योगवासिष्ठः/प्रकरणम् १ (वैराग्यप्रकरणम्)/सर्गः १८


अष्टादशः सर्गः १८

श्रीराम उवाच ।
आर्द्रान्त्रतन्त्रीगहनो विकारी परिपातवान् ।
देहः स्फुरति संसारे सोऽपि दुःखाय केवलम् ।। १
अज्ञोऽपि तज्ज्ञसदृशो वलितात्मचमत्कृतिः ।
युक्त्या भव्योऽप्यभव्योऽपि न जडो नापि चेतनः ।।२
जडाजडदृशोर्मध्ये दोलायितदुराशयः ।
अविवेकी विमूढात्मा मोहमेव प्रयच्छति ।। ३
स्तोकेनानन्दमायाति स्तोकेनायाति खेदिताम् ।
नास्ति देहसमः शोच्यो नीचो गुणबहिष्कृतः ।। ४
आगमापायिना नित्यं दन्तकेसरशालिना ।
विकासस्मितपुष्पेण प्रतिक्षणमलंकृतः ।। ५
भुजशाखो घनस्कन्धो द्विजस्तम्भशुभस्थितिः ।
लोचनालिविलाक्रान्तः शिरःपीठबृहत्फलः ।। ६
श्रवदन्तरसग्रस्तो हस्तपादसुपल्लवः ।
गुल्मवान्कार्यसंघातो विहङ्गमकृतास्पदः ।। ७
सच्छायो देहवृक्षोऽयं जीवपान्थगणास्पदः ।
कस्यात्मीयः कस्य पर आस्थानास्थे किलात्र के ।। ८
तात संतरणार्थेन गृहीतायां पुनःपुनः ।
नावि देहलतायां च कस्य स्यादात्मभावना ।। ९
देहनाम्नि वने शून्ये बहुगर्तसमाकुले ।
तनूरुहासंख्यतरौ विश्वासं कोऽधिगच्छति ।। 1.18.१०
मांसस्नाय्वस्थिवलिते शरीरपटहेऽदृढे ।
मार्जारवदहं तात तिष्ठाम्यत्र गतध्वनौ ।। ११
संसारारण्यसंरूढो विलसच्चित्तमर्कटः ।
चिन्तामञ्जरिताकारो दीर्घदुःखघुणक्षतः ।। १२
तृष्णाभुजङ्गमीगेहं कोप काक कृतालयः ।
स्मितपुण्योद्गमः श्रीमाञ्छुभाशुभमहाफलः ।। १३
सुस्कन्धोघलताजालो हस्तस्तबकसुन्दरः ।
पवनस्पन्दिताशेषस्वाङ्गावयवपल्लवः ।। १४
सर्वेन्द्रियखगाधारः सुजानुस्तम्भ उन्नतः ।
सरसच्छायया युक्तः कामपान्थनिषेवितः ।। १५
मूर्धसंजनिताऽऽदीर्घशिरोरुहतृणावलिः ।
अहंकारगृध्रकृतकुलायः सुषिरोदरः ।। १६
विच्छिन्नवासनाजालमूलत्वाद्दुर्लवाकृतिः ।
व्यायामविरसः कायप्लक्षोऽयं न सुखाय मे ।। १७
कलेवरमहंकारगृहस्थस्य महागृहम् ।
लुठत्वभ्येतु वा स्थैर्यं किमनेन मुने मम ।। १८
पङ्क्तिबद्धेन्द्रियपशुं वलत्तृष्णागृहाङ्गनम् ।
रागरञ्जितसर्वाङ्गं नेष्टं देहगृहं मम ।। १९
पृष्ठास्थिकाष्ठसंघट्टपरिसंकटकोटरम् ।
आन्त्ररज्जुभिराबद्धं नेष्टं देहगृहं मम ।। 1.18.२०
प्रसृतस्नायुतन्त्रीकं रक्ताम्बुकृतकर्दमम् ।
