← विंशोऽध्यायः यज्ञाधिकारः
एकविंशोऽध्यायः
[[लेखकः :|]]
द्वाविंशोऽध्यायः →

अथैक विंशोऽध्यायः
--------------------
विमानविधिः।
अथातः सम्प्रक्ष्यामि देव्यादिनां विधिक्रमम्
मध्यमं दशतालेन देव्योर्मानं प्रचक्षते। 1
(भागपादादि चोष्णीषान्मानमेवं प्रचक्षते) पादादिचोष्णीषान्त ञ्च सविंशति शताङ्गुम्
त्रिणतं द्विभुजं प्रोक्तमतिभङ्गं समं न्तु वा। 2
अश्रमुन्नतमान ? स्यादुभयोरुभयं समम्
श्री देव्या दक्षिणं हस्तं प्रसारि सुमनोरमम्। 3
ऊरुमूलावलम्ब ञ्च पार्श्वे क्षीणसरं तथा
भूम्यास्तद्दक्षिणं हस्तं चोत्पलं पूर्ववद्धृतम् 4
वामं प्रसारितं तद्वत्करण्डमुकुटसंयुते
कनकस्यामलाङ्ग्यौ च सर्वाभरणभूषिते। 5
देवपार्श्वेस्थचरणौ कुञ्चितावितरौ स्थितौ
मूर्धकेसान्तकं भगं नेत्रान्तं षड्यवाधिकम्। 6
(पद्माभम्।ग।)पुटान्तं चतुर्यवाधिक्यं त्रिमात्रं षड्यवं तथा
पुटाद्धन्वन्तरं पोक्तं कण्ठं तस्माद्द्विगोलकम् 7
कण्ठाद्धृदयान्त ञ्च हृदयन्नाभ्यन्तमेव च
तस्मात्तद्योनिमूलान्तं तत्र (त्रयोदशाङ्गुलम्)षोडशमङ्गुलम् 8
तस्मात्तदारुमूलान्तं षड्विंशच्चाङ्गुलं विधुः
चानु द्वियङ्गुलं प्रोक्तं जङ्घा चोरुसमायुतम् 9
पादं भागं तलायामं चतुर्भाग ञ्च कथ्यते
भागमङ्गुष्ठमायामं तर्जनी तत्समा मता 10
अर्धाङ्गुलं क्रमात् क्षीणं शेषाङ्गुल्यस्तु लक्षणम्
अङ्गुष्ठाद्यायतं प्रोक्तं कलानागमुनिस्तथा 11
सप्तार्धषड्यवं प्रोक्तं नखायामं प्रशस्यते
पादाग्रतलविस्तारं रसभूतोदयं क्रमात्। 12
पार्ष्णर्द्विगोलकं चाक्षं गुल्फान्तं भूतमङ्गुलम्
नलकाविपुलं भागं जङ्घामद्यं त्रिगोलकम्। 13
(धनं व्य ?) धातुस्तज्जानुविपुल मर्कस्स्यादूरुमूलतः
गजहस्तसमं वृत्तमूर्वन्तं नल काङ्घ्रिकम् 14
कटितार ञ्च विमुखं पीठं धात्वङ्गुलायतम्
चतुर्मात्रायत ञ्च न्यमश्वद्थदलवद्यथा 15
विपुलं मांसलं गुह्यं श्रोणितारं कलांशकम्
श्रोणिनेत्रायतं प्रोक्तं विस्तारं सप्तमाङ्गुलम् 16
नाभिः षड्यवविपुलं गम्भीरोधय (तर) मङ्गुलम्
मध्यमं नागविपुलं स्तनयोर्हृदयादपि। 17
त्रयोदशाङ्गुलं प्रोक्तं स्तनतारं नवाङ्गुलम्


चूचुकं स्यात्र्तमात्रेण तारादुच्चं तदर्धकम् 18
कक्ष्याबन्ध समायुक्तं यथाशोभ ञ्च कारयेत्
कक्षयोरन्तरं पश्चात्सप्ताधिक दशाङ्गुलम्। 19
ततं वेदाङ्गुल प्रोक्तं बाहुदीर्घं क्रमाद्बुधाः
कूर्परं तद्द्विमात्रं स्यात्प्रकोष्ठं रन्ध्रकाङ्गुलम् 20
तलं सप्ताङ्गुल ञ्चैव मध्यमं तत्र कला मता
