युक्तिषष्टिकारिका
[[लेखकः :|]]


अथ युक्तिषष्टिकारिका नाम
मञ्जुश्रिकुमारभुताय नमः

नमस्तस्मै मुनीन्द्राय प्रतीत्योपाददेशिने ।
येनानेना विधानेन निषिद्धावुदयव्ययौ ॥

भावाभावव्यतिक्रान्ता मतिर्येषामनाश्रिता ।
तैर्गम्भीरो निरलम्बः प्रत्ययार्थः प्रतीयते ॥ १
सर्वदोषाकरस्तावदभावो विनिवारितः ।
निर्वर्त्यते यथा युक्तया भावोऽपि श्र्ववणं कुरु ॥ २
भावो यदि भवेत्सत्य्यथा बालैर्विकल्पितः ।
विमोक्षस्तदभावेन को नेच्छेत्किं न कार्नात् ॥ ३
विमोक्षो नास्ति भावेन भावो नास्ति ह्यभावतः ।
भावाभावपरिज्ञानान्महात्माऽपि विमुच्यते ॥ ४
निर्वाणं चैव लोकं च मन्यन्ते तत्त्वदर्शिनः ।
नैव लोकं न निर्वानं मन्यन्ते तत्त्वदर्शिनः ॥ ५
निर्वानं च भवश्चैव द्वयमेव न विद्यते ।
परिज्ञानं भवस्यैव निर्वाणमिति कथ्यते ॥ ६
सम्भवविभवे भावे निरोधः कल्पितो यथा ।
मायाकृतो निरोधोऽयं सद्भिस्तथैवमिष्यते ॥ ७
सम्स्कृतो न परिज्ञातो निरोधो विभवे सति ।
प्रत्यक्षं भूयते कस्मिन् विभवो ज्ञायते कथम् ॥ ८
यदि स्कन्धनिरोधेन भवेन्न क्लेशसम्क्षयः ।
यदा चायं निरुद्धः स्यात्तदा मोक्षो भविस्यति ॥ ९
अविद्या प्रत्ययोत्पन्नं सम्यग्ज्ञानेन पश्यतः ।
नोत्पादश्च निरोधस्च युक्तः कोऽप्युपलभ्यते ॥ १०
एवं पश्यति धर्मः यो निर्वानं वा कतं तथा ।
धर्मज्ञानं परं यत्र भेदस्तु तत्र विद्यते ॥ ११
अतिसुक्ष्मस्य भावस्य जातिर्येन विकल्पिता ।
प्रत्ययोद्भवमर्थं न पश्यति सोऽविचक्षणः ॥ १२
सम्क्लेसक्षीनभिक्षूणां सम्साराच्चेन्निवार्यते ।
कुतः सम्पन्नबुद्धैश्च तस्यारम्भो न भाषितः ॥ १३
आरम्भे सति चैकान्ते भवेदृष्टिपरिग्रः ।
यः प्रतीत्यसमुत्पादस्तस्य पुर्वं परं वा किम् ॥ १४
समुत्पन्नं कथं पुर्वं पश्चात्पुनर्निवार्यते ।
पुर्वापरान्तविहीनो मोक्षः ख्यातिर्मायोपमः ॥ १५
भवतीदं यदा माया नम्क्ष्यतीति तदैव हि ।
मायाज्ञानपराभूतो मायाज्ञानेन मोहितः ॥ १६
यथा मरीचिका माया भवं बुद्धया हि पश्यति ।
पुर्वान्तं वापरान्तं वा न दृष्टया परिक्लिश्यते ॥ १७
सम्स्कृतं ये हि मन्यन्ते भन्गोत्पादविकल्पितम् ।
प्रतीत्योत्पादचक्रेण विजानन्ति न ते जगत् ॥ १८
तदाश्रित्य यदुत्पन्नं नोत्पन्नं स्वयमेवहि ।
स्वयं यदा यदुत्पन्नमुत्पन्नं नाम तत्कथम् ॥ १९
शान्तं हेतुक्षयादेव क्षीणं नामावबुध्यते ।
स्वभावेन हि यत्क्षीणं तत्क्षीणमुच्यते कथम् ॥ २०
