ऽभवत् । तस्मात् समुद्रस्य न पिबन्ति । प्रजननम् इव हि मन्यन्ते । तस्मात् पशोर् जायमानाद् आपः पुरस्त् आद्यन्ति । तद् दशहोता_अन्वसृज्यत । प्रजापतिर् वै दशहोता । य एवं तपसो वीर्यं विद्वाꣳस् तप्यते । भवत्य् एव । तद् वा इदम् आपस् सलिलम् आसीत् । सो ऽरोदीत् प्रजापतिः ।

VERSE: 4 { 2.2.9.4} स कस्मा अज्ञि । यद्य् अस्या अप्रतिष्ठाया इति । यद् अप्स्व् अवापद्यत । सा पृथिव्यभवत् । यद् व्यमृष्ट । तद् अन्तरिक्षम् अभवत् । यद् ऊर्ध्वम् उदमृष्ट । सा द्यौर् अभवत् । यद् अरोदीत् । तद् अनयो रोदस्त्वम् ।

VERSE: 5 { 2.2.9.5} य एवं वेद । न_अस्य गृहे रुदन्ति । एतद् वा एषां लोकानां जन्म । य एवम् एषां लोकानां जन्म वेद । न_एषु लोकेष्व् आर्तिम् आर्च्छति । स इमां प्रतिष्ठाम् अविन्दत । स इमां प्रतिष्ठां वित्त्वा_अकामयत प्रजायेय_इति । स तपो ऽतप्यत । सो ऽन्तर्वान् अभवत् । स जघनाद् असुरान् असृजत ।

VERSE: 6 { 2.2.9.6} तेभ्यो मृन्मये पात्रे ऽन्नम् अदुहत् । या_अस्य सा तनूर् आसीत् । ताम् अपाहत । सा तमिस्रा_अभवत् । सो ऽकामयत प्रजायेय_इति । स तपो ऽतप्यत । सो ऽन्तर्वान् अभवत् । स प्रजननाद् एव प्रजा असृजत । तस्माद् इमा भूयिष्ठाः । प्रजननाद् ध्य् एना असृजत ।

VERSE: 7 { 2.2.9.7} ताभ्यो दारुमये पात्रे पयो ऽदुहत । या_अस्य सा तनूर् आसीत् । ताम् अपाहत सा जोत्स्ना_अभवत् । सो ऽकामयत प्रजायेय_इति । स तपो ऽतप्यत । सो ऽन्तर्वान् अभवत् । स उपपक्षाभ्याम् एव_ऋतून् असृजत । तेभ्यो रजते पात्रे घृतम् अदुहत् । या_अस्य सा तनूर् आसीत् ।

VERSE: 8 { 2.2.9.8} तम् अपाहत । सो ऽहोरात्रयोः सन्धिर् अभवत् । सो ऽकामयत प्रजायेय_इति । स तपो ऽतप्यत । सो ऽनतर्वान् अभवत् । स मुखाद् देवान् असृजत । तेभ्यो हरिते पात्रे सोमम् अदुहत । या_अस्य सा तनूर् आसीत् । ताम् अपाहत । तद् अहर् अभवत् ।

VERSE: 9 { 2.2.9.9} एते वै प्रजापतेर् दोहाः । य एवं वेद । दुह एव प्रजाः । दिवा वै नो ऽभूद् इति । तद् देवानां देवत्वम् । य एवं देवानां देवत्वं वेद । देववान् एव भ्वति । एतद् वा अहोरात्राणां जन्म । य एवम् अहोरात्राणां जन्म वेद । न_अहोरात्रेष्व् आर्तिम् आर्च्छति ।

VERSE: 10 { 2.2.9.10} असतो ऽधि मनो ऽसृज्यत । मनः प्रजापतिम् असृजत । प्रजापतिः प्रजा असृजत । तद् वा इदं मनस्य् एव परमं प्रतिष्ठितम् । यद् इदं किं च । तद् एतत्_श्व्òवस्यसं नाम ब्रह्म । व्युच्छन्ती व्युच्छन्त्य् अस्मै वस्यसी वस्यसी व्युच्छति । प्रजायते प्रजया पशुभिः । प्र परमेष्ठिनो मात्राम् आप्नोति । य एवं वेद ।

अनुवाक 10 VERSE: 1 { 2.2.10.1} प्रजापतिर् इन्द्रम् असृजत_आनुजावरं देवानाम् । तं प्राहिणोत् । परेहि । एतेषां देवानाम् अधिपतिर् एधि_इति । तं देवा अब्रुवन् । कस् त्वम् असि । वयं वै त्वत्_श्रेयाꣳसः स्म इति । सो ऽब्रवीत् । कस् त्वम् असि वयं वै त्वत्_श्रेयाꣳसः स्म इति मा देवा अवोचन्न् इति । अथ वा इदं तर्हि प्रजापतौ हर आसीत् ।

VERSE: 2 { 2.2.10.2} यद् अस्मिन्न् आदित्ये । तद् एनम् अब्रवीत् । एतन् मे प्रयच्छ । अथ_अहम् एतेषां देवानाम् अधिपतिर् भविष्यामि_इति । को ऽहꣳ स्याम् इत्य् अब्रवीत् । एतत् प्रदाय_इति । एतत् स्या इत्य् अब्रवीत् । यद् एतद् ब्रवीषि_इति । को ह वै नाम प्रजापतिः । य एवं वेद ।

VERSE: 3 { 2.2.10.3} विदुर् एनं नाम्ना । तद् अस्मै रुक्मं कृत्वा प्रत्यमुञ्चत् । ततो वा इन्द्रो देवानाम् अधिपतिर् अभवत् । य एवं वेद । अधिपतिर् एव समानानां भवति । सो ऽमन्यत । किं_किं वा अकरम् इति । स चन्द्रं म आहर_इति { ।} प्रालपत् । तच् चन्द्रमसश् चन्द्रमस्त्वम् । य एवं वेद ।

VERSE: 4 { 2.2.10.4} चन्द्रवान् एव भवति । तं देवा अब्रुवन् । सुवीर्यो मर्या यथा गोपायत इति । तत् सूर्यस्य सूर्यत्वम् । य एवं वेद । नैनं दभ्नोति । कश् च न_अस्मिन् वा इदम् इन्द्रियं प्रत्यस्थाद् इति । तद् इन्द्रस्य_इन्द्रत्वम् । य एवं वेद । इन्द्रियाव्य् एव भवति ।

VERSE: 5 { 2.2.10.5} अयं वा इदं परमो ऽभूद् इति । तत् परमेष्ठिनः परमेष्ठित्वम् । य एवं वेद । परमाम् एव काष्ठां गच्छति । तं देवाः समन्तं पर्यविशन् । वसवः पुरस्तात् । रुद्रा दक्षिणतः । आदित्याः पश्चात् । विश्वे देवा उत्तरतः । अङ्गिरसः प्रत्यञ्चम् ।

VERSE: 6 { 2.2.10.6} साध्याः पराञ्चम् । य एवं वेद । उप_एनꣳ समानाः संविशन्ति । स प्रजापतिर् एव भूत्वा प्रजा आवयत् । ता अस्मै न_अतिष्ठन्त_अन्नाद्याय । ता मुखं पुरस्तात् पश्यन्तीः । दक्षिणतः पर्यायन् । स दक्षिणतः पर्यवर्तयत । ता मुखं पुरस्तात् पश्यन्तीः । मुखं दक्षिणतः ।

VERSE: 7 { 2.2.10.7} पश्चात् पर्यायन् । स पश्चात् पर्यवर्तयत । ता मुखं पुरस्तात् पश्यन्तीः । मुखं दक्षिणतः । मुखं पश्चात् । उत्तरतः पर्यायन् । सा उत्तरतः पर्यवर्तयत । ता मुखं पुरस्तात् पश्यन्तीः । मुखं दक्षिणतः । मुखं पश्चात् । { 2.2.10.8} मुखम् उत्तरतः । ऊर्ध्वा उदायन् । स उपरिष्टान् न्यवर्तयत । ताः सर्वतोमुखो भूत्वा_आवयत् । ततो वै तस्मै प्रजा अतिष्ठन्त_अन्नाद्याय । य एवं विद्वान् परि च वर्तयते नि च । प्रजापतिर् एव भुत्वा प्रजा अत्ति । तिष्ठन्ते ऽस्मै प्रजा अन्नाद्याय । अन्नाद एव भवति ।

अनुवाक 11 VERSE: 1 { 2.2.11.1} प्रजापतिर् अकामयत बहोर् भूयान्त् स्याम् इति । स एतं दशहोतारम् अपश्यत् । तं प्रायुङ्क्त । तस्य प्रयुक्ति बहोर् भूयान् अभवत् । यः कामयेत बहोर् भूयान्त् स्याम् इति । स दशहोतारं प्रयुञ्जीत । बहोर् एव भूयान् भवति । सो ऽकामयत वीरो म आजायेत_इति । स दशहोतुश् चतुर्होतारं निरमिमीत । तं प्रायुङ्क्त ।

VERSE: 2 { 2.2.11.2} तस्य प्रयुक्ति_इन्द्रो ऽजायत । यः कामयेत वीरो म आजायेत_इति । स चतुर्होतारं प्रयुञ्जीत । आ_अस्य वीरो जायते । सो ऽकामयत पशुमान्त् स्याम् इति । स चतुर्होतुः पञ्चहोतारं निरमिमीत । तं प्रायुङ्क्त । तस्य प्रयुक्ति पशुमान् अभवत् । यः कामयेत पशुमान्त् स्याम् इति । स पञ्चहोतारं प्रयुञ्जीत ।

VERSE: 3 { 2.2.11.3} पशुमान् एव भवति । सो ऽकामयत_ऋतवो मे कल्पेरन्न् इति । स पञ्चहोतुः षड्ड्होतारं निरमिमीत । तं प्रायुङ्क्त । तस्य प्रयुक्त्य् ऋतवो ऽस्मा अकल्पन्त । यः कामयेत_ऋतवो मे कल्पेरन्न् इति । स षड्ड्होतारं प्रयुञ्जीत । कल्पन्ते ऽस्मा ऋतवः । सो ऽकामयत सोमपः सोमयाजी स्याम् । आ मे सोमपः सोमयाजी जायेत_इति ।

VERSE: 4 { 2.2.11.4} स षड्ड्होतुः सप्तहोतारं निरमिमीत । तं प्रायुङ्क्त । तस्य प्रयुक्ति सोमपः सोमयाज्य् अभवत् । आ_अस्य सोमपः सोमयाज्य् अजायत । यः कामयेत सोमपः सोमयाजी स्याम् । आ मे सोमपः सोमयाजी जायेत_इति । स सप्तहोतारं प्रयुञ्जीत । सोमप एव सोमयाजी भवति । आ_अस्य सोमपः सोमयाजी जायते । स वा एष पशुः पञ्चधा प्रतितिष्ठति ।

VERSE: 5 { 2.2.11.5} पद्भिर् मुखेन । ते देवाः पशून् वित्त्वा । सुवर्गं लोकम् आयन् । ते ऽमुष्मिन्_लोके व्यक्षुध्यन् । ते ऽब्रुवन् । अमुतः प्रदानं वा उपजिजीविम_इति । ते सप्तहोतारं यज्ञं विधाय_अयास्यम् । आङ्गीरसं प्राहिण्वन् । एतेन_अमुत्र कल्पय_इति । तस्य आ इयं क्लृप्तिः ।

VERSE: 6 { 2.2.11.6} यद् इदं किञ् च । य एवं वेद कल्पते ऽस्मै । स वा अयं मनुष्येषु यज्ञः सप्तहोता । अमुत्र सद्भ्यो देवेभ्यो हव्यं वहति । य एवं वेद । उप_एनं यज्ञो नमति । यो वै चतुर्होतृणां निदानं वेद । निदानवान् भवति । अग्निहोत्रं वै दशहोतुर् निदानम् । दर्शपूर्णमासौ चतुर्होतुः । चातुर्मास्यानि पञ्चहोतुः । पशुबन्धः षड्ड्होतुः । सौम्यो ऽध्वरः सप्तहोतुः । एतद् वै चतुर्होतृणां निदानम् । य एवं वेद । निदानवान् भवति ।




प्रपाठक: 3 अनुवाक 1 VERSE: 1 { 2.3.1.1} ब्रह्मवादिनो वदन्ति । किं चतुर्होतृणां चतुर्होतृत्वम् इति । यद् एवैषु चतुर्धा होतारः । तेन चतुर्होतारः । तस्माच् चतुर्होतार उच्यन्ते । तच् चतुर्होतृणां चतुर्होतृत्वम् । सोमो वै चतुर्होता । अग्निः पञ्चहोता । धाता षड्ड्होता । इन्द्रः सप्तहोता ।

VERSE: 2 { 2.3.1.2} प्रजापतिर् दशहोता । य एवं चतुर्होतृणाम् ऋद्धिं वेद । ऋध्नोत्य् एव । य एषाम् एवं बन्धुतां वेद । बन्धुमान् भवति । य एषाम् एवं क्लृप्तिं वेद । कल्पते ऽस्मै । य एषाम् एवम् आयतनं वेद । आयतनवान् भवति । 0 य एषाम् एवं प्रतिष्ठां वेद ।

VERSE: 3 { 2.3.1.3} प्रत्य् एव तिष्ठति । ब्रह्मवादिनो वदन्ति । दशहोता चतुर्होता । पञ्चहोता षड्ड्होता सप्तहोता । अथ कस्माच् चतुर्होतार उच्यन्त इति । इन्द्रो वै चतुर्होता । इन्द्राः खलु वै श्रेष्ठो देवतानाम् उपदेशनात् । य एवम् इन्द्रꣳ श्रेष्ठं देवतानाम् उपदेशनाद् वेद । वसिष्ठः समानानां भवति । तस्मात्_श्रेष्ठम् आयन्तं प्रथमेन_एव_अनुबुध्यन्ते । अयम् आगन् । अयम् अवासाद् इति । कीर्तिर् अस्य पूर्वा_आगच्छति जनताम् आयतः । अथो एनं प्रथमेन_एव_अनुबुध्यन्ते । अयम् आगन् । अयम् अवासाद् इति ।

अनुवाक 2 VERSE: 1 { 2.3.2.1} दक्षिणां प्रतिग्रहीष्यन्त् सप्तदश कृत्वो ऽपान्यात् । आत्मानम् एव समिन्धे । तेजसे वीर्याय । अथो प्रजापतिर् एवैनां भूत्वा प्रतिगृह्णाति । आत्मनो ऽनार्त्यै । यद्य् एनम् आर्त्विज्याद् वृतꣳ {आनंदा. व्रतं} सन्तं निर्ह्áरेरन् । आग्नीध्रे जुहुयाद् दशहोतारम् । चतुर्गृहीतेन_आज्येन । पुरस्तात् प्रत्यङ् तिष्ठन् । प्रतिलोमं विग्राहम् ।

VERSE: 2 { 2.3.2.2} प्राणान् एवास्य_उपदासयति । यद् एनं पुनर् उपशिक्षेयुः । आग्नीध्र एव जुहुयाद् दशहोतारम् । चतुर्गृहीतेन_आज्येन । पश्चात् प्राङ् आसीनः । अनुलोमम् अविग्राहम् । प्राणान् एवास्मै कल्पयति । प्रायश्चित्ती वाग्ग्_होतेत्य् ऋतुमुख ऋतुमुखे जुहोति । ऋतून् एवास्मै कल्पयति । कल्पन्ते ऽस्मा ऋतवः ।

VERSE: 3 { 2.3.2.3} क्लृप्ता अस्मा ऋतव आयन्ति । षड्ड्होता वै भूत्वा प्रजापतिर् इदꣳ सर्वम् असृजत । स मनो ऽसृजत । मनसो ऽधि गायत्रीम् असृजत । तद् गायत्रीं यश आर्च्छत् । ताम् आलभत । गायत्रिया अधि छन्दाꣳस्य् असृजत । छन्दोभ्यो ऽधि साम । तत् साम यश आर्च्छत् । तद् आलभत ।

VERSE: 4 { 2.3.2.4} साम्नो ऽधि यजूꣳष्य् असृजत । यजुर्भ्यो ऽधि विष्णुम् । तद् विष्णुं यश आर्च्छत् । तम् आलभत । विष्णोर् अध्य् ओषधीर् असृजत । ओषधीभ्यो ऽधि सोमम् । तत् सोमं यश आर्च्छत् । तम् आलभत । सोमाद् अधि पशून् असृजत । पशुभ्यो ऽधि_इन्द्रम् ।

VERSE: 5 { 2.3.2.5} तद् इन्द्रं यश आर्च्छत् । तद् एनं न_अतिप्राच्यवत । इन्द्र इव यशस्वी भवति । य एवं वेद न_एनं यशो ऽतिप्रच्यवते । यद् वा इदं किं च । तत् सर्वम् उत्तान एवाऽऽङ्गीरसः प्रत्यगृह्णात् । तद् एनं प्रतिगृहीतं न_अहिनत् । यत् किं च प्रतिगृह्णीयात् । तत् सर्वम् उत्तानस् त्व् आङ्गीरसः प्रतिगृह्णात्व् इत्य् एव प्रतिगृह्णीयात् । इयं वा उत्तान आङ्गीरसः । अनया_एवैनत् प्रतिगृह्णाति । न_एनꣳ हिनस्ति । बर्हिषा प्रतीयाद् गां वा_अश्वं वा । एतद् वै पशूनां प्रियं धाम । प्रियेणैवैनं धाम्ना प्रत्येति ।

अनुवाक 3 VERSE: 1 { 2.3.3.1} यो वा अविद्वान् निवर्तयते । विशीर्षा सपाप्मा_अमुष्मिन्_लोके भवति । अथ यो विद्वान् निवर्तयते । सशीर्षा विपाप्मा_अमुष्मिन्_लोके भवति । देवता वै सप्त पुष्टिकामा न्यवर्तयन्त । अग्निश् च पृथिवी च । वायुश् च_अन्तरिक्षं च । आदित्यश् च द्यौश् च चन्द्रमाः । अग्निर् न्यवर्तयत । स साहस्रम् अपुष्यत् ।

VERSE: 2 { 2.3.3.2} पृथिवी न्यवर्तयत । स_ओषधीभिर् वनस्पतिभिर् अपुष्यत् । वायुर् न्यवर्तयत । स मरीचीभिर् अपुष्यत् । अन्तरिक्षं न्यवरतयत । तद् वयोभिर् अपुष्यत् । आदित्यो न्यवर्तयत । स रश्मिभिर् अपुष्यत् । द्यौर् न्यवर्तयत । सा नक्षत्रैर् अपुष्यत् । चन्द्रमा न्यवर्तयत । सो ऽहोरात्रैर् अर्धमासैर् मासैर् ऋतुभिः संवत्सरेन_अपुष्यत् । तान् पोषान् पुष्यति । याꣳस् ते ऽपुष्यन् । य एवं विदान् नि च वर्तयते परि च ।

अनुवाक 4 VERSE: 1 { 2.3.4.1} तस्य वा अग्नेर् हिरण्यं प्रतिजग्रहुषः । अर्धम् इन्द्रियस्य_अपाक्रामत् । तद् एतेनैव प्रत्यगृह्णात् । तेन वै सो ऽर्धम् इन्द्रियस्य_आत्मन्न् उपाधत्त । अर्धम् इन्द्रियस्य_आत्मन्न् उपाधत्ते । य एवं विद्वान् हिरण्यं प्रतिगृह्णाति । अथ यो ऽविद्वान् प्रतिगृह्णाति । अर्धम् अस्य_इन्द्रियस्य_अपक्रामति । तस्य वै सोमस्य वासः प्रतिजग्रहुषः । तृतीयम् इन्द्रियस्य_अपाक्रामत् ।

VERSE: 2 { 2.3.4.2} तद् एतेनैव प्रत्यगृह्णात् । तेन वै स तृतीयम् इन्द्रियस्य_आत्मन्न् उपाधत्त । तृतीयम् इन्द्रियस्य_आत्मन्न् उपाधत्ते । य एवं विद्वान् वासः प्रतिगृह्णाति । अथ यो ऽविद्वान् प्रतिगृह्णाति । तृतीयम् अस्य_इन्द्रियस्य_अपक्रामति । तस्य वै रुद्रस्य गां प्रतिजग्रहुषः । चतुर्थम् इन्द्रियस्य_अपाक्रामत् । ताम् एतेनैव प्रत्यगृह्णात् । तेन वै स चतुर्थम् इन्द्रियस्य_आत्मन्न् उपाधत्त ।

VERSE: 3 { 2.3.4.3} चतुर्थम् इन्द्रियस्य_आत्मन्न् उपाधत्ते । य एवं विद्वान् गां प्रतिगृह्णाति । अथ यो ऽविद्वान् प्रतिगृह्णाति । चतुर्थम् अस्य_इन्द्रियस्य_अपक्रामति । तस्य वै वरुणस्य_अश्वं प्रतिजग्रहुषः । पञ्चमम् इन्द्रियस्य_अपाक्रामत् । तम् एतेनैव प्रत्यगृह्णात् । तेन वै स पञ्चमम् इन्द्रियस्य_आत्मन्न् उपाधत्त । पञ्चमम् इन्द्रियस्य_आत्मन्न् उपाधत्ते । य एवं विद्वान् अश्वं प्रतिगृह्णाति ।

VERSE: 4 { 2.3.4.4} अथ यो ऽविद्वान् प्रतिगृह्णाति । पञ्चमम् अस्य_इन्द्रियस्य_अपक्रामति । तस्य वै प्रजापतेः पुरुषं प्रतिजग्रहुषः । षष्ठम् इन्द्रियस्य_अपाक्रामत् । तम् एतेनैव प्रत्यगृह्णात् । तेन वै स षष्ठम् इन्द्रियस्य_आत्मन्न् उपाधत्त । षष्ठम् इन्द्रियस्य_आत्मन्न् उपाधत्ते । य एवं विद्वान् पुरुषं प्रतिगृह्णाति । अथ यो ऽविद्वान् प्रतिगृह्णाति । षष्ठम् अस्य_इन्द्रियस्य_अपक्रामति ।

VERSE: 5 { 2.3.4.5} तस्य वै मनोस् तल्पं प्रतिजग्रहुषः । सप्तमम् इन्द्रियस्य_अपाक्रामत् । तम् एतेनैव प्रत्यगृह्णात् । तेन वै स सप्तमम् इन्द्रियस्य_आत्मन्न् उपाधत्त । सप्तमम् इन्द्रियस्य_आत्मन्न् उपाधत्ते । य एवं विद्वाꣳस् तल्पं प्रतिगृह्णाति । अथ यो ऽविद्वान् प्रतिगृह्णाति । सप्तमम् अस्य_इन्द्रियस्य_अपक्रामति । तस्य वा उत्तानस्य_आङ्गीरसस्य_अप्राणत् प्रतिजग्रहुषः । अष्टमम् इन्द्रियस्य_अपाक्रामत् ।

VERSE: 6 { 2.3.4.6} तद् एतेनैव प्रत्यगृह्णात् । तेन वै सो ऽष्टमम् इन्द्रियस्य_आत्मन्न् उपाधत्त । अष्टमम् इन्द्रियस्य_आत्मन्न् उपाधत्ते । य एवं विद्वान् अप्राणत् प्रतिगृह्णाति । अथ यो ऽविद्वान् प्रतिगृह्णाति । अष्टमम् अस्य_इन्द्रियस्य_अपक्रामति । यद् वा इदं किं च । तत् सर्वम् उत्तान एवाऽऽङ्गीरसः प्रत्यगृह्णात् । तद् एनं प्रतिगृहीतं न_अहिनत् । यत् किं च प्रतिगृह्णीयात् । तत् सर्वम् उत्तानस् त्व् आङ्गीरसः प्रतिगृह्णात्व् इत्य् एव प्रतिगृह्णीयात् । इयं वा उत्तान आङ्गीरसः । अनया_एवैनत् प्रतिगृह्णाति । न_एनꣳ हिनस्ति ।

अनुवाक 5 VERSE: 1 { 2.3.5.1} ब्रह्मवादिनो वदन्ति । यद् दशहोतारः सत्त्रम् आसत । केन ते गृहपतिना_आर्ध्नुवन् । केन प्रजा असृजन्त_इति । प्रजापतिना वै ते गृहपतिना_आर्ध्नुवन् । तेन प्रजा असृजन्त । यच् चतुर्होतारः सत्त्रम् आसत । केन ते गृहपतिना_आर्ध्नुवन् । केन_ओषधीर् असृजन्त_इति । सोमेन वै ते गृहपतिना_आर्ध्नुवन् ।

VERSE: 2 { 2.3.5.2} तेन_ओषधीर् असृजन्त । यत् पञ्चहोतारः सत्त्रम् आसत । केन ते गृहपतिना_आर्ध्नुवन् । केन_एभ्यो लोकेभ्यो ऽसुरान् प्राणुदन्त । केन_एषां पशून् अवृञ्जत_इति । अग्निना वै ते गृहपतिना_आर्ध्नुवन् । तेन_एभ्यो लोकेभ्यो ऽसुरान् प्राणुदन्त । तेन_एषां पशून् अवृञ्जत । यत् षड्ड्होतारः सत्त्रम् आसत । केन ते गृहपतिना_आर्ध्नुवन् ।

VERSE: 3 { 2.3.5.3} केन_ऋतून् अकल्पयन्त_इति । धात्रा वै ते गृहपतिना_आर्ध्नुवन् । तेन_ऋतून् अकल्पयन्त । यत् सप्तहोतारः सत्त्रम् आसत । केन ते गृहपतिना_आर्ध्नुवन् । केन सुवर् आयन् । केन_इमान्_लोकान्त् समतन्वन्न् इति । अर्यम्णा वै ते गृहपतिना_आर्ध्नुवन् । तेन सुवर् आयन् । तेन_इमान्_लोकान् समतन्वन्न् इति ।

VERSE: 4 { 2.3.5.4} एते वै देवा गृहपतयः । तान् य एवं विद्वान् । अप्य् अन्यस्य गार्हपते दीक्षते । अवान्तरम् एव सत्त्रिणाम् ऋध्नोति । यो वा अर्यमणं वेद । दानकामा अस्मै प्रजा भवन्ति । यज्ञो वा अर्यमा । आर्या वसतिर् इति वै तम् आहुर् यं प्रशꣳसन्ति । आर्या वसतिर् भवति । य एवं वेद ।

VERSE: 5 { 2.3.5.5} यद् वा इदं किं च । तत् सर्वं चतुर्होतारः । चतुर्होतृभ्यो ऽधि यज्ञो निर्मितः । स य एवं विद्वान् विवदेत । अहम् एव भूयो वेद । यश् चतुर्होतॄन् वेद_इति । स ह्य् एव भूयो वेद । यश् चतुर्होतॄन् वेद । यो वै चतुर्होतृणाꣳ होतॄन् वेद । सर्वासु प्रजास्व् अन्नम् अत्ति ।

VERSE: 6 { 2.3.5.6} सर्वा दिशो ऽभिजयति । प्रजापतिर् वै दशहोतृणाꣳ होता । सोमश् चतुर्होतृणाꣳ होता । अग्निः पञ्चहोतृणाꣳ होता । धाता षड्ड्होतृणाꣳ होता । अर्यमा सप्तहोतृणाꣳ होता । एते वै चतुर्होतृणाꣳ होतारः । तान् य एवं वेद । सर्वासु प्रजास्व् अन्नम् अत्ति । सर्वा दिशो ऽभिजयति ।

अनुवाक 6 VERSE: 1 { 2.3.6.1} प्रजापतिः प्रजाः सृष्ट्वा व्यस्रꣳसत । स हृदयंभूतो ऽशयत् । आत्मन् हा3 इत्य् अह्वयत् । आपः प्रत्यशृण्वन् । ता अग्निहोत्रेणैव यज्ञक्रतुना_उपपर्यावर्तन्त । ताः कुसिन्धम् उपौहन् । तस्माद् अग्निहोत्रस्य यज्ञक्रतोः । एक ऋत्विक् । चतुष्कृत्वो ऽह्वयत् । अग्निर् वायुर् आदित्यश् चन्द्रमाः ।

VERSE: 2 { 2.3.6.2} ते प्रत्यशृण्वन् । ते दर्शपूर्णमासाभ्याम् एव यज्ञक्रतुना_उपपर्यावर्तन्त । त उपौहꣳश् चत्वार्य् अङ्गानि । तस्माद् दर्शपूर्णमासयोर् यज्ञक्रतोः । चत्वार ऋत्विजः । पञ्चकृत्वो ऽह्वयत् । पशवः प्रत्यशृण्वन् । ते चातुर्मास्यैर् एव यज्ञक्रतुना_उपपर्यावर्तन्त । त उपौहन्_लोम च्छवीं माꣳसम् अस्थि मज्जानम् । तस्माच् चातुर्मास्यानां यज्ञक्रतोः ।

VERSE: 3 { 2.3.6.3} पञ्च_ऋत्विजः । षट्कृत्वो ऽह्वयत् । ऋतवः प्रत्यशृण्वन् । ते पशुबन्धेन_एव यज्ञक्रतुना_उपपर्यावर्तन्त । त उपौहं स्तनाव् आण्डौ शिश्नम् अवाञ्चं प्राणम् । तस्मात् पशुबन्धस्य यज्ञक्रतोः । षड् ऋत्विजः । सप्तकृत्वो ऽह्वयत् । होत्राः प्रत्यशृण्वन् । ताः सौम्येन_एव_अध्वरेण यज्ञक्रतुना_उपपर्यावर्तन्त ।

VERSE: 4 { 2.3.6.4} ता उपौहन्त् सप्त शीर्षण्यान् प्राणान् । तस्मात् सौम्यस्य_अध्वरस्य यज्ञक्रतोः । सप्त होत्राः प्राचीर् वषट्कुर्वन्ति । दशकृत्वो ऽह्वयत् । तपः प्रत्यशृणोत् । तत् कर्मणा_एव संवत्सरेण सर्वैर् यज्ञक्रतुभिर् उपपर्यावर्तत । तत् सर्वम् आत्मानम् अपरिवर्गम् उपौहत् । तस्मात् संवत्सरे सर्वे यज्ञक्रतवो ऽवरुध्यन्ते । तस्माद् दशहोता चतुर्होता । पञ्चहोता षड्ड्होता सप्तहोता । एकहोत्रे बलिꣳ हरन्ति हरन्त्य् अस्मै प्रजा बलिम् । आ_एनम् अप्रतिख्यातं गच्छति । य एवं वेद ।

अनुवाक 7 VERSE: 1 { 2.3.7.1} प्रजापतिः पुरुषम् असृजत । सो ऽग्निर् अब्रवीत् । मम_अयम् अन्नम् अस्त्व् इति । सो ऽबिभेत् । सर्वं वै मा_अयं प्रधक्ष्यति_इति । स एताꣳश् चतुर्होतॄन् आत्मस्परणान् अपश्यत् । तान् अजुहोत् । तैर् वै स आत्मानम् अस्पृणोत् । यद् अग्निहोत्रं जुहोति । एकहोतारम् एव तद् यज्ञक्रतुम् आप्नोत्य् अग्निहोत्रम् ।

VERSE: 2 { 2.3.7.2} कुसिन्धं च_आत्मनः स्पृणोति । आदित्यस्य च सायुज्यं गच्छति । चतुर् उन्नयति । चतुर्होतारम् एव तद् यज्ञक्रतुम् आप्नोति {। आनंदा. में नहीं है } दर्शपूर्णमासौ । चत्वारि च_आत्मनो ऽङ्गानि स्पृणोति । आदित्यस्य च सायुज्यं गच्छति । चतुर् उन्नयति । समित् पञ्चमी । पञ्चहोतारम् एव तद् यज्ञक्रतुम् आप्नोति । चातुर्मास्यानि । लोम च्छवीं माꣳसम् अस्थि मज्जानम् ।

VERSE: 3 { 2.3.7.3} तानि च_आत्मनः स्पृणोति । आदित्यस्य च सायुज्यं गच्छति । चतुर् उन्नयति । द्विर् जुहोति । षड्ड्होतारम् एव तद् यज्ञक्रतुम् आप्नोति {। not in आनंदा.} पशुबन्धम् । स्तनाव् आण्डौ शिश्नम् अवाञ्चं प्राणम् । तानि च_आत्मनः स्पृणोति । आदित्यस्य च सायुज्यं गच्छति । चतुर् उन्नयति । द्विर् जुहोति ।

VERSE: 4 { 2.3.7.4} समित् सप्तमी । सप्तहोतारम् एव तद् यज्ञक्रतुम् आप्नोति सौम्यम् अध्वरम् । सप्त च_आत्मनः शीर्षण्यान् प्राणान् स्पृणोति । आदित्यस्य च सायुज्यं गच्छति । चतुर् उन्नयति । द्विर् जुहोति । द्विर् निमार्ष्टि । द्विः प्राश्नाति । दशहोतारम् एव तद् यज्ञक्रतुम् आप्नोति संवत्सरम् । सर्वं च_आत्मानम् अपरिवर्गꣳ स्पृणोति । आदित्यस्य च सायुज्यं गच्छति ।

अनुवाक 8 VERSE: 1 { 2.3.8.1} प्रजापतिर् अकामयत प्रजायेय_इति । स तपो ऽतप्यत । सो ऽन्तर्वान् अभवत् । स हरितः श्यावो ऽभवत् । तस्मात् स्त्र्य् अन्तर्वत्नी । हरिणी सती श्यावा भवति । स विजायमानो गर्भैण_अताम्यत् । स तान्तः कृष्णः श्यावो ऽभवत् । तस्मात् तान्तः कृष्णः श्यावो भवति । तस्य_असुर् एव_अजीवत् ।

VERSE: 2 { 2.3.8.2} तेन_असुना_असुरान् असृजत । तद् असुराणाम् असुरत्वम् । य एवम् असुराणाम् असुरत्वं वेद । असुमान् एव भवति । न_एनम् असुर् जहाति । सो ऽसुरान् सृष्ट्वा पितेव_अमन्यत । तद् अनु पितॄन् असृजत । तत् पितृणां पितृत्वम् । य एवं पितृणां पितृत्वं वेद । पितेव_एव {आनंदा. पितवैव} स्वानां भवति ।

VERSE: 3 { 2.3.8.3} यन्त्य् अस्य पितरो हवम् । स पितॄन्त् सृष्ट्वा_अमनस्यत् । तद् अनु मनुष्यान् असृजत । तन् मनुष्याणां मनुष्यत्वम् । य एवं मनुष्याणां मनुष्यत्वं वेद । मनस्व्य् एव भवति । न_एनं मनुर् जहाति । तस्मै मनुष्यान्त् ससृजानाय । दिवा देवत्रा_अभवत् । तद् अनु देवान् असृजत । तद् देवानां देवत्वम् । य एवं देवानां देवत्वं वेद । दिवा हैवास्य देवत्रा भवति । तानि वा एतानि चत्वार्य् अम्भाꣳसि । देवा मनुष्याः पितरो ऽसुराः । तेषु सर्वेष्व् अम्भो नभ इव भवति । य एवं वेद ।

अनुवाक 9 VERSE: 1 { 2.3.9.1} ब्रह्मवादिनो वदन्ति । यो वा इमं विद्यात् । यतो ऽयं पवते । यद् अभिपवते । यद् अभिसंपवते । सर्वम् आयुर् इयात् । न पुरा_आयुषः प्रमीयेत । पशुमान्त् स्यात् । विन्देत प्रजाम् । यो वा इमं वेद ।

VERSE: 2 { 2.3.9.2} यतो ऽयं पवते । यद् अभिपवते । यद् अभिसंपवते । सर्वम् आयुर् एति । न पुरा_आयुषः प्रमीयते । पशुमान् भवति । विन्दते प्रजाम् । अद्भ्यः पवते । अपो ऽभिपवते । अपो ऽभिसंपवते ।

VERSE: 3 { 2.3.9.3} अस्याः पवते । इमाम् अभिपवते । इमाम् अभिसंपवते । अग्नेः पवते । अग्निम् अभिपवते । अग्निम् अभिसंपवते । अन्तरिक्षात् पवते । अन्तरिक्षम् अभिपवते । अन्तरिक्षम् अभिसंपवते । आदित्यात् पवते ।

VERSE: 4 { 2.3.9.4} आदित्यम् अभिपवते । आदित्यम् अभिसंपवते । द्योः पवते । दिवम् अभिपवते । दिवम् अभिसंपवते । दिग्भ्यः पवते । दिशो ऽभिपवते । दिशो ऽभिसंपवते । स यत् पुरस्ताद् वाति । प्राण एव भूत्वा पुरस्ताद् वाति ।

VERSE: 5 { 2.3.9.5} तस्मात् पुरस्ताद् वान्तम् । सर्वाः प्रजाः प्रतिनन्दन्ति । प्राणो हि प्रियः प्रजानाम् । प्राण इव प्रियः प्रजानां भवति । य एवं वेद । स वा एष प्राण एव । अथ यद् दक्षिणतो वाति । मातरिश्वा_एव भूत्वा दक्षिणतो वाति । तस्माद् दक्षिणतो वान्तं विद्यात् । सर्वा दिश आवाति ।

VERSE: 6 { 2.3.9.6} सर्वा दिशो ऽनुविवाति । सर्वा दिशो ऽनुसंवाति_इति । स वा एष मातरिश्वा_एव । अथ यत् पश्चाद् वाति । पवमान एव भूत्वा पश्चाद् वाति । पूतम् अस्मा आहरन्ति । पूतम् उपहरन्ति । पूतम् अश्नाति । य एवं वेद । स वा एष पवमान एव ।

VERSE: 7 { 2.3.9.7} अथ यद् उत्तरतो वाति । सविता_एव भूत्वा_उत्तरतो वाति । सवितेव स्वानां भवति । य एवं वेद । स वा एष सविता_एव । ते य एनं पुरस्ताद् आयन्तम् उपवदन्ति । य एवास्य पुरस्तात् पाप्मानः । ताꣳस् ते ऽपघ्नन्ति । पुरस्ताद् इतरान् पाप्मनः सचन्ते । अथ य एनं दक्षिणत आयन्तम् उपवदन्ति ।

VERSE: 8 { 2.3.9.8} य एवास्य दक्षिणतः पाप्मानः । ताꣳस् ते ऽपघ्नन्ति । दक्षिणत इतरान् पाप्मनः सचन्ते । अथ य एनं पश्चाद् आयन्तम् उपवदन्ति । य एवास्य पश्चात् पाप्मानः । ताꣳस् ते ऽपघ्नन्ति । पश्चाद् इतरान् पाप्मनः सचन्ते । अथ य एनम् उत्तरत आयन्तम् उपवदन्ति । य एवास्य_उत्तरतः पाप्मानः । ताꣳस् ते ऽपघ्नन्ति ।

VERSE: 9 { 2.3.9.9} उत्तरत इतरान् पाप्मनः सचन्ते । तस्माद् एवं विद्वान् । वि_इव नृत्येत् । प्र_इव चलेत् । व्य् अस्य_इव_अक्ष्यउ भाषेत { भाषेते} । मण्टयेद् इव । क्राथयेद् इव । शृङ्गायेत_इव । उत मा_उपवदेयुः । उत मे पाप्मानम् अपहन्युर् इति । स यां दिशꣳ सनिम् एष्यन्त् स्यात् । यदा तां दिशं वातो वायात् । अथ प्रवेयात् । प्र वा धावयेत् । सातम् एव रदितं व्यूढं गन्धम् अभि प्रच्यवते । आ_अस्य तं जनपदं पूर्वा कीर्तिर् गच्छति । दानकामा अस्मै प्रजा भवन्ति । य एवं वेद ।

अनुवाक 10 VERSE: 1 { 2.3.10.1} प्रजापतिः सोमꣳ राजानम् असृजत । तं त्रयो वेदा अन्वसृज्यन्त । तान् हस्ते ऽकुरुत । अथ ह सीता सावित्री । सोमꣳ राजानं चकमे । श्रद्धाम् उ स चकमे । सा ह पितरं प्रजापतिम् उपससार । तꣳ ह_उवाच । नमस् ते अस्तु भगवः । उप त्वा_अयानि ।

VERSE: 2 { 2.3.10.2} प्र त्वा पद्ये । सोमं वै राजानं कामये । श्रद्धाम् उ स कामयत इति । तस्या उ ह स्थागरम् अलङ्कारं कल्पयित्वा । दशहोतारं पुरस्ताद् व्याख्याय । चतुर्होतारं दक्षिणतः । पञ्चहोतारं पश्चात् । षड्ड्होतारम् उत्तरतः । सप्तहोतारम् उपरिष्टात् । सम्भारैश् च पत्निभिश् च मुखे ऽलङ्कृत्य ।

VERSE: 3 { 2.3.10.3} आ_अस्य_अर्धं वव्राज । ताꣳ ह_उदीक्ष्य_उवाच । उप मा वर्तस्व_इति । तं ह_उवाच । भोगं तु म आचक्ष्व । एतन् म आचक्ष्व । यत् ते पाणाव् इति । तस्या उ ह त्रीन् वेदान् प्रददौ । तस्माद् उ ह स्त्रियो भोगम् आ_एव हारयन्ते । स यः कामयेत प्रियः स्याम् इति ।

VERSE: 4 { 2.3.10.4} यं वा कामयेत प्रियः स्याद् इति । तस्मा एतꣳ स्थागरम् अलङ्कारं कल्पयित्वा । दशहोतारं पुरस्ताद् व्याख्याय । चतुर्होतारं दक्षिणतः । पञ्चहोतारं पश्चात् । षड्ड्होतारम् उत्तरतः । सप्तहोतारम् उपरिष्टात् । सम्भारैश् च पत्निभिश् च मुखे ऽलङ्कृत्य । आ_अस्य_अर्धं व्रजेत् । प्रियो हैव भवति ।

अनुवाक 11 VERSE: 1 { 2.3.11.1} ब्रह्मा_आत्मन्वद् असृजत । तद् अकामयत । सम् आत्मना पद्येय_इति । आत्मन्न् आत्मन्न् इत्य् आमन्त्रयत । तस्मै दशमꣳ हूतः प्रत्यशृणोत् । स दशहूतो ऽभवत् । दशहूतो ह वै नामैषः । तं वा एतं दशहूतꣳ सन्तम् । दशहोतेत्य् आचक्षते {।} परोक्षेण । परोक्षप्रिया इव हि देवाः ।

VERSE: 2 { 2.3.11.2} आत्मन्न् आत्मन्न् इत्य् आमन्त्रयत । तस्मै सप्तमꣳ हूतः प्रत्यशृणोत् । स सप्तहूतो ऽभवत् । सप्तहूतो ह वै नामैषः । तं वा एतꣳ सप्तहूतꣳ सन्तम् । सप्तहोतेत्य् आचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः । आत्मन्न् आत्मन्न् इत्य् आमन्त्रयत । तस्मै षष्ठꣳ हूतः प्रत्यशृणोत् । स षड्ड्हूतो ऽभवत् ।

VERSE: 3 { 2.3.11.3} षड्धूतो ह वै नामैषः । तं वा एतꣳ षड्ड्हूतꣳ सन्तम् । षड्ड्होतेत्य् आचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः । आत्मन्न् आत्मन्न् इत्य् आमन्त्रयत । तस्मै पञ्चमꣳ हूतः प्रत्यशृणोत् । स पञ्चहूतो ऽभवत् । पञ्चहूतो ह वै नामैषः । तं वा एतं पञ्चहूतꣳ सन्तं । पञ्चहोतेत्य् आचक्षते परोक्षेण ।

VERSE: 4 { 2.3.11.4} परोक्षप्रिया इव हि देवाः । आत्मन्न् आत्मन्न् इत्य् आमन्त्रयत । तस्मै चतुर्थꣳ हूतः प्रत्यशृणोत् । स चतुर्हूतो ऽभवत् । चतुर्हूतो ह वै नामैषः । तं वा एतं चतुर्हूतꣳ सन्तम् । चतुर्होतेत्य् आचक्षते {।} परोक्षेण । परोक्षप्रिया इव हि देवाः । तम् अब्रवीत् । त्वं वै मे नेदिष्ठꣳ हूतः प्रत्यश्रौषीः । त्वया_एनान् आख्यातार इति । तस्मान् नु हैनाꣳश् चतुर्होतार इत्य् आचक्षते । तस्माच् शुश्रूषुः पुत्राणाꣳ हृद्यतमः । नेदिष्ठो हृद्यतमः । नेदिष्ठो ब्रह्मणो भवति । य एवं वेद ।




प्रपाठक: 4 अनुवाक 1 VERSE: 1 { 2.4.1.1} जुष्टो दमूना अतिथिर् दुरोणे । इमं नो यज्ञम् उपयाहि विद्वान् । विश्वा अग्ने ऽभियुजो विहत्य । शत्रूयताम् आभरा भोजनानि । अग्ने शर्ध महते सौभगाय । तव द्युम्नान्य् उत्तमानि सन्तु । सं जास्पत्यꣳ सुयमम् आकृणुष्व । शत्रूयताम् अभितिष्ठा महाꣳसि । अग्ने यो नो ऽभितो जनः । वृको वारो जिघाꣳसति ।

VERSE: 2 { 2.4.1.2} ताꣳस् त्वं वृत्रहञ् जहि । वस्व् अस्मभ्यम् आभर । अग्ने यो नो ऽभिदासति । समानो यश् च निष्ट्यः । इध्मस्य_इव प्रक्षायतः । मा तस्य_उच्छेषि किञ् चन । त्वम् इन्द्र_अभिभूर् असि । देवो विज्ञातवीर्यः । वृत्रहा पुरुचेतनः । अप प्राच इन्द्र विश्वाꣳ अमित्रान् ।

VERSE: 3 { 2.4.1.3} अप_अपाचो अभिभूते नुदस्व । अप_उदीचो अप शूर_धराच ऊरु । यथा तव शर्मन् मदेम । तम् इन्द्रं वाजयामसि । महे वृत्राय हन्तवे । स वृषा वृषभो भुवत्[ऽभुवत्?] । युजे रथं गवेषणꣳ हरिभ्याम् । उप ब्रह्माणि जुजुषाणम् अस्थुः । विबाधिष्ट_अस्य रोदसी महित्वा । इन्द्रो वृत्राण्य् अप्रतीजघन्वान् ।

VERSE: 4 { 2.4.1.4} हव्यवाहम् अभिमातिषा_अहम् । रक्षोहणं पृतनासु जिष्णुम् । ज्योतिष्मन्तं दीद्यतं पुरन्धिम् । अग्निꣳ स्विष्टकृतम् {F आहुवेम} {आनंदा. आहुमेव} {BI आहुवेम} { आहुवेम} । स्विष्टम् अग्ने अभि तत् पृणाहि । विश्वा देव पृतना अभिष्य । उरुं नः पन्थां प्रदिशन् विभाहि । ज्योतिष्मद् धेह्य् अजरं न {F आयुः} {आनंदा. आयुः} {BI आयः} { आयुः} । त्वाम् अग्ने हविष्मन्तः । देवं मर्तास ईडते ।

VERSE: 5 { 2.4.1.5} मन्ये त्वा जातवेदसम् । स हव्या वक्ष्या_अनुषक् । विश्वानि नो दुर्गहा जातवेदः । सिन्धुं न नावा दुरिता_अतिपर्षि । अग्ने अत्रिवन् मनसा गृणानः । अस्माकं बोध्यविता तनूनाम् । पूषा गा अन्वेतु नः । पूषा रक्षत्व् अर्वतः । पूषा वाजꣳ सनोतु नः । पूषा_इमा आशा अनुवेद सर्वाः ।

VERSE: 6 { 2.4.1.6} सो अस्माꣳ अभयतमेन नेषत् । स्वस्तिदा अघृणिः सर्ववीरः । अप्रयुच्छन् पुर एतु प्रजानन् । {F त्वम्} {आनंदा. त्वम्} {BI स्वम्} { त्वम्} अग्ने सप्रथा असि । जुष्टो होता वरेण्यः । त्वया यज्ञं वितन्वते । अग्नी रक्षाꣳसि सेधति । शुक्रशोचिर् अमर्त्यः । शुचिः पावक ईड्यः । अग्ने रक्षाणो अꣳहसः ।

VERSE: 7 { 2.4.1.7} प्रतिष्म देव रीषतः । तपिष्ट्हैर् अजरो दह । अग्ने हꣳसि न्यत्रिणम् । दीद्यन् मर्त्येष्व् आ । स्वे क्षये शुचिव्रत । आ वात वाहि भेषजम् । वि वात वाहि यद् रपः । त्वꣳ हि विश्वभेषजः । देवानां दूत ईयसे । द्वाव् इमौ वातौ वातः ।

VERSE: 8 { 2.4.1.8} आ सिन्धोर् आ परावतः । दक्षं मे अन्य आवातु । परा_अन्यो वातु यद् रपः । यद् अदो वात ते गृहे । अमृतस्य निधिर् हितः । ततो नो देहि जीवसे । ततो नो धेहि भेषजम् । ततो नो मह आवह । वात आवातु भेषजम् । शम्भूर् मयोभूर् नो हृदे ।

VERSE: 9 { 2.4.1.9} प्र ण आयूꣳषि तारिषत् । त्वम् अग्ने अयासि । अया सन्मनसा हितः । अया सन् हव्यमूहिषे । अया नो धेहि भेषजम् । इष्टो अग्निर् आहुतः । स्वाहाकृतः पिपर्तु नः । स्वगा देवेभ्य इदं नमः । कामो भूतस्य भव्यस्य । सम्राड् एको विराजति ।

VERSE: 10 { 2.4.1.10} स इदं प्रतिपप्रथे । ऋतून् उत्सृजते वशी । कामस् तद् अग्रे समवर्तत_अधि । मनसो रेतः प्रथमं यद् आसीत् । सतो बन्धुम् असति निरविन्दन् । हृदि प्रतीष्या कवयो मनीषा । त्वया मन्यो सरथम् आरुजन्तः । हर्षमाणासो धृषता मरुत्वः । तिग्म_इषव आयुधा सꣳशिशानाः । उपप्रयन्ति नरो अग्निरूपाः ।

VERSE: 11 { 2.4.1.11} मन्युर् भगो मन्युर् एवाऽऽस देवः । मन्युर् होता वरुणो विश्ववेदाः । मन्युं विश ईडते देवयन्तीः । पाहि नो मन्यो तपसा श्रमेण । त्वम् अग्ने व्रतभृत्_शुचिः । देवाꣳ आसादया इह । अग्ने हव्याय वोढवे । व्रता नु बिभ्रद् व्रतपा अदाभ्यः । यजानो देवाꣳ अजरः सुवीरः । दधद् रत्नानि सुविदानो अग्ने । गोपाय नो जीवसे जातवेदः ।

अनुवाक 2 VERSE: 1 { 2.4.2.1} चक्षुषो हेते मनसो हेते । वाचो हेते ब्रह्मणो हेते । यो मा_अघायुर् अभिदासति । तम् अग्ने मेन्या_अमेनिं कृणु । यो मा चक्षुषा यो मनसा । यो वाचा ब्रह्मणा_अघायुर् अभिदासति । तया_अग्ने त्वं मेन्या । अमुम् अमेनिं कृणु । यत् किं च_असौ मनसा यच् च वाचा । यज्ञैर् जुहोति यजुषा हविर्भिः ।

VERSE: 2 { 2.4.2.2} तन् मृत्युर् निर्ऋत्या संविदानः । पुरा दिष्टाद् आहुतीर् अस्य हन्तु । यातुधाना निर्ऋतिर् आद् उ रक्षः । ते अस्य घ्नन्त्व् अनृतेन सत्यम् । इन्द्र_इषिता आज्यम् अस्य मथ्नन्तु । मा तत् समृद्धि यद् असौ करोति । हन्मि ते ऽहं कृतꣳ हविः । यो मे घोरम् अचीकृतः । अपाञ्चौ त उभौ बाहू । अपनह्याम्य् आस्यम् ।

VERSE: 3 { 2.4.2.3} अपनह्यामि ते बाहू । अपनह्याम्य् आस्यम् । अग्नेर् देवस्य ब्रह्मणा । सर्वं ते ऽवधिषं कृतं । पुरा_अमुष्य वषट्कारात् । यज्ञं देवेषु नस् कृधि । स्विष्टम् अस्माकं भूयात् । मा_अस्मान् प्रापन्न् अरातयः । अन्ति दूरे सतो अग्ने । भ्रातृव्यस्या_अभिदासतः ।

VERSE: 4 { 2.4.2.4} वषट्कारेण वज्रेण । कृत्याꣳ हन्मि कृताम् अहम् । यो मा नक्तं दिवा सायम् । प्रातश् च_अह्नो निपीयति । अद्या तम् इन्द्र वज्रेण । भ्रातृव्यं पादयामसि । इन्द्रस्य गृहो ऽसि तं त्वा । प्रपद्ये सगुः स_अश्वः । सह यन् मे अस्ति तेन । ईडे अग्निं विपश्चितम् ।

VERSE: 5 { 2.4.2.5} गिरा यज्ञस्य साधनम् । श्रुष्टीवानं धितावानम् । अग्ने शकेम ते वयम् । यमं देवस्य वाजिनः । अति द्वेषाꣳषि तरेम । अवतं मा समनसौ समोकसौ । सचेतसौ सरेतसौ । उभौ माम् अवतं जातवेदसौ । शिवौ भवतम् अद्य नः । स्वयं कृण्वानः सुगम् अप्रयावम् ।

VERSE: 6 { 2.4.2.6} तिग्मशृङ्गो वृषभः शोशुचानः । प्रत्नꣳ सधस्थम् अनुपश्यमानः । आ तन्तुम् अग्निर् दिव्यं ततान । त्वं नस् तन्तुर् उत सेतुर् अग्ने । त्वं पन्था भवसि देवयानः । त्वया_अग्ने पृष्ठं वयम् आरुहेम { आरुहेय} {आनंदा.,BI आरुहेम} । अथा देवैः सधमादं मदेम । उद् उत्तमं मुमुग्धि नः । वि पाशं मध्यमं चृत । अव_अधमानि जीवसे ।

VERSE: 7 { 2.4.2.7} वयꣳ सोम व्रते तव । मनस् तनूषु बिभ्रतः । प्रजावन्तो अशीमहि । इन्द्राणी देवी सुभगा सुपत्नी । उद् अꣳशेन पतिविद्ये जिगाय । त्रिꣳशद् अस्या जघनं योजनानि । उपस्थ इन्द्रꣳ स्थविरं बिभर्ति । सेना ह नाम पृथिवी धनंजया । विश्वव्यचा अदितिः सूर्यत्वक् । इन्द्राणी देवी प्रासहा ददाना ।

VERSE: 8 { 2.4.2.8} सा नो देवी सुहवा शर्म यच्छतु । आ त्वा_अहार्षम् अन्तरभूः । ध्रुवस् तिष्ठ_अविचाचलिः । विशस् त्वा सर्वा वाञ्छन्तु । मा त्वद् राष्ट्रम् अधिभ्रशत् । ध्रुवा द्यौर् ध्रुवा पृथिवी । ध्रुवं विश्वम् इदं जगत् । ध्रुवा ह पर्वता इमे । ध्रुवो राजा विशाम् अयम् । इहैव_एधि मा व्यथिष्ठाः ।

VERSE: 9 { 2.4.2.9} पर्वत इव_अविचाचलिः । इन्द्र इव_इह ध्रुवस् तिष्ठ । इह राष्ट्रम् उ धारय । अभितिष्ठ पृतन्यतः । अधरे सन्तु शत्रवः । इन्द्र इव वृत्रहा तिष्ठ । अपः क्षेत्राणि संजयन् । इन्द्र एणम् अदीधरत् । ध्रुवं ध्रुवेण हविषा । तस्मै देवा अधिब्रवन् । अयं च ब्रह्मणस्पतिः ।

अनुवाक 3 VERSE: 1 { 2.4.3.1} जुष्टी नरो ब्रह्मणा वः पितृणाम् । अक्षम् अव्ययं न किला रिषाथ । यत्_शक्वरीषु बृहता रवेण । इन्द्रे शुष्मम् अदधाथा वसिष्ठाः । पावका नः सरस्वती । वाजेभिर् वाजिनीवती । यज्ञं वष्टु धिया वसुः । सरस्वत्य् अभि नो नेषि वस्यः मा पस्फ्अरीः पयसा मा न आधक् । जुषस्व नः सख्या वेश्या { वेष्या} च ।

VERSE: 2 { 2.4.3.2} मा त्वत् क्षेत्राण्य् अरणानि गन्म । वृञ्जे हविर् नमसा बर्हिर् अग्नौ । अयामि स्रुच्_ घृतवती सुवृक्तिः । अम्यक्षि सद्म सदने पृथिव्याः । अश्रायि यज्ञः सूर्ये न चक्षुः । इह_अर्वाञ्चम् अतिह्वये । इन्द्रं जैत्राय जेतवे { जेतव} । अस्माकम् अस्तु केवलः । अर्वाञ्चम् इन्द्रम् अमुतो हवामहे । यो गोजिद् धनजिद् अश्वजिद् यः ।

VERSE: 3 { 2.4.3.3} इमं नो यज्ञं विहवे जुषस्व । अस्य कुर्मो हरिवो मेदिनं त्वा । असंमृष्टो जायसे मातृवोः शुचिः । मन्द्रः कविर् उदतिष्ठो विवस्वतः । घृतेन त्वा वर्धयन्न् अग्न आहुत । धूमस् ते केतुर् अभवद् दिवि श्रितः । अग्निर् अग्रे प्रथमो देवतानाम् । संयातानाम् उत्तमो विष्णुर् आसीत् । यजमानाय परिगृह्य देवान् । दीक्षया_इदꣳ हविर् आगच्छतं नः ।

VERSE: 4 { 2.4.3.4} अग्निश् च विष्णो तप उत्तमं महः । दीक्षापालेभ्यो वनतꣳ हि शक्रा । विश्वैर् देवैर् यज्ञियैः संविदानौ । दीक्षाम् अस्मै यजमानाय धत्तम् । प्र तद् विष्णुः स्तवते वीर्याय । मृगो न भीमः कुचरो गिरिष्ठाः । यस्य_ऊरुषु त्रिषु विक्रमणेषु । अधिक्षियन्ति भुवनानि विश्वा । नू मर्तो दयते सनिष्यन् यः । विष्णव उरुगायाय दाशत् ।

VERSE: 5 { 2.4.3.5} प्र यः सत्राचा मनसा यजातै । एतावन्तं नर्यम् आविवासात् । विचक्रमे पृथिवीम् एष एताम् । क्षेत्राय विष्णुर् मनुषे दशस्यन् । ध्रुवासो अस्य कीरयो जनासः । उरुक्षितिꣳ सुजनिमा चकार । त्रिर् देवः पृथिवीम् एष एताम् । विचक्रमे शतर्चसं महित्वा । प्र विष्णुर् अस्तु तवसस् तवीयान् । त्वेषꣳ ह्य् अस्य स्थविरस्य नाम ।

VERSE: 6 { 2.4.3.6} होतारं चित्ररथम् अध्वरस्य । यज्ञस्य यज्ञस्य केतुꣳ रुशन्तम् । प्रत्यर्धिं देवस्य देवस्य मह्ना । श्रिया त्वा_अग्निम् अतिथिं जनानाम् । आ नो विश्वाभिर् ऊतिभिः सजोषाः । ब्रह्म जुषाणो हर्यश्व याहि । वरीवृजत् स्थविरेभिः सुशिप्र । अस्मे दधद् वृषणꣳ शुष्मम् इन्द्र । इन्द्रः सुवर्षा जनयन्न् अहानि । जिगाय_उशिग्भिः पृतना अभिश्रीः ।

VERSE: 7 { 2.4.3.7} प्रारोचयन् मनवे केतुम् अह्नाम् । अविन्दज् ज्योतिर् बृहते रणाय । अश्विनाव् अवसे निह्वये वाम् । आ नूनं यातꣳ सुकृताय विप्रा । प्रातर्युक्तेन सुवृता रथेन । उपागच्छतम् अवसा_आगतं नः । अविष्टं धीष्व् अश्विना न आसु । प्रजावद् रेतो अह्रयं नो अस्तु । आवां तोके तनये तूतुजानाः । सुरत्नासो देववीतिं गमेम ।

VERSE: 8 { 2.4.3.8} त्वꣳ सोम क्रतुभिः सुक्रतुर् भूः । त्वं दक्षैःसुदक्षो विश्ववेदाः । त्वं वृषा वृषत्व् एभिर् महित्वा । द्युम्नेभिर् द्युम्न्य् अभवो नृचक्षाः । अषाढं युत्सु पृतनासु पप्रियम् । सुवर्षाम् अप्स्वां वृजनस्य गोपाम् । भरेषुजाꣳ सुक्षितिꣳ सुश्रवसम् । जयन्तं त्वाम् अनु मदेम सोम । भवा मित्रो न शेव्यो घृतासुतिः । विभूतद्युम्न एवया उ सप्रथाः ।

VERSE: 9 { 2.4.3.9} अधा { अधो} ते विष्णो विदुषाचिद् ऋध्यः । स्तोमो यज्ञस्य राध्यो हविष्मतः । यः पूर्व्याय वेधसे नवीयसे । सुमज्ज्āनये विष्णवे ददाशति । यो जातम् अस्य महतो महि ब्रवात् । सेदुः श्रवोभिर् युज्यंचिद् अभ्यसत् । तम् उ स्तोतारः पूर्व्यं यथा विद ऋतस्य । गर्भꣳ हविषा पिपर्तन । आ_अस्य जानन्तो नाम चिद् विवक्तन । बृहत् ते विष्णो सुमतिं भजामहे ।

VERSE: 10 { 2.4.3.10} इमा धाना घृतस्नुवः । हरी इह_उपवक्षतः । इन्द्रꣳ सुखतमे रथे । एष ब्रह्मा प्र ते महे । विदथे शꣳसिषꣳ हरी । य ऋत्वियः प्र ते वन्वे । वनुषो हर्यतं मदम् । इन्द्रो नाम घृतं न यः । हरिभिश् चारु सेचते । श्रुतो गण आ त्वा विशन्तु ।

VERSE: 11 { 2.4.3.11} हरिवर्पसं गिरः । आ चर्षणिप्रा वृषभो जनानाम् । राजा कृष्टीनां पुरुहूत इन्द्रः । स्तुतः श्रवस्यन्न् अवसोप मद्रिक् । युक्त्वा हरी वृषणा_आयाह्य् अर्वाङ् । प्र यत् सिन्धवः प्रसवं यद् आयन् । आपः समुद्रꣳ रथ्या_इव जग्मुः । अतश् चिद् इन्द्रः सदसो वरीयान् । यद् ईꣳ सोमः पृणाति दुग्ध्ó अꣳशुः । ह्वयामसि त्वा_इन्द्र याह्य् अर्वाङ् ।

VERSE: 12 { 2.4.3.12} अरं ते सोमस् तनुवे भवाति । शतक्रतो मादयस्वा सुतेषु । प्र_अस्माꣳ अव पृतनासु प्र युत्सु । इन्द्राय सोमाः प्रदिवो विदानाः । ऋभुर् येभिर् वृषपर्वा विहायाः । प्रयम्यमाणान् प्रति षू गृभाय । इन्द्र पिब वृषधूतस्य वृष्णः । अहेडमान उपयाहि यज्ञम् । तुभ्यं पवन्त इन्दवः सुतासः । गावो न वज्रिन्त् स्वमोको अच्छ ।

VERSE: 13 { 2.4.3.13} इन्द्र_आगहि प्रथमो यज्ञियानाम् । या ते काकुत् सुकृता या वरिष्ठा । यया शश्वत् पिबसि मध्व ऊर्मिम् । तया पाहि प्र ते अध्वर्युर् अस्थात् । सं ते वज्रो वर्तताम् इन्द्र गव्युः । प्रातर्युजा विबोधय । अश्विनाव् आ_इह गच्छतम् । अस्य सोमस्य पीतये । प्रातर्यावाणा प्रथमा यजध्वम् । पुरा गृध्राद् अररुषः पिबाथः । प्रातर् हि यज्ञम् अश्विना दधाते । प्रशꣳसन्ति कवयः पूर्वभाजः । प्रातर् यजध्वम् अश्विना हिनोत । न सायम् अस्ति देवया अजुष्टम् । उत_अन्यो अस्मद् यजते विचायः । पूर्वः पूर्वो यजमानो वनीयान् ।

अनुवाक 4 VERSE: 1 { 2.4.4.1} नक्तं जाता_अस्य् ओषधे । रामे कृष्णे असिक्नि च । इदꣳ रजनि रजय । किलासं पलितं च यत् । किलासं च पलितं च । निरितो नाशया पृषत् । आ नः स्वो अश्नुतां वर्णः । परा श्वेतानि पातय । असितं ते निलयनम् । आस्थानम् असितं तव ।

VERSE: 2 { 2.4.4.2} असिक्निय् अस्य् ओषधे । निर् इतो नाशया पृषत् । अस्थिजस्य किलासस्य । तनूजस्य च यत् त्वचि । कृत्यया कृतस्य ब्रह्मणा । लक्ष्म श्वेतम् अनीनशम् । सरूपा नाम ते माता । सरूपो नाम ते पिता । सरूपा_अस्य् ओषधे सा । सरूपम् इदं कृधि ।

VERSE: 3 { 2.4.4.3} शुनꣳ हुवेम मघवानम् इन्द्रम् । अस्मिन् भरे नृतमं वाजसातौ । शृण्वन्तम् उग्रमूतये । समत्सु । घ्नन्तं वृत्राणि संजितं धनानाम् । धूनुथ द्यां पर्वतान् दाशुषे वसु । नि वो वना जिहते यामनो भिया । कोपयथ पृथिवीं पृश्निमातरः । युधे यद् उग्राः पृषतीर् अयुग्ध्वम् । प्रवेपयन्ति पर्वतान् । विविञ्चन्ति वनस्पतीन् ।

VERSE: 4 { 2.4.4.4} प्रो ऽवारत मरुतो दुर्मदा इव । देवासः सर्वया विशा । पुरुत्रा हि सदृङ्ङ् असि । विशो विश्वा अनु प्रभु । समत्सु त्वा हवामहे । समत्स्व् अग्निम् अवसे । वाजयन्तो हवामहे । वाजेषु चित्रराधसम् । संगच्छध्वꣳ संवदध्वम् । सं वो मनाꣳसि जानताम् ।

VERSE: 5 { 2.4.4.5} देवा भागं यथा पूर्वे । संजानाना उपासत । समानो मन्त्रः समितिः समानी । समानं मनः सह चित्तम् एषाम् । समानं केतो अभि सꣳरभध्वम् । संज्ञानेन वो हविषा यजामः । समानी व आकूतिः । समाना हृदयानि वः । समानम् अस्तु वो मनः । यथा वः सुसहासति ।

VERSE: 6 { 2.4.4.6} संज्ञानं नः स्वइः । संज्ञानम् अरण्ऐः । संज्ञानम् अश्विना युवम् । इह_अस्मासु नियच्छतम् । संज्ञानं मे बृहस्पतिः । संज्ञानꣳ सविता_अकरत् । संज्ञानम् अश्विना युवम् । इह मह्यं नियच्छतम् । उप च्छायाम् इव घृणेः । अगन्म शर्म ते वयम् ।

VERSE: 7 { 2.4.4.7} अग्ने हिरण्यसंदृशः । अदब्धेभिः सवितः पायुभिष् ट्वम् । शिवेभिर् अद्य परिपाहि नो गयम् । हिरन्यजिह्वः सुविताय नव्यसे । रक्षा माकिर् नो अघशꣳस ईशत । मदे_मदे हि नो ददुः । युथा गवाम् ऋजुक्रतुः । संगृभाय पुरू { पूरू} शता । उभया हस्त्या वसु । शिशीहि राय आभर ।

VERSE: 8 { 2.4.4.41} शिप्रिन् वाजानां पते । शचीवस् तव दꣳसना । आ तू न इन्द्र भाजय । गोष्व् अश्वेषु शुभ्रुषु । सहस्रेषु तुवीमघ । यद् देवा देव हेडनम् । देवासश् चकृमा वयम् । आदित्यास् तस्मान् मा यूयम् । ऋतस्य_ऋतेन मुञ्चत । 0 ऋतस्य_ऋतेन_आदित्याः ।

VERSE: 9 { 2.4.4.42} यजत्रा मुञ्चत_इह मा । यज्ञैर् वो यज्ञवाहसः । आशिक्षन्तो न शेकिम । मेदस्वता यजमानाः । स्रुचा_आज्येन जुह्वतः । अकामा वो विश्वे देवाः । शिक्षन्तो न_उपशेकिम । यदि दिवा यदि नक्तम् । एन एनस्यो ऽकरत् । 0 भूतं मा तस्माद् भव्यं च ।

VERSE: 10 { 2.4.4.43} द्रुपदाद् इव मुञ्चतु । द्रुपदाद् इव_इन् मुमुचानः । स्विन् नः स्रात्वी मलाद् इव । पूतं पवित्रेण_इव_आज्यम् । विश्वे मुञ्चन्तु मा_एनसः । उद् वयं तमसस् परि । पश्यन्तो ज्योतिर् उत्तरम् । देवं देवत्रा सूर्यम् । अगन्म ज्योतिर् उत्तमम् ।

अनुवाक 5 VERSE: 1 { 2.4.5.44} वृषा सो अꣳशुः पवते हविष्मान्त् सोमः । इन्द्रस्य भाग ऋतयुः शत_आयुः । स मा वृषाणं वृषभं कृणोतु । प्रियं विशाꣳ सर्ववीरꣳ सुवीरम् । कस्य वृषा सते सचा । नियुत्वान् वृषभो रणत् । वृत्रहा सोमपीतये । यस् ते शृङ्ग वृषो नपात् । प्रणपात् कुण्डपाय्यः । 0 न्य् अस्मिन् दध्र आ मनः ।

VERSE: 2 { 2.4.5.45} तꣳ सध्रीचीर् ऊतयो वृष्णियानि । पौꣳस्यानि नियुतः सश्चुर् इन्द्रम् । समुद्रं न सिन्धव उक्थशुष्माः । उरुव्यचसं गिर आविशन्ति । इन्द्राय गिरो अनिशितसर्गाः । अपः प्रैरयन्त् सगरस्य बुध्नात् । यो अक्षेण_इव चक्रिया शचिभिः । विष्वक्तस्तम्भ पृथिवीम् उत द्याम् । अक्षोदयत्_शवसा क्षाम बुध्नम् । 0 वार्णवातस् तविषीभिर् इन्द्रः ।

VERSE: 3 { 2.4.5.46} दृढान्य् औघ्नाद् उशमान ओजः । अवाभिनत् ककुभः पर्वतानाम् । आ नो अग्ने सुकेतुना । रयिं विश्वायुपोषसम् । मार्ड्īकं धेहि जीवसे । त्वꣳ सोम महे भगम् । त्वं यून ऋतायते । दक्षं दधासि जीवसे । रथं युञ्जते मरुतः शुभे सुगम् सूरो न मित्रावरुणा गविष्टिषु ।

VERSE: 4 { 2.4.5.47} रजाꣳसि चित्रा विचरन्ति तन्यवः । दिवः सम्राजा पयसा न उक्षतम् । वाचꣳ सु मित्रावरुणाव् इरावतीम् । पर्जन्यश् चित्रां वदति त्विषीमतीम् । अभ्रा वसत मरुतः सु मायया । द्यां वर्षयतम् अरुणाम् अरेपसम् । अयुक्त सप्त शुन्ध्युवः । सूरो रथस्य नप्त्र्íयः । ताभिर् याति स्वयुक्तिभिः । 0 वहिष्ठेभिर् विहरन् यासि { वीहष्ठेभिर् वहरन् यासि} तन्तुम् ।

VERSE: 5 { 2.4.5.48} अवव्ययन्न् असितं देव वस्वः । दविध्वतो रश्मयः सूर्यस्य । चर्म_इव_अवाधुस् तमो अप्स्व् अन्तः । पर्जन्याय प्रगायत । दिवस् पुत्राय मीढुषे । स नो यवसम् इच्छतु । अच्छा वद तवसं गीर्भिर् आभिः { आभि} । स्तुहि पर्जन्यं नमसा विवास । कनिक्रदद् वृषभो जीरदानुः । 0 रेतो दधात्व् ओषधीषु गर्भम् ।

VERSE: 6 { 2.4.5.49} यो गर्भम् ओषधीनाम् । गवां कृणोत्य् अर्वताम् । पर्जन्यः पुरुषीणाम् । तस्मा इदास्ये हविः । जुहोता मधुमत्तमम् । इडां नः संयतं करत् । तिस्रो यद् अग्ने शरदस् त्वाम् इत् । शुचिं घृतेन शुचयः सपर्यन् । नामानि चिद् दधिरे यज्ञियानि । 0 असूदयन्त तनुवः सुजाताः ।

VERSE: 7 { 2.4.5.50} इन्द्रश् च नः शुनासीरौ । इमं यज्ञं मिमिक्षतम् । गर्भं धत्तꣳ स्वस्तये । ययोर् इदं विश्वं भुवनम् आविवेश । ययोर् आनन्दो निहितो महश् च । शुनासीराव् ऋतुभिः संविदानौ । इन्द्रवन्तौ हविर् इदं { हृदिरिदं} जुषेथाम् । आ घा ये अग्निम् इन्धते । स्तृणन्ति बर्हिर् आनुषक् । 0 येषाम् इन्द्रो युवा सखा । 1 अग्ने इन्द्रश् च मेदिना । 2 हथो वृत्राण्य् अप्रति । 3 युवꣳ हि वृत्रहन्तमा । 4 याभ्याꣳ सुवर् अजयन्न् अग्र एव । 5 याव् आतस्थतुर् भुवनस्य मध्ये । 6 प्रचर्षणी वृषणा वज्रबाहू । 7 अग्नी इन्द्रा वृत्रहणा हुवे वाम् ।

अनुवाक 6 VERSE: 1 { 2.4.6.51} उत नः प्रिया प्रियासु । सप्तस्वसा { सप्तस्वसा} सुजुष्टा । सरस्वती स्तोम्या_अभूत् । इमा जुह्वाना युष्मद् आ नमोभिः । प्रति स्तोमꣳ सरस्वति जुषस्व । तव शर्मन् प्रियतमे दधानाः । उपस्थेयाम शरणं न वृक्षम् । त्रीणि पदा विचक्रमे । विष्णुर् गोपा अदाभ्यः । 0 ततो धर्माणि धारयन् ।

VERSE: 2 { 2.4.6.52} तद् अस्य प्रियम् अभि पाथो अश्याम् । नरो यत्र देवयवो मदन्ति । उरुक्रमस्य स हि बन्धुर् इत्था । विष्णोः पदे परमे मध्व उत्सः । क्रत्वा दा अस्थु श्रेष्ठः । अद्य त्वा वन्वन्त् सुरेक्णाः । मर्त आनाश सुवृक्तिम् । इमा ब्रह्म ब्रह्मवाह । प्रिया त आ बर्हिः सीद । 0 वीहि सूर पुरोडाशम् ।

VERSE: 3 { 2.4.6.53} उप नः सूनवो गिरः । शृण्वन् त्वम् ऋतस्य ये । सुमृडीका भवन्तु नः । अद्या नो देव सवितः । प्रजावत् सावीः सौभगम् । परा दुष्ष्वप्नियꣳ {आनंदा. दुष्ष्वप्निꣳ} सुव । विश्वानि देव सवितः । दुरितानि परासुव । यद् भद्रं तन् म आसुव । 0 शुचिम् अर्कैर् बृहस्पतिम् ।

VERSE: 4 { 2.4.6.54} अध्वरेषु नमस्यत । अनाम्य् ओज आचके । या_अधारयन्त देवा सुदक्षा दक्षपितारा । असुर्याय प्रमहसा । स इत् क्षेति सुधित ओकसि स्वे । तस्मा इडा पिन्वते विश्वदानी । तस्मै विशः स्वयम् एवाऽऽनमन्ति । यस्मिन् ब्रह्मा राजनि पूर्व एति । सकूतिम् इन्द्र सच्युतिम् । 0 सच्युतिं जघनच्युतिम् ।

VERSE: 5 { 2.4.6.55} कनात् काभां न आभर । प्रयप्स्यन्न् इव सक्थ्यउ । वि न इन्द्र मृधो जहि । कनीखुनद् इव सापयन् । अभि नः सुष्टुतिं नय । प्रजापतिः स्त्रियां यशः । मुष्कयोर् अदधात् सपम् । कामस्य तृप्तिम् आनन्दम् । तस्य_अग्ने भाजय_इह मा । 0 मोदः प्रमोद आनन्दः ।

VERSE: 6 { 2.4.6.56} मुष्कयोर् निहितः सपः । सृत्वा_इव कामस्य तृप्याणि । दक्षिणानां प्रतिग्रहे । मनसश् चित् तम् आकूतिम् । वाचः सत्यम् अशीमहि । पशूनाꣳ रूपम् अन्नस्य । यशः श्रीः श्रयतां मयि । यथा_अहम् अस्या अतृपꣳ स्त्रियै पुमान् । यथा स्त्री तृप्यति पुꣳसि प्रिये प्रिया । 0 एवं भगस्य तृप्याणि ।

VERSE: 7 { 2.4.6.57} यज्ञस्य काम्यः प्रियः । ददामि_इत्य् अग्निर् वदति । तथा_इति वायुर् आह तत् । हन्त_इति सत्यं चन्द्रमाः । आदित्यः सत्यम् ओम् इति । आपस् तत् सत्यम् आभरन् । यशो यज्ञस्य दक्षिणाम् । असौ मे कामः समृध्यताम् । न हि स्पशम् अविदन्न् अन्यम् अस्मात् । 0 वैश्वानरात् पुरएतारम् { पुर तारम्} अग्नेः ।

VERSE: 8 { 2.4.6.58} अथ_इम् अमन्थन्न् अमृतम् अमूराः । वैश्वानरं क्षेत्रजित्याय देवाः । येषाम् इमे पूर्वे अर्मास आसन् । अयूपाः सद्म विभृता पुरूणि । वैश्वानर त्वया ते नुत्ताः । पृथिवीम् अन्याम् अभितस्थुर् जनासः । पृथिवीं मातरं महीम् । अन्तरिक्षम् उपब्रुवे । बृहतीमूतये दिवम् । 0 विश्वं बिभर्ति पृथिवी {आनंदा. पृथिवीम्} ।

VERSE: 9 { 2.4.6.59} अन्तरिक्षं विपप्रथे । दुहे द्यौर् बृहती पयः । न ता नशन्ति न दभाति तस्करः । न_एना अमित्रो व्यथिर् आदधर्षति { व्यथिरादधर्षति} । देवाꣳश् च याभिर् यजते ददाति च । ज्योग् इत् ताभिः सचते गोपतिः सह । न ता अर्वा रेणुककाटो अश्नुते । न सꣳस्कृतत्रम् उपयन्ति ता अभि । उरुगायम् अभयं तस्य ता अनु । 0 गावो मर्त्यस्य विचरन्ति यज्वनः ।

VERSE: 10 { 2.4.6.60} रात्री व्यख्यद् आयती । पुरुत्रा देव्यक्षभिः । विश्वा अधि श्रियो ऽधित । {नोत् इन् } उप ते गा इव_अकरम् । वृणीष्व दुहितर् दिवः । रात्री स्तोमं न जिग्युषी । देवीं वाचम् अजनयन्त देवाः । तां विश्वरूपाः पशवो वदन्ति । सा नो मन्द्रेषमूर्जं दुहाना धेनुर् वाग् अस्मान् उप सुष्टुता_एतु { सुष्टतैतु} ।

VERSE: 11 { 2.4.6.61} यद् वाग् वदन्त्य् अविचेतनानि । राष्ट्री देवानां निषसाद मन्द्रा । चतस्र ऊर्जं दुदुहे पयाꣳसि । क्व स्विद् अस्याः परमं जगाम । गौरी मिमाय सलिलानि तक्षती । एकपदी द्विपदी सा चतुष्पदी । अष्टापदी नवपदी बभूवुषी । सहस्र_अक्षरा परमे व्योमन् । तस्याꣳ समुद्रा अधि विक्षरन्ति । 0 तेन जीवन्ति प्रदिशश् चतस्रः ।

VERSE: 12 { 2.4.6.62} ततः क्षरत्य् अक्षरम् । तद् विश्वम् उपजीवति । इन्द्रा सूरा जनयन् विश्वकर्मा । मरुत्वाꣳ अस्तु गणवान्त् सजातवान् । अस्य स्नुषा श्वशुरस्य प्रशिष्टिम् । सपत्ना वाचं मनसा उपासताम् । इन्द्रः सूरो अतरद् रजाꣳसि । स्नुषा सपत्नः श्वशुरो ऽयम् अस्तु । अयꣳ शत्रूञ् जयतु जर्हृषाणः । 0 अयं वाजं जयतु वाजसातौ । 1 अग्निः क्षत्रभृद् अनिभृष्टम् ओजः । 2 सहस्रियो दीप्यताम् अप्रयुच्छन् । 3 विभ्राजमानः समिधान उग्रः । 4 आ_अन्तरिक्षम् अरुहद् अगन् द्याम् ।

अनुवाक 7 VERSE: 1 { 2.4.7.63} वृषा_अस्य् अꣳशुर् वृषभाय गृह्यसे । वृषा_अयम् उग्रो नृचक्षसे । दिव्यः कर्मण्यो हितो बृहन् नाम । वृषभस्य या ककुत् । विषूवान् विष्णो भवतु । अयं यो मामको वृषा । अथो इन्द्र इव देवेभ्यः । विब्रवीतु जनेभ्यः । आयुष्मन्तं वर्चस्वन्तम् । 0 अथो अधिपतिं विशाम् ।

VERSE: 2 { 2.4.7.64} अस्याः पृथिव्या अध्यक्षम् । इमम् इन्द्र वृषभं कृणु । यः सुशृङ्गः सुवृषभः । कल्याणो द्रोण आहितः । कार्षीवलप्रगाणेन । वृषभेण यजामहे । वृषभेण यजमानाः । अक्रूरेण_इव सर्पिषा । मृधश् च सर्वा इन्द्रेण । 0 पृतनाश् च जयामसि ।

VERSE: 3 { 2.4.7.65} यस्य_अयम् ऋषभो हविः । इन्द्राय परिणीयते । जयाति शत्रुम् आयन्तम् । अथो हन्ति पृतन्यतः । नृणाम् अह प्रणीर् असत् । अग्र उद्भिन्दताम् असत् । इन्द्र शुष्मं तनुवा मेरयस्व । नीचा विश्वा अभितिष्ठ_अभिमातीः । निशृणीह्य् आबाधं यो नो अस्ति । 0 उरुं नो लोकं कृणुहि जीरदानो ।

VERSE: 4 { 2.4.7.66} प्रेह्य् अभिप्रेहि प्रभरा सहस्व । मा विवेनो विशृणुष्वा जनेषु । उद् ईडितो वृषभ तिष्ठ शुष्मैः । इन्द्र शत्रून् पुरो अस्माक युध्य । अग्ने जेता त्वं जय । शत्रून्त् सहस ओजसा । वि शत्रून् विमृधो नुद । एतं ते स्तोमं तुविजात विप्रः । रथं न धीरः स्वपा अतक्षम् । 0 यद् ईद् अग्ने प्रति त्वं देव हर्याः ।

VERSE: 5 { 2.4.7.67} सुवर्वतीर् अप एना जयेम । यो घृतेन_अभिमानितः । इन्द्र जैत्राय जज्ञिषे । स नः संकासु पारय । पृतनासाह्येषु च । इन्द्रो जिगाय पृथिवीम् । अन्तरिक्षꣳ सुवर् महत् । वृत्रहा पुरुचेतनः । इन्द्रो जिगाय सहसा सहाꣳसि । 0 इन्द्रो जिगाय पृतनानि विश्वा ।

VERSE: 6 { 2.4.7.68} इन्द्रो जातो वि पुरो रुरोज । स नः परस्पा वरिवः कृणोतु । अयं कृत्नुर् अगृभीतः । विश्वजिद् उद्भिद् इत् सोमः । ऋषिर् विप्रः काव्येन । वायुर् अग्रेगा यज्ञप्रीः । साकं गन् मनसा यज्ञम् । शिवो नियुद्भिः शिवाभिः । वायो शुक्रो अयामि ते । 0 मध्वो अग्रं दिविष्टिषु ।

VERSE: 7 { 2.4.7.69} आयाहि सोमपीतये । स्वारुहो देव नियुत्वता । इमम् इन्द्र वर्धय क्षत्रियाणाम् । अयं विशां विश्पतिर् अस्तु राजा । अस्मा इन्द्र महि वर्चाꣳसि धेहि । अवर्चसं कृणुहि शत्रुम् अस्य । इमम् आभज ग्रामे अश्वेषु गोषु । निर् अमुं भज यो ऽमित्रो अस्य । वर्ष्मन् क्षत्रस्य ककुभि श्रयस्व । 0 ततो न उग्रो विभजा वसूनि ।

VERSE: 8 { 2.4.7.70} अस्मे द्यावापृथिवी भूरि वामम् । संदुहाथां घर्मदुघा_इव धेनुः । अयꣳ राजा प्रिय इन्द्रस्य भूयात् । प्रियो गवाम् ओषधीनाम् उत_अपाम् । युनज्मि त उत्तरावन्तम् इन्द्रम् । येन जयासि न पराजयासै । स त्वा_अकर् एकवृषभꣳ स्वानाम् । अथो राजन्न् उत्तमं मानवानाम् । उत्तरस् त्वम् अधरे ते सपत्नाः । 0 एकवृषा इन्द्रसखा जिगीवान् ।

VERSE: 9 { 2.4.7.71} विश्वा आशाः पृतनाः संजयं जयन् । अभितिष्ठ शत्रूयतः सहस्व । तुभ्यं भरन्ति क्षितयो यविष्ठ । बलिम् अग्ने अन्ति त ओत दूरात् । आ भन्दिष्ठस्य सुमतिं चिकिद्धि । बृहत् ते अग्ने महि शर्म भद्रम् । यो देह्यो अनमयद् वधस्न्áइः । यो अर्यपत्नीर् उषसश् चकार । स निरुध्या नहुषो यह्वो अग्निः । 0 विशश् चक्रे बलिहृतः सहोभिः ।

VERSE: 10 { 2.4.7.72} प्र सद्यो अग्ने अत्येष्य् अन्यान् । आविर् यस्मै चारुतरो बभूथ । ईडे ऽन्यो वपुष्यो विभावा । प्रियो विशाम् अतिथिर् मानुषीणाम् । ब्रह्म ज्येष्ठा वीर्या संभृतानि । ब्रह्माग्रे ज्येष्ठं दिवम् आततान । ऋतस्य ब्रह्म प्रथमा_उत जज्ञे । तेन_अर्हति ब्रह्मणा स्पर्धितुं कः । ब्रह्म स्रुचो घृतवतीः । 0 ब्रह्मणा स्वरवो मिताः ।

VERSE: 11 { 2.4.7.73} ब्रह्म यज्ञस्य तन्तवः । ऋत्विजो ये हविष्कृतः । शृङ्गाणि_इव_इत्_शृङ्गिणाꣳ संददृश्रिरे । चषालवन्तः स्वरवः पृथिव्याम् । ते देवासः स्वरवस् तस्थिवाꣳसः । नमः सखिभ्यः सन्नान् मा_अवगात । अभिभूर् अग्निर् अतरद् रजाꣳसि । स्पृधो विहत्य पृतना अभिश्रीः । जुषाणो म आहुतिं मा महिष्ट । 0 हत्वा सपत्नान् वरिवस्करं नः । 1 ईशानं त्वा भुवनानाम् अभिश्रियम् । 2 स्तौम्य् अग्न उरुकृतꣳ सुवीरम् । 3 हविर् जुषाणः सपत्नाꣳ अभिभूर् असि । 4 जहि शत्रूꣳर् अप मृधो नुदस्व ।

अनुवाक 8 VERSE: 1 { 2.4.8.74} स प्रत्नवन् नवीयसा । अग्ने द्युम्नेन संयता । बृहत् तनन्थ भानुना । नवं नु स्तोमम् अग्नये । दिवः श्येनाय जीजनम् । वसोः कुविद् वनाति नः । स्वारुहा यस्य श्रियो दृशे । रयिर् वीरवतो यथा । अग्रे यज्ञस्य चेततः । 0 अदाभ्यः पुरएता ।

VERSE: 2 { 2.4.8.75} अग्निर् विशां मानुषीणाम् । तूर्णी रथः सदा नवः । नवꣳ सोमाय वाजिने । आज्यं पयसो ऽजनि । जुष्टꣳ शुचितमं वसु । नवꣳ सोम जुषस्व नः । पीयूषस्य_इह { पीयूषस्व्येह} तृप्णुहि । यस् ते भाग ऋता वयम् । नवस्य सोम ते वयम् । 0 आ सुमतिं वृणीमहे ।

VERSE: 3 { 2.4.8.76} स नो रास्व सहस्रिणः । नवꣳ हविर् जुषस्व नः । ऋतुभिः सोम भूतमम् । तद् अङ्ग प्रतिहर्य नः । राजन्त् सोम स्वस्तये । नवꣳ स्तोमं नवꣳ हविः । इन्द्राग्निभ्यां निवेदय । तज् जुषेताꣳ सचेतसा । शुचिं नु स्तोमं नवजातम् अद्य । 0 इन्द्राग्नी वृत्रहणा जुषेथाम् ।

VERSE: 4 { 2.4.8.77} उभा हि वाꣳ सुहवा जोहवीमि । ता वाजꣳ सद्य उशते धेष्ठा । अग्निर् इन्द्रो नवस्य नः । अस्य हव्यस्य तृप्यताम् । इह देवौ सहस्रिणौ । यज्ञं न आ हि गच्छताम् । वसुमन्तꣳ सुवर्विदम् । अस्य हव्यस्य तृप्यताम् । अग्निर् इन्द्रो नवस्य नः । 0 {नोत् इन् } विश्वान् देवाꣳस् तर्पयत ।

VERSE: 5 { 2.4.8.78} हविषो ऽस्य नवस्य नः । सुवर्विदो हि जज्ञिरे । आ _इदं बर्हिः सुष्टरीमा नवेन । अयं यज्ञो यजमानस्य भागः । अयं बभूव भुवनस्य गर्भः । विश्वे देवा इदम् अद्य_आगमिष्ठाः । इमे नु द्यावापृथिवी समीची । तन्वाने यज्ञं पुरुपेशसं धिया । आ _अस्मै पृणीतां भुवनानि विश्वा । 0 प्रजां पुष्टिम् अमृतं नवेन ।

VERSE: 6 { 2.4.8.79} इमे धेनू अमृतं ये दुहाते । पयस्वत्य् उत्तराम् एतु पुष्टिः । इमं यज्ञं जुषमाणे नवेन । समीची द्यावापृथिवी घृताची । यविष्ठो हव्यवाहनः । चित्रभानुर् घृतासुतिः । नवजातो विरोचसे । अग्ने तत् ते महित्वनम् । त्वम् अग्ने देवताभ्यः । 0 भागे देव न मीयसे ।

VERSE: 7 { 2.4.8.80} स एना विद्वान् यक्ष्यसि । नवꣳ स्तोमं जुषस्व नः । अग्निः प्रथमः प्राश्नातु । स हि वेद यथा हविः । शिवा अस्मभ्यम् ओषधीः । कृणोतु विश्वचर्षणिः । भद्रान् नः श्रेः समनैष्ट देवाः । त्वया वसेन समशीमहि त्वा । स नो मयोभूः पितो आविशस्व । 0 शं तोकाय तनुवे स्योनः । 1 एतम् उ त्यं मधुना संयुतं यवम् । 2 सरस्वत्या अधिमनाव चर्क्रुषुः { चर्क्र्̥ष्टुः} । 3 इन्द्र आसीत् सीरपतिः शतक्रतुः । 4 कीनाशा आसन् मरुतः सुदानवः ।




प्रपाठक: 5 अनुवाक 1 VERSE: 1 { 2.5.1.1} प्राणो रक्षति विश्वम् एजत् । इर्यो भूत्वा बहुधा बहूनि । स इत् सर्वं व्यानशे । यो देवो देवेषु विभूर् अन्तः । आवृद् ऊदात् क्षेत्रियध्वगद् {क्षेत्री_अध्वगद्?} वृषा । तम् इत् प्राणं मनसोपशिक्षत । अग्रं देवानाम् इदम् अत्तु नो हविः । मनसश् चित्ता_इदम् । भूतं भव्यं च गुप्यते । 0 तद् धि देवेष्व् अग्रियम् ।

VERSE: 2 { 2.5.1.2} आ न एतु पुरश्चरम् । सह देवैर् इमꣳ हवम् । मनः श्रेयसि_श्रेयसि । कर्मन् यज्ञपतिं दधत् । जुषतां मे वाग् इदꣳ हविः । विराड् देवी पुरोहिता । हव्यवाड् अनपायिनी । यया रूपाणि बहुधा वदन्ति । पेशाꣳसि देवाः परमे जनित्रे । 0 सा नो विराड् अनपस्फुरन्ती ।

VERSE: 3 { 2.5.1.3} वाग् देवी जुषताम् इदꣳ हविः । चक्षुर् देवानां ज्योतिर् अमृते न्यक्तम् । अस्य विज्ञानाय बहुधा निधीयते । तस्य सुम्नम् { सुम्रम्} अशीमहि । मा नो हासीद् विचक्षणम् । आयुर् इत् _नः प्रतीर्यताम् । अनन्धाश् चक्षुषा वयम् । जीवा ज्योतिर् अशीमहि । सुवर् ज्योतिर् उत_अमृतम् । 0 श्रोत्रेण भद्रम् उत शृण्वन्ति सत्यम् । 1 श्रोत्रेण वाचं बहुधा_उद्यमानाम् । 2 श्रोत्रेण मोदश् च महश् च श्रूयते । 3 श्रोत्रेण सर्वा दिश आशृणोमि । 4 येन प्राच्या उत दक्षिणा । 5 प्रतीच्यै दिशः शृण्वन्त्य् उत्तरात् । 6 तद् इत् _श्रोत्रं बहुधा उद्यमानम् । 7 अरान् न नेमिः परि सर्वं बभूव ।

अनुवाक 2 VERSE: 1 { 2.5.2.4} उदेहि वाजिन्यो अस्य् अप्स्व् अन्तः । इदꣳ राष्ट्रम् आविश सूनृतावत् । यो रोहितो विश्वम् इदं जजान । स नो राष्ट्रेषु सुधितान् दधातु । रोहꣳ_रोहꣳ रोहित आरुरोह । प्रजाभिर् वृद्धिं जनुषाम् उपस्थम् । ताभिः सꣳरब्धो अविदत् षड् उर्वीः । गातुं प्रपश्यन्न् इह राष्ट्रम् आहाः । आहार्षीद् राष्ट्रम् इह रोहितः । 0 मृधो व्यास्थद् अभयं नो अस्तु ।

VERSE: 2 { 2.5.2.5} अस्मभ्यं द्यावापृथिवी शक्वरीभिः । राष्ट्रं दुहाथाम् इह रेवतीभिः । विममर्श रोहितो विश्वरूपः । समाचकाणः प्ररुहो रुहश् च । दिवं गत्वाय महता महिम्ना । वि नो राष्ट्रम् उनत्तु पयसा स्वेन । यास् ते विशस् तपसा संबभूवुः । गायत्रं वत्सम् अनु तास् त आगुः । तास् त्वा विशन्तु महसा स्वेन । 0 सं माता पुत्रो अभ्येतु रोहितः ।

VERSE: 3 { 2.5.2.6} यूयम् उग्रा मरुतः पृश्निमातरः । इन्द्रेण सयुजा प्रमृणीथ शत्रून् । आ वो रोहितो अशृणोद् अभिद्यवः । त्रिसप्तासो मरुतः स्वादुसंमुदः । रोहितो द्यावापृथिवी जजान । तस्मिꣳस् तन्तुं परमेष्ठी ततान । तस्मिन्_शिश्रिये अज एकपात् । अदृꣳहद् द्यावापृथिवी बलेन । रोहितो द्यावापृथिवी अदृꣳहत् । 0 तेन सुवः स्तभितं तेन नाकः ।

