यज्ञाधिकारः/चतुस्त्रिंशोऽध्यायः
← त्रयस्त्रिंशोऽध्यायः | यज्ञाधिकारः चतुस्त्रिंशोऽध्यायः [[लेखकः :|]] |
पञ्चत्रिंशोऽध्यायः → |
यज्ञाधिकारः।
अथ चतुस्त्रिंशोऽध्यायः।
------------------------
(स्नपन विधिः।)
अत ऊर्ध्वं प्रवक्ष्यामि देवस्य स्वपन (o) क्रमम् (मात्)
प्रतिष्टान्ते चोत्सवान्ते अयने विषुवद्वये 1
सूर्योन्द्वोर्ग्र हणे चापि यत्नेन स्नपनं चरेत्
विभवे सति प़ञ्चर्क्षे मासर्क्षे चान्य सङ्क्रमे 2
दुर्निमित्तादिशान्त्यर्थं दर्शनेऽप्य वलक्षणे
यजमानस्य ( राज्ञो वा राष्ट्र।) नक्षत्रे राज्ञो जन्मरक्ष एव वा 3
देवस्य स्नपनं कुर्यात्तत्तत्काले विशेषतः
( विष्वादौ वर्तमाने च दक्षिणे चोत्तरेऽयने, प्रारम्भे चाऽप्यतीते च ग्रहणे चन्द्रसूर्ययोः, मध्याह्ने चान्ययो
स्तस्मिन् द्विदिने यदिसङ्गते।)विषुद्वये वर्तमाने ग्रहणे सूर्यचन्द्रयोः 4
अयने चोत्तरे ऽतीते आरब्धे दक्षिणे तथा
अन्येषु चैव मध्याह्ने दिनद्वयगते सति 5
तयोरप्यधिकं श्रेष्टं मासर्क्षेद्विगुणं यदि
सम्भवेच्चेत्परं श्रेष्ठं स्नपने तु विशेषतः 6
(अपरम्। ? ग। ) पूर्वस्मिन् पूर्णयोगश्चेत्तस्मिन्नेवापरे (आचरेत्) तथा
अङ्कुरानर्पयित्वैव यथोक्तदिवसे तथा 7
स्नपनार्थ ञ्च सर्वाणि मृदादीनि समाहरेत्
नद्यां वाऽथ तटाके वा क्षेत्राद्वा दर्भमूलतः 8
गजदन्तोद्धृतं वाऽपि गोशृङ्गोद्धृतमेव वा
कुलीरवासे वल्मीके तु?Rळसीमूलमाश्रिते 9
सुद्धां मृद ञ्च गृह्णीयात्तत्पूर्वदिवसे तथा
हिमवानूर्जविन्ध्यौ च विदूरे वेदपर्वतः 10
महेन्द्रश्च हरिश्चन्द्रः शतृङघाख्य पर्वतान्
प्रागादिषु क्रमेणैव श्वेतं पीत ञ्च कृष्णकम् 11
रक्ताभं वसुमात्रोच्चा अश्रमूला रसायताः
(क्रमात्कृशास्त्रिमात्रास्या ?) तद्वास्तृताश्च सर्वेऽग्रं देवायतन विस्तृताः 12
शालिव्रीहियवा मुद्गास्तृथा माषाः प्रियङ्गवः
गोधूम ( चणकाः प्रख्य ? तिलतिल्वम्।) क ञ्च तिल ञ्चैव मसूरकम् 13
सर्षप ञ्चैव् धान्यानि अङ्कुरार्थं समाहरेत्
तथाऽष्टमङ्गलानन्यान् पूर्वोक्तानपि गृह्य च 14
आधारं पर्वतादीनां कुर्यात्पीठ ञ्च केचन
पञ्चगव्यं घृत ञ्चापि मधु दधि च वै तथा 15
क्षीरं गन्धोदकं पश्चादक्षतोदं फलोदकम्
कुशरत्नोदकं जप्यं सर्वौषध्युदकं पुनः 16
द्रव्याणि द्वादशैतानि गृह्णीयादाढकं पृथक्
( करवीरं बिल्वपत्रं पद्मपुष्पाणि चाहरेत्।ग।) बिल्वपत्र ञ्च पुष्पाणि पुण्यानि च समाहरेत् 17
जातीफल ञ्च कर्पूरं श्री वैष्टं चाप्युशीरकम्
मसूरं दमनं मुद्गं चणकं चूर्णार्थमेव च 18
