यज्ञाधिकारः/सप्तविंशोऽध्यायः

← षड्विंशोऽध्यायः यज्ञाधिकारः
सप्तविंशोऽध्यायः
[[लेखकः :|]]
अष्टाविंशोऽध्यायः →


अध्यायः 27 कुम्बपूजाविधिः


सौवर्णं राजतं वाऽथ ताम्रं मण्मयमेव वा
द्वात्रिंशत् प्रस्थसंपूर्णं कुम्भं सङ्गृह्य मन्त्रवित्। 1
कुम्भं तन्मृण्मयं चेत्तु दोषैस्सर्वैर्वि वर्जितम्
पक्वबिम्ब फलाकारंय सम्यग्दग्धं समाहरेत् 2
यज्ञालये च वायव्ये चोत्तराभिमुखो बुधः
यजुर्वेदादि मन्त्रेण त्रिवृत्तिनैव तन्तुना 3
यवान्तरं समावेष्ट्य 'शुचिवो हव्य' इति ब्रुवन्
प्रक्षाल्य शुद्धतोयेन सपिधानं समाहरेत् 4
भारं वाऽथ तदर्धं वा पादं वा व्रीहिभिः क्रमात्
गुरोः प्रमुखे विन्यस्य कुम्भं चोपरि विन्यसेत् 5
'इदमापः शि' वेत्युक्त्वा नववस्त्रेण तज्जलम्
उत्पूय पूरयेत्कुम्भं 'धारा' स्विति च मन्त्रततः 6
'आपो' वेत्यभिमृश्यैव गन्धतोय समायुतम्
कौशेयक्षौमवस्त्राभ्यां कुम्भमावेष्ट्य मन्त्रवित्। 7
कुशकूर्चाक्षताश्वद्थ पल्लवान्यपि सर्वशः
(तु?Rळसीम।ग।) तुलस्यादिपुण्यपुष्पाणि सन्न्यसेच्छुद्धवारिणि। 8
मङ्गलानि च रत्नानि गजतार्क्ष्ययुतानि च
कूर्मरूप ञ्च सौवर्णं स्रुक्स्रुवाधीन्विशेषतः 9
छत्रध्वजान्दीं स्तत्रैव तुलादीन् युगलाङ्गलौ
सुवर्णेनै काङ्गुलाहीनं विष्णुकायत्रिया बुधः 10
प्रक्षिप्य देवदेवेशं प्रणम्यैवानुमान्य च
'शन्नो मि' त्रेति शान्ति ञ्च ध्यानं समारभेत्। 11
असनं स्वसिक्तं कुर्यात् दक्षिणं पादमूर्ध्वतः
वामपादमधस्ताच्च तथा जान्वन्तरे बुधः 12
अङ्गुष्टौ द्वौ निगृह्यैव शिश्नं तद्वृषणावपि
पीडयन्वै निवातस्थप्रदीप इव निश्चलः 13
किञ्चिदुन्नामितमुखो दन्तैर्दन्तान संस्पृशन्
नासाग्रस्थेक्षणश्चैव मासयेदासनं बुधः 14
प्राणायाम ञ्च कुर्यात्तत्र्तिधा भवति संज्ञया
रेचकं पूरक ञ्चेति सुम्भक ञ्चेति तत्क्रमात् 15
निश्श्वसविसृजं यत्त द्रेचक ञ्चेति कथ्यते
आत्मपूरकनिः श्वासः पूरकं तद्विदुर्भुधाः 16
निश्श्वासस्य निरोधं (रोधनं) यत्तत्कुम्बकमति स्मृतम्
प्राणायाम ञ्च कृत्वैव यथाशक्ति यथाबलम्। 17
बीजं तद्धृदये न्यस्य प्रणवेन च वेष्टयेत्
( वलयम्।ग।) अकार ञ्चाऽदिबीजं तदुकारं कुटिलं भवेत् 18
मकार ञ्चैव नादान्तमेवं प्रणवमुच्यते
वारुणं मण्डलं धात्वा कुम्भेऽम्भलि (च) सुमघ्यमे। 19
आदिबीजं सुसन्न्यस्य प्रणवैरपि वेष्टयेत्
आत्मानमभिमृश्यैव आत्मसूक्तं जपेत्ततः 20
'सहस्रशीर्षं 'चेति ततो नारायणीयकम्
श्री सूक्त ञ्च ( जपित्वा तु प्रणवेन शतैरपि।) महीसूक्तं जप्त्वा प्रणवशतान्यपि। 21
समाहितमाना भूत्वा ध्यानं सम्यक्समाचरेत्
अप्रमेयमजं नित्यं सर्वाधारं सनातनम् 22
