यज्ञाधिकारः/त्रयोदशोऽध्यायः

← द्वादशोऽध्यायः यज्ञाधिकारः
त्रयोदशोऽध्यायः
[[लेखकः :|]]
चतुर्दशोऽध्यायः →

अथ त्रयोदशोऽध्यायः
--------------------
शूलस्थापन विधिः।
अत ऊर्ध्वं प्रवक्ष्यामि शूल संस्थआपनाविधिम्
यथोक्तमासनक्षत्रे स्थिरराशौ शुभोदये। 1
अङ्कुरानर्पयित्वा तु अधिवास्य तथा जले
यागशाला ञ्च कृत्वैव अलङ्कृत्य यथोचितम्। 2
भित्तिविस्तारमानेन वेदिं कृत्वा सलक्षणम्
सभ्यं कृत्वाऽथ तत्प्राच्यां श्वभ्रं कृत्वोत्तरे तथा। 3
पर्यग्निपञ्चगव्याभ्यां शूलां त्संशोध्य पूर्ववत्
सभ्यमग्निं प्रतिष्ठाप्य (विधनासूत्रमार्गतःग।) पूर्वोक्तेन विधानतः 4
शूलां त्सन्न्यस्य वेद्यां वै देवीभ्यां सहितं क्रमात्
संस्नाप्य विधिना मन्त्रैर्वा स्त्रेणैव नवेन च 5
पृथक्पृथक्समास्तीर्य शयनोपरि विन्यसेत्
तदूर्ध्वे वंशदण्डं तत्पार्श्वयोः पार्श्वदण्डकौ 6
तदूर्ध्वे वत्रदण्डं त द्वक्षदण्डमधस्तथा
(तद्दण्डदक्षिणेपार्श्वे प्रागन्तं दक्षवामगान्) कटिदण्डं दक्षिणे पार्श्वे दक्षिणांग ञ्च दक्षिणे 7
वामाङ्गं वामपार्श्वे च तद्धिङ्मौळि न्यसेत्क्रमात्
तत्तत्पार्श्वे च देव्यादीं त्सन्न्यस्यैव यथाक्रमम्। 8
कौतुकं बन्धयेद्विद्वान् पुण्याहान्ते यथाक्रमम्
' अस्थिभ्यो सम ' इत्युक्त्वा समभ्यर्च्य च मन्त्रवित् 9
'यद्वैष्णवं' समुच्चार्य शाययित्वा यथाक्रमम्
हौत्रं प्रशंस्य सभ्याग्नौ तन्मूर्त्या वाहनादिकम्। 10
कृत्वा तु वैष्णवं मन्त्रं विष्णुसूक्तमतः परम्
नरसूक्त ञ्च हुत्वान्ते श्री भूसूक्तमतः परम्। 11
(आत्वाहर्ष सूक्त च।ग।) 'अत्वाहा' र्षादिकं हुत्वा सर्वदैवत्यमेव च
स्वाहान्त च त 'थास्थीभ्यः' शतमष्टोत्तरं यजेत्। 12
सर्वव्याहृतिकं हुत्वा वेदघोषैर्निशां नयेत्
स्नात्वा प्रभाते धर्मात्मा (शालां तां सम्प्रविश्य च) सुमूहूर्ते शुभोदये। 13
शूलानादाय शिरसा गर्भगेहं प्रवेशयेत्
रत्नोपरि कृते पीठे विष्णुसूक्तं जपन् गुरुः। 14
(स्थापयेद्देवदेव्यादीन् क्रमात्संस्थापयेत्तथा। स्तापयेद्विधिनाविद्वान् दारुदण्डं न्यसेत्क्रमात्।) स्थापयेद्ब्रह्मदण्ड ञ्च देव्यादीन्
स्थापयेत्क्रमात्
वंशदण्डं कटि पार्श्वे ऊरुदण्डं न्यसेत्क्रमात्। 15
कटिदण्डादधस्ताच्च भित्त्यामाधार संयुतम्
सर्वं युक्त्यैव संस्थाप्य स्थानके शयना सने। 16
सार्धं स्थपतिना विद्वानचलं स्थापयेद्बुधः
(पुनः सन्धौ।) पुनस्सन्धेर्दृढार्थाय ताम्रमट्टेण बन्धयेत्। 17