VERSE: 4 { 2.5.2.7} सो अन्तरिक्षे रजसो विमानः । तेन देवाः सुवर् अन्वविन्दन् । सुशेवं त्वा भानवो दीदिवाꣳसम् । समग्रासो जुह्वो जातवेदः । उक्षन्ति त्वा वाजिनम् आ घृतेन । सꣳसम् अग्ने युवसे भोजनानि । अग्ने शर्ध महते सौभगाय । तव द्युम्नान्य् उत्तमानि सन्तु । सं जास्पत्यꣳ सुयमम् आकृणुष्व । 0 शत्रूयताम् अभितिष्ठा महाꣳसि ।

अनुवाक 3 VERSE: 1 { 2.5.3.8} पुनर् न इन्द्रो मघवा ददातु । धनानि शक्रो घन्यः सुराधाः । अर्वाचीनम् कृणुतां याचितो मनः । श्रुष्टी नो अस्य हविषो जुषाणः । यानि नो जिनन् धनानि । जहर्थ शूर मन्युना । इन्द्र_अनुविन्द नस् तानि । अनेन हविषा पुनः । इन्द्र आशाभ्यः परि । 0 सर्वाभ्यो ऽभयं करत् ।

VERSE: 2 { 2.5.3.9} जेता शत्रून् विचर्षणिः । आकूत्यै त्वा कामाय त्वा समृधे त्वा । पुरो दधे अमृतत्वाय जीवसे । आकूतिम् अस्य_अवसे । कामम् अस्य समृद्ध्यै । इन्द्रस्य युञ्जते धियः । आकूतिं देवीं मनसः पुरो दधे । यज्ञस्य माता सुहवा मे अस्तु । यद् इच्छामि मनसा सकामः । 0 विदेयम् एनद् धृदये निविष्टम् ।

VERSE: 3 { 2.5.3.10} स_इद् अग्निर् अग्नीꣳर् अत्येत्य् अन्यान् । यत्र वाजी तनयो वीडुपाणिः । सहस्रपाथा अक्षरा समेति । आशानां त्वा_आशापालेभ्यः । चतुर्भ्यो अमृतेभ्यः । इदं भूतस्य_अध्यक्षेभ्यः । विधेम हविषा वयम् । विश्वा आशा मधुना सꣳसृजामि । अनमीवा आप ओषधयो भवन्तु । 0 अयं यजमानो मृधो व्यस्यताम् ।

VERSE: 4 { 2.5.3.11} अगृभीताः पशवः सन्तु सर्वे । अग्निः सोमो वरुणो मित्र इन्द्रः । बृहस्पतिः सविता यः सहस्री । पूषा नो गोभिर् अवसा सरस्वती । त्वष्टा रूपाणि समनक्तु यज्ञैः {आनंदा. यज्ञः} । त्वष्टा रूपाणि दधती सरस्वती । पूषा भगꣳ सविता नो ददातु । बृहस्पतिर् ददद् इन्द्रः सहस्रम् । मित्रो दाता वरुणः सोमो अग्निः ।

अनुवाक 4 VERSE: 1 { 2.5.4.12} आ नो भर भगम् इन्द्र द्युमन्तम् । नि ते देष्णस्य धीमहि प्ररेके । उर्व इव पप्रथे कामो अस्मे । तम् आपृणा वसुपते वसूनाम् । इमं कामं मन्दया गोभिर् अश्वैः । चन्द्रवता राधसा पप्रथश् च । सुवर्यवो मतिभिस् तुभ्यं विप्राः । इन्द्राय वाहः कुशिकासो अक्रन् । इन्द्रस्य नु वीर्याणि प्रवोचम् । 0 यानि चकार प्रथमानि वज्री ।

VERSE: 2 { 2.5.4.13} अहन्न् अहिम् अन्व् अपस् ततर्द । प्र वक्षणा अभिनत् पर्वतानाम् । अहन्न् अहिं पर्वते शिश्रियाणम् । त्वष्टा_अस्मै वज्रꣳ स्वर्यं ततक्ष । वाश्रा इव धेनवः स्यन्दमानाः । अञ्जः समुद्रम् अवजग्मुर् आपः । वृषायमाणो ऽवृणीत {आनंदा. वृणीत} सोमम् । त्रिकद्रुकेष्व् अपिबत् सुतस्य । आ सायकं मघवा_आदत्त वज्रम् । 0 अहन्न् एनं प्रथमजाम् अहीनाम् ।

VERSE: 3 { 2.5.4.14} यद् इन्द्र_अहन् प्रथमजाम् अहीनाम् । आत् _मायिनाम् अमिनाः प्रोत मायाः । आत् सूर्यं जनयन् द्याम् उषासम् । तादीक्न्ā शत्रून् न किल_आविवित्से । अहन् वृत्रं वृत्रतरं व्यꣳसम् । इन्द्रो वज्रेण महता वधेन । स्कन्धाꣳसि_इव कुलिशेना विवृक्णा । अहिः शयत उपपृक् पृथिव्याम् । अयोध्य् एव दुर्मद आ हि जुह्वे । 0 महावीरं तु विबाधम् ऋजीषम् ।

VERSE: 4 { 2.5.4.15} न_आतारीर् अस्य समृतिं वधानाम् । सꣳ रुजानाः । पिपिष इन्द्रशत्रुः । विश्वो विहाया अरतिः । वसुर् दधे हस्ते दक्षिणे । तरणिर् न शिश्रथत् । श्रवस्यया न शिश्रथत् । विश्वस्मा इद् इषुध्यसे । देवत्रा हव्यमूहिषे । 0 विश्वस्मा इत् सुकृते वारम् ऋण्वति । 1 अग्निर् द्वारा व्यृण्वति ।

VERSE: 5 { 2.5.4.16} उद् उज्जिहानो अभि कामम् ईरयन् । प्रपृञ्चन् विश्वा भुवनानि पूर्वथा । आ केतुना सुषमिद्धो यजिष्ठः । कामं नो अग्ने अभिहर्य दिग्भ्यः । जुषाणो हव्यमम् ऋतेषु दूड्ह्य्àः । आ नो रयिं बहुला गोमतीम् इषम् । निधेहि यक्षद् अमृतेषु भूषन् । अश्विना यज्ञम् आगतम् । दाशुषः पुरुदꣳससा । 0 पूषा रक्षतु नो रयिम् ।

VERSE: 6 { 2.5.4.17} इमं यज्ञम् अश्विना वर्धयन्ता । इमौ रयिं यजमानाय धत्तम् । इमौ पशून् रक्षतां विश्वतो नः । पूषा नः पातु सदम् अप्रयुच्छन् । प्र ते महे सरस्वति । सुभगे वाजिनीवति । सत्यवाचे भरे मतिम् । इदं ते हव्यं घृतवत् सरस्वति । सत्यवाचे प्रभरेमा हवीꣳषि । 0 इमानि ते दुरिता सौभगानि । 1 तेभिर् वयꣳ सुभः स्याम ।

अनुवाक 5 VERSE: 1 { 2.5.5.18} यज्ञो रायो यज्ञ ईशे वसूनाम् । यज्ञः सस्यानाम् उत सुक्षितीनाम् । यज्ञ इष्टः पूर्वचित्तिं दधातु । यज्ञो ब्रह्मण्वाꣳ अप्येतु देवान् । अयं यज्ञो वर्धतां गोभिर् अश्वैः । इयं वेदिः स्वपत्या सुवीरा । इदं बर्हिर् अति बर्हीꣳष्य् अन्या । इमं यज्ञं विश्वे अवन्तु देवाः । भग एव भगवाꣳ अस्तु देवाः । 0 तेन वयं भगवन्तः स्याम ।

VERSE: 2 { 2.5.5.19} तं त्वा भग सर्व इत् _ जोहवीमि । स नो भग पुरएता भव_इह । भग प्रणेतर् भग सत्यराधः । भग_इमां धियम् उद् अवददन् नः । भग प्र णो जनय गोभिर् अश्वैः । भग प्र नृभिर् नृवन्तः स्याम । शश्वतीः समा उपयन्ति लोकाः । शश्वतीः समा उपयन्त्य् आपः । इष्टं पूर्तꣳ शश्वतीनाꣳ समानाꣳ शाश्वतेन । 0 हविषा_इष्ट्वा_अनन्तं लोकं परम् आरुरोह ।

VERSE: 3 { 2.5.5.20} इयम् एव सा या प्रथमा व्यौच्छत् । सा रूपाणि कुरुते पञ्च देवी । द्वे स्वसारौ वयतस् तन्त्रम् एतत् । सनातनं विततꣳ षण्मयूखम् । अव_अन्याꣳस् तन्तून् किरतो धत्तो अन्यान् । न_अवपृज्याते न गमाते अन्तम् । आ वो यन्तु_उदवाहासो अद्य । वृष्टिं ये विश्वे मरुतो जुनन्ति । अयं यो अग्निर् मरुतः समिद्धः । 0 एतं जुषध्वं कवयो युवानः ।

VERSE: 4 { 2.5.5.21} धारावरा मरुतो धृष्णु व् ओजसः {?} । मृगा न भीमास् तविषेभिर् ऊर्मिभिः । अग्नयो न शुशुचाना ऋजीषिणः । भ्रुमिं धमन्त उप गा अवृण्वत । विचक्रमे त्रिर् देवः । आवेधसं नीलपृष्ठं बृहन्तम् । बृहस्पतिꣳ सदने सादयध्वम् । सादद्योनिं दम आदीदिवाꣳसम् । हिरण्यवर्णम् अरुषꣳ सपेम । 0 स हि शुचिः शतपत्रः स शुन्ध्यूः ।

VERSE: 5 { 2.5.5.22} हिरण्यवाशीर् इषिरः सुवर्षाः । बृहस्पतिः स स्वावेश ऋष्वाः । पूरू सखिभ्य आसुतिं करिष्ठः । पूषꣳस् तव व्रते वयम् । न रिष्येम कदा चन । स्तोतारस् त इह स्मसि । यास् ते पूषन् नावो अन्तः समुद्रे । हिरण्ययीर् अन्तरिक्षे चरन्ति । याभिर् यासि दूत्याꣳ सूर्यस्य । 0 कामेन कृतः श्रव इच्छमानः ।

VERSE: 6 { 2.5.5.23} अरण्यान्य् अरण्यान्य् असौ । या प्र_इव नश्यसि । कथा ग्रामं न पृच्छसि । न त्वा भीर् इव विन्दती3 । वृषारवाय वदते । यद् उपावति चिच्चिकः । आघाट्ī́भिर् इव धावयन् । अरण्यानिर् महीयते । उत गाव इवाऽऽदन् । 0 उतो वेश्म_इव दृश्यते ।

VERSE: 7 { 2.5.5.24} उतो अरण्यानिः सायम् । शकट्ī́र् इव सर्जति । गाम् अङ्ग_एष आह्वयति । दार्व् अङ्ग_एष उपावर्धीत् । वसन्न् अरण्यान्याꣳ सायम् । अक्रुक्षद् इति मन्यते । न वा अरण्यानिर् हन्ति । अन्यश् च_इन् न_अभिगच्छति । स्वादोः फलस्य जग्ध्वा । 0 यत्र कामं निपद्यते । 1 आञ्जनगन्धीꣳ सुरभीम् । 2 बह्वन्नाम् अकृषीवलाम् । 3 प्र_अहं मृगाणां मातरम् । 4 अरण्यानीम् अशꣳसिषम् ।

अनुवाक 6 VERSE: 1 { 2.5.6.25} वार्त्रहत्याय शवसे । पृतनासाह्याय च । इन्द्र त्वावर्तयामसि । सुब्रह्माणं वीरवन्तं बृहन्तम् । उरुं गभीरं पृथुबुध्नम् इन्द्र । श्रुतर्षिम् उग्रम् अभिमातिषाहम् । अस्मभ्यं चित्रं वृषणꣳ रयिं दाः । क्षेत्रियै त्वा निर्ऋत्यै { निŕ̥ऋत्यै} त्वा । द्रुहो मुञ्चामि वरुणस्य पाशात् । 0 अनागसं ब्रह्मणे त्वा करोमि ।

VERSE: 2 { 2.5.6.26} शिवे ते द्यावापृथिवी उभे इमे । शं ते अग्निः सह_अद्भिर् अस्तु । शं ते चतस्रः प्रदिशो भवन्तु । या दैवीश् चतस्रः प्रदिशः । वातपत्नीर् अभि सूर्यो विचष्टे । तासां त्वा जरस आदधामि । प्र यक्ष्म एतु निर्ऋतिं { निŕ̥ऋतिं} पराचैः । अमोचि यक्ष्माद् दुरिताद् अवर्त्यै ।

VERSE: 3 { 2.5.6.27} द्रुहः पाशान् निर्ऋत्यै { निŕ̥ऋत्यै} च_उदमोचि । अहा अवर्तिम् अविदत् स्योनम् । अप्यभूद् भद्रे सुकृतस्य लोके । सूर्यम् ऋतं तमसो ग्राह्या यत् । देवा अमुञ्चन्न् असृजन् व्येनसः । एवम् अहम् इमं क्षेत्रियाज् जामिशꣳसात् । द्रुहो मुञ्चामि वरुणस्य पाशात् । बृहस्पते युवम् इन्द्रश् च वस्वः । दिव्यस्य_इशाथे उत पार्थिवस्य । 0 धत्तꣳ रयिꣳ स्तुवते कीरये चित् ।

VERSE: 4 { 2.5.6.28} यूयं पात स्वस्तिभिः सदा नः । देवायुधम् इन्द्रम् आजोहुवानाः । विश्वावृधम् अभि ये रक्षमाणाः । येन हता दीर्घम् अध्वानम् आयन् । अनन्तम् अर्थम् निवर्त्स्यमानाः । यत् ते सुजाते हिमवत्सु भेषजम् । मयोभूः शंतमा यद् धृदो ऽसि । ततो नो देहि सीबले । अदो गिरिभ्यो अधि यत् प्रधावसि । 0 सꣳशोभमाना कन्या_ìव शुभ्रे ।

VERSE: 5 { 2.5.6.29} तां त्वा मुद्गला हविषा वर्धयन्ति । सा नः सीबले रयिम् आभाजय_इह । पूर्वं देवा अपरेण_अनुपश्यञ् जन्मभिः । जन्म_अन्यवरैः पराणि । वेदानि देवा अयम् अस्मि_इति माम् । अहꣳ हित्वा शरीरं जरसः परस्तात् । प्राणापानौ चक्षुः श्रोत्रम् । वाचं मनसि संभृताम् । हित्वा शरीरं जरसः परस्तात् । 0 आ भूतिं भूतिं वयम् अश्नवामहै । 1 इमा एव ता उषसो याः प्रथमा व्यौच्छन् । 2 ता देव्यः कुर्वते पञ्च रूपा । 3 शश्वतीर् न_अवपृज्यन्ति । 4 न गमन्त्य् अन्तम् ।

अनुवाक 7 VERSE: 1 { 2.5.7.30} वसूनां त्वा_अधीतेन । रुद्राणामूर्म्या । आदित्यानां तेजसा । विश्वेषां देवानां क्रतुना । मरुताम् एम्ना जुहोमि स्वाहा । अभिभूतिर् अहम् आगमम् । इन्द्रसखा स्वायुधः । आस्स्व_आशासु { आस्वाशासु} दुष्ष्áहः । इदं वर्चो अग्निना दत्तम् आगात् । 0 यशो भर्गः सह ओजो बलं च ।

VERSE: 2 { 2.5.7.31} दीर्घायुत्वाय शतशारदाय । प्रतिगृभ्णामि महते वीर्याय । आयुर् असि विश्वायुर् असि । सर्वायुर् असि सर्वम् आयुर् असि । सर्वं म आयुर् भूयात् । सर्वम् आयुर् गेषम् । भूर् भुवः सुवः । अग्निर् धर्मेण_अन्नादः । मृत्युर् धर्मेण_अन्नपतिः । 0 ब्रह्म क्षत्रꣳ स्वाहा ।

VERSE: 3 { 2.5.7.32} प्रजापतिः प्रणेता । बृहस्पतिः पुरएता । यमः पन्थाः । चन्द्रमाः पुनरसुः स्वाहा । अग्निर् अन्नादो ऽन्नपतिः । अन्नाद्यम् अस्मिन् यज्ञे यजमानाय ददातु स्वाहा । सोमो राजा राजपतिः । राज्यम् अस्मिन् यज्ञे यजमानाय ददातु स्वाहा । वरुणः सम्राट् सम्राट्पतिः । 0 साम्राज्यम् अस्मिन् यज्ञे यजमानाय ददातु स्वाहा ।

VERSE: 4 { 2.5.7.33} मित्रः क्षत्रं क्षत्रपतिः । क्षत्रम् अस्मिन् यज्ञे यजमानाय ददातु स्वाहा । इन्द्रो बलं बलपतिः । बलम् अस्मिन् यज्ञे यजमानाय ददातु स्वाहा । बृहस्पतिर् ब्रह्म ब्रह्मपतिः । ब्रह्मास्मिन् यज्ञे यजमानाय ददातु स्वाहा । सविता राष्ट्रꣳ राष्ट्रपतिः । राष्ट्रम् अस्मिन् यज्ञे यजमानाय ददातु स्वाहा । पूषा विशां विट्पतिः विशम् अस्मिन् यज्ञे यजमानाय ददातु स्वाहा । 0 सरस्वती पुष्टिः पुष्टिपत्नी । 1 पुष्टिम् अस्मिन् यज्ञे यजमानाय ददातु स्वाहा । 2 त्वष्टा पशूनां मिथुनानाꣳ रूपकृद् रुपपतिः । 3 रूपेण_अस्मिन् यज्ञे यजमानाय पशून् ददातु स्वाहा ।

अनुवाक 8 VERSE: 1 { 2.5.8.34} स ईं पाहि य ऋजीषी तरुत्रः । यश्श्íप्रवान् वृषभो यो मतीनाम् । यो गोत्रभिद् वज्रभृद् यो हरिष्ठाः । स इन्द्र चित्राꣳ अभितृन्धि वाजान् । आ ते शुष्मो वृषभ एतु पश्चात् । आ_उत्तराद् अधरागा पुरस्तात् । आ विश्वतो अभि समेत्व् अर्वाङ् । इन्द्र द्युम्नꣳ सुवर्वद् धेह्य् अस्मे । प्रोष्व् अस्मै पुरोरथम् । 0 इन्द्राय शूषम् अर्चत ।

VERSE: 2 { 2.5.8.35} अभीके चिद् उ लोककृत् । सङ्गे समत्सु वृत्रहा । अस्माकं बोधि चोदिता । नभन्ताम् अन्यकेषाम् । ज्याका अधि धन्वसु । इन्द्रं वयꣳ शुनासीरम् । अस्मिन् यज्ञे हवामहे । आ वाजैर् उप नो गमत् । इन्द्राय शुनासीराय । 0 स्रुचा जुहुत नो हविः ।

VERSE: 3 { 2.5.8.36} जुषतां प्रति मेधिरः । प्र हव्यानि घृतवन्त्य् अस्मै । हर्यश्वाय भर्ता सजोषाः । इन्द्र_ऋतुभिर् ब्रह्मणा वावृधानः । शुनासीरी हविर् इदं जुषस्व । वयः सुपर्णा उपसेदुर् इन्द्रम् । प्रियमेधा ऋषयो नाधमानाः । अप ध्वान्तमूर्णुहि पूर्धि चक्षुः । मुमुग्ध्य् अस्मान् निधय_इव बद्धान् । 0 बृहद् इन्द्राय गायत ।

VERSE: 4 { 2.5.8.37} मरुतो वृत्रहन्तमम् । येन ज्योतिर् अजनयन्न् ऋतावृधः । देवं देवाय जागृवि । का मिहैकाः क इमे पतङ्गाः । मान्थालाः कुलि परि मा पतन्ति । अनावृता_एनान् प्रधमन्तु देवाः । सौपर्णं चक्षुस् तनुवा विदेय । एवाऽऽवन्दस्व वरुणं बृहन्तम् । नमस्या धीरम् अमृतस्य गोपाम् । 0 स नः शर्म त्रिवरूथं वियꣳसत् ।

VERSE: 5 { 2.5.8.38} यूयं पात स्वस्तिभिः सदा नः । नाके सुपर्णम् उप यत् पतन्तम् । हृदा वेनन्तो अभ्यचक्षत त्वा । हिरण्यपक्षं वरुणस्य दूतम् । यमस्य योनौ शकुनं भुरण्युम् । शं नो देवीर् अभिष्टये । आपो भवन्तु पीतये । शं योर् अभिस्रवन्तु नः । ईशाना वार्याणाम् । 0 क्षयन्तीश् चर्षणीनाम् ।

VERSE: 6 { 2.5.8.39} अपो याचामि भेषजम् । अप्सु मे सोमो अब्रवीत् । अन्तर् विश्वानि भेषजा । अग्निं च विश्वशंभुवम् । आपश् च विश्वभेषजीः । यद् अप्सु ते सरस्वति । गोष्व् अश्वेषु यन् मधु । तेन मे वाजिनीवति । मुखम् {F अङ्ग्धि} {आनंदा. अङ्ग्धि} {BI अङ्धि} { अङ्ग्धि} सरस्वति । 0 या सरस्वती वैशम्भल्या ।

VERSE: 7 { 2.5.8.40} तस्यां मे रास्व । तस्यास् ते भक्षीय । तस्यास् ते भूयिष्ठभाजो भूयास्म । अहं त्वद् अस्मि मद् असि त्वम् एतत् । मम_असि योनिस् तव योनिर् अस्मि । मम_इव सन् वह हव्यान्य् अग्ने । पुत्रः पित्रे लोककृत्_ जातवेदः । इहैव सन् तत्र सन्तं त्वा_अग्ने । प्राणेन वाचा मनसा बिभर्मि । 0 तिरो मा सन्तम् आयुर् मा प्रहासीत् ।

VERSE: 8 { 2.5.8.41} ज्योतिषा त्वा वैश्वानरेण_उपतिष्ठे । अयं ते योनिर् ऋत्वियः । यतो जातो अरोचथाः । तं जानन्न् अग्न आरोह । अथा नो वर्धया रयिम् । या ते अग्ने यज्ञिया तनूस् तया_इह्य् {BI तपेह्य्} आरोह_आत्मानम् {आनंदा. आरोहात्मानम्} { आरोहात्मात्मानम्} {BI आरोहात्यात्मानं} । अच्छा {F वसूनि} {BI वसूति} कृण्वन्न् अस्मे {BI अस्मिन्} नर्या पुरूणि । यज्ञो भूत्वा यज्ञम् आसीद स्वां योनिम् । जातवेदो भुव आजायमानः सक्षय एहि । 0 उपावरोह जातवेदः पुनस् त्वम् ।

VERSE: 9 { 2.5.8.42} देवेभ्यो हव्यं वह नः प्रजानन् । आयुः प्रजाꣳ रयिम् अस्मासु धेहि । अजस्रो दीदिहि नो दुरोणे । तम् इन्द्रं जोहवीमि । मघवानम् उग्रम् । सत्रादधानम् अप्रतिष्कुतꣳ शवाꣳसि । मꣳहिष्ठो गीर्भिर् आ च यज्ञियो ऽववर्तत् { ववर्तत्} । राये नो विश्वा सुपथा कृणोतु {आनंदा. कृणोत} वज्री । त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस् तृपत् । 0 सोमम् अपिबद् विष्णुना सुतं यथा_अवशत् । 1 स ईं ममाद महि कर्म कर्तवे महाम् उरुम् ।

VERSE: 10 { 2.5.8.43} सैनꣳ सश्चद् देवं देवः सत्यम् इन्दुꣳ सत्य इन्द्रः । विदद् यती सरमा रुग्णम् अद्रेः । महि पाथः पूर्व्यꣳ सध्रियक्कः । अग्रं नयत् सुपद्य् अक्षराणाम् । अच्छा रवं प्रथमा जानती गात् । विदद् गव्यꣳ सरमा दृढमूर्वम् । येना नुकं मानुसी भोजते विट् । आ ये विश्वा स्वपत्यानि चक्रुः । कृण्वानासो अमृतत्वाय गातुम् । 0 त्वं नृभिर् नृपते देवहूतौ ।

VERSE: 11 { 2.5.8.44} भूरीणि वृत्वा हर्यश्व हꣳसि । त्वं निदस्युं चुमुरिम् । धुनिं च_अस्वापयो दभीतये सुहन्तु । एवा पाहि प्रत्नथा मन्दतु त्वा । श्रुधि ब्रह्म वावृधस्व_उत गीर्भिः । आविः सूर्यं कृणुहि पीपिहीषः । जहि शत्रूꣳर् {आनंदा. शत्रूꣳस्} अभि गा इन्द्र तृन्धि । अग्ने बाधस्व वि मृधो नुदस्व । अप_अमीवा अप रक्षाꣳसि सेध । 0 अस्मात् समुद्राद् बृहतो दिवो नः ।

VERSE: 12 { 2.5.8.45} अपां भूमानम् उप नः सृज_इह । यज्ञ प्रतितिष्ठ सुमतौ {F सुशेवा} {आनंदा. सुशेवा} {BI सुशवा} { सेशेवा} आ त्वा । वसूनि पुरुधा विशन्तु । दीर्घम् आयुर् यजमानाय कृण्वन् । {F अधामृतेन} {आनंदा. अधामृतेन} {BI अथामृतेन} { अधामृतेन} जरितारम् {F अङ्ग्धि} {आनंदा. अङ्ग्धि} {BI अङ्धि} { अङ्ग्धि} । इन्द्रः शुनावद् वितनोति सीरम् । संवत्सरस्य प्रतिमाणम् एतत् । अर्कस्य ज्योतिस् तद् इद् आस ज्येष्ठम् । संवत्सरꣳ शुनवत् सीरम् एतत् । 0 इन्द्रस्य राधः प्रयतं पुरु त्मना । 1 तद् अर्करूपं विमिमानम् एति । 2 द्वादश_अरे प्रतितिष्ठति_इद् वृषा । 3 अश्वायन्तो गव्यन्तो वाजयन्तः । 4 हवामहे त्वा_उपगन्त वा उ । 5 आभूषन्तस् त्वा सुमतौ नवायाम् । 6 वयम् इन्द्र त्वा शुनꣳ हुवेम ।




प्रपाठक: 6 अनुवाक 1 VERSE: 1 { 2.6.1.1} स्वाद्वीं त्वा स्वादुना । तीव्रां तीव्रेण । अमृताम् अमृतेन । मधुमतीं मधुमता । सृजामि सꣳ सोमेन । सोमो ऽस्य् अश्विभ्यां पच्यस्व । सरस्वत्यै पच्यस्व । इन्द्राय सुत्राम्णे पच्यस्व । परि_इतो षिञ्चता सुतम् । 0 सोमो य उत्तमꣳ हविः ।

VERSE: 2 { 2.6.1.2} दधन्वा[दधन्वान्?] यो नर्यो अप्स्व् अन्तर् आ । सुषव सोमम् अद्रिभिः । पुनातु ते परिस्रुतम् । सोमꣳ सूर्यस्य दुहिता । वारेण शश्वता तना । वायुः पूतः पवित्रेण । प्राङ् सोमो अतिद्रुतः ।

VERSE: 3 { 2.6.1.3} इन्द्रस्य युज्यः सखा । ब्रह्म क्षत्रं पवते तेज इन्द्रियम् । सुरया सोमः सुत आसुतो मदाय । शुक्रेण देव देवताः पिपृग्धि । रसेन_अन्नं यजमानाय धेहि । कुविद् अङ्ग यवमन्तो यवं चित् । यथा दान्त्य् अनुपूर्वं वियूय । इह_इहैषां कृणुत भोजनानि । ये बर्हिषो नमोवृक्तिं न जग्मुः । 0 उपयामगृहीतो ऽस्य् अश्विभ्यां त्वा जुष्टं गृह्णामि ।

VERSE: 4 { 2.6.1.4} सरस्वत्या इन्द्राय सुत्राम्णे । एष ते योनिस् तेजसे त्वा । वीर्याय त्वा बलाय त्वा । तेजो ऽसि तेजो मयि धेहि । वीर्यम् असि वीर्यं मयि धेहि । बलम् असि बलं मयि धेहि । नाना हि वां देवहितꣳ सदः कृतम् । मा सꣳसृक्षाथां परमे व्योमन् । सुरा त्वम् असि शुष्मिणी सोम एषः । 0 मा मा हिꣳसीः स्वां योनिम् आविशन् ।

VERSE: 5 { 2.6.1.5} उपयामगृहीतो ऽस्य् आश्विनं तेजः । सारस्वतं वीर्यम् । ऐन्द्रं बलम् । एष ते योनिर् मोदाय त्वा । आनन्दाय त्वा महसे त्वा । ओजो ऽस्य् ओजो मयि धेहि । मन्युर् असि मन्युं मयि धेहि । महो ऽसि महो मयि धेहि । सहो ऽसि सहो मयि धेहि । 0 या व्याघ्रं विषूचिका । 1 उभौ वृकं च रक्षति । 2 श्येनं पतत्रिणꣳ सिꣳहम् । 3 सा_इमं पात्व् अꣳहसः । 4 संपृचः स्थ {ड्युमोण्ट संपृच स्थ} सं मा भद्रेण पृङ्क्त । 5 विपृचः स्थ {ड्युमोण्ट विपृच स्थ} वि मा पाप्मना पृङ्क्त ।

अनुवाक 2 VERSE: 1 { 2.6.2.6} सोमो राजा_अमृतꣳ सुतः । ऋजीषेण_अजहान् मृत्युम् । ऋतेन सत्यम् इन्द्रियम् । विपानꣳ शुक्रम् अन्धसः । इन्द्रस्य_इन्द्रियम् । इदं पयो ऽमृतं मधु । सोमम् अद्भ्यो व्यपिबत् । छन्दसा हꣳसः शुचिषत् । ऋतेन सत्यम् इन्द्रियम् । 0 अद्भ्यः क्षीरं व्यपिबत् ।

VERSE: 2 { 2.6.2.7} क्रुङ्ङ् आङ्गिरसो धिया । ऋतेन सत्यम् इन्द्रियम् । अन्नात् परिस्रुतो रसम् । ब्रह्मणा व्यपिबत् क्षत्रम् । ऋतेन सत्यम् इन्द्रियम् । रेतो मूत्रं विजहाति । योनिं प्रविशद् इन्द्रियम् । गर्भो जरायुणा_आवृतः । उल्बं जहाति जन्मना । 0 ऋतेन सत्यम् इन्द्रियम् ।

VERSE: 3 { 2.6.2.8} वेदेन रूपे व्यकरोत् । सतासती प्रजापतिः । ऋतेन सत्यम् इन्द्रियम् । सोमेन सोमौ व्यपिबत् । सुतासुतौ प्रजापतिः । ऋतेन सत्यम् इन्द्रियम् । दृष्ट्वा रूपे व्याकरोत् । सत्यानृते प्रजापतिः । अश्रद्धाम् अनृते ऽदधात् । 0 श्रद्धाꣳ सत्ये प्रजापतिः । 1 ऋतेन सत्यम् इन्द्रियम् । 2 दृष्ट्वा परिस्रुतो रसम् । 3 शुक्रेण शुक्रं व्यपिबत् । 4 पयः सोमं प्रजापतिः । 5 ऋतेन सत्यम् इन्द्रियम् । 6 विपानꣳ शुक्रम् अन्धसः । 7 इन्द्रस्य_इन्द्रियम् । 8 इदं पयो ऽमृतं मधु ।


अनुवाक 3 VERSE: 1 { 2.6.3.9} {अ} सुरावन्तं बर्हिषदꣳ सुवीरम् । यज्ञꣳ हिन्वन्ति महिषा नमोभिः । दधानाः सोमं दिवि देवतासु । मदेम_इन्द्रं यजमानाः स्वर्काः । {ब्} यस् ते रसः संभृत ओषधीषु । सोमस्य शुष्मः सुरया सुतस्य । तेन जिन्व यजमानं मदेन । सरस्वतीम् अश्विनाव् इन्द्रम् अग्निम् । {च्} यम् अश्विना नमुचेर् आसुराद् अधि । 0 सरस्वत्य् असनोद् इन्द्रियाय ।

VERSE: 2 { 2.6.3.10} इमं तꣳ शुक्रं मधुमन्तम् इन्दुम् । सोमꣳ राजानम् इह भक्षयामि । {द्} यद् अत्र रिप्तꣳ रसिनः सुतस्य । यद् इन्द्रो अपिबत्_शचीभिः । अहं तद् अस्य मनसा शिवेन । सोमꣳ राजानम् इह भक्षयामि । {ए} पितृभ्यः स्वधाविभ्यः स्वधा नमः । पितामहेभ्यः स्वधाविभ्यः स्वधा नमः । प्रपितामहेभ्यः स्वधाविभ्यः स्वधा नमः । 0 अक्षन् पितरः ।

VERSE: 3 { 2.6.3.11} अमीमदन्त पितरः । अतीतृपन्त पितरः । अमीमृजन्त पितरः । पितरः शुन्धध्वम् । {f} पुनन्तु मा पितरः सोम्यासः । पुनन्तु मा पितामहाः । पुनन्तु प्रपितामहाः । पवित्रेण शत_आयुषा । {ग्} पुनन्तु मा पितामहाः । 0 पुनन्तु प्रपितामहाः ।

VERSE: 4 { 2.6.3.12} पवित्रेण शत_आयुषा । विश्वम् आयुर् व्यश्नवै । {ह्} अग्न आयूꣳषि पवसे, {इ} ऽग्ने पवस्व । {ज्} पवमानः सुवर्जनः, {क्} पुनन्तु मा देवजनाः । {ल्} जातवेदः पवित्रवद्, {म्} यत् ते पवित्रम् अर्चिषि । {न्} उभाभ्यां देव सवितर्, {ओ} वैश्वदेवी पुनती । {प्} ये समानाः समनसः । पितरो यमराज्ये । तेषां लोकः स्वधा नमः । 0 यज्ञो देवेषु कल्पताम् ।

VERSE: 5 { 2.6.3.13) {q} ये सजाताः समनसः । जीवा जीवेषु मामकाः । तेषाꣳ श्रीर् मयि कल्पताम् । अस्मिन्_लोके शतꣳ समाः । {र्} द्वे स्रुती अशृणवं पितृणाम् । अहं देवानाम् उत मर्त्यानाम् । याभ्याम् {ड्युमोण्ट ताभ्याम्} इदं विश्वम् एजत् समेति । यद् अन्तरा पितरं मातरं च । {स्} इदꣳ हविः प्रजननं मे अस्तु । 0 दशवीरꣳ सर्वगणꣳ स्वस्तये । 1 आत्मसनि प्रजासनि । 2 पशुसन्य् अभयसनि लोकसनि । 3 अग्निः प्रजां बहुलां मे करोतु । 4 अन्नं पयो रेतो अस्मासु धत्त । 5 रायस् पोषम् इषमूर्जम् अस्मासु दीधरत् स्वाहा ।

अनुवाक 4 VERSE: 1 { 2.6.4.14} {अ} सीसेन तन्त्रं मनसा मनीषिणः । ऊर्णासूत्रेण कवयो वयन्ति । अश्विना यज्ञꣳ सविता सरस्वती । इन्द्रस्य रूपं वरुणो भिषज्यन् । {ब्} तद् अस्य रूपम् अमृतꣳ शचीभिः । तिस्रो दधुर् देवताः सꣳरराणाः । लोमानि शष्पैर् बहुधा न तोक्मभिः । त्वग् अस्य माꣳसम् अभवन्न लाजाः । {च्} तद् अश्विना भिषजा रुद्रवर्तनी । 0 सरस्वती वयति पेशो अन्तरः {ड्युमोण्ट अन्तरम् च्f. Vष्.19.82} ।

VERSE: 2 { 2.6.4.15} अस्थि मज्जानं मासरैः । कारोतरेण दधतो गवां त्वचि । {द्} सरस्वती मनसा पेशलं वसु । नासत्याभ्यां वयति दर्शतं वपुः । रसं परिस्रुता न रोहितम् । नग्नहुर् धीरस् तसरं न वेम । {ए} पयसा शुक्रम् अमृतं जनित्रम् । सुरया मूत्राज् जनयन्ति रेतः । अप_अमतिं दुर्मतिं बाधमानाः । 0 ऊवध्यं वातꣳ सबुवं तद् आरात् ।

VERSE: 3 { 2.6.4.16} {f} इन्द्रः सुत्रामा हृदयेन सत्यम् । पुरोडाशेन सविता जजान । यकृत् क्लोमानं वरुणो भिषज्यन् {आनंदा. भिषज्यन्} । मतस्ने वायव्यैर् न मिनाति पित्तम् । {ग्} आन्त्राणि स्थाली मधु पिन्वमाना । गुदा {ड्युमोण्ट गुदाः} पात्राणि सुदुघा न धेनुः । श्येनस्य पत्रं न प्लीहा शचीभिः । आसन्दी नाभिर् उदरं न माता । {ह्} कुम्भो वनिष्ट्हुर् जनिता शचीभिः । 0 यस्मिन्न् अग्रे योन्यां गर्भो अन्तः ।

VERSE: 4 { 2.6.4.17} प्लाशीर् व्यक्तः शतधार उत्सः । दुहे न कुम्भीꣳ स्वधां पितृभ्यः । {इ} मुखꣳ सद् अस्य शिर इत् सदेन {ड्युमोण्ट सतेन} । जिह्वा पवित्रम् अश्विना सꣳ सरस्वती । चप्यं { चप्पं} न पायुर् भिषग् अस्य वालः । वस्तिर् न शेपो हरसा तरस्वी । {ज्} अश्विभ्यां चक्षुर् अमृतं ग्रहाभ्याम् । छागेन तेजो हविषा शृतेन । पक्ष्माणि गोधूमैः क्वलैर् उतानि । 0 पेशो न शुक्लम् असितं वसाते ।

VERSE: 5 {!} { 2.6.4.18} {क्} अविर् न मेषो नसि वीर्याय । प्राणस्य पन्था अमृतो ग्रहाभ्याम् । सरस्वत्य् उप वाकैर् व्यानम् । नस्यानि बर्हिर् बदरैर्जजान । {ल्} इन्द्रस्य रूपम् ऋषभो बलाय । कर्णभ्याꣳ श्रोत्रम् अमृतं ग्रहाभ्याम् । यवा न बर्हिर् भ्रुवि केसराणि । कर्कन्धु { कर्कन्दु} जज्ञे मधु सारघं मुखात् । {म्} आत्मन्न् उपस्थे न वृकस्य लोम । 0 मुखे श्मश्रूणि न व्याघ्रलोमम् {ड्युमोण्ट व्याघ्रलोमन्} ।

VERSE: 6 {!} { 2.6.4.19} केशा न शीर्षन् यशसे श्रियै शिखा । सिꣳहस्य लोम त्विषिर् इन्द्रियाणि । {न्} अङ्गान्य् आत्मन् भिषजा तद् अश्विना । आत्मानम् अङ्गैः समधात् सरस्वती । इन्द्रस्य रूपꣳ शतमानम् आयुः । चन्द्रेण ज्योतिर् अमृतं दधाना । {ओ} सरस्वती योन्यां गर्भम् अन्तः । अश्विभ्यां पत्नी सुकृतं बिभर्ति । अपाꣳ रसेन वरुणो न साम्ना । 0 इन्द्रꣳ श्रियै जनयन्न् अप्सु राजा । 1 {प्} तेजः पशूनाꣳ हविर् इन्द्रियावत् । 2 परिस्रुता पयसा सारघं मधु । 3 अश्विभ्यां दुग्धं भिषजा सरस्वत्या, सुतासुताभ्याम् {।} अमृतः सोम इन्दुः ।


अनुवाक 5 VERSE: 1 { 2.6.5.20} {अ} मित्रो ऽसि वरुणो ऽसि । {ब्} सम् अहं विश्वैर् देवैः । {च्} क्षत्रस्य नाभिर् असि । क्षत्रस्य योनिर् असि । {द्} स्योनाम् आसीद । सुषदाम् आसीद । {ए} मा त्वा हिꣳसीत् । मा मा हिꣳसीत् । {f} निषसाद धृतव्रतो वरुणः । 0 पस्त्यास्व् आ ।

VERSE: 2 { 2.6.5.21} साम्राज्याय सुक्रतुः । {ग्} देवस्य त्वा सवितुः प्रसवे । अश्विनोर् बाहुभ्याम् । पूष्णो हस्ताभ्याम् । अश्विनोर् भैषज्येन । तेजसे ब्रह्मवर्चसाय_अभिषिञ्चामि । {ह्} देवस्य त्वा सवितुः प्रसवे । अश्विनोर् बाहुभ्याम् । पूष्णो हस्ताभ्याम् । 0 सरस्वत्यै भैषज्येन ।

VERSE: 3 { 2.6.5.22} वीर्याय_अन्नाद्याय_अभिषिञ्चामि । {इ} देवस्य त्वा सवितुः प्रसवे । अश्विनोर् बहुभ्याम् । पूष्णो हस्ताभ्याम् । इन्द्रस्य_इन्द्रियेण । श्रियै यशसे बलाय_अभिषिञ्चामि । {ज्} को ऽसि कतमो ऽसि । कस्मै त्वा काय त्वा । {क्} सुश्लोका3ꣳ { सुश्लोका4ꣳ} सुमङ्गला3ꣳ { सुमङ्गला4ꣳ} सत्यराजा3न् । 0 {ल्} शिरो मे श्रीः ।

VERSE: 4 { 2.6.5.23} यशो मुखम् । त्विषिः केशाश् च श्मश्रूणि । राजा मे प्राणो ऽमृतम् । सम्राट् चक्षुः । विराज्_श्रोत्रम् । जिह्वा मे भद्रम् । वाङ् महः । मनो मन्युः । स्वराड् भामः । 0 मोदाः प्रमोदा अङ्गुलीर् अङ्गानि ।

VERSE: 5 { 2.6.5.24} चित्तं मे सहः । बाहू मे बलम् इन्द्रियम् । हस्तौ मे कर्म वीर्यम् । आत्मा क्षत्रम् उरो मम । पृष्टीर् मे राष्ट्रम् उदरम्, अꣳसौ {।} ग्रीवाश् च श्रोण्यौ । ऊरू अरत्नी जानुनी । विशो मे ऽङ्गानि सर्वतः । नाभिर् मे चित्तं विज्ञानम् । पायुर् मे ऽपचितिर् भसत् ।

VERSE: 6 { 2.6.5.25} आनन्दनन्दाव् आण्डौ मे । भगः सौभाग्यं पसः । {म्} जङ्घाभ्यां पद्भ्यां धर्मो ऽस्मि । विशि राजा प्रतिष्ठितः । {न्} प्रति क्षत्रे प्रतितिष्ठति राष्ट्रे । प्रत्य् अश्वेषु प्रतितिष्ठामि गोषु । प्रत्य् अङ्गेषु प्रतितिष्ठाम्य् आत्मन् । प्रति प्राणेषु प्रतितिष्ठामि पुष्टे । प्रति द्यावापृथिव्योः । 0 प्रतितिष्ठामि यज्ञे ।

VERSE: 7 { 2.6.5.26} {ओ} त्रया देवा एकादश । त्रयस्त्रिꣳशाः सुराधसः । बृहस्पतिपुरोहिताः । देवस्य सवितुः सवे । देवा देवैर् अवन्तु मा । प्रथमा द्वितीयैः । द्वितीयास् तृतीयैः । तृतीयाः सत्येन । सत्यं यज्ञेन । 0 यज्ञो यजुर्भिः ।

VERSE: 8 { 2.6.5.27} यजूꣳषि सामभिः । सामान्य् ऋग्भिः । ऋचो याज्याभिः । याज्या वषट्कारैः । वषट्कारा आहुतिभिः । आहुतयो मे कामान्त् समर्धयन्तु । भूः स्वाहा । {प्} लोमानि प्रयतिर् मम । त्वङ् म आनतिर् आगतिः । 0 माꣳसं म उपनतिः वस्व् अस्थि । 1 मज्जा म आनतिः ।


अनुवाक 6 VERSE: 1 { 2.6.6.28} {अ} यद् देवा देवहेडनम् । देवासश् चकृमा वयम् । अग्निर् मा तस्माद् एनसः । विश्वान् मुञ्चत्व् अꣳहसः । {ब्} यदि दिवा यदि नक्तम् । एनाꣳसि चकृमा वयम् । वायुर् मा तस्माद् एनसः । विश्वान् मुञ्चत्व् अꣳहसः । {च्} यदि जाग्रद् यदि स्वप्ने । 0 एनाꣳसि चकृमा वयम् ।

VERSE: 2 { 2.6.6.29} सूर्यो मा तस्माद् एनसः । विश्वान् मुञ्चत्व् अꣳहसः । {द्} यद् ग्रामे यद् अरण्ये । यत् सभायां यद् इन्द्रिये । यत्_शूद्रे यद् अर्ये । एनश् चकृमा वयम् । यद् एकस्य_अधि धर्मणि । {एनश् चकृमा वयम् । यदेकस्याधि धर्मणि} । 0 तस्य_अवयजनम् असि । 1 {ए} यद् आपो अघ्निया वरुण_इति शपामहे । 2 ततो वरुण नो मुञ्च ।

VERSE: 3 { 2.6.6.30} {f} अवभृथ निचङ्कुण निचेरुर् असि निचङ्कुण । अव देवैर् देवकृतम् एनो ऽयाट् । अव मर्त्यैर् मर्त्यकृतम् । उरोर् आ नो देव रिषस् पाहि । {ग्} सुमित्रा न आप ओषधयः सन्तु । दुर्मित्रास् तस्मै भुयासुः । यो ऽस्मान् द्वेष्टि । यं च वयं द्विष्मः । {ह्} द्रुपदाद् इव_इन् मुमुचानः । 0 स्विन्नः स्रात्वी मलाद् इव ।

VERSE: 4 { 2.6.6.31} पूतं पवित्रेण_इव_आज्यम् । आपः शुन्धन्तु मा_एनसः । {इ} उद् वयं तमसस् परि । पश्यन्तो ज्योतिर् उत्तरम् । देवं देवत्रा सूर्यम् । अगन्म ज्योतिर् उत्तमम् । {ज्} प्रतियुतो वरुणस्य पाशः । प्रत्यस्तो वरुणस्य पाशः । {क्} एधो ऽस्य् एधिषीमहि । 0 समिद् असि ।

VERSE: 5 { 2.6.6.32} तेजो ऽसि तेजो मयि धेहि । {ल्} अपो अन्वचारिषम् । रसेन समसृक्ष्महि । पयस्वाꣳ अग्न आगमम् । तं मा सꣳसृज वर्चसा । प्रजया च धनेन च । {म्} समाववर्ति पृथिवी । सम् उषाः । सम् उ सूर्यः । 0 सम् उ विश्वाम् इदं जगत् । 1 वैश्वानरज्योतिर् भूयासम् । 2 विभुं कामं व्यश्नवै । 3 {न्} भूः स्वाहा ।

अनुवाक 7 VERSE: 1 { 2.6.7.33} {अ} होता यक्षत् समिधा_इन्द्रम् इडस् पदे । नाभा पृथिव्या अधि । दिवो वर्ष्मन्त् समिध्यते । ओजिष्ठश् चर्षणीसहान् {ड्युमोण्ट चर्षनीसहम्} । वेत्व् आज्यस्य होतर् यज । {ब्} होता यक्षत् तनूनपातम् । ऊतिभिर्, जेतारम् अपराजितम् । इन्द्रं देवꣳ सुवर्विदम् । पथिभिर् मधुमत्तमैः । 0 नराशꣳसेन तेजसा ।

VERSE: 2 { 2.6.7.34} वेत्व् आज्यस्य होतर् यज । {च्} होता यक्षद् इडाभिर् इन्द्रम् ईडितम् । आजुह्वानम् अमर्त्यम् । देवो देवैः सवीर्यः । वज्रहस्तः पुरंदरः । वेत्व् आज्यस्य होतर् यज । {द्} होता यक्षद् बर्हिषि_इन्द्रं निषद्वरम् । वृषभं नर्यापसम् । वसुभी रुद्रैर् आदित्यैः । 0 सयुग्भिर् बर्हिर् आसदत् ।

VERSE: 3 { 2.6.7.35} वेत्व् आज्यस्य होतर् यज । {ए} होता यक्षद् ओजो न वीर्यम् । सहो, द्वार इन्द्रम् अवर्धयन् । सुप्रायणा विश्रयन्ताम् ऋतावृधः । द्वार इन्द्राय मीढुषे । वियन्त्व् आज्यस्य होतर् यज । {f} होता यक्षद् उषे इन्द्रस्य धेनू । सुदुघे मातरौ मही । सवातरौ {,आनंदा. सवातरौ} न तेजसी । 0 वत्सम् इन्द्रम् अवर्धताम् ।

VERSE: 4 {!} { 2.6.7.36} वीताम् आज्यस्य होतर् यज । {ग्} होता यक्षद् दैवया होतारा । भिषजा सखाया । हविषा_इन्द्रं भिषज्यतः, कवी देवौ प्रचेतसौ । इन्द्राय धत्त इन्द्रियम् । वीताम् आज्यस्य होतर् यज । {ह्} होता यक्षत् तिस्रो देवीः । त्रयस् त्रिधातवो ऽपसः । इडा सरस्वती भारती ।

VERSE: 5 {!} { 2.6.7.37} मही,_इन्द्रपत्नीर् हविष्मतीः । वियन्त्व् आज्यस्य होतर् यज । {ज्} होता यक्षत् त्वष्टारम् इन्द्रं देवम् । भिषजꣳ सुयजं घृतश्रियम् । पुरुरूपꣳ सुरेतसं मघोनिम् । इन्द्राय त्वष्टा दधद् इन्द्रियाणि । वेत्व् आज्यस्य होतर् यज । {ज्} होता यक्षद् वनस्पतिम् शमितारꣳ शतक्रतुम् । धियो जोष्टारम् इन्द्रियम् ।

VERSE: 6 {!} { 2.6.7.38} मध्वा समञ्जन् पथिभिः सुगेभिः । स्वदाति हव्यं मधुना घृतेन । वेत्व् आज्यस्य होतर् यज । {क्} होता यक्षद् इन्द्रꣳ स्वाहा_आज्यस्य । स्वाहा मेदसः । स्वाहा स्तोकानाम् । स्वाहा स्वाहाकृतीनाम् । स्वाहा हव्यसूक्तीनाम् । स्वाहा देवाꣳ आज्यपान् । 0 स्वाहा,_इन्द्रꣳ होत्राज् जुषाणाः । 1 इन्द्र_आज्यस्य {,आनंदा. इन्द्र आज्यस्य} वियन्तु । 2 होतर् यज ।


अनुवाक 8 VERSE: 1 { 2.6.8.39} {अ} समिद्ध इन्द्र उषसाम् अनीके । पुरोरुचा पूर्वकृद् वावृधानः । त्रिभिर् देवैस् त्रिꣳशता वज्रबाहुः । जघान वृत्रं वि दुरो ववार । {ब्} नराशꣳसः प्रति शूरो मिमानः । तनूनपात् प्रति यज्ञस्य धाम । गोभिर् वपावान् मधुना समञ्जन् । हिरण्यैश् चन्द्री यजति प्रचेताः । {च्} ईडितो देवैर् हरिवाꣳ अभिष्टिः । 0 आजुह्वानो हविषा शर्धमानः ।

VERSE: 2 { 2.6.8.40} पुरंदरो मघवान् वज्रबाहुः । आयातु यज्ञम् उप नो जुषाणः । {द्} जुषाणो बर्हिर् हरिवान् न इन्द्रः । प्राचीनꣳ सीदत् प्रदिशा पृथिव्याः । उरुव्यचाः प्रथमानꣳ स्योनम् । आदित्यैर् अक्तं वसुभिः सजोषाः । {ए} इन्द्रं दुरः कवष्यो धावमानाः । वृषाणं यन्तु जनयः सुपत्नीः । द्वारो देवीर् अभितो विश्रयन्ताम् । 0 सुवीरा वीरं प्रथमाना महोभिः ।

VERSE: 3 { 2.6.8.41} {f} उषासानक्ता बृहती बृहन्तम् । पयस्वती सुदुघे शूरम् इन्द्रम् । पेशस्वती तन्तुना संव्ययन्ती । देवानां देवं यजतः सुरुक्मे । {ग्} दैव्या मिमाना मनसा पुरुत्रा । होताराव् इन्द्रं प्रथमा सुवाचा । मूर्धन् यज्ञस्य मधुना दधाना । प्राचीनं ज्योतिर् हविषा वृधातः । {ह्} तिस्रो देवीर् हविषा वर्धमानाः । 0 इन्द्रं जुषाणा वृषणं न पत्नीः ।

VERSE: 4 { 2.6.8.42} अच्छिन्नं तन्तुं पयसा सरस्वती । इडा देवी भारती । विश्वतूर्तिः । {इ} त्वष्टा दधद् इन्द्राय शुष्मम् । अपाको ऽर्चिष्टुर् यशसे पुरूणि । वृषा यजन् वृषणं भूरिरेताः । मूर्धन् यज्ञस्य समनक्तु देवान् । {ज्} वनस्पतिर् अवसृष्टो न पाशैः । त्मन्या समञ्जन्_शमिता न देवः । 0 इन्द्रस्य हव्यैर् जठरं पृणानः । 1 स्वदाति हव्यं मधुना घृतेन । 2 {क्} स्तोकानाम् इन्दुं प्रति शूर इन्द्रः । 3 वृषायमाणो वृषभस् तुराषाट् । 4 घृतप्रुषा मधुना हव्यम् उन्दन् । 5 मूर्धन् यज्ञस्य जुषताꣳ स्वाहा ।


अनुवाक 9 VERSE: 1 { 2.6.9.43} {अ} आ चर्षणिप्रा, {ब्} विवेष यन् मा । {च्} तꣳ सध्रीचीः । {द्} सत्यम् इत् तन् न त्वावाꣳ अन्यो अस्ति । इन्द्र देवो न मर्त्यो ज्यायान् । अहन्न् अहिं परिशयानम् अर्णः । अवासृजो ऽपो अच्छा समुद्रम् । {ए} प्रससाहिषे पुरुहूत शत्रून् । ज्येष्ठस् ते शुष्म इह रातिर् अस्तु । इन्द्र_आभर दक्षिणेना वसूनि । 0 पतिः सिन्धूनाम् असि रेवतीनाम् । 1 {f} स शेवृधम् अधिधा द्युम्नम् अस्मे । 2 महि क्षत्रं जनाषाड् इन्द्र तव्यम् । 3 रक्षा च नो मघोनः पाहि सूरीन् । 4 राये च नः स्वपत्या इषे धाः ।

अनुवाक 10 VERSE: 1 { 2.6.10.44} {अ} देवं बर्हिर् इन्द्रꣳ सुदेवं देवैः । वीरवत्स्त्īर्णं वेद्याम् अवर्धयत् । वस्तोर् वृतं {ड्युमोण्ट वृक्तं} प्र_अक्तोर् भृतम् । राया बर्हिष्मतो ऽत्यगात् । वसुवने वसुधेयस्य वेतु यज । {ब्} देवीर् द्वार इन्द्रꣳ संघाते । विड्वीर् यामन्न् अवर्धयन् । आ वत्सेन तरुणेन कुमारेण च मीविता अप_अर्वाणम् । रेणुककाटं नुदन्ताम् । 0 वसुवने वसुधेयस्य वियन्तु यज ।

VERSE: 2 { 2.6.10.45} {च्} देवी उषासानक्ता । इन्द्रं यज्ञे प्रयत्य् अह्वेताम् । दैवीर् विशः प्रायासिष्टाम् । सुप्रीते सुधिते अभूताम् । वसुवने वसुधेयस्य वीतां यज । {द्} देवी जोष्ट्री वसुधिती । देवम् इन्द्रम् अवर्धताम् । अयाव्य् अन्या_अघा द्वेषाꣳसि । आ_अन्या_अवाक्षीद् वसु वार्याणि । 0 यजमानाय शिक्षिते ।

VERSE: 3 { 2.6.10.46} वसुवने वसुधेयस्य वीतां यज । {ए} देवी ऊर्जाहुती दुघे सुदुघे । पयसा_इन्द्रम् अवर्धताम् । इषमूर्जम् अन्या_अवाक्षीत् । सग्धिꣳ सपीतिम् अन्या । नवेन पूर्वं दयमाने । पुराणेन नवम् । अधातामूर्जमूर्जाहुती वसु वार्याणि । यजमानाय शिक्षिते । 0 वसुवने वसुधेयस्य वीतां यज ।

VERSE: 4 { 2.6.10.47} {f} देवा दैव्या होतारा । देवम् इन्द्रम् अवर्धताम् । हताघशꣳसाव् आभार्ष्टां वसु वार्याणि । यजमानाय शिक्षितौ । वसुवने वसुधेयस्य वीतां यज । {ग्} देवीस् तिस्रस् तिस्रो देवीः । पतिम् इन्द्रम् अवर्धयन् । अस्पृक्षद् भारती दिवम् । रुद्रैर् यज्ञꣳ सरस्वती । 0 इडा वसुमती गृहान् ।

VERSE: 5 { 2.6.10.48} वसुवने वसुधेयस्य वियन्तु यज । {ह्} देव इन्द्रो नराशꣳसः । त्रिवरूथस् त्रिवन्धुरः । देवम् इन्द्रम् अवर्धयत् । शतेन शितिपृष्ठानाम् आहितः । सहस्रेण प्रवर्तते । मित्रावरुणा_इद् अस्य होत्रम् अर्हतः । बृहस्पतिः स्तोत्रम् । अश्विना_आध्वर्यवम् । 0 वसुवने वसुधेयस्य वेतु यज ।

VERSE: 6 { 2.6.10.49} {इ} देव इन्द्रो वनस्पतिः । हिरण्यपर्णो मधुशाखः सुपिप्पलः । देवम् इन्द्रम् अवर्धयत् । दिवम् अग्रेण_आप्रात् । आ_अन्तरिक्षं पृथिवीम् अदृꣳहीत् । वसुवने {।} वसुधेयस्य वेतु यज । {ज्} देवं बर्हिर् वारितीनाम् । देवम् इन्द्रम् अवर्धयत् । स्वासस्थम् इन्द्रेण_आसन्नम् । 0 अन्या बर्हीꣳष्य् अभ्यभूत् । 1 वसुवने वसुधेयस्य वेतु यज । 2 {क्} देवो अग्निः स्विष्टकृत् । 3 देवम् इन्द्रम् अवर्धयत् । 4 स्विष्टं कुर्वन्त् स्विष्टकृत् । 5 स्विष्टम् अद्य करोतु नः । 6 वसुवने वसुधेयस्य वेतु यज { जय} ।

अनुवाक 11 VERSE: 1 { 2.6.11.50} {अ} होता यक्षत् समिधा_अग्निम् इडस् पदे । अश्विना_इन्द्रꣳ सरस्वतीम् । अजो धूमो न गोधूमैः क्वलैर् भेषजम् । मधु शष्पैर् न तेज इन्द्रियम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्व् आज्यस्य होतर् यज । {ब्} होता यक्षत् तनूनपात्_सरस्वती । अविर् मेषो न भेषजम् । पथा मधुमता_आभरन् । 0 अश्विना_इन्द्राय वीर्यम् ।

VERSE: 2 { 2.6.11.51} बदरैर् उपवाकाभिर् भेषजं तोक्मभिः । पयः सोमः परिस्रुता घृतं मधु । वियन्त्व् आज्यस्य होतर् यज । {च्} होता यक्षन् नराशꣳसं न नग्नहुम् । पतिꣳ सुरायै भेषजम् । मेषः सरस्वती भिषक् । रथो न चन्द्र्य् अश्विनोर् वपा इन्द्रस्य वीर्यम् । बदरैर् उपवाकाभिर् भेषजं तोक्मभिः । पयः सोमः परिस्रुता घृतं मधु । 0 वियन्त्व् आज्यस्य होतर् यज ।

VERSE: 3 { 2.6.11.52} {द्} होता यक्षद् इडा_इडित आजुह्वानः सरस्वतीम् । इन्द्रं बलेन वर्धयन् । ऋसभेण गवा_इन्द्रियम् । अश्विना_इन्द्राय वीर्यम् । यवैः कर्कन्धुभिः । मधु लाजैर् न मासरम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्व् आज्यस्य होतर् यज । {ए} होता यक्षद् बर्हिः, सुष्टरीमो ऽर्णम्रदाः । 0 भिषङ्, नासत्या ।

VERSE: 4 { 2.6.11.53} भिषजा_अश्विना,_अश्वा शिशुमती । भिषग्, धेनुः सरस्वती । भिषग्, दुह इन्द्राय भेषजम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्व् आज्यस्य होतर् यज । {f} होता यक्षद् दुरो दिशः । कवष्यो न व्यचस्वतीः । अश्विभ्यां न दुरो दिशः । इन्द्रो न रोदसी दुघे । 0 दुहे कामान्त् सरस्वती ।

VERSE: 5 { 2.6.11.54} अश्विना_इन्द्राय भेषजम् । शुक्रं न ज्योतिर् इन्द्रियम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्व् आज्यस्य होतर् यज । {ग्} होता यक्षत् सुपेशसोषे नक्तं दिवा । अश्विना संजानाने । समञ्जाते सरस्वत्या । त्विषिम् इन्द्रे न भेषजम् । श्येनो न रजसा हृदा । 0 पयः सोमः परिस्रुता घृतं मधु ।

VERSE: 6 { 2.6.11.55} वियन्त्व् आज्यस्य होतर् यज । {ह्} होता यक्षद् दैव्या होतारा भिषजा_अश्विना । इन्द्रं न जागृवी दिवा नक्तं न भेषजैः । शूषꣳ सरस्वती भिषक् । सीसेन दुह इन्द्रियम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्व् आज्यस्य होतर् यज । {इ} होता यक्षत् तिस्रो देवीर्न्á भेषजम् । त्रयस् त्रिधातवो ऽपसः । 0 रूपम् इन्द्रे हिरण्ययम् ।

VERSE: 7 { 2.6.11.56} अश्विना_इडा न भारती । वाचा सरस्वती । मह, इन्द्राय दधुर् इन्द्रियम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्व् आज्यस्य होतर् यज । {ज्} होता यक्षत् त्वष्टारम् इन्द्रम् अश्विना । भीषजं न सरस्वतीम् । ओजो न जूतिर् इन्द्रियम् । वृको न रभसो भिषक् । 0 यशः सुरया भेषजम् ।

VERSE: 8 { 2.6.11.57} श्रिया न मासरम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्व् आज्यस्य होतर् यज । {क्} होता यक्षद् वनस्पतिम् । शमितारꣳ शतक्रतुम् । भीमं न मन्युꣳ राजानं व्याघ्रं नमसोश्विना, भामम् {।} सरस्वती भिषक् । इन्द्राय दुह इन्द्रियम् । पयः सोमः परिस्रुता घृतं मधु वियन्त्व् आज्यस्य होतर् यज ।

VERSE: 9 { 2.6.11.58} {ल्} होता यक्षद् अग्निꣳ स्वाहा_आज्यस्य स्तोकानाम् । स्वाहा मेदसां पृथक् । स्वाहा छागम् अश्विभ्याम् । स्वाहा मेषꣳ सरस्वत्यै । स्वाहा_ऋषभम् इन्द्राय सिꣳहाय सहसा_इन्द्रियम् । स्वाहा_अग्निं न भेषजम् । स्वाहा सोमम् इन्द्रियम् । स्वाहा_इन्द्रꣳ सुत्रामानꣳ सवितारं वरुणं भिषजां पतिम् । स्वाहा वनस्पतिं प्रियं पाथो न भेषजम् । 0 स्वहा देवाꣳ आज्यपान् ।

VERSE: 10 { 2.6.11.59} स्वाहा_अग्निꣳ होत्राज् जुषाणो अग्निर् भेषजम् । पयः सोमः परिस्रुता घृतं मधु । वियन्त्व् आज्यस्य होतर् यज । {म्} होता यक्षद् अश्विना सरस्वतीम् इन्द्रꣳ सुत्रामाणम् । इमे सोमाः सुरामाणः । छागैर् न मेषैर् ऋषभैः सुताः । शष्पैर् न तोक्मभिः । लाजैर् महस्वन्तः । मदा मासरेण परिष्कृताः । 0 शुक्राः पयस्वन्तो ऽमृताः । 1 प्रस्थिता वो मधुश्चुतः तान् अश्विना सरस्वती_इन्द्रः सुत्रामा वृत्रहा । 2 जुषन्ताꣳ सौम्यं मधु । 3 पिबन्तु मदन्तु वियन्तु सोमम् । 4 होतर् यज ।

अनुवाक 12 VERSE: 1 { 2.6.12.60} {अ} समिद्धो अग्निर् अश्विना । तप्तो घर्मो विराट् सुतः । दुहे धेनुः सरस्वती । सोमꣳ शुक्रम् इह_इन्द्रियम् । {ब्} तनूपा भिषजा सुते । अश्विना_उभा सरस्वती । मध्वा रजाꣳसि_इन्द्रियम् । इन्द्राय पथिभिर् वहान् । इन्द्राय_इन्दुꣳ सरस्वती । 0 नराशꣳसेन नग्नहुः {ड्युमोण्ट नग्नहुम्} ।

VERSE: 2 { 2.6.12.61} अधाताम् अश्विना मधु । भेषजं भिषजा सुते । {द्} आजुह्वाना सरस्वती । इन्द्राय_इन्द्रियाणि वीर्यम् । इडाभिर् अश्विनाव् {ड्युमोण्ट अश्विनाव्} इषम् । समूर्जꣳ सꣳ रयिं दधुः । {ए} अश्विना नमुचेः सुतम् । सोमꣳ शुक्रं परिस्रुता । सरस्वती तम् आभरत् । 0 बर्हिषा_इन्द्राय पातवे ।

VERSE: 3 { 2.6.12.62} {f} कवष्यो न व्यचस्वतीः । अश्विभ्यां न दुरो दिशः । इन्द्रो न रोदसी दुघे । दुहे कामान्त् सरस्वती । {ग्} उषासा नक्तम् अश्विना । दिवा_इन्द्रꣳ सायम् इन्द्रियैः । संजानाने सुपेशसा । समञ्जाते सरस्वत्या {ह्} पातं नो अश्विना दिवा । पाहि नक्तꣳ सरस्वति ।

VERSE: 4 { 2.6.12.63} दैव्या होतारा भिषजा । पातम् इन्द्रꣳ सचा सुते । {इ} तिस्रस् त्रेधा सरस्वती । अश्विना भारति_इडा । तीव्रं परिस्रुता सोमम् । इन्द्राय सुषवुर् मदम् । {ज्} अश्विना {ड्युमोण्ट अश्विना} भेषजं मधु । भेषजं नः सरस्वती । इन्द्रे त्वष्टा यशः श्रियम् । 0 रूपꣳ_रूपम् अधुः सुते । 1 {क्} ऋतुथा_इन्द्रो वनस्पतिः । 2 शशमानः परिस्रुता । 3 कीलालम् अश्विभ्यां मधु । 4 दुहे धेनुः सरस्वती । 5 {ल्} गोभिर् न सोमम् अश्विना {ड्युमोण्ट अश्विना} । 6 मासरेण परिष्कृता {ड्युमोण्ट परिस्रुता} । 7 समधाताꣳ सरस्वत्या । 8 स्वाहा_इन्द्रे सुतं मधु ।

अनुवाक 13 VERSE: 1 { 2.6.13.64} {अ} अश्विना हविर् इन्द्रियम् । नमुचेर् धिया सरस्वती । आ शुक्रम् आसुराद् वसु । मघम् इन्द्राय जभ्रिरे । {ब्} यम् अश्विना सरस्वती । हविषा_इन्द्रम् अवर्धयन् । स बिभेद बलं मघम् {ड्युमोण्ट सुग्गेस्त्स् मखम्} । नमुचाव् आसुरे सचा । {च्} तम् इन्द्रं पशवः सचा । 0 अश्विना_उभा सरस्वती

VERSE: 2 { 2.6.13.65} दधाना अभ्यनूषत । हविषा यज्ञम् इन्द्रियम् । {द्} य इन्द्र इन्द्रियं दधुः । सविता वरुणो भगः । स सुत्रामा हविष्पतिः । यजमानाय सश्चत । {ए} सविता वरुणो दधत् । यजमानाय दाशुषे । आदत्त नमुचेर् वसु । 0 सुत्रामा बलम् इन्द्रियम् ।

VERSE: 3 { 2.6.13.66} {f} वरुणः क्षत्रम् इन्द्रियम् । भगेन सविता श्रियम् । सुत्रामा यशसा बलम् । दधाना यज्ञम् आशत {आनंदा. आसत} । अश्विना {ड्युमोण्ट अश्विना} गोभिर् इन्द्रियम् । अश्वेभिर् वीर्यं बलम् । हविषा_इन्द्रꣳ सरस्वती । यजमानम् अवर्धयन् । {ह्} ता नासत्या सुपेशसा । 0 हिरण्यवर्तनी नरा । 1 सरस्वती हविष्मती । 2 इन्द्र कर्मसु नो ऽवत । 3 ता भिषजा सुकर्मणा । 4 सा सुदुघा सरस्वती । 5 स वृत्रहा शतक्रतुः । 6 इन्द्राय दधुर् इन्द्रियम्

अनुवाक 14 VERSE: 1 { 2.6.14.67} {अ} देवं बर्हिः सरस्वती । सुदेवम् इन्द्रे अश्विना । तेजो न चक्षुर् अक्ष्योः । बर्हिषा दधुर् इन्द्रियम् । वसुवने वसुधेयस्य वियन्तु यज । {ब्} देवीर् द्वारो अश्विना । भिषजा_इन्द्रे सरस्वती । प्राणं न वीर्यं नसि । द्वारो दधुर् इन्द्रियम् । 0 वसुवने वसुधेयस्य वियन्तु यज

VERSE: 2 { 2.6.14.68} {च्} देवी उषासाव् अश्विना । भिषजा_इन्द्रे सरस्वती । बलं न वाचम् आस्ये । उषाभ्यां दधुर् इन्द्रियम् । वसुमने वसुधेयस्य वियन्तु यज । {द्} देवी जोष्ट्री अश्विना सुत्रामा_इन्द्रे सरस्वती । श्रोत्रं न कर्णयोर् यशः । जोष्ट्रीभ्यां दधुर् इन्द्रियम् । वसुवने वसुधेयस्य वियन्तु यज ।

VERSE: 3 { 2.6.14.69} {ए} देवी ऊर्जाहुती दुघे सुदुघे । पयसा_इन्द्रꣳ सरस्वत्य् अश्विना भिषजा_अवत । शुक्रं न ज्योतिः स्तनयोर् आहुती धत्त इन्द्रियम् । वसुवने वसुधेयस्य वियन्तु यज । {f} देवा देवानां भिषजा । होताराव् इन्द्रम् अश्विना । वषट्कारैः सरस्वती । त्विषिं न हृदये मतिम् । होतृभ्यां दधुर् इन्द्रियम् । 0 वसुवने वसुधेयस्य वियन्तु यज ।

VERSE: 4 { 2.6.14.70} {ग्} देवीस् तिस्रस् तिस्रो देवीः । सरस्वत्य् अश्विना भारती_इडा । शूषं न मध्ये नाभ्याम् । इन्द्राय दधुर् इन्द्रियम् । वसुवने वसुधेयस्य वियन्तु यज । {ह्} देव इन्द्रो नराशꣳसः । त्रिवरूथः सरस्वत्या_अश्विभ्याम् ईयते रथः । रेतो न रूपम् अमृतं जनित्रम् । इन्द्राय त्वष्टा दधद् इन्रियाणि वसुवने वसुधेयस्य वियन्तु यज ।

VERSE: 5 { 2.6.14.71} {इ} देव इन्द्रो वनस्पतिः । हिरण्यपर्णो अश्विभ्याम् । सरस्वत्याः {ड्युमोण्ट सरस्वत्या} सुपिप्पलः । इन्द्राय पच्यते मधु । ओजो न जूतिम् ऋषभो न भामम् । वनसपतिर् नो दधद् इन्द्रियाणि । वसुवने वसुधेयस्य वियन्तु यज । {ज्} देवं बर्हिर् वारितीनाम् । अध्वरे स्तीर्णम् अश्विभ्याम् । 0 ऊर्णम्रदाः सरस्वत्याः ।

VERSE: 6 { 2.6.14.72} स्योनम् इन्द्र ते सदः । ईशायै मन्युꣳ राजानं बर्हिषा दधुर् इन्द्रियम् । वसुवने वसुधेयस्य वियन्तु यज । {क्} देवो अग्निः स्विष्टकृत् । देवान् यक्षद् यथा_यथम् । होताराव् इन्द्रम् अश्विना । वाचा वाचꣳ सरस्वतीम् । अग्निꣳ सोमꣳ स्विष्टकृत् । स्विष्ट इन्द्रः सुत्रामा सविता वरुणो भिषक् । 0 इष्टो देवो वनसपतिः । 1 स्विष्टा देवा आज्यपाः । 2 इष्टो अग्निरग्निना । 3 होता होत्रे स्विष्टकृत् । 4 यशो न दधद् इन्द्रियम् । 5 ऊर्जम् अपचितिꣳ स्वधाम् । 6 वसुवने वसुधेयस्य वियन्तु यज ।

अनुवाक 15 VERSE: 1 { 2.6.15.73} {अ} अग्निम् अद्य होतारम् अवृणीत । अयꣳ सुतासुती यजमानः । पचन् पक्त्ī́ः । पचन् पुरोडाशान् । गृह्णन् ग्रहान् । बध्नन्न् अश्विभ्यां छागꣳ सरस्वत्या इन्द्राय । बध्नन्त् सरस्वत्यै मेषम् इन्द्राय_अश्विभ्याम् । बध्नन्न् इन्द्राय_ऋषभम् अश्विभ्याꣳ सरस्वत्यै । {ब्} सूपस्था अद्य देवो वनस्पतिर् अभवत् । 0 अश्विभ्यां छागेन सरस्वत्या इन्द्राय ।

VERSE: 2 { 2.6.15.74} सर्स्वत्यै मेषेण_इन्द्राय_अश्विभ्याम् । इन्द्राय_ऋषभेण_अश्विभ्याꣳ सरस्वत्यै । {च्} अक्षꣳस् तान् मेदस्तः प्रति पचत_अग्रभीसुः । अवीवृधन्त ग्रहैः । अपाताम् अश्विना सरस्वती_इन्द्रः सुत्रामा वृत्रहा । सोमान्त् सुराम्णः । उपो उक्थामदाः {ड्युमोण्ट उक्थामदा} श्रौद् विमदा अदन् । अवीवृधन्त_आङ्गूषइः । {द्} त्वाम् अद्य_ऋष आर्षेय_ऋषीणां नपाद् अवृणीत । 0 अयꣳ सुतासुती यजमानः । 1 बहुभ्य आ संगतेभ्यः । 2 एष मे देवेषु वसु वार्या यक्ष्यत इति । 3 {ए} ता या देवा देवदानान्य् अदुः । 4 तान्य् अस्मा आ च शास्स्व । 5 आ च गुरस्व । 6 इषितश् च होतर् असि भद्रवाच्याय प्रेषितो मानुषः । 7 सूक्तवाकाय सूक्ता ब्रूहि ।

अनुवाक 16 VERSE: 1 { 2.6.16.75} {अ} उशन्तस् त्वा हवामह, {ब्} आ नो अग्ने सुकेतुना । {च्} त्वꣳ सोम महे भगं, {द्} त्वꣳ सोम प्र चिकितो मनीषा । {ए} त्वया हि नः पितरः सोम पूर्वे, {f} त्वꣳ सोम पितृभिः संविदानः । {ग्} बर्हिषदः पितर, {ह्} आ_अहं पितॄन् । {इ} उपहूताः पितरो, {ज्} ऽग्निष्वात्ताः पितरः । {क्} अग्निष्वात्तान् ऋतुमतो हवामहे । नराशꣳसे सोमपीथं य आशुः । ते नो अर्वन्तः सुहवा भवन्तु । शं नो भवन्तु द्विपदे शं चतुष्पदे । 0 {ल्} ये अग्निष्वात्ता ये ऽनग्निष्वात्ताः ।

VERSE: 2 { 2.6.16.76} अꣳहोमुचः पितरः सोम्यासः । परे ऽवरे ऽमृतासो भवन्तः । अधिब्रुवन्तु ते अवन्त्व् अस्मान् । {म्} वान्यायै दुग्धे जुषमानाः करम्भम् । उदीराणा अवरे परे च । अग्निष्वात्ता ऋतुभिः संविदानाः । इन्द्रवन्तो हविर् इदं जुषन्ताम् । {न्} यद् अग्ने कव्यवाहन, {ओ} त्वम् अग्न ईडितो जातवेदः । {प्} मातली कव्यैः । 0 {q} ये तातृपुर् देवत्रा जेहमानाः । 1 होत्रावृधः स्तोमतष्टासो अर्कैः । 2 आ_अग्ने याहि सुविदत्रेभिर् अर्वाङ् । 3 सत्यैः कव्यैः पितृभिर् घर्मसद्भिः । 4 {र्} हव्यवाहम् अजरं पुरुप्रियम् । 5 अग्निं घृतेन हविषा सपर्यन् । 6 उपासदं कव्यवाहं पितृणाम् । 7 स नः प्रजां वीरवतीꣳ समृण्वतु ।

अनुवाक 17 VERSE: 1 { 2.6.17.77} {अ} होता यक्षद् इडस् पदे । समिधानं महद् यशः । सुषमिद्धं वरेण्यम् । अग्निम् इन्द्रं वयोधसम् । गायत्रीं छन्द इन्द्रियम् । त्र्यविं गां वयो दधत् । वेत्व् आज्यस्य होतर् यज । {ब्} होता यक्षत्_शुचिव्रतम् । तनूनपातम् उद्भिदम् । 0 यं गर्भम् अदितिर् दधे ।

VERSE: 2 { 2.6.17.78} शुचिम् इन्द्रं वयोधसम् । उष्णिहं छन्द इन्द्रियम् । दित्यवाहं गां वयो दधत् । वेत्व् आज्यस्य होतर् यज । {द्} होता यक्षद् ईडेन्यम् । ईडितं वृत्रहन्तमम् । इडाभिर् ईड्यꣳ सहः । सोमम् इन्द्रं वयोधसम् । अनुष्टुभं छन्द इन्द्रियम् । 0 त्रिवत्सं गां वयो दधत् ।

VERSE: 3 { 2.6.17.79} वेत्व् आज्यस्य होतर् यज । {द्} होता यक्षत् सुबर्हिषदम् । पूषण्वन्तम् अमर्त्यम् । सीदन्तं बर्हिषि प्रिये । अमृतेन्द्रं वयोधसम् । बृहतीं छन्द इन्द्रियम् । पञ्चाविं गां वयो दधत् । वेत्व् आज्यस्य होतर् यज । {ए} होता यक्षद् य्व्áचस्वतीः । 0 सुप्रायणा ऋतावृधः ।

VERSE: 4 { 2.6.17.80} द्वारो देवीर् हिरण्ययीः । ब्रह्माण {ड्युमोण्ट ब्रह्माणम्} इन्द्रं वयोधसम् । पङ्क्तिं छन्द इह_इन्द्रियम् । तुर्यवाहं गां वयो दधत् । वेत्व् आज्यस्य होतर् यज । {f} होता यक्षत् सुपेशसे । सुशिल्पे बृहती उभे । नक्तोषासा न दर्शते । विश्वम् इन्द्रं वयोधसम् । 0 त्रिष्टुभं छन्द इन्द्रियम् ।

VERSE: 5 { 2.6.17.81} षष्ठवाहं { पष्ठवाहं} गां वयो दधत् । वेत्व् आज्यस्य होतर् यज । {ग्} होता यक्षत् प्रचेतसा । देवानाम् उत्तमं यशः । होतारा दैव्या कवी । सयुजा_इन्द्रं वयोधसम् । जगतीं छन्द इह_इन्द्रियम् । अनड्वाहं गां वयो दधत् । वेत्व् आज्यस्य होतर् यज । 0 {ह्} होता यक्षत् पेशस्वतीः ।

VERSE: 6 { 2.6.17.82} तिस्रो देवीर् हिरण्ययीः । भारतीर् बृहतीर् महीः । पतिम् इन्द्रं वयोधसम् । विराजं छन्द इह_इन्द्रियम् । धेनुं गां न वयो दधत् । वेत्व् आज्यस्य होतर् यज । {इ} होता यक्षत् सुरेतसम् । त्वष्टारं पुष्टिवर्धनम् । रूपाणि बिभ्रतं पृथक् । 0 पुष्टिम् इन्द्रं वयोधसम् ।

VERSE: 7 { 2.6.17.83} द्विपदं छन्द इह_इन्द्रियम् । उक्षाणं गां न वयो दधत् । वेत्व् आज्यस्य होतर् यज । {ज्} होता यक्षत्_शतक्रतुम् । हिरण्यपर्णम् उक्थिनम् । रशनां बिभ्रतं वशिम् । भगम् इन्द्रं वयोधसम् । ककुभं छन्द इह_इन्द्रियम् । वशां वेहतं गां न {ओमित्तेद् इन् डुमोन्त्} वयो दधत् । 0 वेत्व् आज्यस्य होतर् यज । 1 {क्} होता यक्षत् स्वाहाकृतीः । 2 अग्निं गृहपतिं पृथक् । 3 वरुणं भेषजं कविम् । 4 क्षत्त्रम् इन्द्रं वयोधसम् । 5 अतिच्छन्दसं छन्द इन्द्रियम् । 6 बृहद् ऋषभं गां वयो दधत् । 7 वेत्व् आज्यस्य होतर् यज ।

अनुवाक 18 VERSE: 1 { 2.6.18.84} {अ} समिद्धो अग्निः समिधा । सुषमिद्धो वरेण्यः । गायत्री छन्द इन्द्रियम् । त्र्यविर् गौर् वयो दधुः । {ब्} तनूनपात्_शुचिव्रतः । तनूनपात्_ च सरस्वती {ड्युमोण्ट तनूनपात् सरस्वती} । उष्णिक् छन्द इन्द्रियम् {।} दित्यवाड् गौर् वयो दधुः । {च्} इडाभिर् अग्निर् ईड्यः । सोमो देवो अमर्त्य्ः ।

VERSE: 2 { 2.6.18.85} अनुष्टुप् छन्द इन्द्रियम् । त्रिवत्सो गौर् वयो दधुः । {द्} सुबर्हिर् अग्निः पूषण्वान् । स्तीर्णबर्हिर् अमर्त्यः । बृहती छन्द इन्द्रियम् । पञ्चाविर् गौर् वयो दधुः । {ए} दुरो देवीर् दिशो महीः । ब्रह्मा देवो बृहस्पतिः । पङ्क्तिश् छन्द इह_इन्द्रियम् । 0 तुर्यवाड् गौर् वयो दधुः ।

VERSE: 3 { 2.6.18.86} {f} उषे यह्वी सुपेशसा । विश्वे देवा अमर्त्याः । त्रिष्टुप् छन्द इन्द्रियम् । पष्ठवाड् गौर् वयो दधुः । {ग्} दैव्या होतारा {,आनंदा. होतारा} भिषजा {,आनंदा. भिषजा} । इन्द्रेण सयुजा युजा । जगती छन्द इह_इन्द्रियम् । अनड्वान् गौर् वयो दधुः । {ह्} तिस्र इडा सरस्वती । 0 भारती मरुतो विशः ।

VERSE: 4 { 2.6.18.87} विराट् छन्द इह_इन्द्रियम् । धेनुर् गौर् न वयो दधुः । {इ} त्वष्टा तुरीपो अद्भुतः । इन्द्राग्नी पुष्टिवर्धना । द्विपात्_ छन्द इह_इन्द्रियम् । उक्षा गौर् न वयो दधुः । {ज्} शमिता नो वनस्पतिः । सविता प्रसुवन् भगम् । ककुच् छन्द इह_इन्द्रियम् । 0 वशा वेहद् गौर् न वयो दधुः । 1 {क्} स्वाहा यज्ञं वरुणः । 2 सुक्षत्रो भेषजं करत् ।áतिच्छन्दाश् { अतिच्छन्दाच्} छन्द इन्द्रियम् । 3 बृहद् ऋषभो गौर् वयो दधुः ।

अनुवाक 19 VERSE: 1 { 2.6.19.88} {अ} वसन्तेन_ऋतुना देवाः । वसवस् त्रिवृता स्तुतम् । रथन्तरेण तेजसा । हविर् इन्द्रे वयो दधुः । {ब्} ग्रीष्मेण देवा ऋतुना । रुद्राः पञ्चदशे स्तुतम् । बृहता यशसा बलम् । हविर् इन्द्रे वयो दधुः । {च्} वर्षाभिर् ऋतुना_आदित्याः । 0 स्तोमे सप्तदशे स्तुतम् ।

VERSE: 2 { 2.6.19.89} वैरूपेण विशा_ओजसा । हविर् इन्द्रे वयो दधुः । {स्} शारदेन_ऋतुना देवाः । एकविꣳश ऋभवः स्तुतम् । वैराजेन श्रिया श्रियम् । हविर् इन्द्रे वयो दधुः । {ए} हेमन्तेन_ऋतुना देवाः । मरुतस् त्रिणवे स्तुतम् । बलेन शक्वरीः सहः । 0 हविर् इन्द्रे वयो दधुः । 1 {f} शैशिरेण_ऋतुना देवाः । 2 त्रयस्त्रिꣳशे ऽमृतꣳ स्तुतम् । 3 सत्येन रेवतीः क्षत्त्रम् । 4 हविर् इन्द्रे वयो दधुः ।

अनुवाक 20 VERSE: 1 { 2.6.20.90} {अ} देवं बर्हिर् इन्द्रं वयोधसम् । देवं देवमवर्धयत् । गायत्रिया छन्दसा_इन्द्रियम् । तेज इन्द्रे वयो दधत् । वसुवने वसुधेयस्य वेतु यज । {ब्} देवीर् द्वारो देवम् इन्द्रं वयोधसम् । देवीर् देवम् अवर्धयन् । उष्णिहा छन्दसा_इन्द्रियम् । प्राणम् इन्द्रे वयो दधत् । 0 वसुवने वसुधेयस्य वियन्तु यज ।

VERSE: 2 { 2.6.20.91} {च्} देवी देवं वयोधसम् । उषे इन्द्रम् अवर्धताम् । अनुष्टुभा छन्दसा_इन्द्रियम् । वाचम् इन्द्रे वयो दधत् । वसुवने वसुधेयस्य वीतां यज । {द्} देवी जोष्ट्री देवम् इन्द्रं वयोधसम् । देवी देवम् अवर्धताम् । बृहत्या छन्दसा_इन्द्रियम् । श्रोत्रम् इन्द्रे वयो दधत् । 0 वसुवने वसुधेयस्य वीतां यज ।

VERSE: 3 { 2.6.20.92} {ए} देवी ऊर्जाहुती देवम् इन्द्रं वयोधसम् । देवी देवम् अवर्धताम् । पङ्क्त्या छन्दसा_इन्द्रियम् । शुक्रम् इन्द्रे वयो दधत् । वसुवने वसुधेयस्य वीतां यज । {f} देवा दैव्या होतारा देवम् इन्द्रं वयोधसम् । देवा देवम् अवर्धताम् । त्रिष्टुभा छन्दसा_इन्द्रियम् । त्विषिम् इन्द्रे वयो दधत् । 0 वसुवने वसुधेयस्य वीतां यज ।

VERSE: 4 { 2.6.20.93} {ग्} देवीस् तिस्रस् तिस्रो देवीर् वयोधसम् । पतिम् इन्द्रम् अवर्धयन् । जगत्या छन्दसा_इन्द्रियम् । बलम् इन्द्रे वयो दधत् । वसुवने वसुधेयस्य वियन्तु यज । {ह्} देवो नराशꣳसो देवम् इन्द्रं वयोधसम् । देवो देवम् अवर्धयत् । विराजा छन्दसा_इन्द्रियम् । रेत इन्द्रे वयो दधत् । 0 वसुवने वसुधेयस्य वेतु यज ।

VERSE: 5 { 2.6.20.94} {इ} देवो वनस्पतिर् देवम् इन्द्रं वयोधसम् । देवो देवम् अवर्धयत् । द्विपदा छन्दसा_इन्द्रियम् । भगम् इन्द्रे वयो दधत् । वसुवने वसुधेयस्य वेतु यज । {ज्} देवं बर्हिर् वारितीनां देवम् इन्द्रं वयोधसम् । देवो {ड्युमोण्ट देवं} देवम् अवर्धयत् । ककुभा छन्दसा_इन्द्रियम् । यश इन्द्रे वयो दधत् । 0 वसुवने वसुधेयस्य वेतु यज । 1 {क्} देवो अग्निः स्विष्टकृद् देवम् इन्द्रं वयोधसम् । 2 देवो देवम् अवर्धयत् । 3 अतिच्छन्दसा छन्दसा_इन्द्रियम् । 4 क्षत्त्रम् इन्द्रे वयो दधत् । 5 वसुवने वसुधेयस्य वेतु यज ।




प्रपाठक: 7 अनुवाक 1 VERSE: 1 { 2.7.1.1} त्रिवृत् स्तोमो भवति । ब्रह्मवर्चसं वै त्रिवृत् । ब्रह्मवर्चसम् एव_अवरुन्धे । अग्निष्टोमः सोमो भवति । ब्रह्मवर्चसं वा अग्निष्टोमः । ब्रह्मवर्चसम् एव_अवरुन्धे । रथंतरꣳ साम भवति । ब्रह्मवर्चसं वै रथंतरम् । ब्रह्मवर्चसम् एव_अवरुन्धे । 0 परिस्रजी होता भवति ।

VERSE: 2 { 2.7.1.2} अरुणो मिर्मिरस् त्रिशुक्रः । एतद् वै ब्रह्मवर्चसस्य रूपम् । रूपेणैव ब्रह्मवर्चसम् अवरुन्धे । बृहस्पतिर् अकामयत देवानां पुरोधां गच्छेयम् इति । स एतं बृहस्पतिसवम् अपश्यत् । तम् आहरत् । तेन_अयजत । ततो वै स देवानां पुरोधाम् अगच्छत् । यः पुरोधाकामः स्यात् । 0 स बृहस्पतिसवेन यजेत ।

VERSE: 3 { 2.7.1.3} पुरोधाम् एव गच्छति । तस्य प्रातःसवने सन्नेषु नाराशꣳसेषु । एकादश दक्षिणा नीयन्ते । एकादश माध्यंदिने सवने सन्नेषु नाराशꣳसेषु । एकादश तृतीयसवने सन्नेषु नाराशꣳसेषु । त्रयस्त्रिꣳशत् संपद्यन्ते । त्रयस्त्रिꣳशद् वै देवताः । देवता एव_अवरुन्धे । अश्वश् चतुस्त्रिꣳशः । 0 प्राजापत्यो वा अश्वः ।

VERSE: 4 { 2.7.1.4} प्रजापतिश् चतुस्त्रिꣳशो देवतानां । यावतीर् एव देवताः । ता एव_अवरुन्धे । कृष्णाजिने ऽभिषिञ्चति । ब्रह्मणो वा एतद् रूपम् । यत् कृष्णाजिनम् । ब्रह्मवर्चसेन_एवैनꣳ समर्धयति । आज्येन_अभिषिञ्चति । तेजो वा आज्यम् । 0 तेज एव_अस्मिन् दधाति ।

अनुवाक 2 VERSE: 1 { 2.7.2.5} यद् आग्नेयो भवति । अग्निमुखा ह्य् {BI अग्निमुखाद् ध्य्} ऋद्धिः । अथ यत् पौष्णः । पुष्टिर् वै पूषा । पुष्टिर् वैश्यस्य । पुष्टिम् एव_अवरुन्धे । प्रसवाय सावित्रः । अथ यत् त्वाष्ट्रः । त्वष्टा हि रूपाणि विकरोति । 0 निर्वरुणत्वाय वारुणः ।

VERSE: 2 { 2.7.2.6} अथो य एव कश् च सन्त्सूयते । स हि वारुणः । अथ यद् वैश्वदेवः । वैश्वदेवो हि वैश्यः । अथ यन् मारुतः । मारुतो हि वैश्यः । सप्त_एतानि हवीꣳषि भवन्ति । सप्तगणा वै मरुतः । पृश्निः पष्ठौही मारुत्या_आलभ्यते । 0 विड् वै मरुतः । 1 विश एवैतन् मध्यतो ऽभिषिच्यते । 2 तस्माद् वा एष विशः प्रियः । 3 विशो हि मध्यतो ऽभिषिच्यते । 4 ऋषभचर्मे ऽध्यभिषिञ्चति । 5 स हि प्रजनयिता । 6 दध्ना_अभिषिञ्चति । 7 ऊर्ग् वा अन्नाद्यं दधि । 8 ऊर्जा_एवैनम् अन्नाद्येन समर्धयति ।

अनुवाक 3 VERSE: 1 { 2.7.3.7} यद् आग्नेयो भवति । आग्नेयो वै ब्राह्मणः । अथ यत् सौम्यः । सौम्यो हि ब्राह्मणः । प्रसवाय_एव सावित्रः । अथ यद् बार्हस्पत्यः । एतद् वै ब्राह्मणस्य वाक्पतीयम् । अथ यद् अग्नीषोमीयः । आग्नेयो वै ब्राह्मणः । 0 तौ यदा संगच्छेते ।

VERSE: 2 { 2.7.3.8} अथ वीर्यावत्तरो भवति । अथ यत् सारस्वतः । एतद् धि प्रत्यक्षं ब्राह्मणस्य वाक्पतीयम् । निर्वरुणत्वाय_एव वारुणः । अथो य एव कश् च सन्त्सूयते । स हि वारुणः । अथ यद् द्यावापृथिव्यः । इन्द्रो वृत्राय वज्रम् उदयच्छत् । तं द्यावापृथिवी न_अन्वमन्येताम् । 0 तम् एतेनैव भागधेयेन_अन्वमन्येताम् ।

VERSE: 3 { 2.7.3.9} वज्रस्य { वज्रस्य} वा एषो ऽनुमानाय । अनुमतवज्रः सूयाता इति । अष्टाव् एतानि हवीꣳषि भवन्ति । अष्ट_अक्षरा गायत्री । गायत्री ब्रह्मवर्चसम् । गायत्रिया_एव ब्रह्मवर्चसम् अवरुन्धे । हिरण्येन घृतम् उत्पुनाति । तेजस एव रुचे । कृष्णाजिने ऽभिषिञ्चति । 0 ब्रह्मणो वा एतद् ऋक्सामयो रूपम् । 1 यत् कृष्णाजिनम् । 2 ब्रह्मन्न् एवैनम् ऋक्सामयोर् अध्य् अभिषिञ्चति । 3 घृतेन_अभिषिञ्चति । 4 तथा वीर्यावत्तरो { वीर्यवत्तरो} भवति ।

अनुवाक 4 VERSE: 1 { 2.7.4.10} न वै सोमेन सोमस्य सवो ऽस्ति । हतो ह्य् एषः । अभिषुतो ह्य् एषः । न हि हतः सूयते । सौमीꣳ सूतवशाम् आलभते । सोमो वै रेतोधाः । रेत एव तद् दधाति । सौम्या_ऋचा_अभिषिञ्चति । रेतोधा ह्य् एषा । 0 रेतः सोमः । 1 रेत एवास्मिन् दधाति । 2 यत् किं च राजसूयम् ऋते सोमम् । 3 तत् सर्वं भवति । 4 अषाढं युत्सु पृतनासु पप्रिम् । 5 सुवर्षाम् अप्स्वां वृजनस्य गोपाम् । 6 भरेषुजाꣳ सुक्षितिं सुश्रवसम् । 7 जयन्तं त्वाम् अनु मदेम सोम ।