निर्गुणं निष्कलं (शुद्धम्।ग।) नित्यं परमात्मान मव्ययम्
क्षीरे सर्पिस्तिले तैलं पुष्पे गन्धं फले रसम् 23
काष्ठेऽग्निमिव सर्वत्र व्यापिनं पुरुषोत्तमम्
मनसा सकलं द्यात्वा हृदये पद्ममध्यमे 24
ध्यात्वैवात्र ततो मन्त्री तस्मात्कुम्भजले हरिम्
सुवर्णवर्णं रक्तास्यनेत्रपाणिपदं तथा 25
शुकपिञ्चाबरधरं विष्णु न्तु प्रणवात्मकम्
किरीटहारकेयूर (प्र)लम्बयज्ञोपवीतिनम् 26
शङ्खचक्रधरं देवं श्री वत्सङ्कं चतुर्भुजम्
परात्परतरं देवं देव्यादिपरिषदैस्सह 27
ध्यात्वा ( तु सुमनाः।)सुमनसः कुम्भे सम्यगावाहयेद्गुरुः
विश्वतो व्यापिनस्तस्मादावाहनमिदं बुधाः 28
एकत्र स्वरणं किञ्चिद्विश्वस्मादाहुरर्चनात्
तस्मात्कुम्भे समावाह्य समभ्यर्च्यष्टविग्रहैः 29
एवमादिप्रतिष्ठा चेद्बालधाम्नि विशेषतः
प्रविश्य बालधाम तं देवदेवं प्रणम्य च 30
शुद्धतोयैः सुसंस्नाप्य जीवस्थाने सुसन्न्यसेत्
समभ्यर्च्य विशेषेण हविः सम्यङ्नि वेदयेत् 31
'क्षम' स्वेति प्रणम्यैव कुम्भपूजां समाचरेत्
उत्तराभिमुखो भूत्वा दक्षिणे कौतुकस्य च 32
प्रमुखे धान्यराशौ तु कुम्भं सन्न्यस्य ( चोपरि।ग। मन्त्रवित् ।क।) मन्त्रवित्
तथाऽभिमन्त्र्य तत्कुम्भं स्वपनोत्सवयोरपि 33
आरोप्य कौतुके शक्तिं पश्चाद्देवं प्रणम्य च
कुम्बेऽम्बसि च ( मध्ये ग।) पद्मे तु धात्वा (पद्मम्।)देवं स लक्षणम् 34
मण्डलान्युपरि धात्वा तस्मिन् देवेशमव्ययम्
तद्बिम्बसंस्थितां शक्तिं मन्त्रेणावाहयेत्क्रमात् 35
ततः कुम्भजले ध्यात्वा अर्घ्यान्तं पूजयेद्धरिम्
बिम्बं तत्स्पचिताद्यैश्च दोषैरन्यैर्युतं भवेत् 36
सन्त्यज्य विधिना पश्चान्नवबिम्बं समाहरेत्
बालालयेऽर्चितं बिम्बं याचितं लौकिकं यदि ? (तयोश्च कुलधर्मेतन्न स्थाप्यं सर्वदा बुधैः इत्यत्राधिकः पाठः ग,
आदर्शे ) 37
(मण्डपादौ तु तद्बिम्बं मूर्तिमन्त्रेण मन्त्रवित्।) मूलालये तु तद्बिम्बं मूर्तिमन्त्रेण मन्त्रवित्
संस्थाप्य च यथाशक्ति पूजयेन्मूर्तिमन्त्रतः 38
देवीभ्यां नैव बेरं तज्जीर्णं चेत्कौतुकादिषु
शक्तिमावाह्य बेरं (अग्नेदष्टादिषु क्रमात्।ग।त्यजेन्नद्यादिषु ख।)तत्त्यजेदब्ध्यादिषु क्रमात् 39
तद्बेरं लक्षणैर्युक्तं देवीभ्यामञ्चितं यदि
कृत्वैव विधिना पश्चान्नयनोन्मीलनादिभिः 40
सहैव कारयित्वैव स्थापयेद्विधिचोदितम्
दोषो नास्ति ( च तेनैव द्वारा शक्ति ञ्च पण्डिताः।) ततोनैवमेकत्वाच्छक्ति सन्ततेः 41
बालालयार्चितं बिम्बं मूलधामर्हकं यदि
नत्यजेत्तत्समादाय स्थापयेन्मूलधामनि 42
पुनरादाय देवेशं कुम्बेनः सह मन्त्रवित्
शकुनसूक्त समायुक्तं सर्वालङ्कार संयुतम् 43