जरामङ्कोलधवलं नेष्टं देहगृहं मम ।। २१
चित्तभृत्यकृतानन्तचेष्टावष्टब्धसंस्थिति ।
मिथ्यामोहमहास्थूणं नेष्टं देहगृहं मम ।। २२
दुःखार्भककृताक्रन्दं सुखशय्यामनोरमम् ।
दुरीहादग्धदासीकं नेष्टं देहगृहं मम ।। २३
मलाढ्यविषयव्यूहभाण्डोपस्करसंकटम् ।
अज्ञानक्षारवलितं नेष्टं देहगृहं मम ।। २४
गुल्फगुग्गुलुविश्रान्तजानूर्ध्वस्तम्भमस्तकम् ।
दीर्घदोर्दारुसुदृढं नेष्टं देहगृहं मम ।। २५
प्रकटाक्षगवाक्षान्तः क्रीडत्प्रज्ञागृहाङ्गनम् ।
चिन्तादुहितृकं ब्रह्मन्नेष्टं देहगृहं मम ।। २६
मूर्धजाच्छादनच्छन्नकर्णश्रीचन्द्रशालिकम् ।
आदीर्घाङ्गुलिनिर्व्यूहं नेष्टं देहगृहं मम ।। २७
सर्वाङ्गकुड्यसंघातघनरोमयवाङ्कुरम् ।
संशून्यपेटविवरं नेष्टं देहगृहं मम ।। २८
नखोर्णनाभिनिलयं सरमारणितान्तरम् ।
भाङ्कारकारिपवनं नेष्टं देहगृहं मम ।। २९
प्रवेशनिर्गमव्यग्रवातवेगमनारतम् ।
वितताक्षगवाक्षं तन्नेष्टं देहगृहं मम ।। 1.18.३०
जिह्वामर्कटिकाक्रान्तवदनद्वारभीषणम् ।
दृष्टदन्तास्थिशकलं नेष्टं देहगृह मम ।। ३१
त्वक्सुधालेपमसृणं यन्त्रसंचारचञ्चलम् ।
मनः सदाखुनोत्खातं नेष्टं देहगृहं मम ।। ३२ आखु
स्मितदीपप्रभोद्भासि क्षणमानन्दसुन्दरम् ।
क्षणं व्याप्तं तमःपूरैर्नेष्टं देहगृहं मम ।। ३३
समस्तरोगायतनं वलीपलितपत्तनम् ।
सर्वाधिसारगहनं नेष्टं देहगृहं मम ।। ३४
अक्षर्क्षक्षोभविषमा शून्या निःसारकोटरा ।
तमोगहनदिक्कुञ्जा नेष्टा देहाटवी मम ।। ३५
देहालयं धारयितुं न शक्नोमि मुनीश्वर ।
पङ्कमग्नं समुद्धर्तुं गजमल्पबलो यथा ।। ३६
किं श्रिया किं च राज्येन किं कायेन किमीहितैः ।
दिनैः कतिपयैरेव कालः सर्वं निकृन्तति ।। ३७
रक्तमांसमयस्यास्य सबाह्याभ्यन्तरं मुने ।
नाशैकधर्मिणो ब्रूहि कैव कायस्य रम्यता ।। ३८
मरणावसरे काया जीवं नानुसरन्ति ये ।
तेषु तात कृतघ्नेषु कैवास्था वद धीमताम् ।। ३९
मत्तेभकर्णाग्रचलः कायो लम्बाम्बुभङ्गुरः ।
न संत्यजति मां यावत्तावदेनं त्यजाम्यहम् ।। 1.18.४०
पवनस्पन्दतरलः पेलवः कायपल्लवः ।
जर्जरस्तनुवृत्तश्च नेष्टो मे कटुनीरसः ।। ४१
भुक्त्वा पीत्वा चिरं कालं बालपल्लवपेलवाम् ।
तनुतामेत्य यत्नेन विनाशमनुधावति ।। ४२
