याज्ञवल्क्यस्मृतिः/प्रायश्चित्ताध्यायः/प्रायश्चित्तप्रकरणम्

महापातकजान् घोरान् नरकान् प्राप्य दारुणान्।
कर्मक्षयात् प्रजायन्ते महापातकिनस्त्विह॥३.२०६॥

मृगाश्वसूकरोष्ट्राणां ब्रह्महा योनिम् ऋच्छति।
खरपुल्कसवेनानां सुरापो नात्र संशयः॥३.२०७॥

कृमिकीटपतङ्गत्वं स्वर्णहारी समाप्नुयात्।
तृणगुल्मलतात्वं च क्रमशो गुरुतल्पगः॥३.२०८॥

ब्रह्महा क्षयरोगी स्यात् सुरापः श्यावदन्तकः।
हेमहारी तु कुनखी दुश्चर्मा गुरुतल्पगः॥३.२०९॥

यो येन संवसत्येषां स तल्लिङ्गोऽभिजायते।
अन्नहर्तामयावी स्यान्मूको वागपहारकः॥३.२१०॥

धान्यमिश्रोऽतिरिक्ताङ्गः पिशुनः पूतिनासिकः।
तैलहृत् तैलपायी स्यात् पूतिवक्त्रस्तु सूचकः॥३.२११॥

परस्य योषितं हृत्वा ब्रह्मस्वम् अपहृत्य च।
अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः॥३.२१२॥

हीनजातौ प्रजायेत पररत्नापहारकः।
पत्रशाकं शिखी हत्वा गन्धाञ्छुच्छुन्दरी शुभान्॥३.२१३॥

मूषको धान्यहारी स्याद्यानम् उष्ट्रः कपिः फलम्।
जलं प्लवः पयः काको गृहकारी ह्युपस्करम्॥३.२१४॥

मधु दंशः पलं गृध्रो गां गोधाग्निं बकस्तथा।
श्वित्री वस्त्रं श्वा रसं तु चीरी लवणहारकः॥३.२१५॥

प्रदर्शनार्थम् एतत् तु मयोक्तं स्तेयकर्मणि।
द्रव्यप्रकारा हि यथा तथैव प्राणिजातयः॥३.२१६॥

यथाकर्म फलं प्राप्य तिर्यक्त्वं कालपर्ययात्।
जायन्ते लक्षणभ्रष्टा दरिद्राः पुरुषाधमाः॥३.२१७॥

ततो निष्कल्मषीभूताः कुले महति भोगिनः।
जायन्ते विद्ययोपेता धनधान्यसमन्विताः॥३.२१८॥

विहितस्याननुष्ठानान्निन्दितस्य च सेवनात्।
अनिग्रहाच्चेन्द्रियाणां नरः पतनम् ऋच्छति॥३.२१९॥

तस्मात् तेनेह कर्तव्यं प्रायश्चित्तं विशुद्धये।
एवम् अस्यान्तरात्मा च लोकश्चैव प्रसीदति॥३.२२०॥

प्रायश्चित्तम् अकुर्वाणाः पापेषु निरता नराः।
अपश्चात्तापिनः कष्टान् नरकान् यान्ति दारुणान्॥३.२२१॥

तामिस्रं लोहशङ्कुं च महानिरयशाल्मली।
रौरवं कुड्मलं पूति मृत्तिकं कालसूत्रकम्॥३.२२२॥

सङ्घातं लोहितोदं च सविषं सम्प्रपातनम्।
महानरककाकोलं सञ्जीवनमहापथम्॥३.२२३॥

अवीचिम् अन्धतामिस्रं कुम्भीपाकं तथैव च।
असिपत्रवनं चैव तापनं चैकविंशकम्॥३.२२४॥

महापातकजैर्घोरैरुपपातकजैस्तथा।
अन्विता यान्त्यचरितप्रायश्चित्ता नराधमाः॥३.२२५॥

प्रायश्चित्तैरपैत्येनो यद् अज्ञानकृतं भवेत्।
कामतो व्यवहार्यस्तु वचनाद् इह जायते॥३.२२६॥

ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पगः।
एते महापातकिनो यश्च तैः सह संवसेत्॥३.२२७॥

गुरूणाम् अध्यधिक्षेपो वेदनिन्दा सुहृद्वधः।
ब्रह्महत्यासमं ज्ञेयम् अधीतस्य च नाशनम्॥३.२२८॥

निषिद्धभक्षणं जैह्म्यम् उत्कर्षे च वचोऽनृतम्।
रजस्वलामुखास्वादः सुरापानसमानि तु॥३.२२९॥

अश्वरत्नमनुष्यस्त्री भूधेनुहरणं तथा।
निक्षेपस्य च सर्वं हि सुवर्णस्तेयसम्मितम्॥३.२३०॥

सखिभार्याकुमारीषु स्वयोनिष्वन्त्यजासु च।
सगोत्रासु सुतन्त्रीषु गुरुतल्पसमं स्मृतम्॥३.२३१॥

पितुः स्वसारं मातुश्च मातुलानीं स्नुषाम् अपि।
मातुः सपत्नीं भगिनीम् आचार्यतनयां तथा॥३.२३२॥

आचार्यपत्नीं स्वसुतां गच्छंस्तु गुरुतल्पगः।
लिङ्गं छित्त्वा वधस्तस्य सकामायाः स्त्रिया अपि॥३.२३३॥

गोवधो व्रात्यता स्तेयम् ऋणानां चानपाक्रिया।
अनाहिताग्नितापण्यविक्रयः परिदेवनम्॥३.२३४॥

भृतादध्ययनादानं भृतकाध्यापनं तथा।
पारदार्यं पारिवित्त्यं वार्धुष्यं लवणक्रिया॥३.२३५॥

स्त्रीशूद्रविट्क्षत्रवधो निन्दितार्थोपजीवनम्।
नास्तिक्यं व्रतलोपश्च सुतानां चैव विक्रयः॥३.२३६॥

धान्यकुप्यपशुस्तेयम् अयाज्यानां च याजनम्।
पितृमातृसुतत्यागस्तडागारामविक्रयः॥३.२३७॥

कन्यासन्दूषणं चैव परिविन्दकयाजनम्।
कन्याप्रदानं तस्यैव कौटिल्यं व्रतलोपनम्॥३.२३८॥

आत्मनोऽर्थे क्रियारम्भो मद्यपस्त्रीनिषेवणम्।
स्वाध्यायाग्निसुतत्यागो बान्धवत्याग एव च॥३.२३९॥

इन्धनार्थं द्रुमछेदः स्त्रीहिंसौषधजीवनम्।
हिंस्रयन्त्रविधानं च व्यसनान्यात्मविक्रयः॥३.२४०॥

शूद्रप्रेष्यं हीनसख्यं हीनयोनिनिषेवणम्।
तथैवानाश्रमे वासः परान्नपरिपुष्टता॥३.२४१॥

असच्छास्त्राधिगमनम् आकरेष्वधिकारिता।
भार्याया विक्रयश्चैषाम् एकैकं उपपातकम्॥३.२४२॥

शिरःकपाली ध्वजवान् भिक्षाशी कर्म वेदयन्।
ब्रह्महा द्वादशाब्दानि मितभुक्शुद्धिम् आप्नुयात्॥३.२४३॥

ब्राह्मणस्य परित्राणाद्गवां द्वादशकस्य च।
तथाश्वमेधावभृथस्नानाद्वा शुद्धिम् आप्नुयात्॥३.२४४॥

दीर्घतीव्रामयग्रस्तं ब्राह्मणं गाम् अथापि वा।
दृष्ट्वा पथि निरातङ्कं कृत्वा तु ब्रह्महा शुचिः॥३.२४५॥