न कश्चिदनुत्पन्नं निरोधोऽपि न वै तथा ।
उत्पादभन्गकर्मणाभिप्रायार्थः प्रदर्शितः ॥ २१
उत्पादज्ञानतो भङ्गो भङ्गज्ञानादनित्यता ।
अनित्यत्वावबोधाच्च सद्धर्मो हि विबोधितः ॥ २२
यः प्रतीत्यसमुत्पाद उत्पादभङ्गवर्जितम् ।
परिजानाति तेनैवनुत्तीर्यत भवाबुधिः ॥ २३
सदसद्भिर्विपर्यस्ता आत्मभावाः पृथग्जनाः ।
क्लेशवम्शगताः सत्त्वा आत्मचिन्त्तेन वञ्चिताः ॥ २४
विवुधैर्भाव्यते भावेह्शुन्योऽनित्योऽनात्मकः ।
मोषधर्मचयश्चैव विविक्त इति दृश्यते ॥ २५
अमूलत्वात्स्थितिर्नैव निरालम्बो निराश्रयः ।
अविद्याहेतुसम्भूत आदिमध्यान्तवर्जितः ॥ २६
कदलीवसारं यद्गन्धर्वनगरं यथा ।
मोहपुर्यामिविवन्नौ यो मायावत्पश्यति जगत् । २७
अत्र ब्रह्मादिलोको वै सत्य इवावभासने ।
सत्यन्मृषेत्युक्तमार्येन तत्र का शिष्यते परा ॥ २८
लोकोऽविद्यान्धभूतोऽसौ तृष्नास्त्रोतसा चालितः ।
तृष्नारहितविज्ञस्य पुण्यदृष्टि समा कुतः ॥ २९
आदौ तत्त्वमिदं दृष्टं सर्वम्स्तीति कथ्यते ।
जानन्नर्थान्नसक्तोऽपि पश्चान्नुनं विविच्यते ॥ ३०
न जानाति विविक्तार्थ श्रुतिमात्रं प्रवर्तते ।
येषां पुण्यमविच्छिन्नमुत्सन्ना इतरे जनाः ॥ ३१
कर्मानि फलयुक्तानि प्रोक्तं सम्यगिदं जगत् ।
तत्स्वभावपरिज्ञानमनुत्पन्नं हि देसितम् ॥ ३२
अहं ममेति कथितं यथाकर्यवशाज्जनैः ।
तथा कार्यवशात्प्रोक्ताः स्कन्धायतनधातवः ॥ ३३
महाभूतादय ख्याता विज्ञाने निचयस्तथा ।
तज्ज्ञानेन वियुक्त्तेन मृषैव न विकल्पितम् ॥ ३४
निर्वानं सत्यमेकं हि जिनैर्यदभिधीयते ।
नाव शिष्टं तदा सत्यमेवं विज्ञेन कल्पितम् ॥ ३५
यावचित्तस्य विक्षेपस्तावन्मारस्य गोचरः ।
एवम्भूतो भवेद्यत्र ना दोषो जायते कथम् ॥ ३६
अविद्याप्रत्ययो लोको यस्माद्बुद्धैः प्रकीर्तितः ।
विकल्पस्तेन लोकोऽयमिति किं नोपपद्यते ॥ ३७
अविद्यायां निरुद्धायां निरोधो जायते यथा ।
अज्ञानतो हि सम्कल्प इति किं न विधीयते ॥ ३८
हेतुतः सम्भवो यस्य स्थिति र्न प्रत्ययैर्विना ।
विगमः प्रत्ययाभावात्सोऽस्तीत्यवगतः कुतः ॥ ३९
परमं भावामश्रित्य स्थितिश्चेद्भाववादिनः ।
तदैव हि स्थिता मार्गे न कश्चिदितस्मयस्ततः ॥ ४०
बुद्धमार्गे श्रिताः सर्वेऽनित्यमिति वादिनः ।
केन वादेन गृह्यन्ते भावाः सन्ति परा इति ॥ ४१
एष वासाविति यत्र विमर्शो नोपलभ्यते ।
इदं सत्यमदो वेति पण्डितैः कथमुच्यतै ॥ ४२