( अश्वद्धादि चतुर्वृक्षान् खादिरं वञ्जुलासनम्।) अश्वद्धवटयोश्चैव पितृद्रुमार्जुन योरपि
खदिरस्य मधूकस्य वञ्जुला सनयोरपि। 19
त्वक्यूर्ण ञ्च कषायार्थं नद्यादौ तीर्थमाहरेत्
सिंही च नकुली व्याघ्री नन्दाऽदित्वा च साह्वया 20
पाठा च सहदेवी च दुर्वा चैता नवौषधीः
हरिद्राणा ञ्च हेमभं हरिद्रं चूर्णमेव च 21
षड्भागतन्डुलस्यापि चूर्णयुक्तमथाऽहरेत्
हरेणुस्थौणेयकं पत्रमन्यानि च तथा बुधः 22
एलालवङ्गकर्पूर चन्दनोशीरमेव च
प्राणिनां नैव मङ्गादि सर्वगन्धं समाहरेत् 23
पुष्पाण्यन्यानि गन्धानि प्लोतान्याभरणानि च
अर्चनोक्तं यथामार्ग माहरेन्मतिमान् पुनः 24
जाति हिङ्गुलिकं पश्चान्मनश्शिलाञ्जन रोचनान्
दातूंश्च क्रमशो विद्वा नाहरेद्विधि पूर्वकम् 25
आढकापूर्णकालशान् प्रस्थपूर्णान् शरावकान्
द्रोणार्धपूर्णान् करकान् द्रोणपूर्ण घटानपि 26
भाण्डान्यन्यानि विश्वानि खण्कडस्पुटित वर्जितम्
शुभान्यन्यानि चाहृत्य बुद्धिमान् पूर्व एव तु 27
कूर्चानन्यां त्समाहृत्य ( सूत्रोक्त ।ग।) खिलोक्तविधिना बुधः
पूर्वरात्रौ समभ्यर्च्य निवेद्य च गृहाद्बहिः 28
प्रथमाऽवरणे सव्ये शयनानि तथा बुधः
धान्योपरि समास्तीर्य संस्थाप्योपरि चाव्ययम् 29
तथैव प्रितसरं बद्ध्वा शाययेत् स्थापनोक्तवत्
स्नापनप्रतिमा ञ्चैव तदभावे तु चौत्सवे 30
औत्सवे चेद्विना देव्यौ कौतुकं बन्धयेद्धरिम्
(उभयोरप्यभावे तदशक्तः कौतुकं प्रभुम्।ग।) द्वयोरभावे तत्काले कौतुके वा समाचरेत्। 31
(देव्यौः।) देव्यौनैव समादाय रक्षाद्याः (सम्यक्।) सद्य आचरेत्
प्राणस्थानं तथा ( धीमान् शून्य ञ्चात्र न चाचरेत्।) शून्यं सदा चात्र न चालयेत्। 32
तस्माद्देव्यौ विना देवं चालयेद्धोतुनाऽ(द्य) पि च
नित्यस्नानं विना ( देव्योर्नाचरेत्प्राणदेशतः।) देव्यौ प्राणदेशान्न चालयेत् 33
(अग्निस्त्वामन्दिर ञ्चास्य यजुषा भक्तया मिव।) अग्निष्ठमन्दिरं शून्यं याजुषां भार्यया इव
अग्निहोत्रगृहात्पत्नी न गच्छोद्ग्राम ( तोऽन्यतः) मन्यकम् 34
( तस्माद्देव्यौ च कर्मार्चां नार्चयेदासनेऽन्यके।)तथैव देव्यार्चयां नार्चयेदासनेऽन्यतः
देव्योश्च कौतुकस्यैव विशेषोऽयं सदाबुधः 35
अन्येषां चलनत्वाश्च हेतुना ते च चालयेत्
( तयोरभावे सन्ध्यायां प्रोप्तेस्नपन कौतुके।अ,) सन्ध्याकाले ततः प्राप्ते स्वपनं यदि कौतुके 36
समाप्य स्नपनं पश्चान्नित्यं सम्यक्समाचरेत्
प्रातः काले यदि भवेत्समाह्यार्चनासनात् (नं कसृते) 37
कृत्वा तत्स्नपनं पश्चादाचरेत्कौतुके यदि
