याज्ञवल्क्यस्मृतिः/व्यवहाराध्यायः/अस्वामिविक्रयप्रकरणम्
स्वं लभेतान्यविक्रीतं क्रेतुर्दोषोऽप्रकाशिते । |
नष्टापहृतं आसाद्य हर्तारं ग्राहयेन्नरम् । |
विक्रेतुर्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् । |
आगमेनोपभोगेन नष्टं भाव्यं अतोऽन्यथा । |
हृतं प्रनष्टं यो द्रव्यं परहस्तादवाप्नुयात् । |
शौल्किकैः स्थानपालैर्वा नष्टापहृतं आहृतम् । |
पणानेकशफे दद्याच्चतुरः पञ्च मानुषे । |