अनामिका भूतमात्रा च कनिष्ठविपुलं तथा। 21
कारयेत्तध्यथाशोभं साङ्गुलीयकमङ्गुलिम्
मणिबन्धं प्रकोष्ठ ञ्च मध्यकूर्परधोन्तरम्। 22
भूजमूल ञ्च कण्ठ ञ्च क्रमात्सप्ताङ्गुलोन्नतम्
मुखमेकादशाङ्गुल्यं कुक्कुटाण्डाकृतेः समम्। 23
(सकृद्धोम।ग।)कृत्वार्धार्ध समायुक्तं सौम्यं चन्द्रप्रभासमम्
केशान्ताद्द्विद्विमात्रार्धं ततोक्षद्वियवं क्रमात्। 24
पुमान् ? सद्वियवं तुल्य (तदर्धाङ्गुलम्।) मग्निरङ्गुल मायतम्
(केशन्तार्धय कण्ठार्धम्।)शेषं तद्धनुकर्णार्धं त्रिमात्रार्धं तदुच्छ्रयम्। 25
कटकाङ्गुलस्य चोत्तुङ्गं स्तनाक्षमसममेव च
नाभ्यास्तन्मणिबन्धान्तं सार्धत्रयोदशाङ्गुलम् 26
(पश्चात्।ग। )पार्श्व बाहान्तर सप्तप्रकोष्ठं तत्प्रसारिते
बाह्वन्तं तद्रसाङ्गुल्यं मणिबन्धोरुमूलतः। 27
आश्रमं शिष्ठं यक्त्या च कुर्याच्छिल्प विचक्षणः
मूर्ध्नः पार्श्वस्य वामे तु वामनेत्रे सिते तथा 28
पुटेऽधरे हनोर्मामे स्तने नाभौ तथैव च
ऊरुमद्ये च पार्ण्ष्यन्ते सूत्रं तस्मत्प्रलम्बयेत्। 29
समभङ्गत्रिभङ्गस्य लम्बमानं पुरा खिले
प्रोक्तं तथैव कृत्वा वै यावन्नेत्रमनः प्रियम्। 30
धात्रादिभूतपर्यन्तं परिवारान्विशेषतः
वर्णवाहनकेत्वादि नक्षत्रं चाभिधानकम् 31
मयार्चनाधिकारे तु प्रोक्तं (यत्तेन संयुतम्)व्यक्तं सलक्षणम्
तथैव कारयेद्विद्वान्विश्वान् पारिषदान् क्रमात् 32
अत्रानुक्त ञ्च यत्सर्वं प्रतिमादि स्तथा क्रमात्
खिलोक्तविधिना विद्वान् कारयेन्मतिमान् गुरुः(विष्वक्सेन प्रतिष्ठायां विशेषश्च प्रवक्ष्यते
वासुदेव प्रासदार्धं तप स्तप्त्वा सुदारुणम्)
इति श्री वैखानसे भगवच्छास्त्रे (उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे
(यत्तेन संयुतम्)एकविंशोऽध्यायः

सारूप्या ञ्चैव सामीप्यं प्राप्तवानमितः पुरा
देहं प्राकृतमुत्सृज्य देवेदेवप्रसादतः


अप्राकृतमचिन्त्य ञ्च प्राप्तवान् देवदुर्लभम्
तपसाऽस्य सुतप्तेन सन्तुष्टो विष्टरश्रवाः
'मद्भक्तोमां यजेन्नित्यमनेन सह धर्मविति
यो यजेत विधानेन विर्माल्यं तस्य कर्म च
विष्वक्सेनपदं चास्मौ गति' रित्याह माधवः
आत्मार्थे वा परार्थे वा देवदेवसमीपतः
तस्मिन् देवालये वाऽपि विष्वक्सेनं समर्चयेत्
स्थण्डिले वा जले कूर्चे पीठे बेरे विमानके
प्रथमावरणे वाऽथ द्वितीयावरणेऽथ वा
कुबेरेशानयोर्मध्ये चोत्तरे भित्तिपार्श्वतः
तस्यालय ञ्च कृत्वैव स्थापयेद्विधिना बुधः
