योगवासिष्ठः/प्रकरणम् २ (मुमुक्षुव्यवहारप्रकरणम्)/सर्गः ०३


तृतीयः सर्गः ३

श्रीवसिष्ठ उवाच ।
पूर्वमुक्तं भगवता यज्ज्ञानं पद्मजन्मना ।
सर्गादौ लोकशान्त्यर्थं तदिदं कथयाम्यहम् ।। १
श्रीराम उवाच ।
कथयिष्यसि विस्तीर्णा भगवन्मोक्षसंहिताम् ।
इमं तावत्क्षणं जातं संशयं मे निवारय ।। २
पिता शुकस्य सर्वज्ञो गुरुर्व्यासो महामतिः ।
विदेहमुक्तो न कथं कथं मुक्तः सुतोऽस्य सः ।। ३
श्रीवसिष्ठ उवाच ।
परमार्कप्रकाशान्तस्त्रिजगत्त्रसरेणवः ।
उत्पत्योत्पत्य लीना ये न संख्यामुपयान्ति ते ।। ४
वर्तमानाश्च याः सन्ति त्रैलोक्यगणकोटयः ।
शक्यन्ते ताश्च संख्यातुं नैव काश्चन केनचित् ।। ५
भविष्यन्ति पराम्भोधौ जन्तसर्गतरङ्गकाः ।तांश्च वै परिसंख्यातुं सा कथैव न विद्यते ।। ६
श्रीराम उवाच ।
या भूता या भविष्यन्त्यो जगत्सर्गपरम्पराः ।

तासां विचारणा युक्ता वर्तमानास्तु का इव ।। ७
श्रीवसिष्ठ उवाच ।
तिर्यक्पुरुषदेवादेर्यो नाम स विनश्यति ।
यस्मिन्नेव प्रदेशेऽसौ तदैवेदं प्रपश्यति ।। ८
आतिवाहिकनाम्नान्तः स्वहृद्येव जगत्त्रयम् ।
व्योम्नि चित्तशरीरेण व्योमात्मानुभवत्यजः ।। ९
एवं मृता म्रियन्ते च मरिष्यन्ति च कोटयः ।
भूतानां यां जगन्त्याशामुदितानि पृथक्पृथक् ।। १०
संकल्पनिर्माणमिव मनोराज्यविलासवत् ।
इन्द्रजालामाल इव कथार्थप्रतिभासवत् ।। ११
दुर्वातभूकम्प इव त्रस्तबालपिशाचवत् ।
मुक्तालीवामले व्योम्नि नौस्पन्दतरुयानवत् ।। १२
स्वप्नसंवित्तिषुरवत्स्मृतिजातखपुष्पवत् ।
जगत्संसरणं स्वान्तर्मृतोऽनुभवति स्वयम् ।। १३
तत्रातिपरिणामेन तदेव घनतां गतम् ।
इहलोकोऽयमित्येव जीवाकाशे विजृम्भते ।। १४
पुनस्तत्रैव जग्नेद्वामरणाद्यनुभूतिमान् ।
परं लोकं कल्पयति मृतस्तत्र तथा पुनः ।। १५
तदन्तरन्ये पुरुषास्तेवामन्तस्तथेतरे ।
संसार इति भान्तीमे कदलीदलपीठवत् ।। १६
न पृम्ब्यादिमहाभूतगणा न च जगत्क्रमाः ।
मृतानां सन्ति तत्रापि तथाप्येषां जगद्भमाः ।। १७
अविद्यैव ह्यनन्तेयं नानाप्रसरशालिनी ।
जडानां सरिदादीर्घा तरत्सर्गतरङ्गिणी ।। १८
परमार्थाम्बुधौ स्फारे राम सर्गतरङ्गकाः ।
भूयोभूयोऽनुवर्तन्ते त एवान्ये च भूरिशः ।। १९
सर्वतः सदृशाः केचित्कुलक्रममनोगुणेः ।
केचिदर्धेन सदृशाः केचिच्चातिविलक्षणाः ।। २०
इमं व्यासङ्ग तत्र द्वात्रिंशं संस्मराम्यहम् ।

यथासंभवविज्ञानदृशा संलश्यमानया ।। २१
द्वादशाल्पधियस्तत्र कुलाकारेहितैः समाः ।
दश सर्वे समाकाराः शिष्टाः कुलविलक्षणाः ।। २२
अद्यपयन्ये भविष्यन्ति व्यासवाल्मीकयस्तथा ।
भृग्वङ्गिरःपुलस्त्याश्च तथैवाप्यन्यथैव च ।। २३
नराः सुरर्षिदेवानां गणाः संभूय भूरिशः ।
उत्पद्यन्ते विलीयन्ते कदाचिच्च पृथक्पृथक् ।। २४
ब्राह्मी द्वासप्ततिस्त्रैता आसीदस्ति भविष्यति ।
स एवान्यश्च लोकाश्च त्वं चाहं चेति वेदयहम्।।२५
क्रमेणास्य मुनेरित्थं व्यासस्याद्भुतकर्मणः ।
संलक्ष्यतेऽवतारोऽयं दशमो दीर्घदर्शिनः ।। २६
अभूम व्यासवाल्मीकियुक्ता वयमनेकशः ।
अभूम वयमेवेमे बहुशश्च पृथक्पृथक् ।। २७
अभूम् वयमेवेमे सदृशा इतरे विदः ।
अभूम वयमेवेमे नानाकारा समाशयाऽ ।। २८
भाव्यमद्याप्यनेनेह ननु वाराष्टकं पुनः ।
भूयोऽपि भारतं नाम सेतिहासं करिष्यति ।। २९
कृत्वा वेदविभागं च नीत्वानेन कुलप्रथाम् ।
ब्रह्मत्वं च तथा कृत्वा भाव्यं वैदेहमोक्षणम् ।। ३०
वीतशोकभयः शान्तनिर्वाणो गतकल्पनः ।
जीवन्मुक्तो जितमना व्यासोऽयमिति वर्णितः ।। ३१
वित्तक्तधुवयःकर्मविद्याविज्ञानचेष्टितैः ।
समानि सन्ति भूतानि कदाचिन्नतु तानि तु ।। ३२
क्वचित्सर्गशतैस्तानि भवन्ति न भवन्ति वा ।
कदाचिदपि मायेयमित्थमन्तविवर्जिता ।। ३३
यच्छतीयं विपर्यासं भूरिभूतपरम्परा ।

बीजराशिरिवाजस्रं पूर्यमाणः पुनःपुनः ।। ३४
तेनैव संनिवेशेन तथान्येन पुनःपुनः ।
सर्गाकाराः प्रवर्तन्ते तरङ्गाः कालवारिधेः ।। ३५
आश्वस्तान्तःकरणः
शान्तविकल्पः स्वरूपसारमयः ।
परमशमामृततृप्त-
स्तिष्ठति विद्वान्निरावरणः ।। ३६
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे भूयोभूयःसर्गानुवर्णनं नाम तृतीयः सर्गः ।। ३ ।।