पूर्वरात्रौ विशेषेण नैवोद्वासन मन्ययोः 38
कौतुकाबन्धनं कृत्वा तत्तत्काले समाचरेत्
(तत्कालविहितं तस्मादावाह्याद्वापनं साद।) तत्तत्काले (च) विहिते आवाहन विसर्जने 39
कौतुकन्य विशेषेण विपरीतेऽप्य नर्तकृत्
रात्रौ तुरीययामे तु स्नपनं यदि सम्भवेत् 40
कौतुके कौतुकाच्छक्तिं ध्रुवे चारोपयेत्तथा
तत्काले कौतुकं पश्चादादाय श्वभ्रमध्यमे 41
संस्नाप्य कौतुकं बद्ध्वा स्नापयेत्स्नपनोक्तवत्
ध्रुवेऽप्यारोपरणं प्रोक्तं रात्रिपूजनसानके 42
( निशां निन्येद्ध्रुवाच्छक्तिं पुनरावाहयेत्सने, अप्रोक्तं कौतुकात्तस्मात् क्रियास्तत्प्रतिमा ञ्चरेत्।)निशान्ते तद्ध्रिवाच्छक्तेः नित्यमावाहनं सदा
सम्प्रोक्तं कौतुके चापि क्रियां तां कौतुके चरेत् 43
दोषो नास्ति सकृच्छक्तिरस्ति तत्कौतुके सदा
स्रवत्र वासुदेवत्वाद्दीपादुद्दीपनं यथा 44
कारयेत्स्नपनं तस्मा ( विधिनैन सकौतुकम्।ग।) द्धविर्नैवेद्य ? कौतुके
स्नानन्ते तं समभ्यर्च्य जीवस्थाने सुसन्न्यसेत् 45
आर्कोदये तथाऽऽ वाह्य पुनरभ्यर्च्य पूर्ववत्
नैमित्तिकं हविः पूर्वं नित्यं पश्चान्नि वेदयेत् 46
सन्ध्ययोरुभयोर्मध्ये स्नपनं यदि कौतुके
सम्बन्धकूर्चमादाय प्रणम्यैवानु मानयेत् 47
बद्ध्वा प्रतिसरं पश्चा त्स्नायेत्स्नपनोक्तवत्
अभ्यर्च्य मण्डपे तस्य निवेद्यैव हविः प्रभुम् 48
पश्चाद्देवं समादाय वेद्यां संस्थापयेत्तथा
'भूरसी' त्यादिना धीमान् संस्थाप्य प्रणवैः सह 49
ततः सम्भन्धकूर्चं तत्तथा न्यस्य समर्चयेत्
अथास्स्नपनागारं प्रणुखे चोत्तरे तथा 50
ऐशान्यां वा विशेषेण प्रापां वा मण्डपन्तु वा
कारयेत्तां निरुक्तोक्तं भूषयेत्स्नपनोक्तवत् 51
मध्यमे ब्रह्मपक्तौ तु श्वभ्रं कृत्वा स लक्षणम्
तस्यैव परितः पङ्क्तिं चतुर्द्वार समायुताम् 52
व्रीहिभिः कारयेद्धीमान् पङ्क्तीशामित ( पालयोः।ग।) योस्तथा
दिक्पालाना ञ्च पीठानि कुर्याद्भूम्या न्तु वाऽर्चयेत् 53
पङ्क्तिं गायत्रिया प्रोक्ष्य 'सुमित्रा' नेति मन्त्रतः
समुल्लिख्य 'हिर' ण्येति दर्भानत्र समास्तरेत् 54
'धारा' स्विति च मन्त्रेण गृहीत्वैवोदकं तथा
वस्त्रेणोत्पवनं कृत्वा रात्रौ चेदग्निसन्निधौ 55
सङ्गृह्य कलशान् पश्चात्तन्तुनाऽऽवेष्ट्य मङ्गलम्
अद्भिः प्रक्षाल्य पूर्वोक्तद्रव्यैरपि सुपूरयेत् 56
स्थाने यथोक्तं तत्पङ्क्त्या मृदादीन्त्सन्न्यसेत्क्रमात्
मृदोऽष्टौ तत्पृथक्पात्रे गृही 'त्वोदुत्य' मित्यपि 57
सन्न्यस्येन्द्रेशयोर्मध्ये (द्वारयोर्माम पार्श्वयोः ?) द्वाराणां वामपार्श्वके
