यज्ञाधिकारः/द्विचत्वारिंशोऽध्यायः
← एकचत्वारिंशोऽध्यायः | यज्ञाधिकारः द्विचत्वारिंशोऽध्यायः [[लेखकः :|]] |
त्रिचत्वारिंशोऽध्यायः → |
यज्ञाधिकारः।
-----------------
अथद्विचत्वारिंशोऽध्यायः।
-----------------------
मृगयोत्सवः।
------------------------
अथ तीर्थदिनात्पूर्वं प्रातस्सन्ध्यार्चनान्तरे (अवसानके)
होमाद्य सकलं कृत्वा चोत्सवं कारये त्तथा 1
मृगयार्थं विशेषेण राजचिह्नैः समावृतम्
आरोप्य याने देवेशं देवीभ्यां सहवा विना 2
आरामे वाऽथ नद्यादौ वनपार्श्वे मनोरमे
अन्यस्मिन्नालये वाऽथ वास्तुबाह्ये नयेत्प्रभुम् 3
गच्छेत्तद्याजनादर्वा क् पुण्यस्थाने भवेद्यदि
मृगयार्थं विशेषेण यस्यां दिशि तथाऽत्र च 4
पूर्वमेव प्रपादीनि कारयेत्सु मनोरमम्
तत्रैव शुद्धिं पूर्वोक्तां कारयित्वा पुनः प्रभुम् 5
नीत्वाऽत्र विष्टरे देवं स्थापयेत्समलङ्कृतम्
देवीभ्यां पार्षदैश्चैव विष्वक्सेनेन चैव हि 6
पश्चाद्देवं प्रणम्यैव देवीभ्यासह पूर्ववत्
अत्रैव स्नापयेद्धीमान् सुद्धस्नानोक्त मार्गतः 7
समभ्यर्च्य च पूर्वोक्तमर्घ्यान्तं सम्प्रणम्य च
महाहविः प्रभूतं वा यथाशक्ति यथारुचि 8
देवीभ्यांसह देवेशं निवेद्यैव च पूर्ववत्
प्रीत्यर्थं देवदेवीनां (भ्यां) मुखवासं ददेत्पुनः। 9
विष्वक्सेनं विशेषेण पार्षदैश्च सहात्र च
निवेद्य विधिना पश्चान्मृगयार्थ ञ्च पूर्ववत् 10
अन्यासने समारोप्य देव्यौनैव सहाऽसनम्
मृगयार्थमलङ्कृत्य सर्वतो नन्दनानि च 11
अपूपादीनि भक्ष्याणि नाळिकेरोदकैः सह
निवेद्य मुखवास ञ्च प्रणाममपि कारयेत् 12
अश्वादिवाहनेष्विष्टे कृते यन्त्रेण चाव्ययम्
समारोप्य पुनर्देवमायुधानि ददेत्पुनः 13
याने देव्यौ समारोप्य दिव्यचिह्नैः समावृते
देवस्यानुयेत्पश्चात्सार्धं तदमितेन च 14
केचिदश्वसमारूढाः केचिद्वारणवाहनाः
केचिच्चापधराश्चैव केचित् खड्गधरा स्तथा 15
केचिन्नृत्तसमायुक्ताः केचिद्गान समायुताः
केचिद्गदाधराः पुण्याः केचिद्दीपधराः क्रमात् 16
शुतिभिः स्मृतिभिश्चान्ये सर्वालङ्कार संयुताः
इत्येवं मृगयात्रा ञ्च कारयित्वाऽथ राजवत् 17
पश्चाद्देव ञ्च देवीभ्यांसह ग्रामं प्रवेश्य च
ग्रामप्रदक्षिणं कृत्वा प्रविशेदालयं पुनः 18
देवं संस्थाप्य चाऽस्थाने देवीभ्यांसह पूर्ववत्
संस्नाप्याथ समभ्यर्च्य तथा रात्र्युत्सवं चरेत् 19
पुनः संस्नाप्य पूर्वोक्तं देवीभ्यां सहवा विना
बद्ध्वा प्रतिसरं पश्चाच्छयने शायये त्तथा 20
प्रभाते देवमुत्थाप्य हविर्नैव च पूजयेत्
दिनाधि दैवत्यम्।
दिनदेवानथो वक्ष्ये शृणुध्वं मुनिसत्तमाः 21