अथ वा चू?Rळिकाया न्तु स्थापये दक्षिणा मुखम्
देवालयेऽष्टभागे तु सप्तांशे वांऽशकं तथा
तस्य विस्तारमस्योक्तमुत्सेधं चानुपूर्वकम्
तत्प्रासादस्य मानेन ध्रुवबेरं प्रकल्पयेत्
मूलबेरस्य मेढ्रान्तं कनिष्ठोदयमीरितम्
उत्तमं बाहुसीमान्तं मध्ये षड्विंसदंशके
एकैकांशकवृद्ध्वा तु सप्तविंशतिधा भवेत्
मूलबेरवशात्कुर्यात् कौतुकाद्यं पूरोक्तवत्
द्विबुजं नवतालेन रक्तवर्णं प्रकल्पयेत्
नवार्ध तालमानेन श्यामवर्णं चतुर्भुजम्
देवीयुक्तं वियुक्तं वा 'जया' ना मेति तस्य वै
मोक्षार्थी द्विभुजं कुर्याद्विजयार्थी चतुर्भुजम्
पुत्रकामी जयायुक्तं ज्ञानार्थी रहितं तथा
औत्सवर्चायुतं वाऽपि तयोरन्यतरान्वितम्
कौतुकं तत्र कर्तव्यमेकबेरमथाऽपि वा
औत्सवं प्रथमं कृत्वा सर्वत्रासीन मर्चयेत्
पुनश्शक्तौविमानाद्यं कल्पयेत्तद्ध्रुवादिकम्
तत्कौतुकोत्सवार्चानां प्रमाणं तुल्यमाचरेत्
पलाशपुष्फमालाभं पीताम्बरवरान्वितम्
अभयं दक्षिणं हस्तं वामं कटकमेव च
चतुर्भुज न्तु कुर्याच्चेच्छङ्खचक्रधरौ परौ
अभयं कटकौपूर्वौ श्यामवर्णं प्रकल्पयेत्
श्रीवत्सं ब्रह्मसूत्र ञ्च कौस्तुभ ञ्च विनैव तम्
देवदेवेन सदृशं सर्वं शान्तं प्रकल्पयेत्
तप्तचामीकरप्रख्या जया देवी सुमद्यमा
दक्षिणं पादमाकुञ्च्य वामपादं प्रसार्य च
आसीनामज्जहस्तां तां कुर्यादमितपार्श्वतः


शान्तं निरीक्षमाणं तां देवमानुषमध्यमे
स्थपयेच्छुभनक्षत्रे सुमूहुर्ते शुभोदये
आसने दक्षिणं पादं न्यस्य वामं प्रासार्य च
वज्रं दक्षणहस्तेन वामेनाब्जं गदा न्तु वा
पद्मासने समासीनं मुकुटादि विभूषितम्
तं कुर्यादथवा चक्रशङ्खपाणि समन्वितम्
अङ्कुरानर्पयित्वैव वधिवद्दक्षिणेऽथ वा
प्रमुखे मण्डपे वाऽथ प्रपायं वासुदेववत्
द्वितीयेऽहनि पूर्वाह्णे अक्षिमोचन माचरेत्
अघारं विधिवत्कृत्वा वास्तुहोमं सुहूयताम्
'दद्भ्यः स्वाह' दिभिर्हुत्वा 'शिरसे स्वा' हादिभिस्तथा
मन्त्रैश्च पञ्चभूतानां शान्तमन्त्रद्वयेन च
वैष्णव ञ्च तथा हुत्वा जयादिरपि हूयते
व्याहृत्यन्त ञ्च हुत्वा तु देवेशं मनसा स्मरन्
शान्तमन्त्र ञ्जपित्वा तु कुरयान्नयनमोक्षणम्
पटमुत्सृज्य गां चाज्यं धान्यराश्यादि दर्शयेत्
पुण्याहं वाचयित्वा तु पश्चादग्निं वसृज्य च
बिम्बस्य शुद्धये कुर्यादधिवासत्रयं पुनः
यागशालामलङ्कृत्य मध्ये शयनवेदिकाम्
अग्न्यगारत्रयाणां वा कुर्यादौपासनस्य वा
सायं सन्ध्यामुपास्यैव चाधिवासगतां पुरीम्?
