योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०१३


त्रयोदशः सर्गः १३
श्रीवसिष्ठ उवाच ।
परमे ब्रह्मणि स्फारे समे राम समस्थिते ।
अनुत्पन्ननभस्तेजस्तमःसत्ता चिदात्मनि ।। १
पूर्वं चेत्यत्वकलनं सतश्चेत्यांशचेतनात् ।
उदेति चित्तकलनं चितिशक्तित्वचेतनात् ।। २
ततो जीवत्वकलनं चेत्यसंयोगचेतनात् ।
ततोऽस्य मायाकलनं चेत्यैकपरतावशात् ।। ३
ततो बुद्धित्वकलनमहन्तापरिणामतः ।
एतदेव मनस्तादिशब्दतन्मात्रकादिमत् ।। ४
उच्छूनादन्यतन्मात्रभावनाद्भूतरूपिणः ।
अयमित्थं महागुल्मो जगदादिर्विलोक्यते ।। ५
झटित्येवं क्रमेणेति स्वप्ने पुरमिवाकृतम् ।
महाकाशमहाटव्यामुद्भूयोद्भूय नश्यति ।। ६
जगत्करञ्जकुञ्जानां बीजमेतदवापजम् ।
नापेक्षते किंचिदपि क्षितिवार्यनलादिकम् ।। ७
एतच्चिदात्मकं पश्चात्किलोर्व्यादि करिष्यति ।
स्वं स्वप्नवित्पुरमिव चिन्मात्रात्मकमेव यत् ।। ८

जगदाद्यङ्कुरं यत्र तत्रस्थमपि मुञ्चति ।
जगतः पञ्चकं बीजं पञ्चकस्य चिदव्यया ।। ९
यद्बीजं तत्फलं विद्धि तस्माद्ब्रह्ममयं जगत् ।
एवमेष महाकाशे सर्गादौ पञ्चको गणः ।। १०
चिच्छक्त्या स्वाङ्गभूतात्मा कल्पितोस्ति न वास्तवः ।
अनेनोच्छूनतामेत्य यदपीदं वितन्यते ।। ११
तदप्याकाशरूपात्मकल्पनात्मनि सन्मयम् ।
क्वचिन्न नाम तत्सिद्धं यदसिद्धेन साध्यते ।। १२
 स्वरूपं यद्विकल्पात्म कथं तत्सत्यतामियात् ।
अथ चेत्पञ्चकं ब्रह्म ब्रह्मात्मकतया धिया ।। १३
 तत्पञ्चकं विद्धि प्रौढो ब्रह्मैव त्रिजगत्क्रमः ।
यथा स्फुरति सर्गादावेष पञ्चकसंभवः ।। १४
तथैवाद्येह भूतत्वे याति कारणतां स्वयम् ।
 एवं न जायते किंचिज्जगज्जातं न लक्ष्यते ।। १५
 स्वप्नसंकल्पपुरवदसत्सदनुभूयते ।
 ब्रह्माकाशपराकाशे जीवाकाशत्वमात्मनि ।। १६
 इति चित्यवदातात्मा पृथ्व्यादीनामसंभवात् ।
 इत्येष जीवः कथितो व्योम्नि स्वात्मा इवोदितः ।। १७
जीवाकाशस्त्विमं देहं यथा विन्दति तच्छ्रुणु ।
जीवाकाशः स्वमेवासौ तस्मिंस्तु परमेश्वरे ।। १८
अणुतेजःकणोऽस्मीति स्वयं चेतति चिन्तया ।
यत्तदेवोच्छूनमिव भावयत्यात्मनाम्बरे ।। १९
असदेव सदाकारं संकल्पेन्दुर्यथा न सन् ।
तमेव भावयन् द्रष्ट्रदृश्यरूपतया स्थितः ।। २०
एक एव द्वितामेति स्वप्ने स्वमृतिबोधवत् ।
किंचित्स्थौल्यमिवादत्ते ततस्तारकतां विदन् ।। २१
यथाभावितमात्रार्थभाविताद्विश्वरूपतः ।
स एव स्वात्मा सततोप्ययं सोहमिति स्वयम् ।। २२
चित्तात्प्रत्ययमाधत्ते स्वप्ने स्वामिव पान्थताम् ।
तारकाकारमाकारं भाविदेहाभिधं तथा ।। २३
भावयत्येति तद्भावं चित्तं चेत्यार्थतामिव ।
परित्यज्यैव तद्बाह्यं ततस्तारककोटरे ।। २४
अन्तर्भाति बहिष्ठोऽपि पर्वतो मुकुरे यथा ।
कूपसंस्थो यथा देहः समुद्गकगतं वचः ।। २५
स्वप्नसंकल्पयोः संविद्वेत्त्येतज्जीवकोऽणुके ।
स्वरूपतारकान्तस्थो जीवोऽयं चेतति स्वयम् ।। २६
तदेतद्बुद्धिचित्तादिज्ञानसत्तादिरूपकम्।
जीवाकाशः स्वतस्तत्र तारकाकाशकोशगम् ।। २७
प्रेक्षेऽहमिति भावेन द्रष्टुं प्रसरतीव खे ।
ततो रन्ध्रद्वयेनैव भाविबाह्याभिधं पुनः ।। २८