तान्येव सुखदुःखानि भावाभावमयान्यसौ ।
भूयोऽप्यनुभवन्कायः प्राकृतो हि न लज्जते ।। ४३
सुचिरं प्रभुतां कृत्वा संसेव्य विभवश्रियम् ।
नोच्छ्रायमेति न स्थैर्यं कायः किमिति पाल्यते ।। ४४
जराकाले जरामेति मृत्युकाले तथा मृतिम् ।
सम एवाविशेषज्ञः कायो भोगिदरिद्रयोः ।। ४५
संसाराम्भोधिजठरे तृष्णाकुहरकान्तरे ।
सुप्तस्तिष्ठति मुक्तेहो मूकोऽयं कायकच्छपः ।। ४६
दहनैकार्थयोग्यानि कायकाष्ठानि भूरिशः ।
संसाराब्धाविहोह्यन्ते कंचित्तेषु नरं विदुः ।। ४७
दीर्घदौरात्म्यवलया निपातफलपातया ।
न देहलतया कार्यं किंचिदस्ति विवेकिनः ।। ४८
मज्जन्कर्दमकोशेषु झटित्येव जरां गतः ।
न ज्ञायते यात्यचिरात्कः कथं देहदर्दुरः ।। ४९
निःसारसकलारम्भाः कायाश्चपलवायवः ।
रजोमार्गेण गच्छन्तो दृश्यन्ते नेह केनचित् ।। 1.18.५०
वायोर्दीपस्य मनसो गच्छतो ज्ञायते गतिः ।
आगच्छतश्च भगवञ्छरीरस्य कदाचन ।। ५१
बद्धास्था ये शरीरेषु बद्धास्था ये जगत्स्थितौ ।
तान्मोहमदिरोन्मत्तान्धिग्धिगस्तु पुनःपुनः ।। ५२
नाहं देहस्य नो देहो मम नायमहं तथा ।
इति विश्रान्तचित्ता ये ते मुने पुरुषोत्तमाः ।। ५३
मानावमानबहुला बहुलाभमनोरमाः ।
शरीरमात्रबद्धास्थं घ्नन्ति दोषदृशो नरम् ।। ५४
शरीरश्वभ्रशायिन्या पिशाच्या पेशलाङ्गया ।
अहंकारचमत्कृत्या छलेन छलिता वयम् ।। ५५
प्रज्ञा वराका सर्वैव कायबद्धास्थयानया ।
मिथ्याज्ञानकुराक्षस्या छलिता कष्टमेकिका ।। ५६
न किंचिदपि दृश्येऽस्मिन्सत्यं तेन हतात्मना ।
चित्रं दग्धशरीरेण जनता विप्रलभ्यते ।। ५७
दिनैः कतिपयैरेव निर्झराम्बुकणो यथा ।
पतत्ययमयत्नेन जरठः कायपल्लवः ।। ५८
कायोऽयमचिरापायो बुद्बुदोऽम्बुनिधाविव ।
व्यर्थं कार्यपरावर्ते परिस्फुरति निष्फलः ।। ५९
मिथ्याज्ञानविकारेऽस्मिन्स्वप्नसंभ्रमपत्तने ।
काये स्फुटतरापाये क्षणमास्था न मे द्विज ।।1.18.६०
तडित्सु शरदभ्रेषु गन्धर्वनगरेषु च ।
स्थैर्यं येन विनिर्णीतं स विश्वसितु विग्रहे ।। ६१
सततभङ्गुरकार्यपरम्परा
विजयिजातजयं हठवृत्तिषु ।
प्रबलदोषमिदं तु कलेवरं
तृणमिवाहमपोह्य सुखं स्थितः ।। ६२

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे कायजुगुप्सानामाष्टादशः सर्गः ।। १८ ।।