आनीय विप्रसर्वस्वं हृतं घातित एव वा।
तन्निमित्तं क्षतः शस्त्रैर्जीवन्नपि विशुध्यति॥३.२४६॥

लोमभ्यः स्वाहेत्येवं हि लोमप्रभृति वै तनुम्।
मज्जान्तां जुहुयाद्वापि मन्त्रैरेभिर्यथाक्रमम्॥३.२४७॥

सङ्ग्रामे वा हतो लक्ष्यभूतः शुद्धिम् अवाप्नुयात्।
मृतकल्पः प्रहारार्तो जीवन्नपि विशुध्यति॥३.२४८॥

अरण्ये नियतो जप्त्वा त्रिर्वै वेदस्य संहिताम्।
शुध्येत वा मिताशित्वात्प्रतिस्रोतः सरस्वतीम्॥३.२४९॥

पात्रे धनं वा पर्याप्तं दत्त्वा शुद्धिम् अवाप्नुयात्।
आदातुश्च विशुद्ध्यर्थं इष्टैर्वैश्वानरी स्मृता॥३.२५०॥

यागस्थक्षत्रविड्घाती चरेद्ब्रह्महणि व्रतम्।
गर्भहा च यथावर्णं तथात्रेयीनिषूदकः॥३.२५१॥

चरेद् व्रतम् अहत्वापि घातार्थं चेत् समागतः।
द्विगुणं सवनस्थे तु ब्राह्मणे व्रतम् आदिशेत्॥३.२५२॥

सुराम्बुघृतगोमूत्रपयसाम् अग्निसन्निभम्।
सुरापोऽन्यतमं पीत्वा मरणाच्छुद्धिम् ऋच्छति॥३.२५३॥

वालवासा जटी वापि ब्रह्महत्याव्रतं चरेत्।
पिण्याकं वा कणान् वापि भक्षयेत् त्रिसमा निशि॥३.२५४॥

अज्ञानात्तु सुरां पीत्वा रेतो विण्मूत्रम् एव च।
पुनः संस्कारम् अर्हन्ति त्रयो वर्णा द्विजातयः॥३.२५५॥

पतिलोकं न सा याति ब्राह्मणी या सुरां पिबेत्।
इहैव सा शुनी गृध्री सूकरी चोपजायते॥३.२५६॥

ब्राह्मणस्वर्णहारी तु राज्ञे मुसलम् अर्पयेत्।
स्वकर्म व्याख्यायंस्तेन हतो मुक्तोऽपि वाशुचिः॥३.२५७॥

अनिवेद्य नृपे शुध्येत्सुरापव्रतम् आचरन्।
आत्मतुल्यं सुवर्णं वा दद्याद्वा विप्रतुष्टिकृत्॥३.२५८॥

तप्तेऽयःशयने सार्धम् आयस्या योषिता स्वपेत्।
गृहीत्वोत्कृत्य वृषणौ नैर्ऋत्यां चोत्सृजेत् तनुम्॥३.२५९॥

प्राजापत्यं चरेत्कृच्छ्रं समा वा गुरुतल्पगः।
चान्द्रायणं वा त्रीन् मासान् अभ्यसेद् वेदसंहिताम्॥३.२६०॥

एभिस्तु संवसेद्यो वै वत्सरं सोऽपि तत्समः।
कन्यां समुद्वहेदेषां सोपवासाम् अकिञ्चनाम्॥३.२६१॥

चान्द्रायणं चरेत् सर्वान् अवकृष्टान् निहत्य तु।
शूद्रोऽधिकारहीनोपि कालेनानेन शुध्यति॥३.२६२॥

पञ्चगव्यं पिबेद् गोघ्नो मासम् आसीत संयतः।
गोष्ठेशयो गोऽनुगामी गोप्रदानेन शुध्यति॥३.२६३॥

