यज्ञाधिकारः/नवत्रिंशो‌ऽध्यायः

← अष्टत्रिंशो‌ऽध्यायः यज्ञाधिकारः
नवत्रिंशो‌ऽध्यायः
[[लेखकः :|]]
चत्वारिंशोऽध्यायः →


यज्ञाधिकारः।
-------------
अथैकोनचत्वारिंशोऽध्यायः
-----------------------------
बलिहरण विधिः
------------------------------
बलिप्रदानमार्ग ञ्च प्रवक्ष्यामि पृथक् पुनः
( सर्वकार्य ञ्च मध्याह्ने स्थापकान् परिचारकान्, कल्प्यैव तस्य सायह्ने यजमानयुतो गुरुः)
सायाह्ने तु विशेषेण यजमान समायुतः। 1
द्रोणैर्दोणार्दकैर्वाऽथ आढकै र्वाऽथ तण्डुलैः
पाचयित्वा कटाहे तु प्रक्षिपेद्विधि चोदितम्। 2
मुद्गनिष्पावतिल्वांश्च लाजापूपौ प्रगृह्य च
हेमपात्रे सुसन्न्यस्य शिष्यस्तच्छिरसा वहेत् 3
अभिवन्द्य ध्वजं पूर्वमादाय समलङ्कृतम्
रथे वा शिबिकायं वा यन्त्रेणारोप्य मङ्गलम् 4
हविः पुष्पबलिं पात्रे सङ्गृह्यानु नयेत्पुनः
चक्रवीशामितान् पश्चान्नावद्गमये त्तथा। 5
आचार्यः पुरतो गच्छेत्सर्व वाद्यसमायुतम्
निचाचर विनाशार्थं सर्ववाद्य समावृतम् 6
आचार्यरक्षणार्थाय मनसा स्वस्तिवाचनम्
चक्रं चानुनयेत्तस्य वीशं चामितमेव च 7
पश्चाद्ध्वजं क्रमान्ने यात्सर्वालङ्कार संयुतम्
गर्भगेहस्थदेवानां ब्रह्मदीना ञ्च पूर्ववत्। 8
निक्षिप्य तद्बलिं पश्चाद्द्वारेशानां पुनः क्षिपेत्
पुनर्विमानपालेभ्यो लोकपालेभ्य एव च 9
अन्येभ्यो ऽप्यनपायिभ्यः तत्तन्माम्ना बलिं ददेत्
( गुरुस्तत्व ञ्च रिक्तानां सचाचक्रेण पालयोः? दत्वा तु द्वारपालेभ्यो चिने गोपुरेषु च।ग।) गोपुरेशान्
पुनर्गत्वा सर्वालङ्कार संयुतम् 10
ग्राम ङ्गत्वा तु सम्प्राप्य सन्धौ सन्धौ विशेषतः
ध्यात्वा बुद्ध्वाऽधिपान् मन्त्री भूमावावाह्य पूर्ववत् 11
अर्घ्यान्त ञ्च समभ्चर्च्य मुष्ट्यन्नं नामभिर्ददेत्
मध्ये तत्सन्दिमादाय प्राच्यां 'भूतेभ्य' इत्यपि 12
यक्षेभ्यो दक्षिणे पश्चाद्राक्षसेभ्यश्च पश्चिमे
नागेभ्यश्चोत्तरे वाऽथ ऊर्ध्वायां दिशि तत्क्रमात् 13
राक्षसेभ्यस्तथा धीमान् पूर्वं तदुदकं पुनः
पुष्पं बलिं तथाऽधावं सन्ददेच्चक्रसन्निधौ 14
धूपदीप समायुक्तं घण्टानाद समायुतम्
नृत्तगेय समायुक्त मुक्तमुक्तदिशो यथा? 15

