याज्ञवल्क्यस्मृतिः/आचाराध्यायः/राजधर्मप्रकरणम्
← ग्रहशान्तिप्रकरणम् | याज्ञवल्क्यस्मृतिः राजधर्मप्रकरणम् याज्ञवल्क्यः |
महोत्साहः स्थूललक्षः कृतज्ञो वृद्धसेवकः । |
अदीर्घसूत्रः स्मृतिमानक्षुद्रोऽपरुषस्तथा । |
स्वरन्ध्रगोप्तान्वीक्षिक्यां दण्डनीत्यां तथैव च । |
स मन्त्रिणः प्रकुर्वीत प्राज्ञान्मौलान्स्थिरान्शुचीन् । |
पुरोहितं प्रकुर्वीत दैवज्ञं उदितोदितम् । |
श्रौतस्मार्तक्रियाहेतोर्वृणुयादेव च र्त्विजः । |
भोगांश्च दद्याद्विप्रेभ्यो वसूनि विविधानि च । |
अस्कन्नं अव्यथं चैव प्रायश्चित्तैरदूषितम् । |
अलब्धं ईहेद्धर्मेण लब्धं यत्नेन पालयेत् । |
दत्त्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु कारयेत् । |
पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम् । |
प्रतिग्रहपरीमाणं दानच्छेदोपवर्णनम् । |
रम्यं पशव्यं आजीव्यं जाङ्गलं देशं आवसेत् । |
तत्र तत्र च निष्णातानध्यक्षान्कुशलान्शुचीन् । |
नातः परतरो धर्मो नृपाणां यद्रणार्जितम् । |
य आहवेषु वध्यन्ते भूम्यर्थं अपराङ्मुखाः । |
पदानि क्रतुतुल्यानि भग्नेष्वविनिवर्तिनाम् । |
तवाहंवादिनं क्लीबं निर्हेतिं परसंगतम् । |
कृतरक्षः समुत्थाय पश्येदायव्ययौ स्वयम् । |
हिरण्यं व्यापृतानीतं भाण्डागारेषु निक्षिपेत् । |
ततः स्वैरविहारी स्यान्मन्त्रिभिर्वा समागतः । |
संध्यां उपास्य शृणुयाच्चाराणां गूढभाषितम् । |
संविशेत्तूर्यघोषेण प्रतिबुध्येत्तथैव च । |
प्रेषयेच्च ततश्चारान्स्वेष्वन्येषु च सादरान् । |
दृष्ट्वा ज्योतिर्विदो वैद्यान्दद्याद्गां काञ्चनं महीम् । |
ब्राह्मणेषु क्षमी स्निग्धेष्वजिह्मः क्रोधनोऽरिषु । |
पुण्यात्षड्भागं आदत्ते न्यायेन परिपालयन् । |
चाटतस्करदुर्वृत्त महासाहसिकादिभिः । |
अरक्ष्यमाणाः कुर्वन्ति यत्किंचित्किल्बिषं प्रजाः । |
ये राष्ट्राधिकृतास्तेषां चारैर्ज्ञात्वा विचेष्टितम् । |
उत्कोचजीविनो द्रव्य हीनान्कृत्वा विवासयेत् । |
अन्यायेन नृपो राष्ट्रात्स्वकोशं योऽभिवर्धयेत् । |
प्रजापीडनसंतापात्समुद्भूतो हुताशनः । |
य एव नृपतेर्धर्मः स्वराष्ट्रपरिपालने । |
यस्मिन्देशे य आचारो व्यवहारः कुलस्थितिः । |
मन्त्रमूलं यतो राज्यं तस्मान्मन्त्रं सुरक्षितम् । |
अरिर्मित्रं उदासीनोऽनन्तरस्तत्परः परः । |
उपायाः साम दानं च भेदो दण्डस्तथैव च । |
संधिं च विग्रहं यानं आसनं संश्रयं तथा । |
यदा सस्यगुणोपेतं परराष्ट्रं तदा व्रजेत् । |
दैवे पुरुषकारे च कर्मसिद्धिर्व्यवस्थिता । |
केचिद्दैवात्स्वभावाद्वा कालात्पुरुषकारतः । |
यथा ह्येकेन चक्रेण रथस्य न गतिर्भवेत् । |
हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः । |
स्वाम्यमात्या जनो दुर्गं कोशो दण्डस्तथैव च । |
तदवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत् । |
स नेतुं न्यायतोऽशक्यो लुब्धेनाकृतबुद्धिना । |
यथाशास्त्रं प्रयुक्तः सन्सदेवासुरमानवम् । |
अधर्मदण्डनं स्वर्ग कीर्तिलोकविनाशनम् । |
अपि भ्राता सुतोऽर्घ्यो वा श्वशुरो मातुलोऽपि वा । |
यो दण्ड्यान्दण्डयेद्राजा सम्यग्वध्यांश्च घातयेत् । |
इति संचिन्त्य नृपतिः क्रतुतुल्यफलं पृथक् । |
कुलानि जातीः श्रेणीश्च गणान्जानपदानपि । |
जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् । |
गौरस्तु ते त्रयः षट्ते यवो मध्यस्तु ते त्रयः । |
पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम् । |
शतमानं तु दशभिर्धरणैः पलं एव तु । |
साशीतिपणसाहस्रो दण्ड उत्तमसाहसः । |
धिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो वधस्तथा । |
ज्ञात्वापराधं देशं च कालं बलं अथापि वा । |