?Rआदाय वाद्यसंयुक्तं सर्वालङ्कार संयुतम्
ग्रामं प्रदक्षिणीकृत्य चालयं सम्प्रवेशयेत्
वास्तुहोमं ततो हुत्वा कुण्डेश्वाघारमाचरेत्
सङ्गृह्य द्रोणपूर्ण ञ्च कुम्भं पूजां समाचरेत्
वैष्णवं मन्त्रमुच्चार्य आत्मसूक्तं जपेत्पुनः
शान्तमन्त्र ञ्जपित्वा तु तस्य बीजाक्षरं न्यसेत्
तद्देवतां विधानेन कुम्भेद्यायेद्यथाविधि
अर्चयित्वा यथान्यायं कलशैरभिषेचयेत्
वेद्यामारोप्य तस्यां वै कुर्यात्कौतुकबन्धनम्
पुण्याहं वाचयित्वैव शाययेच्छयनेऽमितम्
उत्तराच्छादनं हुत्वा होता हौत्रं प्रशंस्य च
'आयातु भगवान् दिव्यश्शान्त' इत्यादिमुच्चरन्
'पुरुषस्सगण' श्चापि 'जयासहित' इत्यपि
'सह देवताभिरनुमन्यता' मित्यतः परम्
'यस्तु धर्मरतो नित्यमृषिभिश्चानुगामिनम्
शान्तं 'ञ्च 'भगवन्त ञ्च ओ' मित्यादिकमुच्चरन्
विष्वक्सेनं ततः शान्तं हरमित्यमितं'तथा


'जयां सुङप्रादां भद्रां तथैव च समृद्धिनीम्
पुण्या' ञ्च' पुरुहूत ञ्च स्यन्दन ञ्च महामतिम्
अघकर्मानं विश्वांशं विश्वाक्षं विश्वसूदनम् '
?Rएतान् द्वारस्थमूर्तान्यो धात्रादीना न्तु पूर्ववत्
'धर्म वृष ञ्च भूत ञ्च गतिं 'वै वाहनस्य तु
'चरक्यै देवतार्यै च पूतनायै च' तत्क्रमात्
तथैव 'पापराक्षस्यै' चतस्रो मूर्तयस्तथा
आवाह्यऽज्यं निरूप्यैव स्रुवेणाज्याहुतीर्यजेत्
चित्तादींश्च ततो हुत्वावारुण ञ्च ततः परम्
'अग्नेयः प्रेक्षाम 'धीति विष्वक्सेनौ प्रकीर्तितौ
सव्याहृतिकमावर्त्य आज्येनाष्टशतं यजेत्
 (अपू पैः सक्तुभिर्ला जैरिति स्यात्)अपूपलाजसक्ताभिर्युक्तं दूर्वाङ्कुरं तथा
हुत्वा षोढशपर्यायां सर्पिषो वैष्णवं यजेत्
प्रतिष्ठा सह देवेन यदि सर्वं समाचरेत्
मूर्तिभिर्वाऽस्य मन्त्राभ्यां सर्वकर्माणि च चरेत्
रात्रि शेषं विनीयैव प्रातः स्नात्वा यथाविधि
स्थापनात्पूर्व काले तु रत्नन्यासं समाचरेत्
अग्निं वसृज्य तत्काले दक्षिणां सोदकं ददेत्
मुहूर्ते समनुप्रोप्ते स्थापयेद्विधिना हरम्
बिम्बस्य पादौसंस्पृश्य पुरुषसूक्त ञ्च वैष्णवम्
'सुवर्भुवर्भू' रित्युक्त्वा सृष्टिन्यासं व्यसेद्बुधः
पीठे 'य' कारं सन्न्यस्य 'श' कारं हृदये न्यसेत्
पञ्भूताक्षरं न्यस्य तत्तत् स्थाने न्यसेद्बुधः
न्यस्ताक्षराणि सर्वाणि प्रणवैनैव वेष्टयेत्
आवाहयेत्तदा पश्चादासनादिभिरर्चयेत्
देवीं चोत्सवबिम्बस्य न कादा चित्समाचरेत्
'पुण्याहमघकर्माणां' द्वारदक्षिणवामयोः
आवाह्य प्रथमे स्थने धात्रादींश्चैव पूर्ववत्