कृच्छ्रं चैवातिकृच्छ्रं च चरेद्वापि समाहितः।
दद्यात् त्रिरात्रं चोपोष्य वृषभैकादशास्तु गाः॥३.२६४॥

उपपातकशुद्धिः स्यादेवं चान्द्रायणेन वा।
पयसा वापि मासेन पराकेणाथ वा पुनः॥३.२६५॥

ऋषभैकसहस्रा गा दद्यात् क्षत्रवधे पुमान्।
ब्रह्महत्याव्रतं वापि वत्सरत्रितयं चरेत्॥३.२६६॥

वैश्यहाब्दं चरेद् एतद् दद्याद् वैकशतं गवाम्।
षण्मासाच्छूद्रहाप्येतद् धेनुर्दद्याद् दशाथ वा॥३.२६७॥

दुर्वृत्तब्रह्मविट्क्षत्रशूद्रयोषाः प्रमाप्य तु।
दृतिं धनुर्बस्तम् अविं क्रमाद् दद्याद्विशुद्धये॥३.२६८॥

अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत्।
अस्थिमतां सहस्रं तु तथानस्थिमताम् अनः॥३.२६९॥

मार्जारगोधानकुलमण्डूकांश्च पतत्रिणः।
हत्वा त्र्यहं पिबेत्क्षीरं कृच्छ्रं वा पादिकं चरेत्॥३.२७०॥

गजे नीलवृषाः पञ्च शुके वत्सो द्विहायनः।
खराजमेषेषु वृषो देयः क्रौञ्चे त्रिहायनः॥३.२७१॥

हंसश्येनकपिक्रव्याज्जलस्थलशिखण्डिनः।
भासं च हत्वा दद्याद् गाम् अक्रव्यादस्तु वत्सिकाम्॥३.२७२॥

उरगेष्वायसो दण्डः पण्डके त्रपु सीसकम्।
कोले घृतघटो देय उष्ट्रे गुञ्जा हयेऽंशुकम्॥३.२७३॥

तित्तिरौ तु तिलद्रोणं गजादीनाम् अशक्नुवन्।
दानं दातुं चरेत्कृच्छ्रं एकैकस्य विशुद्धये॥३.२७४॥

फलपुष्पान्नरसज सत्त्वघाते घृताशनम्।
किञ्चित् सास्थिवधे देयं प्राणायामस्त्वनस्थिके॥३.२७५॥

वृक्षगुल्मलतावीरुच्छेदने जप्यम् ऋक्शतम्।
स्यादोषधिवृथाछेदे क्षीराशी गोऽनुगो दिनम्॥३.२७६॥

पुंश्चलीवानरखरैर्दष्टश्वोष्ट्रादिवायसैः।
प्राणायामं जले कृत्वा घृतं प्राश्य विशुध्यति॥३.२७७॥

यन्मेऽद्य रेत इत्याभ्यां स्कन्नं रेतोऽभिमन्त्रयेत्।
स्तनान्तरं भ्रुवोर्मध्यं तेनानामिकया स्पृशेत्॥३.२७८॥

मयि तेज इति च्छायां स्वां दृष्ट्वाम्बुगतां जपेत्।
सावित्रीम् अशुचौ दृष्टे चापल्ये चानृतेऽपि च॥३.२७९॥

अवकीर्णी भवेद् गत्वा ब्रह्मचारी तु योषितम्।
गर्दभं पशुम् आलभ्य नैर्ऋतं स विशुध्यति॥३.२८०॥

भैक्षाग्निकार्ये त्यक्त्वा तु सप्तरात्रम् अनातुरः।
कामावकीर्ण इत्याभ्यां जुहुयाद् आहुतिद्वयम्॥३.२८१॥

उपस्थानं ततः कुर्यात् सं मा सिञ्चन्त्वनेन तु।
मधुमांसाशने कार्यः कृच्छ्रः शेषव्रतानि च॥३.२८२॥