येन पश्यति तन्नेत्रयुगं नाम्ना भविष्यति ।
येन स्पृशति सा वै त्वग्यच्छृणोति श्रुतिस्तु सा ।। २९
येन जिघ्रति तद्घ्राणं स स्वमात्मनि पश्यति ।
तत्तस्य स्वदनं पश्चाद्रसना चोल्लसिष्यति ।। ३०
स्पन्दते यत्स तद्वायुश्चेष्टा कर्मेन्द्रियव्रजम् ।
रूपालोकमनस्कारजातमित्यपि भावयत् ।। ३१
आतिवाहिकदेहात्मा तिष्ठत्यम्बरमम्बरे ।
एवमुच्छूनतां तस्मिन्भावयंस्तेजसः कणे ।। ३२
असत्यां सत्यसंकाशां ब्रह्मास्ते जीवशब्दवत् ।
इत्थं स जीवशब्दार्थः कलनाकुलतां गतः ।। ३३
आतिवाहिकदेहात्मा चित्तदेहाम्बराकृतिः ।
स्वकल्पनान्त आकारमण्डं संस्थं प्रपश्यति ।। ३४
कश्चिज्जलगतं वेत्ति कश्चित्सम्राट्स्वरूपिणम् ।
भाविब्रह्माण्डकलनां पश्यत्यनुभवत्यपि ।। ३५
आत्मगर्भगृहं चित्ताद्यथासंकल्पमात्मनः ।
देशकालक्रियाद्रव्यकल्पनावेदनं स तत् ।। ३६
भावयञ्छब्दनिर्माता शब्दैर्बध्नाति कल्पितैः ।
आतिवाहिकदेहोऽसावित्यसत्यजगद्भ्रमे ।। ३७
असत्य एव कचति स्वप्ने खोड्डयनं यथा ।
इत्यनुत्पन्न एवासौ स्वयंभूः स्वयमुत्थितः ।। ३८
आतिवाहिकदेहात्मा प्रभुराद्यः प्रजापतिः ।
एतस्मिन्नपि संपन्ने ब्रह्माण्डाकारिणि भ्रमे ।। ३९
न किंचिदपि संपन्नं न च जातं न दृश्यते ।
तद्ब्रह्माकाशमाकाशमेव स्थितमनन्तकम् ।। ४०
संकल्पनगराकारमेतत्सदपि नैव सत् ।
अनिर्मितमरागं च एतद्वै चित्रमुत्थितम् ।। ४१
अकृतं चानुभूतं च न सत्यं सत्यवत्स्थितम् ।
महाकल्पे विमुक्तत्वाद्ब्रह्मादीनामसंशयम् ।। ४२
स्मृतिर्न प्राक्तनी काचित्कारणं वा स्वयंभुवः ।
तेन यादृक्स्वयंभूः स्यात्तादृक्तज्जमिदं स्मृतम् ।। ४३
अनाद्यनुभवस्त्वित्थं योऽत्रास्ति वनिकादिके ।
स्वप्नानुभूतं पृथ्व्यादि प्रबोधे यादृशं भवेत् ।। ४४
स्मृतः स व्योममात्रात्मा सर्वदैव स्मृतं जगत् ।
यत्र यत्र यथा तोये द्रवत्वं नाम भिद्यते ।। ४५
तत्र तत्र तथा नान्यः सर्गोऽस्ति परमात्मनि ।
सृष्टिरेवमियं प्रौढा सम एव त्वयं स्थितः ।। ४६
भात्येवं नाम ब्रह्माण्डं व्योमात्मेवातिनिर्मलम् ।
दृश्यमेवमिदं शान्तं स्वात्मनिर्मितविभ्रमम् ।। ४७
निराधारं निराधेयमद्वैतं चैक्यवर्जितम् ।
जगत्संविदि जातायामपि जातं न किंचन ।। ४८
परमाकाशमाशून्यमच्छमेव व्यवस्थितम् ।
सर्वसंसारता नास्ति यदेव तदवस्थितम् ।। ४९
नाधेयं तत्र नाधारो न दृश्यं न च द्रष्टृता ।
ब्रह्माण्डं नास्ति न ब्रह्मा न च वैतण्डिका क्वचित् ।। ५०
न जगन्नापि जगती शान्तमेवाखिलं स्थितम् ।
ब्रह्मैव कचति स्वच्छमित्थमात्मात्मनात्मनि ।। ५१
चित्त्वाद्द्रवत्वात्सलिलमिवावर्ततयात्मनि ।
असदेवेदमाभाति सदिवेहानुभूयते ।। ५२
विनश्यत्यसदेवान्ते स्वप्ने स्वमरणं यथा ।
अथवा स्वस्वरूपत्वात्सदेवेदमनामयम् ।
अखण्डितमनाद्यन्तं ज्ञानमात्राम्बरोदरम् ।। ५३
आकाश एव परमे प्रथमः प्रजेशो
नित्यं स्वयं कचति शून्यतया समो यः ।
स ह्यातिवाहिकवपुर्नतु भूतरूपी
पृथ्व्यादि तेन न सदस्ति यथा न जातम् ।। ५४
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे स्वयंभूत्पत्तिवर्णनं नाम त्रयोदशः सर्गः ।। १३ ।।