तस्यालयस्य पृष्ठे वा बेरपृष्ठेऽपि वा क्रमात्
चतस्रस्तु चरक्यादीः समावाह्य समर्चयेत्
कलशैः शुद्धचोयेर्वा स्नापयेदमितं पुनः
पुण्याहं वाचयित्वैव नववस्त्राद्यलङ्कृतम्
अर्चयित्वा क्रियाः सर्वा विष्णोरिव समाचरेत्
आचार्यं पूजयित्वैव भक्तानन्यां स्तथेच्छाया
ततो भक्तजनान्त्सर्वान् पूजयित्वा समाहितः
राज्यार्थी वा धनार्थी वा विद्यार्थी पुत्रवा़ञ्चितः
एवं यः कुरुते भक्त्या सर्वान् कामानवाप्नुयात्
विष्वक्सेनाऽराधनमः


अतः परं प्रवक्ष्यामि विष्यक्सेनस्य वाऽर्चवम्
स्वप्रधानं न कुर्वीत शान्तस्यैव विशेषतः
देवेशस्यार्चना शेषैर्थ्र व्यैरपि समर्चयेत्
प्रातःकाले च मध्याह्ने कारयेदभिषेचनम्
सप्तविंसतिभेदेन त्रिकालमपि पूजयेत्
देवेशस्यैव निर्माल्यैरलङ्कृत्य विशेषतः
निवेदितचतुर्थांशमादायैव निवेदयेत्
अथ वा पाचयित्वा तु द्विप्रस्थं द्विगुण न्तु वा
निवेदयेद्यथान्यां भाण्डशिष्टमथापि वा
तन्नि वेद्य न्तु निर्माल्य ङ्गोभ्यः शूद्राय वा ददेत्
तद्भक्तैर्भोज्यमित्येत त्केचिदाहुर्मनीषिणः
अर्धयामार्छनान्ते वा प्रार्थयेदमितं बुधः
'विष्वक्सेन हरेर्भक्त पूजायां हीनमेव यत्
तत् क्षम' स्वेति चोक्त्वा तु प्रणामं कारयेत्पुनः
भर्तप्रतिष्ठाविधिः
अत ऊर्ध्वं प्रवक्ष्यामि भक्तानां लक्षणं क्रमात्
भर्तानां ब्राह्मणादीनां यजमानो विशेषतः
कर्तुमिच्छेत्तथा कर्ता मानं मानाङ्गुलेन वै
मात्राङ्गुलेन वा कुर्या (नव,) न्नागताल क्रमेण वै
शैलजं दारवं वाऽथ शूलं वा स्थावरे चरेत्
जङ्गमे लोहज ञ्चैव सौवर्णं राजतन्तु वा
देवस्य बाहुमानं वा स्तनान्तं नाभिसीम वा
स्थावरं चेद्ध्रुवं प्रोक्तं जङ्गमं चोत्सवे चरेत्
मात्राङ्गुलेन सप्तादिद्विद्व्यङ्गुल विवर्धनात्
नवधा तस्य मानानि चान्यमानानि वा चरेत्
आसनं सथानकं वाऽथ कारयेत्कर्तुरिच्छाया
प्रथमा वरणे वाऽथ स्थापयेन्मण्डपादिके
ब्राह्मणं चेच्छिखायुक्तं (पवित्रं हृदयेञ्जलिम्) हृदयेऽञ्जलि संयुतम्
द्विभुजं सुस्थिरं प्रोक्तं किञ्चित्तत्त्वनिरीक्षणम्
भेरात्तुर्यांशकं पीठं नस्त्रयज्ञोपवीतिनम्
कुर्यान्मनोहरं बेरमासने ब्राह्ममासनम्
नमौ?Rळिं क्षत्रियं वैश्यं शूद्रान्मौण्डैंश्च कारयेत्
केशबन्ध ञ्च वा कुर्याद्यानन्नेत्रमनः प्रियम्
कारयेद्विन्दमानां स्तान् स्थानकं वा सुखासनम्
विनैव ब्रह्मणानन्यां त्सायुधं पाणिमेव वा
यजमानस्य यत् प्रीतिस्तथा कृत्वा स लक्षणम्
ऊर्ध्वपुण्ड्र समायुक्तं सदा सात्त्विकलक्षणम्
पीतं