योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ००३


तृतीयः सर्गः ३
श्रीराम उवाच ।
एवमेव मनः शुद्धं पृथ्व्यादिरहितं त्वया ।
मनो ब्रह्मेति कथितं सत्यं पृथ्व्यादिवर्जितम् ।। १
तदत्र प्राक्तनी ब्रह्मन्स्मृतिः कस्मान्न कारणम् ।
यथा मम तवान्यस्य भूतानां चेति मे वद ।। २
श्रीवसिष्ठ उवाच ।
पूर्वदेहोऽस्ति यस्याद्य पूर्वकर्मसमन्वितः ।
तस्य स्मृतिः संभवति कारणं संसृतिस्थितेः ।। ३
ब्रह्मणः प्राक्तनं कर्म यदा किंचिन्न विद्यते ।
प्राक्तनी संस्मृतिस्तस्य तदोदेति कुतः कथम् ।। ४
तस्मादकारण भाति वा स्वचित्तैककारणम् ।
स्वकारणादनन्यात्मा स्वयंभूः स्वयमात्मवान् ।। ५
आतिवाहिक एवासौ देहोऽस्त्यस्य स्वयंभुवः ।
न त्वाधिभौतिको राम देहोऽजस्योपपद्यते ।। ६
श्रीराम उवाच ।
आतिवाहिक एकोऽस्ति देहोऽन्यस्त्वाधिभौतिकः ।
सर्वासां भूतजातीनां ब्रह्मणोऽस्त्येक एव किम् ।। ७
श्रीवसिष्ठ उवाच ।
सर्वेषामेव देहौ द्वौ भूतानां कारणात्मनाम् ।
अजस्य कारणाभावादेक एवातिवाहिकः ।। ८
सर्वासां भूतजातीनामेकोऽजः कारणं परम् ।
अजस्य कारणं नास्ति तेनासावेकदेहवान् ।। ९
नास्त्येव भौतिको देहः प्रथमस्य प्रजापतेः ।
आकाशात्मा च भात्येष आतिवाहिकदेहवान् ।। १०
चित्तमात्रशरीरोऽसौ न पृथ्व्यादिक्रमात्मकः ।
आद्यः प्रजापतिर्व्योमवपुः प्रतनुते प्रजाः ।। ३३
ताश्च चिद्व्योमरूपिण्यो विनान्यैः कारणान्तरैः ।
यद्यतस्तत्तदेवति सर्वैरेवानुभूयते ।। १२
निर्वाणमात्रं पुरुषः परो बोधः स एव च ।
चित्तमात्रं तदेवास्ते नायाति वसुधादिताम्।। १३
सर्वेषां भूतजातानां संसारव्यवहारिणाम् ।
प्रथमोऽसौ प्रतिस्पन्दश्चित्तदेहः स्वतोदयः ।। १४
अस्मात्पूर्वात्प्रतिस्पन्दादनन्यैतत्स्वरूपिणी ।
इयं प्रविसृता सृष्टिः स्पन्दसृष्टिरिवानिलात् ।। १५
प्रतिभानाकृतेरस्मात्प्रतिभामात्ररूपधृक् ।
विभात्येवमयं सर्गः सत्यानुभववान्स्थितः ।। १६
दृष्टान्तोऽत्र भवत्स्वप्नपुरस्त्रीसुरतं यथा ।
असदप्यर्थसंपत्त्या सत्यानुभवभासुरम् ।। १७
अपृथ्व्यादिमयो भाति व्योमाकृतिरदेहकः ।
सदेह इव भूतेशः स्वात्मभूः पुरुषाकृतिः ।। १८
संवित्संकल्परूपत्वान्नोदेति समुदेति च ।
स्वायत्तत्वात्स्वभावस्य नोदेति न च शाम्यति ।। १९
ब्रह्मा संकल्पपुरुषः पृथ्व्यादिरहिताकृतिः ।
केवलं चित्तमात्रात्मा कारणं त्रिजगत्स्थितेः ।। २०