निरुक्तोक्ताष्टबन्दैश्च सार्धं रज्जुभिरेव च
आवेष्ट्य ताम्रपत्रेण युक्त्या बुद्ध्या च कारयेत्। 18
मृत्संस्कारः।
मृत्संस्कारं प्रवक्ष्यामि ध्रुवबेरार्थ मेव च
नादेयं क्षेत्रजं ह्रादं तटाकाम्बुज ? पुण्यदम्। 19
पुण्यक्षेत्र चान्येषु चाहरेन्मतिमान्मृदम्
प्रशस्ते वा दिने धीमानालयाग्रे सलक्षणम्। 20
वस्त्रे वाऽथ कटेवाऽथ प्रक्षिप्यैवाऽथ शोष्य च
शोषयित्वाऽथ मृद्भाण्डे गृहीत्वा सन्न्यसेच्छुचौ। 21
देशे सत्वक्कषायेन सुगन्धैर्वलुकैस्सह
आलोड्य चैकमास ञ्च तोयेन परिवासयेत्। 22
अश्वद्थोदुम्बरप्लक्ष न्यग्रोधक मयाम्बुना
सेचयित्वार्धमास ञ्च (शोषयित्वा ग।) उषित्वा त्रिफलोदके। 23
आलोड्य तन्मृत्तुर्यांशं शिलाचूर्ण समायुतम्
वासयित्वामास ञ्च माषचूर्ण समूयितम्। 24
श्रीवैष्टकं गुग्गुल ञ्च (कुन्दुरु सज्जरम् ?।) कुङ्कुमं सज्जरं तथा
षोडशांशा ञ्च संयोज्य मधुना दधिसर्पिषा। 25
सारं बिल्पफलस्या पि सम्मर्द्यैव जलेन च
वासयित्वार्धमास ञ्च हाटकैः रजतैस्तथा। 26
कपित्थनिर्यासचूर्णैश्च त्रिपात्रं परिवास्य च
मुहूर्ते शुभदे धीमान् मन्त्र संस्कार मारभेत्। 27
अङ्गुरानर्पयित्तैव तद्दिनात्पूर्वमेव च
कृत्वा वै गार्हपत्याग्नावाघारं विधिना चरेत्। 28
(घठानात्पश्चिमे अग्नेः पश्चिमाभागे तु तण्डुलोपरितां मृदम्
सन्न्यस्यैव समभ्यर्च्य 'मंसेभ्यो नम ' इत्यपि 29
समुज्ज्वाल्य परिस्तीर्य पावकं ध्यानतत्परः
श्री सूक्त ञ्च महीसूक्तं विष्णुसूक्तमतःपरम्। 30
वैष्णवं नरसूक्त ञ्च मुन्योर्मन्त्र समन्वितम्
'मांसेभ्यश्चैव' इत्यन्तं शतमष्टोत्तरं यजेत्। 31
'एकाक्षरादि' मन्त्रेण ध्यात्वा देवेशमव्ययम्
मेदिन्यादीन् समुच्चार्य रज्जुबन्दोपरि क्रमात्। 32
उत्तमादिमहाङ्गेषु मृदं संलेपयेत्क्रमात्
गुरुं सम्पूज्य शिल्पि ञ्च वैषणवाद्यान् यथाक्रमम्। 33
सर्वाङ्गमपि संशोष्य शनै रालेपयेन्मृदम्
रत्नान्युपरि सन्न्यस्य क्रमान्मन्त्रेण मन्त्रवित्। 34
शर्कराः कल्कसंयुक्ता मासातीति च लेपयेत्(शिलास्थापनविधिर्नाम त्रयोदशोऽध्यायः' इत्यध्यायसमाप्तिर्दृश्यते।ग।)
शर्कराग्रहणम्।
पुणक्षेत्रे शुचौ देशे सङ्गृह्यैव च शर्कराम्। 35
प्रक्षाळ्य शुद्धतोयेन चूर्णीकृत्वाऽति सूक्ष्मकम्