प्रतिकूलं गुरोः कृत्वा प्रसाद्यैव विशुध्यति।
कृच्छ्रत्रयं गुरुः कुर्यान् म्रियते प्रहितो यदि॥३.२८३॥

क्रियमाणोपकारे तु मृते विप्रे न पातकम्।
विपाके गोवृषाणां तु भेषजाग्निक्रियासु च॥३.२८३ः१॥

मिथ्याभिशंसिनो दोषो द्विः समो भूतवादिनः।
मिथ्याभिशस्तदोषं च समादत्ते मृषा वदन्॥३.२८४॥

महापापोपपापाभ्यां योऽभिशंसेन्मृषा परम्।
अब्भक्षो मासम् आसीत स जापी नियतेन्द्रियः॥३.२८५॥

अभिशस्तो मृषा कृच्छ्रं चरेदाग्नेयम् एव वा।
निर्वपेत् तु पुरोडाशं वायव्यं पशुम् एव वा॥३.२८६॥

अनियुक्तो भ्रातृजायां गच्छंश्चान्द्रायणं चरेत्।
त्रिरात्रान्ते घृतं प्राश्य गत्वोदक्यां विशुध्यति॥३.२८७॥

त्रीन्कृच्छ्रान् आचरेद् व्रात्ययाजकोऽभिचरन्नपि।
वेदप्लावी यवाश्यब्दं त्यक्त्वा च शरणागतम्॥३.२८८॥

गोष्ठे वसन् ब्रह्मचारी मासम् एकं पयोव्रतम्।
गायत्रीजप्यनिरतः शुध्यतेऽसत्प्रतिग्रहात्॥३.२८९॥

प्राणायामी जले स्नात्वा खरयानोष्ट्रयानगः।
नग्नः स्नात्वा च भुक्त्वा च गत्वा चैव दिवा स्त्रियम्॥३.२९०॥

गुरुं हुंकृत्य त्वंकृत्य विप्रं निर्जित्य वादतः।
बद्ध्वा वा वाससा क्षिप्रं प्रसाद्योपवसेद् दिनम्॥३.२९१॥

विप्रदण्डोद्यमे कृच्छ्रस्त्वतिकृच्छ्रो निपातने।
कृच्छ्रातिकृच्छ्रोऽसृक्पाते कृच्छ्रोऽभ्यन्तरशोणिते॥३.२९२॥

देशं कालं वयः शक्तिं पापं चावेक्ष्य यत्नतः।
प्रायश्चित्तं प्रकल्प्यं स्याद्यत्र चोक्ता न निष्कृतिः॥३.२९३॥

दाषीकुम्भं बहिर्ग्रामान्निनयेरन् स्वबान्धवाः।
पतितस्य बहिः कुर्युः सर्वकार्येषु चैव तम्॥३.२९४॥

चरितव्रत आयाते निनयेरन् नवं घटम्।
जुगुप्सेरन् न चाप्येनं संवसेयुश्च सर्वशः॥३.२९५॥

पतितानाम् एष एव विधिः स्त्रीणां प्रकीर्तितः।
वासो गृहान्तके देयम् अन्नं वासः सरक्षणम्॥३.२९६॥

नीचाभिगमनं गर्भपातनं भर्तृहिंसनम्।
विशेषपतनीयानि स्त्रीणाम् एतान्यपि ध्रुवम्॥३.२९७॥

शरणागतबालस्त्रीहिंसकान् संवसेन् न तु।
चीर्णव्रतानपि सतः कृतघ्नसहितान् इमान्॥३.२९८॥

घटेऽपवर्जिते ज्ञाति मध्यस्थो यवसं गवाम्।
स दद्यात् प्रथमं गोभिः सत्कृतस्य हि सत्क्रिया॥३.२९९॥

विख्यातदोषः कुर्वीत पर्षदोऽनुमतं व्रतम्।