यस्यां दिशि विमानं चेदब्रह्मस्थानाधिकं बलिम्
आचरेदथवा तस्य दिगीशादि बलिं क्षिपेत् 16
पश्चिमादिविमान ञ्चेद्वरुणस्य वायुसोमयोः
बलिं दत्वाऽथ शम्बोस्तु क्षिपेदन्यानि पूर्ववत् 17
अथ वा ब्रह्मवीथस्तद्ग्राममध्ये भवेद्यदि
ब्रह्माद्यं ( च दिगीश ञ्च तधानग्य ? ग।) नैव दिक्पालां स्तथा भूतबलिं क्षिपेत् 18
( तिवृताम्।) अन्यथा शम्भुमेवै ते तिर्यग्वीथ्यां व्यवस्थितान्
( विदिशासु तमीशाद्यम्।) तद्दिशाधिपदिग्धाम्नि बलिभेदोऽस्ति तस्य वै 19
धात्रंशात्पर्ववीथ्यां तत्( मध्ये शम्भोर्बलिम्।) मध्ये ब्रह्मबलिं ददेत्
ऐन्द्रेणसार्थं तत्रैव बलि दत्वा खगाधिपम्। 20
(नमो ब्रह्मणेभ्यो वाऽत्र ब्रह्मस्थानावृतावपि ?)
देवानां परितः पश्चाद्भूताद्यं पूर्ववत्क्रमात्। 21
निक्षिप्यैव बलिं पश्चाच्चकाग्रे तु गुरुः सुधीः
नाभिवीथ्या ञ्च परितो दिक्पालांश्च विशेषतः 22
बलिं क्षिप्त्वा तथैशान्यां निर्गम्य मतिमान् गुरुः
प्रवेश्य मङ्गलां वीथिं नाभिसोम प्रवेशके 23
पुरन्दरबलिं क्षिप्त्वा पावकस्य ( द्वयं दशि।) पुनः क्षिपेत्
दिगीशयोर्द्वयोर्मध्ये महावीथ्यां विशेषतः 24
सन्धि स्तद्यदि चे त्तत्र भूताना ञ्च बलिं क्षिपेत्
सन्ध्यन्तरगतां सन्दिमाचरेद्यदि मोहतः 25
कर्मणो वास्तुजातानामनर्थं भवति द्रुवम्
प्रागन्तं पश्चिमाद्य ञ्च एकवीथ ञ्च दण्डकम् 26
कुर्यात्तत्र च चक्राद्यैः पश्चिमाद्यं बलिं क्षिपेत्
वरुणनिर् ऋतिवायुभ्यः पश्चिमे तु बलिं ददेत् 27
धातृयमकुबेरेभ्यः सन्धौ मध्ये बलिं क्षिपेत्
इन्द्रपावकरुद्रेभ्यः प्राच्यां सन्धौ क्षिपेत् क्रमात् 28
उदगन्दमेकवीथि श्चेद्दक्षिणाद्य बलिं क्षिपेत्
यमनीलानलेभ्यश्च दक्षिणे मध्यमे तु वा 29
ब्रह्मवारुणशक्रेभ्य श्चोत्तरे च बलिं क्षिपेत्
कुबेरपवने शेभ्यो बलिं दद्यात्क्रमेण च 30
बलिमालाऽथ वास्तौ चेदिन्द्रादिभ्यो बलिं ददेत्
मध्ये वीथिं तथेन्द्रेष्टौ गोपुराग्रे उदङ्मुखः 31
ब्रह्मण ञ्च बलिं दद्यात्सर्ववीथ्यां समन्तु वा
नद्यादिषु विमानं चेत्परितः प्रवरणे तदेत् 32
पूर्वं क्षिप्त्वा बलिं धीमान् पुनस्तस्य च तस्य च
मन्त्रमुच्चार्य पूर्वोक्तं गन्दैः पद्यैश्च घोषयेत् 33
नगरादौ च गद्यैश्च प्रशंस्योपांशुना बुधः
तत्तन्मन्त्रं समुच्चार्य घोषयेत्पटहादिभिः 34


