योगवासिष्ठः/प्रकरणम् १ (वैराग्यप्रकरणम्)/सर्गः ३३


त्रयस्त्रिंशः सर्गः ३३
सिद्धा ऊचुः ।
पावनस्यास्य वचसः प्रोक्तस्य रघुकेतुना ।
निर्णयं श्रोतुमुचितं वक्ष्यमाणं महर्षिभिः ।। १
नारदव्यासपुलहप्रमुखा मुनिपुङ्गवाः ।
आगच्छताश्वविघ्नेन सर्व एव महर्षयः ।। २
पतामः परितः पुण्यामेतां दाशरथीं सभाम् ।
नीरन्ध्रां कनकोद्योतां पद्मिनीमिव षट्पदाः ।। ३
श्रीवाल्मीकिरुवाच ।
इत्युक्ता सा समस्तैव व्योमवासनिवासिनी ।
तां पपात सभां तत्र दिव्या मुनिपरम्परा ।। ४
अग्रस्थितमनुत्सृष्टरणद्वीणं मुनीश्वरम् ।
पयः पीनघनश्यामं व्यासमेव किलान्तरा ।। ५
भृग्वंगिरःपुलस्त्यादिमुनिनायकमण्डिता ।
च्यवनोद्दालकोशीरशरलोमादिमालिता ।। ६
परस्परपरामर्शदुःसंस्थानमृगाजिना ।
लोलाक्षमालावलया सुकमण्डलुधारिणी ।। ७
तारावलिरिव व्योम्नि तेजःप्रसरपाटला ।
सूर्यावलिरिवान्योन्यं भासिताननमण्डना ।। ८
रत्नावलिरिवान्योन्यं नानावर्णकृतांगिका ।
मुक्तावलिरिवान्योन्यं कृतशोभातिशायिनी ।। ९
कौमुदीवृष्टिरन्येव द्वितीयेवार्कमण्डली ।।
संभृतेवातिकालेन पूर्णचन्द्रपरम्परा ।।१०
ताराजाल इवाम्भोदो व्यासो यत्र विराजते ।
तारौघ इव शीतांशुर्नारदोऽत्र विराजते ।। ११
देवेष्विव सुराधीशः पुलस्त्योऽत्र विराजते ।
आदित्य इव देवानामंगिरास्तु विराजते ।। १२
अथास्यां सिद्धसेनायां पतन्त्यां नभसो रसाम् ।
उत्तस्थौ मुनिसंपूर्णा तदा दाशरथी सभा ।। १३
मिश्रीभूता विरेजुस्ते नभश्चरमहीचराः ।
परस्परवृतांगाभा भासयन्तो दिशो दश ।। १४
वेणुदण्डावृतकरा लीलाकमलधारिणः ।
दूर्वांकुराक्रान्तशिखाः सचूडामणिमूर्धजाः ।। १५
जटाजूटैश्च कपिला मौलिमालितमस्तकाः ।
प्रकोष्ठगाक्षवलया मल्लिकावलयान्विताः ।। १६
चीरवल्कलसंवीताः स्रक्कौशेयावगुण्ठिताः ।
विलोलमेखलापाशाश्चलन्मुक्ताकलापिनः ।। १७
वसिष्ठविश्वामित्रौ तान्पूजयामासतुः क्रमात् ।
अर्घ्यैः पाद्यौर्वचोभिश्च सर्वानेव नभश्चरान् ।। १८
वसिष्ठविश्वामित्रौ ते पूजयामासुरादरात् ।
अर्घ्यैः पाद्यैर्वचोभिश्च नभश्चरमहागणाः ।। १९
सर्वादरेण सिद्धौघं पूजयामास भूपतिः ।
सिद्धौघो भूपतिं चैव कुशलप्रश्नवार्तया ।। २०
तैस्तैः प्रणयसंरम्भैरन्योन्यं प्राप्तसत्क्रियाः ।
उपाविशन्विष्टरेषु नभश्चरमहीचराः ।। २१
वचोभिः पुष्पवर्षेण साधुवादेन चाभितः ।
रामं ते पूजयामासुः पुरः प्रणतमास्थितम् ।। २२
आसांचक्रे च तत्रासौ राज्यलक्ष्मीविराजितः ।
विश्वामित्रो वसिष्ठश्च वामदेवोऽथ मन्त्रिणः ।। २३