यागशालां प्रविश्यैव स्थापये ( श्वभ्र।ग।) च्चात्र मध्यमे
दक्षिणे धान्यपीठे तु कुम्भं सन्न्यस्य मन्त्रतः 44
देवं देव्यौ सुसंस्थाप्य स्नपनं सम्यगाचरेत्
कुम्बेन सह सम्बन्ध कूर्चं सन्न्यस्य मन्त्रतः 45
तण्डुलैर्व्रीहिभिर्वाऽथ पङ्क्ति कृत्वाऽथ दण्डवत्
देवीभ्यां सह चेद्विद्वान् सह वा पृथगेव वा 46
पङ्क्तिश्च कलशैः तत्र पृथक्चेदुत्तमं विदुः
क्षीरं घृतं मधु चैव सिद्धार्थोदक मक्षतम् 47
फलोदकुशोदे च पूरयेत्करशेष्वपि
पृथक् पृथकुपस्नाना ( समादाय स्थलोपरि।ग।) नादाय स्थण्डिलोपरि 48
उत्तरादि सुसन्न्यस्य उपस्नानांश्च दक्षिणे
अधिपानथर्ववेद ञ्च अश्विनौ सामवेदकम् 49
( वत्सरांश्चापि ऋग्वेदम्।) वत्सरं तद्यजुर्वेदं वायुमादित्यमप्सराः ?
कश्यपं ( बृहस्पतिमुनीन्। ?) मरुतं पश्चान्मुनीं स्तक्षकवासुकी 50
उपस्नाने ऋतूंश्चैव क्रमेणैव समर्चयेत्
संस्नाप्य देवदेवेशं समभ्यर्च्य च मन्त्रवित् 51
'शन्नो देवीर' भीत्युक्त्वा 'अग्न आयाहि' मन्त्रतः
'अग्निमी ' ?Rळेति चोक्त्वा तु 'पूतस्तस्य' इति ब्रुवन् 52
'इमा ओषधय' इत्युक्त्वा 'अभि त्वा शूर' इत्यपि
'चत्वारि वा' गित्युक्त्वा च सोपस्नानं यथाक्रमम् 53
'वारीश्चतस्र' इत्युक्त्वा स्नापयेत्क्रमशो हरिम्
द्रव्यं प्रति समभ्यर्च्य कुम्भं प्रोक्ष्यैव मन्त्रवित् 54
(अन्योदकैः।ग।) गन्धोदकैः पुनः स्नाप्य प्लोतेन विमृजेत्पुनः
श्वभ्रादादाय देवेशं वायव्ये विष्टरोपरि 55
नववस्त्रोत्तरीयाद्यैर्बूषणैरपि भूष्य च
समभ्यर्च्य च देवेशं कुम्भस्थं प्रभुमव्ययम् 56
ततो 'वेदाह' मित्युक्त्वा शयनं प्रोक्ष्य मन्त्रवित्
षड्द्रोणं शालिधान्य ञ्च तदर्धं तण्डुलं तिलम् 57
उपर्युपरि तदर्ध ञ्च समास्तीर्योपरि क्रमात्


अण्डजं प्रथमं तल्पं द्वितीयं मुण्डजं तथा 58
तृतीयं रोमजं तल्पं चतुर्थं चर्मजं तथा
पञ्चमं वामजं तल्पं क्रमादु पर्युपरि च 59
समास्तीर्य गुरर्धीमान् श्वेतवस्त्रोपवेष्टनम्
कृत्वाऽत्र चोपधाने द्वे विन्यस्यैव ततो बुधः 60
पुष्पाक्षता न्विकीर्यैव 'वेदाह' मिति मन्त्रतः
पश्चाद्देवं समादाय कुम्बेन सहितं क्रमात् 61
शकुनसूक्तं समुच्चार्य शय्यावेद्यां सुमध्यमे
सहैव देवं देवीभ्यां स्थापयेद्वैष्णवं वदन् 62
संस्थाप्य परितो धीमान् मङ्गलन्यायुधान्यपि
प्रदक्षिणक्रमेणैव सन्न्यस्यैव समर्च्य च 63
कुम्भवद्यां सुसन्नस्य पुष्पाद्यैः सम्यगर्चयेत्
शयनान्यथवाऽऽस्तीर्य श्वभ्रादादाय मन्त्रवित् 64
शयनोपरि संस्थाप्य कुम्बेन सह पूजयेत्
चू?Rळिकां हेमपात्र न्तु तण्डुलै राढकैरपि 65
पूरयित्वा ऽग्र तो न्यस्य सौवर्णं तान्तवन्तु वा?