संकल्प एष कचति यथा नाम स्वयंभुवः ।
व्योमात्मैष तथा भाति भवत्संकल्पशैलवत् ।। २१
आतिवाहिकमेवान्तर्विस्मृत्या दृढरूपया ।
आधिभौतिकबोधेन मुधा भाति पिशाचवत् ।। २२
इदं प्रथमतोद्योगसंप्रबुद्धं महाचितेः ।
नोदेति शुद्धसंवित्त्वादातिवाहिकविस्मृतिः ।। २३
आधिभौतिकजातेन नास्योदेति पिशाचिका ।
असत्या मृगतृष्णेव मिथ्या जाड्यभ्रमप्रदा ।। २४
मनोमात्रं यदा ब्रह्मा न पृथ्व्यादिमयात्मकः ।
मनोमात्रमतो विश्वं यद्यज्जातं तदेव हि ।। २५
अजस्य सहकारीणि कारणानि न सन्ति यत् ।
तज्जस्यापि न सन्त्येव तानि तस्मात्तु कानिचित् ।।२६
कारणात्कार्यवैचित्र्यं तेन नात्रास्ति किंचन ।
यादृशं कारणं शुद्धं कार्य तादृगिति स्थितम् ।। २७
कार्यकारणता ह्यत्र न किंचिदुपपद्यते ।
यादृगेव परं ब्रह्म तादृगेव जगत्त्रयम् ।। २८
मनस्तामिव यातेन ब्रह्मणा तन्यते जगत् ।
अनन्यादात्मनः शुद्धाद्द्रवत्वमिव वारिणः ।। २९
मनसा तन्यते सर्वमसदेवेदमाततम् ।
यथा संकल्पनगरं यथा गन्धर्वपत्तनम् ।। ३०
आधिभौतिकता नास्ति रज्ज्वामिव भुजङ्गता ।
ब्रह्मादयः प्रबुद्धास्तु कथं तिष्ठन्ति तत्र ते ।। ३१
आतिवाहिक एवास्ति न प्रबुद्धमतेः किल ।
आधिभौतिकदेहस्य वाचो वात्र कुतः कथम् ।। ३२
मनोनाम्नो मनुष्यस्य विरिञ्च्याकारधारिणः ।
मनोराज्यं जगदिति सत्यरूपमिव स्थितम् ।। ३३
मन एव विरिञ्चित्वं तद्धि संकल्पनात्मकम् ।
स्ववपुः स्फारतां नीत्वा मनसेदं वितन्यते ।। ३४
विरिञ्चो मनसो रूपं विरिञ्चस्य मनो वपुः ।
पृथ्व्यादि विद्यते नात्र तेन पृथ्व्यादि कल्पितम् ।।३५
पद्माक्षे पद्मिनीवान्तर्मनो दृद्यस्ति दृश्यता ।
मनोदृश्यदृशौ भिन्ने न कदाचन केनचित् ।। ३६
यथा चात्र तव स्वप्नः संकल्पश्चित्तराज्यधीः ।
स्वानुभूत्यैव दृष्टान्तस्तस्माद्धृद्यस्ति दृश्यभूः ।। ३७
तस्माच्चित्तविकल्पस्थपिशाचो बालकं यथा ।
विनिहन्त्येवमेषान्तर्द्रष्टारं दृश्यरूपिका ।। ३८
यथाङ्कुरोऽन्तर्बीजस्य संस्थितो देशकालतः ।
करोति भासुरं देहं तनोत्येवं हि दृश्यधीः ।। ३९
सच्चेन्न शाम्यति कदाचन दृश्यदुःखं
दृश्ये त्वशाम्यति न बोद्धरि केवलत्वम् ।
दृश्ये त्वसंभवति बोद्धरि बोद्धृभावः
शाम्येत्स्थितोऽपि हि तदस्य विमोक्षमाहुः ।।४०
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे बन्धहेतुवर्णनं नाम तृतीयः सर्गः ।। ३ ।