नारदो देवपुत्रश्च व्यासश्च मुनिपुंगवः ।
मरीचिरथ दुर्वासा मुनिरांगिरसस्तथा ।। २४
क्रतुः पुलस्त्यः पुलहः शरलोमा मुनीश्वरः ।
वात्स्यायनो भरद्वाजो वाल्मीकिर्मुनिपुंगवः ।। २५
उद्दालक ऋचीकश्च शर्यातिश्च्यवनस्तथा ।। २६
एते चान्ये च बहवो वेदवेदांगपारगाः ।
ज्ञातज्ञेया महात्मान आस्थितास्तत्र नायकाः ।। २७
वसिष्ठविश्वामित्राभ्यां सह ते नारदादयः ।
इदमूचुरनूचाना राममानमिताननम् ।। २८
अहो बत कुमारेण कल्याणगुणशालिनी ।
वागुक्ता परमोदारा वैराग्यरसगर्भिणी ।। २९
परिनिष्ठितवक्तव्यं सबोधमुचितं स्फुटम् ।
उदारं प्रियमार्यार्हमविह्नलमपि स्फुटम् ।। ३०
अभिव्यक्तपदं स्पष्टमिष्टं स्पष्टं च तुष्टिमत् ।
करोति राघवप्रोक्तं वचः कस्य न विस्मयम् ।। ३१
शतादेकतमस्यैव सर्वोदारचमत्कृतिः ।
ईप्सितार्थार्पणैकान्तदक्षा भवति भारती ।। ३२
कुमार त्वां विना कस्य विवेकफलशालिनी ।
परं विकासमायाति प्रज्ञाशरलतातता ।। ३३
प्रज्ञादीपशिखा यस्य रामस्येव हृदि स्थिता ।
प्रज्वलत्यसमालोककारिणी स पुमान्स्मृतः ।। ३४
रक्तमांसास्थियन्त्राणि बहून्यतितराणि च ।
पदार्थानभिकर्षन्ति नास्ति तेषु सचेतनः ।। ३५
जन्ममृत्युजरादुःखमनुयान्ति पुनःपुनः ।
विमृशन्ति न संसारं पशवः परिमोहिताः ।। ३६
कथंचित्क्वचिदेवैको दृश्यते विमलाशयः ।
पूर्वापरविचारार्हो यथायमरिमर्दनः ।। ३७
अनुत्तमचमत्कारफलाः सुभगमूर्तयः ।
भव्या हि विरला लोके सहकारद्रुमा इव ।। ३८
सम्यग्दृष्टजगद्यात्रा स्वविवेकचमत्कृतिः ।
अस्मिन्मान्यमतावन्तरियमद्येव दृश्यते ।। ३९
सुभगाः सुलभारोहाः फलपल्लवशालिनः ।
जायन्ते तरवो देशे न तु चन्दनपादपाः ।। ४०
वृक्षाः प्रतिवनं सन्ति नित्यं सफलपल्लवाः ।
नत्वपूर्वचमत्कारो लवङ्गः सुलभः सदा ।। ४१
ज्योत्स्नेव शीता शशिनः सुतरोरिव मञ्जरी ।
पुष्पादामोदलेखेव दृष्टा रामाच्चमत्कृतिः ।। ४२
अस्मिन्नुद्दामदौरात्म्यदैवनिर्माणनिर्मिते ।
द्विजेन्द्रा दग्धसंसारे सारो ह्यत्यन्तदुर्लभः ।। ४३
यतन्ते सारसंप्राप्तौ ये यशोनिधयो धियः ।
धन्या धुरि सतां गण्यास्त एव पुरुषोत्तमाः ।। ४४
न रामेण समोऽस्तीह दृष्टो लोकेषु कश्चन ।
विवेकवानुदारात्मा न भावी चेति नो मतिः ।। ४५
सकललोकचमत्कृतिकारिणो-
ऽप्यभिमतं यदि राघवचेतसः ।
फलति नो तदिमे वयमेव हि
स्फुटतरं मुनयो हतबुद्धयः ।। ४६
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये वैराग्यप्रकरणे नभश्चरमहीचरसंमेलनं नाम त्रयस्त्रिंशः सर्गः ।। ३३ ।।