अनुवाक 5 VERSE: 1 { 2.7.5.11} यो वै सोमेन सूयते । स देवसवः । यः पशुना सूयते । स देवसवः । य इष्ट्या सूयते । स मनुष्यसवः । एतं वै पृथये देवाः प्रायच्छन् । ततो वै सो ऽप्य् आरण्यानां पशूनाम् असूयत । यावतीः कियतीश् च प्रजा वाचं वदन्ति । 0 तासाꣳ सर्वासाꣳ सूयते ।

VERSE: 2 { 2.7.5.12} य एतेन यजते । य उ चैनम् एवं वेद । नाराशꣳस्या_ऋचा_अभिषिञ्चति । मनुष्या वै नराशꣳसः । निह्न्úत्य वाव_एतत् । अथ_अभिषिञ्चति । यत् किं च राजसूयम् अनुत्तरवेदीकम् । तत् सर्वं भवति । ये मे पञ्चाशतं ददुः । 0 अश्वानाꣳ सधस्तुतिः । 1 द्युमद् अग्ने महि श्रवः । 2 बृहत् कृधि मघोनाम् । 3 नृवद् अमृत नृणाम् ।

अनुवाक 6 VERSE: 1 { 2.7.6.13} एष गोसवः । षट्त्रिꣳश उक्थ्यो बृहत्सामा । पवमाने कण्वरथंतरं भवति । यो वै वाजपेयः । स सम्राट्त्सवः । यो राजसूयः । स वरुणसवः । प्रजापतिः स्वाराज्यं परमेष्ठी । स्वाराज्यं गौर् एव । 0 गौर् इव भवति ।

VERSE: 2 { 2.7.6.14} य एतेन यजते । य उ चैनम् एवं वेद । उभे बृहद्रथंतरे भवतः । तद् धि स्वाराज्यम् । अयुतं दक्षिणाः । तद् धि स्वाराज्यम् । प्रतिधुषा_अभिषिञ्चति । तद् धि स्वाराज्यम् । अनुद्धते वेद्यै दक्षिणत आहवनीयस्य बृहतस्तोत्रं प्रत्य् अभिषिञ्चति । इयं वाव रथंतरम् ।

VERSE: 3 { 2.7.6.15} असौ बृहत् । अनयोर् एवैनम् अनन्तर्हितम् अभिषिञ्चति । पशुस्तोमो वा एषः । तेन गोसवः । षट्त्रिꣳशः सर्वः । रेवज् जातः सहसा वृद्धः । क्षत्राणां क्षत्रभृत्तमो वयोधाः । महान् महित्वे तस्तभानः । क्षत्रे राष्ट्रे च जागृहि । प्रजापतेस् त्वा परमेष्ठिनः स्वाराज्येना_अभिषिञ्चामि_इत्य् आह । स्वाराज्यम् एवैनं गमयति ।

अनुवाक 7 VERSE: 1 { 2.7.7.1} सिꣳहे व्याघ्र उत या पृदाकौ । त्विषिर् अग्नौ ब्राह्मणे सूर्ये या । इन्द्रं या देवी सुभगा जजान । सा न आगन् वर्चसा संविदाना । या राजन्ये दुन्दुभाव् आयतायाम् । अश्वस्य क्रन्द्ये पुरुषस्य मायौ । इन्द्रं या देवी सुभगा जजान । सा न आगन् वर्चसा संविदाना । या हस्तिनि द्विपिनि या हिरण्ये । त्विषिर् अश्वेषु पुरुषेषु गोषु ।

VERSE: 2 { 2.7.7.2} इन्द्रं या देवी सुभगा जजान । सा न आगन् वर्चसा संविदाना । रथे अक्षेषु वृषभस्य वाजे । वाते पर्जन्ये वरुणस्य शुष्मे । इन्द्रं या देवी सुभगा जजान । सा न आगन् वर्चसा संविदाना । राड् असि विराड् असि । सम्राड् असि स्वराड् असि । इन्द्राय त्वा तेजस्वते तेजस्वन्तꣳ श्रीणामि । इन्द्राय त्वा_ओजस्वत ओजसवन्तꣳ श्रीणामि ।

VERSE: 3 { 2.7.7.3} इन्द्राय त्वा पयस्वते पयस्वन्तꣳ श्रीणामि । इन्द्राय त्वा_आयुष्मत आयुष्मन्तꣳ श्रीणामि । तेजो ऽसि । तत् ते प्रयच्छामि । तेजस्वद् अस्तु मे मुखम् । तेजस्वत्_शिरो अस्तु मे । तेजस्वान् विश्वतः प्रत्यङ् । तेजसा संपिपृग्धि मा । ओजो ऽसि । तत् ते प्रयच्छामि ।

VERSE: 4 { 2.7.7.4} ओजस्वद् अस्तु मे मुखम् । ओजस्वत्_शिरो अस्तु मे । ओजस्वान् विश्वतः प्रत्यङ् । ओजसा संपिपृग्धि मा । पयो ऽसि । तत् ते प्रयच्छामि । पयस्वद् अस्तु मे मुखम् । पयस्वत्_शिरो अस्तु मे । पयस्वान् विश्वतः प्रत्यङ् । पयसा संपिपृग्धि मा ।

VERSE: 5 { 2.7.7.5} आयुर् असि । तत् ते प्रयच्छामि । आयुष्मद् अस्तु मे मुखम् । आयुष्मत्_शिरो अस्तु मे आयुष्मान् विश्वतः प्रत्यङ् । आयुषा संपिपृग्धि मा । इमम् अग्न आयुषे वर्चसे कृधि । प्रियꣳ रेतो वरुण सोम राजन् । मातेव_अस्मा अदिते शर्म यच्छ । विश्वे देवा जरदष्टिर् यथा सत् ।

VERSE: 6 { 2.7.7.6} आयुर् असि विश्वायुर् असि । सर्वायुर् असि सर्वम् आयुर् असि । यतो वातो मनोजवाः । यतः क्षरन्ति सिन्धवः । तासां त्वा सर्वासाꣳ रुचा । अभिषिञ्चामि वर्चसा । समुद्र इव_असि गह्मना । सोम इव_अस्य् अदाभ्यः । अग्निर् इव विश्वतः प्रत्यङ् । सूर्य इव ज्योतिषा विभूः ।

VERSE: 7 { 2.7.7.7} अपां यो द्रवणे रसः । तम् अहम् अस्मा आमुष्यायणाय । तेजसे ब्रह्मवर्चसाय गृह्णामि । अपां य ऊर्मउ रसः । तम् अहम् अस्मा आमुष्यायणाय । ओजसे वीर्याय गृह्णामि । अपां यो मध्यतो रसः । तम् अहम् अस्मा आमुष्यायणाय । पुष्ट्यै प्रजननाय गृह्णामि । अपां यो यज्ञियो रसः । तम् अहम् अस्मा आमुष्यायणाय । आयुषे दीर्घायुत्वाय गृह्णामि ।

अनुवाक 8 VERSE: 1 { 2.7.8.1} अभिप्रेहि वीरयस्व । उग्रश् चेत्ता सपत्नहा । आतिष्ठ मित्रवर्धनः । तुभ्यं देवा अधिब्रुवन् । अङ्कौ न्यङ्काव् अभित आतिष्ठ वृत्रहन् रथम् । आतिष्ठन्तं परि विश्वे अभूषन् । श्रियं वसानश् चरति स्वरोचाः । महत् तद् अस्य_असुरस्य नाम । आ विश्वरूपो अमृतानि तस्थौ । अनु त्वा_इन्द्रो मदत्व् अनु बृहस्पतिः ।

VERSE: 2 { 2.7.8.2} अनु सोमो अन्व् अग्निर् आवीत् । अनु त्वा विश्वे देवा अवन्तु । अनु सप्त राजानो य उत_अभिषिक्ताः । अनु त्वा मित्रावरुणाव् इह_अवतम् । अनु द्यावापृथिवी विश्वशंभू । सूर्यो अहोभिर् अनु त्वा_अवतु । चन्द्रमा नक्षत्रैर् अनु त्वा_अवतु । द्यौश् च त्वा पृथिवी च प्रचेतसा । शुक्रो बृहद् दक्षिना त्वा पिपर्तु । अनु स्वधा चिकिताꣳ सोमो अग्निः । आ_अयं पृणक्तु रजसी {आनंदा. रजसि} उपस्थम् ।

अनुवाक 9 VERSE: 1 { 2.7.9.1} प्रजापतिः प्रजा असृजत । ता अस्मात् सृष्टाः पराचीर् आयन् । स एतं प्रजापतिर् ओदनम् अपश्यत् । सो ऽन्नं भूतो ऽतिष्ठत् । ता अन्यत्र_अन्नाद्यम् अवित्त्व्ā । प्रजापतिं प्रजा उपावर्तन्त । अन्नम् एवैनं भूतं पश्यन्तीः प्रजा उपावर्तन्ते । य एतेन यजते । य उ चैनम् एवं वेद । सर्वाण्य् अन्नानि भवन्ति ।

VERSE: 2 { 2.7.9.2} सर्वे पुरुषाः । सर्वाण्य् एव_अन्नान्य् अवरुन्धे । सर्वान् पुरुषान् । राड् असि विराड् असि_इत्य् आह । स्वाराज्यम् एवैनं गमयति । यद् धिरण्यं ददाति । तेजस् तेन_अवरुन्धे । यत् तिसृधन्वम् । वीर्यं तेन । यद् अष्ट्राम् ।

VERSE: 3 { 2.7.9.3} पुष्टिं तेन । यत् कमण्डलुम् । आयुष्टेन । यद् धिरण्यम् आबध्नाति । ज्योतिर् वै हिरण्यम् । ज्योतिर् एवास्मिन् दधाति । अथो तेजो वै हिरण्यम् । तेज एवाऽऽत्मन् धत्ते । यद् ओदनं प्राश्नाति । एतद् एव सर्वम् अवरुध्य ।

VERSE: 4 { 2.7.9.4} तद् अस्मिन्न् एकधा_अधात् । रोहिण्यां कार्यः । यद् ब्राह्मण एव रोहिणी । तस्माद् एव । अथो वर्ष्म_एवैनꣳ समानानां करोति । उद्यता सूर्येण कार्यः । उद्यन्तं वा एतꣳ सर्वाः प्रजाः प्रतिनन्दन्ति । दिदृक्षेण्यो दर्शनीयो भवति । {नोत् इन् } य एवं वेद । ब्रह्मवादिनो वदन्ति ।

VERSE: 5 { 2.7.9.5} अवेत्यो ऽवभृथा3 ना3 इति । यद् दर्भपुञ्जीलैः पवयति । तत् स्विद् एव_अवैति । तन् न_अवैति । त्रिभिः पवयति । त्रय इमे लोकाः । एभिर् एवैनं लोकैः पवयति । अथो अपां वा एतत् तेजो वर्चः । यद् दर्भाः । यद् दर्भपुञ्जीलैः पवयति । अपाम् एवैनं तेजसा वर्चसोभिषिञ्चति ।

अनुवाक 10 VERSE: 1 { 2.7.10.1} प्रजापतिर् अकामयत बहोर् भूयान्त् स्याम् इति । स एतं पञ्चशारदीयम् अपश्यत् । तम् आहरत् । तेन_अयजत । ततो वै स बहोर् भूयान् अभवत् । यः कामयेत बहोर् भूयान्त् स्याम् इति । स पञ्चशारदीयेन यजेत । बहोर् एव भूयान् भवति । मरुत्स्तोमो वा एषः । मरुतो हि देवानां भूयिष्ठाः ।

VERSE: 2 { 2.7.10.2} बहुर् भवति । य एतेन यजते । य उ चैनमेवं वेद । पञ्चशारदीयो भवति । पञ्च वा ऋतवः संवत्सरः । ऋतुष्व् एव संवत्सरे प्रतितिष्ठति । अथो पञ्च.अक्षरा पङ्क्तिः । पाङ्क्तो यज्ञः । यज्ञम् एव_अवरुन्धे । सप्तदशꣳ स्तोमा न_अतियन्ति । सप्तदशः प्रजापतिः । प्रजापतेर् आप्त्यै ।

अनुवाक 11 VERSE: 1 { 2.7.11.11} अगस्त्यो मरुद्भ्य उक्ष्णः प्रौक्षत् । तान् इन्द्र आदत्त । त एनं वज्रम् उद्यत्य_अभ्यायन्त । तान् अगस्त्यश् चैव_इन्द्रश्च कयाशुभीयेन_अशमयताम् । ताण्_शान्तान् उपाह्वयत । यत् कयाशुभीयं भवति शान्त्यै । तस्माद् एत ऐन्द्रा मारुता उक्षाणः सवनीया भवन्ति । त्रयः प्रथमे ऽहन्न् आलभ्यन्ते । एवं द्वितीये । एवं तृतीये ।

VERSE: 2 { 2.7.11.2} एवं चतुर्थे । पञ्च_उत्तमे ऽहन्न् आलभ्यन्ते । वर्षिष्ठम् इव ह्य् एतद् अहः । वर्षिष्ठः समानानां भवति । य एतेन यजते । य उ चैनम् एवं वेद । स्वाराज्यं वा एष यज्ञः । एतेन वा एकयावा कान्दमः स्वाराज्यम् अगच्छत् । स्वाराज्यं गच्छति । य एतेन यजते ।

VERSE: 3 { 2.7.11.3} य उ चैनम् एवं वेद । मारुतो वा एष स्तोमः । एतेन वै मरुतो देवानां भूयिष्ठा अभवन् । भूयिष्ठः समानानां भवति । य एतेन यजते । य उ चैनम् एवं वेद । पञ्चशारदीयो वा एष यज्ञः । आ पञ्चमात् पुरुषाद् अन्नम् अत्ति । य एतेन यजते । य उ चैनम् एवं वेद । सप्तदशꣳ स्तोमा न_अतियन्ति । सप्तदशः प्रजापतिः । प्रजापतेर् एव न_एति ।

अनुवाक 12 VERSE: 1 { 2.7.12.1} अस्य_अजरासो दमा मरित्राः । अर्चद्धूमासो अग्नयः पावकाः । श्विचीचयः श्वात्रासो भुरण्यवः । वनर्षदो वायवो न सोमाः । यजा नो मित्रावरुणा । यजा देवाꣳ ऋतं बृहत् । अग्ने यक्षि स्वं दमम् । अश्विना पिबतꣳ सुतम् । दीद्यग्नी शुचिव्रता । ऋतुना यज्ञवाहसा ।

VERSE: 2 { 2.7.12.2} द्वे विरूपे चरतः { विरूपे चरतस्} स्वर्थे । अन्य_अन्या वत्सम् उपधापयेते । हरिर् अन्यस्यां भवति स्वधावान् । शुक्रो अन्यस्यां ददृशे सुवर्चाः । पूर्वापरं चरतो मायया_एतौ । शिशू क्रीडन्तौ परियातो अध्वरम् । विश्वान्य् अन्यो भुवना_अभिचष्टे । ऋतून् अन्यो विदधज् जायते पुनः । त्रीणि शता त्री_ सहस्राण्य् अग्निम् । त्रिꣳशत्_ च देवा नव च_असपर्यन् ।

VERSE: 3 { 2.7.12.3} औक्षन् घृतैर् आस्तृणन् बर्हिर् अस्मै । आद् इद् होतारं न्यषादयन्त । अग्निना_अग्निः समिध्यते । कविर् गृहपतिर् युवा । हव्यवाड् जुह्वास्यः । अग्निर् देवानां जठरम् । पूतदक्षः कविक्रतुः । देवो देवेभिर् आगमत् । अग्निश्रियो मरुतो विश्वकृष्टयः । 0 आ त्वेषम् उग्रम् अव ईमहे वयम् ।

VERSE: 4 { 2.7.12.4} ते स्वामिनो रुद्रिया वर्षनिर्णिजः । सिꣳहा न हेषक्रतवः सुदानवः । यद् उत्तमे मरुतो मध्यमे वा । यद् वा_अवमे सुभगासो दिविष्ठ { दिविष्ठ} {?} । ततो नो रुद्रा उत वा_अन्वस्य । अग्ने वित्ताद् धविषो यद् यजामः । ईडे अग्निꣳ स्ववसं नमोभिः । इह प्रसप्तो विचयत् कृतं नः । रथैर् इव प्रभरे वाजपद्भिः { वाजपद्भिः} । प्रदक्षिणिन् मरुताꣳ स्तोमम् ऋध्याम् ।

VERSE: 5 { 2.7.12.5} श्रुधि { श्रुधि {?}} श्रुत्कर्ण वह्निभिः । देवैर् अग्ने सयावभिः । आसीदन्तु बर्हिषि । मित्रो वरुणो अर्यमा । प्रातर्यावाणो अध्वरम् । विश्वेषाम् अदितिर् यज्ञियानाम् । विश्वेषाम् { विश्वेषाम्} अतिथिर् मानुषाणाम् । अग्निर् देवानाम् अव आवृणानः । सुमृडीको भवतु विश्ववेदाः । त्वे अग्ने सुमतिं भिक्षमानाः ।

VERSE: 6 { 2.7.12.6} दिवि श्रवो दधिरे यज्ञियासः । नक्ता च चक्रुर् उषसा विरूपे । कृष्णं { कृष्णं} च वर्णम् अरुणं च संधुः । त्वाम् अग्न आदित्यास आस्यम् । त्वां जिह्वाꣳ शुचयश् चक्रिरे कवे । त्वाꣳ रातिषाचो अध्वरेषु सश्चिरे । त्वे देवा हविर् अदन्त्य् आहुतम् । नि त्वा यज्ञस्य साधनम् । अग्ने होतारम् ऋत्विजम् । वनुष्वद् देव धीमहि प्रचेतसम् । जीरं दूतम् अमर्त्यम् ।

अनुवाक 13 VERSE: 1 { 2.7.13.1} तिष्ठा हरी रथ आ युज्यमाना याहि । वायुर् न नियुतो नो अच्छ । पिबास्य् अन्धो अभिसृष्टो अस्मे । इन्द्र स्वाहा ररिमा ते मदाय । कस्य वृषा सुते सचा । नियुत्वान् वृषभो रणत् । वृत्रहा सोमपीतये । इन्द्रं वयं महाधने । इन्द्रम् अर्भै हवामहे । युजं वृत्रेषु वज्रिणम् ।

VERSE: 2 { 2.7.13.2} द्विता यो वृत्रहन्तमः । विद इन्द्रः शतक्रतुः । उप नो हरिभिः सुतम् । स सूर आ जनयञ् ज्योतिर् इन्द्रम् । अया धिया तरणिर् अद्रिबर्हाः । ऋतेन शुष्मीन् अवमानो अर्कैः । व्युस्रिधो अस्रो अद्रिर् बिभेद । उत त्यद् आश्वश्वियम् । यद् इन्द्र नाहुषीष्व् आ । अग्रे विक्षु प्रतीदयत् ।

VERSE: 3 { 2.7.13.3} भरेष्व् इन्द्रꣳ सुहवꣳ हवामहे । अꣳहोमुचꣳ सुकृतं दैव्यं जनम् । अग्निं मित्रं वरुणꣳ सातये भगम् । द्यावापृथिवी मरुतः स्वस्तये । महि क्षेत्रं पुरुश् चन्द्रं विविद्वान् । आदित् सखिभ्यश् च रथꣳ समैरत् । इन्द्रो नृभिर् अजनद् दीद्यानः साकम् । सूर्यम् उषसं गातुम् अग्निम् । उरुं नो लोकम् अनुनेषि विद्वान् । सुवर्वज् ज्योतिर् अभयꣳ स्वस्ति ।

VERSE: 4 { 2.7.13.4} ऋष्वा त इन्द्र स्थविरस्य बाहू । उपस्थेयाम शरणा बृहन्ता । आ नो विश्वाभिर् ऊतिभिः सजोषाः । ब्रह्म जुषाणो हर्यश्व याहि । वरीवृजत् स्थविरेभिः सुशिप्र । अस्मे दधद् वृषणꣳ शुष्मम् इन्द्र । इन्द्राय गाव आशिरम् । दुदुह्रे वज्रिणे मधु । यत् सीम् उपह्वरे ऽविदत् । तास् ते वज्रिन् धेनवो जोजयुर् नः ।

VERSE: 5 { 2.7.13.5} गभस्तयो नियुतो विश्ववाराः । अहर्_अहर् भूय इज् जोगुवानाः । पूर्णा इन्द्र क्षुमतो भोजनस्य । इमां ते धियं प्रभरे महो महीम् । अस्य स्तोत्रे धिषणा यत् त आनजे । तम् उत्सवे च प्रसवे च सासहिम् । इन्द्रं देवासः शवसा मदन्न् अनु ।

अनुवाक 14 VERSE: 1 { 2.7.14.1} प्रजापतिः पशून् असृजत । ते ऽस्मात् सृष्टाः पराञ्च आयन् । तान् अग्निष्टोमेन न_आप्नोत् । तान् उक्थ्येन न_आप्नोत् । तान् षोडशिना न_आप्नोत् । तान् रात्रिया न_आप्नोत् । तान्त् संधिना न_आप्नोत् । सो ऽग्निम् अब्रवीत् । इमान् म ईप्स_इति । तान् अग्निस् त्रिवृता स्तोमेन न_आप्नोत् ।

VERSE: 2 { 2.7.14.2} स इन्द्रम् अब्रवीत् । इमान् म ईप्स_इति {आनंदा. ईप्सतेति} । तान् इन्द्रः पञ्चदशेन स्तोमेन न_आप्नोत् । स विश्वान् देवान् अब्रवीत् । इमान् म ईप्सत_इति । तान् विश्वे देवाः सप्तदशेन स्तोमेन न_आप्नुवन् । स विष्णुम् अब्रवीत् । इमान् म ईप्स_इति । तान् विष्णुर् एकविꣳशेन स्तोमेन_आप्नोत् । वारवन्तीयेन_अवारयत ।

VERSE: 3 { 2.7.14.3} इदं विष्णुर् विचक्रम इति व्यक्रमत । यस्मात् पशवः प्र प्र_इव भ्रꣳशेरन् । स एतेन यजेत । यद् आप्नोत् । तद् अप्तोर्यामस्य_आप्तोर्यामत्वम् । एतेन वै देवा जैत्वानि जित्वा । यं कामम् अकामयन्त तम् आप्नुवन् । यं कामं कामयते । तम् एतेन_आप्नोति ।

अनुवाक 15 VERSE: 1 { 2.7.15.1} व्याघ्र्ò ऽयम् अग्नौ चरति प्रविष्टः । ऋषीणां पुत्रो अभिशस्तिपा अयम् । नमस्कारेण । नमसा ते जुहोमि । मा देवानां मिथुया कर्म {?} भागम् । सावीर्हि देव प्रसवाय पित्रे । वर्ष्माणम् अस्मै वरिमाणम् अस्मै । अथ_अस्मभ्यꣳ सवितः सर्वताता । दिवे दिव आसुवा भूरिपश्वः । भूतो भुतेषु चरति प्रविष्टः । स भूतानाम् अधिपतिर् बभूव ।

VERSE: 2 { 2.7.15.2} तस्य मृत्यौ चरति राजसूयम् । स राजा राज्यम् अनुमन्यताम् इदम् । येभिश् शिल्पैः पप्रथानाम् अदृꣳहत् । येभिर् द्याम् अभ्यपिꣳशत् प्रजापतिः । येभिर् वाचं विश्वरूपाꣳ समव्ययत् । तेन_इमम् अग्न इह वर्चसा समङ्ग्धि । येभिर् आदित्यस् तपति प्रकेतुभिः । येभिः सूर्यो ददृशे चित्रभानुः । येभिर् वाचं पुष्कलेभिर् अव्ययत् । तेन_इमम् अग्न इह वर्चसा समङ्ग्धि ।

VERSE: 3 { 2.7.15.3} आ_अयं भातु शवसा पञ्च कृष्टीः । इन्द्र इव ज्येष्ठो भवतु प्रजावान् । अस्मा अस्तु पुष्कलं चित्रभानु । आ_अयं पृणक्तु रजसी उपस्थम् । यत् ते शिल्पं कश्यप रोचनावत् । इन्द्रियावत् पुष्कलं चित्रभानु । यस्मिन्त् सूर्या अर्पिताः सप्त साकम् । तस्मिन् राजानम् अधिविश्रय_इमम् । द्यौर् असि पृथिव्यसि । व्याघ्रो वैयाघ्रे ऽधि ।

VERSE: 4 { 2.7.15.4} विश्रयस्व दिशो महीः । विशस् त्वा सर्वा वाञ्छन्तु । मा त्वद् राष्ट्रम् अधिभ्रशत् । या दिव्या आपः पयसा संबभूवुः । या अन्तरिक्ष उत पार्थिवीर् याः । तासां त्वा सर्वासाꣳ रुचा । अभिषिञ्चामि वर्चसा । अभि त्वा वर्चसा सिचं दिव्येन । पयसा सह । यथा_आसा राष्ट्रवर्धनः ।

VERSE: 5 { 2.7.15.5} तथा त्वा सविता करत् । इन्द्रं विश्वा अवीवृधन् । समुद्रव्यचसं गिरः । रथीतमꣳ रथीनाम् । वाजानाꣳ सत्पतिं पतिम् । वसवस् त्वा पुरस्ताद् अभिषिञ्चन्तु गायत्रेण छन्दसा । रुद्रास् त्वा दक्षिणतो ऽभिषिञ्चन्तु त्रैष्टुभेन छन्दसा । आदित्यास् त्वा पश्चाद् अभिषिञ्चन्तु जागतेन छन्दसा । विश्वे त्वा देवा उत्तरतो ऽभिषिञ्चन्त्व् आनुष्टुभेन छन्दसा । बृहस्पतिस् त्वा_उपरिष्टाद् अभिषिञ्चतु पाङ्क्तेन छन्दसा ।

VERSE: 6 { 2.7.15.6} अरुणं त्वा वृकम् उग्रं खजंकरम् । रोचमानं मरुताम् अग्रे अर्चिषः । सूर्यवन्तं मघवानं विषासहिम् । इन्द्रम् उक्थ्येषु नामहूतमꣳ हुवेम । प्र बाहवा सिसृतं जीवसे नः । आ नो गव्यूतिम् उक्षतं घृतेन । आ नो जने श्रवयतं युवाना । श्रुतं मे मित्रावरुणा हवेमा । इन्द्रस्य ते वीर्यकृतः । बाहू उपावहरामि ।

अनुवाक 16 VERSE: 1 { 2.7.16.1} अभि प्रेहि वीरयस्व । उग्रश् चेत्ता सपत्नहा । आतिष्ठ वृत्रहन्तमः । तुभ्यं देवा अधिब्रुवन् । अङ्कौ न्यङ्काव् अभितो रथं यौ । ध्वान्तं वाताग्रम् अनुसंचरन्तौ । दूरेहेतिर् इन्द्रियावान् पतत्री । ते नो ऽग्नयः पप्रयः पारयन्तु । नमस् त ऋषे गद । अव्यथायै {आनंदा. अव्यधायै} त्वा स्वधायै त्वा ।

VERSE: 2 { 2.7.16.2} मा न इन्द्र_अभितस् त्वद् ऋष्व_अरिष्टासः । एवा ब्रह्मन् तव_इद् अस्तु । तिष्ठा रथे अधि यद् वज्रहस्तः । आ रश्मीन् देव युवसे स्वश्वः । आतिष्ठ वृत्रहन्न् आतिष्ठन्तं परि । अनु त्वा_इन्द्रो मदत्व् अनु त्वा मित्रावरुणौ । द्यौश् च त्वा पृथिवी च प्रचेतसा । शुक्रो बृहद् दक्षिणा त्वा पिपर्तु । अनु स्वधा चिकिताꣳ सोमो अग्निः । अनु त्वा_अवतु सविता सवेन ।

VERSE: 3 { 2.7.16.3} इन्द्रं विश्वा अवीवृधन् । समुद्रव्याचसं गिरः । रथीतमꣳ {आनंदा. रथीततꣳ} रथीनाम् । वाजानाꣳ सत्पतिं पतिम् । परि मा सेन्या घोषाः । ज्यानां वृञ्जन्तु गृध्नवः {आनंदा. गृवध्नः?} मेथिष्ठाः पिन्वमाना इह । मां गोपतिम् अभिसंविशन्तु । तन् मे ऽनुमतिर् अनुमन्यताम् । तन् माता पृथिवी तत् पिता द्यौः ।

VERSE: 4 { 2.7.16.4} तद् ग्रावाणः सोमसुतो मयोभुवः । तद् अश्विना शृणुतꣳ सौभगा युवम् । अवते हेड उद् उत्तमम् । एना व्याघ्रं परिषस्वजानाः । सिꣳहꣳ हिन्वन्ति {आनंदा. हिन्वति} महते सौभगाय । समुद्रं न सुहवं तस्थिवाꣳसम् । मर्मृज्यन्ते द्वीपिनम् अप्स्व् अन्तः । उद् असाव् एतु सूर्यः । उद् इदं मामकं वचः । उदिहि देव सूर्य । सह वग्नुना मम । अहं वाचो विवाचनम् । मयि वाग् अस्तु धर्णसिः । यन्तु नदयो वर्षन्तु पर्जन्याः । सुपिप्पला ओषधयो भवन्तु । अन्नवताम् ओदनवताम् आमिक्षवताम् । एषाꣳ राजा भूयासम् ।

अनुवाक 17 VERSE: 1 { 2.7.17.1} ये केशिनः प्रथमाः सत्त्रम् आसत । येभिर् आभृतं यद् इदं विरोचते । तेभ्यो जुहोमि बहुधा घृतेन । रायस् पोषेण_इमं वर्चसा सꣳसृजाथ । न_ऋते ब्रह्मणस् तपसो विमोकः । द्विनाम्नी दीक्षा वशिनी ह्य् उग्रा । प्र केशाः सुवते काण्ड्íनो भवन्ति । तेषां ब्रह्म_इद् ईशे वपनस्य न_अन्यः । आरोह प्रोष्ठं विषहस्व शत्रून् । अवास्राग् दीक्षा वशिनी ह्य् उग्रा ।

VERSE: 2 { 2.7.17.2} देहि दक्षिणां प्रतिरस्व_आयुः । अथा मुच्यस्व वरुणस्य पाशात् । येन_अवपत् सविता क्षुरेण । सोमस्य राज्ञो वरुणस्य विद्वान् । तेन ब्रह्माणो वपत_इदम् अस्य_ऊर्जा_इमम् । रय्या वर्चसा सꣳसृजाथ । मा ते केशान् अनु गाद् वर्च एतत् । तथा धाता करोतु ते । तुभ्यम् इन्द्रो बृहस्पतिः । सविता वर्च आदधात् ।

VERSE: 3 { 2.7.17.3} तेभ्यो निधानं बहुधा व्यैच्छन् । अन्तरा द्यावापृथिवी अपः सुवः । दर्भस्तम्बे वीर्यकृते निधाय । पौꣳस्येन_इमं वर्चसा सꣳसृजाथ । बलं ते बाहुवोः सविता दधातु । सोमस् त्वा_अनक्तु पयसा घृतेन । स्त्रीषु रूपम् अश्विना_एतन् निधत्तम् । पौꣳस्येन_इमं { पोंस्येनेमं} वर्चसा सꣳसृजाथ । यत् सीमन्तं कङ्कतस् ते लिलेख । यद् वा क्षुरः परिववर्ज वपꣳस् ते । स्त्रीषु रूपम् अश्विना_एतन् निधत्तम् । पौꣳस्येन_इमꣳ सꣳसृजाथो वीर्येण ।

अनुवाक 18 VERSE: 1 { 2.7.18.1} इन्द्रं वै स्वा विशो मरुतो न_अपाचायन् । सो ऽनपचाय्यमान एतं विघनम् अपश्यत् । तम् आहरत् । तेन_अयजत । तेन_एवाऽऽसां तꣳ सꣳस्तम्भं व्यहन् । यद् व्यहन् । तद् विघनस्य विघनत्वम् । वि पाप्मानं भ्रातृव्यꣳ हते । य एतेन यजते । य उ चैनम् एवं वेद ।

VERSE: 2 { 2.7.18.2} यꣳ राजानं विशो न_अपचायेयुः । यो वा ब्राह्मणस् तमसा पाप्मना प्रावृतः स्यात् । स एतेन यजेत । विघनेन_एवैनद् विहत्य । विशाम् आधिपत्यं गच्छति । तस्य द्वे द्वादशे स्तोत्रे भवतः । द्वे चतुर्विꣳशे । औद्भिद्यम् एव तत् । एतद् वै क्षत्रस्य_औद्भिद्यम् । यद् अस्मै स्वा विशो बलिꣳ हरन्ति ।

VERSE: 3 { 2.7.18.3} हरन्त्य् अस्मै विशो बलिम् । आ_एनम् अप्रतिख्यातं गच्छति । य एवं वेद । प्रबाहुग् वा अग्रे क्षत्राण्य् आतेपुः । तेषाम् इन्द्रः क्षत्राण्य् आदत्त । न वा इमानि क्षत्राण्य् अभूवन्न् इति । तन् नक्षत्राणां नक्षत्रत्वम् । आ श्रेयसो भ्रातृव्यस्य तेज इन्द्रियं दत्ते । य एतेन यजते । य उ चैनम् एवं वेद ।

VERSE: 4 { 2.7.18.4} तद् यथा ह वै सचाक्रिणौ कप्लकाव् उपावहितौ स्याताम् । एवम् एतौ युग्मन्तौ स्तोमौ । अयुक्षु स्तोमेषु क्रियेते । पाप्मनो ऽपहत्यै । अप पाप्मानं भ्रातृव्यꣳ हते । य एतेन यजते । य उ चैनम् एवं वेद । तद् यथा ह वै सूतग्रामण्यः । एवं छन्दाꣳसि । तेष्व् असाव् आदित्यो बृहतीर् अभ्यूढः {आनंदा. अभ्यूडः} ।

VERSE: 5 { 2.7.18.5} सतोबृहतीषु स्तुवते सतो बृहन् । प्रजया पशुभिर् असानि_इत्य् एव । व्यतिषक्ताभिः स्तुवते । व्यतिषक्तं वै क्षत्रं विशा । विशा_एवैनं क्षत्रेण व्यतिषजति । व्यतिषक्ताभिः स्तुवते । व्यतिषक्तो वै ग्रामणीः सजातैः । सजातैर् एवैनं व्यतिषजति । व्यतिषक्ताभिः स्तुवते । व्यतिषक्तो वै पुरुषः पाप्मभिः । व्यतिषक्ताभिर् एवास्य पाप्मनो नुदते ।


प्रपाठक: 8 अनुवाक 1 VERSE: 1 { 2.8.1.1} पीवोन्नाꣳ {ड्युमोण्ट पीवोअन्नाꣳ} रयिवृधः सुमेधाः । श्वेतः सिषक्ति नियुताम् अभिश्रीः । ते वायवे समनसो वितस्थुः । विश्वा_इत्_ नरः स्वपत्यानि चक्रुः । राये ऽनु यं जज्ञतू रोदसी उभे । राये देवी धिषणा धाति देवम् । अधा वायुं नियुतः सश्चत स्वाः । उत श्वेतं वसुधितिं निरेके । {च्} आ वायो, {द्} प्र याभिः । 0 {द्} प्र वायुम् अच्छा बृहती मनीषा ।

VERSE: 2 { 2.8.1.2} बृहद्रयिं विश्ववाराꣳ {ड्युमोण्ट विश्ववारꣳ} रथप्राम् । द्युतद्यामा नियुतः पत्यमानः । कविः कविम् इयक्षसि प्रयज्यो । आ नो नियुद्भिः शतिनीभिर् अध्वरम् । सहस्रिणीभिर् उप याहि यज्ञम् । वायो अस्मिन् हविषि मादयस्व । यूयं पात स्वस्तिभिः सदा नः । प्रजापते न त्वद् एतान्य् अन्यः । विश्वा जातानि परि ता बभूव । यत्कामास् ते जुहुमस् तन् नो अस्तु ।

VERSE: 3 { 2.8.1.3} वयꣳ स्याम पतयो रयीणाम् । रयीणां पतिं यजतं बृहन्तम् । अस्मिन् भरे नृतमं वाजसातौ । प्रजापतिं प्रथमजाम् ऋतस्य । यजाम देवम् अधि नो ब्रवीतु । प्रजापते त्वं निधिपाः पुराणः । देवानां पिता जनिता प्रजानाम् । पतिर् विश्वस्य जगतः परस्पाः । हविर् नो देव विहवे जुषस्व । तव_इमे लोकाः प्रदिशो दिशश् च ।

VERSE: 4 { 2.8.1.4} परावतो निवत उद्वतश् च । प्रजापते विश्वसृज् जीवधन्य इदं नो देव । प्रतिहर्य हव्यम् । प्रजापतिं प्रथमं यज्ञियानाम् । देवानाम् अग्रे यजतं यजध्वम् । स नो ददातु द्रविणꣳ {आनंदा. द्रविणꣳ} सुवीर्यम् । रायस् पोषं विष्यतु नाभिम् अस्मे । यो राय ईशे शतदाय उक्थ्यः । यः पशूनाꣳ रक्षिता विष्ठितानाम् । प्रजापतिः प्रथमजा ऋतस्य ।

VERSE: 5 { 2.8.1.5} सहस्रधामा जुषताꣳ हविर् नः । सोमापूषणा_ इमौ देवौ । सोमापूषणा रजसो विमानम् । सप्तचक्रꣳ रथम् अविश्वमिन्वम् । विषूवृतं मनसा युज्यमानम् । तं जिन्वथो वृषणा पञ्चरश्मिम् । दिव्यन्यः सदनं चक्र उच्चा । पृथिव्याम् अन्यो अध्य् अन्तरिक्षे । ताव् अस्मभ्यं पुरुवारं पुरुक्षुम् । रायस् पोषं विष्यतां नाभिम् अस्मे ।

VERSE: 6 { 2.8.1.6} धियं पूषा जिन्वतु विश्वमिन्वः । रयिꣳ सोमो रयिपतिर् दधातु । अवतु देव्य् अदितिर् अनर्वा । बृहद् वदेम विदथे सुवीराः । विश्वान्य् अन्यो भुवना जजान । विश्वम् अन्यो अभिचक्षाण एति । सोमापूषणाव् अवतं धियं मे । युवभ्यां विश्वाः पृतना जयेम । उद् उत्तमं वरुण_ अस्तभ्नाद् द्याम् {सो तै.सं.1.8.2.2; ,आषः याम्} । यत् किं च_इदं कितवासः । अव ते हेडस् तत् त्वा यामि । आदित्यानाम् अवसा न दक्षिणा । धारयन्त आदित्यासस् तिस्रो भूमीर् धारयन् । यज्ञो देवानाꣳ शुचिर् अपः ।

अनुवाक 2 VERSE: 1 { 2.8.2.7} ते शुक्रासः शुचयो रश्मिवन्तः । सीदन्न् आदित्या अधि बर्हिषि प्रिये । कामेन देवाः सरथं दिवो नः । आयान्तु यज्ञम् उप नो जुषाणाः । ते सूनवो अदितेः पीवसाम् इषम् । घृतं पिन्वत् प्रतिहर्यन्न् ऋतेजाः । प्र यज्ञिया यजमानाय येमुरे । आदित्याः कामं पितुमन्तम् अस्मे । आ नः पुत्रा अदितेर् यान्तु यज्ञम् । आदित्यासः पथिभिर् देवयानैः ।

VERSE: 2 { 2.8.2.2} अस्मे कामं दाशुषे सन्नमन्तः । पुरोडाशं घृतवन्तं जुषन्ताम् । स्कभायत निर्ऋतिꣳ सेधत_आमतिम् । प्र रश्मिभिर् यतमाना अमृध्राः । आदित्याः काम प्रयतां वषट्कृतिम् । जुषध्वं नो हव्यदातिं यजत्राः । आदित्यान् कामम् अवसे हुवेम । ये भूतानि जनयन्तो विचिख्युः । सीदन्तु पुत्रा अदितेर् उपस्थम् । स्तीर्णं बर्हिर् हविरद्याय देवाः ।

VERSE: 3 { 2.8.2.3} स्तीर्णं बर्हिः सीदता यज्ञे अस्मिन् । ध्राजाः सेधन्तो अमतिं दुरेवाम् । अस्मभ्यं पुत्रा अदितेः प्रयꣳसत । आदित्याः काम हविषो जुषाणाः । अग्ने नय सुपथा राये अस्मान् । विश्वानि देव वयुनानि विद्वान् । युयोध्य् अस्मज् जुहुराणम् एनः । भूयिष्ठां ते नमौक्तिं विधेम । प्र वः शुक्राय भानवे भरध्वम् । हव्यं मतिं च_अग्नये सुपूतम् ।

VERSE: 4 { 2.8.2.4} यो दैव्यानि मानुषा जनूꣳषि । अन्तर् विश्वानि विद्मना जिगाति । अच्छा गिरो मतयो देवयन्तीः । अग्निं यन्ति द्रविणं भिक्षमाणाः । सुसंदृशꣳ सुप्रतीकꣳ स्वञ्चम् । हव्यवाहम् अरतिं मानुषाणाम् । अग्ने त्वम् अस्मद् युयोध्य् अमीवाः । अनग्नित्रा अभ्यमन्त कृष्टीः । पुनर् अस्मभ्यꣳ सुविताय देव । क्षां विश्वेभिर् अजरेभिर् यजत्र ।

VERSE: 5 { 2.8.2.5} अग्ने त्वं पारया नव्यो अस्मान् । स्वस्तिभिर् अति दुर्गाणि विश्वा । पूश् च पृथ्वी बहुला न उर्वी । भवा तोकाय तनयाय शं योः । प्र कारवो मनना वच्यमानाः । देवद्रीचीं नयथ देवयन्तः । दक्षिणावाड् वाजिनी प्राच्य् एति । हविर् भरन्त्य् अग्नये घृताची । इन्द्रं नरो, युजे रथम्, । जगृभ्णा {ड्युमोण्ट जगृभ्मा} ते दक्षिणाम् इन्द्र हस्तम् ।

VERSE: 6 { 2.8.2.6} वसूयवो वसुपते वसूनाम् । विद्मा हि त्वा गोपतिꣳ शूर गोनाम् । अस्मभ्यं चित्रं वृषणꣳ रयिं दाः । तव_इदं विश्वम् अभितः पशव्यम् । यत् पश्यसि चक्षसा सूर्यस्य । गवाम् असि गोपतिर् एक इन्द्र । भक्षीमहि ते प्रयतस्य वस्वः । सम् इन्द्र णो मनसा नेषि गोभिः । सꣳ सूरिभिर् मघवन्त् सꣳ स्वस्त्या । सं ब्रह्मणा देवकृतं यद् अस्ति ।

VERSE: 7 { 2.8.2.7} सं देवानाꣳ सुमत्या यज्ञियानाम् । आरात्_शत्रुम् अप बाधस्व दूरम् । उग्रो यः शम्बः पुरुहूत तेन । अस्मे धेहि यवमद् गोमद् इन्द्र । कृधी धियं जरित्रे वाजरत्नाम् । आ वेधसꣳ, स हि शुचिः, । बृहस्पतिः प्रथमं जायमानः । महो ज्योतिषः परमे व्योमन् । सप्तास्यस् तुविजातो रवेण । वि सप्तरश्मिर् अधमत् तमाꣳसि ।

VERSE: 8 { 2.8.2.8} बृहस्पतिः समजयद् वसूनि । महो व्रजान् गोमतो देव एषः । अपः सिषासन्त् सुवर् अप्रतीत्तः । बृहस्पतिर् हन्त्य् अमित्रम् अर्कैः । बृहस्पते पर्य्, एवा पित्रे, । आ नो दिवः, पावीरवी, । इमा जुह्वाना, यस् ते स्तनः, । सरस्वत्य् अभि नो नेषि, । इयꣳ शुष्मेभिर् बिसखा इव_अरुजत् । सानु गिरीणां तविषेभिर् ऊर्मिभिः । पारावदघ्नीम् {ड्युमोण्ट पारावतघीम्} अवसे सुवृक्तिभिः । सरस्वतीम् आविवासेम धीतिभिः ।

अनुवाक 3 VERSE: 1 { 2.8.3.1} सोमो धेनुꣳ सोमो अर्वन्तम् आशुम् । सोमो वीरं कर्मण्यं ददातु । सादन्यं विदथ्यꣳ सभेयम् । पितुःश्रवणं यो ददाशद् अस्मै । अषाढं युत्सु, त्वꣳ सोम क्रतुभिः, । या ते धामानि हविषा यजन्ति, । त्वम् इमा ओषधीः सोम विश्वाः । त्वम् अपो अजनयस् त्वं गाः । त्वमाततन्थ_उर्व् अन्तरिक्षम् । त्वं ज्योतिषा वि तमो ववर्थ ।

VERSE: 2 { 2.8.3.2} या ते धामानि दिवि या पृथिव्याम् । या पर्वतेष्व् ओषधीष्व् अप्सु । तेभिर् नो विश्वैः सुमना अहेडन् । राजन्त् सोम प्रति हव्या गृभाय । विष्णोर् नु कं, तद् अस्य प्रियम्, । प्र तद् विणुः, । परो मात्रया तनुवा वृधान । न ते महित्वम् अन्वश्नुवन्ति । उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वम् । परमस्य वित्से ।

VERSE: 3 { 2.8.3.3} विचक्रमे, त्रिर् देवः, । आ ते महो, यो जात एव. । अभि गोत्राणि. । आभिः स्पृधो मिथतीर् अरिषण्यन् । अमित्रस्य व्यथया मन्युम् इन्द्र आभिर् विश्वा अभियुजो विषूचीः । आर्याय विशो ऽवतरीर् दासीः । अयꣳ शृण्वे अध जयन्न् उत घ्नन् । अयम् उत प्रकृणुते युधा गाः । यदा सत्यं कृणुते मन्युम् इन्द्रः ।

VERSE: 4 { 2.8.3.4} विश्वं दृढं भयत एजद् अस्मात् । अनु स्वधाम् अक्षरन्न् आपो अस्य । अवर्धत मध्य आ नाव्यानाम् । सध्र्īचीनेन मनसा तम् इन्द्र ओजिष्ठेन । हन्मना_अहन्न् अभि द्यून् । मरुत्वन्तं वृषभं वावृधानम् । अकवारिं दिव्यꣳ शासम् इन्द्रम् । विश्वासाहम् अवसे नूतनाय । उग्रꣳ सहोदाम् इह तꣳ हुवेम । जनिष्ठा उग्रः सहसे तुराय ।

VERSE: 5 { 2.8.3.5} मन्द्र ओजिष्ठो बहुलाभिमानः । अवर्धन्न् इन्द्रं मरुतश् चिद् अत्र । माता यद् वीरं दधनद् धनिष्ठा । क्व स्या वो मरुतः स्वधा_आसीत् । यन् माम् एकꣳ समधत्ता_अहिहत्ये । अहꣳ ह्य् उग्रस् तविषस् तुविष्मान् । विश्वस्य शत्रोर् अनमं वधस्न्áइः । वृत्रस्य त्वा श्वसथाद् ईषमाणाः । विश्वे देवा अजहुर् ये सखायः । मरुद्भिर् इन्द्र सख्यं ते अस्तु ।

VERSE: 6 { 2.8.3.6} अथ_इमा विश्वाः पृतना जयासि । वधीं { वर्धीं ?} वृत्रं मरुत इन्द्रियेण । स्वेन भामेन तविषो बभूवान् । अहम् एता मनवे विश्वश्चन्द्राः । सुगा अपश् चकर वज्रबाहुः । स यो वृषा वृष्णियेभिः समोकाः । महो दिवः पृथिव्याश् च सम्राट् । सतीनसत्त्वा {ड्युमोण्ट सतीनसत्वा} हव्यो भरेषु । मरुत्वान् नो भवत्व् इन्द्र ऊती । इन्द्रो वृत्रम् अतरद् वृत्रतूर्ये ।

VERSE: 7 { 2.8.3.7} अनाधृष्यो मघवा शूर इन्द्रः । अन्व् एनं विशो अमदन्त पूर्विः । अयꣳ राजा जगतश् चर्षणीनाम् । स एव वीरः स उ वीर्यावान् । स एकराजो जगतः परस्पाः । यदा वृत्रम् अतरत्_शूर इन्द्रः । अथ_अभवद् दमिता_अभिक्रतूनाम् । इन्द्रो यज्ञं वर्धयन् विश्ववेदाः । पुरोडाशस्य जुषताꣳ हविर् नः । वृत्रं तीर्त्वा दानवं वज्रबाहुः ।

VERSE: 8 { 2.8.3.8} दिशो ऽदृꣳहद् दृꣳहिता दृꣳहणेन । इमं यज्ञं वर्धयन् विश्ववेदाः । पुरोडाशं प्रतिगृभ्णात्व् इन्द्रः । यदा वृत्रम् अतर्त्_शूर इन्द्रः । अथ_एकराजो अभवज् जनानाम् । इन्द्रो देवान्_शम्बरहत्य आवत् । इन्द्रो देवानाम् अभवत् पुरोगाः । इन्द्रो यज्ञे हविषा वावृधानः । वृत्रतूर् णो अभयꣳ शर्म यꣳसत् । यः सप्त सिन्धूꣳर् अदधात् पृथिव्याम् । यः सप्त लोकान् अकृणोद् दिशश् च । इन्द्रो हविष्मान्त् सगणो मरुद्भिः । वृत्रतूर् णो यज्ञम् इह_उपयासत् ।

अनुवाक 4 VERSE: 1 { 2.8.4.1} इन्द्रस् तरस्वान् अभिमातिहा_उग्रः । हिरण्यवाशीर् इषिरः सुवर्षाः ।तस्य वयꣳ सुमतौ यज्ञियस्य । अपि भद्रे सौमनसे स्याम । हिरण्यवर्णो अभयं कृणोतु । अभिमातिहा_इन्द्रः पृतनासु जिष्णुः । स नः शर्म त्रिवरूथं वियꣳसत् । यूयं पात स्वस्तिभिः सदा नः । इन्द्रꣳ स्तुहि वज्रिणꣳ स्तोमपृष्ठम् {ड्युमोण्ट सोमपृष्ठम्} । पुरोडाशस्य जुषताꣳ हविर् नः ।

VERSE: 2 { 2.8.4.2} हत्वा_अभिमातीः पृतनाः सहस्वान् । अथ_अभयं कृणुहि { अथाभयं कृणुहि} विश्वतो नः । स्तुहि शूरं वज्रिणम् अप्रतीतम् । अभिमातिहनं पुरुहूतम् इन्द्रम् । य एक इत्_शतपतिर् जनेषु । तस्मा इन्द्राय हविर् आजुहोत । इन्द्रो देवानाम् अधिपाः पुरोहितः । दिशां पतिर् अभवद् वाजिनीवान् । अभिमातिहा तविषस् तुविष्मान् । अस्मभ्यं चित्रं वृषणꣳ रयिं दात् ।

VERSE: 3 { 2.8.4.3} य इमे द्यावापृथिवी महित्वा । बलेन_अदृꣳहद् अभिमातिहा_इन्द्रः । स नो हविः प्रतिगृभ्णातु रातये । देवानां देवो निधिपा नो अव्यात् । अनवस् ते रथं, वृष्णे यत् ते. । इन्द्रस्य नु वीर्याण्य्, अहन्न् अहिम्, । इन्द्रो यातो ऽवसितस्य राजा । शमस्य च शृङ्गिणो वज्रबाहुः । स_इद् उ राजा क्षेति चर्षणीनाम् । अरान् न नेमिः परि ता बभूव ।

VERSE: 4 { 2.8.4.4} अभि सिध्मो अजिगाद् अस्य शत्रून् । वि तिग्मेन वृषभेणा पुरो ऽभेत् । सं वज्रेण_असृजद् वृत्रम् इन्द्रः । प्र स्वां मतिम् अतिरत्_शाशदानः । विष्णुं देवं वरुणमूतये भगम् । मेदसा देवा वपया यजध्वम् । ता नो यज्ञम् आगतं विश्वधेना । प्रजावद् अस्मे द्रविणा_इह धत्तम् । मेदसा देवा वपया यजध्वम् । विष्णुं च देवं वरुणं च रातिम् ।

VERSE: 5 { 2.8.4.5} ता नो अमीवा अपबाधमानौ । इमं यज्ञं जुषमाणाव् उपेतम् । विष्णूवरुणा युवम् अध्वराय नः । विशे जनाय महि शर्म यच्छतम् । दीर्घप्रयज्यू हविषा वृधाना । ज्योतिषा_अरातीर् दहतं तमाꣳसि । ययोर् ओजसा स्कभिता रजाꣳसि । वीर्येभिर् वीरतमा शविष्ठा । या पत्येते अप्रतीता शहोभिः । विष्णू अगन् वरुणा पूर्वहूतौ ।

VERSE: 6 { 2.8.4.6} विष्णूवरुणाव् अभिशस्तिपा वाम् । देवा यजन्त हविषा घृतेन । अप_अमीवाꣳ सेधतꣳ रक्षसश् च । अथा धत्तं यजमानाय शं योः । अꣳहोमुचा वृषभा सुप्रतूर्ती । देवानां देवतमा शविष्ठा । विष्णूवरुणा प्रतिहर्यतं नः । इदं नरा {ड्युमोण्ट नरा} प्रयतमूतये हविः । मही नु द्यावापृथिवी इह ज्येष्ठे । रुचा भवताꣳ शुचयद्भिर् अर्कैः ।

VERSE: 7 { 2.8.4.7} यत् सीं वरिष्ठे बृहती विमिन्वन् । नृवद्भ्यो {ड्युमोण्ट रुवद् धो} ऽक्षा पप्रथानेभिर् एवैः । प्र पूर्वजे पितरा नव्यसीभिः । गीर्भिः कृणुध्वꣳ सदने ऋतस्य । आ नो द्यावापृथिवी दैव्येन । जनेन यातं महि वां वरूथम् । स इत् स्वपा भुवनेष्व् आस । य इमे द्यावापृथिवी जजान । उर्वी गभीरे रजसी सुमेके । अवꣳशे धीरः शच्या समैरत् ।

VERSE: 8 { 2.8.4.8} भूरिं द्वे अचरन्ती चरन्तम् । पद्वन्तं गर्भम् अपदी दधाते । नित्यं न सूनुं पित्रोर् उपस्थे । तं पिपृतꣳ रोदसी सत्यवाचम् । इदं द्यावापृथिवी सत्यम् अस्तु । पितर् मातर् यद् इह_उपब्रुवे वाम् । भूतं देवानाम् अवमे अवोभिः । विद्याम_इषं वृजनं जीरदानुम् । उर्वी पृथ्वी बहुले दूरे_अन्ते । उपब्रुवे नमसा यज्ञे अस्मिन् । दधाते ये सुभगे सुप्रतूर्ती । द्यावा रक्षतं पृथिवी नो अभ्वात् । या जाता ओषधयो, ऽति विश्वाः परिष्ठाः, । या ओषधयः सोमराज्ञीर्, अश्वावतीꣳ सोमवतीम्, । ओषधीर् इति मातरो, ऽन्या वो अन्याम् अवतु, ।

अनुवाक 5 VERSE: 1 { 2.8.5.5} शुचिं नु स्तोमꣳ, श्नथद् वृत्रम्, । उभा वाम् इन्द्राग्नी, प्र चर्षणिभ्यः, । आ वृत्रहणा, गीर्भिर् विप्रः, । ब्रह्मणस्पते त्वम् अस्य यन्ता । सूक्तस्य बोधि तनयं च जिन्व । विश्वं तद् भद्रं यद् अवन्ति देवाः । बृहद् वदेम विदथे सुवीराः । स ईꣳ सत्येभिः सखिभिः शुचद्भिः । गोधायसं वि धनसैर् अतर्दत् । ब्रह्मणस्पतिर् वृषभिर् वराहैः ।

VERSE: 2 { 2.8.5.2} घर्मस्वेदोभिर् द्रविणं व्यानट् । ब्रह्मणस्पतेर् अभवद् यथावशम् । सत्यो मन्युर् महि कर्मा करिष्यतः । यो गा उदाजत् स दिवे वि च_अभजत् । महि_इव रीतिः शवसा सरत् {ड्युमोण्ट शवसा_ऽसरत्} पृथक् । इन्धानो अग्निं वनवद् वनुष्यतः । कृतब्रह्मा शूशुवद् रातहव्य इत् । जातेन जातम् अति सृत् प्रसृꣳसते {ड्युमोण्ट अति स प्रसर्स्र्̥ते, प्रोबब्ल्य् बसेद् उपोन् ऋ.वे..2.25.1} । यं_यं युजं कृणुते ब्रह्मणस्पतिः । ब्रह्मणस्पते सुयमस्य विश्वहा ।

VERSE: 3 { 2.8.5.3} रायः स्याम रथ्यो विवस्वतः । वीरेषु वीराꣳ उपपृङ्ग्धि नस् त्वम् । यद् ईशानो ब्रह्मणा वेषि मे हवम् । स इज् जनेन स विशा स जन्मना । स पुत्रैर् वाजं भरते धना नृभिः । देवानां यः पितरम् आविवासति । श्रद्धामना हविषा ब्रह्मणस्पतिम् । यस् ते पूषन् नावो अन्तः, । शुक्रं ते अन्यत्, पूषा_इमा आशाः, । प्रपथे पथाम् अजनिष्ट पूषा ।

VERSE: 4 { 2.8.5.4} प्रपथे दिवः प्रपथे पृथिव्याः । उभे अभि प्रियतमे सधस्थे । आ च परा च चरति प्रजानन् । पूषा सुबन्धुर् दिव आ पृथिव्याः । इडस् पतिर् मघवा दस्मवर्चाः । तं देवासो अददुः सूर्यायै । कामेन कृतं तवसꣳ स्वञ्चम् । अजाश्वः पशुपा वाजवस्त्यः । धियंजिन्वो विश्वे भुवने अर्पितः । अष्ट्रां पूषा शिथिराम् उद्वरीवृजत् ।

VERSE: 5 { 2.8.5.5} संचक्षाणो भुवना देव ईयते । शुची वो हव्या मरुतः शुचीनाम् । शुचिꣳ हिनोम्य् अध्वरꣳ शुचिभ्यः । ऋतेन { ऋतेन} सत्यम् ऋतसाप आयन् । शुचिजन्मानः शुचयः पावकाः । प्र चित्रम् अर्कं गृणते तुराय । मारुताय स्वतवसे भरध्वम् । ये सहाꣳसि सहसा सहन्ते । रेजते अग्ने पृथिवी मखेभ्यः । अꣳसेष्व् आ मरुतः खादयो वः ।

VERSE: 6 { 2.8.5.6} वक्षःसु रुक्मा उपशिश्रियाणाः । वि विद्युतो न व्य्र्̥ष्टिभी रुचानाः । अनु स्वधाम् आयुधैर् यत्_शमानाः । या वः शर्म शशमानाय सन्ति । त्रिधातूनि दाशुषे यच्छत_अधि । अस्मभ्यं तानि मरुतो वियन्त । रयिं नो धत्त वृषणः सुवीरम् । इमे तुरं मरुतो रामयन्ति । इमे सहः सहस आनमन्ति । इमे शꣳसं वनुष्यतो निपान्ति ।

VERSE: 7 { 2.8.5.7} गुरु द्वेषो अररुषे दधन्ति । अरा इव_इद् अचरमा अह_इव । प्र प्रजायन्ते अकवा महोभिः । पृश्नेः पुत्रा उपमासो रभिष्ठाः । स्वया मत्या मरुतः संमिमिक्षुः । अनु ते दायि मह इन्द्रियाय । सत्रा ते विश्वम् अनु वृत्रहत्ये । अनु क्षत्त्रम् अनु सहो यजत्र । इन्द्र देवेभिर् अनु ते नृषह्ये । य इन्द्र शुष्मो मघवन् ते अस्ति ।

VERSE: 8 { 2.8.5.8} शिक्षा सखिभ्यः पुरुहूत नृभ्यः । त्वꣳ हि दृढा मघवन् विचेताः । अपावृधि परिवृतिं न राधः । इन्द्रो राजा जगतश् चर्षणीनाम् । अधि क्षमि विषुरूपं यद् अस्ति । ततो ददातु दाशुषे वसूनि । चोदद् राध उपस्तुतश् चिद् अर्वाक् । तम् उ ष्टुहि यो अभिभूत्योजाः । वन्वन्न् अवातः पुरुहूत इन्द्रः । अषाढम् उग्रꣳ सहमानम् आभिः ।

{ 2.8.5.9} गीर्भिर् वर्ध वृषभं चर्षणीनाम् । स्थूरस्य रायो बृहतो य ईशे । तम् उ ष्टवाम विदथेष्व् इन्द्रम् । यो वायुना जयति गोमतीषु । प्र धृष्णुया नयति वस्यो अच्छ । आ ते शुष्मो वृषभ एतु पश्चात् । आ_उत्तराद् अधराग् आ पुरस्तात् । आ विश्वतो अभि समेत्व् अर्वाङ् । इन्द्र द्युम्नꣳ सुवर्वद् धेह्य् अस्मे ।

अनुवाक 6 VERSE: 1 { 2.8.6.1} आ देवो यातु सविता सुरत्नः । अन्तरिक्षप्रा वहमानो अश्वैः । हस्ते दधानो नर्या पुरूणि । निवेशयन् च प्रसुवन् च भूम । अभीवृतं कृशनैर् विश्वरूपम् । हिरण्यशम्यं यजतो बृहन्तम् । आस्थाद् रथꣳ सविता चित्रभानुः । कृष्णा रजाꣳसि तविषीं दधानः । स घा नो देवः सविता सवाय । आसाविषद् वसुपतिर् वसूनि ।

VERSE: 2 { 2.8.6.2} विश्रयमाणो अमतिम् {ड्युमोण्ट अमतिम्} उरूचीम् । मर्तभोजनम् अध रासते न {ड्युमोण्ट नः} । वि जनान्_श्यावाः शितिपादो अख्यन् । रथꣳ हिरण्यप्रौगं वहन्तः । शश्वद् दिशः सवितुर् दैव्यस्य । उपस्थे विश्वा भुवनानि तस्थुः । वि सुपर्णो अन्तरिक्षाण्य् अख्यत् । गभीरवेपा असुरः सुनीथः । क्व_ìदानीꣳ सूर्यः कश् चिकेत । कतमां द्याꣳ रश्मिर् अस्य_आततान ।

VERSE: 3 { 2.8.6.3} भगं धियं वाजयन्तः पुरन्धिम् । नराशꣳसो ग्नास्पतिर् नो अव्यात् । आ ऽये {ड्युमोण्ट आये} वामस्य संगथे रयीणाम् । प्रिया देवस्य सवितुः स्याम । आ नो विश्वे अस्क्र्ā गमन्तु देवाः । मित्रो अर्यमा वरुणः सजोषाः । भुवन् यथा नो विश्वे वृधासः । करन्त् सुषहा विथुरं न शवः । शं नो देवा विश्वदेवा भवन्तु । शꣳ सरस्वती सह धीभिर् अस्तु ।

VERSE: 4 { 2.8.6.4} शम् अभिषाचः शम् उ रातिषाचः । शं नो दिव्याः पार्थिवाः शं नो अप्याः । ये सवितुः सत्यसवस्य विश्वे । मित्रस्य व्रते वरुणस्य देवाः । ते सौभगं वीरवद् गोमद् अप्नः । दधातन द्रविणं चित्रम् अस्मे । अग्ने याहि दूत्यं वारिषेण्यः {ड्युमोण्ट मा विषण्यः} । देवाꣳ अच्छा ब्रह्मकृता गणेन । सरस्वतीं मरुतो अश्विना_अपः । यक्षि देवान् रत्नधेयाय विश्वान् ।

VERSE: 5 { 2.8.6.5} द्यौः पितः पृथिवि मातर् अध्रुक । अग्ने भ्रातर्वसवो मृडता नः । विश्व आदित्या आदिते सजोषाः । अस्मभ्यꣳ शर्म बहुलं वियन्त । विश्वे देवाः शृणुत_इमꣳ हवं मे । ये अन्तरिक्षे य उप द्यवि ष्ठ । ये अग्निजिह्वा उत वा यजत्राः । आसद्य_अस्मिन् बर्हिषि मादयध्वम् । आ वां मित्रावरुणा हव्यजुष्टिम् । नमसा देवावव् अवसा ववृत्याम् ।

VERSE: 6 { 2.8.6.6} अस्माकं ब्रह्म पृतनासु सह्या अस्माकम् । {ड्युमोण्ट सुग्गेस्त्स् नोत् तो पुत् ।} वृष्टिर् दिव्या सुपारा । युवं वस्त्राणि पीवसा वसाथे । युवोर् अच्छिद्रा मन्तवो ह सर्गाः । अवातिरतम् अनृतानि विश्वा । ऋतेन मित्रावरुणा सचेथे । तत् सु वां मित्रावरुणा महित्वम् । ईर्मा तस्थुषीर् अहभिर् दुदुह्रे । विश्वाः पिन्वथ स्वसरस्य धेनाः अनु वाम् एकः पविर् आववर्ति ।

VERSE: 7 { 2.8.6.7} यद् बꣳहिष्ठं न_अतिविदे {ड्युमोण्ट नातिविधे} सुदानू । अच्छिद्रꣳ शर्म भुवनस्य गोपा । ततो {ड्युमोण्ट तेन} नो मित्रावरुणाव् अवीष्टम् । सिषासन्तो जीगिवाꣳसः स्याम । आ नो मित्रावरुणा हव्यदातिम् । घृतैर् गव्यूतिम् उक्षतम् इडाभिः । प्रति वाम् अत्र वरम् आ जनाय । पृणीतम् उद्ग्ó दिव्यस्यं चारोः । प्र बाहवा सिसृतं जीवसे नः । आ नो गव्यूतिम् उक्षतं घृतेन ।

VERSE: 8 { 2.8.6.8} आ नो जने श्रवयतं युवाना । श्रुतं मे मित्रावरुणा हव_इमा । इमा रुद्राय स्थिरधन्वने गिरः । क्षिप्रेषवे देवाय स्वधाम्ने । अषाढाय सहमानाय मीढुषे । तिग्मायुधाय भरता शृणोतन {ड्युमोण्ट शृणोतु नोः} । त्वा दत्तेभी रुद्र शंतमेभिः । शतꣳ हिमा अशीय भेषजेभिः । व्यस्मद् द्वेषो वितरं व्य् अꣳहः । व्य् अमीवाꣳश् चातयस्वा विषूचीः ।

VERSE: 9 { 2.8.6.9} अर्हन् बिभर्षि, मा नस् तोके, । आ ते पितर् मरुताꣳ सुम्नम् एतु । मा नः सूर्यस्य संदृशो युयोथाः । अभि नो वीरो अर्वति क्षमेत । प्रजायेमहि रुद्र प्रजाभिः । एवा बभ्रो वृषभ चेकितान । यथा देव न हृणीषे न हꣳसि । हावनश्रूर् नो रुद्र_इह बोधि । बृहद् वदेम विदथे सुवीराः । परि णो रुद्रस्य हेतिः, स्तुहि श्रुतम्, । मीड्हुष्टम_, अर्हन् बिभर्षि, । त्वम् अग्ने रुद्र, आ वो राजानम्, ।

अनुवाक 7 VERSE: 1 { 2.8.7.1} सूर्यो देवीम् उषसꣳ रोचमाना {ड्युमोण्ट रोचमानाम्} मर्यः {ड्युमोण्ट मर्यो} । न योषाम् अभ्येति पश्चात् । यत्रा नरो देवयन्तो युगानि । वितन्वते प्रति भद्राय भद्रम् । भद्रा अश्वा हरितः सूर्यस्य । चित्रा एदग्वा {ड्युमोण्ट एतग्वा} अनुमाद्यासः । नमस्यन्तो दिव आ पृष्ठम् अस्थुः । परि द्यावापृथिवी यन्ति सद्यः । तत् सूर्यस्य देवत्वं तन् महित्वम् । मध्या कर्तोर् विततꣳ संजभार ।

VERSE: 2 { 2.8.7.2} यदा_इद् अयुक्त हरितः सधस्थात् । आद् रात्री वासस् तनुते सिमस्मै । तन् मित्रस्य वरुणस्य_अभिचक्षे । सूर्यो रूपं कृणुते द्योर् उपस्थे । अनन्तम् अन्यद् द्रुशद् अस्य पाजः । कृष्णम् अन्यद् धरितः संभरन्ति । अद्या देवा उदिता सूर्यस्य । निर् अꣳहसः पिपृतान् निरवद्यात् । तन् नो मित्रो वरुणो मामहन्ताम् । अदितिः सिन्धुः पृथिवी उत द्यौः ।

VERSE: 3 { 2.8.7.3} दिवो रुक्म उरुचक्षा उदेति । दूरे_अर्थस् तरणिर् भ्राजमानः । नूनं जनाः सूर्येण प्रसूताः । आयन्न् अर्थानि कृणवन्न् अपाꣳसि । शं नो भव चक्षसा शं नो अह्ना । शं भानुना शꣳ हिमा शं घृणेन । यथा शम् अस्मै {ड्युमोण्ट अध्वान्_} शम् असद् दुरोणे । तत् सूर्य द्रविणं धेहि चित्रम् । चित्रं देवानाम् उदगाद् अनीकम् । चक्षुर् मित्रस्य वरुणस्य_अग्नेः ।

VERSE: 4 { 2.8.7.4} आप्रा द्यावापृथिवी अन्तरिक्षम् । सूर्य आत्मा जगतस् तस्थुषश् च । त्वष्टा दधत्, तन् नस् तुरीपम्, । त्वष्टा वीरं, पिशङ्गरूपः, । दश_इमं त्वष्टुर् जनयन्त गर्भम् । अतन्द्रासो युवतयो बिभर्त्रम् {ड्युमोण्ट विभृत्रम्} । तिग्मानीकꣳ स्वयशसं जनेषु । विरोचमानं परि षीं नयन्ति । आविष्ट्यो वर्धते चारुर् आसु । जिह्मानामूर्ध्वः स्वयशा उपस्थे ।

VERSE: 5 { 2.8.7.5} उभे त्वष्टुर् बिभ्यतुर् जायमानात् । प्रतीची सिꣳहं प्रतिजोषयेते । मित्रो जनान्, {प्} प्र स मित्र, । अयं मित्रो नमस्यः सुशेवः । राजा सुक्षत्रो अजनिष्ट वेधाः । तस्य वयꣳ सुमतौ यज्ञियस्य अपि भद्रे सौमनसे स्याम । अनमीवासं इडया मदन्तः । मितज्मवो {ड्युमोण्ट मितज्ञवो} वरिमन्न् आ पृथिव्याः । आदित्यस्य व्रतम् उपक्ष्यन्तः {ड्युमोण्ट उपक्षियन्तः} ।

VERSE: 6 { 2.8.7.6 } वयं मित्रस्य सुमतौ स्याम । मित्रं न ईꣳ शिम्या गोषु गव्यवत् {ड्युमोण्ट गव्यवः} । स्वाधियो विदथे अप्स्व् अजीजनन् । अरेजयताꣳ {अꣳ} रोदसी पाजसा गिरा । प्रति प्रियं यजतं जनुषाम् अवः । महाꣳ आदित्यो नमसोपसद्यह् । यातयज्जनो गृणते सुशेवः । तस्मा एतत् पन्यतमाय जुष्टम् । अग्नौ मित्राय हविर् आजुहोत । आ वाꣳ रथो रोदसी बद्बधानः ।

VERSE: 7 { 2.8.7.7} हिरण्ययो वृषभिर् यात्व् अश्वैः । घृतवर्तनिः पविभी रुचानः । इषां वोढा नृपतिर् वाजिनीवान् । स पप्रथानो अभि पञ्च भूम । त्रिवन्धुरो मनसा_आयातु युक्तः । विशो येन गच्छथो देवयन्तीः । कुत्राचिद् यामम् अश्विना दधाना । स्वश्वा यशसा_आयातम् अर्वाक् । दस्रा निधिं मधुमन्तं पिबाथः । वि वाꣳ रथो वध्वा यादमानः ।

VERSE: 8 { 2.8.7.8} अन्तान् दिवो बाधते वर्तनिभ्याम् । युवोः श्रियं परि योषा वृणीत । सूरो दुहिता परितक्मियायाम् {ड्युमोण्ट परितक्म्य्āयाम्} । यद् देवयन्तम् अवथः शचीभिः । परिघ्रꣳस वां मना वां वयो गाम् {ड्युमोण्ट परि घ्रꣳसम् ओमना वां वयो गात्} । यो ह स्य वाꣳ रथिरा वस्त उस्राः । रथो युजानः परियाति वर्तिः । तेन नः शं योर् उषसो व्युष्टौ । न्य् अश्विना वहतं यज्ञे अस्मिन् । युवं भुज्युम् अवविद्धꣳ समुद्रे ।

VERSE: 9 { 2.8.7.9} उदूहथुर् अर्णसो अस्रिधानैः । पतत्रिभिर् अश्रमैर् अव्यथिभिः । दꣳसनाभिर् अश्विना पारयन्ताम् । अग्नीषोमा यो अद्य वाम् । इदं वचः सपर्यति । तस्मै धत्तꣳ सुवीर्यम् । गवां पोषꣳ स्वश्वियं । यो अग्नीषोमा हविषा सपर्यात् । देवद्रीचा मनसा यो घृतेन । तस्य व्रतꣳ रक्षतं पातम् अꣳहसः ।

VERSE: 10 { 2.8.7.10} विशे जनाय महि शर्म यच्छतम् । अग्नीषोमा य आहुतिम् । यो वां दाशाद् धविष्कृतिम् । स प्रजया सुवीर्यम् । विश्वम् आयुर् व्यश्नवत् । अग्नीषोमा चेति तद् वीर्यं वाम् । यद् अमुष्णीतम् अवसं पणिं गोः । अवातिरतं प्रथयस्य शेषः अविन्दतं ज्योतिर् एकं बहुभ्यः । अग्नीषोमाव् इमꣳ सु मे, ऽग्नीषोमा हविषः प्रस्थितस्य, ।

अनुवाक 8 VERSE: 1 { 2.8.8.1} अहम् अस्मि प्रथमजा ऋतस्य । पूर्वं देवेभ्यो अमृतस्य नाभिः । यो मा ददाति स इद् एव मा_आवाः । अहम् अन्नम् अन्नम् अदन्तम् अद्मि । पूर्वम् अग्नेर् अपि दहत्य् अन्नम् । यत्तौ ह_आसाते {ड्युमोण्ट हासाते} अहमुत्तरेषु । व्यात्तम् अस्य पशवः सुजम्भम् । पश्यन्ति धीराः प्रचरन्ति पाकाः । जहाम्य् अन्यं न जहाम्य् अन्यम् । अहम् अन्नं वशम् इत्_चरामि ।

VERSE: 2 { 2.8.8.2} समानम् अर्थ्अं पर्येमि भुञ्जत् । को माम् अन्नं मनुष्यो दयेत । पराके अन्नं निहितं लोक एतत् । विश्वैर् देवैः पितृभिर् गुप्तम् अन्नम् । यद् अद्यते लुप्यते यत् परोप्यते । शततमी सा तनूर् मे बभूव । महान्तौ चरू सकृद्दुग्धेन पप्रौ । दिवं च पृश्नि पृथिवीं च साकम् । तत् संपिबन्तो न मिनन्ति वेधसः । न_एतद् भूयो भवति नो कनीयः ।

VERSE: 3 { 2.8.8.3} अन्नं प्राणम् अन्नम् अपानम् आहुः । अन्नं मृत्युं तम् उ जीवातुम् आहुः । अन्नं ब्रह्माणो जरसं वदन्ति । अन्नम् आहुः प्रजननं प्रजानाम् । मोघम् अन्नं विन्दते अप्रचेताः । सत्यं ब्रवीमि वध इत् स तस्य । न_अर्यमणं पुष्यति नो सखायम् । केवलाघो भवति केवलादी । अहं मेघः स्तनयन् वर्षन्न् अस्मि । माम् अदन्त्य् अहम् अद्म्य् अन्यान् ।

VERSE: 4 { 2.8.8.4} अहꣳ सद् अमृतो भवामि । मद् आदित्या अधि सर्वे तपन्ति । देवीं वाचम् अजनयन्त, यद् वाग् वदन्ति, । अनन्ताम् अन्ताद् अधि निर्मितां महीम् । यस्यां देवा अदधुर् भोजनानि । एकाक्षरां द्विपदाꣳ षट्पदां च । वाचं देवा उपजीवन्ति विश्वे । वाचं देवा उपजीवन्ति विश्वे । वाचं गन्धर्वाः पशवो मनुष्याः । वाचि_इमा विश्वा भुवनान्य् अर्पिता ।

VERSE: 5 { 2.8.8.5} सा नो हवं जुषताम् इन्द्रपत्नी । वाग् अक्षरं प्रथमजा ऋतस्य । वेदानां माता_अमृतस्य नाभिः । सा नो जुषाणो ऽपयज्ञम् आगात् । अवन्ती देवी सुहवा मे अस्तु । याम् ऋषयो मन्त्रकृतो मनीषिणः । अन्वैच्छन् देवास् तपसा श्रमेण । तां देवीं वाचꣳ हविषा यजामहे । सा नो दधातु सुकृतस्य लोके । चत्वारि वाक् परिमिता पदानि ।

VERSE: 6 { 2.8.8.6} तानि विदुर् ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता न_इङ्गयन्ति । तुरीयं वाचो मनुष्या वदन्ति । श्रद्धया_अग्निः समिध्यते । श्रद्धया विन्दते {ड्युमोण्ट हूयते} हविः । श्रद्धां भगस्य मूर्धनि । वचसा_आवेदयामसि । प्रियꣳ श्रद्धे ददतः । प्रियꣳ श्रद्धे दिदासतः । प्रियं भोजेषु यज्वसु ।

VERSE: 7 { 2.8.8.7} इदं म उदितं कृधि । यथा देवा असुरेषु । श्रद्धाम् उग्रेषु चक्रिरे । एवं भोजेषु यज्वसु । अस्माकम् उदितं कृधि । श्रद्धां देवा {ड्युमोण्ट देवा} यजमानाः । वायुगोपा उपासते । श्रद्धाꣳ हृदय्यया_आकूत्या । श्रद्धया हूयते हविः {ड्युमोण्ट विन्दते वसु ?} । 0 श्रद्धां प्रातर् हवामहे ।

VERSE: 8 { 2.8.8.8} श्रद्धां मध्यंदिनं परि । श्रद्धाꣳ सूर्यस्य निम्रुचि । श्रद्धे श्रद्धापय_इह मा । श्रद्धा देवान् अधिवस्ते । श्रद्धा विश्वम् इदं जगत् । श्रद्धां { श्रद्धा} कामस्य मातरम् । हविषा वर्धयामसि । ब्रह्म जज्ञानं प्रथमं पुरस्तात् । वि सीमतः सुरुचो वेन आवः । स बुध्निया उपमा अस्य विष्ठाः ।

VERSE: 9 { 2.8.8.9} सतश् च योनिम् असतश् च विवः । पिता विराजाम् ऋषभो रयीणाम् । अन्तरिक्षं विश्वरूप आविवेश । तम् अर्कैर् अभ्यर्चन्ति वह्स्áम् । ब्रह्म सन्तं ब्रह्मणा वर्धयन्तः । ब्रह्म देवान् अजनयत् । ब्रह्म विश्वम् इदं जगत् । ब्रह्मणः क्षत्रं निर्मितम् । ब्रह्म ब्राह्मण आत्मना । 0 अन्तर् अस्मिन्न् इमे लोकाः ।

VERSE: 10 { 2.8.8.10} अन्तर् विश्वम् इदं जगत् । ब्रह्म_एव भूतानां ज्येष्ठम् । तेन को ऽर्हति स्पर्धितुम् । ब्रह्मन् देवास् त्रयस्त्रिꣳशत् । ब्रह्मन्न् इन्द्रप्रजापती । ब्रह्मन् ह विश्वा भूतानि । नावि_इव_अन्तः समाहिता । चतस्र आशाः प्रचरन्त्व् अग्नयः । इमं नो यज्ञं नयतु प्रजानन् । घृतं पिन्वन्न् अजरं सुवीरम् ।

VERSE: 11 { 2.8.8.11} ब्रह्म समिद् भवत्य् आहुतीनाम् । आ गावो अग्मन्न् उत भद्रम् अक्रन् । सीदन्तु गोष्ठे रणयन्त्व् अस्मे । प्रजावतीः पुरुरूपा इह स्युः । इन्द्राय पूर्वीर् उषसो दुहानाः । इन्द्रो यज्वने पृणते च शिक्षति । उप_इद् ददाति न स्वं मुषायति । भूयो_भूयो रयिम् इद् अस्य वर्धयन् । अभिन्ने खिल्ले निदधाति देवयुम् । न ता नशन्ति, न ता अर्वा, ।

VERSE: 12 { 2.8.8.12} गावो भगो गाव इन्द्रो मे अच्छात् {ड्युमोण्ट अच्छान्}, । गावः सोमस्य प्रथमस्य भक्षः । इमा या गावः स जनास इन्द्रः । इच्छामि_इद् धृदा मनसा चिद् इन्द्रम् । यूयं गावो मेदयथा कृशं चित् । अश्ल्īलं {ड्युमोण्ट अश्रीरं} चित् कृणुथा सुप्रतीकम् । भद्रं गृहं कृणुथ भद्रवाचः । बृहद् वो वय उच्यते सभासु । प्रजावतीः सूयवसꣳ रिशन्तीः {आनंदा. रुशन्तीः} । शुद्धा अप सुप्रपाणे पिबन्तीः । मा वः स्तेन ईशत मा_अघशꣳसः । परि वो हेती रुद्रस्य वृञ्ज्यात् {ड्युमोण्ट वृज्याः} । उप_इदम् उपपर्चनम् । आसु गोषु_उपपृच्यताम् । उप_ ऋषभस्य रेतसि । उप_इन्द्र तव वीर्ये ।

अनुवाक 9 VERSE: 1 { 2.8.9.1} ता सूर्याचन्द्रमसा विश्वभृत्तमा {ड्युमोण्ट ।} महत् । तेजो वसुमद् राजतो दिवि । सामात्माना चरतः सामचारिणा । ययोर् व्रतं न ममे जातु देवयोः । उभाव् अन्तौ परियात अर्म्या {ड्युमोण्ट ऊर्म्या?[सिच्.]} । दिवो न रश्मीꣳस् तनुतो व्य् अर्णवे । उभा भुवन्ती भुवना कविक्रतू । सूर्या न चन्द्रा चरतो हतामती । पती द्युमद् विश्वविदा उभा दिवः । सूर्या उभा चन्द्रमसा विचक्षणा ।

VERSE: 2 { 2.8.9.2} विश्ववारा विरिवो_भा वरेण्या {ड्युमोण्ट वरेण्यौ} । ता नो ऽवतं मतिमन्ता महिव्रता । विश्ववपरी प्रतरणा तरन्ता । सुवर्विदा दृशये भूरिरश्मी । सूर्या हि चन्द्रा वसु त्वेष दर्शता । मनस्विना_उभा_अनुचरतो नु सं दिवम् । अस्य श्रवो नद्यः सप्त बिभ्रति । द्यावाक्षामा पृथिवी दर्शतं वपुः । अस्मे सूर्याचन्द्रमसोभिचक्षे । श्रद्धे कम् इन्द्र चरतो विचर्तुरम् ।

VERSE: 3 { 2.8.9.3} पूर्वापरं चरतो मायया_एतौ । शिशू क्रीडन्तौ परियातो अध्वरम् । विश्वान्य् अन्यो भुवना_अभिचष्टे । ऋतून् अन्यो विदधज् जायते पुनः । हिरण्यवर्णाः शुचयः पावका, यासाꣳ राजा, । यासां देवाः, शिवेन मा चक्षुषा पश्यत, । आपो भद्रा, आद् इत् पश्यामि, । न_असद् आसीन् नो सद् आसीत् तदानीम् । न_आसीद् रजो नो व्योम_अपरो यत् । किम् आवरीवः कुह कस्य शर्मन् ।

VERSE: 4 { 2.8.9.4} अम्भः किम् आसीद् गहनं गभीरम् । न मृत्युर् अमृतं तर्हि {ड्युमोण्ट न मृत्युर् आसीद् अमृतम् न तर्हि,} न { हः । हेरे} रात्रिया अह्न आसीत् प्रकेतः । आनीद् अवातꣳ स्वधया तद् एकम् । तस्माद् ध_अन्यं न परः किं चन_आस । तम आसीत् तमसा गूढम् अग्रे {ड्युमोण्ट पुत्स् "," हेरे} प्रकेतम् {ड्युमोण्ट अप्रकेतं} । सलिलꣳ सर्वम् आ इदम् । तुच्छेनाभ्व् {ड्युमोण्ट तुच्छेन भ्व्} अपिहितं यद् आसीत् । तमसस् {ड्युमोण्ट तपसस्} तन् महिनाऽजायत_एकम् । कामस् तद् अग्रे सम् अवर्तत_अधि ।

VERSE: 5 { 2.8.9.5} मनसो रेतः प्रथमं यद् आसीत् । सतो बन्धुम् असति निरविन्दन् । हृदि प्रतीष्या कवयो मनीषा । तिरश्चीनो विततो रश्मिर् एषाम् । अधः स्विद् {आनंदा. अधस्विद्} आसी3द् उपरि स्विद् आसी3त् । रेतोधा आसन् महिमान आसन् । स्वधा अवस्तात् प्रयतिः परस्तात् । को अद्धा वेद क इह प्रवोचत् । कुत आजाता कुत इयं विसृष्टिः । अर्वाग् देवा अस्य विसर्जनाय {ड्युमोण्ट विसर्जनेन} ।

VERSE: 6 { 2.8.9.6} अथा को वेद यत आबभूव । इयं विसृष्टिर् यत आबभूव । यदि वा दधे यदि वा न । यो अस्या_अध्यक्षः परमे व्योमन् । सो अङ्ग वेद यदि वा न वेद । किꣳ स्विद् वनं क उ स वृक्ष आसीत् । यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा पृच्छत_इद् उ तत् । यद् अध्यतिष्ठद् भुवनानि धारयन् । ब्रह्म वनं ब्रह्म स वृक्ष आसीत् ।

VERSE: 7 { 2.8.9.7} यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा विब्रवीमि वः । ब्रह्मा_अध्यतिष्ठद् भुवनानि धारयन् । प्रातर् अग्निं प्रातर् इन्द्रꣳ हवामहे । प्रातर् मित्रावरुणा प्रातर् अश्विना । प्रातर् भगं पूषणं ब्रह्मणस्पतिम् । प्रातः सोमम् उत रुद्रꣳ हुवेम । प्रातर् जितं भगम् उग्रꣳ हुवेम । वयं पुत्रम् अदितेर् यो विधर्ता । आध्रश् चिद् यं मन्यमानस् तुरश् चित् ।

VERSE: 8 { 2.8.9.8} राजा चिद् यं भगं भक्षि_इत्य् आह । भग प्रणेतर् भग सत्यराधः । भग_इमां धियम् उदव ददन् नः । भग प्र णो जनय गोभिर् अश्वैः । भग प्र नृभिर् नृवन्तः स्याम । उत_इदानीं भगवन्तः स्याम । उत प्रपित्व उत मध्ये अह्नाम् । उत_उदिता मघवन्त् सूर्यस्य । वयं देवानाꣳ सुमतौ स्याम । भग एव भगवाꣳ अस्तु देवाः ।

VERSE: 9 { 2.8.9.9} तेन वयं भगवन्तः स्याम । तं त्वा भग सर्व इत्_ जोहवीमि {ड्युमोण्ट जोहवीति} । स नो भग पुर एता भव_इह । सम् अध्वराय_उषसो नमन्त । दधिक्रावा_इव शुचये पदाय । अर्वाचीनं वसुविदं भगं नः । रथम् इव_अश्वा वाजिन आवहन्तु । अश्वावतीर् गोमतीर् न उषासः । वीरवतीः सदम् उच्छन्तु भद्राः । घृतं दुहाना विश्वतः प्रपीनाः । यूयं पात स्वस्तिभिः सदा नः ।





प्रपाठक: 1 अनुवाक 1 VERSE: 1 { 3.1.1.1} अग्निर् नः पातु कृत्तिकाः । नक्षत्रं देवम् इन्द्रियम् । इदम् आसां विचक्षणम् । हविर् आसं जुहोतन । यस्य भान्ति रश्मयो यस्य केतवः । यस्य_इमा विश्वा भुवनानि सर्वा । स कृत्तिकाभिर् अभि संवसानः । अग्निर् नो देवः सुविते दधातु । प्रजापते रोहिणी वेतु पत्नी । विश्वरूपा बृहती चित्रभानुः ।

VERSE: 2 { 3.1.1.2} सा नो यज्ञस्य सुविते दधातु । यथा जीवेम शरदः सवीराः । रोहिणी देव्य् उदगात् पुरस्तात् । विश्वा रूपाणि प्रतिमोदमाना । प्रजापतिꣳ हविषा वर्धयन्ती । प्रिया देवानाम् उपयातु यज्ञम् । सोमो राजा मृगशीर्षेण आगन्न् । शिवं नक्षत्रं प्रियम् अस्य धाम । आप्यायमानो बहुधा जनेषु । रेतः प्रजां यजमाने दधातु ।

VERSE: 3 { 3.1.1.3} यत् ते नक्षत्रं मृगशीर्षम् अस्ति । प्रियꣳ राजन् प्रियतमं प्रियाणाम् । तस्मै ते सोम हविषा विधेम । शं न एधि द्विपदे शं चतुष्पदे । _ आर्द्रया रुद्रः प्रथमान एति । श्रेष्ठो देवानां पतिर् अघ्नियानाम् । नक्षत्रम् अस्य हविषा विधेम । मा नः प्रजाꣳ रीरिषन् मा_उत वीरान् । हेती रुद्रस्य परि णो वृणक्तु । आर्द्रा नक्षत्रं जुषताꣳ हविर् नः ।

VERSE: 4 { 3.1.1.4} प्रमुञ्चमानौ दुरितानि विश्वा । अप_अघशꣳसं नुदताम् अरातिम् । पुनर् नो देव्य् अदितिः स्पृणोतु । पुनर्वसू नः पुनर् एतां यज्ञम् । पुनर् नो देवा अभियन्तु सर्वे । पुनः_पुनर् वो हविषा यजामः । एवा न {ड्युमोण्ट एवा न} देव्य् अदितिर् अनर्वा । विश्वस्य भर्त्री जगतः प्रतिष्ठा । पुनर्वसू हविषा वर्धयन्ती । प्रियं देवानाम् अप्येतु पाथः ।

VERSE: 5 { 3.1.1.5} बृहस्पतिः प्रथमं जायमानः । तिष्यं नक्षत्रम् अभि संबभूव । श्रेष्ठो देवानां पृतनासु जिष्णुः । दिशो ऽनु सर्वा अभयं नो अस्तु । तिष्यः पुरस्ताद् उत मध्यतो नः । बृहस्पतिर् नः परिपातु पश्चात् । बाधेतां द्वेषो अभयं कृणुताम् । सुवीर्यस्य पतयः स्याम । इदꣳ सर्पेभ्यो हविर् अस्तु जुष्टम् । आश्रेषा येषाम् अनुयन्ति चेतः ।

VERSE: 6 { 3.1.1.6} ये अन्तरिक्षं पृथिवीं क्षियन्ति । ते नः सर्पासो हवम् आगमिष्ठाः । ये रोचने सूर्यस्य_अपि सर्पाः । ये दिवं देवीम् अनु संचरन्ति । येषाम् आश्रेषा अनुयन्ति कामम् । तेभ्यः सर्पेभ्यो मधुमत्_ जुहोमि । उपहूताः पितरो ये मघासु । मनोजवसः सुकृतः सुकृत्याः । ते नो नक्षत्रे हवम् आगमिष्ठाः । स्वधाभिर् यज्ञं प्रयतं जुषन्ताम् ।

VERSE: 7 { 3.1.1.7} ये अग्निदग्धा ये ऽनाग्निदग्धाः । ये ऽमुं लोकं पितरः क्षियन्ति । याꣳश् च विद्म याꣳ उ च न प्रविद्म । मघासु यज्ञꣳ सुकृतं जुषन्ताम् । गवां पतिः फल्गुनीनाम् असि त्वम् । तद् अर्यमन् वरुण मित्र चारु । तं त्वा वयꣳ सनितारꣳ सनीनाम् । जीवा जीवन्तम् उप संविशेम । येन_इमा विश्वा भुवनानि संजिता । यस्य देवा अनुसंयन्ति चेतः ।

VERSE: 8 { 3.1.1.8} अर्यमा राजा_अजरस् तुविष्मान् । फल्गुनीनाम् ऋषभो रोरवीति । श्रेष्ठो देवानां भगवो भग_असि । तत् त्वा विदुः फल्गुनीस् तस्य वित्तात् । अस्मभ्यं क्षत्रम् अजरꣳ सुवीर्यम् । गोमद् अश्ववद् उप संनुद_इह । भगो ह दाता भग इत् प्रदाता । भगो देवीः फल्गुनीर् आविवेश । भगस्य_इत् तं प्रसवं गमेम । यत्र देवैः सधमादं मदेम ।

VERSE: 9 { 3.1.1.9} आयातु देवः सविता_उपयातु । हिरण्ययेन सुवृता रथेन । वहन् हस्तꣳ सुभगं विद्मनापसम् । प्रयच्छन्तं पपुरिं पुण्यम् अच्छ । हस्तः प्रयच्छत्व् अमृतं वसीयः । दक्षिणेन प्रतिगृभ्णीम एनत् । दातारम् अद्य सविता विदेय । यो नो हस्ताय प्रसुवाति यज्ञम् । त्वष्टा नक्षत्रम् अभ्येति चित्राम् । सुभꣳससं युवतिꣳ रोचमानाम् ।

VERSE: 10 { 3.1.1.10} निवेशयन्न् अमृतान् मर्त्याꣳश् च । रूपाणि पिꣳशन् भुवनानि विश्वा । तन् नस् त्वष्टा तद् उ चित्रा विचष्टाम् । तन् नक्षत्रं भूरिदा अस्तु मह्यम् । तन् नः प्रजां वीरवतीꣳ सनोतु । गोभिर् नो अश्वैः समनक्तु यज्ञम् । वायुर् नक्षत्रम् अभ्येति निष्ट्याम् । तिग्मशृङ्गो वृषभो रोरुवाणः । समीरयन् भुवना मातरिश्वा । अप द्वेषाꣳसि नुदताम् अरातीः ।

VERSE: 11 { 3.1.1.11} तन् नो वायुस् तद् उ निष्ट्या शृणोतु । तन् नक्षत्त्रं भूरिदा अस्तु मह्यम् । तन् नो देवासो अनुजानन्तु कामम् । यथा तरेम दुरितानि विश्वा । दूरम् अस्मत्_शत्रवो यन्तु भीताः । तद् इन्द्राग्नी कृणुतां तद् विशाखे । तन् नो देवा अनुमदन्तु यज्ञम् । पश्चात् पुरस्ताद् अभयं नो अस्तु । नक्षत्राणाम् अधिपत्नी विशाखे । श्रेष्ठाव् इन्द्राग्नी भुवनस्य गोपौ ।

VERSE: 12 { 3.1.1.12} विषूचः शत्रून् अपबाधमानौ । अप क्षुधं नुदताम् अरातिम् । पूर्णा पश्चाद् उत पूर्णा पुरस्तात् । उत्_मध्यतः पौर्णमासी जिगाय । तस्यां देवा अधि संवसन्तः । उत्तमे नाक इह मादयन्ताम् । पृथ्वी सुवर्चा युवतिः सजोषाः । पौर्णमास्य् उदगात्_शोभमाना । आप्याययन्ती दुरितानि विश्वा । उरुं दुहां {ड्युमोण्ट दुहां} यजमानाय यज्ञम् ।