'प्रियतां भगवान्विष्णुः सर्वदेवेश्वरो हरिः
ब्रह्मेशाभ्या ञ्च सहितश्चोत्सवेनः प्रसीदतु 35
देवाश्च ऋषयः सर्वे पितरश्च ग्रहादयः
रुद्रातित्याप्सरसस्सरेव अश्विनौ च मरुद्गणाः 36
सिद्धा विद्याधरा यक्षा वसवो दैत्यदानवाः
भूतयक्षपिशाश्च नागा वै राक्षसोदयः 37
विष्णुलोकगताः सर्वे लोकानोक नवासिनः
सर्वेऽन्ये देवतास्सर्वाः परिवारगणैः सह 38
विश्व ते विष्णुयागेऽस्मिन् समागच्छन्तु सादराः
हव्यं बलिं समादाय भुञ्जन्तु शुभदायिनः 39
इत्युक्त्वा घोषयेत्सन्दौ चक्रस्याभिमुखे पुनः
ब्रह्मद्यं स्वस्वतालैश्च घोषयेद्वादकःपुनः 40
बलिमेव ञ्च निर्वाप्य प्रदक्षिणवशेन तु
शकुनसूक्तं पुनर्जप्त्वा प्रविशेदालयं पुनः 41
बलिशिष्टं भूतपीठे 'सर्वभूतेभ्य' इत्यपि
बलिं तत्तोयशेष ञ्च प्रक्षिपेच्चक्रसन्निधौ 42
धामप्रक्षिणं कृत्वा ध्वजाद्यैरनलायिभिः
सार्धं चक्र ञ्च स्वस्थाने स्थापयेन्मतिमान् पुनः 43
ध्वजस्थानं प्रविश्यैव ध्वजमादाय मन्त्रवित्
'स्वस्तिदा' इति मन्त्रेण बध्नीयाद्रज्जुनासह 44
यन्त्रेण मतिमान् पश्चात् प्राङ्मुखो वाऽप्युदङ्मुखः
दण्डाग्रे योजयेत्पश्चाच्छङ्ख काह?Rळ संयुतम्। 45
समाबद्ध्य पुनः स्निग्धं 'भूर' सीति जपन् पुनः
अभिमन्त्र्य ध्वजं पश्चादासनाद्यं समर्चयेत् 46
पुण्याहं वाचयेत्पश्चानुद्गान्न न्तु ध्वजस्य च
विवेद्य मुखवास ञ्च प्रणाममपि कारयेत् 47
ध्वजस्थगरुडस्यात्र निवेद्यन्नं पवित्रकम्
स्त्रियस्सत्पुत्र ( मार्धम्।ग।) कामा स्तदश्नीयुर्भक्ति संयुताः 48
( सुतम्।) आयुष्मन्तं बलारोग्यवन्तं शम्बुसमं (सत्यं।च।) न्तु वा
सत्पुत्रं जनयेयुस्ता बुद्धिमन्तं स लक्षणम्। 49
ध्वजावरोहणं यावत्ताव (नित्यम्।) न्मूर्त्या विशेषतः
त्रिकालं वा द्विकालं वा एककालमथापि वा 50
हविः सम्यङ्मिवेद्यैव स्पतविंशतिविग्रहैः
पूजयित्वा ध्वजं पश्चाद्रात्रौ भूतबलिं क्षिपेत् 51
ध्वजारोहणमारभ्य चोत्सवादिदिनादधः
सायमर्चावसानान्ते ध्वजारोहण वद्बलिम्। 52
शिष्येण गुरुणा वाऽथ चक्रस्याभिमुखे तथा
नित्यं रात्रौ विशेषेण तथा भूतबलिं क्षिपेत्। 53


वीशामितौ वना धीमान् तीर्थान्तं सर्वरात्रिषु
चक्रमेव नयेद्वीथ्यां रक्षणाय बलिं तथा 54
(द्वजाङ्कुरा ) ध्वजाऽरोहाद्यवरोहान्तमाचार्य स्तु विशेषतः
आशौचनं न लभेद्विद्वान् सूतकं प्रेतक न्तु वा 55
तथा पदार्थिनस्सर्वे यजामानस्य तस्य च
गुरोर्नैवोत्सवार्थं वा भविष्यत्यखमन्यथा 56
यावत्तीर्थावसानं स्यात्तावत्तद्ग्रामवासिनः
जना नान्यत्र गच्छेयुग्रच्चेयुश्चेन्महद्भयम् 57
इति श्री वाखानसे भगवच्छास्त्रे( उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे( बलिप्रदान विधिर्नाम अष्टत्रिंशोऽध्यायः) बलिहरणध्वजारोहण विधिर्नाम
एकोनचत्वारिंशोऽध्यायः