योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०१५

← सर्गः १४ योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)
सर्गः ०१५
अज्ञातलेखकः
सर्गः १६ →

श्रीवसिष्ठ उवाच ।
जगदाकाशमेवेदं यथा हि व्योम्नि मौक्तिकम् ।
विमले भाति स्वात्मैव जगच्चिद्गगनं यथा ।। १
अनुत्कीर्णैb भातीव त्रिजगच्छालभञ्जिका ।
चित्स्तम्भेनैव सोत्कीर्णा नचोत्कर्तात्र विद्यते ।। २
समुद्रेऽन्तर्जलस्पन्दाः स्वभावादच्युता अपि ।
वीचिवेगा भवन्तीव परे दृश्यविदस्तथा ।। ३
जालान्तर्गतसूर्याभा जालाकाररजांस्यपि ।
जगद्भानं प्रति स्थूलान्यणुं प्रति यथाचलाः ।। ४
जगद्भानं न भातीदं ब्रह्मणो व्यतिरेकतः ।
जालसूर्यांशुजालं तु व्यतिरेकानुभूतिदम् ।। ५५
अनुभूतान्यपीमानि जगन्ति व्योमरूपिणि ।
पृथ्व्यादीनि न सन्त्येव स्वप्नसंकल्पयोरिव ।। ६
पिण्डग्रहो जगत्यस्मिन्विज्ञानाकाशरूपिणि ।
मरुनद्यां जलमिव न संभवति कुत्रचित् ।। ७
जगत्यपिण्डग्राहेऽस्मिन्संकल्पनगरोपमे ।
मरौ सरिदिवाभाति दृश्यता भ्रान्तिरूपिणी ।। ८
स्वप्नाद्दृश्येव जगतां तुलादेशेन केन च।
तुलिता कलनोन्मुक्ता दृश्यश्रीर्व्योम जृम्भते ।। ९
वर्जयित्वा ज्ञविज्ञानं जगच्छब्दार्थभाजनम् ।
जगद्ब्रह्मस्वशब्दानामर्थे नास्त्येव भिन्नता ।। १०
इदं त्वचेत्यचिन्मात्रं भानोर्भातं नभः प्रति ।
तथा सूक्ष्मं यथा मेघं प्रति संकल्पवारिदः ।। ११
यथा स्वप्नपुरं स्वच्छं जाग्रत्पुरवरं प्रति ।
तथा जगदिदं स्वच्छं सांकल्पिकजगत्प्रति ।। १२
तस्मादचेत्यचिदूपं जगद्व्योमेव केवलम् ।
शून्यौ व्योमजगच्छब्दौ पर्यायौ विद्धि चिन्मयौ ।। १३
तस्मान्न किंचिदुत्पन्नं जगदादीह दृश्यकम् ।
अनाख्यमनभिव्यक्तं यथास्थितमवस्थितम् ।। १४
जगदेव महाकाशे चिदाकाशमभित्तिमत् ।
तद्देशस्याणुमात्रस्य तुलायाश्चाप्रपूरकम् ।। १५
आकाशरूपमेवाच्छं पिण्डग्रहविवर्जितम् ।
व्योम्नि व्योममयं चित्रं संकल्पपुरवत्स्थितम् ।। १६
अत्रेदं मण्डपाख्यानं शृणु श्रवणभूषणम् ।
निःसंदेहो यथैषोऽर्थश्चित्ते विश्रान्तिमेष्यति ।। १७
श्रीराम उवाच ।
सद्बोधवृद्धये ब्रह्मन्समासेन वदाशु मे ।
मण्डपाख्यानमखिलं येन बोधो विवर्धते ।। १८
श्रीवसिष्ठ उवाच ।
अभूदस्मिन्महीपीठे कुलपद्मो विकाशवान् ।
पद्मो नाम नृपः श्रीमान्बहुपुत्रो विवेकवान् ।। १९
मर्यादापालनाम्भोधिर्द्विषत्तिमिरभास्करः ।
कान्ताकुमुदिनीचन्द्रो दोषतृणहुताशनः ।। २०
मेरुर्विबुधवृन्दानां यशश्चन्द्रो भवार्णवे ।
सरः सद्गुणहंसानां कमलामलभास्करः ।। २१
संग्रामवीरुत्पवनो मनोमातङ्गकेसरी ।
समस्तविद्यादयितः सर्वाश्चर्यगुणाकरः ।। २२
सुरारिसागरक्षोभविलसन्मन्दराचलः ।
विलासपुष्पौघमधुः सौभाग्यकुसुमायुधः ।। २३
लीलालतालास्यमरुत्साहसोत्साहकेशवः ।
सौजन्यकैरवशशी दुर्लीलावल्लिकानलः ।। २७
तस्यास्ति सुभगा भार्या लीला नाम विलासिनी ।
सर्वसौभाग्यवलिता कमलेवोदिताऽवनौ ।। २५
सर्वानुवृत्तिललिता लीला मधुरभाषिणी ।
सानन्दमन्दचलिता द्वितीयेन्दूदयस्मिता ।। २६
अलकालिमनोहारिवदनाम्भोजशालिनी ।
सिताङ्गी कर्णिकागौरी जङ्गमेव सरोजिनी ।। २७
लताविलासकुन्दौघभासिनी रसशालिनी ।
प्रवालहस्ता पुष्पाभा मधुश्रीरिव देहिनी ।। २८
अवदाततनुः पुण्या स्पर्शनाह्लादकारिणी
गङ्गेव गां गता देहवती हंसविलासिनी ।। २९
तस्य भूतलपुष्पेषोः सकलाह्लाददायिनः ।
परिचर्यां चिरं कर्तुमन्या रतिरिवोदिता ।। ३०
उद्विग्ने प्रोद्विग्ना मुदिते मुदिता समाकुलाकुलिते ।
प्रतिबिम्बसमा कान्ता संक्रुद्धे केवलं भीता ।। ३१
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे मण्डपोपाख्याने राजवर्णनं नाम पञ्चदशः सर्गः ।। १५ ।।