अनुवाक 2 VERSE: 1 { 3.1.2.1} ऋध्यास्म हव्यैर् नमसोपसद्य । मित्रं देवं मित्रधेयं नो अस्तु । अनूराधान् हविषा वर्धयन्तः । शतं जीवेम शरदः सवीराः । चित्रं नक्षत्रम् उदगात् पुरस्तात् । अनूराधास इति यद् वदन्ति । तन् मित्र एति पथिभिर् देवयानैः । हिरण्ययैर् विततैर् अन्तरिक्षे । इन्द्रो ज्येष्ठाम् अनु नक्षत्रम् एति । यस्मिन् वृत्रं वृत्रतूर्ये ततार ।

VERSE: 2 { 3.1.2.2} तस्मिन् वयम् अमृतं दुहानाः । क्षुधं तरेम दुरितिं दुरिष्टिम् । पुरन्दराय वृषभाय धृष्णवे । अषाढाय सहमानाय मीढुषे । इन्द्राय ज्येष्ठा मधुमद् दुहाना । उरुं कृणोतु यजमानाय लोकम् । मूलं प्रजां वीरवतीं विदेय । पराच्य् एतु निर्ऋतिः पराचा । गोभिर् नक्षत्रं पशुभिः समक्तम् । अहर् भूयाद् यजमानाय मह्यम् ।

VERSE: 3 { 3.1.2.3} अहर् नो अद्य सुविते दधातु । मूलं नक्षत्रम् इति यद् वदन्ति । पराचीं वाचा निर्ऋतिं नुदामि । शिवं प्रजायै शिवम् अस्तु मह्यम् । या दिव्या आपः पयसा संबभूवुः । या अन्तरिक्ष उत पार्थिवीर् याः । यासाम् अषाढा अनुयन्ति कामम् । ता न आपः शꣳ स्योना भवन्तु । याश् च कूप्या याश् च नाद्याः समुद्रियाः । याश् च वैशन्तीर् उत प्रासचीर् याः ।

VERSE: 4 { 3.1.2.4} यासाम् अषाढा मधु भक्षयन्ति । ता न आपः शꣳ स्योना भवन्तु । तन् नो विश्वे उपशृण्वन्तु देवाः । तद् अषाढा अभि संयन्तु यज्ञम् । तन् नक्षत्रं प्रथतां पशुभ्यः । कृषिर् वृष्टिर् यजमानाय कल्पताम् । शुभ्राः कन्या युवतयः सुपेशसः । कर्मकृतः सुकृतो वीर्यावतीः । विश्वान् देवान् हविषा वर्धयन्तीः । अषाढाः कामम् उपयान्तु यज्ञम् ।

VERSE: 5 { 3.1.2.5} यस्मिन् ब्रह्माभ्यजयत् सर्वम् एतत् । अमुं च लोकम् इदमू च सर्वम् । तन् नो नक्षत्रम् अभिजिद् विजित्य । श्रियं दधात्व् अहृणीयमानम् । उभौ लोकौ ब्रह्मणा संजितेमौ । तन् नो नक्षत्रम् अभिजिद् विचष्टाम् । तस्मिन् वयं पृतनाः संजयेम । तं नो देवासो अनुजानन्तु कामम् । शृण्वन्ति श्रोणाम् अमृतस्य गोपाम् । पुण्याम् अस्या उपशृणोमि वाचम् ।

VERSE: 6 { 3.1.2.6} महीं देवीं विष्णुपत्नीम् अजूर्याम् । प्रतीचीम् एनाꣳ हविषा यजामः । त्रेधा विष्णुर् उरुगायो विचक्रमे । महीं दिवं पृथिवीम् अन्तरिक्षम् । तत्_श्रोणा_एति श्रव इच्छमाना । पुण्यꣳ श्लोकं यजमानाय कृण्वती । अष्टौ देवा वसवः सोम्यासः । चतस्रो देवीर् अजराः श्रविष्ठाः । ते यज्ञं पान्तु रजसः परस्तात् । संवत्सरीणम् अमृतꣳ स्वस्ति ।

VERSE: 7 { 3.1.2.7} यज्ञं नः पान्तु वसवः पुरस्तात् । दक्षिणतो ऽभियन्तु श्रविष्ठाः । पुण्यं नक्षत्रम् अभि संविशाम । मा नो अरातिर् अघशꣳसा_आगन्न् । क्षत्रस्य राजा वरुणो ऽधिराजः । नक्षत्राणाꣳ शतभिषग् वसिष्ठः । तौ देवेभ्यः कृणुतो दीर्घम् आयुः । ऽ शतꣳ सहस्रा भेषजानि धत्तः । यज्ञं नो राजा वरुण उपयातु । तन् नो विश्वे अभि संयन्तु देवाः ।

VERSE: 8 { 3.1.2.8} तन् नो नक्षत्रꣳ शतभिषग् जुषाणम् { शतभिग्जुषाणम्} । दीर्घम् आयुः प्रतिरद् भेषजानि । अज एकपाद् उदगात् पुरस्तात् । विश्वा भूतानि प्रतिमोदमानः । तस्य देवाः प्रसवं यन्ति सर्वे । प्रोष्ठपदासो अमृतस्य गोपाः । विभ्राजमानः समिधान उग्रः । आ_अन्तरिक्षम् अरुहद् अगं द्याम् । तꣳ सूर्यं देवम् अजम् एकपादम् । प्रोष्ठपदासो अनुयन्ति सर्वे ।

VERSE: 9 { 3.1.2.9} अहिर् बुध्नियः प्रथमान एति । श्रेष्ठो देवानाम् उत मानुषाणाम् । तं ब्राह्मणाः सोमपाः सोम्यासः । प्रोष्ठपदासो अभिरक्षन्ति सर्वे । चत्वार एकम् अभि कर्म देवाः । प्रोष्ठपदास इति यान् वदन्ति । ते बुध्नियं परिषद्यꣳ स्तुवन्तः । अहिꣳ रक्षन्ति नमसोपसद्य । पूषा रेवत्य् अन्वेति पन्थाम् । पुष्टिपती पशुपा वाजबस्त्यौ ।

VERSE: 10 { 3.1.2.10} इमानि हव्या प्रयता जुषाणा । सुगैर् नो यानैर् उपयातां यज्ञम् । क्षुद्रान् पशून् रक्षतु रेवती नः । गावो नो अश्वाꣳ अन्वेतु पूषा । अन्नꣳ रक्षन्तौ बहुधा विरूपम् । वाजꣳ सनुतां यजमानाय यज्ञम् । तद् अश्विनाव् अश्वयुजा_उपयाताम् । शुभं गमिष्ठौ सुयमेभिर् अश्वैः । स्वं नक्षत्रꣳ हविषा यजन्तौ । मध्वा संपृक्तौ यजुषा समक्तौ ।

VERSE: 11 { 3.1.2.11} यौ देवानां भिषजौ हव्यवाहौ । विश्वस्य दूताव् अमृतस्य गोपौ । तौ नक्षत्रं जुजुषाणा_उपयाताम् । नमो ऽश्विभ्यां कृणुमो ऽश्वयुग्भ्याम् । अप पाप्मानं भरणीर् भरन्तु । तद् यमो राजा भगवान् विचष्टाम् । लोकस्य राजा महतो महान् हि । सुगं नः पन्थाम् अभयं कृणोतु । यस्मिन् नक्षत्रे यम एति राजा । यस्मिन्न् एनम् अभ्यषिञ्चन्त देवाः । तद् अस्य चित्रꣳ हविषा यजाम । अप पाप्मानं भरणीर् भरन्तु । निवेशनी यत् ते देवा अदधुः ।

अनुवाक 3 VERSE: 1 { 3.1.3.1} नवो_नवो भवति जायमानो {तै.सं.2.4.14.} यम् आदित्या अꣳशुम् आप्याययन्ति {तै.सं.2.4.14.} । ये विरूपे समनसा संव्ययन्ती । समानं तन्तुं परिता तनोत । विभू प्रभू अनुभू विश्वतो हुवे । ते नो नक्षत्रे हवम् आगमेतम् । वयं देवी ब्रह्मणा संविदानाः । सुरत्नासो देववीतिं दधानाः । अहोरात्रे हविषा वर्धयन्तः । अति पाप्मानम् अतिमुक्त्या गमेम । प्रत्य् उव् अदृश्य् आयती (प्रत्युवदृश्यायती) ।

VERSE: 2 { 3.1.3.2} व्युच्छन्ती दुहिता दिवः । अपो मही वृणुते चक्षुषा । तमो ज्योतिष्कृणोति सूनरी । उद् उस्रियाः सचते सूर्यः । सचा उद्यन् नक्षत्रम् अर्चिमत् । तव_इद् उषो व्युषि सूर्यस्य च । सं भक्तेन गमेमहि । तन् नो नक्षत्रम् अर्चिमत् । भानुमत् तेज उच्चरत् । उप यज्ञम् इह_आगमत् ।

VERSE: 3 { 3.1.3.3} प्र नक्षत्राय देवाय । इन्द्राय_इन्दुꣳ हवामहे । स नः सविता सुवत् सनिम् । पुष्टिदां वीरवत्तमम् । उद् उ त्यं चित्रम् । अदितिर् न उरुष्यतु महीमू षु मातरम् । इदं विष्णुः प्र तद् विष्णुः । अग्निर् मूर्धा भुवः । अनु नो ऽद्य_अनुमतिर् अन्व् इद् अनुमते त्वम् । हव्यवाहꣳ स्विष्टम् ।

अनुवाक 4 VERSE: 1 { 3.1.4.1} अग्निर् वा अकामयत । अन्नादो देवानाꣳ स्याम् इति । स एतम् अग्नये कृत्तिकाभ्यः पुरोडाशम् अष्टाकपालं निरवपत् । ततो वै सो ऽन्नादो देवानाम् अभवत् । अग्निर् वै देवानाम् अन्नादः । यथा ह वा अग्निर् देवनाम् अन्नादः । एवꣳ ह वा एष मनुष्याणां भवति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । अग्नये स्वाहा कृत्तिकाभ्यः स्वाहा । अम्बायै स्वाहा दुलायै स्वाहा । नितत्न्य्áइ स्वाहा_अभ्रयन्त्यै स्वाहा । मेघयन्त्यै स्वाहा वर्षयन्त्यै स्वाहा । चुपुणीकायै स्वाहा_इति ।

VERSE: 2 { 3.1.4.2} प्रजापतिः प्रजा असृजत । ता अस्मात् सृष्टाः पराचीर् आयन्न् । तासाꣳ रोहिणीम् अभ्यध्यायत् । सो ऽकामयत । उप मा_आवर्तेत {,आनंदा. मा वर्तेत) । सम् एनया गच्छेय_इति । स एतं प्रजापतये रोहिण्यै चरुं निरवपत् । ततो वै सा तम् उपावर्तत । सम् एनया_अगच्छत { एनयाऽगच्छत} । उप ह वा एनं प्रियम् आवर्तते । सं प्रियेण गच्छते । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । प्रजापतये स्वाहा रोहिण्यै स्वाहा रोचमानायै स्वाहा प्रजाभ्यः स्वाहा_इति ।

VERSE: 3 { 3.1.4.3} सोमो वा अकामयत । ओषधीनाꣳ राज्यम् अभिजयेयम् इति । स एतꣳ सोमाय मृगशीर्षाय श्यामाकं चरुं पयसि निरवपत् । ततो वै स ओषधीनाꣳ राज्यम् अभ्यजयत् । समानानाꣳ ह वै राज्यम् अभिजयति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । सोमाय स्वाहा मृगशीर्षाय स्वाहा । इन्वकाभ्यः स्वाहा_ओषधीभ्यः स्वाहा । राज्याय स्वाहा_अभिजित्यै स्वाहा_इति ।

VERSE: 4 { 3.1.4.4} रुद्रो वा अकामयत । पशुमान्त् स्याम् इति । स एतꣳ रुद्राय_आर्द्रायै प्रैयंगवं { प्रैय्यङ्गवं} चरुं पयसि निरवपत् । ततो वै स पशुमान् अभवत् । पशुमान् ह वै भवति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । रुद्राय स्वाहा_आर्द्रायै स्वाहा । पिन्वमानायै स्वाहा पशुभ्यः स्वाहा_इति ।

VERSE: 5 { 3.1.4.5} ऋक्षा वा इयम् अलोमका_आसीत् । सोकामयत । ओषधीभिर् वनस्पतिभिः प्रजायेय_इति । स_एतम् अदित्यै पुनर्वसुभ्यां चरुं निरवपत् । ततो वा इयम् ओषधीभिर् वनस्पतिभिः प्राजायत । प्रजायते ह वै प्रजया पशुभिः । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति अदित्यै स्वाहा पुनर्वसुभ्याम् {,आनंदा. ।} स्वाहा_आभूत्यै स्वाहा प्रजात्यै स्वाहा_इति ।

VERSE: 6 { 3.1.4.6} बृहस्पतिर् वा अकामयत । ब्रह्मवर्चसी स्याम् इति । स एतं बृहस्पतये तिष्याय नैवारं चरुं पयसि निरवपत् । ततो वै स ब्रह्मवर्चस्य् अभवत् । ब्रह्मवर्चसी ह वै भवति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । बृहस्पतये स्वाहा तिष्याय स्वाहा । ब्रह्मवर्चसाय स्वाहा_इति ।

VERSE: 7 { 3.1.4.7} देवासुराः संयत्ता आसन्न् । ते देवाः सर्पेभ्य आश्रेषाभ्य आज्ये करम्भं निरवपन्न् । तन् एताभिर् एव देवताभिर् उपानयन् । एताभिर् ह वै देवताभिर् द्विषन्तं भ्रातृव्यम् उपनयति । य एतेन हविषा यजते । य उ च_एनद् एवं वेद । सो ऽत्र जुहोति । सर्पेभ्यः स्वाहा ऽऽश्रेषाभ्यः स्वाहा । दन्दशूकेभ्यः स्वाहा_इति ।

VERSE: 8 { 3.1.4.8} पितरो वा अकामयन्त । पितृलोक ऋध्नुयाम_इति । त एतं पितृभ्यो मघाभ्यः पुरोडाशꣳ षट्कपालं निरवपन्न् । ततो वै ते पितृलोक आर्ध्नुवन् । पितृलोके ह वा ऋध्नोति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । पितृभ्यः स्वाहा मघाभ्यः {,आनंदा. ।} स्वाहा_अनघाभ्यः स्वाहा_अगदाभ्यः {,आनंदा. ।} स्वाहा_अरुन्धतीभ्यः स्वाहा_इति ।

VERSE: 9 { 3.1.4.9} अर्यमा वा अकामयत । पशुमान्त् स्याम् इति । स एतम् अर्यम्णे फल्गुनीभ्यां चरुं निरवपत् । ततो वै स पशुमान् अभवत् । पशुमान् ह वै भवति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । अर्यम्णे स्वाहा फल्गुनीभ्याꣳ स्वाहा । पशुभ्यः स्वाहा_इति ।

VERSE: 10 { 3.1.4.10} भगो वा अकामयत । भगी श्रेष्ठी देवानाꣳ स्याम् इति । स एतं भगाय फल्गुनीभ्यां चरुं निरवपत् । ततो वै स भगी श्रेष्ठी देवानाम् अभवत् । भगी ह वै श्रेष्ठी समानानां भवति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । भगाय स्वाहा फल्गुनीभ्याꣳ स्वाहा । श्रेष्ठ्याय स्वाहा_इति ।

VERSE: 11 { 3.1.4.11} सविता वा अकामयत श्रन् मे देवा दधीरन्न् । सविता स्याम् इति । स एतꣳ सवित्रे हस्ताय पुरोडाशं द्वादशकपालं निरवपद् आशूनां व्रीहीणाम् । ततो वै तस्मै श्रद् देवा अदधत । सविता_अभवत् । श्रद्ध वा अस्मै मनुष्या दधते । सविता समानानां भवति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । सवित्रे स्वाहा हस्ताय {,आनंदा. ।} स्वाहा ददते {ड्युमोण्ट ददते} स्वाहा पृणते {,आनंदा. ।} स्वाहा प्रयच्छते स्वाहा प्रतिगृभ्णते स्वाहा_इति ।

VERSE: 12 { 3.1.4.12} त्वष्टा वा अकामयत । चित्रं प्रजां विन्देय_इति । स एतं त्वष्ट्रे चित्रायै पुरोडाशम् अष्टाकपालं निरवपत् । ततो वै स चित्रं प्रजाम् अविन्दत । चित्रꣳ ह वै प्रजां विन्दते । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । त्वष्ट्रे स्वाहा चित्रायै स्वाहा । चैत्राय स्वाहा प्रजायै स्वाहा_इति ।

VERSE: 13 { 3.1.4.13} वायुर् वा अकामयत । कामचारम् एषु लोकेष्व् अभिजयेयम् इति । स एतद् वायवे निष्ट्यायै गृष्ट्यै दुग्धं पयो निरवपत् । ततो वै स कामचारम् एषु लोकेष्व् अभ्यजयत् । कामचारꣳ ह वा एषु लोकेष्व् अभिजयति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । वायवे स्वाहा निष्ट्यायै स्वाहा । कामचाराय स्वाहा_अभिजित्यै स्वाहा_इति ।

VERSE: 14 { 3.1.4.14} इन्द्राग्नी वा अकामयेताम् । श्रेष्ठ्यं देवानाम् अभिजयेव_इति । ताव् एतम् इन्द्राग्निभ्यां विशाखाभ्यां पुरोडाशम् एकादशकपालं निरवपताम् ततो वै तौ श्रेष्ठ्यं देवानाम् अभ्यजयताम् । श्रेष्ठ्यꣳ ह वै समानानाम् अभिजयति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । इन्द्राग्निभ्याꣳ स्वाहा विशाखाभ्याꣳ स्वाहा । श्रेष्ठ्याय स्वाहा_अभिजित्यै स्वाहा_इति ।

VERSE: 15 { 3.1.4.15} अथ_एतत् पौर्णमास्या आज्यं निर्वपति । कामो वै पौर्णमासी । काम आज्यम् । कामेन_एव कामꣳ समर्धयति । क्षिप्रम् एनꣳ स काम उपनमति । येन कामेन यजते । सो ऽत्र जुहोति । पौर्णमास्यै स्वाहा कामाय स्वाहा_आगत्यै स्वाहा_इति ।

अनुवाक 5 VERSE: 1 { 3.1.5.1} मित्रो वा अकामयत । मित्रधेयम् एषु लोकेष्व् अभिजयेयम् इति । स एतं मित्राय_अनूराधेभ्यश् चरुं निरवपत् । ततो वै स मित्रधेयम् एषु लोकेष्व् अभ्यजयत् । मित्रधेयꣳ ह वा एषु लोकेष्व् अभिजयति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । मित्राय स्वाहा_अनूराधेभ्यः स्वाहा । मित्रधेयाय स्वाहा_अभिजित्यै स्वाहा_इति ।

VERSE: 2 { 3.1.5.2} इन्द्रो वा अकामयत । ज्यैष्ठ्यं देवानाम् अभिजयेयम् इति । स एतम् इन्द्राय ज्येष्ठायै पुरोडाशम् एकादशकपालं निरवपन् महाव्रीहीणाम् । ततो वै स ज्यैष्ठ्यं देवानाम् अभ्यजयत् । ज्यैष्ठ्यꣳ ह वै समानानाम् अभिजयति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । इन्द्राय स्वाहा ज्येष्ठायै स्वाहा ज्यैष्ठ्याय स्वाहा_अभिजित्यै स्वाहा_इति ।

VERSE: 3 { 3.1.5.3} प्रजापतिर् वा अकामयत । मूलं प्रजां विन्देय_इति । स एतं प्रजापतये मूलाय चरुं निरवपत् । ततो वै स मूलं प्रजाम् अविन्दत । मूलꣳ ह वै प्रजां विन्दते । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । प्रजापतये स्वाहा मूलाय स्वाहा । प्रजायै स्वाहा_इति ।

VERSE: 4 { 3.1.5.4} आपो वा अकामयन्त । समुद्रं कामम् अभिजयेम_इति । ता एतम् अद्भ्यो ऽषाढाभ्यश् चरुं निरवपन्न् । ततो वै ताः समुद्रं कामम् अभ्यजयन् । समुद्रꣳ ह वै कामम् अभिजयति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । अद्भ्यः स्वाहा_अषाढाभ्यः स्वाहा । समुद्राय स्वाहा कामाय स्वाहा । अभिजित्यै स्वाहा_इति ।

VERSE: 5 { 3.1.5.5} विश्वे वै देवा अकामयन्त । अनपजय्यं जयेम_इति । त एतं विश्वेभ्यो देवेभ्यो ऽषाढाभ्यश् चरुं निरवपन् । ततो वै ते ऽनपजय्यम् अजयन्न् । अनपजय्यꣳ ह वै जयति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । विश्वेभ्यो देवेभ्यः स्वाहा_अषाढाभ्यः स्वाहा । अनपजय्याय स्वाहा जित्यै स्वाहा_इति ।

VERSE: 6 { 3.1.5.6} ब्रह्म वा अकामयत { अकामय} । ब्रह्मलोकम् अभिजयेयम् इति । तद् एतं ब्रह्मणे ऽभिजिते चरुं निरवपत् । ततो वै तद् ब्रह्मलोकम् अभ्यजयत् । ब्रह्मलोकꣳ ह वा अभिजयति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । ब्रह्मणे स्वाहा_अभिजिते स्वाहा । ब्रह्मलोकाय स्वाहा_अभिजित्यै स्वाहा_इति ।

VERSE: 7 { 3.1.5.7} विष्णुर् वा अकामयत । पुण्यꣳ श्लोकꣳ शृण्वीय । न मा पापी कीर्तिर् आगच्छेद् इति । स एतं विष्णवे श्रोणायै पुरोडाशं त्रिकपालं निरवपत् । ततो वै स पुण्यꣳ श्लोकम् अशृणुत । न_एनं पापी कीर्तिर् आगच्छत् । पुण्यꣳ ह वै श्लोकꣳ शृणुते । न_एनं पापी कीर्तिर् आगच्छति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । विष्णवे स्वाहा श्रोणायै स्वाहा । श्लोकाय स्वाहा श्रुताय स्वाहा_इति ।

VERSE: 8 { 3.1.5.8} वसवो वा अकामयन्त । अग्रं देवतानां परीयाम_इति । त एतं वसुभ्यः श्रविष्ठाभ्यः पुरोडाशम् अष्टाकपालं निरवपन् । ततो वै ते ऽग्रं देवतानां पर्यायन्न् । अग्रꣳ ह वै समानानां पर्येति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । वसुभ्यः स्वाहा श्रविष्ठाभ्यः स्वाहा । अग्राय स्वाहा परीत्यै स्वाहा_इति ।

VERSE: 9 { 3.1.5.9} इन्द्रो वा अकामयत । दृढो ऽशिथिलः स्याम् इति । स एतं वरुणाय शतभिषजे भेषजेभ्यः पुरोडाशं दशकपालं निरवपत् कृष्णानां व्रीहीणाम् । ततो वै स दृढो ऽशिथिलो ऽभवत् । दृढो ह वा अशिथिलो भवति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । वरुणाय स्वाहा शतभिषजे स्वाहा । भेषजेभ्यः स्वाहा_इति ।

VERSE: 10 { 3.1.5.10} अजो वा एकपाद् अकामयत । तेजस्वी ब्रह्मवर्चसी स्याम् इति । स एतम् अजाय_एकपदे प्रोष्ठपदेभ्यश् चरुं निरवपत् । ततो वै स तेजस्वी ब्रह्मवर्चस्य् अभवत् । तेजस्वी ह वै ब्रह्मवर्चसी भवति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । अजाय_एकपदे स्वाहा प्रोष्ठपदेभ्यः स्वाहा । तेजसे स्वाहा ब्रह्मवर्चसाय स्वाहा_इति ।

VERSE: 11 { 3.1.5.11} अहिर् वै बुध्नियो ऽकामयत । इमां प्रतिष्ठां विन्देय_इति । स एतम् अहये बुध्नियाय प्रोष्ठपदेभ्यः पुरोडाशं भूमिकपालं निरवपत् । ततो वै स इमां प्रतिष्ठाम् अविन्दत । इमाꣳ ह वै प्रतिष्ठां विन्दते । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । अहये बुध्नियाय स्वाहा प्रोष्ठपदेभ्यः स्वाहा । प्रतिष्ठायै स्वाहा_इति ।

VERSE: 12 { 3.1.5.12} पूषा वा अकामयत । पशुमान्त् स्याम् इति । स एतं पूष्णे रेवत्यै चरुं निरवपत् । ततो वै स पशुमान् अभवत् । पशुमान् ह वै भवति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । पूष्णे स्वाहा रेवत्यै स्वाहा । पशुभ्यः स्वाहा_इति ।

VERSE: 13 { 3.1.5.13} अश्विनौ वा अकामयेताम् । श्रोत्रस्विनाव् अबधिरौ स्याव_इति । तव् एतम् अश्विभ्याम् अश्वयुग्भ्यां पुरोडाशं द्विकपालं निरवपताम् । ततो वै तौ श्रोत्रस्विनाव् अबधिराव् अभवताम् । श्रोत्रस्वी ह वा अबधिरो भवति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । अश्विभ्याꣳ स्वाहा_अश्वयुग्भ्याꣳ स्वाहा । श्रोत्राय स्वाहा श्रुत्यै स्वाहा_इति ।

VERSE: 14 { 3.1.5.14} यमो वा अकामयत । पितृणाꣳ राज्यम् अभिजयेयम् इति । स एतं यमाया_अपभरणीभ्यश् चरुं निरवपत् । ततो वै स पितृणाꣳ राज्यम् अभ्यजयत् । समानानाꣳ ह वै राज्यम् अभिजयति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । यमाय स्वाहा_अपभरणीभ्यः स्वाहा । राज्याय स्वाहा_अभिजित्यै स्वाहा_इति ।

VERSE: 15 { 3.1.5.15} अथैतद् अमावास्याया आज्यं निर्वपति । कामो वा अमावास्या । काम आज्यम् । कामेन_एव कामꣳ समर्धयति । क्षिप्रम् एनꣳ स काम उपनमति । येन कामेन यजते । सो ऽत्र जुहोति । अमावास्यायै स्वाहा कामाय स्वाहा_आगत्यै स्वाहा_इति ।

अनुवाक 6 VERSE: 1 { 3.1.6.1} चन्द्रमा वा अकामयत । अहोरात्रान् अर्धमासान् मासान् ऋतून्त् संवत्सरम् आप्त्वा । चन्द्रमसः सायुज्यꣳ सलोकताम् आप्नुयाम् इति । स एतं चन्द्रमसे प्रतीदृश्यायै पुरोडाशं पञ्चदशकपालं निरवपत् । ततो वै सो ऽहोरात्रान् अर्धमासान् मासान् ऋतून्त् संवत्सरम् आप्त्वा । चन्द्रमसः सायुज्यꣳ सलोकताम् आप्नोत् । अहोरात्रान् ह वा अर्धमासान् मासान् ऋतून्त् संवत्सरम् आप्त्वा । चन्द्रमसः सायुज्यꣳ सलोकताम् आप्नोति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । चन्द्रमसे स्वाहा प्रतीदृश्यायै स्वाहा । अहोरात्रेभ्यः स्वाहा_अर्धमासेभ्यः स्वाहा । मासेभ्यः स्वाहा_ऋतुभ्यः स्वाहा । संवत्सराय स्वाहा_इति ।

VERSE: 2 { 3.1.6.2} अहोरात्रे वा अकामयेताम् । अत्य् अहोरात्रे मुच्येवहि । न नाव् अहोरात्रे आप्नुयाताम् इति । ते एतम् अहोरात्राभ्यां चरुं निरवपताम् । द्वयानां व्रीहीणाम् । शुक्लानां च कृष्णानां च । सवात्योर् दुग्धे । श्वेतायै च कृष्णायै च । ततो वै ते अत्य् अहोरात्रे अमुच्येते । न_एने अहोरात्रे आप्नुताम् । अति ह वा अहोरात्रे मुच्यते । न_एनम् अहोरात्रे आप्नुतः । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । अह्ने स्वाहा रात्रियै स्वाहा । अतिमुक्त्यै स्वाहा_इति ।

VERSE: 3 { 3.1.6.3} उषा वा अकामयत । प्रिया_आदित्यस्य सुभगा स्याम् इति । स_एतम् उषसे चरुं निरवपत् । ततो वै सा प्रिया_आदित्यस्य सुभगा_अभवत् । प्रियो ह वै समानानाꣳ सुभगो भवति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । उषसे स्वाहा व्युष्ट्यै स्वाहा । व्यूषुष्यै स्वाहा व्युच्छन्त्यै स्वाहा । व्युष्टायै स्वाहा_इति ।

VERSE: 4 { 3.1.6.4} अथ_एतस्मै नक्षत्राय चरुं निर्वपति । यथा त्वं देवानाम् असि । एवम् अहं मनुष्याणां भूयासम् इति । यथा ह वा एतद् देवानाम् । एवꣳ ह वा एष मनुष्याणां भवति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । नक्षत्राय स्वाहा_उदेष्यते स्वाहा । उद्यते स्वाहा_उदिताय स्वाहा । हरसे स्वाहा भरसे स्वाहा । भ्राजसे स्वाहा तेजसे स्वाहा । तपसे स्वाहा ब्रह्मवर्चसाय स्वाहा_इति ।

VERSE: 5 { 3.1.6.5} सूर्यो वा अकामयत । नक्षत्राणां प्रतिष्ठा स्याम् इति । स एतꣳ सूर्याय नक्षत्रेभ्यश् चरुं निरवपत् । ततो वै स नक्षत्राणां प्रतिष्ठा_अभवत् । प्रतिष्ठा ह वै समानानां भवति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । सूर्याय स्वाहा नक्षत्रेभ्यः स्वाहा । प्रतिष्ठायै स्वाहा_इति ।

VERSE: 6 { 3.1.6.6} अथ_एतम् अदित्यै चरुं निर्वपति । इयं वा अदितिः । अस्याम् एव प्रतितिष्ठति । सो ऽत्र जुहोति । अदित्यै स्वाहा प्रतिष्ठायै स्वाहा_इति ।

VERSE: 7 { 3.1.6.7} अथ_एतं विष्णवे चरुं निर्वपति । यज्ञो वै विष्णुः । यज्ञ एव_अन्ततः प्रतितिष्ठति । सो ऽत्र जुहोति । विष्णवे स्वाहा यज्ञाय स्वाहा । प्रतिष्ठायै स्वाहा_इति ।




प्रपाठक: 2 अनुवाक 1 VERSE: 1 { 3.2.1.1} तृतीयस्याम् इतो दिवि सोम आसीत् । तं गायत्र्य् आहरत् । तस्य पर्णम् अच्छिद्यत । तत् पर्णो ऽभवत् । तत् पर्णस्य पर्णत्वम् । ब्रह्म वै पर्णः । यत् पर्णशाखया वत्सान् अपाकरोति । ब्रह्मणा_एवैनान् अपाकरोति । गायत्रो वै पर्णः । गायत्राः पशवः ।

VERSE: 2 { 3.2.1.2} तस्मात् त्रीणि_त्रीणि पर्णस्य पलाशानि । त्रिपदा गायत्री । यत् पर्णशाखया गाः प्रार्पयति । स्वया_एवैना देवतया प्रार्पयति । यं कामयेत_अपशुः स्याद् इति । अपर्णां तस्मै शुष्काग्राम् आहरेत् । अपशुर् एव भवति । यं कामयेत पशुमान्त् स्याद् इति । बहुपर्णां तस्मै बहुशाखाम् आहरेत् । पशुमन्तम् एवैनं करोति ।

VERSE: 3 { 3.2.1.3} यत् प्राचीम् आहरेत् । देवलोकम् अभिजयेत् । यद् उदीचीं मनुष्यलोकम् । प्राचीम् उदीचीम् आहरति । उभयोर् लोकयोर् अभिजित्यै । इषे त्वा_ऊर्जे त्वा_इत्य् आह । इषम् एव_ऊर्जं यजमाने दधाति । वायवः स्थ_इत्य् आह । वायुर् वा अन्तरिक्षस्य_अध्यक्षाः । अन्तरिक्षदेवत्याः खलु वै पशवः ।

VERSE: 4 { 3.2.1.4} वायव एवैनान् परिददाति । प्र वा एनान् एतद् आकरोति । यद् आह । वायवः स्थ_इत्य् उपायवः स्थ_इत्य् आह । यजमानाय_एव पशून् उपह्वयते । देवो वः सविता प्रार्पयत्व् इत्य् आह प्रसूत्यै । श्रेष्ठतमाय कर्मण इत्य् आह । यज्ञो हि श्रेष्ठतमं कर्म । तस्माद् एवम् आह । आप्यायध्वम् अघ्निया देवभागम् इत्य् आह ।

VERSE: 5 { 3.2.1.5} वत्सेभ्यश् च वा एताः पुरा मनुष्येभ्यश् च_आप्यायन्त । देवेभ्य एवैना इन्द्राय_आप्यायति । ऊर्जस्वतीः पयस्वतीर् इत्य् आह । ऊर्जꣳ हि पयः संभरन्ति । प्रजावतीर् अनमीवा अयक्ष्मा इत्य् आह प्रजात्यै । मा वः स्तेन {आनंदा. व स्तेन} ईशत मा_अघशꣳस इत्य् आह गुप्त्यै । रुद्रस्य हेतिः परि वो वृणक्त्व् इत्य् आह । रुद्राद् एवैनास् त्रायते । ध्रुवा अस्मिन् गोपतौ स्यात बह्वीर् इत्य् आह । ध्रुवा एवास्मिन् बह्वीः करोति ।

VERSE: 6 { 3.2.1.6} यजमानस्य पशून् पाहि_इत्य् आह । पशुनां गोपीथाय । तस्मात् सायं पशव उप समावर्तन्ते । अनधः सादयति । गर्भाणां धृत्या अप्रपादाय । तस्माद् गर्भाः प्रजानाम् अप्रपादुकाः । उपरि_इव निदधाति । उपरि_इव हि सुवर्गो लोकः । सुवर्गस्य लोकस्य समष्ट्यै ।

अनुवाक 2 VERSE: 1 { 3.2.2.1} देवस्य त्वा सवितुः प्रसव इत्य् अश्वपर्शुम् आदत्ते प्रसूत्यै । अश्विनोर् बाहुभ्याम् इत्य् आह । अश्विनौ हि देवानाम् अध्वर्यू आस्ताम् । पूष्णो हस्ताभ्याम् इत्य् आह यत्यै । यो वा ओषधीः पर्वशो वेद । न_एनाः स हिनस्ति । प्रजापतिर् वा ओषधीः पर्वशो वेद । स एना न हिनस्ति अश्वपर्श्वा बर्हिर् अच्छैति । प्राजापत्यो वा अश्वः सयोनित्वाय ।

VERSE: 2 { 3.2.2.2} ओषधीनाम् अहिꣳसायै । यज्ञस्य घोषद् असि_इत्य् आह । यजमान एव रयिं दधाति । प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातय इत्य् आह । रक्षसाम् अपहत्यै । प्र_इयम् अगाद् धिषणा बर्हिर् अच्छा_इत्य् आह । विद्या वै धिषणा । विद्यया_एवैनद् अच्छैति । मनुना कृता स्वधया वितष्ट_इत्य् आह । मानवी हि पर्शुः स्वधाकृता ।

VERSE: 3 { 3.2.2.3} त आवहन्ति कवयः पुरस्ताद् इत्य् आह । शुश्रुवाꣳसो वै कवयः । यज्ञः पुरस्तात् । मुखत एव यज्ञम् आरभते । अथो यद् एतद् उक्त्वा यतः कुतश् च_आहरति । तत् प्राच्या एव दिशो भवति । देवेभ्यो जुष्टम् इह बर्हिर् आसद इत्य् आह । बर्हिषः समृद्ध्यै । कर्मणो ऽनपराधाय । देवानां परिषूतम् असि_इत्य् आह ।

VERSE: 4 { 3.2.2.4} यद् वा इदं किं च । तद् देवानां परिषूतम् । अथो यथा वस्यसे प्रतिप्रोच्य_आह_इदं करिष्यामि_इति । एवम् एव तद् अध्वर्युर् देवेभ्यः प्रतिप्रोच्य बर्हिर् दाति । आत्मनो ऽहिꣳसायै । यावतः स्तम्बान् परिदिशेत् । यत् तेषाम् उच्छिꣳष्यात् । अति तद् यज्ञस्य रेचयेत् । एकꣳ ꣳ स्तम्बं परिदिशेत् । तꣳ सर्वं दायात् ।

VERSE: 5 { 3.2.2.5} यज्ञस्य_अनतिरेकाय । वर्षवृद्धम् असि_इत्य् आह । वर्षवृद्धा वा ओषधयः । देवबर्हिर् इत्य् आह । देवेभ्य एव_एनत् करोति । मा त्वा_अन्वङ् मा तिर्यग् इत्य् आह_अहिꣳसायै । पर्व ते राध्यासम् इत्य् आह_ऋध्यै । आच्छेत्ता ते मा रिषम् इत्य् आह । न_अस्य_आत्मनो मीयते । य एवं वेद ।

VERSE: 6 { 3.2.2.6} देव बर्हिश् शतवल्शं विरोह_इत्य् आह । प्रजा वै बर्हिः । प्रजानां प्रजननाय । सहस्रवल्शा वि वयꣳ रुहेम_इत्य् आह । आशिषम् एव_एताम् आशास्ते । पृथिव्याः संपृचः पाहि_इत्य् आह प्रतिष्ठित्यै । अयुं गायुं गान् {ड्युमोण्ट अयुङ्गायुङ्गान्} मुष्टीन्_लुनोति । मिथुनत्वाय प्रजात्यै । सुसंभृता त्वा संभरामि_इत्य् आह । ब्रह्मणा_एवैनत् संभरति ।

VERSE: 7 { 3.2.2.7} अदित्यै रास्ना_असि_इत्य् आह । इयं वा अदितिः । अस्या एवैनद् रास्नां करोति । इन्द्राण्यै संनहनम् इत्य् आह । इन्द्राणी वा अग्रे देवतानाꣳ समनह्यत । सोर्ध्नोत् । ऋद्ध्यै संनह्यति । प्रजा वै बर्हिः । प्रजानाम् अपरावापाय । तस्मात् स्नावसंतताः प्रजा जायन्ते

VERSE: 8 { 3.2.2.8} पूषा ते ग्रन्थिं ग्रथ्नात्व् इत्य् आह । पुष्टिम् एव यजमाने दधाति । स ते मा स्थाद् इत्य् आह_अहिꣳसायै ।पश्चात् प्राञ्चम् उपगूहति । पश्चाद् वै प्राचीनꣳ रेतो धीयते । पश्चाद् एवास्मै प्राचीनꣳ रेतो दधाति । इन्द्रस्य त्वा बाहुभ्याम् उद्यच्छ इत्य् आह । इन्द्रियम् एव यजमाने दधाति । बृहस्पतेर् मूर्ध्ना हरामि_इत्य् आह । ब्रह्म वै देवानां बृहस्पतिः ।

VERSE: 9 { 3.2.2.9} ब्रह्मणा_एवैनद् धरति । उर्व् अन्तरिक्षम् अन्विहीत्याह गत्यै । देवंगमम् असीत्य् आह । देवान् एव_एनद् गमयति । अनधः सादयति । गर्भाणां धृत्या अप्रपादाय । तस्माद् गर्भाः प्रजानाम् अप्रपादुकाः । उपरीव निदधाति । उपरीव हि सुवर्गो लोकः । सुवर्गस्य लोकस्य समष्ट्यै ।

अनुवाक 3 VERSE: 1 { 3.2.3.1} पूर्वेद्युर् इध्माबर्हिः करोति । यज्ञम् एवाऽऽरभ्य गृहीत्वा_उपवसति । प्रजापतिर् यज्ञम् असृजत । तस्य_उखे अस्रꣳसेताम् । यज्ञो वै प्रजापतिः । यत् सांनाय्य_उखे भवतः । यज्ञस्यैव तद् उखे उपदधात्य् अप्रस्रꣳसाय । शुन्धध्वं दैव्याय कर्मणे देवयज्याया इत्य् आह । देवयज्याया एव_एनानि शुन्धति । मातरिश्वनो घर्मो ऽसि_इत्य् आह ।

VERSE: 2 { 3.2.3.2} अन्तरिक्षं वै मातरिश्वनो घर्मः । एषां लोकानां विधृत्यै । द्यौर् असि पृथिव्यसीत्य् आह । दिवश् च ह्य् एषा पृथिव्याश् च संभृता । यद् उखा । तस्माद् एवम् आह । विश्वधाया असि परमेण धाम्ना_इत्य् आह । वृष्टिर् वै विश्वधायाः । वृष्टिम् एव_अवरुन्धे । दृꣳहस्व मा ह्वार् इत्य् आह धृत्यै ।

VERSE: 3 { 3.2.3.3} वसूनां पवित्रम् असीत्य् आह । प्राणा वै वसवः । तेषां वा एतद् भागधेयम् । यत् पवित्रम् । तेभ्य एव_एनत् करोति । शतधारꣳ सहस्रधारम् इत्य् आह । प्राणेष्व् एवायुर् दधाति सर्वत्वाय । त्रिवृत् पलाशशाखायां दर्भमयं भवति । त्रिवृद् वै प्राणः । त्रिवृतम् एव प्राणं मध्यतो यजमाने दधाति ।

VERSE: 4 { 3.2.3.4} सौम्यः पर्णः सयोनित्वाय । साक्षात् पवित्रं दर्भाः । प्राक् सायम् अधिनिदधाति । तत् प्राणापानयो रूपम् । तिर्यक् प्रातः । तद् दर्शस्य रूपम् । दार्श्यꣳ ह्य् एतद् अहः । अन्नं वै चन्द्रमाः । अन्नं प्राणाः । उभयम् एव_उपैत्य् अजामित्वाय ।

VERSE: 5 { 3.2.3.5} तस्माद् अयꣳ सर्वतः पवते । हुतः स्तोको हुतो द्रप्स इत्य् आह प्रतिष्ठित्यै । हविशो ऽस्कन्दाय । न हि हुतꣳ स्वाहाकृतꣳ स्कन्दति । दिवि नाको नामाग्निः । तस्य विप्रुषो भागधेयम् । अग्नये बृहते नाकाय_इत्य् आह । नाकम् एवाग्निं भागधेयेन समर्धयति । स्वाहा द्यावापृथिवीभ्याम् इत्य् आह । द्यावापृथिव्योर् एव_एनत् प्रतिष्ठापयति ।

VERSE: 6 { 3.2.3.6} पवित्रवत्य् आनयति । अपां चैव_ओषधीनां च रसꣳ सꣳसृजति । अथो ओषधीष्व् एव पशून् प्रतिष्ठापयति । अन्वारभ्य वाचं यच्छति । यज्ञस्य धृत्यै । धारयन्न् आस्ते । धारयन्त इव हि दुहन्ति । काम् अधुक्ष इत्य् आह_आ तृतीयस्यै । त्रय इमे लोकाः । इमान् एव लोकान् यजमानो दुहे ।

VERSE: 7 { 3.2.3.7} अमूम् इति नाम गृह्णाति । भद्रम् एवासां कर्माविष्करोति । सा विश्वायुः सा विश्वव्यचाः सा विश्वकर्म_इत्य् आह । इयं वै विश्वायुः । अन्तरिक्षं विश्वव्यचाः । असौ विश्वकर्मा । इमान् एव_एताभिर् लोकान् यथापूर्वं दुहे । अथो यथा प्रदात्रे पुण्यम् आशास्ते । एवम् एव_एना एतद् उपस्तौति । तस्मात् प्रादाद् इत्य् उन्नीय वन्दमाना उपस्तुवन्तः पशून् दुहन्ति ।

VERSE: 8 { 3.2.3.8} बहु दुग्धीन्द्राय देवेभ्यो हविर् इति वाचं विसृजते । यथादेवतम् एव प्रसौति । दैव्यस्य च मानुषस्य च व्यावृत्त्यै । त्रिर् आह । त्रिषत्या हि देवाः । अवाचंयमो ऽनन्वारभ्य_उत्तराः । अपरिमितम् एवावरुन्धे । न दारुपात्रेण दुह्यात् । अग्निवद् वै दारुपात्रम् । यद् दारुपात्रेण दुह्यात् ।

VERSE: 9 { 3.2.3.9} यातयाम्ना हविषा यजेत । अथो खल्व् आहुः । पुरोडाशमुखानि वै हवीꣳषि । न_इतैतः पुरोडाशꣳ हविषो यामो ऽस्तीति । कामम् एव दारुपात्रेण दुह्यात् । शूद्र एव न दुह्यात् । असतो वा एष संभूतः । यत्_शूद्रः । अहविर् एव तद् इत्य् आहुः । यत्_शूद्रो दोग्धीति ।

VERSE: 10 { 3.2.3.10} अग्निहोत्रम् एव न दुह्यात्_शूद्रः । तद् धि न_उत्पुनन्ति । यदा खलु वै पवित्रम् अत्येति । अथ तद् धविर् इति । संपृच्यध्वम् ऋतावरीर् इत्य् आह । अपां चैव_ओषधीनां च रसꣳ सꣳसृजति । तस्माद् अपां च_ओषधीनां च रसम् उपजीवामः । मन्द्रा धनस्य सातय इत्य् आह । पुष्टिम् एव यजमाने दधाति । सोमेन त्वातनच्मीन्द्राय दधीत्य् आह ।

VERSE: 11 { 3.2.3.11} सोमम् एव_एनत् करोति । यो वै सोमं भक्षयित्वा । संवत्सरꣳ सोमं न पिबति । पुनर्भक्ष्यो ऽस्य सोमपीथो भवति । सोमः खलु वै सांनाय्यम् । य एवं विद्वान्त् सांनाय्यं पिबति । अपुनर्भक्ष्यो ऽस्य सोमपीथो भवति । न मृन्मयेनापिदध्यात् । यन् मृन्मयेनापिदध्यात् । पितृदेवत्यꣳ स्यात् ।

VERSE: 12 { 3.2.3.12} अयस्पात्रेण वा दारुपात्रेण वा_अपिदधाति । तद् धि सदेवम् । उदन्वद् भवति । आपो वै रक्षोघ्नीः । रक्षसाम् अपहत्यै । अदस्तम् असि विष्णवे त्वा_इत्य् आह । यज्ञो वै विष्णुः । यज्ञाय_एव_एनद् अदस्तं करोति । विष्णो हव्यꣳ रक्षस्व_इत्य् आह गुप्त्यै । अनधः सादयति । गर्भाणां धृत्या अप्रपादाय । तस्माद् गर्भाः प्रजानाम् अप्रपादुकाः । उपरीव निदधाति । उपरीव हि सुवर्गो लोकः । सुवर्गस्य लोकस्य समष्ट्यै ।

अनुवाक 4 VERSE: 1 { 3.2.4.1} कर्मणे वां देवेभ्यश् शकेयम् इत्य् आह शक्त्यै । यज्ञस्य वै संततिम् अनु प्रजाः पशवो यजमानस्य संतायन्ते । यज्ञस्य विच्छित्तिम् अनु प्रजाः पशवो यजमानस्य विच्छिद्यन्ते । यज्ञस्य संततिर् असि यज्ञस्य त्वा संतत्यै स्तृणामि संतत्यै त्वा यज्ञस्य_इत्य् आ_आहवनीयात् संतनोति । यजमानस्य प्रजायै पशूनाꣳ संतत्यै । अपः प्रणयति । श्रद्धा वा आपः श्रद्धाम् एवाऽऽरभ्य प्रणीय प्रचरति । अपः प्रणयति । यज्ञो वा आपः ।

VERSE: 2 { 3.2.4.2} यज्ञम् एवाऽऽरभ्य प्रणीय प्रचरति । अपः प्रणयति । वज्रो वा आपः । वज्रम् एव भ्रातृव्येभ्यः प्रहृत्य प्रणीय प्रचरति । अपः प्रणयति । आपो वै रक्षोघ्नीः । रक्षसाम् अपहत्यै । अपः प्रणयति । आपो वै देवानां प्रियं धाम । देवानाम् एव प्रियं धाम प्रणीय प्रचरति ।

VERSE: 3 { 3.2.4.3} अपः प्रणयति । आपो वै सर्वा देवताः । देवता एवारभ्य प्रणीय प्रचरति । वेषाय त्वा_इत्य् आह । वेषाय ह्य् एनद् आदत्ते । प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातय इत्य् आह । रक्षसाम् अपहत्यै । धूर् असीत्य् आह । एष वै धुर्यो ऽग्निः । तं यद् अनुपस्पृश्यातीयात् ।

VERSE: 4 { 3.2.4.4} अध्वर्युं च यजमानं च प्रदहेत् । उपस्पृश्यात्येति । अध्वर्योश् च यजमानस्य चाप्रदाहाय । धूर्व {आनंदा. धूर्वन्} तं यो ऽस्मान् धूर्वति तं धूर्व यं वयं धूर्वाम इत्य् आह । द्वौ वाव पुरुषौ । यं चैव धूर्वति । यस् चैनं धूर्वति । ताव् उभौ शुचा_अर्पयति । त्वं देवानाम् असि सस्नितमं पप्रितमं जुष्टतमं वह्नितमं देवहूतमम् इत्य् आह । यथायजुर् एव_एतत् ।

VERSE: 5 { 3.2.4.5} अह्रुतम् असि हविर्धानम् इत्य् आह_अनार्त्यै । दृꣳहस्व मा ह्वार् इत्य् आह धृत्यै । मित्रस्य त्वा चक्षुषा प्रेक्ष इत्य् आह मित्रत्वाय । मा भेर् मा संविक्था मा त्वा हिꣳसिषम् इत्य् आहाहिꣳसायै । यद् वै किं च वातो न_अभिवाति । तत् सर्वं वरुणदेवत्यम् । उरु वाताय_इत्य् आह । अवारुणम् एव_एनत् करोति । देवस्य त्वा सवितुः प्रसव इत्य् आह प्रसूत्यै । अश्विनोर् बाहुभ्याम् इत्य् आह ।

VERSE: 6 { 3.2.4.6} अश्विनौ हि देवानाम् अध्वर्यू आस्ताम् । पूष्णो हस्ताभ्याम् इत्य् आह । यत्यै । अग्नये जुष्टं निर्वपामीत्य् आह । अग्नय एव_एनाञ् जुष्टं निर्वपति । त्रिर् यजुषा । त्रय इमे लोकाः । एषां लोकानाम् आप्त्यै । तूष्णीं चतुर्थम् । अपरिमितम् एव_अवरुन्धे । स एवम् एव_अनुपूर्वꣳ हवीꣳषि निर्वपति ।

VERSE: 7 { 3.2.4.7} इदं देवानाम् इदम् उ नः सह_इत्य् आह व्यावृत्त्यै । स्फात्यै त्वा न_अरात्या इत्य् आह गुप्त्यै । तमसीव वा एषो ऽन्तश् चरति । यः परीणहि । सुवर् अभि विख्येषं वैश्वानरं ज्योतिर् इत्य् आह । सुवर् एव_अभि विपश्यति वैश्वानरं ज्योतिः । द्यावापृथिवी हविषि गृहीत उदवेपेताम् । दृꣳहन्तां दुर्या द्यावापृथिव्योर् इत्य् आह । गृहाणां द्यावापृथिव्योर् धृत्यै । उर्व् अन्तरिक्षम् अन्विहीत्य् आह गत्यै । अदित्यास् त्वा_उपस्थे सादयामीत्य् आह । इयं वा अदितिः । अस्या एव_एनद् उपस्थे सादयति । अग्ने हव्यꣳ रक्षस्व_इत्य् आह गुप्त्यै ।

अनुवाक 5 VERSE: 1 { 3.2.5.1} इन्द्रो वृत्रम् अहन्न् । सो ऽपः । अभ्यम्रियत । तासां यन् मेध्यं यज्ञियꣳ सदेवम् आसीत् । तद् अपोदक्रामत् । ते दर्भा अभवन्न् । यद् दर्भैर् अप उत्पुनाति । या एव मेध्या यज्ञियाः सदेवा आपः । ताभिर् एव_एना उत्पुनाति । द्वाभ्याम् उत्पुनाति ।

VERSE: 2 { 3.2.5.2} द्विपाद् यजमानः प्रतिष्ठित्यै । देवो वः सविता_उत्पुनात्व् इत्य् आह । सवितृप्रसूत एव_एना उत्पुनाति । अच्छिद्रेण पवित्रेणा_इत्य् आह । असौ वा अदित्यो ऽच्छिद्रं पवित्रम् । तेन_एव_एना उत्पुनाति । वसोः सूर्यस्य रश्मिभिर् इत्य् आह । प्राणा वा आपः { ।} प्राणा वसवः । प्राणा रश्मयः ।

VERSE: 3 { 3.2.5.3} प्राणैर् एव प्राणान्त् संपृणक्ति । सावित्रिया_ऋचा । सवितृप्रसूतं मे कर्मासद् इति । सवितृप्रसूतम् एव_अस्य कर्म भवति । पच्छो गायत्रिया त्रिष्षमृद्धत्वाय । आपो देवीर् अग्रेपुवो अग्रेगुव इत्य् आह । रूपम् एवाऽऽसाम् एतन् महिमानं व्याचष्टे । अग्र इमं यज्ञं नयताग्रे यज्ञपतिम् इत्य् आह । अग्रे एव यज्ञं नयन्ति । अग्रे यज्ञपतिम् ।

VERSE: 4 { 3.2.5.4} युष्मान् इन्द्रो ऽवृणीत वृत्रतूर्ये यूयम् इन्द्रम् अवृणीध्वं वृत्रतूर्य इत्य् आह । वृत्रꣳ ह हनिष्यन्न् इन्द्र आपो वव्रे । आपो ह_इन्द्रं वव्रिरे । संज्ञाम् एवाऽऽसाम् एतत् सामानं व्याचष्टे । प्रोक्षिताः स्थ_इत्य् आह । तेनापः प्रोक्षिताः । अग्नये वो जुष्टं प्रोक्षाम्य् अग्नीषोमाभ्याम् इत्य् आह । यथादेवतम् एव_एनान् प्रोक्षति । त्रिः प्रोक्षति । त्र्यावृद् धि यज्ञः ।

VERSE: 5 { 3.2.5.5} अथो रक्षसाम् अपहत्यै । शुन्धध्वं दैव्याय कर्मणे देवयज्याया इत्य् आह । देवयज्याया एव_एनानि शुन्धति । त्रिः प्रोक्षति । त्र्यावृद् धि यज्ञः । अथो मेध्यत्वाय । अवधूतꣳ रक्षो ऽवधूता अरातय इत्य् आह । रक्षसाम् अपहत्यै । अदित्यास् त्वग् असीत्य् आह । इयं वा अदितिः ।

VERSE: 6 { 3.2.5.6} अस्या एव_एनत् त्वचं करोति । प्रति त्वा पृथिवी वेत्त्व् {आनंदा. वेत्व्} इत्य् आह प्रतिष्ठित्यै । पुरस्तात् प्रतीचीनग्रीवम् उत्तरलोम_उपस्तृणाति मेध्यत्वाय । तस्मात् पुरस्तात् प्रत्यञ्चः पशावो मेधम् उपतिष्ठन्ते । तस्मात् प्रजा मृगं ग्राहुकाः । यज्ञो देवेभ्यो निलायत । कृष्णो रूपं कृत्वा । यत् कृष्णाजिने हविर् अध्यवहन्ति । यज्ञाद् एव तद् यज्ञं प्रयुङ्क्ते । हविषो ऽस्कन्दाय ।

VERSE: 7 { 3.2.5.7} अधिषवणम् असि वानस्पत्यम् इत्य् आह । अधिषवणम् एव_एनत् करोति । प्रति त्वा_आदित्यास् त्वग् वेत्त्व् {आनंदा. वेत्व्} इत्य् आह सयत्वाय । अग्नेस् तनूर् असीत्य् आह । अग्नेर् वा एषा तनूः । यद् ओषधयः । वाचो विसर्जनम् इत्य् आह । यदा हि प्रजा ओषधीनाम् अश्नन्ति । अथ वाचं विसृजन्ते । देववीतये त्वा गृह्णामीत्य् आह ।

VERSE: 8 { 3.2.5.8} देवताभिर् एव_एनत् समर्धयति । अद्रिर् असि वानस्पत्य इत्य् आह । ग्रावाणम् एव_एनत् करोति । स इदं देवेभ्यो हव्यꣳ सुशमि शमिष्व_इत्य् आह शान्त्यै । हविष्कृद् एहीत्य् आह । य एव देवानाꣳ हविष्कृतः । तान् ह्व्यति । त्रिर् ह्वयति । त्रिषत्या हि देवाः । इषम् आवद_ऊर्जम् आवद_इत्य् आह ।

VERSE: 9 { 3.2.5.9} इषम् एव_ऊर्जं यजमाने दधाति । द्युमद् वदत वयꣳ संघातं जेष्म_इत्य् आह भ्रातृव्याभिभूत्यै । मनोः श्रद्धादेवस्य यजमानस्य_असुरघ्नी वाक् । यज्ञायुधेषु प्रविष्टासीत् । ते ऽसुरा यावन्तो यज्ञायुधानाम् उद्वदताम् उपाशृण्वन्न् । ते पराभवन् । तस्मात् स्वानां मध्ये ऽवसाय यजेत । यावन्तो ऽस्य भ्रातृव्या यज्ञायुधानाम् उद्वदताम् उपशृण्वन्ति । ते पराभवन्ति । उच्चैः समाहन्तवा आह विजित्यै ।

VERSE: 10 { 3.2.5.10} वृङ्क्त एषाम् इन्द्रियं वीर्यम् । श्रेष्ठ एषां भवति । वर्षवृद्धम् असि प्रति त्वा वर्षवृद्धं वेत्त्व् {आनंदा. वेत्व्} इत्य् आह । वर्षवृद्धा वा ओषधयः । वर्षवृद्धा इषीकाः समृद्ध्यै । यज्ञꣳ रक्षाꣳस्य् अनु प्राविशन् । तान्य् अस्ना पशुभ्यो निरवादयन्त । तुषैर् ओषधीभ्यः । परापूतꣳ रक्षः परापूता अरातय इत्य् आह । रक्षसाम् अपहत्यै ।

VERSE: 11 { 3.2.5.11} रक्षसां भागो ऽसीत्य् आह । तुषैर् एव रक्षाꣳसि निरवदयते । अप उपस्पृशति मेध्यत्वाय । वायुर् वो विविनक्त्व् इत्य् आह । पवित्रं वै वायुः । पुनात्य् एव_एनान् । अन्तरिक्षाद् इव वा एते प्रस्कन्दन्ति । ये शूर्पात् । देवो वः सविता हिरण्यपाणिः प्रतिगृह्णात्व् इत्य् आह प्रतिष्ठित्यै । हविषो ऽस्कन्दाय । त्रिष् फलीकर्तवा आह । त्र्यावृद् धि यज्ञः । अथो मेध्यत्वाय ।

अनुवाक 6 VERSE: 1 { 3.2.6.1} अवधूतꣳ रक्षो ऽवधूता अरातय इत्य् आह । रक्षसाम् अपहत्यै । अदित्यास् त्वग् असीत्य् आह । इयं वा अदितिः । अस्या एव_एनत् त्वचं करोति । प्रति त्वा पृथिवी वेत्त्व् {आनंदा. वेत्व्} इत्य् आह प्रतिष्ठित्यै । पुरस्तात् प्रतीचीनग्रीवम् उत्तरलोम_उपस्तृणाति मेध्यत्वाय । तस्मात् पुरस्तात् प्रत्यञ्चः पशवो मेधम् उपतिष्ठन्ते । तस्मात् प्रजा मृगं ग्राहुकाः । यज्ञो देवेभ्यो निलायत ।

VERSE: 2 { 3.2.6.2} कृष्णो रूपं कृत्वा । यत् कृष्णाजिने हविर् अधिपिनष्टि । यज्ञाद् एव तद् यज्ञं प्रयुङ्क्ते । हविषो ऽस्कन्दाय । द्यावापृथिवी सह_आस्ताम् । ते शम्यामात्रम् एकम् अहर् व्यैताꣳ शम्यामात्रम् एकम् अहः । दिवः स्कम्भनिर् असि प्रति त्वा_आदित्यास् त्वग् वेत्त्व् {आनंदा. वेत्व्} इत्य् आह । द्यावापृथिव्योर् वीत्यै । धिषणासि पर्वत्या प्रति त्वा दिवः स्कम्भनिर् वेत्त्व् {आनंदा. वेत्व्} इत्य् आह । द्यावापृथिव्योर् विधृत्यै ।

VERSE: 3 { 3.2.6.3} धिषणासि पार्वतेयी प्रति त्वा पर्वतिर् वेत्त्व् {आनंदा. वेत्व्} इत्य् आह । द्यावापृथिव्योर् धृत्यै । देवस्य त्वा सवितुः प्रसव इत्य् आह प्रसूत्यै । अश्विनोर् बाहुभ्याम् इत्य् आह । अश्विनौ हि देवानाम् अध्वर्यू आस्ताम् । पूष्णो हस्ताभ्याम् इत्य् आह यत्यै । अधिवपामीत्य् आह । यथादेवतम् एव_एनान् अधिवपति । धान्यम् असि धिनुहि देवान् इत्य् आह । एतस्य यजुषो वीर्येण ।

VERSE: 4 { 3.2.6.4} यावद् एका देवता कामयते यावद् एका । तावद् आहुतिः प्रथते । न हि तद् अस्ति । यत् तावद् एव स्यात् । यावज् जुहोति । प्राणाय त्वा_अपानाय त्वा_इत्य् आह । प्राणान् एव यजमाने दधाति । दीर्घाम् अनु प्रसितिम् आयुषे धाम् इत्य् आह । आयुर् एव_अस्मिन् दधाति । अन्तरिक्षाद् इव वा एतानि प्रस्कन्दन्ति । यानि दृषदः । देवो वः सविता हिरण्यपानिः प्रति गृह्णात्व् इत्य् आह प्रतिष्ठित्यै । हविषो ऽस्कन्दाय । असंवपन्ती पिꣳषा_अण्ū́नि कुरुताद् इत्य् आह मेध्यत्वाय ।

अनुवाक 7 VERSE: 1 { 3.2.7.1} धृष्टिर् असि ब्रह्म यच्छ_इत्य् आह धृत्यै । अपाग्ने ऽग्निम् आमादं जहि निष्क्रव्यादꣳ सेध_आ देवयजं वह_इत्य् आह । य एवाऽऽमात् क्रव्यात् । तम् अपहत्य । मेध्ये ऽग्नौ कपालम् उपदधाति । निर्दग्धꣳ रक्षो निर्दग्धा अरातय इत्य् आह । रक्षाꣳस्य् एव निर्दहति । अग्निवत्युपदधाति । अस्मिन्न् एव लोके ज्योतिर् धत्ते । अङ्गारम् अधिवर्तयति ।

VERSE: 2 { 3.2.7.2} अन्तरिक्ष एव ज्योतिर् धत्ते । आदित्यम् एव_अमुष्मिन् लोके ज्योतिर् धत्ते । ज्योतिष्मन्तो ऽस्मा इमे लोका भवन्ति । य एवं वेद । ध्रुवम् असि पृथिवीं दृꣳह_इत्य् आह । पृथिवीम् एव_एतेन दृꣳहति । धर्त्रम् अस्य् अन्तरिक्षं दृꣳह_इत्य् आह । अन्तरिक्षम् एव_एतेन दृꣳहति । धरुणम् असि दिवं दृꣳह_इत्य् आह । दिवम् एव_एतेन दृꣳहति ।

VERSE: 3 { 3.2.7.3} धर्मासि दिशो दृꣳह_इत्य् आह । दिश एव_एतेन दृꣳहति । इमान् एव_एतैर् लोकान् दृꣳहति । दृꣳहन्ते ऽस्मा इमे लोकाः प्रजया पशुभिः । य एवं वेद । त्रीण्य् अग्रे कपालान्य् उपदधाति । त्रय इमे लोकाः । एषां लोकानाम् आप्त्यै । एकम् अग्रे कपालम् उपदधाति । एकं वा अग्रे कपालं पुरुषस्य संभवति ।

VERSE: 4 { 3.2.7.4} अथ द्वे । अथ त्रीणि । अथ चत्वारि । अथ_अष्टौ । तस्माद् अष्टाकपालं पुरुषस्य शिरः । यद् एवं कपालान्य् उपदधाति । यज्ञो वै प्रजापतिः । यज्ञम् एव प्रजापतिꣳ सꣳस्करोति । आत्मानम् एव तत् सꣳस्करोति । तꣳ सꣳस्कृतम् आत्मानम् ।

VERSE: 5 { 3.2.7.5} अमुष्मिन्_लोके ऽनु परैति । यद् अष्टाव् उपदधाति । गायत्रिया तत् संमितम् । यन् नव । त्रिवृता तत् । यद् दश । विराजा तत् । यद् एकादश । त्रिष्टुभा तत् । यद् द्वादश ।

VERSE: 6 { 3.2.7.6} जगत्या तत् । छन्दःसंमितानि स उपदधत् कपालानि । इमान् लोकान् अनुपूर्वं दिशो विधृत्यै दृꣳहति । अथ_आयुः प्राणान् प्रजां पशून् यजमाने दधाति । सजातान् अस्मा अभितो बहुलान् करोति । चितः स्थ_इत्य् आह । यथायजुर् एव_एतत् । भृगूणाम् अङ्गिरसां तपसा तप्यध्वम् इत्य् आह । देवतानाम् एव_एनानि तपसा तपति । तानि ततः सꣳस्थिते । यानि घर्मे कपालान्य् उपचिन्वन्ति वेधस इति चतुष्पदया_ऋचा विमुञ्चति । चतुष्पादः पशवः । पशुष्व् एव_उपरिष्टात् प्रतितिष्ठति ।

अनुवाक 8 VERSE: 1 { 3.2.8.1} देवस्य त्वा सवितुः प्रसव इत्य् आह प्रसूत्यै । अश्विनोर् बाहुभ्याम् इत्य् आह । अश्विनौ हि देवानाम् अध्वर्यू आस्ताम् । पूष्णो हस्ताभ्याम् इत्य् आह यत्यै । संवपामीत्य् आह । यथादेवतम् एव_एनानि संवपति । सम् आपो अद्भिर् अग्मत सम् ओषधयो रसेन_इत्य् आह । आपो वा ओषधीर् जिन्वन्ति । ओषधयो ऽपो जिन्वन्ति । अन्या वा एतासाम् अन्या जिन्वन्ति ।

VERSE: 2 { 3.2.8.2} तस्माद् एवम् आह । सꣳ रेवतीर् जगतीभिर् मधुमतीर् मधुमतीभिः सृज्यध्वम् इत्य् आह । आपो वै रेवतीः । पशवो जगतीः । ओषधयो मधुमतीः । आप ओषधीः पशून् । तान् एव_अस्मा एकधा सꣳसृज्य । मधुमतः करोति । अद्भ्यः परि प्रजाताः स्थ समद्भिः पृच्यध्वम् इति पर्याप्लावयति । यथा सुवृष्ट इमाम् अनुविसृत्य ।

VERSE: 3 { 3.2.8.3} आप ओषधीर् महयन्ति । तादृग् एव तत् । जनयत्यै त्वा संयौमीत्य् आह । प्रजा एव_एतेन दाधार । अग्नये त्वा_अग्नीषोमाभ्याम् इत्य् आह व्यावृत्त्यै । मखस्य शिरो ऽसीत्य् आह । यज्ञो वै मखः । तस्यैतत्_शिरः । यत् पुरोडाशः । तस्माद् एवम् आह ।

VERSE: 4 { 3.2.8.4} घर्मो ऽसि विश्वायुर् इत्य् आह । विश्वम् एव_आयुर् यजमाने दधाति । उरु प्रथस्व_उरु ते यज्ञपतिः प्रथताम् इत्य् आह । यजमानम् एव प्रजया पशुभिः प्रथयति । त्वचं गृह्णीष्व_इत्य् आह । सर्वम् एव_एनꣳ सतनुं करोति । अथाप आनीय परि मार्ष्टि । माꣳस एव तत् त्वचं दधाति । तस्मात् त्वचा माꣳसं छन्नम् । घर्मो वा एषो ऽशान्तः ।

VERSE: 5 { 3.2.8.5} अर्धमासे_ऽर्धमासे प्रवृज्यते । यत् पुरोडाशः । स ईश्वरो यजमानꣳ शुचा प्रदहः । पर्यग्नि करोति । पशुम् एव_एनम् अकः । शान्त्या अप्रदाहाय । त्रिः पर्यग्नि करोति । त्र्यावृद् धि यज्ञः । अथो रक्षसाम् अपहत्यै । अन्तरितꣳ रक्षो ऽन्तरिता अरातय इत्य् आह ।

VERSE: 6 { 3.2.8.6} रक्षसाम् अन्तर्हित्यै । पुरोडाशं वा अधिश्रितꣳ रक्षाꣳस्य् अजिघाꣳसन् । दिवि नाको नामाग्नी रक्षोहा । स एव_अस्माद् रक्षाꣳस्य् अपाहन्न् । देवस् त्वा सविता श्रपयत्व् इत्य् आह । सवितृप्रसूत एव_एनꣳ श्रपयति । वर्षिष्ठे अधि नाक इत्य् आह । रक्षसाम् अपहत्यै । अग्निस् ते तनुवं मा_अतिधाग् इत्य् आहानतिदाहाय । अग्ने हव्यꣳ रक्षस्व_इत्य् आह गुप्त्यै ।

VERSE: 7 { 3.2.8.7} अविदहन्तश् श्रपयत_इति वाचं विसृजते । यज्ञम् एव हवीꣳश्य् अभिव्याहृत्य प्रतनुते । पुरोरुचम् अविदाहाय शृत्यै करोति । मस्तिष्को वै पुरोडाशः । तं यन् न_अभिवासयेत् । आविर् मस्तिष्कः स्यात् । अभिवासयति । तस्माद् गुहा मस्तिष्कः । भस्मना_अभिवासयति । तस्मान् माꣳसेनास्थि छन्नम् ।

VERSE: 8 { 3.2.8.8} वेदेनाभिवासयति । तस्मात् केशैः शिरश् छन्नम् । अखलतिभावुको भवति । य एवं वेद । पशोर् वै प्रतिमा पुरोडाशः । स न_अयजुष्कम् अभिवास्यः । वृथा_इव स्यात् । ईश्वरा यजमानस्य पशवः प्रमेतोः । सं ब्रह्मणा पृच्यस्व_इत्य् आह । प्राणा वै ब्रह्म ।

VERSE: 9 { 3.2.8.9} प्राणाः पशवः । प्राणैर् एव पशून्त् संपृणक्ति । न प्रमायुका भवन्ति । यजमानो वै पुरोडाशः । प्रजा पशवः पुरीषम् । यद् एवम् अभिवासयति । यजमानम् एव प्रजया पशुभिः समर्धयति । देवा वै हविर् भृत्वा {ड्युमोण्ट मृत्वा?}_अब्रुवन्न् । कस्मिन्न् इदं म्रक्ष्यामह इति । सो ऽग्निर् अब्रवीत् ।

VERSE: 10 { 3.2.8.10} मयि तनूः सं निधद्ध्वम् { निधध्वम्} । अहं वस् तं जनयिष्यामि । यस्मिन् म्रक्ष्यध्व इति । ते देवा अग्नौ तनूः सं न्यदधत । तस्माद् आहुः । अग्निः सर्वा देवता इति । सो ऽङ्गारेणापः । अभ्यपातयत् । तत एकतो ऽजायत । स द्वितीयम् अभ्यपातयत् ।

VERSE: 11 { 3.2.8.11} ततो द्वितो ऽजायत । स तृतीयम् अभ्यपातयत् । ततस् त्रितो ऽजायत । यद् अद्भ्यो ऽजायन्त । तद् आप्यानाम् आप्यत्वम् । यद् आत्मभ्यो ऽजायन्त । तद् आत्म्यानाम् आत्म्यत्वम् । ते देवा आप्येष्व् अमृजत । आप्या अमृजत सूर्याभ्युदिते । सूर्याभ्युदितः सूर्याभिनिम्रुक्ते ।

VERSE: 12 { 3.2.8.12} सूर्याभिनिम्रुक्तः कुनखिनि । कुनखी श्यावदति । श्यावदन्न् अग्रदिधिषौ । अग्रदिधिषुः परिवित्ते । परिवित्तो वीरहणि । वीरहा ब्रह्महणि तद् ब्रह्महणं न_अत्यच्यवत । अन्तर्वेदि निनयत्य् अवरुध्यै । उल्मुकेन_अभिगृह्णाति शृतत्वाय । शृतकामा इव हि देवाः ।

अनुवाक 9 VERSE: 1 { 3.2.9.1} देवस्य त्वा सवितुः प्रसव इति स्फ्यम् आदत्ते प्रसूत्यै । अश्विनोर् बाहुभ्याम् इत्य् आह । अश्विनौ हि देवानाम् अध्वर्यू आस्ताम् । पूष्णो हस्ताभ्याम् इत्य् आह यत्यै । आदद इन्द्रस्य बाहुर् असि दक्षिण इत्य् आह । इन्द्रियम् एव यजमाने दधाति । सहस्रभृष्टिः शततेजा इत्य् आह । रूपम् एव_अस्यैतन् महिमानं व्याचष्टे । वायुर् असि तिग्मतेजा इत्य् आह । तेजो वै वायुः ।

VERSE: 2 { 3.2.9.2} तेज एव_अस्मिन् दधाति । विषाद् वै नाम_आसुर आसीत् । सो ऽबिभेत् । यज्ञेन मा देवा अभिभविष्यन्तीति । स पृथिवीम् अभ्यवमीत् । सोमेध्या_अभवत् । अथो यद् इन्द्रो वृत्रम् अहन् । तस्य लोहितं पृथिवीम् अनु व्यधावत् । सोमेध्या_अभवत् । पृथिवि देवयजनीत्य् आह ।

VERSE: 3 { 3.2.9.3} मेध्याम् एव_एनां देवयजनीं करोति । ओषध्यास् ते मूलं मा हिꣳसिषम् इत्य् आह । ओषधीनाम् अहिꣳसायै । व्रजं गच्छ गोस्थानम् इत्य् आह । छन्दाꣳसि वै व्रजो गोस्थानः । छन्दाꣳस्य् एव_अस्मै व्रजं गोस्थानं करोति । वर्षतु ते द्यौर् इत्य् आह । वृष्टिर् वै द्यौः । वृष्टिम् एव_अवरुन्धे । बधान देव सवितः परमस्यां परावतीत्य् आह ।

VERSE: 4 { 3.2.9.4} द्वौ वाव पुरुषौ । यं चैव द्वेष्टि । यश् चैनं द्वेष्टि । ताव् उभौ बध्नाति परमस्यां परावति शतेन पाशैः । यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौग् इत्य् आहानिम्रुक्त्यै {ड्युमोण्ट आहानिर्मुक्त्यै} । अररुर् वै नाम_आसुर आसीत् । स पृथिव्याम् उपम्लुप्तो ऽशयत् । तं देवा अपहतो ऽररुः पृथिव्या इति पृथिव्या अपाघ्नन्न् । भ्रातृव्यो वा अररुः । अपहतो ऽररुः पृथिव्या इति यद् आह ।

VERSE: 5 { 3.2.9.5} भ्रातृव्यम् एव पृथिव्या अपहन्ति । ते ऽमन्यन्त । दिवं वा अयम् इतः पतिष्यतीति । तम् अररुस्ते दिवं मा स्कान् इति दिवः पर्यबाधन्त । भ्रातृव्यो वा अररुः । अररुस् ते दिवं मा स्कान् इति यद् आह । भ्रातृव्यम् एव दिवः परिबाधते । स्तम्बयजुर् हरति । पृथिव्या एव भ्रातृव्यम् अपहन्ति । द्वितीयꣳ हरति ।

VERSE: 6 { 3.2.9.6} अन्तरिक्षाद् एव_एनम् अपहन्ति । तृतीयꣳ हरति । दिव एव_एनम् अपहन्ति । तूष्णीं चतुर्थꣳ हरति । अपरिमिताद् एव_एनम् अपहन्ति । असुराणां वा इयम् अग्र आसीत् । यावद् आसीनः परापश्यति । तावद् देवानाम् । ते देवा अब्रुवन् । अस्त्व् एव नो ऽस्याम् अपीति ।

VERSE: 7 { 3.2.9.7} क्यन् नो दास्यथ_इति । यावत् स्वयं परिगृह्णीथ_इति । ते वसवस् त्वा_इति दक्षिणतः पर्यगृह्णन्न् । रुद्रास् त्वा_इति पश्चात् । आदित्यास् त्वा_इत्य् उत्तरतः । ते ऽग्निना प्राञ्चो ऽजयन्न् । वसुभिर् दक्षिणा । रुद्रैः प्रत्यञ्चः । आदित्यैर् उदञ्चः । यस्यैवं विदुषो वेदिं परिगृह्णन्ति ।

VERSE: 8 { 3.2.9.8} भवत्य् आत्मना । परास्य भ्रातृव्यो भवति । देवस्य सवितुः सव इत्य् आह प्रसूत्यै । कर्म कृण्वन्ति वेधस इत्य् आह । इषितꣳ हि कर्म क्रियते । पृथिव्यै मेध्यं चामेध्यं च व्युदक्रामताम् । प्राचीनम् उदीचीनं मेध्यम् । प्रतीचीनं दक्षिणा_अमेध्यम् । प्राचीम् उदीचीं प्रवणां करोति । मेध्याम् एव_एनां देवयजनीं करोति ।

VERSE: 9 { 3.2.9.9} प्राञ्चौ वेद्यꣳसाव् उन्नयति । आहवनीयस्य परिगृहीत्यै । प्रतीची श्रोणी । गार्हपत्यस्य परिगृहीत्यै । अथो मिथुनत्वाय । उद्धन्ति । यद् एवास्या अमेध्यम् । तद् अपहन्ति । उद्धन्ति तस्माद् ओषधयः पराभवन्ति ।

VERSE: 10 { 3.2.9.10} मूलं च्छिनत्ति । भ्रातृव्यस्यैव मूलं च्छिनत्ति । मूलं वा अतितिष्ठद् रक्षाꣳस्य् अनु_उत्पिपते । यद् धस्तेन छिन्द्यात् । कुनखिनीः प्रजाः स्युः । स्फ्येन च्छिनत्ति । वज्रो वै स्फ्यः । वज्रेणैव यज्ञाद् रक्षाꣳस्य् अपहन्ति । पितृदेवत्या_अतिखाता । इयतीं खनति ।

VERSE: 11 { 3.2.9.11} प्रजापतिना यज्ञमुखेन संमिताम् । वेदिर् देवेभ्यो निलायत । तां चतुरङ्गुले ऽन्वविन्दन्न् । तस्माच् चतुरङ्गुलं खेया । चतुरङ्गुलं खनति । चतुरङ्गुले ह्य् ओषधयः प्रतितिष्ठन्ति । आ प्रतिष्ठायै खनति । यजमानम् एव प्रतिष्ठां गमयति । दक्षिणतो वर्षीयसीं करोति । देवयजनस्यैव रूपम् अकः ।

VERSE: 12 { 3.2.9.12} पुरीषवतीं करोति । प्रजा वै पशवः पुरीषम् । प्रजया_एवैनं पशुभिः पुरीषवन्तं करोति । उत्तरं परिग्राहं परिगृह्णाति । एतावती वै पृथिवी । यावती वेदिः । तस्या एतावत एव भ्रातृव्यं निर्भज्य । आत्मन उत्तरं परिग्राहं परिगृह्णाति । ऋतम् अस्य् ऋतसदनम् अस्य् ऋतश्रीर् असीत्य् आह । यथायजुर् एवैतत् ।

VERSE: 13 { 3.2.9.13} क्रूरम् इव वा एतत् करोति । यद् वेदिं करोति । धा असि स्वधा असीति योयुप्यते शान्त्यै । उर्वी चासि वस्वी चासीत्य् आह । उर्वीम् एवैनां वस्वीं करोति । पुरा क्रूरस्य विसृपो विरप्शिन्न् इत्य् आह मेध्यत्वाय । उदादाय पृथिवीं जीरदानुर् याम् ऐरयन् चन्द्रमसि स्वधाभिर् इत्य् आह । यद् एवास्या अमेध्यम् । तद् अपहत्य । मेध्यां देवयजनीं कृत्वा ।

VERSE: 14 { 3.2.9.81} यद् अदश् चन्द्रमसि मेध्यम् । तद् अस्याम् एरयति । तां धीरासो अनुदृश्य यजन्त इत्य् आहानुख्यात्यै । {ज्} प्रोक्षणीर् आसादय । इध्माबर्हिर् उपसादय । स्रुवं च स्रुचश् च संमृड्ढि । पत्नीꣳ संनह्य । आज्येन_उदेहीत्य् आहानुपूर्वतायै । प्रोक्षणीर् आसादयति । आपो वै रक्षोघ्नीः ।

VERSE: 15 { 3.2.9.15} रक्षसाम् अपहत्यै । स्फ्यस्य वर्त्मन्त् सादयति । यज्ञस्य संतत्यै । उवाच हासितो दैवलः । एतावतीर् वा अमुष्मिन्_लोक आप आसन्न् । यावतीः प्रोक्षणीर् इति । तस्माद् बह्वीर् आसाद्याः । स्फ्यम् उदस्यन् । यं द्विष्यात् तं ध्यायेत् । शुचा_एवैनम् अर्पयति ।

अनुवाक 10 VERSE: 1 { 3.2.10.1} वज्रो वै स्फ्यः । यद् अन्वञ्चं धारयेत् । वज्रे ऽध्वर्युः क्षण्वीत । पुरस्तात् तिर्यञ्चं धारयति । वर्जो वै स्फ्यः । वज्रेणैव यज्ञस्य दक्षिणतो रक्षाꣳस्य् अपहन्ति । अग्निभ्यां प्राचश् च प्रतीचश् च । स्फ्येन_उदीचश् च_अधराचश् च । स्फ्येन वा एष वज्रेणास्यै पाप्मानं भ्रातृव्यम् अपहत्य । उत्करे ऽधि प्रवृश्चति ।

VERSE: 2 { 3.2.10.2} यथा_उपधाय वृश्चन्त्य् एवम् । हस्ताव् अवनेनिक्ते । आत्मानम् एव पवयते । स्फ्यं प्रक्षालयति मेध्यत्वाय । अथो पाप्मन एव भ्रातृव्यस्य न्यङ्गं च्छिनत्ति । इध्माबर्हिर् उपसादयति युक्त्यै । यज्ञस्य मिथुनत्वाय । अथो पुरोरुचम् एवैतां दधाति । उत्तरस्य कर्मणो ऽनुख्यात्यै । न पुरस्तात् प्रत्यग् उपसादयेत् ।

VERSE: 3 { 3.2.10.3} यत् पुरस्तात् प्रत्यग् उपसादयेत् । अन्यत्र_आहुतिपथाद् इध्मं प्रतिपादयेत् । प्रजा वै बर्हिः । अपराध्नुयाद् बर्हिषा प्रजानां प्रजननम् । पश्चात् प्राग् उपसादयति । आहुतिपथेन_इध्मं प्रतिपादयति । संप्रत्य् एव बर्हिषा प्रजानां प्रजननम् उपैति । दक्षिणम् इध्मम् । उत्तरं बर्हिः । आत्मा वा इध्मः । प्रजा बर्हिः । प्रजा ह्य् आत्मन उत्तरतरा तीर्थे । ततो मेधम् उपनीय । यथादेवतम् एवैनत् प्रतिष्ठापयति । प्रतितिष्ठति प्रजया पशुभिर् यजमानः ।




प्रपाठक: 3 अनुवाक 1 VERSE: 1 { 3.3.1.1} प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातय इत्य् आह । रक्षसाम् अपहत्यै । अग्नेर् वस् तेजिष्ठेन तेजसा निष्टपामीत्य् आह मेध्यत्वाय । स्रुचः संमार्ष्टि । स्रुवम् अग्रे । पुमाꣳसम् एव_अभ्यः सꣳश्यति मिथुनत्वाय । अथ जुहूम् । अथ_उपभृतम् । अथ ध्रुवाम् । असौ वै जुहूः ।

VERSE: 2 { 3.3.1.2} अन्तरिक्षम् उपभृत् । पृथिवी ध्रुवा । इमे वै लोकाः स्रुचः । वृष्टिः संमार्जनानि । वृष्टिर् वा इमान्_ लोकान् अनुपूर्वं कल्पयति । ते ततः क्लृप्ताः समेधन्ते । समेधन्ते ऽस्मा इमे लोकाः प्रजया पशुभिः । य एवं वेद । यदि कामयेत वषुकः पर्जन्यः स्याद् इति । अग्रतः संमृज्यात् ।

VERSE: 3 { 3.3.1.3} वृष्टिम् एव नियच्छति । अर्वाचीनाग्रा { अवाचीनाग्रा} हि वृष्टिः । यदि कामयेतावर्षुकः स्याद् इति । मूलतः संमृज्यात् । वृष्टिम् एव_उद्यच्छति । तद् उ वा आहुः । अग्रत एव_उपरिष्टात् संमृज्यात् । मूलतो ऽधस्तात् । तद् अनुपूर्वं कल्पते । वर्षुको भवतीति ।

VERSE: 4 { 3.3.1.4} प्राचीम् अभ्याकारम् । अग्रैर् अन्तरतः । एवम् इव ह्य् अन्नम् अद्यते । अथो अग्राद् वा ओषधीनामूर्जं प्रजा उपजीवन्ति । ऊर्ज एव_अन्नाद्यस्यावरुध्यै {आनंदा. _आवरुद्ध्यै} । अधस्तात् प्रतीचीम् । दण्डम् उत्तमतः । मूलेन मूलं प्रतिष्ठित्यै । तस्माद् अरत्नौ प्राञ्च्य् उपरिष्टाल् लोमानि । प्रत्यञ्च्य् अधस्तात् ।

VERSE: 5 { 3.3.1.5} स्रुग् घ्य् एषा । प्राणो वै स्रुवः । जुहूर् दक्षिणो हस्तः । उपभृत् सव्यः । आत्मा ध्रुवा । अन्नꣳ संमार्जनानि । मुखतो वै प्राणो ऽपानो भूत्वा । आत्मानम् अन्नं प्रविश्य । बाह्यतस् तनुवꣳ शुभयति । तस्मात् स्रुवम् एव_अग्रे संमार्ष्टि । मुखतो हि प्राणो ऽपानो भूत्वा । आत्मानम् अन्नम् आविशति । तौ प्राणापाणौ । अव्यर्धुकः प्राणापानाभ्यां भवति । य एवं वेद ।

अनुवाक 2 VERSE: 1 { 3.3.2.1} दिवः शिल्पम् अवततम् । पृथिव्याः ककुभि श्रितम् । तेन वयꣳ सहस्रवल्शेन । सपत्नं नाशयामसि स्वाहा_इति स्रुक्संमार्जनान्य् अग्नौ प्रहरति । आपो वै दर्भाः । रूपम् एव_एषाम् एतन् महिमानं व्याचष्टे । अनुष्टुभा_ऋचा । आनुष्टुभः प्रजापतिः । प्राजापत्यो वेदः । वेदस्याग्रꣳ स्रुक्संमार्जनानि ।

VERSE: 2 { 3.3.2.2} स्वेन_एव_एनानि छन्दसा । स्वया देवतया समर्धयति । अथो ऋग् वाव योषा । दर्भो वृषा । तन् मिथुनम् । मिथुनम् एव_अस्य तद् यज्ञे करोति प्रजननाय । प्रजायते प्रजया पशुभिर् यजमानः । तान्य् एके वृथा_एवापास्यन्ति । तत् तथा न कार्यम् । आरब्धस्य यज्ञियस्य कर्मणः स विदोहः ।

VERSE: 3 { 3.3.2.3} यद्य् एनानि पशवो ऽभितिष्ठेयुः । न तत् पशुभ्यः कम् । अद्भिर् मार्जयित्वा_उत्करे न्यस्येत् । यद् वै यज्ञियस्य कर्मणो ऽन्यत्र_आहुतीभ्यः संतिष्ठते । उत्करो वाव तस्य प्रतिष्ठा । एताꣳ हि तस्मै प्रतिष्ठां देवाः समभरन् । यद् अद्भिर् मार्जयति । तेन शान्तम् । यद् उत्करे न्यस्यति । प्रतिष्ठाम् एव_एनानि तद् गमयति ।

VERSE: 4 { 3.3.2.4} प्रतितिष्ठति प्रजया पशुभिर् यजमानः । अथो स्तम्बस्य वा एतद् रूपम् । यत् स्रुक्संमार्जनानि । स्तम्बशो वा ओषधयः । तासां जरत्कक्षे पशवो न रमन्ते । अप्रियो ह्य् एषां जरत्कक्षः । यावदप्रियो ह वै जरत्कक्षः पशूनाम् । तावदप्रियः पशूनां भवति । यस्यैतान्य् अन्यत्राग्नेर् दधति । नवदाव्यासु वा ओषधीषु पशवो रमन्ते ।

VERSE: 5 { 3.3.2.5} नवदावो ह्य् एषां प्रियः । यावत्प्रियो ह वै नवदावः पशूनाम् । तावत्प्रियः पशूनां भवति । यस्यैतान्य् अग्नौ प्रहरन्ति । तस्माद् एतान्य् अग्नाव् एव प्रहरेत् । यतरस्मिन्त् संमृज्यात् । पशूनां धृत्यै । यो भूतानाम् अधिपतिः । रुद्रस् तन्तिचरो वृषा । पशून् अस्माकं मा हिꣳसीः । एतद् अस्तु हुतं तव स्वाहा_इत्य् अग्निसंमार्जनान्य् अग्नौ प्रहरति । एषा वा एतेषां योनिः । एषा प्रतिष्ठा । स्वाम् एव_एनानि योनिम् । स्वां प्रतिष्ठां गमयति । प्रतितिष्ठति प्रजया पशुभिर् यजमानः ।

अनुवाक 3 VERSE: 1 { 3.3.3.1} अयज्ञो वा एषः । यो ऽपत्नीकः । न प्रजाः प्रजायेरन् । पत्न्य् अन्वास्ते । यज्ञम् एव_अकः । प्रजानां प्रजननाय । यत् तिष्ठन्ती संनह्येत । प्रियं ज्ञातिꣳ रुन्ध्यात् । आसीना संनह्यते । आसीना ह्य् एषा वीर्यं करोति ।

VERSE: 2 { 3.3.3.2} यत् पश्चात् प्राच्य् अन्वासीत । अनया समदं दधीत । देवानां पत्निया समदं दधीत । देशाद् दक्षिणत उदीच्य् अन्वास्ते । आत्मनो गोपीथाय । आशासाना सौमनसम् इत्य् आह । मेध्याम् एव_एनां केवलीं कृत्वा । आशिषा समर्धयति । अग्नेर् अनुव्रता भूत्वा संनह्ये सुकृताय कम् इत्य् आह । एतद् वै पत्नियै व्रत_उपनयनम् ।

VERSE: 3 { 3.3.3.3} तेन_एवैनां व्रतम् उपनयति । तस्माद् आहुः । यश् चैवं वेद यश् चन । योक्त्रम् एव युते । यम् अन्वास्ते । तस्यामुष्मिन्_लोके भवतीति योक्त्रेण । यद् योक्त्रम् । स योगः । यद् आस्ते । स क्षेमः ।

VERSE: 4 { 3.3.3.4} योगक्षेमस्य क्लृप्त्यै । युक्तं क्रियाता आशीः कामे युज्याता इति । आशिषः समृद्ध्यै । ग्रन्थिं ग्रथ्नाति । आशिष एव_अस्यां परिगृह्णाति । पुमान् वै ग्रन्थिः । स्त्री पत्नी । तन् मिथुनम् । मिथुनम् एव_अस्य तद् यज्ञे करोति प्रजननाय । प्रजायते प्रजया पशुभिर् यजमानः ।

VERSE: 5 { 3.3.3.5} अथो अर्धो वा एष आत्मनः । यत् पत्नी । यज्ञस्य धृत्या अशिथिलंभावाय । सुप्रजसस् त्वा वयꣳ सुपत्नीर् उपसेदिम_इत्य् आह । यज्ञम् एव तन् मिथुनी करोति । ऊने ऽतिरिक्तं धीयाता इति प्रजात्यै । महीनां पयो ऽस्य् ओषधीनाꣳ रस इत्य् आह । रूपम् एवास्यैतन् महिमानं व्याचष्टे । तस्य ते ऽक्षीयमाणस्य निर्वपामि देवयज्याया इत्य् आह । आशिषम् एवैताम् आशास्ते ।

अनुवाक 4 VERSE: 1 { 3.3.4.1} घृतं च वै मधु च प्रजापतिर् आसीत् । यतो मध्व् आसीत् {,आनंदा. आसीत्} । ततः प्रजा असृजत । तस्मान् मधुषि प्रजननम् इवास्ति । तस्मान् मधुषा न प्रचरन्ति । यातयाम हि । आज्येन प्रचरन्ति । यज्ञो वा आज्यम् । यज्ञेन_एव यज्ञं प्रचरन्त्य् अयातयामत्वाय । पत्न्य् अवेक्षते ।

VERSE: 2 { 3.3.4.2} मिथुनत्वाय प्रजात्यै । यद् वै पत्नी यज्ञस्य करोति । मिथुनं तत् । अथो पत्निया एव_एष यज्ञस्यान्वारम्भो ऽनवच्छित्त्यै । अमेध्यं वा एतत् करोति । यत् पत्न्य् अवेक्षते । गार्हपत्ये ऽधिश्रयति मेध्यत्वाय । आहवनीयम् अभ्युद्द्रवति । यज्ञस्य संतत्यै । तेजो ऽसि तेजो ऽनु प्रेहीत्य् आह ।

VERSE: 3 { 3.3.4.3} तेजो वा अग्निः । तेज आज्यम् । तेजसा_एव तेजः समर्धयति । अग्निस् ते तेजो मा विनैद् इत्य् आह_अहिꣳसायै । स्फ्यस्य वर्त्मन्त् सादयति । यज्ञस्य संतत्यै । अग्नेर् जिह्वा_असि सुभूर् देवानाम् इत्य् आह । यथायजुर् एव_एतत् । धाम्ने_धाम्ने देवेभ्यो यजुषे_यजुषे भव_इत्य् आह । आशिषम् एव_एताम् आशास्ते ।

VERSE: 4 { 3.3.4.4} तद् वा अतः पवित्राभ्याम् एव_उत्पुनाति । यजमानो वा आज्यम् । प्राणापानौ पवित्रे । यजमान एव प्राणापानौ दधाति । पुनराहारम् । एवम् इव हि प्राणापानौ संचरतः । शुक्रम् असि ज्योतिर् असि तेजो ऽसीत्य् आह । रूपम् एव_अस्यैतन् महिमानं व्याचष्टे । त्रिर् यजुषा । त्रय इमे लोकाः ।

VERSE: 5 { 3.3.4.5} एषां लोकानाम् आप्त्यै । त्रिः । त्र्यावृद् धि यज्ञः । अथो मेध्यत्वाय । अथ_आज्यवतीभ्याम् अपः । रूपम् एवासाम् एतद् वर्णं दधाति । अपि वा उत_आहुः । यथा ह वै योषा सुवर्णꣳ हिरण्यं पेशलं बिभ्रती रूपाण्य् आस्ते । एवम् एता एतर्हीति । आपो वै सर्वा देवताः ।