प्रथमं ब्राह्ममुद्दिष्टं द्वितीयं चार्षकं तथा
तृतीयं ( रौद्रम्।ग।) स्कन्दमेवोक्तं चतुर्थं वासवं तथा 22
पञ्चमं ( सौम्य) सोमदैवत्यं षष्टं स्याद्वैष्टवं पुनः
सप्तमं सर्वदैवत्यमष्टमं याम्यमेव च 23
नवमं वारुणं तस्मात्तद्दिनाधिप मन्त्रतः
मूर्तिमन्त्रैश्च देवानां जुहुयात्तं निरुक्तवत् 24
चूर्णोत्सवः
तस्मिंस्तीर्थदिने पश्चात्पूर्वोक्तं प्रोतरुत्सवम्
हविर्विनैव देवेशं स्थापयेन्मण्डपे तथा। 25
प्रमुखे गरुडं पश्चाद्दक्षिणे चक्रमेव च
अमितं चोत्तरे धीमान् धान्यपूठोपरि न्यसेत् 26
समभ्युक्ष्य समभ्यर्च्य पाद्याद्यैरष्ट विग्रहैः
व्रीहिभिः स्थण्डिलं कृत्वा द्विहस्तायत विस्तृतम् 27
चतुरश्रं समं कृत्वा प्रमुखे ऽत्रोपरि क्रमात्
मुसलोलूखने न्यस्य वस्त्रेणैव च वेष्टयेत्। 28
तयोरीशौ क्रमेणैव ब्रह्मेशा वर्चयेद्बुधः
सिनीवालीं हरिद्रायां समभ्यर्च्य विशोद्य च 29
( 'हर्किद्रामुलूखले न्यस्य वैष्णवं मुसलेन्यसेत्" इति तत्र।ग। आदर्शेऽधिकः) आचार्यः प्राङ्मुखो भूत्वाऽवघातं किञ्चिदाचरेत्
गणिकाभिश्च भक्तैश्च कारयित्वाऽव घातकम्। 30
चूर्णीकृत्य क्रमाच्छूर्णमहरेत्कलशोदके
एकं वाऽथ द्वयं वाऽथ पूरयेत्कलशं सुधीः। 31
गन्धोषित ञ्च तत्तैलमाढकं सम्प्रगृह्य च
सासिधान न्तु ताभ्यां स्थण्डिलोपरि सन्न्यसेत्। 32
आच्छाद्य नववस्त्रेण सोमं ते ले समर्चयेत्
सनीवालीं तथा चूर्णे चक्रादीन् पूजये त्ततः 33
ततो देवं समभ्यर्च्य पुण्याहमपि वाचयेत्
तैलमादाय हस्ताभ्यां वैष्णवं मस्त्रमुच्चरन् 34
संस्राव्य मौलौ तत्तैलं 'वेदाह' मिति मन्त्रतः
अभिषिच्य च चूर्णेन देवं चक्रादिकानपि 35
अभिषिक्त न्तु तचूर्णं शिरसा धारयन्नरः
देवदेवमनुस्मृत्य सर्वपापैः प्रमुच्यते 36
अथ याने समारोप्य देवेशं समलङ्कृतम्
चक्राद्यैः सह तद्ग्रामं कृत्वा चूर्णोत्सवं तथा। 37
अवभृथोत्सवः
आलयाभिमुखे पश्चाद्देवखातं भवेद्यदि
तत्र तीर्थं प्रकर्तव्यं तद्दिव्यं जाह्नवीसमम्। 38
अवरोप्य च देवेशं यानाच्चक्रादिभिःसह
मन्दिरं सम्प्रविश्यैव चाऽस्थाने सन्निवेशयेत् 39
संस्थाप्य विष्टरे देवीभ्यां सहवा विना
चक्रादीन् पूर्ववत् स्थाने स्थापयेत्क्रमशःसुधीः 40
प्रमुखे स्थण्डिलं कृत्वा नवभागं विभज्य च
द्रव्येणापूर्य कलशान् नादेयेन ततो बुधः 41
गायत्री मन्त्र मुच्चार्य मध्ये सिद्धार्थकं न्यसेत्
प्राच्या न्तु अक्षतोदकं स्याद्गन्धोदं दक्षिणे तथा 42
कुशोदं पश्चिमे पश्चाज्जप्योदं चोत्तरे तथा
विदिशासु च मध्ये तदुपस्नानान् न्यसेत्क्रमात् 43
