योगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणस्य उत्तरार्धम्)/सर्गः १५६


षट्पञ्चाशदधिकशततमः सर्गः १५६
व्याध उवाच ।
अनन्तरं हे भगवन्वितताकाशवासिनः ।
किंभविष्यति मे तत्र देहेऽधःपातिनि क्षितौ ।। १
मुनिरुवाच ।
शूणुष्वावहितस्तस्मिन्देहे तव परिक्षते ।
किं भविष्यति भव्यात्मस्तस्मिन्परमकाम्बरे ।। २
देहे तस्मिन्परिभ्रष्टे जीवस्तु प्राणसंयुतः ।
भविष्यत्यम्बरे वातलवो व्याततरूपिणि ।। ३
तस्मिन्वातलवे चेतो दृश्यं हृत्स्थं स्थितं पुरः ।
स्फारं द्रक्ष्यति भूपीठं भवान्स्वप्ने जगद्यथा ।। ४
महत्त्वाच्चित्तवृत्तेस्तु जीवो द्रक्ष्यति ते ततः ।
राजाहमस्मि भूपीठ इति संकल्पितार्थभाक् ।। ५
तत्रास्य सहसैवाशु प्रतिभोदेष्यति स्वयम् ।
अहमस्मि नृपः श्रीमान्सिन्धुर्नाम्नातिमानितः ।। ६
अष्टवर्षाय मे राज्यं गते पितरि काननम् ।
भुवश्चतुःसमुद्रायाः पित्रा दत्तमुपागतम् ।। ७
सीमान्ते भूपतिः शत्रुर्विदूरथ इति श्रुतः ।
विद्यते यः प्रयत्नेन विना नाम न जीयते ।। ८
इदं मे कुर्वतो राज्यं संवत्सरशतं गतम् ।
अहो भृत्यकलत्रौघैः सह भुक्तं मया सुखम् ।। ९
कष्टमेष प्रवृद्धो मे सीमान्तवसुधाधिपः ।
अनेन सह संग्रामो दारुणः समुपस्थितः ।। 6.2.156.१०
इति चिन्तयतस्तत्र विदूरथमहीभुजा ।
भविष्यति महद्युद्धं चतुरङ्गबलक्षयि ।। ११
महता तेन युद्धेन हनिष्यसि विदूरथम् ।
करवाललतालूनजङ्घं त्वं विरथोऽपि सन् ।। १२
चतुःसागरपर्यन्ते भूतले भूपतिस्ततः ।
भविष्यसि भयाक्रान्तदिक्पालादृतशासनः ।। १३
स त्वं सिन्धुर्भवन्प्राप्तसकलावनिमण्डलः ।
पण्डितैर्मन्त्रिभिः सार्धं करिष्यसि कथा इमाः ।। १४
मन्त्री वदिष्यति ।
अत्याश्चर्यमिदं देव यदेवं स विदूरथः ।
देवेन विजितो युद्धे नीतश्च यमसादनम् ।। १५
त्वं वक्ष्यसि ।
भोः साधो सधनस्यास्य कल्पान्तार्णवरंहसः ।
वैरी विदूरथो राजा किमर्थं वद दुःसहः ।। १६
मन्त्री वदिष्यति ।
लीला नामास्य भार्यास्ति तयातितपसार्जिता ।
माता सरस्वतीदेवी जगद्धात्री निरञ्जना ।। १७
गृहीतायाः सुतात्वेन सास्या भुवनभाविनी ।
संसाधयति कार्याणि मोक्षादीन्यपि हेलया ।। १८
वरेण शब्दमात्रेण जगदप्यजगत्क्षणात् ।
करोति सा भवन्नाशे तस्याः कैव कदर्थना ।। १९
सिन्धुर्वदिष्यति ।
त्वया वै युक्तं कथितं यद्येवं तद्विदूरथः ।
अशक्यो जेतुमाश्चर्य एतस्य समरे वधः ।।6.2.156.२०
तदेवं संप्रसादेन भगवत्या समन्वितः ।
किमित्यस्मिन्रणे तस्मिञ्जयं राजा न लब्धवान् ।।२१
मन्त्री वदिष्यति ।
तेन संप्रार्थिता देवी सर्वकालमखेदिना ।
मोक्षोऽस्तु मम संसारादिति तामरसेक्षण ।। २२
तया तेन विभो तस्य स एवावन्ध्यसंविदा ।
संपादितस्तेन तदाश्रित आजौ पराजयः ।। २३
सिन्धुर्वदिष्यति ।
यद्येवं तन्मया देवी सदैवैषा प्रपूज्यते ।
मोक्षं किमिति मे नैषा ददाति परमेश्वरी ।। २४
मन्त्री वदिष्यति ।
एषा हि ज्ञप्तिरास्तेऽन्तः सर्वस्य हृदये सदा ।
संविद्रूपा भगवती सैव प्रोक्ता सरस्वती ।। २५
येन येन यथात्मीया प्रार्थ्यते स्वयमेव सा ।
प्रयच्छति तथैवाशु तस्माच्चिदनुभूयते ।। २६
न प्रार्थितैषा भवता मोक्षार्थमरिमर्दन ।
प्रार्थितैव त्वया संविदात्मीया शत्रुशान्तये ।। २७
सिन्धुर्वदिष्यति ।
न प्रार्थिता मया कस्मादनेनैषा सरस्वती ।
संविच्छुद्धा मया कस्मात्प्रार्थिता नेह मुक्तये ।। २८
मदाशयगताप्येषा ज्ञप्तिं दत्त्वा सरस्वती ।
मन्मोक्षाय किमित्यङ्ग सद्रूपापि न चेष्टते ।। २९
मन्त्री वदिष्यति ।
अशुभः प्राक्तनोऽभ्यासस्तवास्ति रिपुघातिनः ।
तेनैषा मुक्तये नत्वा त्वया न प्रार्थिता विभो ।। 6.2.156.३०
यच्चित्तस्तन्मयो जन्तुर्भवतीत्याजगत्स्थितेः ।
आबालमेव संसिद्धं कर्तुं शक्नोति कोऽन्यथा ।। ३१
यदेव येनामलयामलात्म
संवेद्यतेऽभ्यासमयं विदान्तः ।
सर्वोपमर्देन तदेव सोऽङ्ग
सदस्त्वसद्वास्तु भवत्यविघ्नम् ।। ३२

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० अ० श० सिन्धुसंबोधनं नाम षट्पञ्चाशदधिकशततमः सर्गः ।। १५६ ।।