VERSE: 6 { 3.3.4.6} एषा हि विश्वेषां देवानां तनूः । यद् आज्यम् । तत्र_उभयोर् मीमाꣳसा । जामिः { जामि} स्यात् । यद् यजुषा_आज्यं यजुषा_अप उत्पुनीयात् । छन्दसोप उत्पुनात्य् अजामित्वाय । अथो मिथुनत्वाय । सावित्रिया_ऋचा । सवितृप्रसूतं मे कर्मासद् इति । सवितृप्रसूतम् एवास्य कर्म भवति । पच्छो गायत्रिया त्रिःषमृद्धत्वाय । अद्भिर् एव_ओषधीः संनयति । ओषधीभिः पशून् । पशुभिर् यजमानम् । शुक्रं त्वा शुक्रायां ज्योतिस् त्वा ज्योतिष्य् अर्चिस् त्वा_अर्चिषीत्य् आह सर्वत्वाय । पर्याप्त्या अनन्तरायाय ।

अनुवाक 5 VERSE: 1 { 3.3.5.1} देवासुराः संयात्ता आसन् । स एतम् इन्द्र आज्यस्यावकाशम् अपश्यत् । तेनावैक्षत । ततो देवा अभवन् । परा_असुराः । य एवं विद्वान् आज्यम् अवेक्षते । भवत्य् आत्मना । परा_अस्य भ्रातृव्यो भवति । ब्रह्मवादिनो वदन्ति । यदाज्येनान्यानि हवीꣳष्य् अभिघारयति ।

VERSE: 2 { 3.3.5.2} अथ केन_आज्यम् इति । सत्येन_इति ब्रूयात् । चक्षुर् वै सत्यम् । सत्येनैवैनद् अभिघारयति । ईश्वरो वा एषो ऽन्धो भवितोः । यश् चक्षुषा_आज्यम् अवेक्षते । निमील्यावेक्षेत । दाधार_आत्मन् चक्षुः । अभ्य् आज्यं घारयति । आज्यं गृह्णाति ।

VERSE: 3 { 3.3.5.3} छन्दाꣳसि वा आज्यम् । छन्दाꣳस्य् एव प्रीणाति । चतुर् जुह्वां गृह्णाति । चतुष्पादः पशवः । पशून् एव_अवरुन्धे । अष्टाव् उपभृति । अष्टाक्षरा गायत्री । गायत्रः प्राणः । प्राणम् एव पशुषु दधाति । चतुर् ध्रुवायाम् ।

VERSE: 4 { 3.3.5.4} चतुष्पादः पशवः । पशुष्व् एव_उपरिष्टात् प्रतितिष्ठति । यजमानदेवत्या वै जुहूः । भ्रातृव्यदेवत्या_उपभृत् । चतुर् जुह्वां गृह्णन् भूयो गृह्णीयात् । अष्टाव् उपभृति गृह्णन् कनीयः । यजमानाय_एव भ्रातृव्यम् उपस्तिं करोति । गौर् वै स्रुचः । चतुर् जुह्वां गृह्णाति । तस्माच् चतुष्पदी ।

VERSE: 5 { 3.3.5.5} अष्टाव् उपभृति । तस्माद् अष्टाशफा । चतुर् ध्रुवायाम् । तस्माच् चतुस्तना । गाम् एव तत् सꣳस्करोति । सोस्मै सꣳस्कृतेषमूर्जं दुहे । यज् जुह्वां गृह्णाति । प्रयाजेभ्यस् तत् । यद् उपभृति । प्रयाजानूयाजेभ्यस् तत् । सर्वस्मै वा एतद् यज्ञाय गृह्यते । यद् ध्रुवायाम् आज्यम् ।

अनुवाक 6 VERSE: 1 { 3.3.6.1} आपो देवीर् अग्रेपुवो अग्रेगुव इत्य् आह । रूपम् एवाऽऽसाम् एतन् महिमानं व्याचष्टे । अग्र इमं यज्ञं नयताग्रे यज्ञपतिम् इत्य् आह । अग्र एव यज्ञं नयन्ति । अग्रे यज्ञपतिम् । युष्मान् इन्द्रो ऽवृणीत वृत्रतूर्ये यूयम् इन्द्रम् अवृणीध्वं वृत्रतूर्य इत्य् आह । वृत्रꣳ ह हनिष्यन्न् इन्द्र आपो वव्रे । आपो ह_इन्द्रं वव्रिरे । संज्ञाम् एवाऽऽसाम् एतत् सामानं व्याचष्टे । प्रोक्षिताः स्थ_इत्य् आह ।

VERSE: 2 { 3.3.6.2} तेन_आपः प्रोक्षिताः । अग्निर् देवेभ्यो निलायत । कृष्णो रूपं कृत्वा । स वनस्पतीन् प्राविशत् । कृष्णो ऽस्य् आखरेष्ठो ऽग्नये त्वा स्वाहा_इत्य् आह । अग्नय एव_एनं जुष्टं करोति । अथो अग्नेर् एव मेधम् अवरुन्धे । वेदिर् असि बर्हिषे त्वा स्वहा_इत्य् आह । प्रजा वै बर्हिः । पृथिवी वेदिः ।

VERSE: 3 { 3.3.6.3} प्रजा एव पृथिव्यां प्रतिष्ठापयति । बर्हिर् असि स्रुग्भ्यस् त्वा स्वाहा_इत्य् आह । प्रजा वै बर्हिः । यजमानः स्रुचः । यजमानम् एव प्रजासु प्रतिष्ठापयति । दिवे त्वा_अन्तरिक्षाय त्वा पृथिव्यै त्वा_इति बर्हिर् आसाद्य प्रोक्षति । एभ्य एवैनं_लोकेभ्यः प्रोक्षति । अथ ततः सह स्रुचा पुरस्तात् प्रत्यञ्चं ग्रन्थिं प्रत्युक्षति । प्रजा वै बर्हिः । यथा सूत्यै काल आपः पुरस्ताद् यन्ति ।

VERSE: 4 { 3.3.6.4} तादृग् एव तत् । स्वधा पितृभ्य इत्य् आह । स्वधाकारो हि पितृणाम् । ऊर्ग्भव बर्हिषद्भ्य इति दक्षिणायै श्रोणेर् आ_उत्तरस्यै निनयति संतत्यै । मासा वै पितरो बर्हिषदः । मासान् एव प्रीणाति । मासा वा ओषधीर् वर्धयन्ति । मासाः पचन्ति समृद्ध्यै । अनतिस्कन्दन् ह पर्जन्यो वर्षति । यत्र_एतद् एवं क्रियते ।

VERSE: 5 { 3.3.6.5} ऊर्जा पृथिवीं गच्छत_इत्य् आह । पृथिव्याम् एव_ऊर्जं दधाति । तस्मात् पृथिव्या ऊर्जा भुञ्जते । ग्रन्थिं विस्रꣳसयति । प्रजनयत्य् एव तत् । ऊर्ध्वं प्राञ्चम् उद्गूढं प्रत्यञ्चम् आयच्छति । तस्मात् प्राचीनꣳ रेतो धीयते । प्रतीचीः प्रजा जायन्ते । विष्णोः स्तूपो ऽसीत्य् आह । यज्ञो वै विष्णुः ।

VERSE: 6 { 3.3.6.6} यज्ञस्य धृत्यै । पुरस्तात् प्रस्तरं गृह्णाति । मुख्यम् एवैनं करोति । इयन्तं गृह्णाति । प्रजापतिना यज्ञमुखेन संमितम् । इयन्तं गृह्णाति । यज्ञपरुषा संमितम् । इयन्तं गृह्णाति । एतावद् वै पुरुषे वीर्यम् । वीर्यसंमितम् ।

VERSE: 7 { 3.3.6.7} अपरिमितं गृह्णाति । अपरिमितस्यावरुद्ध्यै । तस्मिन् पवित्रे अपिसृजति । यजमानो वै प्रस्तरः । प्राणापानौ पवित्रे । यजमान एव प्राणापानौ दधाति । ऊर्णाम्रदसं त्वा स्तृणामीत्य् आह । यथायजुर् एवैतत् । स्वासस्थं देवेभ्य इत्य् आह । देवेभ्य एवैनत् स्वासस्थं करोति ।

VERSE: 8 { 3.3.6.8} बर्हिः स्तृणाति । प्रजा वै बर्हिः । पृथिवी वेदिः । प्रजा एव पृथिव्यां प्रतिष्ठापयति । अनतिदृश्नꣳ स्तृणाति । प्रजय_एवैनं पशुभिर् अनतिदृश्नं करोति । धारयन् प्रस्तरं परिधीन् परिदधाति । यजमानो वै प्रस्तरः । यजमान एव तत् स्वयं परिधीन् परिदधाति । गन्धर्वो ऽसि विश्वावसुर् इत्य् आह ।

VERSE: 9 { 3.3.6.9} विश्वम् एव_आयुर् यजमाने दधाति । इन्द्रस्य बाहुरसि दक्षिण इत्य् आह । इन्द्रियम् एव यजमाने दधाति । मित्रावरुणौ त्वा_उत्तरतः परिधत्ताम् इत्य् आह । प्राणापानौ मित्रावरुणौ । प्राणापानाव् एवास्मिन् दधाति । सूर्यस् त्वा पुरस्तात् पात्व् इत्य् आह । रक्षसाम् अपहत्यै । कस्याश् चिद् अभिशस् त्या इत्य् आह । अपरिमिताद् एवैनं पाति ।

VERSE: 10 { 3.3.6.10} वीतिहोत्रं त्वा कव इत्य् आह । अग्निम् एव होत्रेण समर्धयति । द्युमन्तꣳ समिधीमहीत्य् आह समिद्ध्यै । अग्ने बृहन्तम् अध्वर इत्य् आह वृद्ध्यै । विशो यन्त्रे स्थ इत्य् आह । विशां यत्यै । उदीचीनाग्रे निदधाति प्रतिष्ठित्यै । वसूनाꣳ रुद्राणाम् आदित्यानाꣳ सदसि सीद_इत्य् आह । देवतानाम् एव सदने प्रस्तरꣳ सादयति । जुहूर् असि घृताची नाम्ना_इत्य् आह ।

VERSE: 11 { 3.3.6.11} असौ वै जुहूः । अन्तरिक्षम् उपभृत् । पृथिवी ध्रुवा । तासाम् एतद् एव प्रियं नाम । यद् घृताचीति । यद् घृताचीत्य् आह । प्रियेणैवैना नाम्ना सादयति । एता असदन्त् सुकृतस्य लोक इत्य् आह । सत्यं वै सुकृतस्य लोकः । सत्य एवैनाः सुकृतस्य लोके सादयति । ता विष्णो पाहीत्य् आह । यज्ञो वै विष्णुः । यज्ञस्य धृत्यै । पाहि यज्ञं पाहि यज्ञपतिं पाहि मां यज्ञनियम् इत्य् आह । यज्ञाय यजमानाय_आत्मने । तेभ्य एवाऽऽशिषम् आशास्ते ऽनार्त्यै ।

अनुवाक 7 VERSE: 1 { 3.3.7.1} अग्निना वै होत्रा । देवा असुरान् अभ्यभवन् । अग्नये समिध्यमानायानुब्रूहीत्य् आह भ्रातृव्याभिभूत्यै । एकविꣳशतिम् इध्मदारूणि भवन्ति । एकविꣳशो वै पुरुषः । पुरुषस्य_आप्त्यै । पञ्चदश_इध्मदारूण्य् अभ्यादधाति । पञ्चदश वा अर्धमासस्य रात्रयः । अर्धमासशः संवत्सर आप्यते । त्रीन् परिधीन् परिदधाति ।

VERSE: 2 { 3.3.7.2} ऊर्ध्वे समिधाव् आदधाति । अनूयाजेभ्यः समिधमतिशिनष्टि । षट् संपद्यन्ते । षड् वा ऋतवः । ऋतून् एव प्रीणाति । वेदेन_उपवाजयति । प्राजापत्यो वै वेदः । प्राजापत्यः प्राणः । यजमान आहवनीयः । यजमान एव प्राणं दधाति ।

VERSE: 3 { 3.3.7.3} त्रिर् उपवाजयति । त्रयो वै प्राणाः । प्राणान् एव_अस्मिन् दधाति । वेदेन_उपयत्य स्रुवेण प्राजापत्यम् आघारम् आघारयति । यज्ञो वै प्रजापतिः । यज्ञम् एव प्रजापतिं मुखत आरभते । अथो प्रजापतिः सर्वा देवताः । सर्वा एव देवताः प्रीणाति । अग्निम् अग्नीत् त्रिस्_त्रिः संमृड्ढीत्य् { संमृढ्ढीत्य्} आह । त्र्यावृद् धि यज्ञः ।

VERSE: 4 { 3.3.7.4} अथो रक्षसाम् अपहत्यै । परिधीन्त् संमार्ष्टि । पुनात्य् एवैनान् । त्रिस्_त्रिः संमार्ष्टि । त्र्यावृद् धि यज्ञः । अथो मेध्यत्वाय । अथो एते वै देवाश्वाः । देवाश्वान् एव तत् संमार्ष्टि । सुवर्गस्य लोकस्य समष्ट्यै । आसीनो ऽन्यम् आघारम् आघारयति ।

VERSE: 5 { 3.3.7.5} तिष्ठन्न् अन्यम् । यथा_अनो वा रथं वा युञ्ज्यात् । एवम् एव तद् अध्वर्युर् यज्ञं युनक्ति । सुवर्गस्य लोकस्याभ्यूढ्यै । वहन्त्य् एनं ग्राम्याः पशवः । य एवं वेद । भुवनम् असि विप्रथस्व_इत्य् आह । यज्ञो वै भुवनम् । यज्ञ एव यजमानं प्रजया पशुभिः प्रथयति । अग्ने यष्टर् इदं नम इत्य् आह ।

VERSE: 6 { 3.3.7.6} अग्निर् वै देवानां यष्टा । य एव देवानां यष्टा । तस्मा एव नमस्करोति । जुह्व् एह्य् अग्निस् त्वा ह्वयति देवयज्याया उपभृद् एहि देवस् त्वा सविता ह्वयति देवयज्याया इत्य् आह । आग्नेयी वै जुहूः । सावित्र्य् उपभृत् । ताभ्याम् एवैने प्रसूत आदत्ते । अग्नाविष्णू मा_आवाम् अवक्रमिषम् इत्य् आह । अग्निः पुरस्तात् । विष्णुर् यज्ञः पश्चात् ।

VERSE: 7 { 3.3.7.7} ताभ्याम् एव प्रतिप्रोच्यात्याक्रामति । विजिहाथां मा मा संताप्तम् इत्य् आहाहिꣳसायै । लोकं मे लोककृतौ कृणुतम् इत्य् आह । आशिषम् एवैताम् आशास्ते । विष्णोः स्थानम् असीत्य् आह । यज्ञो वै विष्णुः । एतत् खलु वै देवानाम् अपराजितम् आयतनम् । यद् यज्ञः । देवानाम् एव_अपराजित आयतने तिष्ठति । इत इन्द्रो अकृणोद् वीर्याणीत्य् आह ।

VERSE: 8 { 3.3.7.8} इन्द्रियम् एव यजमाने दधाति । समारभ्य_ऊर्ध्वो अध्वरो दिविस्पृशम् इत्य् आह वृद्ध्यै । आघारम् आघार्यमाणम् अनु समारभ्य । एतस्मिन् काले देवाः सुवर्गं लोकम् आयन् । साक्षाद् एव यजमानः सुवर्गं लोकम् एति । अथो समृद्धेनैव यज्ञेन यजमानः सुवर्गं लोकम् एति । अह्रुतो {BI अह्नुतो} यज्ञो यज्ञपतेर् इत्य् आहानार्त्यै । इन्द्रावान्त् स्वाहा_इत्य् आह । इन्द्रियम् एव यजमाने दधाति । बृहद् भा इत्य् आह ।

VERSE: 9 { 3.3.7.9} सुवर्गो वै लोको बृहद् भाः । सुवर्गस्य लोकस्य समष्ट्यै यजमानदेवत्या वै जुहूः । भ्रातृव्यदेवत्या_उपभृत् । प्राण आघारः । यत् सꣳस्पर्शयेत् । भ्रातृव्ये ऽस्य प्राणं दध्यात् । असꣳस्पर्शयन्न् अत्याक्रामति । यजमान एव प्राणं दधाति । पाहि मा_अग्ने दुश्चरिताद् आ मा सुचरिते भज_इत्य् आह ।

VERSE: 10 { 3.3.7.10} अग्निर् वाव पवित्रम् । वृजिनम् अनृतं दुश्चरितम् । ऋजुकर्मꣳ सत्यꣳ सुचरितम् । अग्निर् एवैनं वृजिनाद् अनृताद् दुश्चरितात् पाति । ऋजुकर्मे सत्ये सुचरिते भजति तस्माद् एवम् आशास्ते । आत्मनो गोपीथाय । शिरो वा एतद् यज्ञस्य । यद् आघारः । आत्मा ध्रुवा ।

VERSE: 11 { 3.3.7.11} आघारम् आघार्य ध्रुवाꣳ समनक्ति । आत्मन्न् एव यज्ञस्य शिरः प्रतिदधाति । द्विः समनक्ति । द्वौ हि प्राणापानौ । तद् आहुः । त्रिर् एव समञ्ज्यात् । त्रिधातु हि शिर इति । शिर इव_एतद् यज्ञस्य । अथो त्रयो वै प्राणाः । प्राणान् एवास्मिन् दधाति । मखस्य शिरो ऽसि सं ज्योतिषा ज्योतिर् अङ्क्ताम् इत्य् आह । ज्योतिर् एवास्मा उपरिष्टाद् दधाति । सुवर्गस्य लोकस्यानुख्यात्यै ।

अनुवाक 8 VERSE: 1 { 3.3.8.1} धिष्णिया वा एते न्युप्यन्ते । यद् ब्रह्मा । यद् होता । यद् अध्वर्युः । यद् अग्नीत् । यद् यजमानः । तान् यद् अन्तरेयात् । यजमानस्य प्राणान्त् संकर्षेत् । प्रमायुकः स्यात् । पुरोडाशम् अपगृह्य संचरत्य् अध्वर्युः ।

VERSE: 2 { 3.3.8.2} यजमानाय_एव तल् लोकꣳ शिꣳषति । न_अस्य प्राणान्त् संकर्षति । न प्रमायुको भवति । पुरस्तात् प्रत्यङ्ङ् आसीनः । इडाया इडाम् आदधाति । हस्त्याꣳ होत्रे । पशवो वा इडा । पशवः पुरुषः । पशुष्व् एव पशून् प्रतिष्ठापयति । इडायै वा एषा प्रजातिः ।

VERSE: 3 { 3.3.8.3} तां प्रजातिं यजमानो ऽनु प्रजायते । द्विर् अङ्गुलाव् अनक्ति पर्वणोः । द्विपाद् यजमानः प्रतिष्ठित्यै । सकृद् उपस्तृणाति । द्विर् आदधाति । सकृद् अभिघारयति । चतुः संपद्यते । चत्वारि वै पशोः प्रतिष्ठानानि । यावान् एव पशुः । तम् उपह्वयते ।

VERSE: 4 { 3.3.8.4} मुखम् इव प्रत्य् उपह्वयेत । संमुखान् एव पशूनुपह्वयते । पशवो वा इडा । तस्मात् सोन्वारभ्या । अध्वर्युणा च यजमानेन च । उपहूतः पशुमान् असानीत्य् आह । उप ह्य् एनौ ह्वयते होता । इडायै देवतानाम् उपहवे । उपहूतः पशुमान् भवति । य एवं वेद ।

VERSE: 5 { 3.3.8.5} यां वै हस्त्याम् इडाम् आदधाति । वाचः सा भागधेयम् । याम् उपह्वयते । प्राणानाꣳ सा । वाचं चैव प्राणाꣳश् चावरुन्धे । अथ वा एतर्ह्य् उपहूतायाम् इडायाम् । पुरोडाशस्यैव बर्हिषदो मीमाꣳसा । यजमानं देवा अब्रुवन् । हविर् नो निर्वप_इति । न_अहम् अभागो निर्वप्स्यामीत्य् अब्रवीत् ।

VERSE: 6 { 3.3.8.6} न मया_अभागया_अनुवक्ष्यथ_इति वाग् अब्रवीत् । न_अहम् अभागा पुरोऽनुवाक्या भविष्यामीति पुरोऽनुवाक्या । न_अहम् अभागा याज्या भविष्यामीति याज्या । न मया_अभागेन वषट्करिष्यथ_इति वषट्कारः । यद् यजमानभागं निधाय पुरोडाशं बर्हिषदं करोति । तान् एव तद् भागिनः करोति । चतुर्धा करोति । चतस्रो दिशः । दिक्ष्व् एव प्रतितिष्ठति । बर्हिषदं करोति ।

VERSE: 7 { 3.3.8.7} यजमानो वै पुरोडाशः । प्रजा बर्हिः । यजमानमेव प्रजासु प्रतिष्ठापयति । तस्माद् अस्थ्नाऽन्याः प्रजाः प्रतितिष्ठन्ति । माꣳसेनान्याः । अथो खल्व् आहुः । दक्षिणा वा एता हविर्यज्ञस्यान्तर्वेद्य् अवरुध्यन्ते । यत् पुरोडाशं बर्हिषदं करोतीति । चतुर्धा करोति । चत्वारो ह्य् एते हविर्यज्ञस्य_ऋत्विजः ।

VERSE: 8 { 3.3.8.8} ब्रह्मा होता_अध्वर्युर् अग्नीत् । तम् अभिमृशेत् । इदं ब्रह्मणः । इदꣳ होतुः । इदम् अध्वर्योः । इदम् अग्नीध इति । यथा_एवादः सौम्ये ऽध्वरे । आदेशम् ऋत्विग्भ्यो दक्षिणा नीयन्ते । तादृग् एव तत् । अग्नीधे प्रथमाया_आदधाति ।

VERSE: 9 { 3.3.8.9} अग्निमुखा ह्य् ऋद्धिः । अग्निमुखाम् एव_ऋद्धिं यजमान ऋध्नोति । सकृद् उपस्तीर्य द्विर् आदधत् । उपस्तीर्य द्विर् अभिघारयति । षट् संपद्यन्ते । षड् वा ऋतवः । ऋतून् एव प्रीणाति । वेदेन ब्रह्मणे ब्रह्मभागं परिहरति । प्राजापत्यो वै वेदः । प्राजापत्यो ब्रह्मा ।

VERSE: 10 { 3.3.8.10} सविता यज्ञस्य प्रसूत्यै । अथ कामम् अन्येन । ततो होत्रे । मध्यं वा एतद् यज्ञस्य । यद् होता । मध्यत एव यज्ञं प्रीणाति । अथाध्वर्यवे । प्रतिष्ठा वा एषा यज्ञस्य । यद् अध्वर्युः । तस्माद् हविर्यज्ञस्यैताम् एवाऽऽवृतम् अनु ।

VERSE: 11 { 3.3.8.11} अन्या दक्षिणा नीयन्ते । यज्ञस्य प्रतिष्ठित्यै । अग्निम् अग्नीत् सकृत्_सकृत् संमृढ्ढीत्य् आह । पराङ् इव ह्य् एतर्हि यज्ञः । इषिता दैव्या होतार इत्य् आह । इषितꣳ हि कर्म क्रियते । भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहीत्य् आह । आशिषम् एवैताम् आशास्ते । स्वगा दैव्या होतृभ्य इत्य् आह । यज्ञम् एव तत् स्वगा करोति । स्वस्तिर् मानुषेभ्य इत्य् आह । आशिषम् एवैताम् आशास्ते । शंयोर् ब्रूहीत्य् आह । शंयुम् एव बार्हस्पत्यं भागधेयेन समर्धयति ।

अनुवाक 9 VERSE: 1 { 3.3.9.1} अथ स्रुचाव् अनुष्टुग्भ्यां वाजवतीभ्यां व्यूहति । प्रतिष्ठा वा अनुष्टुक् । अन्नं वाजः प्रतिष्ठित्यै । अन्नाद्यस्यावरुध्यै । प्राचीं जुहूमूहति । जातान् एव भ्रातृव्यान् प्रणुदते । प्रतीचीम् उपभृतम् । जनिष्यमाणान् एव प्रतिनुदते । स विषूच एव_अपोह्य सपत्नान् यजमानः । अस्मिन् लोके प्रतितिष्ठति ।

VERSE: 2 { 3.3.9.2} द्वाभ्याम् । द्विप्रतिष्ठो हि । वसुभ्यस् त्वा रुद्रेभ्यस् त्वा_आदित्येभ्यस् त्वा_इत्य् आह । यथायजुर् एवैतत् । स्रुक्षु प्रस्तरम् अनक्ति । इमे वै लोकाः स्रुचः । यजमानः प्रस्तरः । यजमानम् एव तेजसोनक्ति । त्रेधा_अनक्ति । त्रय इमे लोकाः ।

VERSE: 3 { 3.3.9.3} एभ्य एवैनं लोकेभ्यो ऽनक्ति । अभिपूर्वम् अनक्ति । अभिपूर्वम् एव यजमानं तेजसानक्ति । अक्तꣳ रिहाणा इत्य् आह । तेजो वा आज्यम् । यजमानः प्रस्तरः । यजमानम् एव तेजसानक्ति । वियन्तु वय इत्य् आह । वय एवैनं कृत्वा । सुवर्गं लोकं गमयति ।

VERSE: 4 { 3.3.9.4} प्रजां योनिं मा निर्मृक्षम् इत्य् आह । प्रजायै गोपीथाय । आप्यायन्ताम् आप ओषधय इत्य् आह । आप एव_ओषधीर् आप्याययति । मरुतां पृषतयः स्थ_इत्य् आह । मरुतो वै वृष्ट्या ईशते । वृष्टिम् एव_अवरुन्धे । दिवं गच्छ ततो नो वृष्टिम् एरय_इत्य् आह । वृष्टिर् वै द्यौः । वृष्टिम् एव_अवरुन्धे ।

VERSE: 5 { 3.3.9.5} यावद् वा अध्वर्युः प्रस्तरं प्रहरति । तावद् अस्य_आयुर् मीयते । आयुष्पा अग्ने ऽस्य_आयुर् मे पाहीत्य् आह । आयुर् एवाऽऽत्मन् धत्ते । यावद् वा अध्वर्युः प्रस्तरं प्रहरति । तावद् अस्य चक्षुर् मीयते । चक्षुष्पा अग्ने ऽसि चक्षुर् मे पाहीत्य् आह । चक्षुर् एवाऽऽत्मन् धत्ते । ध्रुवा_असीत्य् आह प्रतिष्ठित्यै । यं परिधिं पर्यधत्था इत्य् आह ।

VERSE: 6 { 3.3.9.6} यथायजुर् एवैतत् । अग्ने देव पणिभिर् वीयमाण इत्य् आह । अग्नय एवैनं जुष्टं करोति । तं त एतम् अनु जोषं भरामीत्य् आह । सजातान् एवास्मा अनुकान् करोति । न_इद् एष त्वद् अपचेतयाता इत्य् आहानुख्यात्यै । यज्ञस्य पाथ उप समितम् इत्य् आह । भूमानम् एव_उपैति । परिधीन् प्रहरति । यज्ञस्य समिष्ट्यै ।

VERSE: 7 { 3.3.9.7} स्रुचौ संप्रस्रावयति । यद् एव तत्र क्रूरम् । तत् तेन शमयति । जुह्वाम् उपभृतम् । यजमानदेवत्या वै जुहूः । भ्रातृव्यदेवत्या_उपभृत् । यजमानाय_एव भ्रातृव्यम् उपस्तिं करोति । सꣳस्रावभागाः स्थ_इत्य् आह । वसवो वै रुद्रा आदित्याः सꣳस्रावभागाः । तेषां तद् भागधेयम् ।

VERSE: 8 { 3.3.9.8} तान् एव तेन प्रीणाति । वैश्वदेव्या_ऋचा । एते हि विश्वे देवाः । त्रिष्टुग् भवति । इन्द्रियं वै त्रिष्टुक् । इन्द्रियम् एव यजमाने दधाति । अग्नेर् वाम् अपन्नगृहस्य सदसि सादयामीत्य् आह । इयं वा अग्निर् अपन्नगृहः । अस्या एवैने सदने सादयति । सुम्नाय सुम्निनी सुम्ने मा धत्तम् इत्य् आह ।

VERSE: 9 { 3.3.9.9} प्रजा वै पशवः सुम्नम् । प्रजाम् एव पशून् आत्मन् धत्ते । धुरि धुर्यौ पातम् इत्य् आह । जायापत्योर् गोपीथाय । अग्ने ऽदब्धायो ऽशीततनो इत्य् आह । यथायजुर् एवैतत् । पाहि मा_अद्य दिवः पाहि प्रसित्यै पाहि दुरिष्ट्यै पाहि दुरद्मन्यै पाहि दुश्चरिताद् इत्य् आह । आशिषम् एवैताम् आशास्ते । अविषं नः पितुं कृणु सुषदा योनिꣳ स्वाहा_इतीध्मसंवृश्चनान्य् अन्वाहार्यपचने ऽभ्याधाय फलीकरणहोमं जुहोति । अतिरिक्तानि वा इध्मसंवृश्चनानि ।

VERSE: 10 { 3.3.9.10} अतिरिक्ताः फलीकरणाः । अतिरिक्तम् आज्य_उच्छेषणम् । अतिरिक्त एव_अतिरिक्तं दधाति । अथो अतिरिक्तेनैव_अतिरिक्तम् आप्त्वा_अवरुन्धे । वेदिर् देवेभ्यो निलायत । तां वेदेनान्वविन्दन् । वेदेन वेदिं विविदुः पृथिवीम् । सा पप्रथे पृथिवी पार्थिवानि । गर्भं बिभर्ति भुवनेष्व् अन्तः । ततो यज्ञो जायते विश्वदानिर् इति पुरस्तात् स्तम्बयजुषो वेदेन वेदिꣳ संमार्ष्ट्य् अनुवित्त्यै ।

VERSE: 11 { 3.3.9.11} अथो यद् वेदश् च वेदिश् च भवतः । मिथुनत्वाय प्रजात्यै । प्रजापतेर् वा एतानि श्मश्रूणि । यद् वेदः । पत्निया उपस्थ आस्यति । मिथुनम् एव करोति । विन्दते प्रजाम् । वेदꣳ होता_आहवनीयात् स्तृणन्न् एति । यज्ञम् एव तत् संतनोत्य् आ_उत्तरस्माद् अर्धमासात् । तꣳ संततम् उत्तरे ऽर्धमास आलभते ।

VERSE: 12 { 3.3.9.12} तं काले_काल आगते यजते । ब्रह्मवादिनो वदन्ति । स त्वा अध्वर्युः स्यात् । यो यतो यज्ञं प्रयुङ्क्ते । तद् एनं प्रतिष्ठापयतीति । वाताद् वा अध्वर्युर् यज्ञं प्रयुङ्क्ते । देवा गातुविदो गातुं वित्त्वा { वित्वा} गातुम् इत_इत्य् आह । यत एव यज्ञं प्रयुङ्क्ते । तद् एनं प्रतिष्ठापयति । प्रतितिष्ठति प्रजया पशुभिर् यजमानः ।

अनुवाक 10 VERSE: 1 { 3.3.10.1} यो वा अयथादेवतं यज्ञम् उपचरति । आ देवताभ्यो वृश्च्यते । पापीयान् भवति । यो यथादेवतम् । न देवताभ्य आवृश्च्यते । वसीयान् भवति । वारुणो वै पाशः । इमं विष्यामि वरुणस्य पाशम् इत्य् आह । वरुणपाशाद् एवैनां मुञ्चति । सवितृप्रसूतो यथादेवतम् ।

VERSE: 2 { 3.3.10.2} न देवताभ्य आवृश्च्यते । वसीयान् भवति । धातुश् च योनौ सुकृतस्य लोक इत्य् आह । अग्निर् वै धाता । पुण्यं कर्म सुकृतस्य लोकः । अग्निर् एवैनां धाता । पुण्ये कर्मणि सुकृतस्य लोके दधाति । स्योनं मे सह पत्या करोमीत्य् आह । आत्मनश् च यजमानस्य चानात्यै {ड्युमोण्ट चानत्त्यै?} संत्वाय । सम् आयुषा संप्रजया_इत्य् आह ।

VERSE: 3 { 3.3.10.3} आशिषम् एवैताम् आशास्ते पूर्णपात्रे । अन्ततो ऽनुष्टुभा । चतुष्पद् वा एतच् छन्दः प्रतिष्ठितं पत्नियै पूर्णपात्रे भवति । अस्मिन्_लोके प्रतितिष्ठानीति । अस्मिन्न् एव लोके प्रतितिष्ठति । अथो वाग् वा अनुष्टुक् । वाङ् मिथुनम् । आपो रेतः प्रजननम् । एतस्माद् वै मिथुनाद् विद्योतमानः स्तनयन् {आनंदा. विद्योतमानस्तनयन्, विद्योतमानस् तनयन्} वर्षति । रेतः सिञ्चन् ।

VERSE: 4 { 3.3.10.4} प्रजाः प्रजनयन् । यद् वै यज्ञस्य ब्रह्मणा युज्यते । ब्रह्मणा वै तस्य विमोकः । अद्भिः शान्तिः । विमुक्तं वा एतर्हि योक्त्रं ब्रह्मणा । आदाय_एनत् पत्नी सह_अप उपगृह्णीते शान्त्यै । अञ्जलौ पूर्णपात्रम् आनयति । रेत एव_अस्यां प्रजां दधाति । प्रजया हि मनुष्यः पूर्णः । मुखं विमृष्टे । अवभृथस्यैव रूपं कृत्वा_उत्तिष्ठति ।

अनुवाक 11 VERSE: 1 { 3.3.11.1} परिवेषो वा एष वनस्पतीनाम् । यद् उपवेषः । य एवं वेद । विन्दते परिवेष्टारम् । तम् उत्करे । यं देवा मनुष्येषु । उपवेषम् अधारयन् । ये अस्मद् अपचेतसः । तान् अस्मभ्यम् इह_आकुरु । उपवेष_उपविड्ढि नः ।

VERSE: 2 { 3.3.11.2} प्रजां पुष्टिम् अथो धनम् । द्विपदो नश् चतुष्पदः । ध्रुवान् अनपगान् कुर्व् इति पुरस्तात् प्रत्यञ्चम् उपगूहति । तस्मात् पुरस्तात् प्रत्यञ्चः शूद्रा अवस्यन्ति । स्थविमत उपगूहति । अप्रतिवादिन एवैनान् कुरुते । धृष्टिर् वा उपवेषः । शुचा_ऋतो वज्रो ब्रह्मणा सꣳशितः । या_उपवेषे शुक् । सामुम् ऋच्छतु यं द्विष्म इति ।

VERSE: 3 { 3.3.11.3} अथास्मै नामगृह्य प्रहरति । निर् अमुं नुद ओकसः । सपत्नो यः पृतन्यति । निर्बाध्येन हविषा । इन्द्र एणं पराशरीत् । इहि तिस्रः परावतः । इहि पञ्च जनाꣳ अति । इहि तिस्रो ऽति रोचना, यावत् । सूर्यो असद् दिवि । परमां त्वा परावतम् ।

VERSE: 4 { 3.3.11.4} इन्द्रो नयतु वृत्रहा । यतो न पुनर् आयसि । शश्वतीभ्यः समाभ्य इति । त्रिवृद् वा एष वज्रो ब्रह्मणा सꣳशितः । शुचा_एवैनं विद्ध्वा । एभ्यो लोकेभ्यो निर्णुद्य । वज्रेण ब्रह्मणा स्तृणुते । हतो ऽसाव् अवधिष्मामुम् इत्य् आह स्तृत्यै । यं द्विष्यात् तं ध्यायेत् । शुचा_एवैनम् अर्पयति ।




प्रपाठक: 4 अनुवाक 1 VERSE: 1 { 3.4.1.1} ब्रह्मणे ब्राह्मणम् आलभते । क्षत्राय राजन्यम् । मरुद्भ्यो वैश्यम् । तपसे शूद्रम् । तमसे तस्करम् । नारकाय वीरहणम् । पाप्मने क्लीबम् । आक्रयायायोगुम् । कामाय पुꣳश्चलूम् । अतिक्रुष्टाय मागधम् ।

अनुवाक 2 VERSE: 1 { 3.4.2.1} गीताय सूतम् । नृत्ताय शैलूषम् । धर्माय सभाचरम् । नर्मय रेभम् । नरिष्ठायै भीमलम् । हसाय कारिम् । आनन्दाय स्त्रीषखम् । प्रमुदे कुमारीपुत्रम् । मेधायै रथकारम् । धैर्याय तक्षाणम् ।

अनुवाक 3 VERSE: 1 { 3.4.3.1} श्रमाय कौलालम् । मायायै कार्मारम् । रूपाय मणिकारम् । शुभे वपम् । शरव्याया इषुकारम् । हेत्यै धन्वकारम् । कर्मणे ज्याकारम् । दिष्टाय रज्जुसर्गम् । मृत्यवे मृगयुम् । अन्तकाय श्वनितम् {ड्युमोण्ट श्वनिनम् } ।

अनुवाक 4 VERSE: 1 { 3.4.4.1} संधये जारम् । गेहाय_उपपतिम् । निर्ऋत्यै परिवित्तम् । आर्त्यै परिविविदानम् । अराध्यै दिधिषूपतिम् । पवित्राय भिषजम् । प्रज्ञानाय नक्षत्रदर्शम् । निष्कृत्यै पेशस्कारीम् । बलाय_उपदाम् । वर्णायानूरुधम् ।

अनुवाक 5 VERSE: 1 { 3.4.5.1} नदीभ्यः पौञ्जिष्टम् । ऋक्षीकाभ्यो नैषादम् । पुरुषव्याघ्राय दुर्मदम् । प्रयुद्भ्य उन्मत्तम् । गन्धर्वाप्सराभ्यो व्रात्यम् । सर्पदेवजनेभ्यो ऽप्रतिपदम् । अवेभ्यः {ड्युमोण्ट अयेभ्यः?} कितवम् । इर्यताया अकितवम् । पिशाचेभ्यो बिदलकारम् । यातुधानेभ्यः कण्टककारम् ।

अनुवाक 6 VERSE: 1 { 3.4.6.1} उत्सादेभ्यः कुब्जम् । प्रमुदे वामनम् । द्वार्भ्यः स्रामम् । स्वप्नायान्धम् । अधर्माय बधिरम् । संज्ञानाय स्मरकारीम् । प्रकाम_उद्याय_उपसदम् । आशिक्षायै प्रश्निनम् । उपशिक्षाया अभिप्रश्निनम् । मर्यादायै प्रश्नविवाकम् ।

अनुवाक 7 VERSE: 1 { 3.4.7.1} ऋत्यै स्तेनहृदयम् । वैरहत्याय पिशुनम् । विवित्त्यै { विवित्यै} क्षत्तारम् । औपद्रष्टाय {ड्युमोण्ट औपद्रष्ट्र्याय} संग्रहीतारम् । बलायानुचरम् । भूम्ने परिष्कन्दम् । प्रियाय प्रियवादिनम् । अरिष्ट्या अश्वसादम् । मेधाय वासःपल्पूलीम् । प्रकामाय रजयित्रीम् ।

अनुवाक 8 VERSE: 1 { 3.4.8.1} भायै दार्वाहारम् । प्रभाया आग्नेन्धम् । नाकस्य पृष्ठायाभिषेक्तारम् । ब्रध्नस्य विष्टपाय पात्रनिर्णेगम् । देवलोकाय पेशितारम् । मनुष्यलोकाय प्रकरितारम् । सर्वेभ्यो लोकेभ्य_उपसेक्तारम् । अवर्त्यै वधाय_उपमन्थितारम् । सुवर्गाय लोकाय भागदुघम् । वर्षिष्ठाय नाकाय परिवेष्टारम् ।

अनुवाक 9 VERSE: 1 { 3.4.9.1} अर्मेभ्यो हस्तिपम् । जवायाश्वपम् । पुष्ट्यै गोपालम् । तेजसे ऽजपालम् । वीर्यायाविपालम् । इरायै कीनाशम् । किलालाय सुराकारम् । भद्राय गृहपम् । श्रेयसे वित्तपम् { वित्तधम्} । अध्यक्षायानुक्षत्तारम् ।

अनुवाक 10 VERSE: 1 { 3.4.10.1} मन्यवे ऽयस्तापम् । क्रोधाय निसरम् । शोकायाभिसरम् । उत्कीलविकूलाभ्यां त्रिस्थ्íनम् । योगाय योक्तारम् । क्षेमाय विमोक्तारम् । वपुषे मानस्कृतम् । शीलायाञ्जनीकारम् । निर्ऋत्यै कोशकारीम् । यमायासूम् ।

अनुवाक 11 VERSE: 1 { 3.4.11.1} यम्यै यमसूम् । अथर्वभ्यो ऽवतोकाम् । संवत्सराय पर्यारिणीम् । परिवत्सरायाविजाताम् । इदावत्सरायापस्कद्वरीम् । इद्वत्सरायातीत्वरीम् । वत्सराय विजर्जराम् । सर्वंत्सराय पलिक्नीम् । वनाय वनपम् । अन्यतोऽरण्याय दावपम् ।

अनुवाक 12 VERSE: 1 { 3.4.12.1} सरोभ्यो धैवरम् । वेशन्ताभ्यो दाशम् । उपस्थावरीभ्यो बइन्दम् । नड्वलाभ्यः शौष्कलम् । पार्याय कैवर्तम् । अवार्याय मार्गारम् । तीर्थेभ्य आन्दम् । विषमेभ्यो मैनालम् । स्वनेभ्यः पर्णकम् । गुहाभ्यः किरातम् । सानुभ्यो जम्भकम् । पर्वतेभ्यः किंपूरुषम् ।

अनुवाक 13 VERSE: 1 { 3.4.13.1} प्रतिश्रुत्काया ऋतुलम् {ड्युमोण्ट अर्तनम्} । घोषाय भषम् । अन्ताय बहुवादिनम् । अनन्ताय मूकम् । महसे वीणावादम् । क्रोशाय तूणवध्मम् । आक्रन्दाय दुन्दुभ्याघातम् । अवरस्पराय शङ्खध्मम् । ऋभुभ्यो ऽजिनसंधायम् । साध्येभ्यश् चर्मम्णम् ।

अनुवाक 14 VERSE: 1 { 3.4.14.1} बीभत्सायै पौल्कसम् । भूत्यै जागरणम् । अभूत्यै स्वपनम् । तुलायै वाणिजम् । वर्णाय हिरण्यकारम् । विश्वेभ्यो देवेभ्यः सिध्मलम् । पश्चाद्दोषाय ग्लावम् । ऋत्यै जनवादिनम् । व्यृद्ध्या अपगल्भम् । सꣳशराय प्रच्छिदम् ।

अनुवाक 15 VERSE: 1 { 3.4.15.1} हसाय पुꣳश्चलूम् आलभते । वीणावादं गणकं गीताय । यादसे शाबुल्याम् । नर्माय भद्रवतीम् । तूणवध्मं ग्रामण्यं पाणिसंघातं नृत्ताय । मोदायानुक्रोशकम् । आनन्दाय तलवम् ।

अनुवाक 16 VERSE: 1 { 3.4.16.1} अक्षराजाय कितवम् । कृताय सभाविनम् । त्रेताया आदिनवदर्शम् । द्वापराय बहिःसदम् । कलये सभास्थाणुम् । दुष्कृताय चरकाचार्यम् । अध्वने ब्रह्मचारिणम् । पिशाचेभ्यः सैलगम् । पिपासायै गोव्यच्छम् {ड्युमोण्ट गोव्यधम्?} । निर्ऋत्यै गोघातम् । क्षुधे गोविकर्तम् । क्षुत्तृष्णाभ्यां तम् । यो गां विकृन्तन्तं माꣳसं भिक्षमाण उपतिष्ठते ।

अनुवाक 17 VERSE: 1 { 3.4.17.1} भूम्यै पीठसर्पिणम् आलभते । अग्नये ऽꣳसलम् । वायवे चाण्डालम् । अन्तरिक्षाय वꣳशनर्तिनम् । दिवे खलतिम् । सूर्याय हर्यक्षम् । चन्द्रमसे मिर्मिरम् । नक्षत्त्रेभ्यः किलासम् । अह्ने शुक्लं पिङ्गलम् । रात्रियै कृष्णं पिङ्गाक्षम् ।

अनुवाक 18 VERSE: 1 { 3.4.18.1} वाचे पुरुषम् आलभते । प्राणम् अपानम् व्यानम् उदानꣳ समानं तान् वायवे । सूर्याय चक्षुर् आलभते । मनश् चन्द्रमसे । दिग्भ्यः श्रोत्रम् । प्रजापतये पुरुषम् ।

अनुवाक 19 VERSE: 1 { 3.4.19.1} अथ_एतान् अरूपेभ्य आलभते । अतिह्रस्वम् अतिदीर्घम् । अतिकृशम् अत्यꣳसलम् । अतिशुक्लम् अतिकृष्णम् । अतिश्लक्ष्णम् अतिलोमशम् । अतिकिरिटम् अतिदन्तुरम् । अतिमिर्मिरम् अतिमेमिषम् । आशायै जामिम् । प्रतीक्षायै कुमारीम् ।




प्रपाठक: 5 अनुवाक 1 VERSE: 1 { 3.5.1.1} सत्यं प्रपद्ये । ऋतं प्रपद्ये । अमृतं प्रपद्ये । प्रजापतेः प्रियां तनुवम् अनार्तां प्रपद्ये । इदम् अहं पञ्चदशेन वज्रेण । द्विषन्तं भ्रातृव्यम् अवक्रामामि । यो ऽस्मान् द्वेष्टि । यं च वयं द्विष्मः । भूर् भुवः सुवः । हिम् ।

अनुवाक 2 VERSE: 1 { 3.5.2.1} प्र वो वाजा अभिद्यवः । हविष्मन्तो घृताच्या । देवाञ् जिगाति सुम्नयुः । अग्न आयाहि वीतये । गृणानो हव्यदातये । नि होता सत्सि बर्हिषि । तं त्वा समिद्भिर् अङ्गिरः । घृतेन वर्धयामसि । बृहत्_शोचा यविष्ठ्य । स नः पृथु श्रवाय्यम् ।

VERSE: 2 { 3.5.2.2} अच्छा देव विवाससि । बृहद् अग्ने सुवीर्यम् । ईडेन्यो {आनंदा. ईडेऽन्यो} नमस्यस्, तिरः । तमाꣳसि दर्शतः । सम् अग्निर् इध्यते वृषा । वृषो अग्निः समिध्यते । अश्वो न देववाहनः । तꣳ हविश्मन्त ईडते । वृषणं त्वा वयं वृषन् । वृषाणः समिधीमहि ।

VERSE: 3 { 3.5.2.3} अग्ने दीद्यतं बृहत् । अग्निं दूतं वृणीमहे । होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् । समिध्यमानो अध्वरे । अग्निः पावक ईड्यः । शोचिष्केशस् तम् ईमहे । समिद्धो अग्न आहुत । देवान् यक्षि स्वध्वर । त्वꣳ हि हव्यवाड् असि । आजुहोत दुवस्यत । अग्निं प्रयत्य् अध्वरे । वृणीध्वꣳ हव्यवाहनम् । त्वं वरुण उत मित्रो अग्ने । त्वां वर्धन्ति मतिभिर् वसिष्ठाः । त्वे वसु सुषणनानि सन्तु । यूयं पात स्वस्तिभिः सदा नः ।

अनुवाक 3 VERSE: 1 { 3.5.3.1} अग्ने महाꣳ असि ब्राह्मण भारत । असाव् असौ । देव_इद्धो मन्विद्धः । ऋषिष्टुतो विप्रानुमदितः । कविशस्तो ब्रह्मसꣳशितो घृताहवनः । प्रणीर् यज्ञानाम् । रथीर् अध्वराणाम् । अतूर्तो होता । तूर्णिर् हव्यवाट् । आस्पात्रं जुहूर् देवानाम् ।

{ 3.5.3.2} चमसो देवपानः । अराꣳ इवाग्ने नेमिर् देवाꣳस् त्वं परिभूर् असि । आवह देवान् यजमानाय । अग्निम् अग्न आवह । सोमम् आवह । अग्निम् आवह । प्रजापतिम् आवह । अग्नीषोमाव् आवह । इन्द्राग्नी आवह । इन्द्रम् आवह । महेन्द्रम् आवह । देवाꣳ आज्यपाꣳ आवह । अग्निꣳ होत्राय_आवह । स्वं महिमानम् आवह । आ चाग्ने देवान् वह । सुयजा च यज जातवेदः ।

अनुवाक 4 VERSE: 1 { 3.5.4.1} अग्निर् होता, वेत्व् {आनंदा. वेत्त्व्} अग्निः । होत्रं वेत्व् {,आनंदा. वेत्तु} प्रावित्रम् । स्मो वयम् । साधु ते यजमान देवता । घृतवतीम् अध्वर्यो स्रुचम् आस्यस्व । देवायुवं विश्ववाराम् । ईडामहै देवाꣳ ईडेन्यान् {आनंदा. ईडेऽन्यान्} । नमस्याम नमस्यान् । यजाम यज्ञियान् ।

अनुवाक 5 VERSE: 1 { 3.5.5.1} समिधो अग्न आज्यस्य वियन्तु । तनूनपाद् अग्न आज्यस्य वेतु । इडो अग्न आज्यस्य वियन्तु । बर्हिर् अग्न आज्यस्य वेतु । स्वाहा_अग्निम् । स्वाहा सोमम् । स्वाहा_अग्निम् । प्रजापतिम् । स्वाहा_अग्नीषोमौ । स्वाहा_इन्द्राग्नी । स्वाहा_इन्द्रम् । स्वाहा महेन्द्रम् । स्वाहा देवाꣳ आज्यपान् । स्वाहा_अग्निꣳ होत्राज् जुषाणाः । अग्न आज्यस्य वियन्तु ।

अनुवाक 6 VERSE: 1 { 3.5.6.1} अग्निर् वृत्राणि जङ्घनत् । द्रविणस्युर् विपन्यया । समिद्धः शुक्र आहुतः । जुषाणो अग्निर् आज्यस्य वेतु । त्वꣳ सोमासि सत्पतिः । त्वꣳ राजा_उत वृत्रहा । त्वं भद्रो असि क्रतुः । जुषाणः सोम आज्यस्य हविषो वेतु । अग्निः प्रत्नेन जन्मना । शुम्भानस् तनुवꣳ स्वाम् । कविर् विप्रेण वावृधे । जुषाणो अग्निर् आज्यस्य वेतु । सोम गीर्भिष् ट्वा वयम् । वर्धयामो वचोविदः । सुमृडीको न आविश । जुषाणः सोम आज्यस्य हविषो वेतु ।

अनुवाक 7 VERSE: 1 { 3.5.7.1} अग्निर् मूर्धा दिवः ककुत् । पतिः पृथिव्या अयम् । अपाꣳ रेताꣳसि जिन्वति । भुवो यज्ञस्य रजसश् च नेता । यत्रा नियुद्भिः सचसे शिवाभिः । दिवि मूर्धानं दधिषे सुवर्षाम् । जिह्वाम् अग्ने चकृषे हव्यवाहम् । प्रजापते न त्वद् एतान्य् अन्यः । विश्वा जातानि परि ता बभूव । यत्कामास् ते जुहुमस् तन् नो अस्तु ।

VERSE: 2 { 3.5.7.2} वयꣳ स्याम पतयो रयीणाम् । स वेद पुत्रः पितरꣳ स मातरम् । स सूनुर् भुवत् स भुवत् पुनर्मघः । स द्याम् और्णोद् अन्तरिक्षꣳ स सुवः । स विश्वा भुवो अभवत् स आभवत् । अग्नीषोमा सवेदसा । सहूती वनतं गिरः । सं देवत्रा बभूव थुः । युवम् एतानि दिवि रोचनानि । अग्निश् च सोम सक्रतू अधत्तम् ।

VERSE: 3 { 3.5.7.3} युवꣳ सिन्धूꣳर् अभिशस्तेर् अवद्यात् । अग्नीषोमाव् अमुञ्चतं गृभीतान् । इन्द्राग्नी रोचना दिवः । परि वाजेषु भूषथः । तद् वां चेति प्र वीर्यम् । श्नथद् वृत्रम् उत सनोति वाजम् । इन्द्रा यो अग्नी सहुरी सपर्यात् । इरज्यन्ता वसव्यस्य भूरेः । सहस्तमा सहसा वाजयन्ता । आ_इन्द्र सानसिꣳ रयिम् ।

VERSE: 4 { 3.5.7.4} सजित्वानꣳ सदासहम् । वर्षिष्ठमूतये भर । प्र ससाहिषे पुरुहूत शत्रून् । ज्येष्ठस् ते शुष्म इह रातिर् अस्तु । इन्द्र_आभर दक्षिणेना वसूनि । पतिः सिन्धूनाम् असि रेवतीनाम् । महाꣳ इन्द्रो य ओजसा । पर्जन्यो वृष्टिमाꣳ इव । स्तोमैर् वत्सस्य वावृधे । महाꣳ इन्द्रो नृवद् आ चर्षणिप्राः ।

VERSE: 5 { 3.5.7.5} उत द्विबर्हा अमिनः सहोभिः । अस्मद्रियग् वावृधे वीर्याय । उरुः पृथुः सुकृतः कर्तृभिर् भूत् । पिप्रीहि देवाꣳ उशतो यविष्ठ । विद्वाꣳ ऋतूꣳर् ऋतुपते यज_इह । ये दैव्या ऋत्विजस् तेभिर् अग्ने । त्वꣳ होतॄणाम् अस्य् आयजिष्ठः । अग्निꣳ स्विष्टकृतम् । अयाड् अग्निर् अग्नेः प्रियाधामानि । अयाट् सोमस्य प्रिया धामानि ।

VERSE: 6 { 3.5.7.6} अयाड् अग्नेः प्रिया धामानि । अयाट् प्रजापतेः प्रिया धामानि । अयाड् अग्नीषोमयोः प्रिया धामानि । अयाड् इन्द्राग्नियोः प्रिया धामानि । अयाड् इन्द्रस्य प्रिया धामानि । अयाण् महेन्द्रस्य प्रिया धामानि । अयाड् देवानाम् आज्यपानां प्रिया धामानि । यक्षद् अग्नेर् होतुः प्रिया धामानि । यक्षत् स्वं महिमानम् । आयजताम् एज्या इषः । कृणोतु सो अध्वरा जातवेदाः । जुषताꣳ हविः । अग्ने यद् अद्य विशो अध्वरस्य होतः । पावकशोचे वेष् ट्वꣳ हि यज्वा । ऋता यजासि महिना वि यद् भूः । हव्या वह यविष्ठ या ते अद्य ।

अनुवाक 8 VERSE: 1 { 3.5.8.1} उपहूतꣳ रथंतरꣳ सह पृथिव्या । उप मा रथंतरꣳ सह पृथिव्या ह्वयताम् । उपहूतं वामदेव्यꣳ सह_अन्तरिक्षेण । उप मा वामदेव्यꣳ सह_अन्तरिक्षेण ह्वयताम् । उपहूतं बृहत् सह दिवा । उप मा बृहत् सह दिवा ह्वयताम् । उपहूताः सप्त होत्राः । उप मा सप्त होत्रा ह्वयन्ताम् । उपहूता धेनुः सह_ऋषभा । उप मा धेनुः सह_ऋषभा ह्वयताम् ।

VERSE: 2 { 3.5.8.2} उपहूतो भक्षः सखा । उप मा भक्षः सखा ह्वयताम् । उपहूता3ं हो । इडा_उपहूता । उपहूतेडा । उपो अस्माꣳ इडा ह्वयताम् । इडा_उपहूता । उपहूतेडा मानवी घृतपदी मैत्रावरुणी । ब्रह्म देवकृतम् उपहूतम् ।

VERSE: 3 { 3.5.8.3} दैव्या अध्वर्यव उपहूताः । उपहूता मनुष्याः । य इमं यज्ञम् अवान् । ये यज्ञपतिं वर्धान् । उपहूते द्यावापृथिवी । पूर्वजे ऋतावरी । देवी देवपुत्रे । उपहूतो ऽयं यजमानः । उत्तरस्यां देवयज्यायाम् उपहूतः । भूयसि हविष्करण उपहूतः । दिव्ये धामन्न् उपहूतः । इदं मे देवा हविर् जुषन्ताम् इति तस्मिन्न् उपहूतः । विश्वम् अस्य प्रियम् उपहूतम् । विश्वस्य प्रियस्य_उपहूतस्य_उपहूतः ।

अनुवाक 9 VERSE: 1 { 3.5.9.1} देवं बर्हिः । वसुवने वसुधेयस्य वेतु । देवो नराशꣳसः । वसुवने वसुधेयस्य वेतु । देवो अग्निः स्विष्टकृत् । सुद्रविणा मन्द्रः कविः । सत्यमन्मा_आयजी होता । होतुर्_होतुर् आयजीयान् । अग्ने यान् देवान् अयाट् । याꣳ अपिप्रेः । ये ते होत्रे अमत्सत । ताꣳ ससनुषीꣳ होत्रां देवंगमाम् । दिवि देवेषु यज्ञम् एरय_इमम् । स्विष्टकृच् चाग्ने होता_अभुः । वसुवने वसुधेयस्य नमोवाके वीहि ।

अनुवाक 10 VERSE: 1 { 3.5.10.1} इदं द्यावापृथिवी भद्रम् अभूत् । आर्ध्म सूक्तवाकम् । उत नमोवाकम् । ऋध्यास्म { ऋध्यास्स्म} सूक्तोच्यम् अग्ने । त्वꣳ सूक्तवाग् असि । उपश्रितो दिवःपृथिव्योः । ओमन्वती ते ऽस्मिन् यज्ञे यजमान द्यावापृथिवी स्ताम् । शंगये {आनंदा. शङ्गये} जीरदानू । अत्रस्नू अप्रवेदे । उरुगव्यूती अभयंकृतौ ।

VERSE: 2 { 3.5.10.2} वृष्टिद्यावा रीत्यापा । शम्भ्úवौ मयोभुवौ । ऊर्जस्वती च पयस्वती च । सूपचरणा च स्वधिचरणा च । तयोर् आविदि । अग्निर् इदꣳ हविर् अजुषत । अवीवृधत महो ज्यायो ऽकृत । सोम इदꣳ हविर् अजुषत । अवीवृधत महो ज्यायो ऽकृत । अग्निर् इदꣳ हविर् अजुषत ।

VERSE: 3 { 3.5.10.3} अवीवृधत महो ज्यायो ऽकृत । प्रजापतिर् इदꣳ हविर् अजुषत । अवीवृधत महो ज्यायो ऽकृत । अग्नीषोमाव् इदꣳ हविर् अजुषेताम् । अवीवृधेतां महो ज्यायो ऽक्राताम् । इन्द्राग्नी इदꣳ हविर् अजुषेताम् । अवीवृधेतां महो ज्यायो ऽक्राताम् । इन्द्र इदꣳ हविर् अजुषत । अवीवृधत महो ज्यायो ऽकृत । महेन्द्र इदꣳ हविर् अजुषत ।

VERSE: 4 { 3.5.10.4} अवीवृधत महो ज्यायो ऽकृत । देवा आज्यपा आज्यम् अजुषन्त । अवीवृधन्त महो ज्यायो ऽक्रत {आनंदा. ऽकृत} । अग्निर् होत्रेण_इदꣳ हविर् अजुषत । अवीवृधत महो ज्यायो ऽकृत । अस्याम् ऋधद् धोत्रायां देवंगमायाम् । आशास्ते ऽयं यजमानो ऽसौ । आयुर् आशास्ते । सुप्रजास्त्वम् आशास्ते । सजातवनस्याम् आशास्ते ।

VERSE: 5 { 3.5.10.5} उत्तरां देवयज्याम् आशास्ते । भूयो हविष्करणम् आशास्ते । दिव्यं धाम_आशास्ते । विश्वं प्रियम् आशास्ते । यद् अनेन हविषा_आशास्ते । तद् अश्यात् तद् ऋध्यात् । तद् अस्मै देवा रासन्ताम् । तद् अग्निर् देवो देवेभ्यो वनते । वयम् अग्नेर् मानुषाः । इष्टं च वीतं च । उभे च नो द्यावापृथिवी अꣳहसः पाताम् । इह गतिर् वाम् अस्य_इदं च । नमो देवेभ्यः ।

अनुवाक 11 VERSE: 1 { 3.5.11.1} तत्_शंयोर् आवृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवी स्वस्तिर् अस्तु नः । स्वस्तिर् मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शं नो अस्तु द्विपदे । शं चतुष्पदे ।

अनुवाक 12 VERSE: 1 { 3.5.12.1} आप्यायस्व, सं ते, । इह त्वष्टारम् अग्रियं, तन् नस् तुरीपम्, । देवानां पत्नीर् उशतीर् अवन्तु नः । प्रावन्तु नस् तुजये वाजसातये । याः पार्थिवासो या अपाम् अपि व्रते । ता नो देवीः सुहवाः शर्म यच्छत । उत ग्ना वियन्तु देवपत्नीः । इन्द्राण्य् अग्नाय्य् अश्विनी राट् । आ रोदसी वरुणानी शृणोतु । वियन्तु देवीर् य ऋतुर् जनीनाम् ।

VERSE: 2 { 3.5.12.2} अग्निर् होता गृहपतिः स राजा । विश्वा वेद जनिमा जातवेदाः । देवानाम् उत यो मर्त्यानाम् । यजिष्ठः स प्रयजताम् ऋतावा । वयम् उ त्वा गृहपते जनानाम् । अग्ने अकर्म समिधा बृहन्तम् । अस्थूरिणो {ड्युमोण्ट अस्तूरि नो} गार्हपत्यानि सन्तु । तिग्मेन नस् तेजसा सꣳशिशाधि ।

अनुवाक 13 VERSE: 1 { 3.5.13.1} उपहूतꣳ रथंतरꣳ सह पृथिव्या । उप मा रथंतरꣳ सह पृथिव्या ह्वयताम् । उपहूतं वामदेव्यꣳ सहान्तरिक्षेण । उप मा वामदेव्यꣳ सहान्तरिक्षेण ह्वयताम् । उपहूतं बृहत् सह दिवा । उप मा बृहत् सह दिवा ह्वयताम् । उपहूताः सप्त होत्राः । उप मा सप्त होत्रा ह्वयन्ताम् । उपहूता धेनुः सह_ऋषभा । उप मा धेनुः सह_ऋषभा ह्वयताम् ।

VERSE: 2 { 3.5.13.2} उपहूतो भक्षः सखा । उप मा भक्षः सखा ह्वयताम् । उपहूता3ं हो । इडा_उपहूता । उपहूतेडा । उपो अस्माꣳ इडा ह्वयताम् । इडा_उपहूता । उपहूतेडा । मानवी घृतपदी मैत्रावरुणी । ब्रह्म देवकृतम् उपहूतम् ।

VERSE: 3 { 3.5.13.3} दैव्या अध्वर्यव उपहूताः । उपहूता मनुष्याः । य इमं यज्ञम् अवान् । ये यज्ञपत्नीं वर्धान् । उपहूते द्यावापृथिवी । पूर्वजे ऋतावरी । देवी देवपुत्रे । उपहूतेयं यजमाना । इन्द्राणी_इवाविधवा । अदितिर् इव सुपुत्रा । उत्तरस्यां देवयज्यायाम् उपहूता । भूयसि हविष्करण उपहूता । दिव्ये धामन्न् उपहूता । इदं मे देवा हविर् जुषन्ताम् इति तस्मिन्न् उपहूता । विश्वम् अस्याः प्रियम् उपहूतम् । विश्वस्य प्रियस्य_उपहूतस्य_उपहूता ।




प्रपाठक: 6 अनुवाक 1 VERSE: 1 { 3.6.1.1} अञ्जन्ति त्वाम् अध्वरे देवयन्तः । वनस्पते {आनंदा. ।} मधुना {BI मधुना} दैव्येन । यद् ऊर्ध्वस् तिष्ठाद् {ड्युमोण्ट तिष्ठा} द्रविणा_इह धत्तात् । यद् वा क्षयो मातुर् अस्या उपस्थे । उच्छ्रयस्व वनस्पते । वर्षमन् पृथिव्या अधि । सुमिती मीयमानः । वर्चो धा यज्ञवाहसे । समिद्धस्य श्रयमाणः पुरस्तात् । ब्रह्म वन्वानो अजरꣳ सुवीरम् ।

VERSE: 2 { 3.6.1.2} आरे अस्मद् अमतिं बाधमानः । उच्छ्रयस्व महते सौभगाय । ऊर्ध्व ऊ षु ण ऊतये । तिष्ठा देवो न सविता । ऊर्ध्वो वाजस्य सनिता यद् अञ्जिभिः । वाघद्भिर् विह्वयामहे । ऊर्ध्वो नः पाह्य् अꣳहसो निकेतुना । विश्वꣳ सम् अत्त्रिणं दह । कृधी न ऊर्ध्वान् { ऊर्ध्वाञ्} च रथाय {ड्युमोण्ट चरथाय} जीवसे । विदा देवेषु नो दुवः ।

VERSE: 3 { 3.6.1.3} जातो जायते सुदिनत्वे अह्नाम् । स मर्य {ड्युमोण्ट समर्य} आ विदथे वर्धमानः । पुनन्ति धीरा अपसो मनीषा । देवया विप्र उदिर्यति वाचम् । युवा सुवासाः परिवीत आगात् । स उ श्रेयान् भवति जायमानः । तं धीरासः कवय उन्नयन्ति । स्वाधियो मनसा देवयन्तः । पृथुपाजा अमर्त्यः । घृतनिर्णिक् स्वाहुतः ।

{ 3.6.1.4} अग्निर् यज्ञस्य हव्यवाट् । तꣳ सबाधो यतस्रुचः { यतस्रुचः} । इत्था धिया यज्ञवन्तः । आचक्रुर् अग्निमूतये । त्वं वरुण उत मित्रो अग्ने । त्वां वर्धन्ति मतिभिर् वसिष्ठाः । त्वे वसु सुषणनानि सन्तु । यूयं पात स्वस्तिभिः सदा नः ।

अनुवाक 2 VERSE: 1 { 3.6.2.1} होता यक्षद् अग्निꣳ समिधा सुषमिधा समिद्धं नाभा पृथिव्याः संगथे वामस्य । वर्ष्मन् दिव इडस् पदे वेत्व् आज्यस्य होतर् यज । होता यक्षत् तनूनपातम् अदितेर् गर्भं भुवनस्य गोपाम् । मध्वा_अद्य देवो देवेभ्यो देवयानान् पथो अनक्तु वेत्व् आज्यस्य होतर् यज । होता यक्षन् नराशꣳसं नृशस्त्रं नॄꣳःप्रणेत्रम् । गोभिर् वपावान्त् स्याद् वीरैः शक्तीवान् रथ्ऐः प्रथमयावा हिरण्यैश् चन्द्री वेत्व् आज्यस्य होतर् यज । होता यक्षद् अग्निम् इड ईडितो देवो देवाꣳ आवक्षद् दूतो हव्यवाड् अमूरः । उप_इमं यज्ञम् उप_इमां देवो देवहूतिम् अवतु वेत्व् आज्यस्य होतर् यज । होता यक्षद् बर्हिः सुष्टरीम_ऊर्णम्रदा अस्मिन् यज्ञे वि च प्र च प्रथताꣳ स्वासस्थं देवेभ्यः । आ_ईम् एनद् अद्य वसवो रुद्रा आदित्याः सदन्तु प्रियम् इन्द्रस्यास्तु वेत्व् आज्यस्य होतर् यज ।

VERSE: 2 { 3.6.2.2} होता यक्षद् दुर ऋष्वाः कवष्यो ऽकोषधावनीर् उद् आताभिर् जिहतां वि पक्षोभिः श्रयन्ताम् । सुप्रायणा अस्मिन् यज्ञे विश्रयन्ताम् ऋतावृधो वियन्त्व् आज्यस्य होतर् यज । होता यक्षद् उषासानक्ता बृहती सुपेशसा नॄꣳःपतिभ्यो योनिं कृण्वाने । सꣳस्मयमाने इन्द्रेण देवैरा_इदं बर्हिः सीदतां वीताम् आज्यस्य होतर् यज । होता यक्षद् दैव्या होतारा मन्द्रा पोतारा कवी प्रचेतसा । स्विष्टम् अद्यान्यः करद् इषा स्वभिगूर्तम् अन्य ऊर्जा सतवसा_इमं यज्ञं दिवि देवेषु धत्तां वीताम् आज्यस्य होतर् यज ।

VERSE: 3 { 3.6.2.3} होता यक्षत् तिस्रो देवीर् अपसाम् अपस्तमा अच्छिद्रम् अद्य_इदम् अपस् तन्वताम् । देवेभ्यो देवीर् देवम् अपो वियन्त्व् आज्यस्य होतर् यज । होता यक्षत् त्वष्टारम् अचिष्टुम् अपाकꣳ रेतोधां विश्रवसं यशोधाम् । पुरुरूपम् अकामकर्शनꣳ सुपोषः पोषैः स्यात् सुवीरो वीरैर् वेत्व् आज्यस्य होतर् यज । होता यक्षद् वनस्पतिम् उपावस्रक्षद् धियो जोष्टारꣳ शशमन् नरः । स्वदात् स्वधितिर् ऋतुथाद्य देवो देवेभ्यो हव्यावाड् वेत्व् आज्यस्य होतर् यज । होता यक्षद् अग्निꣳ स्वाहा_आज्यस्य स्वाहा मेदसः स्वाहा स्तोकानाꣳ स्वाहा स्वाहाकृतीनाꣳ स्वाहा हव्यसूक्तीनाम् । स्वाहा देवाꣳ आज्यपान्त् स्वाहा_अग्निꣳ होत्राज् जुषाणा अग्न अज्यस्य वियन्तु होतर् यज ।

अनुवाक 3 VERSE: 1 { 3.6.3.1} समिद्धो अद्य मनुषो दुरोणे । देवो देवान् यजसि जातवेदः । आ च वह मित्रमहश् चिकित्वान् । त्वं दूतः कविर् असि प्रचेताः । तनूनपात् पथ ऋतस्य यानान् । मध्वा समञ्जन्त् स्वदया सुजिह्व । मन्मानि धीभिर् उत यज्ञम् ऋन्धन् । देवत्रा च कृणुह्य् अध्वरं नः । नराशꣳसस्य महिमानमेषाम् । उपस्तोषाम यजतस्य यज्ञैः ।

VERSE: 2 { 3.6.3.2} ते सुक्रतवः शुचयो धियंधाः । स्वदन्तु देवा उभयानि हव्या । आजुह्वान ईड्यो वन्द्यश् च । आयाह्य् अग्ने वसुभिः सजोषाः । त्वं देवानाम् असि यह्व होता । स एनान् यक्षीषितो यजीयान् । प्राचीनं बर्हिः प्रदिशा पृथिव्याः । वस्तोर् अस्या वृज्यते अग्रे अह्नाम् । व्य् उ प्रथते वितरं वरीयः । देवेभ्यो अदितये स्योनम् ।

VERSE: 3 { 3.6.3.3} व्यचस्वतीर् उर्विया विश्रयन्ताम् । पतिभ्यो न जनयः शुम्भमानाः । देवीर् द्वारो बृहतीर् विश्वमिन्वाः । देवेभ्यो भवथ सुप्रायणाः । आ सुष्वयन्ती यजते उपाके । उषासानक्ता सदतां नि योनौ । दिव्ये योषणे बृहती सुरुक्मे । अधि श्रियꣳ शुक्रपिशं दधाने । दैव्या होतारा प्रथमा सुवाचा । मिमाना यज्ञं मनुषो यजध्यै ।

VERSE: 4 { 3.6.3.4} प्रचोदयन्ता विदथेषु कारू । प्राचीनं ज्योतिः प्रदिशा दिशन्ता । आ नो यज्ञं भारती तूयम् एतु । इडा मनुष्वद् इह चेतयन्ती । तिस्रो देवीर् बर्हिर् आ_इदꣳ स्योनम् । सरस्वतीः स्वपसः सदन्तु । य इमे द्यावापृथिवी जनित्री । रूपैर् अपिꣳशद् भुवनानि विश्वा । तम् अद्य होतर् इषितो यजीयान् । देवं त्वष्टारम् इह यक्षि विद्वान् ।

VERSE: 5 { 3.6.3.5} उपावसृजत् त्मन्या समञ्जन् । देवानां पाथ ऋतुथा हवीꣳषि । वनस्पतिः शमिता देवो अग्निः । स्वदन्तु हव्यं मधुना घृतेन । सद्यो जातो व्यमिमीत यज्ञम् । अग्निर् देवानाम् अभवत् पुरोगाः । अस्य होतुः प्रदिश्य् ऋतस्य वाचि । स्वाहाकृतꣳ हविर् अदन्तु देवाः ।

अनुवाक 4 VERSE: 1 { 3.6.4.1} अग्निर् होता नो अध्वरे । वाजी सन् परिणीयते । देवो देवेषु यज्ञियः । परि त्रिविष्ट्य् अध्वरम् । यात्य् अग्नी रथीर् इव । आ देवेषु प्रयो दधत् । परि वाजपतिः कविः । अग्निर् हव्यान्य् अक्रमीत् { हव्या न्यक्रमीत्} । दधद् रत्नानि दाशुषे ।

अनुवाक 5 VERSE: 1 { 3.6.5.1} अजैद् अग्निः । असनद् वाजं नि । देवो देवेभ्यो हव्या वाट् । प्राञ्जोभिर् हिन्वानः । धेनाभिः कल्पमानः । यज्ञस्य_आयुः प्रतिरन् । उपप्रेष्य होतः । हव्या देवेभ्यः ।

अनुवाक 6 VERSE: 1 { 3.6.6.1} दैव्याः शमितार उत मनुष्या आरभध्वम् । उपनयत मेध्या दुरः । आशासाना मेधपतिभ्यां मेधम् । प्रास्मा अग्निं भरत । स्तृणीत बर्हिः । अन्व् एनं माता मन्यताम् । अनु पिता । अनु भ्राता सगर्भ्यः । अनु सखा सयूथ्यः । उदीचीनाꣳ अस्य पदो निधत्तात् ।

VERSE: 2 { 3.6.6.2} सूर्यं चक्षुर् गमयतात् । वातं प्राणम् अन्ववसृजतात् । दिशः श्रोत्रम् । अन्तरिक्षम् असुम् । पृथिवीꣳ शरीरम् । एकधा_अस्य त्वचम् आच्छ्यतात् । पुरा नाभ्या अपिशसो वपाम् उत्खिदतात् । अन्तर् एव_उष्माणं वारयतात् । श्येनम् अस्य वक्षः कृणुतात् । प्रशसा बाहू ।

VERSE: 3 { 3.6.6.3} शला दोषणी । कश्यपा_इवाꣳसा अच्छिद्रे श्रोणी । कवषा_ऊरू स्रेकपर्णा_अष्ठीवन्ता । षड्विꣳशतिर् अस्य वङ्क्रयः । ता अनुष्ठ्या_उच्च्य्āवयतात् । गात्रं_गात्रम् अस्यानूनं कृणुतात् । ऊवध्यगूहं {आनंदा. ऊवध्यगोहं} पार्थिवं खनतात् । अस्ना रक्षः सꣳसृजतात् । वनिष्ट्हुम् अस्य मा राविष्ट ।

VERSE: 4 { 3.6.6.4} उरूकं मन्यमानाः । न_इद् वस् तोके तनये । रविता रवत्_शमितारः । अध्रिगो शमीध्वम् । सुशमि शमीध्वम् । शमीध्वम् अध्रिगो । अध्रिगुश् चापापश् च । उभौ देवानाꣳ शमितारौ । ताव् इमं पशुꣳ श्रपयतां प्रविद्वाꣳसौ । यथा_यथा_अस्य श्रपणं तथा_तथा ।

अनुवाक 7 VERSE: 1 { 3.6.7.1} जुषस्व सप्रथस्तमम् । वचो देवप्सरस्तमम् । हव्या जुह्वान आसनि । इमं नो यज्ञम् अमृतेषु धेहि । इमा हव्या जातवेदो जुषस्व । स्तोकानाम् अग्ने मेदसो घृतस्य । होतः प्राशान प्रथमो निषद्य । घृतवन्तः पावक ते । स्तोकाः { स्तोका} श्चोतन्ति मेदसः । स्वधर्मं देववीतये ।

VERSE: 2 { 3.6.7.2} श्रेष्ठं नो धेहि वार्यम् । तुभ्यꣳ स्तोका घृतश्चुतः । अग्ने विप्राय सन्त्य । ऋषिः श्रेष्ठः समिध्यसे । यज्ञस्य प्राविता भव । तुभ्यꣳ श्चोतन्त्य् अध्रिगो शचीवः । स्तोकासो अग्ने मेदसो घृतस्य । कविशस्तो बृहता भानुना_आगाः । हव्या जुषस्व मेधिर । ओजिष्ठं ते मध्यतो मेद उद्भृतम् । प्र ते वयं ददामहे । श्चोतन्ति ते वसो स्तोका अधि त्वचि । प्रति तान् देवशो विहि ।

अनुवाक 8 VERSE: 1 { 3.6.8.1} आ वृत्रहणा वृत्रहभिः शुष्मैः । इन्द्र यातं नमोभिर् अग्ने अर्वाक् । युवꣳ राधोभिर् अकवेभिर् इन्द्र । अग्ने अस्मे भवतम् उत्तमेभिः । होता यक्षद् इन्द्राग्नी । छागस्य वपाया मेदसः । जुषेताꣳ हविः । होतर् यज । वि ह्य् अख्यन् मनसा वस्य इच्छन् । इन्द्राग्नी ज्ञास उत वा सजातान् ।

VERSE: 2 { 3.6.8.2} नान्या युवत् प्रमतिर् अस्ति मह्यम् । स वां धियं वाजयन्तीम् अतक्षम् । होता यक्षद् इन्द्राग्नी । पुरोडाशस्य जुषेताꣳ हविः । होतर् यज । त्वाम् ईडते अजिरं दूत्याय । हविष्मन्तः सदम् इन् मानुषासः । यस्य देवैर् आसदो बर्हिर् अग्ने । अहान्य् अस्मै सुदिना भवन्तु । होता यक्षद् अग्निम् । पुरोडाशस्य जुषताꣳ हविः । होतर् यज ।

अनुवाक 9 VERSE: 1 { 3.6.9.1} गीर्भिर् विप्रः प्रमतिम् इच्छमानः । ईट्टे रयिं यशसं पूर्वभाजम् । इन्द्राग्नी वृत्रहणा सुवज्रा । प्र णो नव्येभिस् तिरतं देष्णइः । मा च्छेद्म रश्मीꣳर् इति नाधमानाः । पितृणाꣳ शक्तीर् अनुयच्छमानाः । इन्द्राग्निभ्यां कं वृषणो मदन्ति । ता ह्य् अद्र्ī धिषणाया उपस्थे । अग्निꣳ सुदीतिꣳ सुदृशं गृणन्तः । नमस्यामस् त्वा_ī́ड्यं जातवेदः । त्वां दूतम् अरतिꣳ हव्यवाहम् । देवा अकृण्वन्न् अमृतस्य नाभिम् ।

अनुवाक 10 VERSE: 1 { 3.6.10.1} त्वꣳ ह्य् अग्ने प्रथमो मनोता । अस्या धियो अभवो दस्म होता । त्वꣳ सीं वृषन्न् अकृणोर् दुष्टरीतु । सहो विश्वस्मै सहसे सहध्यै । अधा होता न्यसीदो यजीयान् । इडस् पद इषयन्न् ईड्यः सन् । तं त्वा नरः प्रथमं देवयन्तः । महो राये चितयन्तो अनुग्मन् । वृतेव यन्तं बहुभिर् वसव्यइः । त्वे रयिं जागृवाꣳसो अनुग्मन् ।

VERSE: 2 { 3.6.10.2} रुशन्तम् अग्निं दर्शतं बृहन्तम् । वपावन्तं विश्वहा दीदिवाꣳसम् । पदं देवस्य नमसा वियन्तः । श्रवस्यवः श्रव आपन्न् अमृक्तम् । नामानि चिद् दधिरे यज्ञियानि । भद्रायां ते रणयन्त संदृष्टौ । त्वां वर्धन्ति क्षितयः पृथिव्याम् । त्वꣳ राय उभयासो जनानाम् । त्वं त्राता तरणे चेत्यो ऽभूः । पिता माता सदम् इन् मानुषाणाम् ।

VERSE: 3 { 3.6.10.3} स पर्येण्यः {ड्युमोण्ट सपर्येण्यः} स प्रियो विक्ष्व् अग्निः । होता मन्द्रो निषसादा यजीयान् । तं त्वा वयं दम आ दीदिवाꣳसम् । उप ज्ञ्उबाधो नमसा सदेम । तं त्वा वयꣳ सुधियो नव्यम् अग्ने । सुम्नायव ईमहे देवयन्तः । त्वं विशो अनयो दीद्यानः । दिवो अग्ने बृहता रोचनेन । विशां कविं विश्पतिꣳ शश्वतीनाम् । नितोशनं वृषभं चर्षणीनाम् ।

VERSE: 4 { 3.6.10.4} प्रेतीषणिम् इषयन्तं पावकम् । राजन्तम् अग्निं यजतꣳ रयीणाम् । सो अग्न ईजे शशमे च मर्तः । यस्त आनट् समिधा हव्यदातिम् । य आहुतिं परि वेदा नमोभिः । विश्वा_इत् स वामा दधते त्वोतः । अस्मा उ ते महि महे विधेम । नमोभिर् अग्ने समिधा_उत हव्यैः । वेदी सूनो सहसो गीर्भिर् उक्थैः । आ ते भद्रायाꣳ सुमतौ यतेम ।

VERSE: 5 { 3.6.10.5} आ यस् ततन्थ रोदसी वि भासा । श्रवोभिश् च श्रवस्यस् तरुत्रः । बृहद्भिर् वाजैः स्थविरेभिर् अस्मे । रेवद्भिर् अग्ने वितरं विभाहि । नृवद् वसो सदम् इद् धेह्य् अस्मे । भूरि तोकाय तनयाय पश्वः । पूर्वीर् इषो बृहतीर् आरे अघाः । अस्मे भद्रा सौश्रवसानि सन्तु । पुरूण्य् अग्ने पुरुधा त्वाया । वसूनि राजन् वसुता ते अश्याम् । पुरूणि हि त्वे पुरुवार सन्ति । अग्ने वसु विधते राजनि त्वे ।

अनुवाक 11 VERSE: 1 { 3.6.11.1} आ भरतꣳ शिक्षतं वज्रबाहू । अस्माꣳ इन्द्राग्नी अवतꣳ शचीभिः । इमे नु ते रश्मयः सूर्यस्य । येभिः सपित्वं पितरो न आयन् । होता यक्षद् इन्द्राग्नी । छागस्य हविष आत्ताम् अद्य । मध्यतो मेद उद्भृतम् । पुरा द्वेषोभ्यः । पुरा पौरुषेय्या गृभः । घस्तां नूनम् ।

VERSE: 2 { 3.6.11.2} घासे_अज्राणां यवसप्रथमानाम् । सुमत्क्षराणाꣳ शतरुद्रियाणाम् । अग्निष्वात्तानां पीवोपवसनानाम् । पार्श्वतः श्रोणितः शितामत उत्सादतः । अङ्गाद्_अङ्गाद् अवत्तानाम् । करत एव_इन्द्रग्नी । जुषेताꣳ हविः । होतर् यज । देवेभ्यो वनस्पते हवीꣳषि । हिरण्यपर्ण प्रदिवस् ते अर्थम् ।

VERSE: 3 { 3.6.11.3} प्रदक्षिणिद् रशनया नियूय । ऋतस्य वक्षि पथिभी रजिष्ट्हैः । होता यक्षद् वनस्पतिम्, अभि हि । {ड्युमोण्ट सुग्गेस्त् तो पुत् । बेfओरे अभि} पिष्टतमया रभिष्ठया रशनया_अधित । यत्र_इन्द्राग्नियोश् छागस्य हविषः प्रिया धामानि । यत्र वनस्पतेः प्रिया पाथाꣳसि । यत्र देवानाम् आज्यपानां प्रिया धामानि । यत्राग्नेर् होतुः प्रिया धामानि । तत्र_एतं प्रस्तुत्या_इव_उपस्तुत्या_इव_उपावस्रक्षत् । रभीयाꣳसम् इव कृत्वी ।

VERSE: 4 { 3.6.11.4} करद् एवं देवो वनस्पतिः । जुषताꣳ हविः । होतर् यज । पिप्रीहि देवाꣳ उशतो यविष्ठ । विद्वाꣳ ऋतूꣳ { ऋतूꣳर्} ऋतुपते यज_इह । ये दैव्या ऋत्विजस् तेभिर् अग्ने । त्वꣳ होतॄणाम् अस्य् आयजिष्ठाः । होता यक्षद् अग्निꣳ स्विष्टकृतम् । अयाड् अग्निर् इन्द्राग्नियोश् छागस्य हविषः प्रिया धामानि । अयाड् वनस्पतेः प्रिया पाथाꣳसि । अयाड् देवानाम् आज्यपानां प्रिया धामानि । यक्षद् अग्नेर् होतुः प्रिया धामानि । यक्षत् स्वं महिमानम् । आयजताम् एज्या इषः । कृणोतु सो अध्वरा जातवेदाः । जुषताꣳ हविः । होतर् यज ।

अनुवाक 12 VERSE: 1 { 3.6.12.1} उपो ह यद् विदथं वाजिनो गुः । गीर्भिर् विप्राः प्रमतिम् इच्छमानाः । अर्वन्तो न काष्ठां नक्षमाणाः । इन्द्राग्नी जोहुवतो नरस् ते । वनसपते रशनया_अभिधाय । पिष्टतमया वयुनानि विद्वान् । वह देवत्रा दिधिषो हवीꣳषि । प्र च दातारम् अमृतेषु वोचः । अग्निꣳ स्विष्टकृतम् । अयाड् अग्निर् इन्द्राग्नियोश् छागस्य हविषः प्रिया धामानि ।

VERSE: 2 { 3.6.12.2} अयाड् वनस्पतेः प्रिया पाथाꣳसि । अयाड् देवानाम् आज्यपानां प्रिया धामानि । यक्षद् अग्नेर् होतुः । प्रिया धामानि । यक्षत् स्वं महिमानम् । आयजताम् एज्या इषः । कृणोतु सो अध्वरा जातवेदाः । जुषताꣳ हविः । अग्ने यद् अद्य विशो अध्वरस्य होतः । पावकशोचे वेष् ट्वꣳ हि यज्वा । ऋता यजासि महिना वि यद् भूः । हव्या वह यविष्ठ या ते अद्य ।

अनुवाक 13 VERSE: 1 { 3.6.13.1} देवं बर्हिः सुदेवं देवैः स्यात् सुवीरं वीरैर् वस्तोर् वृज्येताक्तोः प्रभ्रियेतात्य् अन्यान् राया बर्हिष्मतो मदेम वसुवने वसुधेयस्य वेतु यज । देवीर् द्वारः संघाते विड्वीर् यामन्_शिथिरा ध्रुवा देवहूतौ वत्स ईम् एनास् तरुण आमिमीयात् कुमारो वा नवजातो मा_एना अर्वा रेणुककाटः पृणग्, वसुवने वसुधेयस्य वियन्तु यज । देवी उषासा_नक्ता_अद्यास्मिन् यज्ञे प्रयत्य् अह्वेताम् अपि नूनं दैवीर् विशः प्रायासिष्टाꣳ सुप्रीते सुधिते वसुवने वसुधेयस्य वीतां यज ।

{ 3.6.13.2} देवी जोष्ट्री वसुधिती ययोर् अन्या_अघा द्वेषाꣳसि युयवद् आ_अन्या वक्षद् वसु वार्याणि यजमानाय वसुवने वसुधेयस्य वीतां यज । देवी ऊर्जाहुती इषमूर्जम् अन्या_आवक्षत् सग्धिꣳ सपीतिम् अन्या नवेन पूर्वं दयमानाः स्याम पुराणेन नवं तामूर्जमूर्जाहुती ऊर्जयमाने अधातां वसुवने वसुधेयस्य वीतां यज । देवा दैव्या होतारा नेष्टारा पोतारा हताघशꣳसाव् आभरद्वसू वसुवने वसुधेयस्य वीतां यज । देवीस् तिस्रस् तिस्रो देवीर् इडा सरस्वती भारती द्यां भारत्य् आदित्यैर् अस्पृक्षत् सरस्वती_इमꣳ रुद्रैर् यज्ञम् आवीद् इहैव_इडया वसुमत्या सधमादं मदेम वसुवने वसुधेयस्य वियन्तु यज ।

{ 3.6.13.3} देवो नराशꣳसस् त्रिशीर्षा षडक्षः शतम् इद् एनꣳ शितिपृष्ठा आदधति सहस्रम् ईं प्रवहन्ति मित्रावरुणा_इद् अस्य होत्रम् अर्हतो बृहस्पतिः स्तोत्रम् अश्विना_आध्वर्यवं वसुवने वसुधेयस्य वेतु यज । देवो वनस्पतिर् वर्षप्रावा घृतनिर्णिग् द्याम् अग्रेणास्पृक्षद् आन्तरिक्षं मध्येनाप्राः पृथिवीम् उपरेणादृꣳहीद् वसुवने वसुधेयस्य वेतु यज । देवं बर्हिर् वारितीनां निधे धासि {ड्युमोण्ट ऽधायि?} प्रच्युतीनाम् अप्रच्युतं निकामधरणं पुरुस्पार्ह्áं यशस्वद् एना बर्हिषा_अन्या बर्हीꣳष्य् अभिष्याम वसुवने वसुधेयस्य वेतु यज । देवो अग्निः स्विष्टकृत् सुद्रविणा मन्द्रः कविः सत्यमन्मा _आयजी होता होतुर्_होतुर् आयजीयान् अग्ने यान् देवान् अयाड् याꣳ अपिप्रेर् ये ते होत्रे अमत्सत ताꣳ ससनुषीꣳ होत्रां देवंगमां दिवि देवेषु यज्ञम् एरय_इमꣳ स्विष्टकृच् चाग्ने होता_अभूर् वसुवने वसुधेयस्य नमोवाके वीहि यज ।

अनुवाक 14 VERSE: 1 { 3.6.14.1} देवं बर्हिः । वसुवने वसुधेयस्य वेतु । देवीर् द्वारः । वसुवने वसुधेयस्य वियन्तु । देवी उषासा_नक्ता । वसुवने वसुधेयस्य वीताम् । देवी जोष्ट्री । वसुवने वसुधेयस्य वीताम् । देवी ऊर्जाहुती । वसुवने वसुधेयस्य वीताम् ।

VERSE: 2 { 3.6.14.2} देवा दैव्या होतारा । वसुवने वसुधेयस्य वीताम् । देवीस् तिस्रस् तिस्रो देवीः । वसुवने वसुधेयस्य वियन्तु । देवो नराशꣳसः । वसुवने वसुधेयस्य वेतु । देवो वनस्पतिः । वसुवने वसुधेयस्य वेतु । देवं बर्हिर् वारितीनाम् । वसुवने वसुधेयस्य वेतु ।

VERSE: 3 { 3.6.14.3} देवो अग्निर् स्विष्टकृत् । सुद्रविणा मन्द्रः कविः । सत्यमन्मा_आयजी होता । होतुर्_होतुर् आयजीयान् । अग्ने यान् देवान् अयाट् । याꣳ अपिप्रेः । ये ते होत्रे अमत्सत । ताꣳ ससनुषीꣳ होत्रां देवंगमाम् । दिवि देवेषु यज्ञम् एरय_इमम् । स्विष्टकृच् चाग्ने होता_अभुः । वसुवने वसुधेयस्य नमोवाके वीहि ।

अनुवाक 15 VERSE: 1 { 3.6.15.1} अग्निम् अद्य होतारम् अवृणीतायं यजमानः पचन् पक्त्ī́ः पचन् पुरोडाशं बध्नन्न् इन्द्राग्निभ्यां छागꣳ, सूपस्था अद्य देवो वनस्पतिर् अभवद् इन्द्राग्निभ्यां छागेनाघस्तां तं मेदस्तः प्रति पचताग्रभीष्टाम् अवीवृधेतां पुरोडाशेन त्वाम् अद्य ऋष आर्षेय ऋषीणां नपाद् अवृणीतायं यजमानो बहुभ्य आ संगतेभ्य एष मे देवेषु वसु वार्य् आयक्ष्यत इति, ता या देवा देवदानान्य् अदुस्तान्य् अस्मा आ च शास्स्व_आ { शास्वा} च गुरस्व_इषितश् च होतर् असि भद्रवाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि ।




प्रपाठक: 7 अनुवाक 1 VERSE: 1 { 3.7.1.1} {अ} सर्वान् वा एषो ऽग्नौ कामान् प्रवेशयति । यो ऽग्नीन् अन्वाधाय व्रतम् उपैति । स यद् अनिष्ट्वा प्रयायात् । अकामप्रीता एनं कामा नानु प्रयायुः । अतेजा अवीर्यः स्यात् । स जुहुयात् । तुभ्यं ता {F अङ्गिरस्तम} {आनंदा. अङ्गिरस्तम} {BI अङ्गिरस्तम्} { अङ्गिरस्तम} । विश्वाः सुक्षितयः पृथक् । अग्ने कामाय येमिर इति । कामान् एवास्मिन् दधाति ।

VERSE: 2 { 3.7.1.2} कामप्रीता एनं कामा अनु प्रयान्ति । तेजस्वी वीर्यावान् भवति । संततिर् वा एषा यज्ञस्य । यो ऽग्नीन् अन्वाधाय व्रतम् उपैति । स यद् उद्वायति । विच्छित्तिर् एवास्य सा । तं प्राञ्चम् उद्धृत्य । मनसोपतिष्ठेत । मनो वै प्रजापतिः । प्राजापत्यो यज्ञः ।

VERSE: 3 { 3.7.1.3} मनसा_एव यज्ञꣳ संतनोति । भूर् इत्य् आह । भूतो वै प्रजापतिः । भूतिम् एव_उपैति । वि वा एष इन्द्रियेण वीर्येण_ऋध्यते । यस्य_आहिताग्नेर् अग्निर् अपक्षायति । यावत्_शम्यया प्रविध्येत् । यदि तावद् अपक्षायेत् । तꣳ संभरेत् । इदं त एकं पर उत एकम् ।

VERSE: 4 { 3.7.1.4} तृतीयेन ज्योतिषा संविशस्व । संवेशनस् तनुवै चारुर् एधि । प्रिये देवानां परमे जनित्र इति । ब्रह्मणा_एवैनꣳ संभरति । सा_एव ततः प्रायश्चित्तिः । यदि परस्तराम् अपक्षायेत् । अनुप्रयायावस्येत् । सो एव ततः प्रायश्चित्तिः । ओषधीर् वा एतस्य पशून् पयः प्रविशति । यस्य हविषे वत्सा अपाकृता धयन्ति ।

VERSE: 5 { 3.7.1.5} तान् यद् दुह्यात् । यातयाम्ना हविषा यजेत । यन् न दुह्यात् । यज्ञपरुर् अन्तरियात् । वायव्यां यवागुं निर्वपेत् । वायुर् वै पयसः प्रदापयिता । स एवास्मै पयः प्रदापयति । पयो वा ओषधयः । पयः पयः । पयसा_एवास्मै पयो ऽवरुन्धे ।

VERSE: 6 { 3.7.1.6} अथ_उत्तरस्मै हविषे वत्सान् अपाकुर्यात् । सा_एव ततः प्रायश्चित्तिः । अन्यतरान् वा एष देवान् भागधेयेन व्यर्धयति । ये यजमानस्य सायं गृहम् आगच्छन्ति । यस्य सायंदुग्धꣳ हविर् आर्तिम् आर्च्च्ʰáति । इन्द्राय व्रीहीन् निरुप्य_उपवसेत् । पयो वा ओषधयः । पय एवाऽऽरभ्य गृहीत्वा_उपवसति । यत् प्रातः स्यात् । तत्_शृतं कुर्यात् ।