ततोऽधिपान् त्समभ्यर्च्य पुण्याहमपि वाच्य च
देवेशमपि चक्राद्यैः समभ्यर्च्यच पूर्ववत्। 44
प्रणम्य देवदेवेशमादाय कलशांस्तथा
मन्त्रेण प्रोक्ष्य देवेशं शेषतोयैः सुदर्शनम् 45
अभिषिच्य तथा दीमान् देवमानम्य पूर्ववत्
हस्ताभ्यां देवमादाय देवैः पारिषदैर्युतम् 46
प्रविश्य देवखातं तद्वरुणं तत्र चार्चयेत्
आचार्यश्चापि तत्तीर्थे ( चक्रं स्पृष्ट्वाऽवगाहयेत्।ग।) चक्रमादाय गाहयेत् 47
पश्चात्संस्नाप्य चक्रदीनास्थाने देवसन्निधौ
श्वेतवस्त्रेण संवेष्ट्य् पादौ प्रक्ष्याल्य मन्त्रवित् 48
तथाऽऽचम्यैव पूर्वोक्तं प्रणामाय ञ्च कारयेत्
ततो विसृज्य वस्त्रीदीन् देवं चान्यैर्विभूष्य च 49
तत्रैव स्नानसम्भारंन्तम्भृत्यैव च पूर्ववत्
संस्थाप्य चाऽसुरे देवं तैलं नैव विचक्षणः 50
देवीभ्यां सह चक्राद्यैः स्नापयेत्पूर्ववत्प्रभुम्
प्लोतवस्त्रं तथा दत्वा स्थापयेद्यौगिकाऽसने 51
आसनोक्तोपचाराणि कुर्यात्रद हविर्विना
पश्चाद्देवं समादाय सर्वालङ्कार संयुतम् 52
धामप्रदक्षिणं कृत्वा जीवस्थाने विशेषतः
देवीभ्यां ( वैव ?) सह संस्थाप्य चक्रादीन् स्थापये त्तथा 53
समभ्यर्च्य च पूर्वोक्तं प्रभूत ञ्चात्र सन्ददेत्
अवभृधेविकल्पः
अथ वा पुण्यतीर्थं तद्दूरे देवालयाद्यदि 54
तत्तीर्थकालादन्यस्मि न्नाचार्यस्याप्यनुज्ञया
तन्तुना वेष्टितं कुम्भं दोषैरन्यैर्वि वर्जितम् 55
'दुहतां दिव' मित्युक्त्वा कुम्भमादाय पूर्ववत्
चक्रदेवं समादाय पुण्यतीर्थं प्रविश्य च 56
ऊरुदघ्नजले गत्वा प्राङ्मुखो वाऽप्युदङ्मुखः
चक्रस्याभिमुखे शिष्यस्तोयेशमभिपूज्य च 57
हस्ताभ्यां कुम्भमादाय मनसा संस्मरन् हरिम्
'आद्यमभिगृह्णा' मीत्याधावमभिगृह्य च 58
सापिधानं पुनः कृत्वा शिरसा धारये त्तथा
शङ्खकाहळ संयुक्तं स्वस्तिघोष समन्वितम् 59
चक्रं चानुगतं कुम्भं देवं सम्यक्प्रवेशयेत्
चूर्णोत्सवान्ते पूर्वोक्ते वीथ्यां तद्धाम पूर्ववत् 60
रथस्थमपि देवेशं प्राङ्मुखं वाऽप्युदङ्मुखम्
संस्नाप्य गन्धतोयेन चक्रवीशामितैः सह 61
नववस्त्रेण सम्भूष्य समभ्यर्च्याष्टविग्रहैः
प्रमुखे कुम्भमादाय सन्न्यसेत्तद्रथोपरि 62
चक्रवीशामिताद्यैश्च पुण्याहमपि वाच्य च
तस्मिन् कुम्भजले तीर्थमावाह्याभ्यर्च्य पूर्ववत् 63
कुम्भस्थमपि तत्तीर्थं सुमुहूर्ते पुनर्गुरुः
कूर्चेनैव समादाय प्रोक्षये द्देवमव्ययम् 64
शिष्टतीर्थैः पुनश्चक्रं तन्मन्त्रेणाभिषेचयेत्
वास्तुविशेषेणावभृथप्रकारः
वास्तुभेदाद्विनान्यत्र पर्वाताग्रे वने तथा 65
नदीतीरे समुद्रस्य पार्श्वेऽन्यस्मिन् मनोरमे