नानुपादाय तैश्चापि लोको वात्माभिकाङ्क्षते ।
नित्यानित्यादेरूत्पादह्मिथ्यादृष्ट्या तु हारितः ॥ ४३
येषां भावास्मुपादाय तत्त्वा स्तेषां प्रसादिताः ।
तत्र लिङ्गादयो दोषाः प्रजायन्ते न वा कथम् ॥ ४४
यान् हि धर्मानुपादाय दृष्टश्चन्द्रो जले यथा ।
तत्र सत्यं मृषा नैव कामं दृष्ट्या न हारितः ॥ ४५
रागद्वेषोद्भवस्तीव्र-दुष्टदृष्टिपरिग्रः ।
विवादास्तत्समुत्थाश्च भावाभ्युपगमे सति ॥ ४६
स हेतुः सर्वदृष्टीनां क्लेशोत्पत्ति र्न तं विना ।
तस्मात्त्स्मिन् परिज्ञाते दृष्टिक्लेशपरिक्षयः ॥ ४७
परिज्ञाञ्च केनेति प्रतीत्योत्पाददर्शनात् ।
प्रतीत्य जातञ्चऽजातमाह तत्त्वविदां वरः ॥ ४८
मिथ्याज्ञाने परिभूय योऽसत्ये सत्यधारकः ।
परिग्रहो वितर्कादेः क्रमाद्रागक्रिया मता ॥ ४९
महात्मनां न पक्षो वा वितर्को वा न विद्यते ।
येषां न विद्यते पक्षेः परपक्षः कुतस्तेषाम् ॥ ५०
यस्मिन्नेव समाश्रितो दष्टः क्लेशविषधरैह् ।
चलं वानिष्ठितं चित्तं न तिष्ठत्यनाश्रितम् ॥ ५१
साश्रय चित्तवान सत्त्वेः क्लेशोद्भूतो विषो महान् ।
सदा पृथगजनो हीनः क्लेशसर्पेन गृहीतः ॥ ५२
प्रतिविम्बे यथा रागो लोके च मोहवन्धनात् ।
विषयपिन्जरो सक्तो बालो हि सत्यसम्ज्ञया ॥ ५३
चक्षुर्भ्यां विषयान्नाम विम्बज्ञानेन पश्यति ।
कर्मपङ्केष्वनासक्तो भावो यथा महात्मनः ॥ ५४
रूपासक्ता जना मुढा मध्यमा रागवर्जिताः ।
रूपस्वभावविज्ञो यो विमुक्तो बुद्धिमान् परः ॥ ५५
विवृत्य सुखचिन्तायाः वीतरागविवर्जितः ।
मायापुम्वद्विपश्यनान्निवृतः स भविष्यति ॥ ५६
मिथ्याज्ञानभितप्तो यः क्लेशसम्दोषभाग्भावेत् ।
भावाभावौ विकल्पनादर्थज्ञानं न जायते ॥ ५७
नाश्रय्ः वीतरागा वै भवन्ति रागवर्जिताः ।
अरागे रागवर्धास्ते न साश्रया महात्मनः ॥ ५८
येषां विविक्तचेतसां चलं चित्तं चञ्चलम् ।
क्लेशसर्पेर्मथितोऽपि तीणोऽखिन्नो भवाम्बुद्धेः ॥ ५९
शास्त्रेणानेन जनानां पुन्यं ज्ञानं च सन्चितम् ।
पुन्यज्ञानक्रियोद्भूतं द्वावाप्तोतु परं तथा ॥ ६०

इति युक्तिषष्टिकारिका समाप्ता ।

आर्यनागार्जुनमुखनिः सतम्, शास्त्रमिदं

भारतीयपण्डित मुदितश्रिपण्डिताच्छुर्तम्
च भोटवासिना पात्छव प्रान्तीय सुर्यकीर्तिर्नाम
भोटपण्डितेन लिखितं भोटभाषायमिति ॥
शुभमस्तु ।

"https://sa.wikisource.org/w/index.php?title=युक्तिषष्टिकारिका&oldid=396795" इत्यस्माद् प्रतिप्राप्तम्