त्रिफलोदेन सम्मृद्य त (शोधयित्वा।) शोषियित्वा शनैः शनैः। 36
कपिद्धनिर्यासतोयैः समालोड्य पुनः पुनः
कार्पसतूल संयुक्तं सुश्लक्ष्णं सुमनोहरम्। 37
समालोड्याति सूक्ष्म ञ्च हेमपात्रे सुसन्न्यसेत्
अग्निं संसाध्य सभ्याग्नौ वैष्णवं मन्त्रमैव च 38
(शीसूक्त ञ्चैव) श्रीभूसूक्त ञ्च हुत्वा ऽन्ते स्वाहान्तं 'रुधिराय' च
सहस्रं जुहुयान्मन्त्री स्थणिडिलोपरि विन्यसेत्। 39
'रुधिराय' समभ्यर्च्य नमोऽन्ते चाधिवास्य च
विष्णुं श्रिय ञ्च पौष्णी ञ्च ख्यातीश ञ्च चिरायुषम्। 40
गरुडं सान्तचक्रौ च सर्वभूतानि वैष्णवम्
स्वाहान्तं जुहूयादग्निं विसृज्यैव पुनर्गुरुः। 41
शर्करां शिरसाऽऽदाय गर्भगेहं प्रवेश्य च
नरसूक्तं समुच्चराय गुरुरालेपयेत्क्रमात् 42
तत्तन्मन्त्रेण देव्यादीं त्समालिप्य पुनर्गरुः
आहूय स्थपतिं पूज्य सङ्गोपाङ्गं सलक्षणम्। 43
निवेद्य कारयित्वा तत्पटाच्छादन मारभेत्
पटाच्चादनम्
सूक्ष्मकार्पासवस्त्र ञ्च समूहृत्य च पूर्ववत्। 44
होमं हुत्वाऽथ सभ्याग्नौ 'त्वचे स्वा' हेति पूर्ववत्।
धान्यपीठे च सन्न्यस्य ('त्तग्भ्योनम इत्यपि।ग।) 'तत्त्वचे' नम इत्यपि 45
समभ्यर्च्चाधिवास्यैव विसृज्याग्नि ञ्च दक्षिणाम्।
आदाय वैष्मवैर्मन्त्रै ' स्सोमस्ये ' ति च मन्त्रतः 46
अङ्गे संयोज्य पश्चात्तच्छिल्पिना सुदृडं समम्
अच्छिद्र ञ्च समाच्छाद्य भूषणानि च भूषयेत् 47
शैलजे दारवे चेत्तु पटं नैव च (मौक्तिकम्) मृत्तिकाम्
मृदमालिप्य तद्वर्णान् लेपयेत्क्रमस्सुधीः 48
मौक्तिनान्तां मृदं पश्चात्समादायत थैव च
औपासवाग्नौ पूर्वोक्तं हुत्वैव स्थण्डिलोपरि 49
हेम पात्रे समभ्यर्च्य (त्वगादिभ्यो नमोन्तकम्।ग।) 'त्वग्वासिभ्यो ' नमोन्ककम्।
सुमुहूर्ते समादाय विष्णुसूक्तेन लेपयेत् 50
तत्तन्मन्त्रेण देव्यादीं त्समालिप्य च शिल्पिना।
ततश्चालिप्य सर्वत्र दक्षिणां सन्ददेद्गुरोः (गुरुय) 51
( वर्ण संस्कारः)
वक्ष्यामि वर्णसंस्कारं सुदिने च शुभोदये।
सर्ववर्णानि सङ्गृह्य हेमपात्रे पृथक् पृथक् 52
निर्यासचूर्णतोयेन पेषयित्वा यथोचितम्
संसाद्य पौण्डरीकाग्निं कृत्वाऽऽघार ञ्च पूर्ववत् 53
अग्नेः पशिचमतो भागे कारयेत् स्तण्डिलं सुधीः।


आस्तीर्य नववस्त्र ञ्च तस्योपरि सुसन्न्यसेत् 54
'जीवाय नम ' इत्युक्त्वा समभ्यर्च्याधिवास्य च
परिस्तीर्य वैष्णवं मन्त्रं परमात्मिक संयुतम् 55
स्वाहान्त ञ्चैव 'जीवाय ' शतमष्टोत्तरं यजेत्
अभिमृश्यच तद्वर्णं 'हिरण्यगर्भे' त्रि ब्रुवन् 56
ततश्चादाय तद्वर्णान् गर्भगेहं प्रविश्य च
हेमतूलिं समादाय चोत्तराभिमुखो गुरुः 57
विष्णुसूक्तं समुच्चार्य श्यामवर्णं च लेपयेत्
'भूतो भूते' ति मन्त्रेण मगुटादौ तु चाम्बरे 58
'तेजो वत्सव' इत्युक्त्वा समालिप्य च मन्त्रवित्।
तत्तन्मन्त्रेण देव्यादीन् दर्शनीयं स लक्षणम् 59
आलिप्य विधिना पश्चाद्दैमं श्याम ञ्च तस्य च।
ऊर्ध्वे तत्सन्निदानार्थं समालिप्य स लक्षणम् 60
विसृज्य शिल्पिनं पश्चात् स्थापनारम्भ माचरेत्।
इति श्री वैखानसे भगवच्छास्त्रे (उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे
(अध्यायान्तोन दृश्यते।ग।) त्रोयदशोऽध्यायः।