आलयं यदि चेत्तस्मिन् प्रथमावरणादिषु 66
घोषणाद्युत्सवं सर्व मिच्छेच्छेत्पूर्ववच्चरेत्
तीर्थे त्वारणे यस्मिन् पुण्यवृक्षो भवेद्यदि 67
विदक्षु दिक्षु वाऽप्यस्य छायायां तीर्थमाचरेत्
पूर्वोक्तदेवखातं यदस्ति चेदालयाग्रतः 68
छायायां कलशन्यासं कृत्वैवाभ्युक्षणं चरेत्
तथैव मज्जयेच्चक्रं देवेनसह वा जले 69
सत्त्विकं चोदितं चान्यत्तामस ञ्चेति पठ्यते
नास्ति चेत्तत्तथा कुम्भे तीर्थमादाय पूर्ववत्। 70
छायायां पुण्यवृक्षस्य तीर्थं याने समाचरेत्
यानस्थस्याचरेत्तीर्थं दोषो नास्त्यत्र तेन वै 71
राजसं तद्विदुश्चान्ये पीठस्थ ञ्चात्र केचन
भक्तो जनश्चक्रतीर्थं धापरयेच्छिरसा सह 72
तेन पापैः (पः) सुपूतात्मा विष्णुलोकं स गच्छति
समुद्रे ऽवभृथः।
चूर्णोत्सवान्तेऽप्यथवा समुदार्दिजले शुभे 73
गच्छेत्तद्योजनादर्वाक् तस्य तीरं प्रवेशयेत्
रथचक्रं जले यावन्मग्नं तावत्समस्थले 74
नीत्वा क्रमेण चात्रैव राजसं तीर्थमाचरेत्
अवरोप्याथ वा तीरे प्रभा( पा)मध्ये च विष्टरे 75
चक्राद्यैः सह संस्थाप्य कलशानथ साधयेत्
पुण्याहं वाच्य पूर्वोक्तं प्रोक्षयेत्कलशोदकैः 76
देवेश ञ्च पुनश्चक्रं शिश्टैश्चैवाभि पेचयेत्
सन्निधौ चक्रमादाय तस्मिंस्तीर्थे निमज्जयेत् 74
देवीभ्यांसह देवेशमथवा मज्जयेज्जले
पश्चाद्देवं समादाय चारामे तु मनोरमे। 75
आन्यत्सौम्यालये वाऽथ पञ्चरात्रालयेऽथ वा
शालायां ब्रह्मयज्ञश्य केचिद्रुद्रालयेऽथ वा 76
मण्डपेऽलङ्कृते देवं स्थापयेत्पार्षदैः सह
शुद्धस्नानोक्तमार्गेण स्नापयित्वा ऽथ राजवत् 77
पूर्ववत्समलङ्कृत्य चक्रवीशामितैः सह
हविर्विनैव नेवेद्यं प्रणम्यैवानुमान्य च 78
विनोदांश्च तथा कृत्वा कुसुमाञ्जलि मुत्सृजेत्
ततोऽपराह्णे देवेशं सुमुहूर्ते शुभोदये 79
'रथं तरम ' सीत्युक्त्वा रथमारोप्य पूर्ववत्
ग्रामप्रदक्षिणं कृत्वा मन्दिरं सम्प्रवेशयेत् 80
अथ वा तज्जलाद्देवं स्नानान्ते च विशेषतः
ग्रामप्रदक्षिणं कृत्वा स्नानवेद्यां सुसन्न्यसेत् 81
स्नापनं विधिना चात्र कृत्वा पूर्वोक्तमार्गतः
प्लोतेनैव विमृज्याथ जीवस्थाने सुसन्न्यसेत् 82
समभ्यर्च्य च देवीभ्यां चक्रवीशामितैः सह
महाहविः प्रभूतं वा निवेद्यात्र प्रणम्य च 83
आचार्यमपि सम्पूज्य प्रार्थनामन्त्रमुच्चरेत्
'न्यूनातिरिक्तं यत्सर्यं क्षम' स्वेति जनार्तनम् 84
इति श्री वैखानसे भगवच्छास्त्रे ( उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे( चक्रं स्पृश्ट्याऽव गाहयेत्।ग।)मृगयात्रा विधिर्नाम
द्विचत्वारिंशोऽध्यायः।