कोणेषु विष्णुसूक्तेन अद्रीन् प्रागादि सन्न्यसेत् 58
यमाग्न्योरन्तरे न्यस्य 'शुक्रन्त ' इति मन्त्रतः
शाल्यादीनि च धान्यानि मध्ये वै यमनीलयोः 59
अङ्कुरान् ' सोम ओष' धीति इन्द्रादिद्वारदक्षिणे
विदिशासु च 'शंसानि' श्रीवत्साद्यष्टमङ्गलान् 60
सन्न्यसेत्प ञ्च गव्यादी (इन्द्राविष्णू ' ग।) रिति ब्रुवन्
ईशाने पञ्चगव्यं तद्घृतमीशेन्द्रयोरपि 61
मधु चेन्द्राग्नि मध्ये तु सन्न्यसेत्पावके दधिः
यामाग्न्योरन्तरे श्रीरं याम्य नैर् ऋतयोरपि 62
गन्धोदक ञ्च नैर् ऋत्यामक्षतोदकमेव च
नीलवारुणायोर्मध्ये सन्न्यसेद्वै फलोदकम् 63
वरुणोदानयोर्मध्ये कुशतो यं तथा न्यसेत्
वायव्यां रत्नतोय ञ्च सोमवाय्वोश्च मध्यमे 64
जप्योदकं तथा मध्ये कुबेरेशानयोरपि
सर्वौषध्युदकं पश्चादेतेषां वामपार्श्वतः 65
'साधिष्ट' येति मन्त्रेण उपस्नानान्न्यसेत्क्रमात्।
'इमाः सुमनस' इत्युक्त्वा यमनीलेशमध्यमे 66
पुण्यपुष्पाणि बिल्वादि सन्न्यसेनन्मन्त्र वित्तमः
जातीफलादिचूर्ण ञ्च वरुण नैर् ऋतिपध्यमे 67
'वन्ध्यो न एष' इत्युक्त्वा सन्न्यसेदधिपान् स्मरन्।
वरुणोदानयोर्मध्ये वारुणेनैव मन्त्रतः 68
कषायचूर्णं क्रमश्तसीर्थतोय ञ्च सन्न्यसेत्
'वारीश्चतस्र ' इत्युक्त्वा वायुसोमेशमध्यमे 69
'रुद्रमन्ये' ति मन्त्रेण सन्नसेद्वै वनौषधीः
नीलपङ्क्तीशयोर्मध्ये पश्चाद्धारिद्र चूर्णकम् 70
'सिनीवा' लीति मन्त्रेण 'इमे ग' न्धेति मन्त्रतः
ईशानसोमयोर्मध्ये स्रवगन्धं हरेणुकम् 61
ल्पोतवस्त्रोत्तरीयाणि 'तत्पुरुषा' येति मन्त्रतः
ईशानसोमयोर्मध्ये सर्वगन्धं हरेणुकम् 62
प्लोतवस्त्रोत्तरीयाणि 'तत्पुरुषो' येति मन्त्रतः
ऐशान्ये सन्न्यसेद्धीमान् ( त्वगादीन् ? ग।) मृदादीन् क्रमशः सुधीः 62
केचिद्द्रव्याणि सन्न्यस्य मृदादिनि विशेषतः
मन्त्राणां स्खलने विद्वान् प्रणवेन तपोधनाः 63
नववस्त्रैः समाच्छाद्य सर्वाण्येतानि मन्त्रवित्।
द्वितीयवेद्यां श्वभ्रस्य जयादीरर्च येत्क्रमात् 64
वीशामितौ च पङ्क्तीश ( दिक्पार्ला स्व।) दिक्पालानां स्वमूर्तिभिः
तत्तत् स्थाने समभ्यर्च्य प्रणामं कारयेद्धरेः 65
शयनाद्देवमादाय श्वभ्रमध्येऽथ राजवत्।
संस्थाप्य पूजयेत्पश्चादर्घ्यान्तं क्रमशः सुधीः 66
इति श्री वैखानसे भगवच्छास्त्रे ( उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे स्नपनप्रकरणे द्रव्यासादन विधिर्नाम
(स्नपन विधिर्नाम चतुस्त्रिंशोऽध्यायः ग।) चतुस्त्रिंशोऽध्यायः