VERSE: 7 { 3.7.1.7} अथ_इतर ऐन्द्रः पुरोडाशः स्यात् । इन्द्रिये एवास्मै समीची दधाति । पयो वा ओषधयः । पयः पयः । पयसा_एवास्मै पयो ऽवरुन्धे । अथ_उत्तरस्मै हविषे वत्सान् अपाकुर्यात् । सा_एव ततः प्रायश्चित्तिः । उभयान् वा एष देवान् भागधेयेन व्यर्धयति । ये यजमानस्य सायं च प्रातश् च गृहम् आगच्छन्ति । यस्य_उभयꣳ हविर् आर्तिम् आर्च्ʰáति ।

VERSE: 8 { 3.7.1.8} ऐन्द्रं पञ्चशरावम् ओदनं निर्वपेत् । अग्निं देवतानां प्रथमं यजेत् । अग्निमुखा एव देवताः प्रीणाति । अग्निं वा अन्व् अन्या देवताः । इन्द्रम् अन्व् अन्याः । ता एव_उभयीः प्रीणाति । पयो वा ओषधयः । पयः पयः । पयसा_एवास्मै पयो ऽवरुन्धे । अथ_उत्तरस्मै हविषे वत्सान् अपाकुर्यात् ।

VERSE: 9 { 3.7.1.9} सा_एव ततः प्रायश्चित्तिः । अर्धो वा एतस्य यज्ञस्य मीयते । यस्य व्रत्ये ऽहन् पत्न्य् अनालम्भुका भवति । ताम् अपरुध्य यजेत । सर्वेणैव यज्ञेन यजते । ताम् इष्ट्वा_उपह्वयेत । अमू हम् अस्मि । सा त्वम् । द्यौर् अहम् । पृथिवी त्वम् । सामाहम् । ऋक् त्वम् । ताव् एहि संभवाव । सह रेतो दधावहै । पुꣳसे पुत्राय वेत्तवै । रायस् पोषाय सुप्रजास्त्वाय सुवीर्याय_इति । अर्ध एव_एनाम् उपह्वयते । सा_एव ततः प्रायश्चित्तिः ।

अनुवाक 2 VERSE: 1 { 3.7.2.1} यद् विष्षण्ण्एन {ड्युमोण्ट विष्यण्ण्एन} जुहुयात् । अप्रजा अपशुर् यजमानः स्यात् । यद् अनायतने निनयेत् । अनायतनः स्यात् । प्राजापत्यया_ऋचा वल्मीकवपायाम् अवनयेत् । प्राजापत्यो वै वल्मीकः । यज्ञः प्रजापतिः । प्रजापताव् एव यज्ञं प्रतिष्ठापयति । भूर् इत्य् आह । भूतो वै प्रजापतिः ।

VERSE: 2 { 3.7.2.2} भूतिम् एव_उपैति । तत् कृत्वा । अन्यां दुग्ध्वा पुनर् होतव्यम् । सा_एव ततः प्रायश्चित्तिः । यत् कीटाँवपन्नेन जुहुयात् । अप्रजा अपशुर् यजमानः स्यात् । यद् अनायतने निनयेत् । अनायतनः स्यात् । मध्यमेन पर्णेन द्यावापृथिव्यया_ऋचा_अन्तःपरिधि निनयेत् । द्यावापृथिव्योर् एवैनत् प्रतिष्ठापयति ।

VERSE: 3 { 3.7.2.3} तत् कृत्वा । अन्यां दुग्ध्वा पुनर् होतव्यम् । सा_एव ततः प्रायश्चित्तिः । यद् अववृष्टेन जुहुयात् । अपरूपम् अस्य_आत्मन् जायेत । किलासो वा स्याद् अर्शसो वा । यत् प्रत्येयात् । यज्ञं विच्छिन्द्यात् । स जुहुयात् । मित्रो जनान् कल्पयति प्रजानन् ।

VERSE: 4 { 3.7.2.4} मित्रो दाधार पृथिवीम् उत द्याम् । मित्रः कृष्टीर् अनिमिषा_अभिचष्टे । सत्याय हव्यं घृतवज् जुहोत_इति । मित्रेणैवैनत् कल्पयति । तत् कृत्वा । अन्यां दुग्ध्वा पुनर् होतव्यम् । सा_एव ततः प्रायश्चित्तिः । यत् पूर्वस्याम् आहुत्याꣳ हुतायाम् उत्तराहुतिः स्कन्देत् । द्विपाद्भिः पशुभिर् यजमानो व्यृध्येत । यद् उत्तरया_अभिजुहुयात् ।

VERSE: 5 { 3.7.2.5} चतुष्पाद्भिः पशुभिर् यजमानो व्यृध्येत । यत्र वेत्थ वनस्पते देवानां गुह्या नामानि । तत्र हव्यानि गामय_इति वानस्पत्यया_ऋचा समिधम् आधाय । तूष्णीम् एव पुनर् जुहुयात् । वनस्पतिना_एव यज्ञस्य_आर्तां चानार्तां च_आहुती विदाधार । तत् कृत्वा । अन्यां दुग्ध्वा पुनर् होतव्यम् । सा_एव ततः प्रायश्चित्तिः । यत् पुरा प्रयाजेभ्यः प्राङ् अङ्गारः स्कन्देत् । अध्वर्यवे च यजमानाय चाकꣳ स्यात् ।

VERSE: 6 { 3.7.2.6} यद् दक्षिणा । ब्रह्मणे च यजमानाय चाकꣳ स्यात् । यत् प्रत्यक् । होत्रे च पत्नियै च यजमानाय चाकꣳ स्यात् । यद् उदङ् । अग्नीधे च पशुभ्यश् च यजमानाय चाकꣳ स्यात् । यद् अभि जुहुयात् । रुद्रो ऽस्य पशून् घातुकः स्यात् । यन् न_अभिजुहुयात् । अशान्तः प्रह्रियेत ।

VERSE: 7 { 3.7.2.7} स्रुवस्य बुध्नेनाभिनिदध्यात् । मा तमो मा यज्ञस्तमन् मा यजमानस् तमत् । नमस् ते अस्त्व् आयते । नमो रुद्र परायते । नमो यत्र निषीदसि । अमुं मा हिꣳसीर् अमुं मा हिꣳसीर् इति येन स्कन्देत् । तं प्रहरेत् । सहस्रशृङ्गो वृषभो जातवेदाः । स्तोमपृष्ठो घृतवान्त् सुप्रतीकः । मा नो हासीन् मेत्थितो न_इत् त्वा जहाम । गोपोषं नो वीरपोषं च यच्छ_इति । ब्रह्मणा_एवैनं प्रहरति । सा_एव ततः प्रायश्चित्तिः ।

अनुवाक 3 VERSE: 1 { 3.7.3.1} वि वा एष इन्द्रियेण वीर्येण_ऋध्यते । यस्य_आहिताग्नेर् अग्निर् मथ्यमानो न जायते । यत्रान्यं पश्येत् । तत आहृत्य होतव्यम् । अग्नाव् एवास्याग्निहोत्रꣳ हुतं भवति । यद्य् अन्यं न विन्देत् । अजायाꣳ होतव्यम् । आग्नेयी वा एषा । यद् अजा । अग्नाव् एवास्याग्निहोत्रꣳ हुतं भवति ।

VERSE: 2 { 3.7.3.2} अजस्य तु नाश्नीयात् । यद् अजस्याश्नीयात् । याम् एवाग्नाव् आहुतिं जुहुयात् । ताम् अद्यात् । तस्माद् अजस्य न_आश्यम् । यद्य् अजां न विन्देत् । ब्राह्मणस्य दक्षिणे हस्ते होतव्यम् । एष वा अग्निर् वैश्वानरः । यद् ब्राह्मणः । अग्नाव् एवास्याग्निहोत्रꣳ हुतं भवति ।

VERSE: 3 { 3.7.3.3} ब्राह्मणं तु वसत्यै नापरुन्ध्यात् । यद् ब्राह्मणं वसत्या अपरुन्ध्यात् । यस्मिन्न् एवाग्नाव् आहुतिं जुहुयात् । तं भागधेयेन व्यर्धयेत् । तस्माद् ब्राह्मणो वसत्यै नापरुध्यः । यदि ब्राह्मणं न विन्देत् । दर्भस्तम्बे होतव्यम् । अग्निवान् वै दर्भस्तम्बः । अग्नाव् एवास्याग्निहोत्रꣳ हुतं भवति । दर्भाꣳस् तु नाध्यासीत ।

VERSE: 4 { 3.7.3.4} यद् दर्भान् अध्यासीत । याम् एवाग्नाव् आहुतिं जुहुयात् । ताम् अध्यासीत । तस्माद् दर्भा नाध्यासितव्याः । यदि दर्भान् न विन्देत् । अप्सु होतव्यम् । आपो वै सर्वा देवताः । देवतास्व् एवास्याग्निहोत्रꣳ हुतं भवति । आपस् तु न परिचक्षीत । यद् आपः परिचक्षीत ।

VERSE: 5 { 3.7.3.5} याम् एवाप्स्व् आहुतिं जुहुयात् । तां परिचक्षीत । तस्माद् आपो न परिचक्ष्याः । मेध्या च वा एतस्यामेध्या च तनुवौ सꣳसृज्येते । यस्य_आहिताग्नेर् अन्यैर् अग्निभिर् अग्नयः सꣳसृज्यन्ते । अग्नये विविचये पुरोडाशम् अष्टाकपालं निर्वपेत् । मेध्यां चैवास्यामेध्यां च तनुवौ व्यावर्तयति । अग्नये व्रतपतये पुरोडाशम् अष्टाकपालं निर्वपेत् । अग्निम् एव व्रतपतिꣳ स्वेन भागधेयेन_उपधावति । स एवैनं व्रतम् आलम्भयति ।

VERSE: 6 { 3.7.3.6} गर्भꣳ स्रवन्तम् अगदम् अकः । अग्निर् इन्द्रस् त्वष्टा बृहस्पतिः । पृथिव्याम् अवचुश्चोत_एतत् । नाभि प्राप्नोति निर्ऋतिं पराचैः । रेतो वा एतद् वाजिनम् आहिताग्नेः । यद् अग्निहोत्रम् । तद् यत् स्रवेत् । रेतो ऽस्य वाजिनꣳ स्रवेत् । गर्भꣳ स्रवन्तम् अगदम् अकर् इत्य् आह । रेत एवास्मिन् वाजिनं दधाति ।

VERSE: 7 { 3.7.3.7} अग्निर् इत्य् आह । अग्निर् वै रेतोधाः । रेत एव तद् दधाति । इन्द्र इत्य् आह । इन्द्रियम् एवास्मिन् दधाति । त्वष्टा_इत्य् आह । त्वष्टा वै पशूनाम् मिथुनानाꣳ रूपकृत् । रूपम् एव पशुषु दधाति । बृहस्पतिर् इत्य् आह । ब्रह्म वै देवानां बृहस्पतिः । ब्रह्मणा_एवास्मै प्रजाः प्रजनयति । पृथिव्याम् अवचुश्चोत_एतद् इत्य् आह । अस्याम् एव_एनत् प्रतिष्ठापयति नाभि प्राप्नोति निर्ऋतिं पराचैर् इत्य् आह । रक्षसाम् अपहत्यै ।

अनुवाक 4 VERSE: 1 { 3.7.4.1} याः पुरस्तात् प्रस्रवन्ति । उपरिष्टात् सर्वतश् च याः । ताभी रश्मिपवित्राभिः । श्रद्धां यज्ञम् आरभे । देवा गातुविदः । गातुं यज्ञाय विन्दत । मनसस् पतिना देवेन । वाताद् यज्ञः प्रयुज्यताम् । तृतीयस्यै दिवः । गायत्रिया सोम आभृतः ।

VERSE: 2 { 3.7.4.2} सोमपीथाय संनयितुम् । वकलम् अन्तरम् आददे । आपो देवीः शुद्धाः स्थ । इमा पात्राणि शुन्धत । उपातङ्क्य्ā̀य देवानाम् । पर्णवल्कम् उत शुन्धत । पयो गृहेषु पयो अघ्नियासु । पयो वत्सेषु पय इन्द्राय हविषे ध्रियस्व । गायत्री पर्णवल्केन । पयः सोमं करोत्व् इमम् ।

VERSE: 3 { 3.7.4.3} अग्निं गृह्णामि सुरथं यो मयोभूः । य उद्यन्तम् आरोहति सूर्यम् अह्ने । आदित्यं ज्योतिषां ज्योतिर् उत्तमम् । श्वो यज्ञाय रमतां देवताभ्यः । वसून् रुद्रान् आदित्यान् । इन्द्रेण सह देवताः । ताः पूर्वः परिगृह्णामि । स्व आयतने मनीषया । इमामूर्जं पञ्चदशीं ये प्रविष्टाः । तान् देवान् परिगृह्णामि पूर्वाः ।

VERSE: 4 { 3.7.4.4} अग्निर् हव्यवाड् इह तान् आवहतु । पौर्णमासꣳ हविर् इदम् एषां मयि । आमावास्यꣳ हविर् इदम् एषां मयि । अन्तरा_अग्नी पशवः । देवसꣳसदम् आगमन् । तान् पूर्वः परिगृह्णामि । स्व आयतने मनीषया । इह प्रजा विश्वरूपा रमन्ताम् । अग्निं गृहपतिम् अभि संवसानाः । ताः पूर्वः परिगृह्णामि ।

VERSE: 5 { 3.7.4.5} स्व आयतने मनीषया । इह पशवो विश्वरूपा रमन्ताम् । अग्निं गृहपतिम् अभि संवसानाः । तान् पूर्वः परिगृह्णामि । स्व आयतने मनीषया । अयं पितृणाम् अग्निः । अवाड् ढव्या पितृभ्य आ । तं पूर्वः परिगृह्णामि । अविषं नः पितुं करत् । अजस्रं त्वाꣳ सभापालाः ।

VERSE: 6 { 3.7.4.6} विजयभागꣳ समिन्धताम् । अग्ने दीदाय मे सभ्य । विजित्यै शरदः शतम् । अन्नम् आवसथीयम् । अभिहराणि शरदः शतम् । आवसथे श्रियं मन्त्रम् । अहिर् बुध्नियो नियच्छतु । इदम् अहम् अग्निज्येष्ठेभ्यः । वसुभ्यो यज्ञं प्रब्रवीमि । इदम् अहम् इन्द्रज्येष्ठेभ्यः ।

VERSE: 7 { 3.7.4.7} रुद्रेभ्यो यज्ञं प्रब्रवीमि । इदम् अहं वरुणज्येष्ठेभ्यः । आदित्येभ्यो यज्ञं प्रब्रवीमि । पयस्वतीर् ओषधयः । पयस्वद् वीरुधां पयः । अपां पयसो यत् पयः । तेन माम् इन्द्र सꣳसृज । अग्ने व्रतपते व्रतं चरिष्यामि । तत्_शकेयं तन् मे राध्यताम् । वायो व्रतपत आदित्य व्रतपते ।

VERSE: 8 { 3.7.4.8} व्रतानां व्रतपते व्रतं चरिष्यामि । तत्_शकेयं तन् मे राध्यताम् । इमां प्राचीम् उदीचीम् । इषमूर्जम् अभि सꣳस्कृताम् । बहुपर्णाम् अशुष्काग्राम् । हरामि पशुपाम् अहम् । यत् कृष्णो रूपं कृत्वा । प्राविशस् त्वं वनस्पतीन् । ततस् त्वाम् एकविꣳशतिधा । संभरामि सुसंभृता ।

VERSE: 9 { 3.7.4.9} त्रीन् परिधीꣳस् तिस्रः समिधः । यज्ञायुर् अनुसंचरान् । उपवेषं मेक्षणं धृष्टिम् । संभरामि सुसंभृता । या जाता ओषधयः । देवेभ्यस् त्रियुगं पुरा । तासां पर्व राध्यासम् । परिस्तरम् आहरन् । अपां मेध्यं यज्ञियम् । सदेवꣳ शिवम् अस्तु मे ।

VERSE: 10 { 3.7.4.10} आच्छेत्ता वो मा रिषम् । जीवानि शरदः शतम् । अपरिमितानां परिमिताः । संनह्ये सुकृताय कम् । एनो मा निगां कतमच् चन_अहम् । पुनर् उत्थाय बहुला भवन्तु । सकृदाच्छिन्नं बर्हिर् ऊर्णामृदु । स्योनं पितृभ्यस् त्वा भराम्य् अहम् । अस्मिन्त् सीदन्तु मे पितरः सोम्याः । पितामहाः प्रपितामहाश् चानुगैः सह ।

VERSE: 11 { 3.7.4.11} त्रिवृत् पलाशे दर्भः । इयान् प्रादेशसंमितः । यज्ञे पवित्रं पोतृतमम् । पयो हव्यं करोतु मे । {F इमौ} {आनंदा. इमौ} {BI इमा} { इमौ} प्राणापानौ । यज्ञस्याङ्गानि सर्वशः । आप्याययन्तौ संचरताम् । पवित्रे हव्यशोधने । पवित्रे स्थो वैष्णवी । वायुर् वां मनसा पुनातु ।

VERSE: 12 { 3.7.4.12} अयं प्राणश् चापानश् च । यजमानम् अपिगच्छताम् । यज्ञे ह्य् अभूतां पोतारौ । पवित्रे हव्यशोधने । त्वया वेदिं विविदुः पृथिवीम् । त्वया यज्ञो जायते विश्वदानिः । अच्छिद्रं यज्ञम् अन्वेषि विद्वान् । त्वया होता संतनोत्य् अर्धमसान् । त्रयस्त्रिꣳशो ऽसि तन्तूनाम् । पवित्रेण सह_आगहि ।

VERSE: 13 { 3.7.4.13} शिवे ऽयꣳ रज्जुर् अभिधानी । अघ्नियाम् उपसेवताम् । अप्रस्रꣳसाय यज्ञस्य । उखे उपदधाम्य् अहम् । पशुभिः संनीतं बिभृताम् । इन्द्राय शृतं दधि । उपवेषो ऽसि यज्ञाय । त्वां परिवेषम् अधारयन् । इन्द्राय हविः कृण्वन्तः । शिवः शग्मो भवासि नः ।

VERSE: 14 { 3.7.4.14} अमृन्मयं देवपात्रम् । यज्ञस्य_आयुषि प्रयुज्यताम् । तिरःपवित्रम् अतिनीताः । आपो धारय मा_अतिगुः । देवेन सवित्रा_उत्पूताः । वसोः सूर्यस्य रश्मिभिः । गां दोहपवित्रे रज्जुम् । सर्वा पात्राणि शुन्धत । एता आचरन्ति मधुमद् दुहानाः । प्रजावतीर् यशसो विश्वरूपाः ।

VERSE: 15 { 3.7.4.15} बह्वीर् भवन्तीर् उप जायमानाः । इह व इन्द्रो रमयतु गावः । पूषा स्थ । अयक्ष्मा वः प्रजया सꣳसृजामि । रायस् पोषेण बहुला भवन्तीः । ऊर्जं पयः पिन्वमाना घृतं च । जीवो जीवन्तीर् उप वः सदेयम् । द्यौश् च_इमं यज्ञं पृथिवी च संदुहाताम् । धाता सोमेन सह वातेन वायुः । यजमानाय द्रविणं दधातु ।

VERSE: 16 { 3.7.4.16} उत्सं दुहन्ति कलशं चतुर्बिलम् । इडां देवीं मधुमतीꣳ सुवर्विदम् । तद् इन्द्राग्नी जिन्वतꣳ {ड्युमोण्ट जिन्वताꣳ} सूनृतावत् । तद् यजमानम् अमृतत्वे दधातु । काम् अधुक्षः प्र णो ब्रूहि । इन्द्राय हविर् इन्द्रियम् । अमूं यस्यां देवानाम् । मनुष्याणां पयो हितम् । बहु दुग्धीन्द्राय देवेभ्यः । हव्यम् आप्यायतां पुनः ।

VERSE: 17 { 3.7.4.17} वत्सेभ्यो मनुष्येभ्यः । पुनर्दोहाय कल्पताम् । यज्ञस्य संततिर् असि । यज्ञस्य त्वा संततिम् अनु संतनोमि । अदस्तम् असि विष्णवे त्वा । यज्ञायापिदधाम्य् अहम् । अद्भिर् अरिक्तेन पात्रेण । याः पूताः परिशेरते । अयं पयः सोमं कृत्वा । स्वां योनिम् अपिगच्छतु ।

VERSE: 18 { 3.7.4.18} पर्णवल्कः पवित्रम् । सौम्यः सोमाद् धि निर्मितः । इमौ पर्णं च दर्भं च । देवानाꣳ हव्यशोधनौ । प्रातर्वेषाय गोपाय विष्णो हव्यꣳ हि रक्षसि । उभाव् अग्नी उपस्तृणते । देवता उपवसन्तु मे । अहं ग्राम्यान् उपवसामि । मह्यं गोपतये पशून् ।

अनुवाक 5 VERSE: 1 { 3.7.5.1} देवा देवेषु पराक्रमध्वम् । प्रथमा द्वितीयेषु । द्वितीयास् तृतीयेषु । त्रिरेकादशा इह मा_अवत । इदꣳ शकेयं यद् इदं करोमि । आत्मा करोत्व् आत्मने । इदं करिष्ये भेषजम् । इदं मे विश्वभेषजा । अश्विना प्रावतं युवम् । इदम् अहꣳ सेनाया अभीत्वर्यै ।

VERSE: 2 { 3.7.5.2} मुखम् अपोहामि । सूर्यज्योतिर् विभाहि । महत इन्द्रियाय । आप्यायतां घृतयोनिः । अग्निर् हव्या_अनुमन्यताम् । खम् अङ्क्ष्व त्वचम् अङ्क्ष्व । सुरूपं त्वा वसुविदम् । पशूनां तेजसा । अग्नये जुष्टम् अभिघारयामि । स्योनं ते सदनं करोमि ।

VERSE: 3 { 3.7.5.3} घृतस्य धारया सुशेवं कल्पयामि । तस्मिन्त् सीदामृते प्रतितिष्ठ । व्रीहीणां मेध सुमनस्यमानः । आर्द्रः प्रथस्नुर् भुवनस्य गोपाः । शृत उत्स्नाति जनिता मतीनाम् । यस् त आत्मा पशुषु प्रविष्टः । देवानां विष्ठाम् अनु यो वितस्थे । आत्मन्वान्त् सोम घृतवान् हि भूत्वा । देवान् गच्छ सुवर् विद { विन्द} यजमानाय मह्यम् । इरा भूतिः पृथिव्यै रसो मा_उत्क्रमीत् ।

VERSE: 4 { 3.7.5.4} देवाः पितरः पितरो देवाः । यो ऽहम् अस्मि {,आनंदा. अस्मि} स सन् यजे । यस्यास्मि न तम् अन्तर् एमि । स्वं म इष्टꣳ स्वं दत्तम् । स्वं पूर्तꣳ स्वꣳ श्रान्तम् । स्वꣳ हुतम् । तस्य मे ऽग्निर् उपद्रष्टा । वायुर् उपश्रोता । आदित्यो ऽनुख्याता । द्यौः पिता ।

VERSE: 5 { 3.7.5.5} पृथिवी माता । प्रजापतिर् बन्धुः । य एवास्मि स सन् यजे । मा भेर् {,आनंदा. भेर्} मा संविक्था मा त्वा हिꣳसिषम् । मा ते तेजो ऽपक्रमीत् । भरतम् उद्धर_इम् अनुसिञ्च { उद्धरे मनुषिंच} । अवदानानि ते प्रत्यवदास्यामि । नमस् ते अस्तु मा मा हिꣳसीः । यद् अवदानानि ते ऽवद्यन् । विलोमाकार्षम् आत्मनः ।

VERSE: 6 { 3.7.5.6} आज्येन प्रत्यनज्म्य् एनत् । तत् त आप्यायतां पुनः । अज्यायो यवमात्रात् । आव्याधात् कृत्यताम् इदम् । मा रूरुपाम यज्ञस्य । शुद्धꣳ स्विष्टम् इदꣳ हविः । मनुना दृष्टां घृतपदीम् । मित्रावरुणसमीरिताम् । दक्षिणार्धाद् असंभिन्दन् । अवद्याम्य् एकतोमुखाम् ।

VERSE: 7 { 3.7.5.7} इडे भागं जुषस्व नः । जिन्व गा जिन्वार्वतः । तस्यास् ते भक्षिवाणः स्याम । सर्वात्मानः सर्वगणाः । ब्रध्न पिन्वस्व । ददतो मे मा क्षायि । कुर्वतो मे मा_उपदसत् । दिशां क्लृप्तिर् असि । दिशो मे कल्पन्ताम् । कल्पन्तां मे दिशः ।

VERSE: 8 { 3.7.5.8} दैवीश् च मानुषीश् च । अहोरात्रे मे कल्पेताम् । अर्धमासा मे कल्पन्ताम् । मासा मे कल्पन्ताम् । ऋतवो मे कल्पन्ताम् । संवत्सरो मे कल्पताम् । क्लृप्तिर् असि कल्पतां मे । आशानां त्वा_आशापालेभ्यः । चतुर्भ्यो अमृतेभ्यः । इदं भूतस्याध्यक्षेभ्यः ।

VERSE: 9 { 3.7.5.9} विधेम हविषा वयम् । भजतां भागी भागम् । मा_अभागो भक्त { ऽभक्त) । निर् अभागं भजामः । अपस् पिन्व । ओषधीर् जिन्व । द्विपात् पाहि । चतुष्पाद् अव । दिवो वृष्टिम् एरय । ब्राह्मणानाम् इदꣳ हविः ।

VERSE: 10 { 3.7.5.10} सोम्यानाꣳ सोमपीथिनाम् । निर्भक्तो ऽब्राह्मणः । न_इहाब्राह्मणस्यास्ति । समङ्क्तां बर्हिर् हविषा घृतेन । सम् आदित्यैर् वसुभिः सं मरुद्भिः । सम् इन्द्रेण विश्वेभिर् देवेभिर् अङ्क्ताम् । दिव्यं नभो गच्छतु यत् स्वाहा । इन्द्राणीवाविधवा भूयासम् । अदितिर् इव सुपुत्रा । अस्थूरि त्वा गार्हपत्य ।

VERSE: 11 { 3.7.5.11} उप निषदे सुप्रजास्त्वाय । सं पत्नी पत्या सुकृतेन गच्छताम् । यज्ञस्य युक्तौ धुर्याव् अभूताम् । संजानानौ विजहताम् अरातीः । दिवि ज्योतिर् अजरम् आरभेताम् । दश ते तनुवो यज्ञ यज्ञियाः । ताः प्रीणातु यजमानो घृतेन । नारिष्ठयोः प्रशिषम् ईडमानः । देवानां दैव्ये ऽपि यजमानो ऽमृतो ऽभूत् । यं वां देवा अकल्पयन् ।

VERSE: 12 { 3.7.5.12} ऊर्जो भागꣳ शतक्रतू । एतद् वां तेन प्रीणानि । तेन तृप्यतम् अꣳहहौ {ड्युमोण्ट अꣳहोहौ} । अहं देवानाꣳ सुकृताम् अस्मि लोके । मम_इदम् इष्टं न मिथुर् भवाति । अहं नारिष्ठाव् अनुयजामि विद्वान् । यद् आभ्याम् इन्द्रो अदधाद् भागधेयम् । अदारसृद् भवत {ड्युमोण्ट भवतु} देव सोम । अस्मिन् यज्ञे मरुतो मृडता नः । मा नो विदद् अभि भामो अशस्तिः ।

VERSE: 13 { 3.7.5.13} मा नो विदद् वृजना द्वेष्या या । ऋषभं वाजिनं वयम् । पूर्णमासं यजामहे । स नो दोहताꣳ सुवीर्यम् । रायस् पोषꣳ सहस्रिणम् । प्राणाय सुराधसे । पूर्णमासाय स्वाहा । अमावास्या सुभगा सुशेवा । धेनुर् इव भूय आप्यायमाना । सा नो दोहताꣳ सुवीर्यम् । रायस् पोषꣳ सहस्रिणम् । अपानाय सुराधसे । अमावास्यायै स्वाहा । अभिस्तृणीहि परिधेहि वेदिम् । जामिं मा हिꣳसीर् अमुया शयाना । होतृषदना हरिताः सुवर्णाः । निष्का इमे यजमानस्य ब्रध्ने ।

अनुवाक 6 VERSE: 1 { 3.7.6.1} परिस्तृणीत परिधत्ताग्निम् । परिहितो ऽग्निर्यजमानं भुनक्तु । अपाꣳ रस ओषधीनाꣳ सुवर्णः । निष्का इमे यजमानस्य सन्तु कामदुघाः । अमुत्रामुष्मिन्_लोके । भूपते भुवनपते । महतो भूतस्य पते । ब्रह्माणं त्वा वृणीमहे । अहं भूपतिर् अहं भुवनपतिः । अहं महतो भूतस्य पतिः ।

VERSE: 2 { 3.7.6.2} देवेन सवित्रा प्रसूत आर्त्विज्यं करिष्यामि । देव सवितर् एतं त्वा वृणते । बृहस्पतिं दैव्यं ब्रह्माणम् । तद् अहं मनसे प्रब्रवीमि । मनो गायत्रियै । गायत्री त्रिष्टुभे । त्रिष्टुब् जगत्यै । जगत्य् अनुष्टुभे । अनुष्टुक् पङ्क्त्यै । पङ्क्तिः प्रजापतये ।

VERSE: 3 { 3.7.6.3} प्रजापतिर् विश्वेभ्यो देवेभ्यः । विश्वे देवा बृहस्पतये । बृहस्पतिर् ब्रह्मणे । ब्रह्म भूर् भुवः सुवह् । बृहस्पतिर् देवानां ब्रह्मा । अहं मनुष्याणाम् । बृहस्पते यज्ञं गोपाय । इदं तस्मै हर्म्यं करोमि । यो वो देवाश् चरति ब्रह्मचर्यम् । मेधावी दिक्षु मनसा तपस्वी ।

VERSE: 4 { 3.7.6.4} अन्तर् दूतश् चरति मानुषीषु । चतुःशिखण्डा युवतिः सुपेशाः । घृतप्रतीका भुवनस्य मध्ये । मर्मृज्यमाना महते सौभगाय । मह्यं धुक्ष्व यजमानाय कामान् । भूमिर् भूत्वा महिमानं पुपोष । ततो देवी वर्धयते पयाꣳसि । यज्ञिया यज्ञं वि च यन्ति सꣳ च । ओषधीर् आप इह शक्वरीश् च । यो मा हृदा मनसा यश् च वाचा ।

VERSE: 5 { 3.7.6.5} यो ब्रह्मणा कर्मणा द्वेष्ति देवाः । यः श्रुतेन हृदयेन_इष्णता च । तस्य_इन्द्र वज्रेण शिरश् च्छिनद्मि । ऊर्णामृदु प्रथमानꣳ स्योनम् । देवेभ्यो जुष्टꣳ सदनाय बर्हिः । सुवर्गे लोके यजमानꣳ हि धेहि । मां नाकस्य पृष्ठे परमे व्योमन् । चतुःशिखण्डा युवतिः सुपेशाः । घृतप्रतीका वयुनानि वस्ते । सा स्तीर्यमाणा महते सौभगाय ।

VERSE: 6 { 3.7.6.6} सा मे धुक्ष्व यजमानाय कामान् । शिवा च मे शग्मा चैधि । स्योना च मे सुषदा चैधि । ऊर्जस्वती च मे पयस्वती चैधि । इषमूर्जं मे पिन्वस्व । ब्रह्म तेजो मे पिन्वस्व । क्षत्रम् ओजो मे पिन्वस्व । विशं पुष्टिं मे पिन्वस्व । आयुर् अन्नाद्यं मे पिन्वस्व । प्रजां पशून् मे पिन्वस्व ।

VERSE: 7 { 3.7.6.7} अस्मिन् यज्ञ उप भूय इन् नु मे । अविक्षोभाय परिधीन् दधामि । धर्ता धरुणो धरीयान् । अग्निर् द्वेषाꣳसि निर् इतो नुदातै । विच्छिनद्मि विधृतीभ्याꣳ सपत्नान् । जातान् भ्रातृब्यान् ये च जनिष्यमानाः । विशो यन्त्राभ्यां विधमाम्य् एनान् । अहꣳ स्वानाम् उत्तमो ऽसानि देवाः । विशो यन्त्रे नुदमाने अरातिम् । विश्वं पाप्मानम् अमतिं दुर्मरायुम् ।

VERSE: 8 { 3.7.6.8} सीदन्ती देवी सुकृतस्य लोके । धृती स्थो विधृती स्वधृती । प्राणान् मयि धारयतम् । प्रजां मयि धारयतम् । पशून् मयि धारयतम् । अयं प्रस्तर उभयस्य धर्ता । धर्ता प्रयाजानाम् उतानूयाजानाम् । स दाधार समिधो विश्वरूपाः । तस्मिन्त् स्रुचो अध्य् आसादयामि । आरोह पथो जुहु देवयानान् ।

VERSE: 9 { 3.7.6.9} यत्र_ऋषयः प्रथमजा ये पुराणाः । हिरण्यपक्षा_आजिरा सम्भृताङ्गा । वहासि मा सुकृतां यत्र लोकाः । अवाहं बाध उपभृता सपत्नान् । जातान् भ्रातृव्यान् ये च जनिष्यमाणाः । दोहं { दोहै} यज्ञꣳ सुदुघाम् इव धेनुम् । अहम् उत्तरो भूयासम् । अधरे मत् सपत्नाः । यो मा वाचा मनसा दुर्मरायुः । हृदा_अरातीयाद् अभिदासद् अग्ने ।

VERSE: 10 { 3.7.6.10} इदम् अस्य चित्तम् अधरं ध्रुवायाः । अहम् उत्तरो भूयासम् । अधरे मत् सपत्नाः । ऋषभो ऽसि शाक्वरः । घृताचीनाꣳ सूनुः । प्रियेण नाम्ना प्रिये सदसि सीद । स्योनो मे सीद सुषदः पृथिव्याम् । प्रथयि प्रजया पशुभिः सुवर्गे लोके । दिवि सीद पृथिव्याम् अन्तरिक्षे । अहम् उत्तरो भूयासम् ।

VERSE: 11 { 3.7.6.11} अधरे मत् सपत्नाः । इयꣳ स्थाली घृतस्य पूर्णा । अच्छिन्नपयाः शतधार उत्सः । मारुतेन शर्मणा दैव्येन । यज्ञो ऽसि सर्वतः श्रितः । सर्वतो मां भूतं भवैष्यत्_श्रयताम् । शतं मे सन्त्व् आशिषः । सहस्रं मे सन्तु सूनृताः । इरावतीः पशुमतीः । प्रजापतिर् असि सर्वतः श्रितः ।

VERSE: 12 { 3.7.6.12} सर्वतो मां भूतं भविष्यत्_श्रयताम् । शतं मे सन्त्व् आशिषः । सहस्रं मे सन्तु सूनृताः । इरावतीः पशुमतीः । इदम् इन्द्रियम् अमृतं वीर्यम् । अनेन_इन्द्राय पशवो ऽचिकित्सन् । तेन देवा अवतो ऽप { अवतोप} माम् । इह_इषमूर्जं यशः सह ओजः सनेयम् । शृतं मयि श्रयताम् । यत् पृथिवीम् अचरत् तत् प्रविष्टम् ।

VERSE: 13 { 3.7.6.13} येनासिञ्चद् बलम् इन्द्रे प्रजापतिः । इदं तत्_शुक्रं मधु वाजिनीवत् । येन_उपरिष्टाद् अधिनोन् महेन्द्रम् । दधि मां धिनोतु । अयं वेदः पृथिवीम् अन्वविन्दत् । गुहा सतीं गहने गह्वरेषु । स विन्दतु यजमानाय लोकम् । अच्छिद्रं यज्ञं भूरिकर्मा करोतु । अयं यज्ञः समसदद् धविष्मान् । ऋचा साम्ना यजुषा देवताभिः ।

VERSE: 14 { 3.7.6.14} तेन लोकान्त् सूर्यवतो जयेम । इन्द्रस्य सख्यम् अमृतत्वम् अश्याम् । यो नः कनीय इह कामयातै । अस्मिन् यज्ञे यजमानाय मह्यम् । अप तम् इन्द्राग्नी भुवनान् नुदेताम् । अहं प्रजां वीरवतीं विदेय । अग्ने वाजजित् । वाजं त्वा सरिष्यन्तं । वाजं जेष्यन्तम् । वाजिनं वाजजितम् ।

VERSE: 15 { 3.7.6.15} वाजजित्यायै संमार्ज्मि । अग्निमन्नादम् अन्नाद्याय । उपहूतो द्यौः पिता । उप मां द्यौः पिता ह्वयताम् । अग्निर् आग्नीध्रात् । आयुषे वर्चसे जीवात्वै पुण्याय । उपहूता पृथिवी माता । उप मां माता पृथिवी ह्वयताम् । अग्निर् आग्नीध्रात् ।

VERSE: 16 { 3.7.6.16} आयुषे वर्चसे । जीवात्वै पुण्याय । मनो ज्योतिर् जुषताम् आज्यम् । विच्छिन्नं यज्ञꣳ सम् इमं दधातु । बृहस्पतिस् तनुताम् इमं नः । विश्वे देवा इह मादयन्ताम् । यं ते अग्न आवृश्चामि । अहं वा क्षिपितश् चरन् । प्रजां च तस्य मूलं च । नीचैर् देवा निवृश्चत ।

VERSE: 17 { 3.7.6.17} अग्ने यो नो ऽभिदासति । समानो यश् च निष्ट्यः । इध्मस्य_इव प्रक्षायतः । मा तस्य_उच्छेषि किंचन । यो मां द्वेष्टि जातवेदः । यं चाहं द्वेष्मि यश् च माम् । सर्वाꣳस् तान् अग्ने संदह । याꣳश् चाहं द्वेष्मि ये च माम् । अग्ने वाजजित् । वाजं त्वा ससृवाꣳसम् ।

VERSE: 18 { 3.7.6.18} वाजं जिगिवाꣳसम् । वाजिनं वाजजितम् । वाजजित्यायै संमार्ज्मि । अग्निम् अन्नादम् अन्नाद्याय । वेदिर् बर्हिः शृतꣳ हविः । इध्मः परिधयः स्रुचः । आज्यं यज्ञ ऋचो यजुः । याज्याश् च वषट्काराः । सं मे संनतयो नमन्ताम् । इध्मसंनहने हुते ।

VERSE: 19 { 3.7.6.19} दिवः खीलो ऽवततः । पृथिव्या अध्य् उत्थितः । तेना सहस्रकाण्डेन । द्विषन्तꣳ शोचयामसि । द्विषन् मे बहु शोचतु । ओषधे मो अहꣳ शुचम् । यज्ञ नमस् ते यज्ञ । नमो नमश् च ते यज्ञ । शिवेन मे संतिष्ठस्व । स्योनेन मे संतिष्ठस्व ।

VERSE: 20 { 3.7.6.20} सुभूतेन मे संतिष्ठस्व । ब्रह्मवर्चसेन मे संतिष्ठस्व । यज्ञस्य_ऋद्धिम् अनु संतिष्ठस्व । उप ते यज्ञ नमः । उप ते नमः । उप ते नमः । त्रिष् फलीक्रियमाणानाम् । यो न्यङ्गो अवशिष्यते । रक्षसां भागधेयम् । आपस् तत् प्रवहताद् इतः ।

VERSE: 21 { 3.7.6.21} उलूखले मुसले यच् च शूर्पे । आशिश्लेष दृषदि यत् कपाले । अवप्रुषो विप्रुषः संयजामि । विश्वे देवा हविर् इदं जुषन्ताम् । यज्ञे या विप्रुषः सन्ति बह्वीः । अग्नौ ताः सर्वाः स्विष्टाः सुहुता जुहोमि । उद्यन्न् अद्य मित्रमहः । सपत्नान् मे अनीनशः । दिव_एनान् विद्युता जहि । निम्रोचन्न् अधरान् कृधि ।

VERSE: 22 { 3.7.6.22} उद्यन्न् अद्य वि नो भज । पिता पुत्रेभ्यो यथा । दीर्घायुत्वस्य ह_इशिषे । तस्य नो देहि सूर्य । उद्यन्न् अद्य मित्रमहः । आरोहन्न् उत्तरां दिवम् । हृद्रोगं मम सूर्य । हरिमाणं च नाशय । शुकेषु मे हरिमाणम् । रोपणाकासु दध्मसि ।

VERSE: 23 { 3.7.6.23} अथो हारिद्रवेषु मे । हरिमाणं निदध्मसि । उदगाद् अयम् आदित्यः । विश्वेन सहसा सह । द्विषन्तं मम रन्धयन् । मो अहं द्विषतो रधम् । यो नः शपाद् अशपतः । यश् च नः शपतः शपात् । उषाश् च तस्मै निम्रुक् च । सर्वं पापꣳ समूहताम् । { 3.7.6.24} यो नः सपत्नो यो रणः । मर्तो ऽभिदासति देवाः । इध्मस्य_इव प्रक्षायतः । मा तस्य_उच्छेषि किं चन । अवसृष्टः परापत । शरो ब्रह्मसꣳशितः । गच्छामित्रान् प्रविश । मा_एषां कं चन_उच्छिषः ।

अनुवाक 7 VERSE: 1 { 3.7.7.1} सक्ष_इदं पश्य । विधर्तर् इदं पश्य । नाक_इदं पश्य । रमतिः पनिष्ठा । ऋतं वर्षिष्ठम् । अमृता यान्य् आहुः । सूर्यो वरिष्ठो अक्षभिर् विभाति । अनु द्यावापृथिवी देवपुत्रे । दीक्षा_असि तपसो योनिः । तपो ऽसि ब्रह्मणो योनिः ।

VERSE: 2 { 3.7.7.2} ब्रह्मासि क्षत्रस्य योनिः । क्षत्रम् अस्य् ऋतस्य योनिः । ऋतम् असि भूर्, आरभे । श्रद्धां मनसा । दीक्षां तपसा । विश्वस्य भुवनस्याधिपत्नीम् । सर्वे कामा यजमानस्य सन्तु । वातं प्राणं मनसोन्वारभामहे । प्रजापतिं यो भुवनस्य गोपाः । स नो मृत्योस् त्रायतां पात्व् अꣳहसः ।

VERSE: 3 { 3.7.7.3} ज्योग् जीवा जराम् अशीमहि । इन्द्र शाक्वर गायत्रीं प्रपद्ये । तां ते युनज्मि । इन्द्र शाक्वर त्रिष्टुभं प्रपद्ये । तां ते युनज्मि । इन्द्र शाक्वर जगतीं प्रपद्ये । तां ते युनज्मि । इन्द्र शाक्वरानुष्टुभं प्रपद्ये । तां ते युनज्मि । इन्द्र शाक्वर पङ्क्तिं प्रपद्ये ।

VERSE: 4 { 3.7.7.4} तां ते युनज्मि । आ_अहं दीक्षाम् अरुहम् ऋतस्य पत्नीम् । गायत्त्रेण छन्दसा ब्रह्मणा च । ऋतꣳ सत्य्è ऽधायि । सत्यम् ऋते ऽधायि । ऋतं च मे सत्यं चाभूताम् । ज्योतिर् अभूवꣳ सुवर् अगमम् । सुवर्गं लोकं नाकस्य पृष्ठम् । ब्रध्नस्य विष्टपम् अगमम् । पृथिवी दीक्षा ।

VERSE: 5 { 3.7.7.5} तया_अग्निर् दीक्षया दीक्षितः । यया_अग्निर् दीक्षया दीक्षितः । तया त्वा दीक्षया दीक्षयामि । अन्तरिक्षं दीक्षा । तया वायुर् दीक्षया दीक्षितः । यया वायुर् दीक्षया दीक्षितः । तया त्वा दीक्षया दीक्षयामि । द्यौर् दीक्षा । तया_आदित्यो दीक्षया दीक्षितः । यया_आदित्यो दीक्षया दीक्षितः ।

VERSE: 6 { 3.7.7.6} तया त्वा दीक्षया दीक्षयामि । दिशो दीक्षा । तया चन्द्रमा दीक्षया दीक्षितः । यया चन्द्रमा दीक्षया दीक्षितः । तया त्वा दीक्षया दीक्षयामि । आपो दीक्षा । तया वरुणो राजा दीक्षया दीक्षितः । यया वरुणो राजा दीक्षया दीक्षितः { दाक्षितः} । तया त्वा दीक्षया दीक्षयामि । ओषधयो दीक्षा ।

VERSE: 7 { 3.7.7.7} तया सोमो राजा दीक्षया दीक्षितः । यया सोमो राजा दीक्षया दीक्षितः । तया त्वा दीक्षया दीक्षयामि । वाग् दीक्षा । तया प्राणो दीक्षया दीक्षितः । यया प्राणो दीक्षया दीक्षितः । तया त्वा दीक्षया दीक्षयामि । पृथिवी त्वा दीक्षमाणम् अनु दीक्षताम् । अन्तरिक्षं त्वा दीक्षमाणम् अनु दीक्षताम् । द्यौस् त्वा दीक्षमाणम् अनु दीक्षताम् ।

VERSE: 8 { 3.7.7.8} दिशस् त्वा दीक्षमाणम् अनु दीक्षन्ताम् । आपस् त्वा दीक्षमाणम् अनु दीक्षन्ताम् । ओषधयस् त्वा दीक्षमाणम् अनु दीक्षन्ताम् । वाक् त्वा दीक्षमाणम् अनु दीक्षताम् । ऋचस् त्वा दीक्षमाणम् अनु दीक्षन्ताम् । सामानि त्वा दीक्षमाणम् अनु दीक्षन्ताम् । यजूꣳषि त्वा दीक्षमाणम् अनु दीक्षन्ताम् । अहश् च रात्रिश् च । कृषिश् च वृष्टिश् च । त्विषिश् चापचितिश् च ।

VERSE: 9 { 3.7.7.9} आपश् च_ओषधयश् च । ऊर्क् च सूनृता च । तास् त्वा दीक्षमाणम् अनु दीक्षन्ताम् । स्वे दक्षे दक्षपितेह सीद । देवानाꣳ सुम्नो महते रणाय । स्वासस्थस् तनुवा संविशस्व । पितेव_एधि सूनव आसुशेवः । शिवो मा शिवम् आविश । सत्यं म आत्मा । श्रद्धा मे ऽक्षितिः ।

VERSE: 10 { 3.7.7.10} तपो मे प्रतिष्ठा । सवितृप्रसूता मा दिशो दीक्षयन्तु । सत्यम् अस्मि । अहं त्वद् अस्मि मद् असि त्वम् एतत् । ममासि योनिस् तव योनिर् अस्मि । ममैव सन् वह हव्यान्य् अग्ने । पुत्त्रः पित्रे लोककृज् जातवेदः । आजुह्वानः सुप्रतीकः पुरस्तात् । अग्ने स्वां योनिम् आसीद साध्या । अस्मिन्त् सधस्थे अध्य् उत्तरस्मिन् ।

VERSE: 11 { 3.7.7.11} विश्वे देवा यजमानश् च सीदत । एकम् इषे विष्णुस् त्वा_अन्वेतु । द्वे ऊर्जे विष्णुस् त्वा_अन्वेतु । त्रीणि व्रताय विष्णुस् त्वा_अन्वेतु । चत्वारि मायोभवाय विष्णुस् त्वा_अन्वेतु । पञ्च पशुभ्यो विष्णुस् त्वा_अन्वेतु । षड् रायस् पोषाय विष्णुस् त्वा_अन्वेतु । सप्त सप्तभ्यो होत्राभ्यो विष्णुस् त्वा_अन्वेतु । सखायः सप्तपदा अभूम । सख्यं ते गमेयम् ।

VERSE: 12 { 3.7.7.12} सख्यात् ते मा योषम् । सख्यान् मे मा योष्ठाः । सोसि सुब्रह्मण्ये । तस्यास् ते पृथिवी पादः । सोसि सुब्रह्मण्ये । तस्यास् ते ऽन्तरिक्षं पादः । सोसि सुब्रह्मण्ये । तस्यास् ते द्यौः पादः । सोसि सुब्रह्मण्ये । तस्यास् ते दिशः पादः ।

VERSE: 13 { 3.7.7.13} परोरजास् ते पञ्चमः पादः । सा न इषमूर्जं धुक्ष्व । तेज इन्द्रियम् । ब्रह्मवर्चसम् अन्नाद्यम् । विमिमे {आनंदा. विमिमे} त्वा पयस्वतीम् । देवानां धेनुꣳ सुदुघाम् अनपस्फुरन्तीम् । इन्द्रः सोमं पिबतु । क्षेमो अस्तु नः । इमां नराः कृणुत वेदिम् एत्य । वसुमतीꣳ रुद्रवतीम् आदित्यवतीम् ।

VERSE: 14 { 3.7.7.14} {F वर्ष्मन्} {आनंदा. वर्ष्मन्} {BI वर्ष्म} { वर्ष्मन्} दिवः । नाभा पृथिव्याः । यथा_अयं यजमानो न रिष्येत् । देवस्य सवितुः सवे । चतुःशिखण्डा युवतिः सुपेशाः । घृतप्रतीका भुवनस्य मध्ये । तस्याꣳ सुपर्णाव् अधि यौ निविष्टौ । तयोर् देवानाम् अधि भागधेयम् । अप जन्यं भयं नुद । अप चक्राणि वर्तय । गृहꣳ सोमस्य गच्छतम् । न वा उव् एतन् म्रियसे न रिष्यसि । देवाꣳ इद् एषि पथिभिः सुगेभिः । यत्र यन्ति सुकृतो नापि दुष्कृतः । तत्र त्वा देवः सविता दधातु ।

अनुवाक 8 VERSE: 1 { 3.7.8.1} यद् अस्य पारे रजसः । शुक्रं ज्योतिर् अजायत । तन् नः पर्षद् अति द्विषः । अग्ने वैश्वानर स्वाहा । यस्माद् भीषा_अवाशिष्ठाः । ततो नो अभयं कृधि । प्रजाभ्यः सर्वाभ्यो मृड । नमो रुद्राय मीढुषे । यस्माद् भीषा न्यषदः । ततो नो अभयं कृधि ।

VERSE: 2 { 3.7.8.2} प्रजाभ्यः सर्वाभ्यो मृड । नमो रुद्राय मीढुषे । उद् उस्र तिष्ठ प्रतितिष्ठ मा रिषः । मा_इमं यज्ञं यजमानं च रीरिषः । सुवर्गे लोके यजमानꣳ हि धेहि । शं न एधि द्विपदे शं चतुष्पदे । यस्माद् भीषा_अवेपिष्ठाः पलायिष्ठाः समज्ञास्थाः । ततो नो अभयं कृधि । प्रजाभ्यः सर्वाभ्यो मृड । नमो रुद्राय मीढुषे ।

VERSE: 3 { 3.7.8.3} य इदम् अकः । तस्मै नमः । तस्मै स्वाहा । न वा उव् एतन् म्रियसे, । आशानां त्वा, विश्वा आशाः, । यज्ञस्य हि स्थ ऋत्वियौ । इन्द्राग्नी चेतनस्य च । हुताहुतस्य तृप्यतम् । अहुतस्य हुतस्य च । हुतस्य चाहुतस्य च । अहुतस्य हुतस्य च । इन्द्राग्नी अस्य सोमस्य । वीतं पिबतं जुषेथाम् । मा यजमानं तमो विदत् { ऽविदत्} । मा_ऋत्विजो मो इमाः प्रजाः । मा यः सोमम् इमं पिबात् । सꣳसृष्टम् उभयं कृतम् ।

अनुवाक 9 VERSE: 1 { 3.7.9.1} अनागसस् त्वा वयम् । इन्द्रेण प्रेषिता उप । वायुष् टे अस्त्व् अꣳशभूः । मित्रस् ते अस्त्व् अꣳशभूः । वरुणस् ते अस्त्व् अꣳशभूः । अपां क्षया ऋतस्य गर्भाः । भुवनस्य गोपाः श्येना अतिथयः । पर्वतानां ककुभः प्रयुतो नपातारः { न पातारः} । वग्नुना_इन्द्रꣳ ह्वयत । घोषेणामीवाꣳश् चातयत ।

VERSE: 2 { 3.7.9.2} युक्ताः स्थ वहत । देवा ग्रावाण इन्दुर् इन्द्र इत्य् अवादिषुः । आ_इन्द्रम् {आनंदा. ऐन्द्रम्} अचुच्यवुः परमस्याः {आनंदा. परम् अस्याः} परावतः । आ_अस्मात् सधस्थात् । आ_उरोर् अन्तरिक्षात् । आ सुभूतम् असुषवुः । ब्रह्मवर्चसं म आसुषवुः । समरे रक्षाꣳस्य् अवधिषुः । अपहतं ब्रह्मज्यस्य । वाक् च त्वा मनश् च श्रिणीताम् ।

VERSE: 3 { 3.7.9.3} प्राणश् च त्वा_अपानश् च श्रीणीताम् । चक्षुश् च त्वा श्रोत्रं च श्रीणीताम् । दक्षश् च त्वा बलं च श्रीणीताम् । ओजश् च त्वा सहश् च श्रीणीताम् । आयुश् च त्वा जरा च श्रीणीताम् । आत्मा च त्वा तनूश् च श्रीणीताम् । शृतो ऽसि शृतंकृतः । शृताय त्वा शृतेभ्यस् त्वा । यम् इन्द्रम् आहुर् वरुणं यम् आहुः । यं मित्रम् आहुर् यम् उ सत्यम् आहुः ।

VERSE: 4 { 3.7.9.4} यो देवानां देवतमस् तपोजाः । तस्मै त्वा तेभ्यस् त्वा । मयि त्यद् इन्द्रियं महत् । मयि दक्षो मयि क्रतुः । मयि धायि सुवीर्यम् । त्रिशुग् घर्मो विभातु मे । आकूत्या मनसा सह । विराजा ज्योतिषा सह । यज्ञेन पयसा सह । तस्य दोहम् अशीमहि ।

VERSE: 5 { 3.7.9.5} तस्य सुम्नम् अशीमहि । तस्य भक्षम् अशीमहि । वाग् जुषाणा सोमस्य तृप्यतु । मित्रो जनान्, प्र स मित्र, । यस्मान् न जातः परो अन्यो अस्ति । य आविवेश भुवनानि विश्वा । प्रजापतिः प्रजया संविदानः । त्रीणि ज्योतीꣳषि सचते स षोडशी । एष ब्रह्मा य ऋत्वियः । इन्द्रो नाम श्रुतो गणे ।

VERSE: 6 { 3.7.9.6} प्र ते महे विदथे ऽशꣳसिषꣳ हरी । य ऋत्वियः प्र ते वन्वे । वनुषो हर्यतं मदम् । इन्द्रो नाम घृतं न यः । हरिभिश् चारु सेचते । श्रुतो गण आ त्वा विशन्तु । हरिवर्पसं गिरः । इन्द्राधिपते ऽधिपतिस् त्वं देवानाम् असि । अधिपतिं माम् । आयुष्मन्तं वर्चस्वन्तं मनुष्येषु कुरु ।

VERSE: 7 { 3.7.9.7} इन्द्रश् च सम्राड् वरुणश् च राजा । तौ ते भक्षं चक्रतुर् अग्र एतम् । तयोर् अनु भक्षं भक्षयामि । वाग् जुषाणा सोमस्य तृप्यतु । प्रजापतिर् विश्वकर्मा । तस्य मनो देवं यज्ञेन राध्यासम् । अर्थेगा अस्य् अजहितः {,आनंदा. अस्य जहितः} । अवसानपते ऽवसानं मे विन्द । नमो रुद्राय वास्तोष्पतये । आयने विद्रवणे ।

VERSE: 8 { 3.7.9.8} उद्याने यत् परायणे । आवर्तने विवर्तने । यो गोपायति तꣳ हुवे । यान्य् अपामित्यान्य् अप्रतीत्तान्य् {आनंदा. अप्रतीतान्य्} अस्मि । यमस्य {ड्युमोण्ट येन यमस्य} बलिना चरामि । इहैव सन्तः प्रति तद् यातयामः । जीवा जीवेभ्यो निहराम एनत् । अनृणा अस्मिन्न् अनृणाः परस्मिन् । तृतीये लोके अनृणाः स्याम । ये देवयाना उत पितृयाणाः ।

VERSE: 9 { 3.7.9.9} सर्वान् पथो अनृणा आक्षीयेम । इदमू नु श्रेयो ऽवसानम् आगन्म । शिवे नो द्यावापृथिवी उभे इमे । गोमद् धनवद् अश्ववद् ऊर्जस्वत् । सुवीरा वीरैर् अनु संचरेम । अर्कः पवित्रꣳ रजसो विमानः । पुनाति देवानां भुवनानि विश्वा । द्यावापृथिवी पयसा संविदाने । घृतं दुहाते अमृतं प्रपीने । पवित्रम् अर्को रजसो विमानः । पुनाति देवानां भुवनानि विश्वा । सुवर् ज्योतिर् यशो महत् । अशीमहि गाधम् उत प्रतिष्ठाम् ।

अनुवाक 10 VERSE: 1 { 3.7.10.1} {अ} उद् अस्तांप्सीत् {आनंदा. अस्ताप्सीत्} सविता मित्रो अर्यमा । सर्वान् अमित्रान् अवधीद् युगेन । बृहन्तं माम् अकरद् वीरवन्तम् । रथंतरे श्रयस्व स्वाहा पृथिव्याम् । वामदेव्ये श्रयस्व स्वाहा_अन्तरिक्षे । बृहति श्रयस्व स्वाहा दिवि । बृहता त्वा_उपस्तभ्नोमि । आ त्वा ददे यशसे वीर्याय च । अस्मास्व् अघ्निया यूयं दधाथ_इन्द्रियं पयः । यस् ते द्रप्सो यस् त उदर्षः ।

VERSE: 2 { 3.7.10.2} दैव्यः केतुर् विश्वं भुवनम् आविवेश । स नः पाह्य् अरिष्ट्यै स्वाहा । अनु मा सर्वो यज्ञो ऽयम् एतु । विश्वे देवा मरुतः सामार्कः । आप्रियश् छन्दाꣳसि निविदो यजूꣳषि । अस्यै पृथिव्यै यद् यज्ञियम् । प्रजापतेर् वर्तनिम् अनुवर्तस्व । अनु वीरैर् अनुराध्याम गोभिः । अन्व् अश्वैर् अनु सर्वैर् उ पुष्टैः । अनु प्रजया_अन्व् इन्द्रियेण ।

VERSE: 3 { 3.7.10.3} देवा नो यज्ञम् ऋजुधा नयन्तु । प्रति क्षत्रे प्रति तिष्ठामि राष्ट्रे । प्रत्य् अश्वेषु प्रतितिष्ठामि गोषु । प्रति प्रजायां प्रतितिष्ठामि भव्ये । विश्वम् अन्या_अभिवावृधे । तद् अन्यस्याम् अधि श्रितम् । दिवे च विश्वकर्मणे । पृथिव्यै चाकरं नमः । अस्कान् द्यौः पृथिवीम् । अस्कान् ऋषभो युवा गाः ।

VERSE: 4 { 3.7.10.4} स्कन्ना_इमा विश्वा भुवना । स्कन्नो यज्ञः प्रजनयतु । अस्कान् अजनि प्राजनि । आ स्कन्नाज् जायते वृषा । स्कन्नात् प्रजनिषीमहि । ये देवा येषाम् इदं भागधेयं बभूव । येषां प्रयाजा उतानूयाजाः । इन्द्रज्येष्ठेभ्यो वरुणराजभ्यः । अग्निहोतृभ्यो देवेभ्यः स्वाहा । उत त्या नो दिवा मतिः ।

VERSE: 5 { 3.7.10.5} अदितिर् ऊत्या_आगमत् । सा शन्ताची {ड्युमोण्ट शंताति} मयस् करत् । अप स्रिधः । उत त्या दैव्या भिषजा । शं नस् करतो अश्विना । यूयाताम् अस्मद् रपः । अप स्रिधः । शम् अग्निर् अग्निभिस् करत् । शं नस् तपतु सूर्यः । शं वातो वात्व् अरपाः ।

VERSE: 6 { 3.7.10.6} अप स्रिधः । तद् इत् पदं न विचिकेत विद्वान् । यन् मृतः पुनर् अप्य् एति जीवान् । त्रिवृद् यद् भुवनस्य रथवृत् । जीवो गर्भो न मृतः स जीवात् । प्रत्य् अस्मै पिपीषते । विश्वानि विदुषे भर । अरंगमाय जग्मवे । अपश्चाद्दध्वने { अपश्चाद्दघ्वने} नरे । इन्दुर् इन्दुम् { इन्द्रम्} अवागात् । इन्दोर् इन्द्रो ऽपात् । तस्य त इन्दव् इन्द्रपीतस्य मधुमतः । उपहूतस्य_उपहूतो भक्षयामि ।

अनुवाक 11 VERSE: 1 { 3.7.11.1} ब्रह्म प्रतिष्ठा मनसो ब्रह्म वाचः । ब्रह्म यज्ञानाꣳ हविषाम् आज्यस्य । अतिरिक्तं कर्मणो यच् च हीनम् । यज्ञः पर्वाणि प्रतिरन्न् एति कल्पयन् । स्वाहाकृता_आहुतिर् एतु देवान् । आश्रावितम् अत्याश्रावितम् । वषट्कृतम् अत्यनूक्तं च यज्ञे । अतिरिक्तं कर्मणो यच् च हीनम् । यज्ञः पर्वाणि प्रतिरन्न् एति कल्पयन् । स्वाहाकृता_आहुतिर् एतु देवान् ।

VERSE: 2 { 3.7.11.2} यद् वो देवा अतिपादयानि । वाचा चित् प्रयतं देवहेडनम् । अरायो अस्माꣳ {ड्युमोण्ट अरावा यो ऽस्माꣳ, च्f.ऋ.वे..10.37.2} अभि दुच्छुनायते । अन्यत्रास्मन् मरुतस् तन् निधेतन । ततं म आपस् तद् उ तायते पुनः । स्वादिष्ठा धीतिर् उचथाय शस्यते । अयꣳ समुद्र उत विश्वभेषजः । स्वाहाकृतस्य सम् उ तृप्णुत_ऋभुवः । उद् वयं तमसस् परि, । उद् उ त्यं, चित्रम्, ।

VERSE: 3 { 3.7.11.3} इमं मे वरुण, तत् त्वा यामि, । त्वं नो अग्ने, स त्वं नो अग्ने, । त्वम् अग्ने अया_असि, प्रजापते, । इमं जीवेभ्यः परिधिं दधामि । मा_एषां नु गाद् अपरो अर्धम् एतम् । शतं जीवन्तु शरदः पुरूचीः । तिरो मृत्युं दधतां पर्वतेन । इष्टेभ्यः स्वाहा वषड् अनिष्टेभ्यः स्वाहा । भेषजं दुरिष्ट्यै स्वाहा निष्कृत्यै स्वाहा । दौराद्ध्यै स्वाहा दैवीभ्यस् तनूभ्यः स्वाहा ।

VERSE: 4 { 3.7.11.4} ऋद्ध्यै स्वाहा समृद्ध्यै स्वाहा । यत इन्द्र भयामहे । ततो नो अभयं कृधि । मघवन् _शग्ध्í तव तन् न ऊतये । वि द्विषो वि मृधो जहि । स्वस्तिदा विशस् पतिः । वृत्रहा विमृधो वशी । वृषा_इन्द्रः पुर एतु नः । स्वस्तिदा अभयंकरः । आभिर् गीर्भिर् यद् अतो न ऊनम् ।

VERSE: 5 { 3.7.11.5} आप्यायय हरिवो वर्धमानः । यदा स्तोतृभ्यो महि गोत्रा रुजासि । भूयिष्ठभाजो अध ते स्याम । अनाज्ञातं यद् आज्ञातम् । यज्ञस्य क्रियते मिथु । अग्ने तद् अस्य कल्पय । त्वꣳ हि वेत्थ यथातथम् । पुरुषसंमितो यज्ञः । यज्ञः पुरुषसंमितः । अग्ने तद् अस्य कल्पय । त्वꣳ हि वेत्थ यथातथम् । यत् पाकत्रा मनसा दीनदक्षा न । यज्ञस्य मन्वते मर्तासः । अग्निष् टद् होता क्रतुविद् विजानन् । यजिष्ठो देवाꣳ ऋतुशो यजाति ।

अनुवाक 12 VERSE: 1 { 3.7.12.1} यद् देवा देवहेडनम् । देवासश् चकृमा वयम् । आदित्यास् तस्मान् मा मुञ्चत । ऋतस्य_ऋतेन माम् उत । देवा जीवनकाम्या यत् । वाचा_अनृतमूदिम । अग्निर् मा तस्माद् एनसः । गार्हपत्यः प्रमुञ्चतु । दुरिता यानि चकृम । करोतु माम् अनेनसम् ।

VERSE: 2 { 3.7.12.2} ऋतेन द्यावापृथिवी । ऋतेन त्वꣳ सरस्वति । ऋतान् मा मुञ्चताꣳहसः {ड्युमोण्ट कृतान् मा मुञ्चत_एनसः} । यद् अन्यकृतम् आरिम । सजातशꣳसाद् उत वा जामिशꣳसात् । ज्यायसः शꣳसाद् उत वा कनीयसः । अनाज्ञातं देवकृतं यद् एनः । तस्मात् त्वम् अस्मान् जातवेदो मुमुग्धि । यद् वाचा यन् मनसा । बाहुभ्यामूरुभ्याम् अष्ठीवद्भ्याम् ।

VERSE: 3 { 3.7.12.3} शिश्नैर् यद् अनृतं चकृमा वयम् । अग्निर् मा तस्माद् एनसः । यद् धस्ताभ्यां चकर किल्बिषाणि । अक्षाणां वग्नुम् उपजिघ्नमानः । दूरेपश्या च राष्ट्रभृच् च । तान्य् अप्सरसाव् अनुदत्ताम् ऋणानि । अदीव्यन्न् ऋणं यद् अहं चकार । यद् वा_अदास्यन्त् संजगारा जनेभ्यः । अग्निर् मा तस्माद् एनसः । यन् मयि माता गर्भै सति ।

VERSE: 4 { 3.7.12.4} एनश् चकार यत् पिता । अग्निर् मा तस्माद् एनसः । यद् आपिपेष मातरं पितरम् । पुत्रः प्रमुदितो धयन् । अहिꣳसितौ पितरौ मया तत् । तद् अग्ने अनृणो भवामि । यद् अन्तरिक्षं पृथिवीम् उत द्याम् । यन् मातरं पितरं वा जिहिꣳसिम । अगिर् मा तस्माद् एनसः । यद् आशसा निशसा यत् पराशसा ।

VERSE: 5 { 3.7.12.5} यद् एनश् चकृमा नूतनं यत् पुराणम् । अग्निर् मा तस्माद् एनसः । अतिक्रामामि दुरितं यद् एनः । जहामि रिप्रं परमे सधस्थे । यत्र यन्ति सुकृतो नापि दुष्कृतः । तम् आरोहामि सुकृतां नु लोकम् । त्रिते देवा अमृजत_एतद् एनः । त्रित एतन् मनुष्येषु मामृजे । ततो मा यदि किं चिद् आनशे । अग्निर् मा तस्माद् एनसः ।

VERSE: 6 { 3.7.12.6} गार्हपत्यः प्रमुञ्चतु । दुरिता यानि चकृम । करोतु माम् अनेनसम् । दिवि जाता अप्सु जाताः । या जाता ओषधीभ्यः । अथो या अग्निजा आपः । ता नः शुन्धन्तु शुन्धनीः । यद् आपो {ड्युमोण्ट आपो} नक्तं दुरितं चराम । यद् वा दिवा नूतनं यत् पुराणम् । हिरण्यवर्णास् तत उत्पुनीत नः । इमं मे वरुण, तत् त्वा यामि, । त्वं नो अग्ने, स त्वं नो अग्ने । त्वम् अग्ने अया_असि, ।

अनुवाक 13 VERSE: 1 { 3.7.13.1} यत् ते ग्राव्णा चिच्छिदुः सोम राजन् । प्रियाण्य् अङ्गानि स्वधिता परूꣳषि । तत् संधत्स्व_आज्येन_उत वर्धयस्व । अनागसो अधम् इत् संक्षयेम । यत् ते ग्रावा बाहुच्युतो अचुच्यवुः {ड्युमोण्ट अचुच्यवत्} । नरो यत् ते दुदुहुर् दक्षिणेन । तत् त आप्यायतां तत् ते । निष्ट्यायतां {आनंदा. निष्ट्ह्यायतां) देव सोम । यत् ते त्वचं बिभिदुर् यच् च योनिम् । यद् आस्थानात् प्रच्युतो वेनसि त्मना ।

VERSE: 2 { 3.7.13.2} त्वया तत् सोम गुप्तम् अस्तु नः । सा नः संधा_असत् परमे व्योमन् । अहात्_शरीरं पयसा समेत्य । अन्योऽन्यो भवति वर्णो अस्य । तस्मिन् वयम् उपहूतास् तव स्मः । आ नो भज सदसि विश्वरूपे । नृचक्षाः सोम उत शुश्रुग् अस्तु । मा नो विहासीद् गिर आवृणानः । अनागास् तनुवो वावृधानः । आ नो रूपं वहतु जायमानः ।

VERSE: 3 { 3.7.13.3} उपक्षरन्ति जुह्वो घृतेन । प्रियाण्य् अङ्गानि तव वर्धयन्तीः । तस्मै ते सोम नम इद् वषट् च । उप मा राजन्त् सुकृते ह्वयस्व । सं प्राणापानाभ्याꣳ सम् {आनंदा. शम्} उ चक्षुषा त्वम् । सꣳ श्रोत्रेण गच्छस्व सोम राजन् । यत् त आस्थितꣳ शम् उ तत् ते अस्तु । जानीतान् {आनंदा. जानीतां} नः संगमने पथीनाम् । एतं जानीतात् परमे व्योमन् । वृकाः {ड्युमोण्ट वृष्ण्याः} सधस्था विद रूपम् अस्य ।

VERSE: 4 { 3.7.13.4} यद् आगच्छात् पथिभिर् देवयानैः । इष्टापूर्ते कृणुताद् आविर् अस्मै । अरिष्टो राजन्न् अगदः परेहि । नमस् ते अस्तु चक्षसे रघूयते । नाकम् आरोह सह यजमानेन । सूर्यं गच्छतात् परमे व्योमन् । अभूद् देवः सविता वन्द्यो नु {,आनंदा. ऽनु} नः । इदानीम् अह्न उपवाच्यो नृभिः । वि यो रत्ना भजति मानवेभ्यः । श्रेष्ठं नो अत्र द्रविणं यथा दधत् । उप नो मित्रावरुणाव् इहावतम् । अन्वादीध्याथाम् इह नः सखाया । आदित्यानां प्रसितिर् हेतिः । उग्रा शतापाष्ठा घ विषा परि णो वृणक्तु । आप्यायस्व, {म्} सं ते, ।

अनुवाक 14 VERSE: 1 { 3.7.14.1} यद् दिदीक्षे मनसा यच् च वाचा । यद् वा प्राणैश् चक्षुषा यच् च श्रोत्रेण । यद् रेतसा मिथुनेनाप्य् आत्मना । अद्भ्यो लोका दधिरे तेज इन्द्रियम् । शुक्रा दीक्षायै तपसो विमोचनीः । आपो विमोक्त्रीर् मयि तेज इन्द्रियम् । यद् ऋचा साम्ना यजुषा । पशूनां चर्मन् हविषा दिदीक्षे । यच् छन्दोभिर् ओषधीभिर् वनस्पतौ । अद्भ्यो लोका दधिरे तेज इन्द्रियम् ।

VERSE: 2 { 3.7.14.2} शुक्रा दीक्षायै तपसो विमोचनीः । आपो विमोक्त्रीर् मयि तेज इन्द्रियम् । येन ब्रह्म येन क्षत्रम् । येन_इन्द्राग्नी प्रजापतिः सोमो वरुणो येन राजा । विश्वे देवा ऋषयो येन प्राणाः । अद्भ्यो लोका दधिरे तेज इन्द्रियम् । शुक्रा दीक्षायै तपसो विमोचनीः । आपो विमोक्त्रीर् मयि तेज इन्द्रियम् । अपां पुष्पम् अस्य् ओषधीनाꣳ रसः । सोमस्य प्रियं धाम ।

VERSE: 3 { 3.7.14.3} अग्नेः प्रियतमꣳ हविः स्वाहा । अपां पुष्पम् अस्य् ओषधीनाꣳ रसः । सोमस्य प्रियं धाम । इन्द्रस्य प्रियतमꣳ हविः स्वाहा । अपां पुष्पम् अस्य् ओषधीनाꣳ रसः । सोमस्य प्रियं धाम । विश्वेषां देवानां प्रियतमꣳ हविः स्वाहा । वयꣳ सोम व्रते तव । मनस् तनूषु पिप्रतः {ड्युमोण्ट बिभ्रतः} । प्रजावन्तो अशीमहि ।

VERSE: 4 { 3.7.14.4} देवेभ्यः पितृभ्यः स्वाहा । सोम्येभ्यः पितृभ्यः स्वाहा । कव्येभ्यः पितृभ्यः स्वाहा । देवास इह मादयध्वम् । सोम्यास इह मादयध्वम् । कव्यास इह मादयध्वम् । अनन्तरिताः पितरः सोम्याः सोमपीथात् । अपैतु मृत्युर् अमृतं न आगन् । वैवस्वतो नो अभयं कृणोतु । पर्णं वनस्पतेर् इव ।

VERSE: 5 { 3.7.14.5} अभि नः शीयताꣳ रयिः । सचतां नः शचीपतिः । परं मृत्यो अनु परेहि पन्थाम् । यस् ते स्व इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि । मा नः प्रजाꣳ रीरिषो मा_उत वीरान् । इदमू नु श्रेयो ऽवसानम् आगन्म । यद् गोजिद् धनजिद् अश्वजिद् यत् । पर्णं वनस्पतेर् इव । अभि नः शीयताꣳ रयिः । सचतां नः शचीपतिः ।




प्रपाठक: 8 अनुवाक 1 VERSE: 1 { 3.8.1.1} सांग्रहण्या_इष्ट्या यजते । इमां जनताꣳ संगृह्णानीति । द्वादशारत्नी रशना भवति । द्वादश मासाः संवत्सरः । संवत्सरम् एवावरुन्धे । मौञ्ज्ī́ भवति । ऊर्ग् वै मुञ्जाः । ऊर्जम् एवावरुन्धे । चित्रा नक्षत्रं भवति । चित्रं वा एतत् कर्म ।

VERSE: 2 { 3.8.1.2} यद् अश्वमेधः समृद्ध्यै । पुण्यनाम देवयजनम् अध्यवस्यति । पुण्याम् एव तेन कीर्तिम् अभिजयति । अपदातीन् ऋत्विजः समावहन्त्य् आ सुब्रह्मण्यायाः । सुवर्गस्य लोकस्य समष्ट्यै । केशश्मश्रु वपते । नखानि निकृन्तते । दतो धावते । स्नाति । अहतं वासः परिधत्ते । पाप्मनो ऽपहत्यै । वाचं यत्वा_उपवसति । सुवर्गस्य लोकस्य गुप्त्यै । रात्रिं जागरयन्त आसते । सुवर्गस्य लोकस्य समष्ट्यै ।

अनुवाक 2 VERSE: 1 { 3.8.2.1} चतुष्टय्य आपो भवन्ति । चतुःशफ्ओ वा अश्वः प्राजापत्यः समृद्ध्यै । ता दिग्भ्यः समाभृता भवन्ति । दिक्षु वा आपः । अन्नं वा आपः । अद्भ्यो वा अन्नं जायते । यद् एवाद्भ्यो ऽन्नं जायते । तद् अवरुन्धे । तासु ब्रह्मौदनं पचति । रेत एव तद् दधाति ।

VERSE: 2 { 3.8.2.2} चतुःशरावो भवति । दिक्ष्व् एव प्रति तिष्ठति । उभयतो रुक्मौ भवतः । उभयत एवास्मिन् रुचं दधाति । उद्धरति शृतत्वाय । सर्पिष्वान् भवति मेध्यत्वाय । चत्वार आर्षेयाः प्राश्नन्ति । दिशाम् एव ज्योतिषि जुहोति । चत्वारि हिरण्यानि ददाति । दिशाम् एव ज्योतीꣳष्य् अवरुन्धे ।

VERSE: 3 { 3.8.2.3} यद् आज्यम् उच्छिष्यते । तस्मिन् रशनां न्युनत्ति । प्रजापतिर् वा ओदनः । रेत आज्यम् । यद् आज्ये रशनां न्युनत्ति । प्रजापतिम् एव रेतसा समर्धयति । दर्भमयी रशना भवति । बहु वा एष कुचरो ऽमेध्यम् उपगच्छति । यद् अश्वः । पवित्रं वै दर्भाः ।

VERSE: 4 { 3.8.2.4} यद् दर्भमयी रशणा भवति । पुनात्य् एव_एनम् । पूतम् एनं मेध्यम् आलभते । अश्वस्य वा आलब्धस्य महिमा_उदक्रामत् । स महर्त्विजः प्राविशत् । तन् महर्त्विजां महर्त्विक्त्वम् । यन् महर्त्विजः प्राश्नन्ति । महिमानम् एवास्मिन् तद् दधति । अश्वस्य वा आलब्धस्य रेत उदक्रामत् । तत् सुवर्णꣳ हिरण्यम् अभवत् । यत् सुवर्णꣳ हिरण्यं ददाति । रेत एव तद् दधाति । ओदने ददाति । रेतो वा ओदनः । रेतो हिरण्यम् । रेतसा_एवास्मिन् रेतो दधाति ।

अनुवाक 3 VERSE: 1 { 3.8.3.1} यो वै ब्रह्मणे देवेभ्यः प्रजापतये ऽप्रतिप्रोच्याश्वं मेध्यं बध्नाति । आ देवताभ्यो वृश्च्यते । पापीयान् भवति । यः प्रतिप्रोच्य । न देवताभ्य आवृश्च्यते । वसीयान् भवति । यद् आह । ब्रह्मन्न् अश्वं मेध्यं भन्त्स्य्āमि देवेभ्यः प्रजापतये तेन राध्यासम् इति । ब्रह्म वै ब्रह्मा । ब्रह्मण एव देवेभ्यः प्रजापतये प्रतिप्रोच्याश्वं मेध्यं बध्नाति ।

VERSE: 2 { 3.8.3.2} न देवताभ्य आवृश्च्यते । वसीयान् भवति । देवस्य त्वा सवितुः प्रसव इति रशनाम् आदत्ते प्रसूत्यै । अश्विनोर् बाहुभ्याम् इत्य् आह । अश्विनौ हि देवानाम् अध्वर्यू आस्ताम् । पूष्णो हस्ताभ्याम् इत्य् आह यत्यै । व्यृद्धं वा एतद् यज्ञस्य । यद् अयजुष्केण क्रियते । इमाम् अगृभ्णन् रश्नाम् ऋतस्य_इत्य् अधिवदति यजुष्कृत्यै । यज्ञस्य समृद्ध्यै ।

VERSE: 3 { 3.8.3.3} तद् आहुः । द्वादशारत्नी रशना कर्तव्या3 त्रयोदशारत्नी3र् इति । ऋषभो वा एष ऋतूनाम् । यथा {!} संवत्सरः । तस्य त्रयोदशो मासो विष्टपम् । ऋषभ एष यज्ञानाम् । यद् अश्वमेधः । यथा वा ऋषभस्य विष्टपम् । एवम् एतस्य विष्टपम् । त्रयोदशम् अरत्निꣳ रशनायाम् उपादधाति ।

VERSE: 4 { 3.8.3.4} यथा_ऋषभस्य विष्टपꣳ सꣳस्करोति । तादृग् एव तत् । पूर्व आयुषि विदथेषु कव्य_इत्य् आह । आयुर् एवास्मिन् दधाति । तया देवाः सुतम् आबभूवुर् इत्य् आह । भूतिम् एव_उपावर्तते । ऋतस्य सामन्त् सरम् आरपन्तीत्य् आह । सत्यं वा ऋतम् । सत्येन_एवैनम् ऋतेन_आरभते । अभिधा असीत्य् आह ।

VERSE: 5 { 3.8.3.5} तस्माद् अश्वमेधयाजी सर्वाणि भूतान्य् अभिभवति । भुवनम् असीत्य् आह । भूमानम् एव_उपैति । यन्ता_असीत्य् आह । यन्तारम् एवैनं करोति । धर्ता_असीत्य् आह । धर्तारम् एवैनं करोति । सो ऽग्निं वैश्वानरम् इत्य् आह । अग्नाव् एवैनं वैश्वानरे जुहोति । सप्रथसम् इत्य् आह ।

VERSE: 6 { 3.8.3.6} प्रजय_एवैनं पशुभिः प्रथयति । स्वाहाकृत इत्य् आह । होम एवास्यैषः । पृथिव्याम् इत्य् आह । अस्याम् एव_एनं प्रतिष्ठापयति । यन्ता राड् यन्ता_असि यमनो धर्ता_असि धरुण इत्य् आह । रूपम् एवास्यैतन् महिमानं व्याचष्टे । कृष्यै त्वा क्षेमाय त्वा रय्यै त्वा पोषाय त्वा_इत्य् आह । आशिषम् एव_एताम् आशास्ते । स्वगा त्वा देवेभ्य इत्य् आह । देवेभ्य एव_एनꣳ स्वगा करोति । स्वाहा त्वा प्रजापतय इत्य् आह । प्राजापत्यो वा अश्वः । यस्या एव देवताया आलभ्यते । तया_एव_एनꣳ समर्धयति ।

अनुवाक 4 VERSE: 1 { 3.8.4.1} यः पितुर् अनुजायाः पुत्रः । स पुरस्तान् नयति । यो मातुर् अनुजायाः पुत्रः । स पश्चान् नयति । विष्वञ्चम् एवास्मात् पाप्मानं विवृहतः । यो अर्वन्तं जिघाꣳसति तम् अभ्यमीति वरुण इति श्वानं चतुरक्षं प्रसौति । परो मर्तः परः श्वा_इति शुनश् चतुरक्षस्य प्रहन्ति । श्वा_इव वै पाप्मा भ्रातृव्यः । पाप्मानम् एवास्य भ्रातृव्यꣳ हन्ति । सैध्रकं मुसलं भवति ।

VERSE: 2 { 3.8.4.2} कर्म_कर्म_एवास्मै साधयति । पौꣳश्चलेयो हन्ति । पुꣳश्चल्वां वै देवाः शुचं न्यदधुः । शुचा_एवास्य शुचꣳ हन्ति । पाप्मा वा एतम् ईप्सतीत्य् आहुः । यो ऽश्वमेधेन यजत इति । अश्वस्याधस्पदम् उपास्यति । वज्री वा अश्वः प्राजापत्यः । वज्रेणैव पाप्मानं भ्रातृव्यम् अवक्रामति । दक्षिणा_अपप्लावयति ।

VERSE: 3 { 3.8.4.3} पाप्मानम् एवास्मात्_शमलम् अपप्लावयति । ऐषीक उदूहो भवति । आयुर् वा इषीकाः । आयुर् एवास्मिन् दधति । अमृतं वा इषीकाः । अमृतम् एवास्मिन् दधति । वेतसशाखा_उपसंबद्धा भवति । अप्सुयोनिर् वा अश्वः । अप्सुजो वेतसः । स्वाद् एव_एनं योनिर् निर्मिमीते । पुरस्तात् प्रत्यञ्चम् अभ्युदूहति । पुरस्ताद् एवास्मिन् प्रतीच्य् अमृतं दधाति । अहं च त्वं च वृत्रहन्न् इति ब्रह्मा यजमानस्य हस्तं गृह्णाति । ब्रह्मक्षत्त्रे एव संदधाति । अभि क्रत्वा_इन्द्र भूर् अध ज्मन्न् इत्य् अध्वर्युर् यजमानं वाचयत्य् अभिजित्यै ।

अनुवाक 5 VERSE: 1 { 3.8.5.1} चत्वार ऋत्विजः समुक्षन्ति । आभ्य एवैनं चतसृभ्यो दिग्भ्यो ऽभिसमीरयन्ति । शतेन राजपुत्रैः सहाध्वर्युः । पुरस्तात् प्रत्यङ् तिष्ठन् प्रोक्षति । अनेनाश्वेन मेध्येन_इष्ट्वा । अयꣳ राजा वृत्रं वध्याद् इति । राज्यं वा अध्वर्युः । क्षत्त्रꣳ {= क्षत्रꣳ } राजपुत्रः । राज्येन_एवास्मिन् क्षत्त्रं {= क्षत्रं } दधाति । शतेनाराजभिर् उग्रैः सह ब्रह्मा ।

VERSE: 2 { 3.8.5.2} दक्षिणत उदङ् तिष्ठन् प्रोक्षति । अनेनाश्वेन मेध्येन_इष्ट्वा । अयꣳ राजाप्रतिधृष्यो ऽस्त्व् इति । बलं वै ब्रह्मा । बलम् अराजा_उग्रः । बलेन_एवास्मिन् बलं दधाति । शतेन सूतग्रामणिभिः सह होता । पश्चात् प्राङ् तिष्ठन् प्रोक्षति । अनेनाश्वेन मेध्येन_इष्ट्वा । अयꣳ राजा_अस्यै विशः ।

VERSE: 3 { 3.8.5.3} बहुग्वै बह्वश्वायै बह्वजाविकायै । बहुव्रीहियवायै बहुमाषतिलायै । बहुहिरण्यायै बहुहस्तिकायै । बहुदासपूरुषायै रयिमत्यै पुष्टिमत्यै । बहुरायस्पोषायै राजा_अस्त्व् इति । भूमा वै होता । भूमा सूतग्रामण्यः । भूम्ना_एवास्मिन् भूमानं दधाति । शतेन क्षत्तसंग्रहीतृभिः सह_उद्गाता । उत्तरतो दक्षिणा तिष्ठन् प्रोक्षति ।

VERSE: 4 { 3.8.5.4} अनेनाश्वेन मेध्येन_इष्ट्वा । अयꣳ राजा सर्वम् आयुर् एत्व् इति । आयुर् वा उद्गाता । आयुः क्षत्तसंग्रहीतारः । आयुषा_एवास्मिन्न् आयुर् दधाति । शतꣳ_शतं भवन्ति । शतायुः पुरुषः शत_इन्द्रियः । आयुष्य् एव_इन्द्रिये प्रतितिष्ठति चतुःशता भवन्ति । चतस्रो दिशः । दिक्ष्व् एव प्रतितिष्ठति ।

अनुवाक 6 VERSE: 1 { 3.8.6.1} यथा वै हविषो गृहीतस्य स्कन्दति । एवं वा एतद् अश्वस्य स्कन्दति । यन् निक्तम् अनालब्धम् उत्सृजन्ति । यत् स्तोक्या अन्वाह । सर्वहुतम् एवैनं करोत्य् अक्सन्दाय । अस्कन्नꣳ हि तत् । यद् धुतस्य स्कन्दति । सहस्रम् अन्वाह । सहस्रसंमितः सुवर्गो लोकः । सुवर्गस्य लोकस्याभिजित्यै ।

VERSE: 2 { 3.8.6.2} यत्परिमिता अनुब्र्ū́यात् । परिमितम् अवरुन्धीत । अपरिमिता अन्वाह । अपरिमितः सुवर्गो लोकः । सुवर्गस्य लोकस्य समष्ट्यै । स्तोक्या जुहोति । या एव वर्ष्या आपः । ता अवरुन्धे । अस्यां जुहोति । इयं वा अग्निर् वैश्वानरः ।

VERSE: 3 { 3.8.6.3} अस्याम् एव_एनाः प्रतिष्ठापयति । उवाच ह प्रजापतिः । स्तोक्यासु वा अहम् अश्वमेधꣳ सꣳस्थापयामि । तेन ततः सꣳस्थितेन चरामीति । अग्नये स्वाहा_इत्य् आह । अग्नय एवैनं जुहोति । सोमाय स्वाहा_इत्य् आह । सोमाय_एवैनं जुहोति । सवित्रे स्वाहा_इत्य् आह । सवित्र एवैनं जुहोति ।

VERSE: 4 { 3.8.6.4} सरस्वत्यै स्वाहा_इत्य् आह । सरस्वत्या एवैनं जुहोति । पूष्णे स्वाहा_इत्य् आह । पूष्ण एवैनं जुहोति । बृहस्पतये स्वाहा_इत्य् आह । बृहस्पतय एवैनं जुहोति । अपां मोदाय स्वाहा_इत्य् आह । अद्भ्य एवैनं जुहोति । वायवे स्वाहा_इत्य् आह । वायव एवैनं जुहोति ।

VERSE: 5 { 3.8.6.5} मित्राय स्वाहा_इत्य् आह । मित्राय_एवैनं जुहोति । वरुणाय स्वाहा_इत्य् आह । वरुणाय_एवैनं जुहोति । एताभ्य एवैनं देवताभ्यो जुहोति । दश_दश संपादं जुहोति । दशाक्षरा विराट् । अन्नं विराट् । विराजा_एवान्नाद्यम् अवरुन्धे । प्र वा एषो ऽस्माल् लोकाच् च्यवते । यः पराचीर् आहुतीर् जुहोति । पुनः_पुनर् अभ्यावर्तं जुहोति । अस्मिन्न् एव लोके प्रतितिष्ठति । एताꣳ ह वाव सो ऽश्वमेधस्य सꣳस्थितिम् उवाचास्कन्दाय । अस्कन्नꣳ हि तत् । यद् यज्ञस्य सꣳस्थितस्य स्कन्दति ।

अनुवाक 7 VERSE: 1 { 3.8.7.1} प्रजापतये त्वा जुष्टं प्रोक्षामीति पुरस्तात् प्रत्यङ् तिष्ठन् प्रोक्षति । प्रजापतिर् वै देवानाम् अन्नादो वीर्यावान् । अन्नाद्यम् एवास्मिन् वीर्यं दधाति । तस्माद् अश्वः पशूनाम् अन्नादो वीर्यावत्तमः । इन्द्राग्निभ्यां त्वा_इति दक्षिणतः । इन्द्राग्नी वै देवानाम् ओजिष्ठौ बलिष्ठौ । ओज एवास्मिन् बलं दधाति । तस्माद् अश्वः पशूनाम् ओजिष्ठो बलिष्ठः । वायवे त्वा_इति पश्चात् । वायुर् वै देवानाम् आशुः सारसारितमः ।

VERSE: 2 { 3.8.7.2} जवम् एवास्मिन् दधाति । तस्माद् अश्वः । पशूनाम् आशुः सारसारितमः । विश्वेभ्यस् त्वा देवेभ्य इत्य् उत्तरतः । विश्वे वै देवा देवानां यशस्वितमाः । यश एवास्मिन् दधाति । तस्माद् अश्वः पशूनां यशस्वितमः । देवेभ्यस् त्वा_इत्य् अधस्तात् । देवा वै देवानाम् अपचिततमाः । अपचितिम् एवास्मिन् दधाति । तस्माद् अश्वः पशूनाम् अपचिततमः ।

VERSE: 3 { 3.8.7.3} सर्वेभ्यस् त्वा देवेभ्य इत्य् उपरिष्टात् । सर्वे वै देवास् त्विषिमन्तो हरस्विनः । त्विषिम् एवास्मिन् हरो दधाति । तस्माद् अश्वः पशूनां त्विषिमान् हरस्वितमः । दिवे त्वा_अन्तरिक्षाय त्वा पृथिव्यै त्वा_इत्य् आह । एभ्य एवैनं लोकेभ्यः प्रोक्षति । सते त्वा_असते त्वा_अद्भ्यस् त्वा_ओषधीभ्यस् त्वा विश्वेभ्यस् त्वा भुतेभ्य इत्य् आह । तस्माद् अश्वमेधयाजिनꣳ सर्वाणि भूतान्य् उपजीवन्ति । ब्रह्मवादिनो वदन्ति । यत् प्राजापत्यो ऽश्वः । अथ कस्माद् एनम् अन्याभ्यो देवताभ्यो ऽपि प्रोक्षतीति । अश्वे वै सर्वा देवता अन्वायत्ताः । तं यद् विश्वेभ्यस् त्वा भूतेभ्य इति प्रोक्षति । देवता एवास्मिन्न् अन्वायातयति । तस्माद् अश्वे सर्वा देवता अन्वायत्ताः ।

अनुवाक 8 VERSE: 1 { 3.8.8.1} यथा वै हविषो गृहीतस्य स्कन्दति । एवं वा एतद् अश्वस्य स्कन्दति । यत् प्रोक्षितम् अनालब्धम् उत्सृजन्ति । यद् अश्वचरितानि जुहोति । सर्वहुतम् एवैनं करोत्य् अस्कन्दाय । अस्कन्नꣳ हि तत् । यद् धुतस्य स्कन्दति । ईंकाराय स्वाहा_ī́ंकृताय स्वाहा_इत्य् आह । एतानि वा अश्वचरितानि । चरितैर् एवैनꣳ समर्धयति ।

VERSE: 2 { 3.8.8.2} तद् आहुः । अनाहुतयो वा अश्वचरितानि । न_एता होतव्या इति । अथो खल्व् आहुः । होतव्या एव । अत्र वाव_एवं विद्वान् अश्वमेधꣳ सꣳस्थापयति । यद् अश्वचरितानि जुहोति । तस्माद् धोतव्या इति । बहिर्धा वा एनम् एतद् आयतनाद् दधाति । भ्रातृव्यम् अस्मै जनयति ।

VERSE: 3 { 3.8.8.3} यस्यानायतने ऽन्यत्राग्नेर् आहुतीर् जुहोति । सावित्रिया इष्ट्याः पुरस्तात् स्विष्टकृतः । आहवनीये ऽश्वचरितानि जुहोति । आयतन एवास्य_आहुतीर् जुहोति । नास्मै भ्रातृव्यं जनयति । तद् आहुः । यज्ञमुखे_यज्ञमुखे होतव्याः । यज्ञस्य क्लृप्त्यै । सुवर्गस्य लोकस्यानुख्यात्या इति । अथो खल्व् आहुः ।

VERSE: 4 { 3.8.8.4} यद् यज्ञमुखे_यज्ञमुखे जुहुयात् । पशुभिर् यजमानं व्यर्धयेत् । अव सुवर्गाल् लोकात् पद्येत । पापीयान्त् स्याद् इति । सकृद् एव होतव्याः । न यजमानं पशुभिर् व्यर्धयति । अभि सुवर्गं लोकं जयति । न पापीयान् भवति । अष्टाचत्वारिꣳशतम् अश्वरूपाणि जुहोति । अष्टाचत्वारिꣳशदक्षरा जगती । जागतो ऽश्वः प्राजापत्यः समृद्ध्यै । एकम् अतिरिक्तं जुहोति । तस्माद् एकः प्रजास्व् अर्धुकः ।

अनुवाक 9 VERSE: 1 { 3.8.9.1} विभूर् मात्रा प्रभूः पित्रा_इत्य् आह । इयं वै माता । असौ पिता । आभ्याम् एवैनं परिददाति । अश्वो ऽसि हयो ऽसीत्य् आह । शास्त्य् एवैनम् एतत् । तस्मात्_शिष्टाः प्रजा जायन्ते । अत्यो ऽसीत्य् आह । तस्माद् अश्वः सर्वान् पशून् अत्येति । 0 तस्माद् अश्वः सर्वेषां पशूनाꣳ श्रेष्ठ्यं गच्छति ।