तस्मिन्नुपरि सन्नस्य आलयं तत्प्रदक्षिणम् 66
कृत्वैवाभिमुखे न्यस्य पुण्याहमपि वाचयेत्
सूत्रोक्तविधिना विद्वान् 'कृणुस्य पाज ' इति ब्रुवन्। 67
'महागं इन्दो नृ' वेत्युक्त्वा 'त्रातार' मिति मन्त्रतः
तथाऽपि 'वाग्निरायष्मा ' नित्युक्त्वाऽथ पुनर्गुरुः 68
'स्वस्ति दा ' इति मन्त्रेण पूर्वहस्ते प्रदक्षिणम्
बन्धयेन्मतिनान् देव्योस्तत्तन्मन्त्रेण च क्रमात् 69
वामहस्ते च बध्नीयात्तथा कुम्भे च मन्त्रतः
आचार्य ऋत्विग्भिः सार्धं गर्भगेहं प्रविश्च च 70
न्यस्तकुम्भान् विसृज्वैव ध्रुवं सम्यक्समर्च्य च
स्थापकैः सह पर्वोक्तं पुण्याहमपि वाच्य च 71
(तथैव कौतुकं बद्ध्वा यद्वैष्णव ' मति ब्रुवन्, भावयेच्छयनं पश्चाद्गर्भ गेहस्थ पार्षदान्, तत्तन्मन्त्रं समुच्चार्यं
 रक्षां बद्ध्वाऽथ शाययेत्।अ।) ततश्लालां प्रविश्यैव देवदेवं प्रणम्य च 72
'यद्वैष्णव' मति मन्त्रेण देवीभ्यां सह शाययेत् 73
यद्दिग्द्वारं विमानं स्यात्तद्दिग्द्वारं च मौलिकम्
उत्तराच्छादनं कृत्वा कलाधस्ताद्विशेषतः 74
तथैव (वेद्याः पार्श्वे तु शाययेत्।ग। ) वेद्यां देवस्य पार्श्वयोः स्नपनोत्सवौ
शाययेद्बलिबेर ञ्च सार्धं पूर्वोक्तमन्त्रतः 75
ततः प्रावरणं विद्वान् परितः समलङ्कृतम्
सम्भारवेद्यामस्तीर्य ध्यान्यं वस्त्रोपरि क्रमात् 76
हेमादिपात्रे रत्नादीं त्सन्नयस्यैवाधि दैवतम्
अधिवास्य विष्णुमभ्यर्च्य नववस्त्रेण छादयेत् 77
यज्ञालयस्य परितः प्रागाद्य ञ्च यथाक्रमम्
वेदां त्सूत्रपुराणाद्या नध्यापनमथाऽचरेत् 78
स्तोत्रैश्च स्तुतिभिश्चान्यै र्वाद्यैश्च विविधैरपि
प्रमुखे गेयनृत्ते च कारयेद्विधिना बुधः 79
इति श्री वैखानसे भगवच्छास्त्रे ( उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे कुम्भपूजा विधिर्नाम
(षड्विंशोध्यायः।) सप्तविंशोऽध्यायः