VERSE: 2 { 3.8.9.33} प्र यशः श्रेष्ठ्यम् आप्नोति । य एवं वेद । नरो ऽस्य् अर्वा_असि सप्तिर् असि वाज्य् असीत्य् आह । रूपम् एवास्यैतन् माहिमानं व्याचष्टे । ययुर् नामासीत्य् आह । एतद् वा अश्वस्य प्रियं नामधेयम् । प्रियेणैवैनं नामधेयेनाभिवदति । तस्माद् अप्य् आ_अमित्रौ संगत्य । नाम्ना चेद् ध्वयेते { चेध्वयेते} । मित्रम् एव भवतः ।

VERSE: 3 { 3.8.9.3} आदित्यानां पत्वा_अन्विहीत्य् आह । आदित्यान् एवैनं गमयति । अग्नये स्वाहा स्वाहा_इन्द्राग्निभ्याम् इति पूर्वहोमाञ् जुहोति । पूर्व एव द्विषन्तं भ्रातृव्यम् अतिक्रामति । भूर् असि भुवे त्वा भव्याय त्वा भविष्यते त्वा_इत्य् उत्सृजति सर्वत्वाय । देवा आशापाला एतं देवेभ्यो ऽश्वं मेधाय प्रोक्षितं गोपायत_इत्य् आह । शतं वै तल्प्या राजपुत्रा देवा आशापालाः । तेभ्य एवैनं परिददाति । ईश्वरो वा अश्वः प्रमुक्तः परां परावतं गन्तोः । इह धृतिः स्वाहा_इह विधृतिः स्वाहा_इह रन्तिः स्वाहा_इह रमतिः स्वाहा_इति चतृषु पत्सु जुहोति ।

VERSE: 4 { 3.8.9.4} एता वा अश्वस्य बन्धनम् । ताभिर् एवैनं बध्नाति । तस्माद् अश्वः प्रमुक्तो बन्धनम् आगच्छति । तस्माद् अश्वः प्रमुक्तो बन्धनं न जहाति । राष्ट्रं वा अश्वमेधः । राष्ट्रे खलु वा एते व्यायच्छन्ते । ये ऽश्वं मेध्यꣳ रक्षन्ति । तेषां य उदृचं गच्छन्ति । राष्ट्राद् एव ते राष्ट्रं गच्छन्ति । अथ य उदृचं न गच्छन्ति । { 3.8.9.5} राष्ट्राद् एव ते व्यवच्छिद्यन्ते । परा वा एष सिच्यते । यो ऽबलो ऽश्वमेधेन यजते । यद् अमित्रा अश्वं विन्देरन् । हन्येतास्य यज्ञः । चतुश्श्अता रक्षन्ति । यज्ञस्याघाताय । अथान्यम् आनीय प्रोक्षेयुः । सा_एव ततः प्रायश्चित्तिः ।

अनुवाक 10 VERSE: 1 { 3.8.10.1} प्रजापतिर् अकामयताश्वमेहेन यजेय_इति । स तपो ऽतप्यत । तस्य तेपानस्य । सप्त_आत्मनो देवता उदक्रामन् । सा दीक्षा_अभवत् । स एतानि वैश्वदेवान्य् अपश्यत् । तान्य् अजुहोत् । तैर् वै स दीक्षाम् अवारुन्ध । यद् वैश्वदेवानि जुहोति । दीक्षाम् एव तैर् यजमानो ऽवरुन्धे ।

VERSE: 2 { 3.8.10.2} सप्त जुहोति । सप्त हि ता देवता उदक्रामन् । अन्वहं जुहोति । अन्वहम् एव दीक्षाम् अवरुन्धे । त्रीणि वैश्वदेवानि जुहोति । चत्वार्य् औद्ग्रहणानि । सप्त संपद्यन्ते । सप्त वै शीर्षण्याः प्राणाः । प्राणा दीक्षा । प्राणैर् एव प्राणान् दीक्षाम् अवरुन्धे ।

VERSE: 3 { 3.8.10.3} एकविꣳशतिं वैश्वदेवानि जुहोति । एकविꣳशतिर् वै देवलोकाः । द्वादश मासाः पञ्च_ऋतवः । त्रय इमे लोकाः । असाव् आदित्य एकविꣳशः । एष सुवर्गो लोकः । तद् दैव्यं क्षत्त्रम् { क्षत्रम्} । सा श्रीः । तद् ब्रध्नस्य विष्टपम् । तत् स्वाराज्यम् उच्यते ।

VERSE: 4 { 3.8.10.4} त्रिꣳशतम् औद्ग्रहणानि जुहोति । त्रिꣳशदक्षरा विराट् । अन्नं विराट् । विराजा_एवान्नाद्यम् अवरुन्धे । त्रेधा विभज्य देवतां जुहोति । त्र्यावृतो वै देवाः । त्र्यावृत इमे लोकाः । एषां लोकानाम् आप्त्यै । एषां लोकानां क्लृप्त्यै । अप वा एतस्मात् प्राणाः क्रामन्ति ।

VERSE: 5 { 3.8.10.5} यो दीक्षाम् अतिरेचयति । सप्ताहं प्रचरन्ति । सप्त वै शीर्षन्याः प्राणः । प्राणा दीक्षा । प्राणैर् एव प्राणान् दीक्षाम् अवरुन्धे । पूर्णाहुतिम् उत्तमां जुहोति । सर्वं वै पूर्णाहुतिः । सर्वम् एवाऽऽप्नोति । अथो इयं वै पूर्णाहुतिः । अस्याम् एव प्रतितिष्ठति ।

अनुवाक 11 VERSE: 1 { 3.8.11.1} प्रजापतिर् अश्वमेधम् असृजत । तꣳ सृष्टं न किं चन_उदयच्छत् । तं वैश्वदेवान्य् एव_उदयच्छन् । यद् वैश्वदेवानि जुहोति । यज्ञस्य_उद्यत्यै । स्वाहा_आधिम् आधीताय स्वाहा । स्वाहा_आधीतं मनसे स्वाहा । स्वाहा मनः प्रजापतये स्वाहा । काय स्वाह कस्मै स्वाहा कतमस्मै स्वाहा_इति प्राजापत्ये मुख्ये भवतः । प्रजापतिमुखाभिर् एवैनं देवताभिर् उद्यच्छते । VERSE: 2 { 3.8.11.2} अदित्यै स्वाहा_अदित्यै मह्यइ स्वाहा_अदित्यै सुमृडीकायै स्वाहा_इत्य् आह । इयं वा अदितिः । अस्या एवैनं प्रतिष्ठाय_उद्यच्छते । सरस्वत्यै स्वाहा सरस्वत्यै बृहत्यै स्वाहा सरस्वत्यै पावकायै स्वाहा_इत्य् आह । वाग् वै सरस्वती । वाचा_एवैनम् उद्यच्छते । पूष्णे स्वाहा पूष्णे प्रपथ्याय स्वाहा पूष्णे नरंधिषाय स्वहा_इत्य् आह । पशवो वै पूषा । पशुभिर् एवैनम् उद्यच्छते । त्वष्ट्रे स्वाहा त्वष्ट्रे तुरीपाय स्वाहा त्वष्ट्रे पुरुरूपाय स्वाहा_इत्य् आह । त्वष्टा वै पशूनां मिथुनानाꣳ रूपकृत् । रूपम् एव पशुषु दधाति । अथो रूपैर् एवैनम् उद्यच्छते । विष्णवे स्वाहा विष्णवे निखुर्यपाय स्वहा विष्णवे निभूयपाय स्वाहा_इत्य् आह । यज्ञो वै विष्णुः । यज्ञाय_एवैनम् उद्यच्छते । पूर्णाहुतिम् उत्तमां जुहोति । प्रत्युत्तब्ध्यै सयत्वाय ।

अनुवाक 12 VERSE: 1 { 3.8.12.1} सावित्रम् अष्टाकपालं प्रातर् निर्वपति । अष्टाक्षरा गायत्री । गायत्रं प्रातःसवनम् । प्रातःसवनाद् एवैनं गायत्रियाश् छन्दसो ऽधि निर्मिमीते । अथो प्रातःसवनम् एव तेन_आप्नोति । गायत्रीं छन्दः । सवित्रे प्रसवित्र एकादशकपालं मध्यंदिने । एकादशाक्षरा त्रिष्टुप् । त्रैष्टुभं माध्यंदिनꣳ सवनम् । माध्यंदिनाद् एवैनꣳ सवनात् त्रिष्टुभश् छन्दसो ऽधि निर्मिमीते ।

VERSE: 2 { 3.8.12.2} अथो माध्यंदिनम् एव सवनं तेन_आप्नोति । त्रिष्टुभं छन्दः । सवित्र आसवित्रे द्वादशकपालम् अपराह्णे । द्वादशाक्षरा जगती । जागतं तृतीयसवनम् । तृतीयसवनाद् एवैनं जगत्याश् छन्दसो ऽधि निर्मिमीते । अथो तृतीयसवनम् एव तेन_आप्नोति । जगतीं छन्दः । ईश्वरो वा अश्वः प्रमुक्तः परां परावतं गन्तोः । इह धृतिः स्वाहा_इह विधृतिः स्वाहा_इह रन्तिः स्वाहा_इह रन्तिः स्वाहा_इति चतस्र आहुतीर् जुहोति ।

VERSE: 3 { 3.8.12.3} चतस्रो दिशः । दिग्भिर् एवैनं परिगृह्णाति । आश्वत्थ्ओ व्रजो भवति । प्रजापतिर् देवेभ्यो निलायत । अश्वो रूपं कृत्वा । सो ऽश्वत्थे संवत्सरम् अतिष्ठत् । तद् अश्वत्थस्याश्वत्थत्वम् । यद् आश्वत्थ्ओ व्रजो भवति । स्व एवैनं योनौ प्रतिष्ठापयति ।

अनुवाक 13 VERSE: 1 { 3.8.13.1} आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायताम् इत्य् आह । ब्राह्मण एव ब्रह्मवर्चसं दधाति । तस्मात् पुरा ब्राह्मणो ब्रह्मवर्चस्य् अजायत । आ_अस्मिन् राष्ट्रे राजन्य इषव्यः शूरो महारथो जायताम् इत्य् आह । राजन्य एव शौर्यं महिमानं दधाति । तस्मात् पुरा राजन्य इषव्यः शूरो महारथो ऽजायत । दोग्ध्री धेनुर् इत्य् आह । धेन्वाम् एव पयो दधाति । तस्मात् पुरा दोग्ध्री धेनुर् अजायत । वोढा_अनड्वान् इय् आह ।

VERSE: 2 { 3.8.13.2} अनडुह्य् एव वीर्यं दधाति । तस्मात् पुरा वोढा_अनड्वान् अजायत । आशुः सप्तिर् इत्य् आह । अश्व एव जवं दधाति । तस्मात् पुरा_आशुर् अश्वो ऽजायत । पुरंधिर् योषा_इत्य् आह । योषित्य् एव रूपं दधाति । तस्मात् स्त्री युवतिः प्रिया भावुका । जिष्णू रथेष्ठा इत्य् आह । आ ह वै तत्र जिष्णू रथेष्ठा जायते ।

VERSE: 3 { 3.8.13.3} यत्र_एतेन यज्ञेन यजन्ते । सभेयो युवा_इत्य् आह । यो वै पूर्ववयसी । स सभेयो युवा । तस्माद् युवा पुमान् प्रियो भावुकः । आ_अस्य यजमानस्य वीरो जायताम् इत्य् आह । आ ह वै तत्र यजमानस्य वीरो जायते । यत्र_एतेन यज्ञेन यजन्ते । निकामे_निकामे नः पर्जन्यो वर्षत्व् इत्य् आह । निकामे_निकामे ह वै तत्र पर्जन्यो वर्षति । यत्र_एतेन यज्ञेन यजन्ते । फलिन्यो न ओषधयः पच्यन्ताम् इत्य् आह । फलिन्यो ह वै तत्र_ओषधयः पच्यन्ते । यत्र_एतेन यज्ञेन यजन्ते । योगक्षेमो नः कल्पताम् इत्य् आह । कल्पते ह वै तत्र प्रजाभ्यो योगक्षेमः । यत्र_एतेन यज्ञेन यजन्ते ।

अनुवाक 14 VERSE: 1 { 3.8.14.1} प्रजापतिर् देवेभ्यो यज्ञान् व्यादिशत् । स आत्मन्न् अश्वमेधम् अधत्त । तं देवा अब्रुवन् । एष वाव यज्ञः । यद् अश्वमेधः । अप्य् एव नो ऽत्रास्त्व् इति । तेभ्य एतान् अन्नहोमान् प्रायच्छत् । तान् अजुहोत् । तैर् वै स देवान् अप्रीणात् । यद् अन्नहोमाञ् जुहोति ।

VERSE: 2 { 3.8.14.2} देवान् एव तैर् यजमानः प्रीणाति । आज्येन जुहोति । अग्नेर् वा एतद् रूपम् । यद् आज्यम् । यद् आज्येन जुहोति । अग्निम् एव तत् प्रीणाति । मधुना जुहोति । महत्यै वा एतद् देवतायै रूपम् । यन् मधु । यन् मधुना जुहोति ।

VERSE: 3 { 3.8.14.3} महतीम् एव तद् देवतां प्रीणाति । तण्डुलैर् जुहोति । वसूनां वा एतद् रूपम् । यत् तण्डुलाः । यत् तण्डुलैर् जुहोति । वसून् एव तत् प्रीणाति । पृथुकैर् जुहोति । रुद्राणां वा एतद् रूपम् । यत् पृथुकाः । यत् पृथुकैर् जुहोति ।

VERSE: 4 { 3.8.14.4} रुद्रान् एव तत् प्रीणाति । लाजैर् जुहोति । आदित्यानां वा एतद् रूपम् । यल् लाजाः । यल् लाजैर् जुहोति । आदित्यान् एव तत् प्रीणाति । करम्बैर् जुहोति । विश्वेषां वा एतद् देवानाꣳ रूपम् । यत् करम्बाः । यत् करम्बैर् जुहोति ।

VERSE: 5 { 3.8.14.5} विश्वान् एव तद् देवान् प्रीणाति । धानाभिर् जुहोति । नक्षत्राणां वा एतद् रूपम् । यद् धानाः । यद् धानाभिर् जुहोति । नक्षत्राण्य् एव तत् प्रीणाति । सक्तुभिर् जुहोति । प्रजापतेर् वा एतद् रूपम् । यत् सक्तवः । यत् सक्तुभिर् जुहोति ।

VERSE: 6 { 3.8.14.6} प्रजापतिम् एव तत् प्रीणाति । मसूस्यैर् जुहोति । सर्वासां वा एतद् देवताꣳ रूपम् । यन् मसूस्यानि । यन् मसूस्यैर् जुहोति । सर्वा एव तद् देवताः प्रीणाति । प्रियङ्गुतण्डुलैर् जुहोति । प्रियाङ्गा ह वै नामैते । एतैर् वै देवा अश्वस्याङ्गानि समदधुः । यत् प्रियङ्गुतण्डुलैर् जुहोति । अश्वस्यैवाङ्गानि संदधाति । दशान्नानि जुहोति । दशाक्षरा विराट् । विराट् कृत्स्नस्यान्नाद्यस्यावरुद्ध्यै ।

अनुवाक 15 VERSE: 1 { 3.8.15.1} प्रजापतिर् अश्वमेधम् असृजत । तꣳ सृष्टꣳ रक्षाꣳस्य् अजिघाꣳसन् । स एतान् प्रजापतिर् नक्तꣳहोमान् अपश्यत् । तान् अजुहोति । तैर् वै स यज्ञाद् रक्षाꣳस्य् अपाहन् । यन् नक्तꣳहोमाञ् जुहोति । यज्ञाद् एव तैर् यजमानो रक्षाꣳस्य् अपहन्ति । आज्येन जुहोति । वज्रो वा आज्यम् । वज्रेणैव यज्ञाद् रक्षाꣳस्य् अपहन्ति ।

VERSE: 2 { 3.8.15.2} आज्यस्य प्रतिपदं करोति । प्राणो वा आज्यम् । मुखत एवास्य प्राणं दधाति । अन्नहोमाञ् जुहोति । शरीरवद् एवावरुन्धे । व्यत्यासं जुहोति । उभयस्यावरुध्यै । नक्तं जुहोति । रक्षसाम् अपहत्यै । आज्येनान्ततो जुहोति ।

VERSE: 3 { 3.8.15.3} प्राणो वा आज्यम् । उभयत एवास्य प्राणं दधाति । पुरस्ताच् चोपरिष्टाच् च । एकस्मै स्वाहा_इत्य् आह । अस्मिन्न् एव लोके प्रतितिष्ठति । द्वाभ्याꣳ स्वाहा_इत्य् आह । अमुष्मिन्न् एव लोके प्रतितिष्ठति । उभयोर् एव लोकयोः प्रतितिष्ठति । अस्मिꣳश् चामुष्मिꣳश् च । शताय स्वाहा_इत्य् आह । शतायुर् वै पुरुषः शतवीर्यः । आयुर् एव वीर्यम् अवरुन्धे । सहस्राय स्वाहा_इत्य् आह । आयुर् वै सहस्रम् । आयुर् एवावरुन्धे । सर्वस्मै स्वाहा_इत्य् आह । अपरिमितम् एवावरुन्धे ।

अनुवाक 16 VERSE: 1 { 3.8.16.1} प्रजापतिं वा एष ईप्सतीत्य् आहुः । यो ऽश्वमेधेन यजत इति । अथो आहुः । सर्वाणि भूतानीति । एकस्मै स्वाहा_इत्य् आह । प्रजापतिर् वा एकः । तम् एवाऽऽप्नोति । एकस्मै स्वाहा द्वाभ्याꣳ स्वाहा_इत्य् अभिपूर्वम् आहुतीर् जुहोति । अभिपूर्वम् एव सुवर्गं लोकम् एति । 0 एकोत्तरं जुहोति ।

VERSE: 2 { 3.8.16.2} एकवद् एव सुवर्गं लोकम् एति । संततं जुहोति । सुवर्गस्य लोकस्य संतत्यै । शताय स्वाहा_इत्य् आह । शतायुर् वै पुरुषः शतवीर्यः । आयुर् एव वीर्यम् अवरुन्धे । सहस्राय स्वाहा_इत्य् आह । आयुर् वै सहस्रम् । आयुर् एवावरुन्धे । अयुताय स्वाहा नियुताय स्वाहा प्रयुताय स्वाहा_इत्य् आह ।

VERSE: 3 { 3.8.16.3} त्रय इमे लोकाः । इमान् एव लोकान् अवरुन्धे । अर्बुदाय स्वाहा_इत्य् आह । वाग् वा अर्बुदम् । वाचम् एवावरुन्धे । न्यर्बुदाय स्वाहा_इत्य् आह । यो वै वाचो भूमा । तन् न्यर्बुदम् । वाच एव भूमानम् अवरुन्धे । समुद्राय स्वाहा_इत्य् आह ।

VERSE: 4 { 3.8.16.4} समुद्रम् एवाऽऽप्नोति । मध्याय स्वाहा_इत्य् आह । मध्यम् एवाऽऽप्नोति । अन्ताय स्वाहा_इत्य् आह । अन्तम् एव_आप्नोति । परार्धाय स्वाहा_इत्य् आह । परार्धम् एवाऽऽप्नोति । उषसे स्वाहा व्युष्ट्यै स्वाहा_इत्य् आह । रातिर् वा उषाः । अहर् व्युष्टिः । अहोरात्रे एवावरुन्धे । अथो अहोरात्रयोर् एव प्रतितिष्ठति । ता यद् उभयीर् दिवा वा नक्तं वा जुहुयात् । अहोरात्रे मोहयेत् । उषसे स्वाहा व्युष्ट्यै स्वाहा_उदेष्यते स्वाहा_उद्यते स्वाहा_इत्य् अनुदिते जुहोति । उदिताय स्वाहा सुवर्गाय स्वाहा लोकाय स्वाहा_इत्य् उदिते जुहोति । अहोरात्रयोर् अव्यतिमोहाय ।

अनुवाक 17 VERSE: 1 { 3.8.17.1} विभूर् मात्रा प्रभूः पित्रा_इत्य् अश्वनामानि जुहोति । उभयोर् एवैनं लोकयोर् नामधेयं गमयति । आयनाय स्वाहा प्रायणाय स्वाहा_इत्य् उद्द्रावाञ् जुहोति । सर्वम् एवैनम् अस्कन्नꣳ सुवर्गं लोकं गमयति । अग्नये स्वाहा सोमाय स्वाहा_इति पूर्वहोमाञ् जुहोति । पूर्व एव द्विषन्तं भ्रातृव्यम् अतिक्रामति । पृथिव्यै स्वाहा_अन्तरिक्षाय स्वाहा_इत्य् आह । यथायजुर् एव_एतत् । अग्नये स्वाहा सोमाय स्वाहा_इति पूर्वदीक्षा जुहोति । पूर्व एव द्विषन्तं भ्रातृव्यम् अतिक्रामति ।

VERSE: 2 { 3.8.17.2} पृथिव्यै स्वाहा_अन्तरिक्षाय स्वाहा_इत्य् एकविꣳशिनीं दीक्षां जुहोति । एकविꣳशतिर् वै देवलोकाः । द्वादश मासाः पञ्च_ऋतवः । त्रय इमे लोकाः । असाव् आदित्य एकविꣳशः । एष सुवर्गो लोकः । सुवर्गस्य लोकस्य समष्ट्यै । भुवो देवानां कर्मणा_इत्य् ऋतुदीक्षा जुहोति । ऋतून् एवास्मै कल्पयति । अग्नये स्वाहा वायवे स्वाहा_इति जुहोत्य् अनन्तरित्यै ।

VERSE: 3 { 3.8.17.3} अर्वाङ् यज्ञः संक्रामत्व् इत्य् आप्तीर् जुहोति । सुवर्गस्य लोकस्य_आप्त्यै । भूतं भव्यं भविष्यद् इति पर्याप्तीर् जुहोति । सुवर्गस्य लोकस्य पर्याप्त्यै । आ मे गृहा भवन्त्व् इत्य् आभूर् जुहोति । सुवर्गस्य लोकस्य_आभूत्यै । अग्निना तपो ऽन्वभवद् इत्य् अनुभूर् जुहोति । सुवर्गस्य लोकस्य_अनुभूत्यै । स्वाहा_आधिम् आधीताय स्वाहा_इति समस्तानि वैश्वदेवानि जुहोति । समस्तम् एव द्विषन्तं भ्रातृव्यम् अतिक्रामति ।

VERSE: 4 { 3.8.17.4} दद्भ्यः स्वाहा हनूभ्याꣳ स्वाहा_इत्य् अङ्गहोमाञ् जुहोति । अङ्गे_अङ्गे वै पुरुषस्य पाप्मा_उपश्लिष्टः । अङ्गाद्_अङ्गाद् एवैनं पाप्मनस् तेन मुञ्चति । अञ्ज्येताय स्वाहा कृष्णाय स्वाहा श्वेताय स्वाहा_इत्य् अश्वरूपाणि जुहोति । रूपैर् एवैनꣳ समर्धयति । ओषधीभ्यः स्वाहा मूलेभ्यस्ः स्वाहा_इत्य् ओषधिहोमाञ् जुहोति । द्वय्य्ó वा ओषधयः । पुष्पेभ्यो ऽन्याः फलं गृह्णन्ति । मूलेभ्यो ऽन्याः । 0 ता एव_उभयीर् अवरुन्धे ।

VERSE: 5 { 3.8.17.5} वनस्पतिभ्यः स्वाहा_इति वनस्पतिहोमाञ् जुहोति । आरण्यस्यान्नाद्यस्यावरुध्यै । मेषस् त्वा पचतैर् अवत्व् इत्य् अपाव्यानि जुहोति । प्राणा वै देवा अपाव्याः । प्राणान् एवावरुन्धे । कूप्याभ्यः स्वाहा_अद्भ्यः स्वाहा_इत्य् अपाꣳ होमाञ् जुहोति । अप्सु वा आपः । अन्नं वा आपः । अद्भ्यो वा अन्नं जायते । यद् एवाद्भ्यो ऽन्नं जायते । तद् अवरुन्धे ।

अनुवाक 18 VERSE: 1 { 3.8.18.1} अम्भाꣳसि जुहोति । अयं वै लोको ऽम्भाꣳसि । तस्य वसवो ऽधिपतयः । अग्निर् ज्योतिः । यद् अम्भाꣳसि जुहोति । इमम् एव लोकम् अवरुन्धे । वसूनाꣳ सायुज्यं गच्छति । अग्निं ज्योतिर् अवरुन्धे । नभाꣳसि जुहोति । अन्तरिक्षं वै नभाꣳसि ।

VERSE: 2 { 3.8.18.2} तस्य रुद्रा अधिपतयः । वायुर् ज्योतिः । यन् नभाꣳसि जुहोति । अन्तरिक्षम् एवावरुन्धे । रुद्राणाꣳ सायुज्यं गच्छति । वायुं ज्योतिर् अवरुन्धे । महाꣳसि जुहोति । असौ वै लोको महाꣳसि । तस्य_आदित्या अधिपतयः । सूर्यो ज्योतिः ।

VERSE: 3 { 3.8.18.3} यन् महाꣳसि जुहोति । अमुम् एव लोकम् अवरुन्धे । आदित्यानाꣳ सायुज्यं गच्छति । सूर्यं ज्योतिर् अवरुन्धे । नमो राज्ञे नमो वरुणय_इति यव्यानि जुहोति । अन्नाद्यस्यावरुध्यै । मयोभूर् वातो अभि वातूस्रा इति गव्यानि जुहोति । पशूनाम् अवरुध्यै । प्राणाय स्वाहा व्यानाय स्वाहा_इति संततिहोमञ् जुहोति । सुवर्गस्य लोकस्य संतत्यै ।

VERSE: 4 { 3.8.18.4} सिताय स्वाहा_असिताय स्वाहा_इति प्रमुक्तीर् जुहोति । सुवर्गस्य लोकस्य प्रमुक्त्यै । पृथिव्यै स्वाहा_अन्तरिक्षाय स्वाहा_इत्य् आह । यथायजुर् एवैतत् । दत्वते स्वहा_अदन्तकाय स्वाहा_इति शरीरहोमाञ् जुहोति । पितृलोकम् एव तैर् यजमानो ऽवरुन्धे । कस् त्वा युनक्ति स त्वा युनक्त्व् इति परिधीन् युनक्ति । इमे वै लोकाः परिधयः । इमान् एवास्मै लोकान् युनक्ति । सुवर्गस्य लोकस्य समष्ट्यै ।

VERSE: 5 { 3.8.18.5} यः प्राणतो य आत्मदा इति महिमानौ जुहोति । सुवर्गो वै लोको महः । सुवर्गम् एव ताभ्यां लोकं यजमानो ऽवरुन्धे । आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायताम् इति समस्तानि ब्रह्मवर्चसानि जुहोति । ब्रह्मवर्चसम् एव तैर् यजमानो ऽवरुन्धे । जज्ञि बीजम् इति जुहोत्य् अनन्तरित्यै । अग्नये समनमत् पृथिव्यै समनमद् इति संनतिहोमाञ् जुहोति । सुवर्गस्य लोकस्य संनत्यै । भूताय स्वाहा भविष्यते स्वाहा_इति भूताभव्यौ होमौ जुहोति । अयं वै लोको भूतम् ।

VERSE: 6 { 3.8.18.6} असौ भविष्यत् । अनयोर् एव लोकयोः प्रतितिष्ठति । सर्वस्य_आप्त्यै । सर्वस्य_अवरुद्ध्यै । यद् अक्रन्दः प्रथमं जायमान इत्य् अश्वस्तोमीयं जुहोति । सर्वस्य_आप्त्यै । सर्वस्य जित्यै । सर्वम् एव तेन_आप्नोति । सर्वं जयति । यो ऽश्वमेधेन यजते ।

VERSE: 7 { 3.8.18.7} य उ चैनम् एवं वेद । यज्ञꣳ रक्षाꣳस्य् अजिघाꣳसन् । स एतान् प्रजापतिर् नक्तꣳहोमान् अपश्यत् । तान् अजुहोत् । तैर् वै स यज्ञाद् रक्षाꣳस्य् अपाहन् । यन् नक्तंहोमाञ् जुहोति । यज्ञाद् एव तैर् यजमानो रक्षाꣳस्य् अपहन्ति । उषसे स्वाहा व्युष्ट्यै स्वाहा_इत्य् अन्ततो जुहोति । सुवर्गस्य लोकस्य समष्ट्यै ।

अनुवाक 19 VERSE: 1 { 3.8.19.1} एकयूपो वा_एकादशिनी वा । अन्येषां यज्ञानां यूपा भवन्ति । एकविꣳशिन्य् अश्वमेधस्य । स्वर्गस्य लोकस्याभिजित्यै । बैल्वो वा खादिरो वा पालाशो वा । अन्येषां यज्ञक्रतूनां यूपा भवन्ति । राज्जुदाल एकविꣳशत्यरत्निर् अश्वमेधस्य । सुवर्गस्य लोकस्य समष्ट्यै । नान्येषां पशूनां तेजन्या {ड्युमोण्ट तेदन्या} अवद्यन्ति । अवद्यन्त्य् अश्वस्य ।

VERSE: 2 { 3.8.19.2} पाप्मा वै तेजनी {ड्युमोण्ट तेदनी} । पाप्मनो ऽपहत्यै । प्लक्षशाखायाम् अन्येषां पशूनाम् अवद्यन्ति । वेतसशाखायाम् अश्वस्य । अप्सुयोनिर् वा अश्वः । अप्सुजो वेतसः । स्व एवास्य योनाव् अवद्यति । यूपेषु ग्राम्यान् पशून् नियुञ्जन्ति । आरोकेष्व् आरण्यान् धारयन्ति । पशूनां व्यावृत्त्यै । आ ग्राम्यान् पशून्_लभन्ते । प्र_आरण्यान्त् सृजन्ति । पाप्मनो ऽपहत्यै ।

अनुवाक 20 VERSE: 1 { 3.8.20.1} राज्जुदालम् अग्निष्ठं मिनोति । भ्रूणहत्याया अपहत्यै । पौतुद्रवाव् अभितो भवतः । पुण्यस्य गन्धस्यावरुध्यै । भ्रूणहत्याम् एवास्माद् अपहत्य । पुण्येन गन्धेन_उभयतः परिगृह्णाति । षड् बैल्वा भवन्ति । ब्रमवर्चसस्यावरुद्ध्यै । षट् खादिराः । तेजसो ऽवरुध्यै ।

VERSE: 2 { 3.8.20.2} षट् पालाशाः । सोमपीथस्यावरुध्यै । एकविꣳशतिः संपद्यन्ते । एकविꣳशतिर् वै देवलोकाः । द्वादश मासाः पञ्च_ऋतवः । त्रय इमे लोकाः । असाव् आदित्य एकविꣳशः । एष सुवर्गो लोकः । सुवर्गस्य लोकस्य समष्ट्यै । शतं पशवो भवन्ति ।

VERSE: 3 { 3.8.20.3} शतायुः पुरुषः शत_इन्द्रियः । आयुष्य् एव_इन्द्रिये प्रतितिष्ठति । सर्वं वा अश्वमेध्य् आप्नोति । अपरिमिता भवन्ति । अपरिमितस्यावरुद्ध्यै । ब्रह्मवादिनो वदन्ति । कस्मात् सत्यात् । दक्षिणतो ऽन्येषां पशूनाम् अवद्यन्ति । उत्तरतो ऽश्वस्य_इति । वारुणो वा अश्वः ।

VERSE: 4 { 3.8.20.4} एषा वै वरुणस्य दिक् । स्वायाम् एवास्य दिश्य् अवद्यति । यद् इतरेषां पशूनाम् अवद्यति । शतदेवत्यं तेनावरुन्धे । चिते ऽग्नाव् अधि वैतसे कट ऽश्वं चिनोति । अप्सुयोनिर् वा अश्वः अप्सुजो वेतसः । स्व एव_एनं योनौ प्रतिष्ठापयति । पुरस्तात् प्रत्यञ्चं तूपरं चिनोति । पश्चात् प्राचीनं गोमृगम् ।

VERSE: 5 { 3.8.20.5} प्राणापानाव् एवास्मिन्त् सम्यञ्चौ दधाति । अश्वं तूपरं गोमृगम् इति सर्वहुत एताञ् जुहोति । एषां लोकानाम् अभिजित्यै । आत्मना_अभिजुहोति । सात्मानम् एव_एनꣳ सतनुं करोति । सात्मा_अमुष्मिन्_लोके भवति । य एवं वेद । अथो वसोर् एव धारां तेनावरुन्धे । इलुवर्दाय स्वाहा बलिवर्दाय स्वाहा_इत्य् आह । संवत्सरो वा इलुवर्दः । परिवत्सरो बलिवर्दः । संवत्सराद् एव परिवत्सराद् आयुर् अवरुन्धे । आयुर् एवास्मिन् दधाति । तस्माद् अश्वमेधयाजी जरसा विस्रसोमुं लोकम् एति ।

अनुवाक 21 VERSE: 1 { 3.8.21.1} एकविꣳशो ऽग्निर् भवति । एकविꣳशः स्तोमः । एकविꣳशतिर् यूपाः । यथा वा अश्वा वर्षभा वा वृषाणः सꣳस्फुरेरन् । एवम् एतत् स्तोमाः सꣳस्फुरन्ते । यद् एकविꣳशाः । ते यत् समृच्छेरन् । हन्येतास्य यज्ञः । द्वादश एवाग्निः स्याद् इत्य् आहुः । द्वादशः स्तोमः ।

VERSE: 2 { 3.8.21.2} एकादश युपाः । यद् द्वादशो ऽग्निर् भवति । द्वादश मासाः संवत्सरः । संवत्सरेणैवास्मा अन्नम् अवरुन्धे । यद् दश यूपा भवन्ति । दशाक्षरा विराट् । अन्नं विराट् । विराजा_एवान्नाद्यम् अवरुन्धे । य {आनंदा. स} एकादशः । स्तन एवास्यै सः ।

VERSE: 3 { 3.8.21.3} दुह एव_एनां तेन । तद् आहुः । यद् द्वादशो ऽग्निः स्याद् द्वादशः स्तोम एकादश यूपाः । यथा स्थुरिणा यायात् । तादृक् तत् । एकविꣳश एवाग्निः स्याद् इत्य् आहुः । एकविꣳशः स्तोमः । एकविꣳशतिर् यूपाः । यथा प्रष्टिभिर् याति । तादृग् एव तत् ।

VERSE: 4 { 3.8.21.4} यो वा अश्वमेधे तिस्रः ककुभो वेद । ककुद् ध राज्ञां भवति । एकविꣳशो ऽनिर् भवति । एकविꣳशः स्तोमः । एकविꣳशतिर् यूपाः । एता वा अश्वमेधे तिस्रः ककुभः । य एवं वेद । ककुद् ध राज्ञां भवति । यो वा अश्वमेधे त्रीणि शीर्षाणि वेद । शिरो ह राज्ञां भवति । एकविꣳशो ऽग्निर् भवति । एकविꣳशः स्तोमः । एकविꣳशतिर् यूपाः । एतानि वा अश्वमेधे त्रीणि शीर्षाणि । य एवं वेद । शिरो ह राज्ञां भवति ।

अनुवाक 22 VERSE: 1 { 3.8.22.1} देवा वा अश्वमेधे पवमाने । सुवर्गं लोकं न प्राजानन् । तम् अश्वः प्राजानात् । यद् अश्वमेधे ऽश्व्èन मेध्येन_उदञ्चो बहिष्पवमानꣳ सर्पन्ति । सुवर्गस्य लोकस्य प्रज्ञात्यै । न वै मनुष्यः सुवर्गं लोकम् अञ्जसा वेद । अश्वो वै सुवर्गं लोकम् अञ्जसा वेद । यद् उद्गाता_उद्गायेत् । यथा_अक्षेत्रज्ञो ऽन्येन पथा प्रतिपादयेत् । तादृक् तत् ।

VERSE: 2 { 3.8.22.2} उद्गातारम् अपरुद्ध्य । अश्वम् उद्गीथाय वृणीते । यथा क्षेत्रज्ञो ऽञ्जसा नयति । एवम् एवैनम् अश्वः सुवर्गं लोकम् अञ्जसा नयति । पुच्छम् अन्वारभन्ते । सुवर्गस्य लोकस्य समष्ट्यै । हिं करोति । सामैवाकः । हिं करोति । उद्गीथ एवास्य सः ।

VERSE: 3 { 3.8.22.3} वडबा उपरुन्धन्ति । मिथुनत्वाय प्रजात्यै । अथो यथा_उपगातार उपगायन्ति । तादृग् एव तत् । उदगासीद् अश्वो मेध्य इत्य् आह । प्राजापत्यो वा अश्वः । प्रजापतिर् उद्गीथः । उद्गीथम् एवावरुन्धे । अथो ऋक्सामयोर् एव प्रतितिष्ठति । हिरण्येन_उपाकरोति । ज्योतिर् वै हिरण्यम् । ज्योतिर् एव मुखतो दधाति । यजमाने च प्रजासु च । अथो हिरण्यज्योतिर् एव यजमानः सुवर्गं लोकम् एति ।

अनुवाक 23 VERSE: 1 { 3.8.23.1} पुरुषो वै यज्ञः । यज्ञः प्रजापतिः । यद् अश्वे पशून् नियुञ्जन्ति । यज्ञाद् एव तद् यज्ञं प्रयुङ्क्ते । अश्वं तूपरं गोमृगम् । तान् अग्निष्ठ आलभते । सेनामुखम् एव तत् सꣳश्यति । तस्माद् राजमुखं भीष्मं भावुकम् । आग्नेयं कृष्णग्रीवं पुरस्ताल् ललाटे । पूर्वाग्निम् एव तं कुरुते ।

VERSE: 2 { 3.8.23.2} तस्मात् पूर्वाग्निं पुरस्तात् स्थापयन्ति । पौष्णम् अन्वञ्चम् । अन्नं वै पूषा । तस्मात् पूर्वाग्नाव् आहार्यम् आहरन्ति । ऐन्द्रापौष्णम् उपरिष्टात् । ऐन्द्रो वै राजन्यो ऽन्नं पूषा । अन्नाद्येन_एवैनम् उभयतः परिगृह्णाति । तस्माद् राजन्यो ऽन्नादो भावुकः । आग्नेयौ कृष्णग्रीवौ बाहुवोः । बाहुवोर् एव वीर्यं धत्ते ।

VERSE: 3 { 3.8.23.3} तस्माद् राजन्यो बाहुबली भावुकः । त्वाष्ट्रौ लोमशसक्थौ सक्थ्योः । सक्थ्योर् एव वीर्यं धत्ते । तस्माद् राजन्य ऊरुबली भावुकः । शितिपृष्ठौ बार्हस्पत्यौ पृष्ठे । ब्रह्मवर्चसम् एव_उपरिष्टाद् धत्ते । अथो कवचे एवैते अभितः पर्यूहते । तस्माद् राजन्यः संनद्धो वीर्यं करोति । धात्रे पृष_उदरम् अधस्तात् । प्रतिष्ठाम् एवैतां कुरुते । अथो इयं वै धाता । अस्याम् एव प्रतितिष्ठति । सौर्यं बलक्षं पुच्छे । उत्सेधम् एव तं कुरुते । तस्माद् उत्सेधं भये प्रजा अभिसꣳश्रयन्ति ।




प्रपाठक: 9 अनुवाक 1 VERSE: 1 { 3.9.1.1} प्रजापतिर् अश्वमेधम् असृजत । सो ऽस्मात् सृष्टो ऽपाक्रामत् । तम् अष्टादशिभिर् अनुप्रायुङ्क्त । तम् आप्नोत् । तम् आप्त्वा_अष्टादशिभिर् अवारुन्ध । यद् अष्टादशिन आलभ्यन्ते । यज्ञम् एव तैर् आप्त्वा यजमानो ऽवरुन्धे । संवत्सरस्य वा एषा प्रतिमा । यद् अष्टादशिनः । 0 द्वादश मासाः पञ्च्_ऋतवः ।

VERSE: 2 { 3.9.1.2} संवत्सरो ऽष्टादशः । यद् अष्टादशिन आलभ्यन्ते । संवत्सरेम् एव तैर् आप्त्वा यजमानो ऽवरुन्धे । अग्निष्ट्ह्è ऽन्यान् पशून् उपाकरोति । इतरेषु यूपेष्व् अष्टादशिनो ऽजामित्वाय । नव_नव_आलभ्यन्ते सवीर्यत्वाय । यद् आरण्यैः सꣳस्थापयेत् । व्यवस्येतां पितापुत्रौ । व्य् अध्वानः क्रामेयुः । विदूरं ग्रामयोर् ग्रामान्तौ स्याताम् ।

VERSE: 3 { 3.9.1.3} ऋक्षीकाः पुरुषव्याघ्राः परिमोषिणि आव्याधिनीस् तस्करा अरण्येष्व् आजायेरन् । तद् आहुः । अपशवो वा एते । यद् आरण्याः । यद् आरण्यैः सꣳस्थापयेत् । क्षिप्रे यजमानम् अरण्यं मृतꣳ हरेयुः । अरण्यायतना ह्य् आरण्याः पशव इति । यत् पशून् न_आलभेत । अनवरुद्धा अस्य पशवः स्युः । यत् पर्यग्निकृतान् उत्सृजेत् ।

VERSE: 4 { 3.9.1.4} यज्ञवैशसं { यज्ञवेशसं} कुर्यात् । यत् पशून् आलभते । तेन_एव पशून् अवरुन्धे । यत् पर्यग्निकृतान् उत्सृजत्य् अयज्ञवैशसाय { अयज्ञवेशसाय} । अवरुद्धा अस्य पशवो भवन्ति । न यज्ञवैशसं { यज्ञवेशसं} भवति । न यजमानम् अरण्यं मृतꣳ हरन्ति । ग्राम्यइः सꣳस्थापयति । एते वै पशवः क्षेमो नाम । सं पितापुत्राव् अवस्यतः । सम् अध्वानः क्रामन्ति । समन्तिकं ग्रामयोर् ग्रामान्तौ भवतः । न_ऋक्षीकाः पुरुषव्याघ्राः परिमोषिण आव्याधिनीस् तस्करा अरण्येष्व् आजायन्ते ।

अनुवाक 2 VERSE: 1 { 3.9.2.1} प्रजापतिर् अकामयत_उभौ लोकाव् अवरुन्धीय_इति । स एतान् उभयान् पशून् अपश्यत् । ग्राम्याꣳश् च_आरण्याꣳश् च । तान् आलभत । तैर् वै स उभौ लोकाव् अवारुन्ध । ग्राम्यैर् एव पशुभिर् इमं लोकम् अवारुन्ध । आरण्यैर् अमुम् । यद् ग्राम्यान् पशून् आलभते । इमम् एव तैर् लोकम् अवरुन्धे । यद् आरण्यान् ।

VERSE: 2 { 3.9.2.2} अमुं तैः । अनवरुद्धो वा एतस्य संवत्सर इत्य् आहुः । य इत_इतश् चातुर्मास्यानि संवत्सरं प्रयुङ्क्त इति । एतावान् वै संवत्सरः । यच् चातुर्मास्यानि । यद् एते चातुर्मास्याः पशव आलभ्यन्ते । प्रत्यक्षम् एव तैः संवत्सरं यजमानो ऽवरुन्धे । वि वा एष प्रजया पशुभिर् ऋध्यते । यः संवत्सरं प्रयुङ्क्ते । संवत्सरः सुवर्गो लोकः ।

VERSE: 3 { 3.9.2.3} सुवर्गं तु लोकं नापराध्नोति । प्रजा वै पशव एकादशिनी । यद् एत ऐकादशिनाः पशव आलभ्यन्ते । साक्षाद् एव प्रजां पशून् यजमानो ऽवरुन्धे । प्रजापतिर् विराजम् असृजत । सा सृष्टा_अश्वमेधं प्रविशत् । तां दशिभिर् अनु प्रायुङ्क्त । ताम् आप्नोत् । ताम् आप्त्वा दशिभिर् अवारुन्ध । यद् दशिन आलभ्यन्ते ।

VERSE: 4 { 3.9.2.4} विराजम् एव तैर् आप्त्वा यजमानो ऽवरुन्धे । एकादश दशत आलभ्यन्ते । एकादशाक्षरा त्रिष्टुप् । त्रैष्टुभाः पशवः । पशून् एवावरुन्धे । वैश्वदेवो वा अश्वः । नानादेवत्याः पशवो भवन्ति । अश्वस्य सर्वत्वाय । नानारूपा भवन्ति । तस्मान् नानारूपाः पशवः । बहुरूपा भवन्ति । तस्माद् बहुरूपाः पशवः समृद्ध्यै ।

अनुवाक 3 VERSE: 1 { 3.9.3.1} अस्मै वै लोकाय ग्राम्याः पशव आलभ्यन्ते । अमुष्मा आरण्याः । यद् ग्राम्यान् पशून् आलभते । इमम् एव तैर् लोकम् अवरुन्धे । यद् आरण्यान् । अमुं तैः । उभयान् पशून् आलभते । ग्राम्याꣳश् च_आरण्याꣳश् च । उभयोर् लोकयोर् अवरुद्ध्यै । उभयान् पशून् आलभते ।

VERSE: 2 { 3.9.3.2} ग्राम्याꣳश् च_आरण्याꣳश् च । उभयस्यान्नाद्यस्यावरुद्ध्यै । उभयान् पशून् आलभते । ग्राम्याꣳश् च_आरण्याꣳश् च । उभयेषां पशूनाम् अवरुद्ध्यै । त्रयस्_त्रयो भवन्ति । त्रय इमे लोकाः । एषां लोकानाम् आप्त्यै । ब्रह्मवादिनो वदन्ति । कस्मात् सत्यात् ।

VERSE: 3 { 3.9.3.3} अस्मिन्_ लोके बहवः कामा इति । यत् समानीभ्यो देवताभ्यो ऽन्येऽ_न्ये पशव आलभ्यन्ते । अस्मिन्न् एव तल् लोके कामान् दधाति । तस्माद् अस्मिन्_ लोके बहवः कामाः । त्रयाणां_त्रयाणाꣳ सह वपा जुहोति । त्र्यावृतो वै देवाः । त्र्यावृत इमे लोकाः । एषां लोकानाम् आप्त्यै । एषां लोकानां क्लृप्त्यै । पर्यग्निकृतान् आरण्यान् उत्सृजन्त्य् अहिꣳसायै ।

अनुवाक 4 VERSE: 1 { 3.9.4.1} युञ्जन्ति ब्रध्नम् इत्य् आह । असौ वा आदित्यो ब्रध्नः । आदित्यम् एवास्मै युनक्ति । अरुषम् इत्य् आह । अग्निर् वा अरुषः । अग्निम् एवास्मै युनक्ति । चरन्तम् इत्य् आह । वायुर् वै चरन् । वायुम् एवास्मै युनक्ति । परितस्थुष इत्य् आह ।

VERSE: 2 { 3.9.4.2} इमे वै लोकाः परितस्थुषः । इमन् एवास्मै लोकान् युनक्ति । रोचन्ते रोचना दिवीत्य् आह । नक्षत्राणि वै रोचना दिवि । नक्षत्राण्य् एवास्मै रोचयति । युञ्जन्त्य् अस्य काम्या_इत्य् आह । कामान् एवास्मै युनक्ति । हरी विपक्षसा_इत्य् आह । इमे वै हरी विपक्षसा । इमे एवास्मै युनक्ति ।

VERSE: 3 { 3.9.4.3} शोणा धृष्णू नृवाहसा_इत्य् आह । अहोरात्रे वै नृवाहसा । अहोरात्रे एवास्मै युनक्ति । एता एवास्मै देवता युनक्ति । सुवर्गस्य लोकस्य समष्ट्यै । केतुं कृण्वन्न् अकेतव इति ध्वजं प्रतिमुञ्चति । यश एव_एनꣳ राज्ञां गमयति । जीमूतस्य_इव भवति प्रतीकम् इत्य् आह । यथायजुर् एव_एतत् । ये ते पन्थानः सवितः पूर्व्यास इत्य् अध्वर्युर् यजमानं वाचयत्य् अभिजित्यै ।

VERSE: 4 { 3.9.4.4} परा वा एतस्य यज्ञ एति । यस्य पशुर् उपाकृतो ऽन्यत्र वेद्या एति । एतꣳ स्तोतर् एतेन पथा पुनर् अश्वम् आवर्तयासि न इत्य् आह । वायुर् वै स्तोता । वायुम् एवास्य परस्ताद् दधात्य् आवृत्त्यै । यथा वै हविषो गृहीतस्य स्कन्दति । एवं वा एतद् अश्वस्य स्कन्दति । यद् अस्य_उपाकृतस्य लोमानि शीयन्ते । यद् वालेषु काचान् आवयन्ति । लोमान्य् एवास्य तत् संभरन्ति ।

VERSE: 5 { 3.9.4.5} भूर् भुवः सुवर् इति प्राजापत्याभिर् आवयन्ति । प्राजापत्यो वा अश्वः । स्वया_एवैनं देवतया समर्धयन्ति । भूर् इति महिषी । भुव इति वावाता । सुवर् इति परिवृक्त्ī́ । एषां लोकानाम् अभिजित्यै । हिरण्ययाः काचा भवन्ति । ज्योतिर् वै हिरण्यम् । राष्ट्रम् अश्वमेधः ।

VERSE: 6 { 3.9.4.6} ज्योतिश् चैवास्मै राष्ट्रं च समीची दधाति । सहस्रं भवन्ति । सहस्रसंमितः सुवर्गो लोकः । सुवर्गस्य लोकस्याभिजित्यै । अप वा एतस्मात् तेज इन्द्रियं पशवः श्रीः क्रामन्ति । यो ऽश्वमेधेन यजते । वसवस् त्वा_अञ्जन्तु गायत्रेण छन्दसा_इति महिष्य् अभ्यनक्ति । तेजो वा आज्यम् । तेजो गायत्री । तेजसा_एवास्मै तेजो ऽवरुन्धे ।

VERSE: 7 { 3.9.4.7} रुद्रास् त्वा_अञ्जन्तु त्रैष्टुभेन छन्दसा_इति वावाता । तेजो वा आज्यम् । इन्द्रियं त्रिष्टुप् । तेजसा_एवास्मा इन्द्रियम् अवरुन्धे । आदित्यास् त्वा_अञ्जन्तु जागतेन छन्दसा_इति परिवृक्त्ī́ । तेजो वा आज्यम् । पशवो जगती । तेजसा_एवास्मै पशून् अवरुन्धे । पत्नयो ऽभ्यञ्जन्ति । श्रिया वा एतद् रूपम् ।

VERSE: 8 { 3.9.4.8} यत् पत्नयः । श्रियम् एवास्मिन् तद् दधति । नास्मात् तेज इन्द्रियं पशवः श्र्ī̀र् अपकामन्ति । लाजी3न्_ शाची3न् यशो ममा3ꣳ { ममा4ꣳ} इत्य् अतिरिक्तम् अन्नम् अश्वाय_उपाहरन्ति । प्रजाम् एवान्नादीं कुर्वते । एतद् देवा अन्नम् अत्त_एतद् अन्नम् अद्धि प्रजापत इत्य् आह । प्रजायाम् एवान्नाद्यं दधते । यदि नावजिघ्रेत् । अग्निः पशुर् आसीद् इत्य् अवघ्रापयेत् । अव हैव जिघ्रति । आक्रान् वाजी क्रमैर् अत्यक्रमीद् वाजी द्यौस् ते पृष्ठं पृथिवी सधस्थम् इत्य् अश्वम् अनुमन्त्रयते । एषां लोकानाम् अभिजित्यै । समिद्धो अञ्जन् कृदरं मतीनाम् इत्य् अश्वस्य_आप्रियो भवन्ति सरूपत्वाय ।

अनुवाक 5 VERSE: 1 { 3.9.5.1} तेजसा वा एष ब्रह्मवर्चसेन व्यृध्यते । यो ऽश्वमेधेन यजते । होता च ब्रह्मा च ब्रह्मोद्यं वदतः । तेजसा चैवैनं ब्रह्मवर्चसेन च समर्धयतः । दक्षिणतो ब्रह्मा भवति । दक्षिणतāयतनो वै ब्रह्मा । बार्हस्पत्यो वै ब्रह्मा । ब्रह्मवर्चसम् एवास्य दक्षिणतो दधाति । तस्माद् दक्षिणो ऽर्धो ब्रह्मवर्चसितरः । उत्तरतो होता भवति ।

VERSE: 2 { 3.9.5.2} उत्तरतāयतनो वै होता । आग्नेयो वै होता । तेजो वा अग्निः । तेज एवास्य_उत्तरतो दधाति । तस्माद् उत्तरो ऽर्धस् तेजस्वितरः । यूपम् अभितो वदतः । यजमानदेवत्यो वै यूपः । यजमानम् एव तेजसा च ब्रह्मवर्चसेन च समर्धयतः । किꣳ स्विद् आसीत् पूर्वचित्तिर् इत्य् आह । द्यौर् वै वृष्टिः पूर्वचित्तिः ।

VERSE: 3 { 3.9.5.3} दिवम् एव वृष्टिम् अवरुन्धे । किꣳ स्विद् आसीद् बृहद् वय इत्य् आह । अश्वो वै बृहद् वयः । अश्वम् एवावरुन्धे । किꣳ स्विद् आसीत् पिशङ्गिला_इत्य् आह । रात्रिर् वै पिशङ्गिला । रात्रिम् एवावरुन्धे । किꣳ स्विद् आसीत् पिलिप्पिला_इत्य् आह । श्रीर् वै पिलिप्पिला । अन्नाद्यम् एवावरुन्धे ।

VERSE: 4 { 3.9.5.4} कः स्विद् एकाकी चरतीत्य् आह । असौ वा आदित्य एकाकी चरति । तेज एवावरुन्धे । क उ स्विज् जायते पुनर् इत्य् आह । चन्द्रमा वै जायते पुनः । आयुर् एवावरुन्धे । किꣳ स्विद् धिमस्य भेषजम् इत्य् आह । अग्निर् वै हिमस्य भेषजम् । ब्रह्मवर्चसम् एवावरुन्धे । किꣳ स्विद् आवपनं महद् इत्य् आह ।

VERSE: 5 { 3.9.5.5} अयं वै लोक आवपनं महत् । अस्मिन्न् एव लोके प्रतितिष्ठति । पृच्छामि त्वा परम् अन्तं पृथिव्या इत्य् आह । वेदिर् वै परो ऽन्तः पृथिव्याः । वेदिम् एवावरुन्धे । पृच्छामि त्वा भुवनस्य नाभिम् इत्य् आह । यज्ञो वै भुवनस्य नाभिः । यज्ञम् एवावरुन्धे । पृच्छामि त्वा वृष्णो अश्वस्य रेत इत्य् आह । सोमो वै वृष्णो अश्वस्य रेतः । सोमपीथम् एवावरुन्धे । पृच्छामि वाचः परमं व्योम_इत्य् आह । ब्रह्म वै वाचः परमं व्योम । ब्रहम्वर्चसम् एवावरुन्धे ।

अनुवाक 6 VERSE: 1 { 3.9.6.1} अप वा एतस्मात् प्राणाः क्रामन्ति । यो ऽश्वमेधेन यजते । प्राणाय स्वाहा व्यानाय स्वाहा_इति संज्ञप्यमान आहुतीर् जुहोति । प्राणान् एवास्मिन् दधाति । नास्मात् प्राणा अपक्रामन्ति । अवन्तीः स्थावन्तीस् त्वावन्तु । प्रियं त्वा प्रियाणाम् । वर्षिष्ठम् आप्यानाम् । निधीनां त्वा निधिपतिꣳ हवामहे वसो मम_इत्य् आह । अप_एवास्मै तद् ध्नुवते ।

VERSE: 2 { 3.9.6.2} अथो धुवन्त्य् एव_एनम् । अथो न्य् एवास्मै ह्नुवते । त्रिः परियन्ति त्रय इमे लोकाः । एभ्य एव_एनं लोकेभ्यो धुवते । त्रिः पुनः परियन्ति । षट् संपद्यन्ते । षड् वा ऋतवः । ऋतुभिर् एवैनं धुवते । अप वा एतेभ्यः प्राणाः क्रामन्ति ।

VERSE: 3 { 3.9.6.3} ये यज्ञे धुवनं तन्वते । नवकृत्वः परियन्ति । नव वै पूरुषे प्राणाः । प्राणान् एवाऽऽत्मन् दधते । न_एभ्यः प्राणा अपक्रामन्ति । अम्बे अम्बाल्य् अम्बिक इति पत्नीम् उदानयति । अह्वत_एवैनाम् । सुभगे काम्पीलवासिनी_इत्य् आह । तप एवैनाम् उपनयति । सुवर्गे लोके सं प्रोर्ण्वाथाम् इत्य् आह ।

VERSE: 4 { 3.9.6.4} सुवर्गम् एव_एनां लोकं गमयति । आ_अहम् अजानि गर्भधम् आ त्वम् अजासि गर्भधम् इत्य् आह । प्रजा वै पशवो गर्भः । प्रजाम् एव पशून् आत्मन् धत्ते । देवा वा अश्वमेधे पवमाने । सुवर्गं लोकं न प्राजानन् । तम् अश्वः प्राजानात् । यत् सूचीभिर् असिपथान् कल्पयन्ति । सुवर्गस्य लोकस्य प्रज्ञात्यै । गायत्री त्रिष्टुब् जगती_इत्य् आह ।

VERSE: 5 { 3.9.6.5} यथायजुर् एव_एतत् । त्रय्यः सूच्य्ò भवन्ति । अयस्मय्यो रजता हरिण्यः । अस्य वै लोकस्य रूपम् अयस्मय्यः । अन्तरिक्षस्य रजताः । दिवो हरिण्यः । दिशो वा अयस्मय्यः । अवान्तरदिशा रजताः । ऊर्ध्वा हरिण्यः । दिश एवास्मै कल्पयति । कस् त्वा छ्यति कस् त्वा विशास्तीत्य् आहाहिꣳसायै ।

अनुवाक 7 VERSE: 1 { 3.9.7.1} अप वा एतस्मात्_श्री राष्ट्रं क्रामति । यो ऽश्वमेधेन यजते । ऊर्ध्वाम् एनाम् उच्छ्रयताद् इत्य् आह । श्रीर् वै राष्ट्रम् अश्वमेधः । श्रियम् एवास्मै राष्ट्रमूर्ध्वम् उच्छ्रयति । वेणुभारं गिराव् इव_इत्य् आह । राष्ट्रं वै भारः । राष्ट्रम् एवास्मै पर्यूहति । अथास्या मध्यम् एधताम् इत्य् आह । श्रीर् वै राष्ट्रस्य मध्यम् ।

VERSE: 2 { 3.9.7.2} श्रियम् एवावरुन्धे । शीते वाते पुनन्न् इव_इत्य् आह । क्षेमो वै राष्ट्रस्य शीतो वातः । क्षेमम् एवावरुन्धे । यद् धरिणी यवम् अत्तीत्य् आह । विड् वै हरिणी । राष्ट्रं यवः । विशं चैवास्मै राष्ट्रं च समीची दधाति । न पुष्टं पशु मन्यत इत्य् आह । तस्माद् राजा पशून् न पुष्यति ।

VERSE: 3 { 3.9.7.3} शूद्रा यद् अर्यजारा न पोषाय धनायतीत्य् आह । तस्माद् वैशीपूत्रं नाभिषिञ्चन्ते । इयं यका शकुन्तिका_इत्य् आह । विड् वै शकुन्तिका । राष्ट्रम् अश्वमेधः । विशं चैवास्मै । राष्ट्रं च समीची दधाति । आहलम् इति सर्पतीत्य् आह । तस्माद् राष्ट्राय विशः सर्पन्ति । आहतं गभे पस इत्य् आह । विड् वै गभः ।

VERSE: 4 { 3.9.7.4} राष्ट्रं पसः । राष्ट्रम् एव विश्य् आहन्ति । तस्माद् राष्ट्रं विशं घातुकम् । माता च ते पिता च त इत्य् आह । इयं वै माता । असौ पिता । आभ्याम् एवैनं परिददाति । अग्रं वृक्षस्य रोहत इत्य् आह । श्रीर् वै वृक्षस्याग्रम् । श्रियम् एवावरुन्धे ।

VERSE: 5 { 3.9.7.5} प्रसुलामीति ते पिता गभे मुष्टिम् अतꣳसयद् इत्य् आह । विड् वै गभः । राष्ट्रं मुष्टिः । राष्ट्रम् एव विश्य् आहन्ति । तस्माद् राष्ट्रं विश घातुकम् । अप वा एतेभ्यः प्राणाः क्रामन्ति । ये यज्ञे ऽपूतं वदन्ति । दधिक्राव्णो अकारिषम् इति सुरभिमतीम् ऋचं वदन्ति । प्राणा वै सुरभयः । प्राणान् एवाऽऽत्मन् दधते । न_एभ्यः प्राणा अपक्रामन्ति । आपो हि ष्ठा मयोभुव इत्य् अद्भिर् मार्जयन्ते । आपो वै सर्वा देवताः । देवताभिर् एवाऽऽत्मानं पवयन्ते ।

अनुवाक 8 VERSE: 1 { 3.9.8.1} प्रजापतिः प्रजाः सृष्ट्वा प्रेणा_अनुप्राविशत् । ताभ्यः पुनः संभवितुं नाशक्नोत् । सो ऽब्रवीत् । ऋध्नवद् इत् सः । यो मे ऽतः पुनः संभरद् इति । तं देवा अश्वमेधेन_एव समभरन् । ततो वै त आर्ध्नुवन् । यो ऽश्वमेधेन यजते । प्रजापतिम् एव सम्भरत्य् ऋध्नोति । पुरुषम् आलभते ।

VERSE: 2 { 3.9.8.2} वैराजो वै पुरुषः । विराजम् एवाऽऽलभते । अथो अन्नं वै विराट् । अन्नम् एवावरुन्धे । अश्वम् आलभते । प्राजापत्यो वा अश्वः । प्रजापतिम् एवाऽऽलभते । अथो श्रीर् वा एकशफम् । श्रियम् एवावरुन्धे । गाम् आलभते ।

VERSE: 3 { 3.9.8.3} यज्ञो वै गौः । यज्ञम् एवाऽऽलभते । अथो अन्नं वै गौः । अन्नम् एवावरुन्धे । अजावी आलभते भूम्ने । अथो पुष्टिर् वै भूमा । पुष्टिम् एवावरुन्धे । पर्यग्निकृतं पुरुषं च_आरण्याꣳश् च_उत्सृजन्त्य् अहिꣳसायै । उभौ वा एतौ पशू आलभ्येते । यश् चावमो यश् च परमः । ते ऽस्य_उभये यज्ञे बद्धाः । अभीष्टा अभिप्रीताः । अभिजिता अभिहुता भवन्ति । न_एनं दंक्ष्णवः पशवो यज्ञे बद्धाः । अभीष्टा अभिप्रीताः । अभिजिता अभिहुता हिꣳसन्ति । यो ऽश्वमेधेन यजते । य उ चैनम् एवं वेद ।

अनुवाक 9 VERSE: 1 { 3.9.9.1} प्रथमेन वा एष स्तोमेन राध्वा । चतुष्टोमेन कृतेनायानाम् उत्तरे ऽहन् । एकविꣳशे प्रतिष्ठायां प्रतितिष्ठति । एकविꣳशात् प्रतिष्ठाया ऋतून् अन्वारोहति । ऋतवो वै पृष्ठानि । ऋतवः संवत्सरः । ऋतुष्व् एव संवत्सरे प्रतिष्ठाय । देवता अभ्यारोहति । शक्वरयः पृष्ठं भवन्त्य् अन्यद्_अन्यच् छन्दः । अन्ये_ऽन्ये वा एते पशव आलभ्यन्ते ।

VERSE: 2 { 3.9.9.2} उत_इव ग्राम्याः । उत_इवाऽऽरण्याः । अहर् एव रूपेण समर्धयति । अथो अह्न एव_एष बलिर् ह्रियते । तद् आहुः । अपशवो वा एते । यद् अजावयश् च_आरण्याश् च । एते वै सर्वे पशवः । यद् गव्या इति । गव्यान् पशून् उत्तमे ऽहन्न् आलभते ।

VERSE: 3 { 3.9.9.3} तेन_एव_उभयान् पशून् अवरुन्धे । प्राजापत्या भवन्ति । अनभिजितस्याभिजित्यै । सौरीर् नव श्वेता वशा अनूबन्ध्ā̀ भवन्ति । अन्तत एव ब्रह्मवर्चसम् अवरुन्धे । सोमाय स्वराज्ञे ऽनोवाहाव् अनड्वाहाव् इति द्वन्द्व्íनः पशून् आलभते । अहोरात्राणाम् अभिजित्यै । पशुभिर् वा एष व्यृध्यते । यो ऽश्वमेधेन यजते । छगलं कल्माषं किकिदीविं विदीगयम् इति त्वाष्ट्रान् पशून् आलभते । पशुभिर् एवाऽऽत्मानꣳ समर्धयति । ऋतुभिर् वा एष व्यृध्यते । यो ऽश्वमेधेन यजते । पिशङ्गास् त्रयो वासन्ता इत्य् ऋतुपशून् आलभते । ऋतुभिर् एवाऽऽत्मानꣳ समर्धयति । आ वा एष पशुभ्यो वृश्च्यते । यो ऽश्वमेधेन यजते । पर्यग्निकृता उत्सृजन्त्य् अनाव्रस्काय ।

अनुवाक 10 VERSE: 1 { 3.9.10.1} प्रजापतिर् अकामयत महान् अन्नादः स्याम् इति । स एताव् अश्वमेधे महिमानाव् अपश्यत् । ताव् अगृह्णीत । ततो वै स महान् अन्नादो ऽभवत् । यः कामयेत महान् अन्नादः स्याम् इति । स एताव् अश्वमेधे महिमानौ गृह्णीत । महान् एवान्नादो भवति । यजमानदेवत्या वै वपा । राजा महिमा । यद् वपां महिम्ना_उभयतः परियजति । यजमानम् एव राज्येन_उभयतः परिगृह्णाति । पुरस्तात्स्वाहाकारा वा अन्ये देवाः । उपरिष्टात्स्वाहाकारा अन्ये । ते वा एते ऽश्व एव मेध्य उभये ऽवरुध्यन्ते । यद् वपां महिम्ना_उभयतः परियजति । तान् एव_उभयान् प्रीणाति ।

अनुवाक 11 VERSE: 1 { 3.9.11.1} वैश्वदेवो वा अश्वः । तं यत् प्राजापत्यं कुर्यात् । या देवता अपिभागाः । ता भागधेयेन व्यर्धयेत् । देवताभ्यः समदं दध्यात् । स्तेगान् दꣳष्ट्राभ्यां मण्डूकाञ् जम्भ्येभिर् इति । आज्यम् अवदानं कृत्वा प्रतिसंख्यायम् आहुतीर् जुहोति । या एव देवता अपिभागाः । ता भागधेयेन समर्धयति । न देवताभ्यः समदं दधाति ।

VERSE: 2 { 3.9.11.2} चतुर्दश_एतान् अनुवाकाञ् जुहोत्य् अनन्तरित्यै । प्रयासाय स्वाहा_इति पञ्चदशम् । पञ्चदश वा अर्धमासस्य रात्रयः । अर्धमासशः संवत्सर आप्यते । देवासुराः संयत्ता आसन् । ते ऽब्रुवन्न् अग्नयः स्विष्टकृतः । अश्वस्य मेध्यस्य वयम् उद्धारम् उद्धरामहै । अथ_एतान् अभिभवाम_इति । ते लोहितम् उदहरन्त । ततो देवा अभवन् ।

VERSE: 3 { 3.9.11.3} परा_असुराः । यत् स्विष्टकृद्भ्यो लोहितं जुहोति भ्रातृव्याभिभूत्यै । भवत्य् आत्मना । परा_अस्य भ्रातृव्यो भवति । गोमृगकण्ट्हेन प्रथमाम् आहुतिं जुहोति । पशवो वै गोमृगः । रुद्रो ऽग्निः स्विष्टकृत् । रुद्राद् एव पशून् अन्तर्दधाति । अथो यत्र_एषा_आहुतिर् हूयते । न तत्र रुद्रः पशून् अभिमन्यते ।

VERSE: 4 { 3.9.11.4} अश्वशफेन द्वितीयाम् आहुतिं जुहोति । पशवो वा एकशफम् । रुद्रो ऽग्निः स्विष्टकृत् । रुद्राद् एव पशून् अन्तर्दधाति । अथो यत्र_एषा_आहुतिर् हूयते । न तत्र रुद्रः पशून् अभिमन्यते । अयस्मयेन कमण्डलुना तृतीयाम् आहुतिं जुहोत्य् आयास्यो वै प्रजाः । रुद्रो ऽग्निः स्विष्टकृत् ।रुद्राद् एव प्रजा अन्तर्दधाति । अथो यत्र_एषा_आहुतिर् हूयते । न तत्र रुद्रः प्रजा अभिमन्यते ।

अनुवाक 12 VERSE: 1 { 3.9.12.1} अश्वस्य वा आलब्धस्य मेध उदक्रामत् । तद् अश्वस्तोमीयम् अभवत् । यद् अश्वस्तोमीयं जुहोति । समेधम् एवैनम् आलभते । आज्येन जुहोति । मेधो वा आज्यम् । मेधो ऽश्वस्तोमीयम् । मेधेन_एवास्मिन् मेधं दधाति । षट्त्रिꣳशतं जुहोति । षट्त्रिꣳशद् अक्षरा बृहती ।

VERSE: 2 { 3.9.12.2} बार्हताः पशवः । सा पशूनां मात्रा । पशून् एव मात्रया समर्धयति । ता यद् भूयसीर् वा कनीयसीर् वा जुहुयात् । पशून् मत्रया व्यर्धयेत् । षट्त्रिꣳशतं जुहोति । षट्त्रिꣳशदक्षरा बृहती । बार्हताः पशवः । सा पशूनां मात्रा । पशून् एव मात्रया समर्धयति ।

VERSE: 3 { 3.9.12.3} अश्वस्तोमीयꣳ हुत्वा द्विपदा जुहोति । द्विपाद् वै पुरुषो द्विप्रतिष्ठः । तद् एनं प्रतिष्ठया समर्धयति । तद् आहुः । अश्वस्तोमीयं पूर्वꣳ होतव्या3ꣳ द्विपदा3 इति । अश्वो वा अश्वस्तोमीयम् । पुरुषो द्विपदाः । अश्वस्तोमीयꣳ हुत्वा द्विपदा जुहोति । तस्माद् द्विपाच् चतुष्पादम् अत्ति । अथो द्विपद्य् एव चतुष्पदः प्रतिष्ठापयति । द्विपदा हुत्वा । नान्याम् उत्तराम् आहुतिं जुहुयात् । यद् अन्याम् उत्तराम् आहुतिं जुहुयात् । प्र प्रतिष्ठायाश् च्यवेत । द्विपदा अन्ततो जुहोति प्रतिष्ठित्यै ।

अनुवाक 13 VERSE: 1 { 3.9.13.1} प्रजापतिर् अश्वमेधम् असृजत । सो ऽस्मात् सृष्टो ऽपाक्रामत् । तं यज्ञक्रतुभिर् अन्वैच्छत् । तं यज्ञक्रतुभिर् नान्वविन्दत् । तमिष्टिभिर् अन्वैच्छत् । तम् इष्टिभिर् अन्वविन्दत् । तद् इष्टीनाम् इष्टित्वम् । यत् संवत्सरम् इष्टिभिर् यजते । अश्वम् एव तद् अन्विच्छति । सावित्रियो भवन्ति ।

VERSE: 2 { 3.9.13.2} इयं वै सविता । यो वा अस्यां नश्यति यो निलयते । अस्यां वाव तं विन्दन्ति । न वा इमाम् कश् चन_इत्य् आहुः । तिर्यङ् न_ऊर्ध्वो ऽत्येतुम् अर्हतीति । यत् सावित्रियो भवन्ति । सवितृप्रसूत एव_एनम् इच्छति । ईश्वरो वा अश्वः प्रमुक्तः परां परावतं गन्तोः । यत् सायं धृतीर् जुहोति । अश्वस्य यत्यै धृत्यै ।

VERSE: 3 { 3.9.13.3} यत् प्रातर् इष्टिभिर् यजते । अश्वम् एव तद् अन्विच्छति । यत् सायं धृतीर् जुहोति । अश्वस्यैव यत्यै धृत्यै । तस्मात् सायं प्रजाः क्षेम्या भवन्ति । यत् प्रातर् इष्टिभिर् यजते । अश्वम् एव तद् अन्विच्छति । तस्माद् दिवा नष्टैष एति । यत् प्रातर् इष्टिभिर् यजते सायं धृतीर् जुहोति । अहोरात्राभ्याम् एवैनम् अन्विच्छति । अथो अहोरात्राभ्याम् एवास्मै योगक्षेमं कल्पयति ।

अनुवाक 14 VERSE: 1 { 3.9.14.1} अप वा एतस्मात्_श्री राष्ट्रं क्रामति । यो ऽश्वमेधेन यजते । ब्राह्मणौ वीणागाथिनौ गायतः । श्रिया वा एतद् रूपम् । यद् वीणा । श्रियम् एवास्मिन् तद् धत्तः । यदा खलु वै पुरुषः श्रियम् अश्नुते । वीणा_अस्मै वाद्यते । तद् आहुः । यद् उभौ ब्राह्मणौ गायेताम् ।

VERSE: 2 { 3.9.14.2} प्रभ्रꣳशुका_अस्मात्_श्रीः स्यात् । न वै ब्राह्मणे श्री रमत इति । ब्राह्मणो ऽन्यो गायेत् । राजन्यो ऽन्यः । ब्रह्म वै ब्राह्मणः । क्षत्रꣳ राजन्यः । तथा हास्य ब्रह्मणा च क्षत्रेण चोभयतः श्रीः परिगृहीता भवति । तद् आहुः । यद् उभौ दिवा गायेताम् । अपास्माद् राष्ट्रं क्रामेत् ।

VERSE: 3 { 3.9.14.3} न वा ब्राह्मणे राष्ट्रꣳ रमत इति । यदा खलु वै राजा कामयते । अथ ब्राह्मणं जिनाति । दिवा ब्राह्मणो गायेत् । नक्तꣳ राजन्यः । ब्रह्मणो वै रूपम् अहः । क्षत्रस्य रात्रिः । तथा हास्य ब्रह्मणा च क्षत्रेण चोभयतो राष्ट्रं परिगृहीतं भवति । इत्य् अददा इत्य् अयजथा इत्य् अपच इति ब्राह्मणो गायेत् । इष्टापूर्तं वै ब्राह्मणस्य ।

VERSE: 4 { 3.9.14.4} इष्टापूर्तेन_एवैनꣳ स समर्धयति । इत्य् अजिना इत्य् अयुध्यथा इत्य् अमुꣳ संग्रामम् अहन्न् इति राजन्यः । युद्धं वै राजन्यस्य । युद्धेन_एवैनꣳ स समर्धयति । अक्लृप्ता वा एतस्य_ऋतव इत्य् आहुः । यो ऽश्वमेधेन यजत इति । तिस्रो ऽन्यो गायति तिस्रो ऽन्यः । षट्त् सम्पद्यन्ते । षड् वा ऋतवः । ऋतून् एवास्मै कल्पयतः । ताभ्याꣳ सꣳस्थायाम् । अनोयुक्ते च शते च ददाति । शतायुः पुरुषः शत_इन्द्रियः । आयुष्य् एव_इन्द्रिये प्रतितिष्ठति ।

अनुवाक 15 VERSE: 1 { 3.9.15.1} सर्वेषु वा एषु लोकेषु मृत्यवो ऽन्वायत्ताः । तेभ्यो यद् आहुतीर् न जुहुयात् । लोके_लोक एनं मृत्युर् विन्देत् । मृत्यवे स्वाहा मृत्यवे स्वाहा_इत्य् अभिपूर्वम् आहुतीर् जुहोति । लोकाल्_लोकाद् एव मृत्युम् अवयजते । न_एनं लोके_लोके मृत्युर् विन्दति । यद् अमुष्मै स्वाहा_अमुष्मै स्वाहा_इति जुह्वत् संचक्षीत । बहुं मृत्युम् अमित्रं कुर्वीत । मृत्यवे स्वाहा_इत्य् एकस्मा एव_एकां जुहुयात् । एको वा अमुष्मिन्_ लोके मृत्युः ।

VERSE: 2 { 3.9.15.2} अशनयामृत्युर् एव । तम् एवामुष्मिन्_लोके ऽवयजते । भ्रूणहत्यायै स्वाहा_इत्य् अवभृथ आहुतिं जुहोति । भ्रूणहत्याम् एवावयजते । तद् आहुः । यद् भ्रूणहत्या_अपात्र्याथ । कस्माद् यज्ञे ऽपि क्रियत इति । अमृत्युर् वा अन्यो भ्रूणहत्याया इत्य् आहुः । भ्रूणहत्या वाव मृत्युर् इति । यद् भ्रूणहत्यायै स्वाहा_इत्य् अवभृथ आहुतिं जुहोति ।

VERSE: 3 { 3.9.15.3} मृत्युम् एव_आहुत्या तर्पयित्वा परिपाणं कृत्वा । भ्रूणघ्ने भेषजं करोति । एताꣳ ह वै मुण्ड्इभ औदन्यवः । {ड्युमोण्ट सुग्गेस्त्स् तो तके ओउत् दण्ड} भ्रूणहत्यायै प्रायश्चित्तिं विदां चकार । यो हास्यापि प्रजायां ब्राह्मणꣳ हन्ति । सर्वस्मै तस्मै भेषजं करोति । जुम्बकाय स्वाहा_इत्य् अवभृथ उत्तमाम् आहुतिं जुहोति । वरुणो वै जुम्बकः । अन्तत एव वरुणम् अवयजते । खलतेर् विक्लिधस्य शुक्लस्य पिङ्गाक्षस्य मूर्धन् जुहोति । एतद् वै वरुणस्य रूपं । रूपेणैव वरुणम् अवयजते ।

अनुवाक 16 VERSE: 1 { 3.9.16.1} वारुणो वा अश्वः । तं देवतया व्यर्धयति । यत् प्राजापत्यं करोति । नमो राज्ञे नमो वरुणाय_इत्य् आह । वारुणो वा अश्वः । स्वया_एवैनं देवतया समर्धयति । नमो ऽश्वाय नमः प्रजापतय इत्य् आह । प्राजापत्यो वा अश्वः । स्वया_एवैनं देवतया समर्धयति । नमो ऽधिपतय इत्य् आह ।

VERSE: 2 { 3.9.16.2} धर्मो वा अधिपतिः । धर्मम् एवावरुन्धे । अधिपतिर् अस्य् अधिपतिं मा कुर्व् अधिपतिर् अहं प्रजानां भूयासम् इत्य् आह । अधिपतिम् एवैनꣳ समानानां करोति । मां धेहि मयि धेहीत्य् आह । आशिषम् एवैताम् आशास्ते । उपाकृताय स्वाहा_इत्य् उपाकृते जुहोति । आलब्धाय स्वाहा_इति नियुक्ते जुहोति । हुताय स्वाहा_इति हुते जुहोति । एषां लोकानाम् अबिजित्यै ।

VERSE: 3 { 3.9.16.3} प्र वा एष एभ्यो लोकेभ्यश् च्यवते । यो ऽश्वमेधेन यजते । आग्नेयम् ऐन्द्राग्नम् आश्विनम् । तान् पशून् आलभते प्रतिष्ठित्यै । यद् आग्नेयो भवति । अग्निः सर्वा देवताः । देवता एवावरुन्धे । ब्रह्म वा अग्निः । क्षत्रम् इन्द्रः । यद् ऐन्द्राग्नो भवति ।

VERSE: 4 { 3.9.16.4} ब्रह्मक्षत्रे एवावरुन्धे । यद् आश्विनो भवति । आशिषाम् अवरुद्ध्यै । त्रयो भवन्ति । त्रय इमे लोकाः । एष्व् एव लोकेषु प्रतितिष्ठति । अग्नये ऽꣳहोमुचे ऽष्टाकपाल इति दशहविषम् इष्टिं निर्वपति । दशाक्षरा विराट् । अन्नं विराट् । विराजा_एवान्नाद्यम् अवरुन्धे । अग्नेर् मन्वे प्रथमस्य प्रचेतस इति याज्यानुवाक्या भवन्ति सर्वत्वाय ।

अनुवाक 17 VERSE: 1 { 3.9.17.1} यद्य् अश्वम् उपतपद् विन्देत् । आग्नेयम् अष्टाकपालं निर्वपेत् । सौम्यं चरुम् । सावित्रम् अष्टाकपालम् । यद् आग्नेयो भवति । अग्निः सर्वा देवताः । देवताभिर् एवैनं भिषज्यति । यत् सौम्यो भवति । सोमो वा ओषधीनाꣳ राजा । याभ्य एवैनं विन्दति ।

VERSE: 2 { 3.9.17.2} ताभिर् एवैनं भिषज्यति । यत् सावित्रो भवति । सवितृप्रसूत एवैनं भिषज्यति । एताभिर् एवैनं देवताभिर् भिषज्यति । अगदो हैव भवति । पौष्णं चरुं निर्वपेत् । यदि श्लोणः स्यात् । पूषा वै श्लोण्यस्य भिषक् । स एवैनं भिषज्यति । अश्लोणो हैव भवति ।

VERSE: 3 { 3.9.17.3} रौद्रं चरुं निर्वपेत् । यदि महती देवता_अभिमन्येत । एतद्देवत्यो वा अश्वः । स्वया_एवैनं देवतया भिषज्यति । अगदो हैव भवति । वैश्वानरं द्वादशकपालं निर्वपेन् मृगाखरे यदि न_आगच्छेत् । इयं वा अग्निर् वैश्वानरः । इयम् एवैनम् अर्चिभ्यां परिरोधम् आनयति । आ हैव सुत्यम् अहर् गच्छति । यद्य् अधीयात् ।

VERSE: 4 { 3.9.17.4} अग्नये ऽꣳहोमुचे ऽष्टाकपालः । सौर्यं पयः । वायव्य आज्यभागः । यजमानो वा अश्वः । अꣳहसा वा एष गृहीतः । यस्याश्वो मेधाय प्रोक्षितो ऽध्येति । यद् अꣳहोमुचे निर्वपति । अꣳहस एव तेन मुच्यते । यजमानो वा अश्वः । रेतसा वा एष व्यृध्यते ।

VERSE: 5 { 3.9.17.5} यस्याश्वो मेधाय प्रोक्षितो ऽध्येति । सौर्यꣳ रेतः । यत् सौर्यं पयो भवति । रेतसा_एवैनꣳ स समर्धयति । यजमानो वा अश्वः । गर्भैर् वा एष व्यृध्यते । यस्याश्वो मेधाय प्रोक्षितो ऽध्येति । वायव्या गर्भाः । यद् वायव्य आज्यभागो भवति । गर्भैर् एवैनꣳ स समर्धयति । अथो यस्यैषाश्वमेधे प्रायश्चितिः क्रियते । इष्ट्वा वसीयान् भवति ।

अनुवाक 18 VERSE: 1 { 3.9.18.1} तद् आहुः । द्वादश ब्रह्मौदनान्त् सꣳस्थिते निर्वपेत् । द्वादशभिर् वेष्टिभिर् यजेत_इति । यद् इष्टिभिर् यजेत । उपनामुक एनं यज्ञः स्यात् । पापीयाꣳस् तु स्यात् । आप्तानि वा एतस्य छन्दाꣳसि । य ईजानः । तानि क एतावदाशु पुनः प्रयुञ्जीत_इति । सर्वा वै सꣳस्थिते यज्ञे वाग् आप्यते ।

VERSE: 2 { 3.9.18.2} सा_आप्ता भवति यातयाम्नी । क्रूरीकृतेव हि भवत्य् अरुष्कृता । सा न पुनः प्रयुज्या_इत्य् आहुः । द्वादश_एव ब्रह्मौदनान्त् सꣳस्थिते निर्वपेत् । प्रजापतिर् वा ओदनः । यज्ञः प्रजापतिः । उपनामुक एनं यज्ञो भवति । न पापीयान् भवति । द्वादश भवन्ति । 0 द्वादश मासाः संवत्सरः । 1 संवत्सर एव प्रतितिष्ठति ।

अनुवाक 19 VERSE: 3 { 3.9.19.3} एष वै विभूर् नाम यज्ञः । सर्वꣳ ह वै तत्र विभु भवति । यत्र_एतेन यज्ञेन यजन्ते । एष वै प्रभूर् नाम यज्ञः । सर्वꣳ ह वै तत्र प्रभु भवति । यत्र_एतेन यज्ञेन यजन्ते । एष वा ऊर्जस्वान् नाम यज्ञः । सर्वꣳ ह वै तत्र_ऊर्जस्वद्भ्अवति । यत्र_एतेन यज्ञेन यजन्ते । एष वै पयस्वान् नाम यज्ञः ।

VERSE: 4 { 3.9.19.4} सर्वꣳ ह वै तत्र पयस्वद् भवति । यत्र_एतेन यज्ञेन यजन्ते । एष वै विधृतो नाम यज्ञः । सर्वꣳ ह वै तत्र विधृतं भवति । यत्र_एतेन यज्ञेन यजन्ते । एष वै व्यावृत्तो नाम यज्ञः । सर्वꣳ ह वै तत्र व्यावृत्तं भवति । यत्र_एतेन यज्ञेन यजन्ते । एष वै प्रतिष्ठितो नाम यज्ञः । सर्वꣳ ह वै तत्र प्रतिष्ठितं भवति ।

VERSE: 5 { 3.9.19.5} यत्र_एतेन यज्ञेन यजन्ते । एष वै तेजस्वी नाम यज्ञः । सर्वꣳ ह वै तत्र तेजस्वि भवति । यत्र_एतेन यज्ञेन यजन्ते । एष वै ब्रह्मवर्चसी नाम यज्ञः । आ ह वै तत्र ब्राह्मणो ब्रह्मवर्चसी जायते । यत्र_एतेन यज्ञेन यजन्ते । एष वा अतिव्याधी नाम यज्ञः । आ ह वै तत्र राजन्यो ऽतिव्याधी जायते । यत्र_एतेन यज्ञेन यजन्ते । एष वै दीर्घो नाम यज्ञः । दीर्घायुषो ह वै तत्र मनुष्या भवन्ति । यत्र_एतेन यज्ञेन यजन्ते । एष वै क्लृप्तो नाम यज्ञः । कल्पते ह वै तत्र प्रजाभ्यो योगक्षेमः । यत्र_एतेन यज्ञेन यजन्ते ।

अनुवाक 20 VERSE: 1 { 3.9.20.1} तार्प्येणाश्वꣳ संज्ञपयन्ति । यज्ञो वै तार्प्यम् । यज्ञेन_एवैनꣳ समर्धयन्ति । यामेन साम्ना प्रस्तोता_अनूपतिष्ठते । यमलोकम् एवैनं गमयति । तार्प्ये च कृत्यधीवासे चाश्वꣳ संज्ञपयन्ति । एतद् वै पशूनाꣳ रूपम् । रूपेणैव पशून् अवरुन्धे । हिरण्यकशिपु भवति । तेजसो ऽवरुद्ध्यै ।

VERSE: 2 { 3.9.20.2} रुक्मो भवति । सुवर्गस्य लोकस्यानुख्यात्यै । अश्वो भवति । प्रजापतेर् आप्त्यै । अस्य वै लोकस्य रूपं तार्प्यम् । अन्तरिक्षस्य कृत्यधीवासः । दिवो हिरण्यकशिपु । आदित्यस्य रुक्मः । प्रजापतेर् अश्वः । इमम् एव लोकं तार्प्येण_आप्नोति ।

VERSE: 3 { 3.9.20.3} अन्तरिक्षं कृत्यधीवासेन । दिवꣳ हिरण्यकशिपुना । आदित्यꣳ रुक्मेण । अश्वेन_एव मेध्येन प्रजापतेः सायुज्यꣳ सलोकताम् आप्नोति । एतासाम् एव देवतानाꣳ सायुज्यम् । सार्ष्टिताꣳ समानलोकताम् आप्नोति । यो ऽश्वमेधेन यजते । य उ चैनम् एवं वेद ।

अनुवाक 21 VERSE: 1 { 3.9.21.1} आदित्याश् चाङ्गिरसश् च सुवर्गे लोके ऽस्पर्धन्त । ते ऽङ्गिरस आदित्येभ्यः । अमुम् आदित्यमश्वꣳ श्वेतं भूतं दक्षिणाम् अनयन् । ते ऽब्रुवन् । यं नो ऽनेष्ट । स वर्यो ऽभूद् इति । तस्माद् अश्वꣳ सवर्य_इत्य् आह्वयन्ति । तस्माद् यज्ञे वरो दीयते । यत् प्रजापतिर् आलब्धो ऽश्वो ऽभवत् । तस्माद् अश्वो नाम ।

VERSE: 2 { 3.9.21.2} यत्_श्वयद् अरुर् आसीत् । तस्माद् अर्वा नाम । यत् सद्यो वाजन्त् समजयत् । तस्माद् वाजी नाम । यद् असुराणां लोकान् आदत्त । तस्माद् आदित्यो नाम । अग्निर्वा अश्वमेधस्य योनिर् आयतनम् । सूर्यो ऽग्नेर् योनिर् आयतनम् । यद् अश्वमेधे ऽग्नौ चित्य उत्तरवेदिम् उपवपति । योनिमन्तम् एवैनम् आयतनवन्तं करोति ।

VERSE: 3 { 3.9.21.78} योनिमान् आयतनवान् भवति । य {आनंदा. स} एवं वेद । प्राणापानौ वा एतौ देवानाम् । यद् अर्काश्वमेधौ । प्राणापानाव् एवावरुन्धे । ओजो बलं वा एतौ देवानाम् । यद् अर्काश्वमेधौ । ओजो बलम् एवावरुन्धे । अग्निर् वा अश्वमेधस्य योनिर् आयतनम् । सूर्यो ऽग्नेर् योनिर् आयतनम् । यद् अश्वमेधे ऽग्नौ चित्य उत्तरवेदिं चिनोति । ताव् अर्काश्वमेधौ । अर्काश्वमेधाव् एवावरुन्धे । अथो अर्काश्वमेधयोर् एव प्रतितिष्ठति ।

अनुवाक 22 VERSE: 1 { 3.9.22.1} प्रजापतिं वै देवाः पितरम् । पशुं भूतं मेधाय_आलभन्त । तम् आलभ्य_उपावसन् । प्रातर् यष्टास्मह इति । एकं वा एतद् देवानाम् अहः । यत् संवत्सरः । तस्माद् अश्वः पुरस्तात् संवत्सर आलभ्यते । यत् प्रजापतिर् आलब्धो ऽश्वो ऽभवत् । तस्माद् अश्वः । यत् सद्यो मेधो ऽभवत् ।

VERSE: 2 { 3.9.22.2} तस्माद् अश्वमेधः । वेदुको ऽश्वम् आशुं भवति । य एवं वेद । यद् वै तत् प्रजापतिर् आलब्धो ऽश्वो ऽभवत् । तस्माद् अश्वः प्रजापतेः पशूनाम् अनुरूपतमः । आ_अस्य पुत्रः प्रतिरूपो जायते । य एवं वेद । सर्वाणि भूतानि सम्भृत्य_आलभते । सम् एनं देवास् तेजसे ब्रह्मवर्चसाय भरन्ति । यो ऽश्वमेधेन यजते ।

VERSE: 3 { 3.9.22.3} य उ चैनम् एवं वेद । एतद् वै तद् देवा एतां देवताम् । पशुं भूतं मेधाय_आलभन्त । यज्ञम् एव । यज्ञेन यज्ञम् अयजन्त देवाः । कामप्रं यज्ञम् अकुर्वत । ते ऽमृतत्वम् अकामयन्त । ते ऽमृतत्वम् अगच्छन् । यो ऽश्वमेधेन यजते । देवानाम् एव_आयनेन_एति ।

VERSE: 4 { 3.9.22.4} प्राजापत्येन_एव यज्ञेन यजते कामप्रेण । अपुनर्मारम् एव गच्छति । एतस्य वै रूपेण पुरस्तात् प्राजापत्यम् ऋषभं तूपरं बहुरूपम् आलभते । सर्वेभ्यः कामेभ्यः । सर्वस्य_आप्त्यै । सर्वस्य जित्यै । सर्वम् एव तेन_आप्नोति । सर्वं जयति । यो ऽश्वमेधेन यजते । य उ चैनम् एवं वेद ।

अनुवाक 23 VERSE: 1 { 3.9.23.83} यो वा अश्वस्य मेध्यस्य लोमनी वेद । अश्वस्यैव मेध्यस्य लोमꣳल्लोमञ्जुहोति । अहोरात्रे वा अश्वस्य मेध्यस्य लोमनी । यत् सायम्प्रातर् जुहोति । अश्वस्यैव मेध्यस्य लोमꣳल्लोमञ् जुहोति । एतदनुकृति ह स्म वै पुरा । अश्वस्य मेध्यस्य लोमꣳल्लोमञ् जुह्वति । यो वा अश्वस्य मेध्यस्य पदे वेद । अश्वस्यैव मेध्यस्य पदेपदे जुहोति । दर्शपूर्णमासौ वा अश्वस्य मेध्यस्य पदे ।

VERSE: 2 { 3.9.23.2} यद् दर्शपूर्णमासौ यजते । अश्वस्यैव मेध्यस्य पदेपदे जुहोति । एतदनुकृति ह स्म वै पुरा । अश्वस्य मेध्यस्य पदेपदे जुह्वति । यो वा अश्वस्य मेध्यस्य विवर्तनं वेद । अश्वस्यैव मेध्यस्य विवर्तने विवर्तने जुहोति । असौ वा आदित्यो ऽश्वः । स आहवनीयम् आगच्छति । तद् विवर्तते । यद् अग्निहोत्रं जुहोति । अश्वस्यैव मेध्यस्य विवर्तनेविवर्तने जुहोति । एतदनुकृति ह स्म वै पुरा । अश्वस्य मेध्यस्य विवर्तनेविवर्तने जुह्वति ।




प्रपाठक: 10 अनुवाक 1 सावित्रचयनम् VERSE: 1 { 3.10.1.1} संज्ञानं विज्ञानं प्रज्ञानं जानद् अभिजानत् । संकल्पमानं प्रकल्पमानम् उपकल्पमानम् उपक्लृप्तं क्लृप्तम् । श्रेयो वसीय आयत् सम्भूतं भूतम् । चित्रः केतुः प्रभान् आभान्त् संभान् । ज्योतिष्माꣳस् तेजस्वान् आतपꣳस् तपन्न् अभितपन् । रोचनो रोचमानः शोभनः शोभमानः कल्याणः । दर्शा दृष्टा दर्शता विश्वरूपा सुदर्शना । आप्यायमाना प्यायमाना प्याया सूनृतेरा । आपूर्यमाणा पूर्यमाणा पूरयन्ती पूर्णा पौर्णमासी । दाता प्रदाता_आनन्दो मोदः प्रमोदः ।

VERSE: 2 { 3.10.1.2} आवेशयन् निवेशयन्त् संवेशनः सꣳशान्तः शान्तः । आभवन् प्रभवन्त् संभवन्त् संभूतो भूतः । प्रस्तुतं विष्टुतꣳ सꣳस्तुतं कल्याणं विश्वरूपम् । शुक्रम् अमृतं तेजस्वि तेजः समिद्धम् । अरुणं भानुमन् मरीचिमद् अभितपत् तपस्वत् । सविता प्रसविता दीप्तो दीपयन् दीप्यमानः । ज्वलञ् ज्वलिता तपन् वितपन्त् संतपन् । रोचनो रोचमानः शुम्भूः शुम्भमानो वामः । सुता सुन्वती प्रसुता सूयमाना_अभिषूयमाणा । पीती प्रपा संपा तृप्तिस् तर्पयन्ती ।

VERSE: 3 { 3.10.1.3} कान्ता काम्या कामजाता_आयुष्मती कामदुघा । अभिशास्ता_अनुमन्ता_आनन्दो मोदः प्रमोदः । आसादयन् निषादयन्त् सꣳसादनः सꣳसन्नः सन्नः । आभूर् विभूः प्रभूः शम्भूर् भुवः । पवित्रं पवियिष्यन् पूतो मेध्यः । यशो यशस्वान् आयुर् अमृतः । जीवो जीविष्यन्त् स्वर्गो लोकः । सहस्वान्त् सहीयान् ओजस्वान्त् सहमानः । जयन्न् अभिजयन्त् सुद्रविणो द्रविणोदाः । आर्द्रपवित्रो हरिकेशो मोदः प्रमोदः ।

VERSE: 4 { 3.10.1.4} अरुणो ऽरुणरजाः पुण्डरीको विश्वजिद् अभिजित् । आर्द्रः पिन्वमानो ऽन्नवान् रसवान् इरावान् । सर्वौषधः सम्भरो महस्वान् । एजत्का जोवत्काः । क्षुल्लकाः शिपिविष्टकाः । सरिस्रराः सुशेरवः । अजिरासो गमिष्णवः । इदानीं तदानीम् एतर्हि क्षिप्रम् अजिरम् । आशुर् निमेषः फणो द्रवन्न् अतिद्रवन् । त्वरꣳस् त्वरमाण आशुर् आशीयाञ् जवः {ड्युमोण्ट जवः [?]} । अग्निष्टोम उक्थ्यो ऽतिरात्रो द्विरात्रस् त्रिरात्रश् चतूरात्रः । अग्निर् ऋतुः सूर्य ऋतुश् चन्द्रमा ऋतुः । प्रजापतिः संवत्सरो महान् कः ।

अनुवाक 2 सावित्रचयनम् VERSE: 1 { 3.10.2.1} भूर् अग्निं च पृथिवीं च मां च । त्रीꣳश् च लोकान्त् संवत्सरं च । प्रजापतिस् त्वा सादयतु । तया देवतया_अङ्गिरस्वद् ध्रुवा सीद । भुवो वायुं चान्तरिक्षं च मां च । त्रीꣳश्च लोकान्त् संवत्सरं च । प्रजापतिस् त्वा सादयतु । तया देवतया_अङ्गिरस्वद् ध्रुवा सीद । स्वर् आदित्यं च दिवं च मां च । त्रीꣳश् च लोकान्त् संवत्सरं च । प्रजापतिस् त्वा सादयतु । तया देवतया_अङ्गिरस्वद् ध्रुवा सीद । भूर् भुवः स्वश् चन्द्रमसं च दिशश् च मां च । त्रीꣳश् च लोकान्त् संवत्सरं च । प्रजापतिस् त्वा सादयतु । तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।

अनुवाक 3 सावित्रचयनम् VERSE: 1 { 3.10.3.1} त्वम् एव त्वां वेत्थ यो ऽसि सो ऽसि । त्वम् एव त्वाम् अचैषीः । चितश् चासि संचितश् चास्य् अग्ने । एतावाꣳश् चासि भूयाꣳश् चास्य् अग्ने । यत् ते अग्ने न्यूनं यद् उ ते ऽतिरिक्तम् । आदित्यास् तद् अङ्गिरसश् चिन्वन्तु । विश्वे ते देवाश् चितिम् आपूरयन्तु । चितश् चासि संचितश् चास्य् अग्ने । एतावाꣳश् चासि भूयाꣳश् चास्य् अग्ने । मा ते अग्ने ऽचयेन मा_अतिचयेन_आयुर् आवृक्षि । सर्वेषां ज्योतिषां ज्योतिर् यद् अदाव् उदेति । तपसो जातम् अनिभृष्टम् ओजः । तत् ते ज्योतिर् इष्टके । तेन मे तप । तेन मे ज्वल । तेन मे दीदिहि । यावद् देवाः । यावद् असाति सूर्यः । यावद् उतापि ब्रह्म ।

अनुवाक 4 सावित्रचयनम् VERSE: 1 { 3.10.4.1} संवत्सरो ऽसि परिवत्सरो ऽसि । इदावत्सरो ऽसीदुवत्सरो ऽसि । इद्वत्सरो ऽसि वत्सरो ऽसि । तस्य ते वसन्तः सिरः । ग्रीष्मो दक्षिणः पक्षः । वर्षाः पुच्छम् । शरद् उत्तरः पक्षः । हेमन्तो मध्यम् । पूर्वपक्षाश् चितयः । अपरपक्षाः पुरीषम् ।

VERSE: 2 { 3.10.4.2} अहोरात्राणीष्टकाः । ऋषभो ऽसि स्वर्गो लोकः । यस्यां दिशि महीयसे । ततो नो मह आवह । वायुर् भूत्वा सर्वा दिश आवाहि । सर्वा दिशो ऽनुविवाहि । सर्वा दिशो ऽनुसंवाहि । चित्त्या { चित्या} चितिम् आपृण । अचित्त्या { अचित्या} चितिम् आपृण । चिद् असि समुद्रयोनिः ।

VERSE: 3 { 3.10.4.3} इन्दुर् दक्षः स्येन ऋतावा । हिरण्यपक्षः शकुनो भुरण्युः । महान्त् सधस्थे ध्रुव आनिषत्तः । नमस् ते अस्तु मा मा हिꣳसीः । आ_इति प्र_इति वीति सम् इत्य् उद् इति । दिवं मे यच्छ । अन्तरिक्षं मे यच्छ । पृथिवीं मे यच्छ । पृथिवीं मे यच्छ । अन्तरिक्षं मे यच्छ । दिवं मे यच्छ । अह्ना प्रसारय । रात्र्या समच । रात्र्या प्रसारय अह्ना समच । कामं प्रसारय । कामꣳ समच ।

अनुवाक 5 सावित्रचयनम् VERSE: 1 { 3.10.5.1} भूर् भुवः स्वः । ओजो बलम् । ब्रह्म क्षत्रम् । यशो महत् । सत्यं तपो नाम । रूपम् अमृतम् । चक्षुः स्रोत्रम् । मन आयुः । विश्वं यशो महः । समं तपो हरो भाः । जातवेदा यदि वा पावको ऽसि । वैश्वानरो यदि वा वैद्युतो ऽसि । शं प्रजाभ्यो यजमानाय लोकम् । ऊर्जं पुष्टिं ददद् अभ्याववृत्स्व {आनंदा. अभ्यावभृत्स्व) ।

अनुवाक 6 सावित्रचयनम् VERSE: 1 { 3.10.6.1} राज्ञी विराज्ञी । सम्राज्ञी स्वराज्ञी । अर्चिः शोचिः । तपो हरो भाः । अग्निर् इन्द्रो बृहस्पतिः । विश्वे देवा भुवनस्य गोपाः । ते मा सर्वे यशसा सꣳसृजन्तु ।

अनुवाक 7 सावित्रचयनम् VERSE: 1 { 3.10.7.1} असवे स्वाहा । वसवे स्वाहा । विभुवे स्वाहा । विवस्वते स्वाहा । अभिभुवे स्वाहा_अधिपतये स्वाहा । दिवां पतये स्वाहा_अꣳहस्पत्याय स्वाहा । चाक्षुष्मत्याय स्वाहा ज्योतिष्मत्याय स्वाहा । राज्ञे स्वाहा विराज्ञे स्वाहा । संराज्ञे स्वाहा । स्वराज्ञे स्वाहा । शूषाय स्वाहा सूर्याय स्वाहा । चन्द्रमसे स्वाहा ज्योतिषे स्वाहा । सꣳसर्पाय स्वाहा । कल्याणाय स्वाहा । अर्जुनाय स्वाहा ।

अनुवाक 8 सावित्रचयनम् VERSE: 1 { 3.10.8.1} विपश्चिते पवमानाय गायत । मही न धारा_अत्य् अन्धो अर्षति । अहिर् ह जीर्णाम् अतिसर्पति त्वचम् । अत्यो न क्रीडन्न् असरद् वृषा हरिः । उपयामगृहीतो ऽसि मृत्यवे त्वा जुष्टं गृह्णामि । एष ते योनिर् मृत्यवे त्वा । अप मृत्युम् अप क्षुधम् । अप_इतः शपथं जहि । अधा { अथा} नो अग्न आवह । रायस्पोषꣳ सहस्रिणम् ।

VERSE: 2 { 3.10.8.2} ये ते सहस्रम् अयुतं पाशाः । मृत्यो मर्त्याय हन्तवे । तान् यज्ञस्य मायया । सर्वान् अवयजामहे । भक्षो ऽस्य् अमृतभक्षः । तस्य ते मृत्युपीतस्यामृतवतः । स्वगाकृतस्य मधुमतः । उपहूतस्य_उपहूतो भक्षयामि । मन्द्रा_अभिभूतिः केतुर् यज्ञानां वाक् । असाव् एहि ।

VERSE: 3 { 3.10.8.3} अन्धो जागृविः प्राण । असाव् एहि । बधिर आक्रन्दयितर् अपान । असाव् एहि । अहस्तो ऽस्ता { ऽस्त्वा} चक्षुः । असाव् एहि । अपादाशो मनः । असाव् एहि । कवे विप्रचित्ते श्रोत्र । असाव् एहि ।

VERSE: 4 { 3.10.8.4} सुहस्तः सुवासाः । शूषो नामास्य् अमृतो मर्त्येषु । तं त्वा_अहं तथा वेद । असाव् एहि । अग्निर् मे वाचि श्रितः । वाग् हृदये । हृदयं मयि । अहम् अमृते । अमृतं ब्रह्मणि । वायुर् मे प्राणे श्रितः ।

VERSE: 5 { 3.10.8.5} प्राणो हृदये । हृदयं मयि । अहम् अमृते । अमृतं ब्रह्मणि । सूर्यो मे चक्षुषि श्रितः । चक्षुर् हृदये । हृदयं मयि । अहम् अमृते । अमृतं ब्रह्मणि । चन्द्रमा मे मनसि श्रितः ।

VERSE: 6 { 3.10.8.6} मनो हृदये । हृदयं मयि । अहम् अमृते । अमृतं ब्रह्मणि । दिशो मे श्रोत्रे श्रिताः । श्रोत्रꣳ हृदये । हृदयं मयि । अहम् अमृते । अमृतं ब्रह्मणि । आपो मे रेतसि श्रिताः ।

VERSE: 7 { 3.10.8.7} रेतो हृदये । हृदयं मयि । अहम् अमृते । अमृतं ब्रह्मणि । पृथिवी मे शरीरे श्रिता । शरीरꣳ हृदये । हृदयं मयि । अहम् अमृते । अमृतं ब्रह्मणि । ओषधिवनस्पतयो मे लोमसु श्रिताः ।

VERSE: 8 { 3.10.8.8} लोमानि हृदये । हृदयं मयि । अहम् अमृते । अमृतं ब्रह्मणि । इन्द्रो मे बले श्रितः । बलꣳ हृदये । हृदयं मयि । अहम् अमृते । अमृतं ब्रह्मणि । पर्जन्यो मे मूर्ध्नि श्रितः ।

VERSE: 9 { 3.10.8.9} मूर्धा हृदये । हृदयं मयि । अहम् अमृते । अमृतं ब्रह्मणि । ईशानो मे मन्यौ श्रितः । मन्युर् हृदये । हृदयं मयि । अहम् अमृते । अमृतं ब्रह्मणि । आत्मा म आत्मनि श्रितः ।

VERSE: 10 { 3.10.8.10} आत्मा हृदये । हृदयं मयि । अहम् अमृते । अमृतं ब्रह्मणि । पुनर् म आत्मा पुनर् आयुर् आगात् । पुनः प्राणः पुनर् आकूतम् आगात् । वैश्वानरो रश्मिभिर् वावृधानः । अन्तस् तिष्ठत्व् अमृतस्य गोपाः ।

अनुवाक 9 सावित्रचयनम् VERSE: 1 { 3.10.9.1} प्रजापतिर् देवान् असृजत । ते पाप्मना संदिता अजायन्त । तान् व्यद्यत् । यद् व्यद्यत् । तस्माद् विद्युत् । तम् अवृश्चत् । यद् अवृश्चत् । तस्माद् वृष्टिः । तस्माद् यत्र_एते देवते अभिप्राप्नुतः { अभियाप्नुतः} । वि च हैवास्य तत्र पाप्मानं द्यतः ।

VERSE: 2 { 3.10.9.24} वृश्चतश् च । सा_एषा मीमाꣳसोग्निहोत्र एव संपन्ना {,आनंदा. संपन्ना} । अथो आहुः । सर्वेषु यज्ञक्रतुष्व् इति । होष्यन्न् अप उपस्पृशेत् । विद्युद् असि विद्य मे पाप्मानम् इति । अथ हुत्वा_उपस्पृशेत् । वृश्टिर् असि वृश्च मे पाप्मानम् इति । यक्ष्यमाणो वा_इष्ट्वा वा । वि च हैवास्यैते देवते पाप्मानं द्यतः ।

VERSE: 3 { 3.10.9.3} वृश्चतश् च । अत्यꣳहो ह_आरुणिः । ब्रह्मचारिणे प्रश्नान् प्रोच्य प्रजिघाय । परेहि । प्लक्षं दैयाम्पातिं पृच्छ । वेत्थ सावित्रा3न् { सावित्रा3ं} न वेत्था3 इति । तम् आगत्य पप्रच्छ । आचार्यो मा प्रा हैषीत् । वेत्थ सावित्रा3न् { सावित्रा3ं} न वेत्था3 इति । स ह_उवाच वेद_इति ।

VERSE: 4 { 3.10.9.4} स कस्मिन् प्रतिष्ठित इति । परोरजसीति । कस् तद् यत् परोरजा इति । एष वाव स परोरजा इति ह_उवाच । य एष तपति । एषो ऽर्वाग्रजा इति । स कस्मिन् त्व् एष इति । सत्य इति । किं तत् सत्यम् इति । तप इति ।

VERSE: 5 { 3.10.9.5} कस्मिन् नु तप इति । बल इति । किं तद् बलम् इति । प्राण इति । मा स्म प्राणम् अतिपृच्छ इति मा_आचार्यो ऽब्रवीद् इति ह_उवाच ब्रह्मचारी । स ह_उवाच प्लक्षो दैयाम्पातिः । यद् वै ब्रह्मचारिन् प्राणम् अत्यप्रक्ष्यः {,आनंदा. अत्यप्रक्ष्यः} । मूर्धा ते व्यपतिष्यत् {,आनंदा. व्यपतिष्यत्} । अहम् उ त आचार्यात्_श्रेयान् भविष्यामि । यो मा सावित्रे समवादिष्ट_इति ।

VERSE: 6 { 3.10.9.6} तस्मात् सावित्रे न संवदेत । स यो ह वै सावित्रं विदुषा सावित्रे संवदते । सहास्मिन्_श्रियं दधाति । अनु ह वा अस्मा असौ तपन्_श्रियं मन्यते । अन्व् अस्मै श्रीस् तपो मन्यते । अन्व् अस्मै तपो बलं मन्यते । अन्व् अस्मै बलं प्राणं मन्यते । स यद् आह । संज्ञानं विज्ञानं दर्शा दृष्टा_इति । एष एव तत् ।

VERSE: 7 { 3.10.9.7} अथ यद् आह । प्रस्तुतं विष्टुतꣳ सुता सुन्वतीति । एष एव तत् । एष ह्य् एव तान्य् अहानि । एष रात्रयः । अथ यद् आह । चित्रः केतुर् दाता प्रदाता सविता प्रसविता_अभिशास्ता_अनुमन्ता_इति । एष एव तत् । एष ह्य् एव ते ऽह्नो मुहूर्ताः । एष रात्रेः ।

VERSE: 8 { 3.10.9.8} अथ यद् आह । पवित्रं पवयिष्यन्त् सहस्वान्त् सहीयान् अरुणो ऽरुणरजा इति । एष एव तत् । एष ह्य् एव ते ऽर्धमासाः । एष मासाः । अथ यद् आह । अग्निष्टोम उक्थ्यो ऽग्निर् ऋतुः प्रजापतिः संवत्सर इति । एष एव तत् । एष ह्य् एव ते यज्ञक्रतवः । एष ऋतवः ।

VERSE: 9 { 3.10.9.9} एष संवत्सरः । अथ यद् आह । इदानीं तदानीम् इति । एष एव तत् । एष ह्य् एव ते मुहूर्तानां { मुद्वूर्तानां} मुहूर्ताः { मुद्दूर्ताः} । {ए} जनको ह वैदेहः । अहोरात्रैः समाजगाम । तꣳ ह_ऊचुः । यो वा अस्मान् वेद । विजहत् पाप्मानम् एति ।

VERSE: 10 { 3.10.9.10} सर्वम् आयुर् एति । अभि स्वर्गं लोकं जयति । नास्यामुष्मिन्_लोके ऽन्नं क्षीयत इति । विजहद् ध वै पाप्मानम् एति । सर्वम् आयुर् एति । अभि स्वर्गं लोकं जयति । नास्यामुष्मिन्_लोके ऽन्नं क्षीयते । य एवं वेद । अहीना ह_आश्वत्थ्यः । सावित्रं विदांचकार ।

VERSE: 11 { 3.10.9.11} स ह हꣳसो हिरण्मयो भूत्वा । स्वर्गं लोकम् इयाय । आदित्यस्य सायुज्यम् । हꣳसो ह वै हिरण्मयो भूत्वा । स्वर्गं लोकम् एति । आदित्यस्य सायुज्यम् । य एवं वेद । देवभागो ह श्रौतर्षः । सावित्रं विदांचकार । तꣳ ह वाग् अदृश्यमानाऽभ्युवाच ।

VERSE: 12 { 3.10.9.12} सर्वं बत गौतमो वेद । यः सावित्रं वेद_इति । स ह_उवाच । का_एषा वाग् असीति । अयम् अहꣳ सावित्रः । देवानाम् उत्तमो लोकः । गुह्यं महो बिभ्रद् इति । एतावति ह गौतमः । यज्ञोपवीतं कृत्वा_अधो निपपात । नमो नम इति ।

VERSE: 13 { 3.10.9.13} स ह_उवाच । मा भैषीर् गौतम । जितो वै ते लोक इति । तस्माद् ये के च सावित्रं विदुः । सर्वे ते जितलोकाः । स यो ह वै सावित्रस्याष्टाक्षरं पदꣳ श्रिया_अभिषिक्तं वेद । श्रिया हैवाभिषिच्यते । घृणिर् इति द्वे अक्षरे । सूर्य इति त्रीणि । आदित्य इति त्रीणि ।

VERSE: 14 { 3.10.9.14} एतद् वै सावित्रस्याष्टाक्षरं पदꣳ श्रिया_अभिषिक्तम् । य एवं वेद । श्रिया हैवा_अभिषिच्यते । तद् एतद् ऋचा_अभ्युक्तम् । ऋचो अक्षरे परमे व्योमन् । यस्मिन् देवा अधि विश्वे निषेदुः । यस् तन् न वेद किम् ऋचा करिष्यति । य इत् तद् विदुस् त इमे समासत इति । न ह वा एतस्य_ऋचा न यजुषा न साम्ना_अर्थो ऽस्ति । यः सावित्रं वेद ।

VERSE: 15 { 3.10.9.15} तद् एतत् परि यद् देवचक्रम् । आर्द्रं पिन्वमानꣳ स्वर्गे लोक एति । विजहद् विश्वा भूतानि संपश्यत् । आर्द्रो ह वै पिन्वमानः स्वर्गे लोक एति । विजहन् विश्वा भूतानि संपश्यन् । य एवं वेद । शूषो ह वै वार्ष्णेयः । आदित्येन समाजगाम । तꣳ ह_उवाच । एहि सावित्रं विद्धि । अयं वै स्वर्ग्यो ऽग्निः पारयिष्णुर् अमृतात् संभूत इति । एष वाव स सावित्रः । य एष तपति । एहि मां विद्धि । इति हैवैनं तद् उवाच ।

अनुवाक 10 सावित्रचयनम् VERSE: 1 { 3.10.10.1} इयं वाव सरघा । तस्या अग्निर् एव सारघं मधु । या एताः पूर्वपक्षापरपक्षयो रात्रयः । ता मधुकृतः । यान्य् अहानि । ते मधुवृषाः । स यो ह वा एता मधुकृतश् च मधुवृषाꣳश् च वेद । क्रुवन्ति हास्यैता अग्नौ मधु । नास्य_इष्टापूर्तं धयन्ति । अथ यो न वेद ।

VERSE: 2 { 3.10.10.2} न हास्यैता अग्नौ मधु कुर्वन्ति । धयन्त्य् अस्य_इष्टापूर्तम् । यो ह वा अहोरात्राणां नामधेयानि वेद । नाहोरात्रेष्व् आर्तिम् आर्च्छति । संज्ञानं विज्ञानं दर्शा दृष्टा_इति । एताव् अनुवाकौ पूर्वपक्षस्याहोरात्राणां नामधेयानि । प्रस्तुतं विष्टुतꣳ सुता सुन्वती_इति । एताव् अनुवाकाव् अपरपक्षस्याहोरात्राणां नामधेयानि । नाहोरात्रेष्व् आर्तिम् आर्च्छति । य एवं वेद ।

VERSE: 3 { 3.10.10.3} यो ह वै मुहूर्तानां नामधेयानि वेद । न मुहूर्तेष्व् आर्तिम् आर्च्छति । चित्रः केतुर् दाता प्रदाता सविता प्रसविता_अभिशास्ता_अनुमन्ता_इति । एते ऽनुवाका मुहूर्तानां नामधेयानि । न मुहूर्तेष्व् आर्तिम् आर्च्छति । य एवं वेद । यो ह वा अर्धमासानां च मासानां च नामधेयानि वेद । नार्धमासेषु न मासेष्व् आर्तिम् आर्च्छति । पवित्रं पवियिष्यन्त् सहस्वान्त् सहीयान् अरुणो ऽरुणरजा इति । एते ऽनुवाका अर्धमासानां च मासानां च नामधेयानि ।

VERSE: 4 { 3.10.10.4} नार्धमासेषु न मासेष्व् आर्तिम् आर्च्छति । य एवं वेद । यो ह वै यज्ञक्रतूनां च_ऋतूनां च संवत्सरस्य च नामधेयानि वेद । न यज्ञक्रतुषु न_ऋतुषु न संवत्सर आर्तिम् आर्च्छति । अग्निष्टोम उक्थ्यो ऽग्निर् ऋतुः प्रजापतिः संवत्सर इति । एते ऽनुवाका यज्ञक्रतूनां च_ऋतूनां च संवत्सरस्य च नामधेयानि । न यज्ञक्रतुषु न_ऋतुषु न संवत्सर आर्तिम् आर्च्छति । य एवं वेद । यो ह वै मुहूर्तानां मुहूर्तान् वेद । न मुहूर्तानां मुहूर्तेष्व् आर्तिम् आर्च्छति ।

VERSE: 5 { 3.10.10.5} इदानीं तदानीम् इति । एते वै मुहूर्तानां मुहूर्ताः । न मुहूर्तानां मुहूर्तेष्व् आर्तिम् आर्च्छति । य एवं वेद । अथो यथा क्षेत्रज्ञो भूत्वा_अनुप्रविश्यान्नम् अत्ति । एवम् एव_एतान् क्षेत्रज्ञो भूत्वा_अनुप्रविश्यान्नम् अत्ति । स एतेषाम् एव सलोकताꣳ सायुज्यम् अश्नुते । अप पुनर्मृत्युं जयति । य एवं वेद ।

अनुवाक 11 सावित्रचयनम् VERSE: 1 { 3.10.11.1} कश् चिद् ध वा अस्माल् लोकात् प्रेत्य । आत्मानं वेद । आयम् अहम् अस्मीति । कश् चित् स्वं लोकं न प्रतिप्रजानाति । अग्निमुग्धो हैव धुमतान्तः । स्वं लोकं न प्रतिप्रजानाति । अथ यो हैवैतम् अग्निꣳ सावित्रं वेद । स एवास्माल् लोकात् प्रेत्य । आत्मानं वेद । अयम् अहम् अस्मीति ।

VERSE: 2 { 3.10.11.2} स स्वं लोकं प्रतिप्रजानाति । एष उ चैवैनं { उवेवैनं} तत् सावित्रः । स्वर्गं लोकम् अभिवहति । अहोरात्रैर् वा इदꣳ सयुग्भिः क्रियते । इतिरात्राया_अदीक्षिषत । इतिरात्राय व्रतम् उपागुर् इति । तानि हानेवं विदुषः । अमुष्मिन्_ लोके शेवधिं धयन्ति । धीतꣳ हैव स शेवधिम् अनुपरैति । अथ यो हैवैतम् अग्निꣳ सावित्रं वेद ।

VERSE: 3 { 3.10.11.3} तस्य हैवाहोरात्राणि । अमुष्मिन्_लोके शेवधिं न धयन्ति । अधीतꣳ हैव स शेवधिम् अनु परैति । भरद्वाजो ह त्रिभिर् आयुर्भिर् ब्रह्मचर्यम् उवास । तꣳ ह जीर्णिꣳ स्थविरꣳ शयानम् । इन्द्र उपव्रज्य_उवाच । भरद्वाज । यत् ते चतुर्थम् आयुर् दद्याम् । किम् एनेन कुर्या इति । ब्रह्मचर्यम् एव_एनेन चरेयम् इति ह_उवाच ।

VERSE: 4 { 3.10.11.4} तꣳ ह त्रीन् गिरिरूपान् अविज्ञातान् इव दर्शयां चकार । तेषाꣳ ह_एकैकस्मान् मुष्टिन् आददे । स ह_उवाच । भरद्वाज_इत्य् आमन्त्र्य । वेदा वा एते । अनन्ता वै वेदाः । एतद् वा एतैस् त्रिभिर् आयुर्भिर् अन्ववोचथाः । अथ त इतरद् अननूक्तम् एव । एहीमं विद्धि । अयं वै सर्वविद्या_इति ।

VERSE: 5 { 3.10.11.5} तस्मै हैतम् अग्निꣳ सावित्रम् उवाच । तꣳ स विदित्वा । अमृतो भूत्वा । स्वर्गं लोकम् इयाय । आदित्यस्य सायुज्यम् । अमृतो हैव भूत्वा । स्वर्गं लोकम् एति । आदित्यस्य सायुज्यम् । य एवं वेद । एषो एव त्रयी विद्या ।

VERSE: 6 { 3.10.11.6} यावन्तꣳ ह वै त्रय्या विद्यया लोकं जयति । तावन्तं लोकं जयति । य एवं वेद । अग्नेर् वा एतानि नामधेयानि । अग्नेर् एव सायुज्यꣳ सलोकताम् आप्नोति । य एवं वेद । वायोर् वा एतानि नामधेयानि । वायोर् एव सायुज्यꣳ सलोकताम् आप्नोति । य एवं वेद । इन्द्रस्य वा एतानि नामधेयानि ।

VERSE: 7 { 3.10.11.7} इन्द्रस्यैव सायुज्यꣳ सलोकताम् आप्नोति । य एवं वेद । बृहस्पतेर् वा एतानि नामधेयानि । बृहस्पतेर् एव सायुज्यꣳ सलोकताम् आप्नोति । य एवं वेद । प्रजापतेर् वा एतानि नामधेयानि । प्रजापतेर् एव सायुज्यꣳ सलोकताम् आप्नोति । य एवं वेद । ब्रह्मणो वा एतानि नामधेयानि । ब्रह्मण एव सायुज्यꣳ सलोकताम् आप्नोति । 1 य एवं वेद । 2 स वा एषो ऽग्निर् अपक्षपुच्छो वायुर् एव । 3 तस्याग्निर् मुखम् । 4 असाव् आदित्यः सिरः । 5 स यद् एते देवते अन्तरेण । 6 तत् सर्वꣳ सीव्यति । 7 तस्मात् सावित्रः ।




प्रपाठक: 11 अनुवाक 1 नाचिकेताग्निचयनम् VERSE: 1 { 3.11.1.1} लोको ऽसि स्वर्गो ऽसि । अनन्तो ऽस्य् अपारो ऽसि । अक्षितो ऽस्य् अक्षय्यो ऽसि । तपसः प्रतिष्ठा । त्वयीदम् अन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वा_उपदधे कामदुघम् अक्षितम् । प्रजापतिस् त्वा सादयतु । तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।

VERSE: 2 { 3.11.1.2} तपो ऽसि लोके श्रितम् । तेजसः प्रतिष्ठा । त्वयीदम् अन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्तृ विश्वस्य जनयितृ । तत् त्वा_उपदधे कामदुघम् अक्षितम् । प्रजापतिस् त्वा सादयतु । तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।

VERSE: 3 { 3.11.1.3} तेजो ऽसि तपसि श्रितम् । समुद्रस्य प्रतिष्ठा । त्वयीदम् अन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्तृ विश्वस्य जनयितृ । तत् त्वा_उपदधे कामदुघम् अक्षितम् । प्रजापतिस् त्वा सादयतु । तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।

VERSE: 4 { 3.11.1.4} समुद्रो ऽसि तेजसि श्रितः । अपां प्रतिष्ठा । त्वयीदम् अन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वा_उपदधे कामदुघम् अक्षितम् । प्रजापतिस् त्वा सादयतु । तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।

VERSE: 5 { 3.11.1.5} आपः स्थ समुद्रे श्रिताः । पृथिव्याः प्रतिष्ठा युष्मासु । इदम् अन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्त्र्यो विश्वस्य जनयित्र्यः । ता व उपदधे कामदुघा अक्षिताः । प्रजापतिस्त्वा सादयतु । तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।

VERSE: 6 { 3.11.1.6} पृथिव्यस्य् अप्सु श्रिता । अग्नेः प्रतिष्ठा । त्वयीदम् अन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्त्री विश्वस्य जनयित्री । तां त्वा_उपदधे कामदुघाम् अक्षिताम् । प्रजापतिस् त्वा सादयतु । तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।

VERSE: 7 { 3.11.1.7} अग्निर् असि पृथिव्याꣳ श्रितः । अन्तरिक्षस्य प्रतिष्ठा । त्वयीदम् अन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वा_उपदधे कामदुघम् अक्षितम् । प्रजापतिस् त्वा सादयतु । तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।

VERSE: 8 { 3.11.1.8} अन्तरिक्षम् अस्य् अग्नौ श्रितम् । वायोः प्रतिष्ठा । त्वयीदम् अन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्तृ विश्वस्य जनयितृ । तत् त्वा_उपदधे कामदुघम् अक्षितम् । प्रजापतिस् त्वा सादयतु । तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।

VERSE: 9 { 3.11.1.9} वायुर् अस्य् अन्तरिक्षे श्रितः । दिवः प्रतिष्ठा । त्वयीदम् अन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वा_उपदधे कामदुघम् अक्षितम् । प्रजापतिस् त्वा सादयतु तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।

VERSE: 10 { 3.11.1.10} द्यौर् असि वायौ श्रिता । आदित्यस्य प्रतिष्ठा । त्वयीदम् अन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्त्री विश्वस्य जनयित्री । तां त्वा_उपदधे कामदुघाम् अक्षिताम् । प्रजापतिस्त्वा सादयतु तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।

VERSE: 11 { 3.11.1.11} आदित्यो ऽसि दिवि श्रितः । चन्द्रमसः प्रतिष्ठा । त्वयीदम् अन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वा_उपदधे कामदुघम् अक्षितम् । प्रजापतिस् त्वा सादयतु । तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।

VERSE: 12 { 3.11.1.12} चन्द्रमा अस्य् आदित्ये श्रितः । नक्षत्राणां प्रतिष्ठा । त्वयीदम् अन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वा_उपदधे कामदुघम् अक्षितम् । प्रजापतिस् त्वा सादयतु । तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।

VERSE: 13 { 3.11.1.13} नक्षत्राणि स्थ चन्द्रमसि श्रितानि । संवत्सरस्य प्रतिष्ठा युष्मासु । इदम् अन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्तॄणि विश्वस्य जनयितॄणि । तानि व उपदधे कामदुघान्य् अक्षितानि । प्रजापतिस् त्वा सादयतु । तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।

VERSE: 14 { 3.11.1.14} संवत्सरो ऽसि नक्षत्रेषु श्रितः । ऋतूनां प्रतिष्ठा । त्वयीदम् अन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वा_उपदधे कामदुघम् अक्षितम् । प्रजापतिस् त्वा सादयतु । तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।

VERSE: 15 { 3.11.1.15} ऋतवः स्थ संवत्सरे श्रिताः । मासानां प्रतिष्ठा युष्मासु । इदम् अन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्तारो विश्वस्य जनयितारः । तान् व उपदधे कामदुघान् अक्षितान् । प्रजापतिस् त्वा सादयतु । तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।

VERSE: 16 { 3.11.1.16} मासाः स्थ_ऋतुषु श्रिताः । अर्धमासानां प्रतिष्ठा युष्मासु । इदम् अन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्तारो विश्वस्य जनयितारः । तान् व उपदधे कामदुघान् अक्षितान् । प्रजापतिस् त्वा सादयतु । तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।

VERSE: 17 { 3.11.1.17} अर्धमासाः स्थ मासु श्रिताः । अहोरात्रयोः प्रतिष्ठा युष्मासु । इदम् अन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्तारो विश्वस्य जनयितारः । तान् व उपदधे कामदुघान् अक्षितान् । प्रजापतिस् त्वा सदयतु । तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।

VERSE: 18 { 3.11.1.18} अहोरात्रे स्थो ऽर्धमासेषु श्रिते । भूतस्य प्रतिष्ठे भव्यस्य प्रतिष्ठे । युवयोर् इदमन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्त्र्यौ विश्वस्य जनयित्र्यौ । ते वाम् उपदधे कामदुघे अक्षिते । प्रजापतिस् त्वा सादयतु । तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।

VERSE: 19 { 3.11.1.19} पौर्णमास्य् अष्टका_अमावास्या । अन्नादाः स्थान्नदुघो युष्मासु । इदम् अन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्त्र्यो विश्वस्य जनयित्र्यः । ता व उपदधे कामदुघा अक्षिताः । प्रजापतिस् त्वा सादयतु । तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।

VERSE: 20 { 3.11.1.20} राड् असि बृहती श्रीर् असीन्द्रपत्नी धर्मपत्नी । विश्वं भूतम् अनु प्रभूता । त्वयीदम् अन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्त्री विश्वस्य जनयित्री । तां त्वा_उपदधे कामदुघाम् अक्षिताम् । प्रजापतिस् त्वा सादयतु । तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।

VERSE: 21 { 3.11.1.21} ओजो ऽसि सहो ऽसि । बलमसि भ्राजो ऽसि । देवानां धामामृतम् । अमर्त्यस् तपोजाः । त्वयीदम् अन्तः । विश्वं यक्षं विश्वं भूतं विश्वꣳ सुभूतम् । विश्वस्य भर्ता विश्वस्य जनयिता । तं त्वा_उपदधे कामदुघम् अक्षितम् । प्रजापतिस् त्वा सादयतु । तया देवतया_अङ्गिरस्वद् ध्रुवा सीद ।

अनुवाक 2 नाचिकेताग्निचयनम् VERSE: 1 { 3.11.2.1} त्वम् अग्ने रुद्रो असुरो महो दिवः । त्वꣳ शर्धो मारुतं पृक्ष ईशिषे । त्वं वातैर् अरुणैर् यासि शङ्गयः । त्वं पूषा विधतः पासि नु त्मना । देवा देवेषु श्रयध्वम् । प्रथमा द्वितीयेषु श्रयध्वम् । द्वितीयास् तृतीयेषु श्रयध्वम् । तृतीयाश् चतुर्थेषु श्रयध्वम् । चतुर्थाः पञ्चमेषु श्रयध्वम् । पञ्चमाः षष्ठेषु श्रयध्वम् ।

VERSE: 2 { 3.11.2.2} षष्ठाः सप्तमेषु श्रयध्वम् । सप्तमा अष्टमेषु श्रयध्वम् । अष्टमा नवमेषु श्रयध्वम् । नवमा दशमेषु श्रयध्वम् । दशमा एकादशेषु श्रयध्वम् । एकादशा द्वादशेषु श्रयध्वम् । द्वादशास् त्रयोदशेषु श्रयध्वम् । त्रयोदशाश् चतुर्दशेषु श्रयध्वम् । चतुर्दशाः पञ्चदशेषु श्रयध्वम् । पञ्चदशाः षोडशेषु श्रयध्वम् ।

VERSE: 3 { 3.11.2.3} षोडशाः सप्तदशेषु श्रयध्वम् । सप्तदशा अष्टादशेषु श्रयध्वम् । अष्टादशा एकान्नविꣳशेषु श्रयध्वम् । एकान्नविꣳशा विꣳशेषु श्रयध्वम् । विꣳशा एकविꣳशेषु श्रयध्वम् । एकविꣳशा द्वाविꣳशेषु श्रयध्वम् । द्वाविꣳशास् त्रयोविꣳशेषु श्रयध्वम् । त्रयोविꣳशाश् चतुर्विꣳशेषु श्रयध्वम् । चतुर्विꣳशाः पञ्चविꣳशेषु श्रयध्वम् । पञ्चविꣳशाः षड्विꣳशेषु श्रयध्वम् ।

VERSE: 4 { 3.11.2.4} षड्विꣳशाः सप्तविꣳशेषु श्रयध्वम् । सप्तविꣳशा अष्टाविꣳशेषु श्रयध्वम् । अष्टाविꣳशा एकान्नत्रिꣳशेषु श्रयध्वम् । एकान्नत्रिꣳशास् त्रिꣳशेषु श्रयध्वम् । त्रिꣳशा एकत्रिꣳशेषु श्रयध्वम् । एकत्रिꣳशा द्वात्रिꣳशेषु श्रयध्वम् । द्वात्रिꣳशास् त्रयस्त्रिꣳशेषु श्रयध्वम् । देवास् त्रिर्_एकादशास् त्रिस्_त्रयस्त्रिꣳशाः । उत्तरे भवत । उत्तरवर्त्मान उत्तरसत्वानः । यत्काम इदं जुहोमि । तन् मे समृध्यताम् । वयꣳ स्याम पतयो रयीणाम् । भूर् भुवः स्वः स्वाहा ।

अनुवाक 3 नाचिकेताग्निचयनम् VERSE: 1 { 3.11.3.1} अग्नाविष्णू सजोषसा । इमा वर्धन्तु वां गिरः । द्युम्नैर् वाजेभिर् आगतम् । राज्ञी विराज्ञी । सम्राज्ञी स्वराज्ञी । अर्चिः शोचिः । तपो हरो भाः । अग्निः सोमो बृहस्पतिः । विश्वे देवा भुवनस्य गोपाः । ते सर्वे संगत्य । इदं मे प्रावता वचः । वयꣳ स्याम पतयो रयीणाम् । भूर् भुवः स्वः स्वाहा ।

अनुवाक 4 VERSE: 1 { 3.11.4.1} अन्नपते ऽन्नस्य नो देहि । अनमीवस्य शुष्मिणः । प्र प्रदातारं तरिषः । ऊर्जं नो धेहि द्विपदे चतुष्पदे । अग्ने पृथिवीपते । सोम वीरुधां पते । त्वष्टः समिधां पते । विष्णव् आशानां पते । मित्र सत्यानां पते । वरुण धर्मणाम् पते ।

VERSE: 2 { 3.11.4.2} मरुतो {आनंदा. मरुतो} गणानां पतयः । रुद्र पशूनां पते । इन्द्रौजसां पते । बृहस्पते ब्रह्मणस् पते । आ रुचा रोचे ऽहꣳ स्वयम् । रुचा रुरुचे रोचमानः । अतीत्यादः स्वर् आभर_इह । तस्मिन् योनौ प्रजनौ प्रजायेय । वयꣳ स्याम पतयो रयीणाम् । भूर् भुवः स्वः स्वाहा ।

अनुवाक 5 नाचिकेताग्निचयनम् VERSE: 1 { 3.11.5.1} सप्त ते अग्ने समिधः सप्त जिह्वाः । सप्त_ऋषयः सप्त धाम प्रियाणि । सप्त होत्रा अनुविद्वान् । सप्त योनीर् आपृणस्वा घृतेन । प्राची दिक् । अग्निर् देवता । अग्निꣳ स दिशां देवं देवतानाम् ऋच्छतु । यो मा_एतस्यै दिशो ऽभिदासति । दक्षिणा दिक् । इन्द्रो देवता ।

VERSE: 2 { 3.11.5.2} इन्द्रꣳ स दिशां देवं देवतानाम् ऋच्छतु । यो मा एतस्यै दिशो ऽभिदासति । प्रतीची दिक् । सोमो देवता । सोमꣳ स दिशाꣳ देवं देवतानाम् ऋच्छतु । यो मा_एतस्यै देशो ऽभिदासति । उदीची दिक् । मित्रावरुणौ देवता । मित्रावरुणौ स दिशां देवौ देवतानाम् ऋच्छतु । यो मा_एतस्यै दिशो ऽभिदासति ।

VERSE: 3 { 3.11.5.3} ऊर्ध्वा दिक् । बृहस्पतिर् देवता । बृहस्पतिꣳ स दिशां देवं देवतानाम् ऋच्छतु । यो मा_एतस्यै दिशो ऽभिदासति । इयं दिक् । अदितिर् देवता । अदितिꣳ स दिशां देवीं देवतानाम् ऋच्छतु । यो मा_एतस्यै दिशो ऽभिदासति । पुरुषो दिक् । पुरुषो मे कामान्त् समर्धयतु ।

VERSE: 4 { 3.11.5.3} अन्धो जागृविः प्राण । असाव् एहि । बधिर आक्रन्दयितर् अपान । असाव् एहि । उषसम्_उषसम् अशीय । अहम् असो ज्योतिर् अशीय । अहम् असो ऽपो ऽशीय । वयꣳ स्याम पतयो रयीणाम् । भूर् भुवः स्वः स्वाहा ।

अनुवाक 6 नाचिकेताग्निचयनम् VERSE: 1 { 3.11.6.1} यत् ते ऽचितं यद् उ चितं ते अग्ने । यत् त ऊनं यद् उ ते ऽतिरिक्तम् । आदित्यास् तद् अङ्गिरसश् चिन्वन्तु । विश्वे ते देवाश् चितिम् आपूरयन्तु । चितश् चासि संचितश् चास्य् अग्ने । एतावाꣳश् चासि भूयाꣳश् चास्य् अग्ने । लोकं पृण च्छिद्रं पृण । अथो सीद शिवा त्वम् । इन्द्राग्नी त्वा बृहस्पतिः । अस्मिन् योनाव् असीषदन् ।

VERSE: 2 { 3.11.6.2} तया देवतया_अङ्गिरस्वद् ध्रुवा सीद । ता अस्य सूददोहसः । सोमꣳ श्रीणन्ति पृश्नयः । जन्मन् देवानां विशः । त्रिष्व् आरोचने दिवः । तया देवतया_अङ्गिरस्वद् ध्रुवा सीद । अग्ने देवाꣳ इह_आवह । जज्ञानो वृक्तबर्हिषे । असि होता न ईड्यः । अगन्म महा मनसा यविष्ठम् ।

VERSE: 3 { 3.11.6.3} यो दीदाय समिद्धः स्वे दुरोणे । चित्रभानू रोदसी अन्तर् उर्वी । स्वाहुतं विश्वतः प्रत्यञ्चम् । मेधाकारं विदथस्य प्रसाधनम् । अग्निꣳ होतारं परिभूतमं मतिम् । त्वाम् अर्भस्य हविषः समानम् इत् । त्वां महो वृणते नरो नान्यं त्वत् । मनुष्वत् त्वा निधीमहि । मनुष्वत् समिधीमहि । अग्ने मनुष्वद् अङ्गिरः ।

VERSE: 4 { 3.11.6.4} देवान् देवायते यज । अग्निर् हि वाजिनं विशे । ददाति विश्वचर्षणिः । अग्नी राये स्वाभुवम् । स प्रीतो याति वार्यम् । इषꣳ स्तोतृभ्य आभर । पृष्टो दिवि पृष्टो अग्निः पृथिव्याम् । पृष्टो विश्वा ओषधीर् आविवेश । वैश्वानरः सहसा पृष्टो अग्निः । स नो दिवा स रिषः पातु नक्तम् ।

अनुवाक 7 नाचिकेताग्निचयनम् VERSE: 1 { 3.11.7.1} अयं वाव यः पवते । सो ऽग्निर् नाचिकेतः । स यत् प्राङ् पवते । तद् अस्य शिरः । अथ यद् दक्षिणा । स दक्षिणः पक्षः । अथ यत् प्रत्यक् । तत् पुच्छम् । यद् उदङ् । स उत्तरः पक्षः ।

VERSE: 2 { 3.11.7.2} अथ यत् संवाति । तद् अस्य समञ्चनं च प्रसारणं च । अथो सम्पद् एवास्य सा । सꣳ ह वा अस्मै स कामः पद्यते । यत्कामो यजते । यो ऽग्निं नाचिकेतं चिनुते । य उ चैनम् एवं वेद । यो ह वा अग्नेर् नाचिकेतस्य_आयतनं प्रतिष्ठां वेद । आयतनवान् भवति । गच्छति प्रतिष्ठाम् ।

VERSE: 3 { 3.11.7.3} हिरण्यं वा अग्नेर् नाचिकेतस्य_आयतनं प्रतिष्ठा । य एवं वेद । आयतनवान् भवति । गच्छति प्रतिष्ठाम् । यो ह वा अग्नेर् नाचिकेतस्य शरीरं वेद । सशरीर एव स्वर्गं लोकम् एति । हिरण्यं वा अग्नेर् नाचिकेतस्य शरीरम् । य एवं वेद । सशरीर एव स्वर्गं लोकम् एति । अथो यथा रुक्म उत्तप्तो भाय्यात् ।

VERSE: 4 { 3.11.7.4} एवम् एव स तेजसा यशसा । अस्मिꣳश् च लोके ऽमुष्मिꣳश् च भाति । उरवो ह वै नामैते लोकाः । ये ऽवरेण_आदित्यम् । अथ हैते वरीयाꣳसो लोकाः । ये परेण_आदित्यम् । अन्तवन्तꣳ ह वा एष क्षय्यं लोकं जयति । यो ऽवरेण_आदित्यम् । अथ हैषो ऽनन्तम् अपारम् अक्षय्यं लोकं जयति । यः परेण_आदित्यम् ।

VERSE: 5 { 3.11.7.41} अनन्तꣳ ह वा अपारम् अक्षय्यं लोकं जयति । यो ऽग्निं नाचिकेतं चिनुते । य उ चैनम् एवं वेद । अथो यथा रथे तिष्ठन् पक्षसी पर्यावर्तमाने प्रत्यपेक्षते । एवम् अहोरात्रे प्रत्यपेक्षते । नास्याहोरात्रे लोकम् आप्नुतः । यो ऽग्निं नाचिकेतं चिनुते । य उ चैनम् एवं वेद ।

अनुवाक 8 नाचिकेताग्निचयनम् VERSE: 1 { 3.11.8.1} उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ । तस्य ह नचिकेता नाम पुत्र आस । तꣳ ह कुमारꣳ सन्तम् । दक्षिणासु नीयमानासु श्रद्धा_आविवेश । स ह_उवाच । ततः कस्मै मां दास्यसीति । द्वितीयं तृतीयम् । तꣳ ह परीत उवाच । मृत्यवे त्वा ददामीति । तꣳ ह स्म_उत्थितं वाग् अभिवदति ।

VERSE: 2 { 3.11.8.2} गौतम कुमारम् इति । स ह_उवाच । परेहि मृत्योर् गृहान् । मृत्यवे वै त्वा_अदाम् इति । तं वै प्रवसन्तं गन्ता_असीति ह_उवाच । तस्य स्म तिस्रो रात्रीर् अनाश्वान्ग्र्̥हे वसतात् । स यदि त्वा पृच्छेत् । कुमार कति रात्रीर् अवात्सीर् इति । तिस्र इति प्रतिब्रूतात् । किं प्रथमाꣳ रात्रिम् आश्ना इति ।

VERSE: 3 { 3.11.8.3} प्रजां त इति । किं द्वितीयाम् इति । पशूꣳस् त इति । किं तृतीयाम् इति । साधुकृत्यां त इति । तं वै प्रवसन्तं जगाम । तस्य ह तिस्रो रात्रीर् अनाश्वान् गृह उवास । तम् आगत्य पप्रच्छ । कुमार कति रात्रीर् अवात्सीर् इति । तिस्र इति प्रत्युवाच ।

VERSE: 4 { 3.11.8.4} किं प्रथमाꣳ रात्रिम् आश्ना इति । प्रजां त इति । किं द्वितीयाम् इति । पशूꣳस् त इति । किं तृतीयाम् इति । साधुकृत्यां त इति । नमस् ते अस्तु भगव इति ह_उवाच । वरं वृणीष्व_इति । पितरम् एव जीवन्न् अयानीति । द्वितीयं वृणीष्व_इति ।

VERSE: 5 { 3.11.8.5} इष्टापूर्तयोर् मे ऽक्षितिं ब्रूहीति ह_उवाच । तस्मै हैतम् अग्निं नाचिकेतम् उवाच । ततो वै तस्य_इष्टापूर्ते ना क्षीयेते । नास्य_इष्टापूर्ते क्षीयेते । यो ऽग्निं नाचिकेतं चिनुते । य उ चैनम् एवं वेद । तृतीयं वृणीष्व_इति । पुनर्मृत्योर् मे ऽपजितिं {आनंदा. ऽपचितिं} ब्रूहीति ह_उवाच । तस्मै हैतम् अग्निं नाचिकेतम् उवाच । ततो वै सो ऽप पुनर्मृत्युम् अजयत् ।

VERSE: 6 { 3.11.8.6} अप पुनर्मृत्युं जयति । यो ऽग्निं नाचिकेतं चिनुते । य उ चैनम् एवं वेद । प्रजापतिर् वै प्रजाकामस् तपो ऽतप्यत । स हिरण्यम् उदास्यत् । तद् अग्नौ प्रास्यत् । तद् अस्मै नाच्छदयत् । तद् द्वितीयं प्रास्यत् । तद् अस्मै न_एवाच्छदयत् । तत् तृतीयं प्रास्यत् ।

VERSE: 7 { 3.11.8.7} तद् अस्मै न_एवाच्छदयत् । तद् आत्मन्न् एव हृदय्ये ऽग्नौ वैश्वानरे प्रास्यत् । तद् अस्मा अच्छदयत् । तस्माद् धिरण्यं कनिष्ठं धनानाम् । भुञ्जत् प्रियतमम् । हृदयजꣳ हि । स वै तम् एव नाविन्दत् । यस्मै तां दक्षिणाम् अनेष्यत् । ताꣳ स्वाय_एव हस्ताय दक्षिणायानयत् । तां प्रत्यगृह्णात् ।

VERSE: 8 { 3.11.8.8} दक्षाय त्वा दक्षिणां प्रतिगृह्णामीति । सो ऽदक्षत दक्षिणां प्रतिगृह्य । दक्षते ह वै दक्षिणां प्रतिगृह्य । य एवं वेद । एतद् ध स्म वै तद् विद्वाꣳसो वाजश्रवसा गोतमाः । अप्य् अनूदेश्यां दक्षिणां प्रतिगृह्णन्ति । उभयेन वयं दक्षिष्यामह एव दक्षिणां प्रतिगृह्य_इति । ते ऽदक्षन्त दक्षिणां प्रतिगृह्य । दक्षते ह वै दक्षिणां प्रतिगृह्य । य एवं वेद । प्र हान्यं व्लीनाति ।

अनुवाक 9 नाचिकेताग्निचयनम् VERSE: 1 { 3.11.9.1} तꣳ हैतम् एके पशुबन्ध एव_उत्तरवेद्यां चिन्वते । उत्तरवेदिसंमित एषो ऽग्निर् इति वदन्तः । तन् न तथा कुर्यात् । एतम् अग्निं कामेन व्यर्धयेत् । स एनं कामेन व्यृद्धः । कामेन व्यर्धयेत् । सौम्ये वाव_एनम् अध्वरे चिन्वीत । यत्र वा भूयिष्ठा आहुतयो हूयेरन् । एतम् अग्निं कामेन समर्धयति । स एनं कामेन समृद्धः ।

VERSE: 2 { 3.11.9.2} कामेन समर्धयति । अथ हैनं पुरा_ऋषयः । उत्तरवेद्याम् एव सत्त्रियम् अचिन्वत । ततो वै ते ऽविन्दन्त प्रजाम् । अभि स्वर्गं लोकम् अजयन् । विन्दत एव प्रजाम् । अभि स्वर्गं लोकं जयति । यो ऽग्निं नाचिकेतं चिनुते । य उ चैनम् एवं वेद । अथ हैनं वायुर् ऋद्धिकामः ।

VERSE: 3 { 3.11.9.3} यथान्युप्तम् एव_उपदधे । ततो वै स एताम् ऋद्धिम् आर्ध्नोत् । याम् इदं वायुर् ऋद्धः । एताम् ऋद्धिम् ऋध्नोति । याम् इदं वायुर् ऋद्धः । यो ऽग्निं नाचिकेतं चिनुते । य उ चैनम् एवं वेद । अथ हैनं गोबलो वार्ष्णः पशुकामः । पाङ्क्तम् एव चिक्ये । पञ्च पुरस्तात् ।

VERSE: 4 { 3.11.9.4} पञ्च दक्षिणतः । पञ्च पश्चात् । पञ्च_उत्तरतः । एकां मध्ये । ततो वै स सहस्रं पशून् प्राप्नोत् । प्र सहस्रं पशून् आप्नोति । यो ऽग्निं नाचिकेतं चिनुते । य उ चैनम् एवं वेद । अथ हैनं प्रजापतिर् ज्यैष्ठ्यकामो यशस्कामः प्रजननकामः । त्रिवृतम् एव चिक्ये ।

VERSE: 5 { 3.11.9.5} सप्त पुरस्तात् । तिस्रो दक्षिणतः । सप्त पश्चात् । तिस्र उत्तरतः । एकां मध्ये । ततो वै स प्र यशो ज्यैष्ठ्यम् आप्नोत् । एतां प्रजातिं प्राजायत । याम् इदं प्रजाः प्रजायन्ते । त्रिवृद् वै ज्यैष्ठ्यम् । माता पिता पुत्रः ।

VERSE: 6 { 3.11.9.6} त्रिवृत् प्रजननम् । उपस्थो योनिर् मध्यमा । प्र यशो ज्यैष्ठ्यम् आप्नोति । एतां प्रजातिं प्रजायते । याम् इदं प्रजाः प्रजायन्ते । यो ऽग्निं नाचिकेतं चिनुते । य उ चैनम् एवं वेद । अथ हैनम् इन्द्रो ज्यैष्ठ्यकामः । ऊर्ध्वा एव_उपदधे । ततो वै स ज्यैष्ठ्यमगच्छत् ।

VERSE: 7 { 3.11.9.7} ज्यैष्ठ्यं गच्छति । यो ऽग्निं नाचिकेतं चिनुते । य उ चैनम् एवं वेद । अथ हैनम् असाव् आदित्यः स्वर्गकामः । प्राचीर् एव_उपदधे । ततो वै सो ऽभि स्वर्गं लोकम् अजयत् । अभि स्वर्गं लोकं जयति । यो ऽग्निं नाचिकेतं चिनुते । य उ चैनम् एवं वेद । स यदीच्छेत् ।

VERSE: 8 { 3.11.9.8} तेजस्वी यशस्वी ब्रह्मवर्चसी स्याम् इति । प्राङ् आ होतुर् धिष्ण्याद् उत्सर्पेत् । या_इयं प्रागाद् यशस्वती । सा मा प्रोर्णोतु । तेजसा यशसा ब्रह्मवर्चसेन_इति । तेजस्व्य् एव यशस्वी ब्रह्मवर्चसी भवति । अथ यदीच्छेत् । भूयिष्ठं मे श्रद्दधीरन् । भूयिष्ठा दक्षिणा नयेयुर् इति । दक्षिणासु नीयमानासु प्राच्य् एहि प्राच्य् एहीति प्राची जुषाणा वेत्व् आज्यस्य स्वाहा_इति स्रुवेण_उपहत्य_आहवनीये जुहुयात् ।

VERSE: 9 { 3.11.9.9} भूयिष्ठम् एवास्मै श्रद्दधते । भूयिष्ठा दक्षिणा नयन्ति । पुरीषम् उपधाय । चितिक्लृप्तिभिर् अभिमृश्य । अग्निं प्रणीय_उपसमाधाय । चतस्र एता आहुतीर् जुहोति । त्वम् अग्ने रुद्र इति । शतरुद्रीयस्य रूपम् । अग्नाविष्णू इति वसोर्धारायाः । अन्नपत इत्य् अन्नहोमः । सप्त ते अग्ने समिधः सप्त जिह्वा इति विश्वप्रीः ।

अनुवाक 10 नाचिकेताग्निचयनम् VERSE: 1 { 3.11.10.10} यां प्रथमाम् इष्टकाम् उपदधाति । इमं तया लोकम् अभिजयति । अथो या अस्मिन्_लोके देवताः । तासाꣳ सायुज्यꣳ सलोकताम् आप्नोति । यां द्वितीयाम् उपदधाति । अन्तरिक्षलोकं तया_अभिजयति । अथो या अन्तरिक्षलोके देवताः । तासाꣳ सायुज्यꣳ सलोकताम् आप्नोति । यां तृतीयाम् उपदधाति । अमुं तया लोकम् अभिजयति ।

VERSE: 2 { 3.11.10.2} अथो या अमुष्मिन्_लोके देवताः । तासाꣳ सायुज्यꣳ सलोकताम् आप्नोति । अथो या अमूर् इतरा अष्टादश । य एवामी उरवश् च वरीयाꣳसश् च लोकाः । तान् एव ताभिर् अभिजयति । कामचारो ह वा अस्य_उरुषु च वरीयःसु च लोकेषु भवति । यो ऽग्निं नाचिकेतं चिनुते । य उ चैनम् एवं वेद । संवत्सरो वा अग्निर् नाचिकेतः । तस्य वसन्तः शिरः ।

VERSE: 3 { 3.11.10.3} ग्रीष्मो दक्षिणः पक्षः । वर्षा उत्तरः । शरत् पुच्छम् । मासाः कर्मकाराः । अहोरात्रे शतरुद्रीयम् । पर्जन्यो वसोर्धारा । यथा वै पर्जन्यः सुवृष्टं वृष्ट्वा । प्रजाभ्यः सर्वान् कामान्त् संपूरयति । एवम् एव स तस्य सर्वान् कामान्त् संपूरयति । यो ऽग्निं नाचिकेतं चिनुते ।

VERSE: 4 { 3.11.10.4} य उ चैनम् एवं वेद । संवत्सरो वा अग्निर् नाचिकेतः । तस्य वसन्तः शिरः । ग्रीष्मो दक्षिणः पक्षः । वर्षाः पुच्छम् । शरद् उत्तरः पक्षः । हेमन्तो मध्यम् । पूर्वपक्षाश् चितयः । अपरपक्षाः पुरीषम् । अहोरात्राणीष्टकाः । एष वाव सो ऽग्निर् अग्निमयः पुनर्णवः । अग्निमयो ह वै पुनर्णवो भूत्वा । स्वर्गं लोकम् एति । आदित्यस्य सायुज्यम् । यो ऽग्निं नाचिकेतं चिनुते । य उ चैनम् एवं वेद ।




प्रपाठक: 12 अनुवाक 1 चातुर्होत्राग्निचयनम्, वैश्वसृजाग्निचयनम् VERSE: 1 { 3.12.1.1} तुभ्यं ता अङ्गिरस्तम,_अश्याम तं कामम् अग्ने । आशानां त्वा, विश्वा आशाः । अनु नो ऽद्यानुमतिर्, अन्व् इद् अनुमते त्वम् । कामो भूतस्य कामस् तद् अग्रे । ब्रह्म जज्ञानं, पिता विराजाम् । यज्ञो रायो ऽयं यज्ञः । आपो भद्रा आद् इत् पश्यामि । तुभ्यं भरन्ति यो देह्यः । पूर्वं देवा अपरेण, प्राणापानौ । हव्यवाहꣳ, स्विष्टम् ।

अनुवाक 2 चातुर्होत्राग्निचयनम्, वैश्वसृजाग्निचयनम् VERSE: 1 { 3.12.2.1} देवेभ्यो वै स्वर्गो लोकस् तिरो ऽभवत् । ते प्रजापतिम् अब्रुवन् । प्रजापते स्वर्गो वै नो लोकस् तिरो ऽभूत् । तम् अन्व् इच्छ_इति । तं यज्ञक्रतुभिर् अन्वैच्छत् । तं यज्ञक्रतुभिर् नान्वविन्दत् । तम् इष्टिभिर् अन्वैच्छत् । तम् इष्टिभिर् अन्वविन्दत् । तद् इष्टीनाम् इष्टित्वम् । एष्टयो ह वै नाम । ता इष्टय इत्य् आचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः ।

VERSE: 2 { 3.12.2.2} तम् आशा_अब्रवीत् । प्रजापत आशया वै श्राम्यसि । अहम् उ वा आशा_अस्मि । मां नु यजस्व । अथ ते सत्या_आशा भविष्यति । अनु स्वर्गं लोकं वेत्स्यसीति । स एतम् अग्नये कामाय पुरोडाशम् अष्टाकपालं निरवपत् । आशायै चरुम् । अनुमत्यै चरुम् । ततो वै तस्य सत्या_आशा_अभवत् । अनु स्वर्गं लोकम् अविन्दत् । सत्या ह वा अस्य_आशा भवति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । अग्नये कामाय स्वाहा_आशायै स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहा_अग्नये स्विष्टकृते स्वाहा_इति ।

VERSE: 3 { 3.12.2.3} तं कामो ऽब्रवीत् । प्रजापते कामेन वै श्राम्यसि । अहम् उ वै कामो ऽस्मि । मां नु यजस्व । अथ ते सत्यः कामो भविष्यति । अनु स्वर्गं लोकं वेत्स्यसीति । स एतम् अग्नये कामाय पुरोडाशम् आष्टाकपालं निरवपत् । कामाय चरुम् । अनुमत्यै चरुम् । ततो वै तस्य सत्यः कामो ऽभवत् । अनु स्वर्गं लोकम् अविन्दत् । सत्यो ह वा अस्य कामो भवति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । अग्नये कामाय स्वाहा कामाय स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहा_अग्नये स्विष्टकृते स्वाहा_इति ।

VERSE: 4 { 3.12.2.4} तं ब्रह्माब्रवीत् । प्रजापते ब्रह्मणा वै श्राम्यसि । अहम् उ वै ब्रह्मास्मि । मां नु यजस्व । अथ ते ब्रह्मण्वान् यज्ञो भविष्यति । अनु स्वर्गं लोकं वेत्स्यसीति । स एतम् अग्नये कामाय पुरोडाशम् अष्टाकपालं निरवपत् । ब्रह्मणे चरुम् । अनुमत्यै चरुम् । ततो वै तस्य ब्रह्मण्वान् यज्ञो ऽभवत् । अनु स्वर्गं लोकम् अविन्दत् । ब्रह्मण्वान् ह वा अस्य यज्ञो भवति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । अग्नये कामाय स्वाहा ब्रह्मणे स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहा_अग्नये स्विष्टकृते स्वाहा_इति ।

VERSE: 5 { 3.12.2.5} तं यज्ञो ऽब्रवीत् । प्रजापते यज्ञेन वै श्राम्यसि । अहम् उ वै यज्ञो ऽस्मि । मां नु यजस्व । अथ ते सत्यो यज्ञो भविष्यति । अनु स्वर्गं लोकं वेत्स्यसीति । स एतम् अग्नये कामाय पुरोडाशम् अष्टाकपालं निरवपत् । यज्ञाय चरुम् । अनुमत्यै चरुम् । ततो वै तस्य सत्यो यज्ञो ऽभवत् । अनु स्वर्गं लोकम् अविन्दत् । सत्यो ह वा अस्य यज्ञो भवति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । अग्नये कामाय स्वाहा यज्ञाय स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहा_अग्नये स्विष्टकृते स्वाहा_इति ।

VERSE: 6 { 3.12.2.6} तम् आपो ऽब्रुवन् । प्रजापते ऽप्सु वै सर्वे कामाः श्रिताः । वयम् उ वा आपः स्मः । अस्मान् नु यजस्व । अथ त्वयि सर्वे कामाः श्रयिष्यन्ते । अनु स्वर्गं लोकं वेत्स्यसीति । स एतम् अग्नये कामाय पुरोडाशम् अष्टाकपालं निरवपत् । अद्भ्यश् चरुम् । अनुमत्यै चरुम् । ततो वै तस्मिन्त् सर्वे कामा अश्रयन्त । अनु स्वर्गं लोकम् अविन्दत् । सर्वे ह वा अस्मिन् कामाः श्रयन्ते । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । अग्नये कामाय स्वाहा_अद्भ्यः स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहा_अग्नये स्विष्टकृते स्वाहा_इति ।

VERSE: 7 { 3.12.2.7} तम् अग्निर् बलिमान् अब्रवीत् । प्रजापते ऽग्नये वै बलिमते सर्वाणि भूतानि बलिꣳ हरन्ति । अहम् उ वा अग्निर् बलिमान् अस्मि । मां नु यजस्व । अथ ते सर्वाणि भूतानि बलिꣳ हरिष्यन्ति । अनु स्वर्गं लोकं वेत्स्यसीति । स एतम् अग्नये कामाय पुरोडाशम् अष्टाकपालं निरवपत् । अग्नये बलिमते चरुम् । अनुमत्यै चरुम् । ततो वै तस्मै सर्वाणि भूतानि बलिम् अहरन् । अनु स्वर्गं लोकम् अविन्दत् । सर्वाणि ह वा अस्मै भूतानि बलिꣳ हरन्ति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । अग्नये कामाय स्वाहा_अग्नये बलिमते स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहा_अग्नये स्विष्टकृते स्वाहा_इति ।

VERSE: 8 { 3.12.2.8} तम् अनुवित्तिर् अब्रवीत् । प्रजापते स्वर्गं वै लोकम् अनुविवित्ससि । अहम् उ वा अनुवित्तिर् अस्मि । मां नु यजस्व । अथ ते सत्या_अनुवित्तिर् भविष्यति । अनु स्वर्गं लोकं वेत्स्यसीति । स एतम् अग्नये कामाय पुरोडाशम् अष्टाकपालं निरवपत् । अनुवित्त्यै चरुम् । अनुमत्यै चरुम् । ततो वै तस्य सत्या_अनुवित्तिर् अभवत् । अनु स्वर्गं लोकम् अविन्दत् । सत्या ह वा अस्यानुवित्तिर् भवति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । अग्नये कामाय स्वाहा_अनुवित्त्यै स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहा_अग्नये स्विष्टकृते स्वाहा_इति ।

VERSE: 9 { 3.12.2.9} ता वा एताः सप्त स्वर्गस्य लोकस्य द्वारः । दिवः श्येनयो ऽनुवित्तयो नाम । आशा प्रथमाꣳ रक्षति । कामो द्वितीयाम् । ब्रह्म तृतीयाम् । यज्ञश् चतुर्थीम् । आपः पञ्चमीम् । अग्निर् बलिमान्त् षष्ठीम् । अनुवित्तिः सप्तमीम् । अनु ह वै स्वर्गं लोकं विन्दति । कामचारो ऽस्य स्वर्गे लोके भवति । य एताभिर् इष्टिभिर् यजते । य उ चैना एवं वेद । तास्व् अन्विष्टि । पष्ठौहीवरां दद्यात् कꣳसं च । स्त्रियै च_आभारꣳ समृद्ध्यै ।

अनुवाक 3 चातुर्होत्राग्निचयनम्, वैश्वसृजाग्निचयनम् VERSE: 1 { 3.12.3.1} तपसा देवा देवताम् अग्र आयन् । तपसा_ऋषयः स्वर् अन्वविन्दन् । तपसा सपत्नान् प्रणुदामारातीः । येनेदं विश्वं परिभूतं यद् अस्ति । प्रथमजं देवꣳ हविषा विधेम । स्वयंभु ब्रह्म परमं तपो यत् । स एव पुत्रः स पिता स माता । तपो ह यक्षं प्रथमं संबभूव । श्रद्धया_आ देवो देवत्वम् अश्नुते । श्रद्धा प्रतिष्ठा लोकस्य देवी ।

VERSE: 2 { 3.12.3.2} सा नो जुषाणा_उपयज्ञम् आगात् । कामवत्सा_अमृतं दुहाना । श्रद्धा देवी प्रथमजा ऋतस्य । विश्वस्य भर्त्री जगतः प्रतिष्ठा । ताꣳ श्रद्धाꣳ हविषा यजामहे । सा नो लोकम् अमृतं दधातु । ईशाना देवी भुवनस्याधिपत्नी । आगात् सत्यꣳ हविर् इदं जुषाणम् । यस्माद् देवा जज्ञिरे भुवनं च विश्वे । तस्मै विधेम हविषा घृतेन ।

VERSE: 3 { 3.12.3.3} यथा देवैः सधमादं मदेम । यस्य प्रतिष्ठा_उर्व् अन्तरिक्षम् । यस्माद् देवा जज्ञिरे भुवनं च सर्वे । तत् सत्यम् अर्चद् उप यज्ञं न आगात् । ब्रह्म_आहुतीर् उप मोदमानम् । मनसो वशे सर्वम् इदं बभूव । नान्यस्य मनो वशम् अन्वियाय । भीष्मो हि देवः सहसः सहीयान् । स नो जुषाण उप यज्ञम् आगात् । आकूतीनाम् अधिपतिं चेतसां च ।

VERSE: 4 { 3.12.3.4} संकल्पजूतिं देवं विपश्चिम् । मनो राजानम् इह वर्धयन्तः । उपहवे ऽस्य सुमतौ स्याम । चरणं पवित्रं विततं पुराणम् । येन पूतस् तरति दुष्कृतानि । तेन पवित्रेण शुद्धेन पूताः । अति पाप्मानम् अरातिं तरेम । लोकस्य द्वारम् अर्चिमत् पवित्रम् । ज्योतिष्मद् भ्राजमानं महस्वत् । अमृतस्य धारा बहुधा दोहमानम् । चरणं नो लोके सुधितां { सुधितान्} दधातु । अग्निर् मूर्धा भुवः । अनु नो ऽद्यानुमतिर् अन्व् इद् अनुमते त्वम् । हव्यवाहꣳ, स्विष्टम् ।

अनुवाक 4 चातुर्होत्राग्निचयनम्, वैश्वसृजाग्निचयनम् VERSE: 1 { 3.12.4.1} देवेभ्यो वै स्वर्गो लोकस् तिरो ऽभवत् । ते प्रजापतिम् अब्रुवन् । प्रजापते स्वर्गो वै नो लोकस् तिरो ऽभूत् । तम् अन्विच्छ_इति । तं यज्ञक्रतुभिर् अन्वैच्छत् । तं यज्ञक्रतुभिर् नान्वविन्दत् । तम् इष्टिभिर् अन्वैच्छत् । तम् इष्टिभिर् अन्वविन्दत् । तद् इष्टीनाम् इष्टित्वम् । एष्टयो ह वै नाम । ता इष्टय इत्य् आचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः ।

VERSE: 2 { 3.12.4.2} तं तपो ऽब्रवीत् । प्रजापते तपसा वै श्राम्यसि । अहम् उ वै तपो ऽस्मि । मां नु यजस्व । अथ ते सत्यं तपो भविष्यति । अनु स्वर्गं लोकं वेत्स्यसीति । स एतम् आग्नेयम् अष्टाकपालं निरवपत् । तपसे चरुम् । अनुमत्यै चरुम् । ततो वै तस्य सत्यं तपो ऽभवत् । अनु स्वर्गं लोकम् अविन्दत् । सत्यꣳ ह वा अस्य तपो भवति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । अग्नये स्वाहा तपसे स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहा_अग्नये स्विष्टकृते स्वाहा_इति ।

VERSE: 3 { 3.12.4.3} तꣳ श्रद्धा_अब्रवीत् । प्रजापते श्रद्धया वै श्राम्यसि । अहम् उ वै श्रद्धा_अस्मि । मां नु यजस्व । अथ ते सत्या श्रद्धा भविष्यति । अनु स्वर्गं लोकं वेत्स्यसीति । स एतम् आग्नेयम् अष्टाकपालं निरवपत् । श्रद्धायै चरुम् । अनुमत्यै चरुम् । ततो वै तस्य सत्या श्रद्धा_अभवत् । अनु स्वर्गं लोकम् अविन्दत् । सत्या ह वा अस्य श्रद्धा भवति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । अग्नये स्वाहा श्रद्धायै स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहा_अग्नये स्विष्टकृते स्वाहा_इति ।

VERSE: 4 { 3.12.4.4} तꣳ सत्यम् अब्रवीत् । प्रजापते सत्येन वै श्राम्यसि । अहम् उ वै सत्यम् अस्मि । मां नु यजस्व { यजस्य} । अथ ते सत्यꣳ सत्यं भविष्यति । अनु स्वर्गं लोकं वेत्स्यसीति । स एतम् आग्नेयम् अष्टाकपालं निरवपत् । सत्याय चरुम् । अनुमत्यै चरुम् । ततो वै तस्य सत्यꣳ सत्यम् अभवत् । अनु स्वर्गं लोकम् अविन्दत् । सत्यꣳ ह वा अस्य सत्यं भवति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । अग्नये स्वाहा सत्याय स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहा_अग्नये स्विष्टकृते स्वाहा_इति ।

VERSE: 5 { 3.12.4.5} तं मनो ऽब्रवीत् । प्रजापते मनसा वै श्राम्यसि । अहम् उ वै मनो ऽस्मि । मां नु यजस्व । अथ ते सत्यं मनो भविष्यति । अनु स्वर्गं लोकं वेत्स्यसीति । स एतम् आग्नेयम् अष्टाकपालं निरवपत् । मनसे चरुम् । अनुमत्यै चरुम् । ततो वै तस्य सत्यं मनो ऽभवत् । अनु स्वर्गं लोकम् अविन्दत् । सत्यꣳ ह वा अस्य मनो हवति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । अग्नये स्वाहा मनसे स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहा_अग्नये स्विष्टकृते स्वाहा_इति ।

VERSE: 6 { 3.12.4.6} तं चरणम् अब्रवीत् । प्रजापते चरणेन वै श्राम्यसि । अहम् उ वै चरणम् अस्मि । मां नु यजस्व । अथ ते सत्यं चरणं भविष्यति । अनु स्वर्गं लोकं वेत्स्यसीति । स एतम् आग्नेयम् अष्टाकपालं निरवपत् । चरणाय चरुम् । अनुमत्यै चरुम् । ततो वै तस्य सत्यं चरणम् अभवत् । अनु स्वर्गं लोकम् अविन्दत् । सत्यꣳ ह वा अस्य चरणं भवति । अनु स्वर्गं लोकं विन्दति । य एतेन हविषा यजते । य उ चैनद् एवं वेद । सो ऽत्र जुहोति । अग्नये स्वाहा चरणाय स्वाहा । अनुमत्यै स्वाहा प्रजापतये स्वाहा । स्वर्गाय लोकाय स्वाहा_अग्नये स्विष्टकृते स्वाहा_इति ।

VERSE: 7 { 3.12.4.7} ता वा एताः पञ्च स्वर्गस्य लोकस्य द्वारः । अपाघा अनुवित्तयो नाम । तपः प्रथमाꣳ रक्षति । श्रद्धा द्वितीयाम् । सत्यं तृतीयाम् । मनश् चतुर्थीम् । चरणं पञ्चमीम् । अनु ह वै स्वर्गं लोकं विन्दति । कामचारो ऽस्य स्वर्गे लोके भवति । य एताभिर् इष्टिभिर् यजते । य उ चैना एवं वेद । तास्व् अन्विष्टि । पष्ठौहीवरां दद्यात् कꣳसं च । स्त्रियै च_आभारꣳ समृद्ध्यै ।

अनुवाक 5 चातुर्होत्राग्निचयनम्, वैश्वसृजाग्निचयनम् VERSE: 1 { 3.12.5.1} ब्रह्म वै चतुर्होतारः । चतुर्होतृभ्यो ऽधि यज्ञो निर्मितः । न_एनꣳ शप्तम् । नाभिचरितम् आगच्छति । य एवं वेद । यो ह वै चतुर्होतृणां चतुर्होतृत्वं वेद । अथो पञ्चहोतृत्वम् । सर्वा हास्मै दिशः कल्पन्ते । वाचस्पतिर् होता दशहोतॄणाम् । पृथिवी होता चतुर्होतॄणाम् ।

VERSE: 2 { 3.12.5.2} अग्निर् होता पञ्चहोतॄणाम् । वाग् घोता षड्ड्होतॄणाम् । महाहविर् होता सप्तहोतॄणाम् । एतद् वै चतुर्होतृणां चतुर्होतृत्वम् । अथो पञ्चहोतृत्वम् । सर्वा हास्मै दिशः कल्पन्ते । य एवं वेद । एषा वै सर्वविद्या । एतद् भेषजम् । एषा पङ्क्तिः स्वर्गस्य लोकस्याञ्जसोयनिः स्रुतिः ।

VERSE: 3 { 3.12.5.3} एतान् यो ऽध्यैत्य् { ऽध्येत्य्} अच्छदिर् दर्शे यावत् तरसम् । स्वर् एति । अनपब्रवः सर्वम् आयुर् एति । विन्दते प्रजाम् । रायस्पोषं गौपत्यम् । ब्रह्मवर्चसी भवति । एतान् यो ऽध्यैति । स्पृणोत्य् आत्मानम् । प्रजां पितॄन् । एतान् वा अरुण औपवेशिर् विदाञ्चकार ।

VERSE: 4 { 3.12.5.4} एतैर् अधिवादम् अपाजयत् । अथो विश्वं पाप्मानम् । स्वर् ययौ । एतान् यो ऽध्यैति । अधिवादं जयति । अथो विश्वं पाप्मानम् । स्वर् एति । एतैर् अग्निं चिन्वीत स्वर्गकामः । एतैर् आयुष्कामः । प्रजापशुकामो वा ।

VERSE: 5 { 3.12.5.5} पुरस्ताद् दशहोतारम् उदञ्चम् उपदधाति यावत्पदम् । हृदयं यजुषी पत्न्यौ च । दक्षिणतः प्राञ्चं चतुर्होतारम् । पश्चाद् उदञ्चं पञ्चहोतारम् । उत्तरतः प्राञ्चꣳ षड्ड्होतारम् । उपरिष्टात् प्राञ्चꣳ सप्तहोतारम् । हृदयं यजूꣳषि पत्न्यश् च { पन्त्यश्च} । यथावकाशं ग्रहान् । यथावकाशं प्रतिग्रहान्_लोकंपृणाश् च । सर्वा हास्यैता देवताः प्रीता अभीष्टा भवन्ति ।

VERSE: 6 { 3.12.5.6} सदेवम् अग्निं चिनुते । रथसंमितश् चेतव्यः । वज्रो वै रथः । वज्रेणैव पाप्मानं भ्रातृव्यꣳ स्तृणुते । पक्षःसंमितश् चेतव्यः । एतावान् वै रथः । यावत् पक्षः । रथसंमितम् एव चिनुते । इमम् एव लोकं पशुबन्धेनाभिजयति । अथो अग्निष्टोमेन ।

VERSE: 7 { 3.12.5.7} अन्तरिक्षम् उक्थ्येन । स्वर् अतिरात्रेण । सर्वान्_लोकान् अहीनेन । अथो सत्रेण । वरो दक्षिणा । वरेणैव वरꣳ स्पृणोति । आत्मा हि वरः । एकविꣳशतिर् दक्षिणा ददाति । एकविꣳशो वा इतः स्वर्गो लोकः । प्र स्वर्गं लोकम् आप्नोति ।

VERSE: 8 { 3.12.5.8} असाव् आदित्य एकविꣳशः । अमुम् एवाऽऽदित्यम् आप्नोति । शतं ददाति । शतायुः पुरुषः शतेन्द्रियः । आयुष्य् एव_इन्द्रिये प्रतितिष्ठति । सहस्रं ददाति । सहस्रसंमितः स्वर्गो लोकः । स्वर्गस्य लोकस्याभिजित्यै । अन्विष्टकं दक्षिणा ददाति । सर्वाणि वयाꣳसि ।

VERSE: 9 { 3.12.5.9} सर्वस्य_आप्त्यै । सर्वस्यावरुद्ध्यै । यदि न विन्देत । मन्थान् एतावतो दद्याद् ओदनान् वा । अश्नुते तं कामम् । यस्मै कामायाग्निश् चीयते । पष्ठौहीं त्व् अन्तर्वतीं दद्यात् । सा हि सर्वाणि वयाꣳसि । सर्वस्य_आप्त्यै । सर्वस्यावरुद्ध्यै ।

VERSE: 10 { 3.12.5.10} हिरण्यं ददाति । हिरण्यज्योतिर् एव स्वर्गं लोकम् एति । वासो ददाति । तेन_आयुः प्रतिरते । वेदितृतीये यजेत । त्रिषत्या हि देवाः । ससत्यम् अग्निं चिनुते । तद् एतत् पशुबन्धे ब्राह्मणं ब्रूयात् । न_इतरेषु यज्ञेषु । यो ह वै चतुर्होतॄन् अनुसवनं तर्पयितव्यान् वेद ।

VERSE: 11 { 3.12.5.11} तृप्यति प्रजया पशुभिः । उप_एनꣳ सोमपीथो नमति । एते वै चतुर्होतारो ऽनुसवनं तर्पयितव्याः । ये ब्राह्मणा बहुविदः । तेभ्यो यद् दक्षिणा न नयेत् । दुरिष्टꣳ स्यात् । अग्निम् अस्य वृञ्जीरन् । तेभ्यो यथाश्रद्धं दद्यात् । स्विष्टम् एव_एतत् क्रियते । नास्याग्निं वृञ्जते ।

VERSE: 12 { 3.12.5.12} हिरण्य_इष्टको भवति । यावद् उत्तमम् अङ्गुलिकाण्डं यज्ञपरुषा संमितम् । तेजो हिरण्यम् । यदि हिरण्यं न विन्देत् । शर्करा अक्ता उपदध्यात् । तेजो घृतम् । सतेजसम् एवाग्निं चिनुते । अग्निं चित्वा सौत्रामण्या यजेत मैत्रावरुण्या वा । वीर्येण वा एष व्यृध्यते । यो ऽग्निं चिनुते ।

VERSE: 13 { 3.12.5.13} यावद् एव वीर्यम् । तद् अस्मिन् दधाति । ब्रह्मणः सायुज्यꣳ सलोकताम् आप्नोति । एतासाम् एव देवतानाꣳ सायुज्यम् । सार्ष्टिताꣳ समानलोकताम् आप्नोति । य एतम् अग्निं चिनुते । य उ चैनम् एवं वेद । एतद् एव सावित्रे ब्राह्मणम् । अथो नाचिकेते ।

अनुवाक 6 चातुर्होत्राग्निचयनम्, वैश्वसृजाग्निचयनम् VERSE: 1 { 3.12.6.1} यच् चामृतं यच् च मर्त्यम् । यच् च प्राणिति यच् च न । सर्वास् ता इष्टकाः कृत्वा । उप कामदुघा दधे । तेन_ ऋषिणा तेन ब्रह्मणा । तया देवतया_अङ्गिरस्वद् ध्रुवा सीद । सर्वाः स्त्रियः सर्वान् पुꣳसः । सर्वं नस्त्रीपुमं च यत् । सर्वास् ताः । यावन्तः पाꣳसवो भूमेः ।

VERSE: 2 { 3.12.6.2} संख्याता देवमायया । सर्वास् ताः । यावन्त ऊषाः पशूनाम् । पृथिव्यां पुष्टिर् हिताः । सर्वास् ताः । यावतीः सिकताः सर्वाः । अप्स्व् अन्तश् च याः स्रिताः । सर्वास् ताः । यावतीः शर्करा धृत्यै । अस्यां पृथिव्याम् अधि ।

VERSE: 3 { 3.12.6.3} सर्वास् ताः । यावन्तो ऽश्मानो ऽस्यां पृथिव्याम् । प्रतिष्ठासु प्रतिष्ठिताः । सर्वास् ताः । यावतीर् वीरुधः सर्वाः । विष्ठिताः पृथिवीम् अनु । सर्वास् ताः । यावतीर् ओषधीः सर्वाः । विष्ठिताः पृथिवीम् अनु । सर्वास् ताः ।

VERSE: 4 { 3.12.6.4} यावन्तो वनस्पतयः । अस्यां पृथिव्याम् अधि । सर्वास् ताः । यावन्तो ग्राम्याः पशवः सर्वे । आरण्याश् च ये । सर्वास् ताः । ये द्विपादश् चतुष्पादः । अपाद उदरसर्पिणः । सर्वास् ताः । यावद् आञ्जनम् उच्यते ।

VERSE: 5 { 3.12.6.5} देवत्रा यच् च मानुषम् । सर्वास् ताः । यावत् कृष्णायसꣳ सर्वम् । देवत्रा यच् च मानुषम् । सर्वास् ताः । यावल् लोहायसꣳ सर्वम् । देवत्रा यच् च मानुषम् । सर्वास् ताः । सर्वꣳ सीसꣳ सर्वं त्रपु । देवत्रा यच् च मानुषम् ।

VERSE: 6 { 3.12.6.6} सर्वास् ताः । सर्वꣳ हिरण्यꣳ रजतम् । देवत्रा यच् च मानुषम् । सर्वास् ताः । सर्वꣳ सुवर्णꣳ हरितम् । देवत्रा यच् च मानुषम् । सर्वास् ता इष्टकाः कृत्वा उप कामदुघा दधे । तेन_ ऋषिणा तेन ब्रह्मणा तया देवतयाङ्गिरस्वद् ध्रुवा सीद ।

अनुवाक 7 चातुर्होत्राग्निचयनम्, वैश्वसृजाग्निचयनम् VERSE: 1 { 3.12.7.1} सर्वा दिशो दिक्षु । यच् चान्तर् भूतं प्रतिष्ठितम् । सर्वास् ता इष्टकाः कृत्वा । उप कामदुघा दधे । तेन_ ऋषिणा तेन ब्रह्मणा । तया देवतयाङ्गिरस्वद् ध्रुवा सीद । अन्तरिक्षं च केवलम् । यच् चास्मिन्न् अन्तराहितम् । सर्वास् ताः । आन्तरिक्ष्यश् च याः प्रजाः ।

VERSE: 2 { 3.12.7.2} गन्धर्वाप्सरसश् च ये । सर्वास् ताः । सर्वान् उदारान्त् सलिलान् । अन्तरिक्षे प्रतिष्ठितान् । सर्वास् ताः । सर्वान् उदारान्त् सलिलान् । स्थावराः प्रोष्याश् च ये । सर्वास् ताः । सर्वां धुनिꣳ सर्वान् ध्वꣳसान् । हिमो यच् च शीयते ।

VERSE: 3 { 3.12.7.3} सर्वास् ताः । सर्वान् मरीचीन् विततान् । नीहारो यच् च शीयते । सर्वास् ताः । सर्वा विद्युतः सर्वान्त् स्तनयित्नून् । ह्रादुनीर् यच् च शीयते । सर्वास् ताः । सर्वाः स्रवन्तीः सरितः । सर्वम् अप्सुचरं च यत् । सर्वास् ताः ।

VERSE: 4 { 3.12.7.4} याश् च कूप्या याश् च नाद्याः समुद्रियाः । याश् च वैशन्तीर् उत प्रासचीर्याः । सर्वास् ताः । ये चोत्तिष्ठन्ति जीमूताः । याश् च वर्षन्ति वृष्टयः । सर्वास् ताः । तपस् तेज आकाशं । यच् च_आकाशे प्रतिष्ठितम् । सर्वास् ताः । वायुं वयाꣳसि सर्वाणि ।

VERSE: 5 { 3.12.7.5} अन्तरिक्षचरं च यत् । सर्वास् ताः । अग्निꣳ सूर्यं चन्द्रम् । मित्रं वरुणं भगम् । सर्वास् ताः । सत्यꣳ श्रद्धाꣳ तपो दमम् । नाम रूपं च भूतानाम् । सर्वास् ता इष्टकाः कृत्वा उप कामदुघा दधे । तेन_ ऋषिणा तेन ब्रह्मणा । तया देवतयाङ्गिरस्वद् ध्रुवा सीद ।

अनुवाक 8 चातुर्होत्राग्निचयनम्, वैश्वसृजाग्निचयनम् VERSE: 1 { 3.12.8.1} सर्वां दिवꣳ सर्वान् देवान् दिवि । यच् चान्तर् भूतं प्रतिष्ठितम् । सर्वास् ता इष्टकाः कृत्वा । उप कामदुघा दधे । तेन_ ऋषिणा तेन ब्रह्मणा । तया देवतयाङ्गिरस्वद् ध्रुवा सीद । यावतीस् तारकाः सर्वाः । वितता रोचने दिवि । सर्वास् ताः । ऋचो यजूꣳषि सामानि ।

VERSE: 2 { 3.12.8.2} अथर्वाङ्गिरसश् च ये । सर्वास् ताः । इतिहासपुराणं च । सर्पदेवजनाश् च ये । सर्वास् ताः । ये च लोका ये चालोकाः । अन्तर् भूतं प्रतिष्ठितम् । सर्वास् ताः । यच् च ब्रह्म यच् चाब्रह्म । अन्तर् ब्रह्मन् {ब्रह्मन्?} प्रतिष्ठितम् ।

VERSE: 3 { 3.12.8.3} सर्वास् ताः । अहोरात्राणि सर्वाणि । अर्धमासाꣳश् च केवलान् । सर्वास् ताः । सर्वान् ऋतून्त् सर्वान् मासान् । संवत्सरं च केवलम् । सर्वास् ताः । सर्वं भूतꣳ {,आनंदा. भूतं} सर्वं भव्यम् । यच् चातो ऽधिभविष्यति । सर्वास् ता इष्टकाः कृत्वा । उप कामदुघा दधे । तेन_ऋषिणा तेन ब्रह्मणा । तया देवतयाङ्गिरस्वद् ध्रुवा सीद ।

अनुवाक 9 चातुर्होत्राग्निचयनम्, वैश्वसृजाग्निचयनम् VERSE: 1 { 3.12.9.1} ऋचां प्राची महती दिग् उच्यते । दक्षिणाम् आहुर् यजुषाम् अपाराम् । अथर्वणाम् अङ्गिरसां प्रतीची । साम्नाम् उदीची महती दिग् उच्यते । ऋग्भिः पूर्वाह्णे दिवि देव ईयते । यजुर्वेदे तिष्ठति । मध्ये अह्नः । सामवेदेनास्तमये महीयते {ड्युमोण्ट महीयते ?} । वेदैर् अशून्यस् त्रिभिर् एति सूर्यः । ऋग्भ्यो जाताꣳ सर्वशो मूर्तिम् आहुः । सर्वा गतिर् याजुषी हैव शश्वत् ।

VERSE: 2 { 3.12.9.2} सर्वं तेजः सामरूप्यꣳ ह शश्वत् {,आनंदा. शश्वत्} । सर्वꣳ ह_इदं ब्रह्मणा हैव सृष्टम् । ऋग्भ्यो जातं वैश्यं वर्णम् आहुः । यजुर्वेदं क्षत्रियस्य_आहुर् योनिम् । सामवेदो ब्राह्मणानां प्रसूतिः । पूर्वे पूर्वेभ्यो वच एतद् ऊचुः । आदर्शम् अग्निं चिन्वानाः । पूर्वे विश्वसृजो ऽमृताः । शतं वर्षसहस्राणि । दीक्षिताः सत्त्रम् आसत ।

VERSE: 3 { 3.12.9.3} तप आसीद् गृहपतिः । ब्रह्म ब्रह्माभवत् स्वयम् । सत्यꣳ { सत्त्यꣳ} ह होता_एषाम् आसीत् {आसीत्?} । यद् विश्वसृज आसत । अमृतम् एभ्य उदगायत् । सहस्रं परिवत्सरान् । भूतꣳ ह प्रस्तोता_एषाम् आसीत् {आसीत्?} । भविष्यत् प्रति चाहरत् । प्राणो अध्वर्युर् अभवत् । इदꣳ सर्वꣳ सिषासताम् ।

VERSE: 4 { 3.12.9.4} अपानो विद्वान् आवृतः । प्रति प्रातिष्ठद् अध्वरे । आर्तवा उपगातारः । सदस्या ऋतवो ऽभवन् । अर्धमासाश् च मासाश् च । चमसाध्वर्यवो ऽभवन् । अशꣳसद् ब्रह्मणस् तेजः । अच्छावाको ऽभवद् यशः । ऋतम् एषां प्रशास्ता_आसीत् । यद् विश्वसृज आसत ।

VERSE: 5 { 3.12.9.5} ऊर्ग् राजानम् उदवहत् । ध्रुवगोपः सहो ऽभवत् । ओजो ऽभ्यष्टौद् ग्राव्णः । यद् विश्वसृज आसत । अपचितिः पोत्रीयाम् अयजत् । नेष्ट्रीयाम् अयजत् त्विषिः । आग्नीद्ध्राद् विदुषी सत्यम् { सत्त्यम्} । श्रद्धा हैवायजत् स्वयम् । इरा पत्नी विश्वसृजाम् । आकूतिर् अपिनड्ढविः ।

VERSE: 6 { 3.12.9.6} इध्मꣳ ह क्षुच् चैभ्य उग्रे । तृष्णा च_आवहतामुभे । वाग् एषाꣳ सुब्रह्मण्याऽऽसीत् । छन्दोयोगान् विजानती । कल्पतन्त्राणि तन्वानाऽहःसꣳस्थाश् च सर्वशः {,आनंदा. कल्पतन्त्राणि तन्वानाहः । सꣳस्थाश् च} । अहोरात्रे पशुपाल्यौ । मुहूर्ताः प्रेष्या अभवन् । मृत्युस् तद् अभवद् धाता । शमिता_उग्रो विशां पतिः ।

VERSE: 7 { 3.12.9.7} विश्वसृजः प्रथमाः सत्त्रम् आसत । सहस्रसमं प्रसुतेन यन्तः । ततो ह जज्ञे भुवनस्य गोपाः । हिरण्मयः शकुनिर् ब्रह्म नाम । येन सूर्यस् तपति तेजसा_इद्धः । पिता पुत्त्रेण पितृमान् योनियोनौ । नावेदविन् मनुते तं बृहन्तम् । सर्वानुभुम् आत्मानꣳ संपराये । एष नित्यो महिमा ब्राह्मणस्य । न कर्मणा वर्धते नो कनीयान् ।

VERSE: 8 { 3.12.9.8} तस्यैवाऽऽत्मा पदवित् तं विदित्वा {,आनंदा. विदित्वा} । न कर्मणा लिप्यते पापकेन । पञ्च पश्चाशतस् त्रिवृतः संवत्सराः । पञ्च पञ्चाशतः पञ्चदशाः । पञ्च पञ्चाशतः सप्तदशाः । पञ्च पञ्चाशत एकविꣳशाः । विश्वसृजाꣳ सहस्रसंवत्सरम् । एतेन वै विश्वसृज इदं विश्वम् असृजन्त । यद् विश्वम् असृजन्त । तस्माद् विश्वसृजः । विश्वम् एनान् अनु प्रजायते । ब्रह्मणः सायुज्यꣳ सलोकतां यन्ति । एतासाम् एव देवतानाꣳ सायुज्यम् । सार्ष्टिताꣳ समानलोकतां यन्ति । य एतद् उपयन्ति । ये चैनत् प्राहुः । येभ्यश् चैनत् प्राहुः ।


This file has been copied from the following webpage, with fonts changed:

Taittiriya Brahmana