योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०१८

← सर्गः १७ योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)
सर्गः ०१८
अज्ञातलेखकः
सर्गः १९ →

श्रीवसिष्ठ उवाच ।
इत्थं विनोदयामीदं दुःखदं चित्तमित्यलम् ।
बोधयित्वेङ्गितैर्भूपानास्थानादुत्थिताथ सा ।। १
प्रविश्यान्तःपुरं भर्तुः पार्श्वेऽन्तःपुरमण्डपे ।
विवेश पुष्पगुप्तस्य चिन्तयामास चेतसा ।। २
अहो विचित्रा मायेयमेतेऽस्मत्पुरमानवाः ।
बहिरन्तरवद्देशे तत्र चेह च संस्थिताः ।। ३
तालीतमालहिंतालमालिता गिरयोऽप्यमी ।
यथा तत्र तथेहापि बत मायेयमातता ।। ४
आदर्शेऽन्तर्बहिश्चैव यथा शैलोऽनुभूयते ।
बहिरन्तश्चिदादर्शे तथा सर्गोऽनुभूयते ।। ५
तत्र भ्रान्तिमयः सर्गः कः स्यात्कः पारमार्थिकः ।
इति पृच्छामि वागीशामभ्यर्च्योक्तमसंशयम् ।। ६
इति निश्चित्य तां देवीं पूजयामास सा तदा ।
ददर्श च पुरः प्राप्तां कुमारीरूपधारिणीम् ।। ७
भद्रासनगतां देवीमुपविश्य पुरोगता ।
परमार्थमहाशक्तिं लीलाऽपृच्छद्भुवि स्थिता ।। ८
लीलोवाच ।
अनुकम्प्यस्य नो देवि भजन्त्युद्वेगमुत्तमाः ।
त्वयेव किल सर्गादौ स्थापिता स्थितिरुत्तमा ।। ९
तदिदं यत्पुरः प्रह्वा पृच्छामि परमेश्वरि ।
तद्ब्रूहि त्वत्कृतो नूनं सफलो मेऽस्त्वनुग्रहः ।। 3.18.१०
अस्यादर्शो जगन्नाम्नः खादप्यधिकनिर्मलः ।
यस्य योजनकोटीनां कोटयोऽवयवो मनाक् ।। ११
निःसंधितवचोज्योतिर्घनो मृदुसुशीतलः ।
अचेत्यचिदिति ख्यातो नाम्ना निर्भित्तिरग्रतः ।। १२
दिक्कालकलनाकाशप्रकाशनियतिक्रमाः ।
यत्रेमे प्रतिबिम्बन्ति परां परिणतिं गताः ।। १३
त्रिजगत्प्रतिबिम्बश्रीर्बहिरन्तश्च संस्थिता ।
तत्र वै कृत्रिमा का स्यात्कासौ वा स्यादकृत्रिमा ।। १४
श्रीदेव्युवाच ।
अकृत्रिमत्वं सर्गस्य कीदृशं वद सुन्दरि ।
कीदृशं कृत्रिमत्वं स्याद्यथावत्कथयेति मे ।। १५
लीलोवाच ।
यथाहमिह तिष्ठामि त्वं च देवि स्थिताम्बिके ।
असावकृत्रिमः सर्ग इति देवेशि वेद्म्यहम् ।। १६
यत्राधुना स भर्ता मे स्थितः सर्गः स कृत्रिमः ।
अहं मन्ये यतः शून्यो देशकालाद्यपूरकः ।। १७
श्रीदेव्युवाच ।
कृत्रिमोऽकृत्रिमात्सर्गान्न कदाचन जायते ।
नहि कारणतः कार्यमुदेत्यसदृशं क्वचित् ।। १८
लीलोवाच ।
दृश्यते कारणात्कार्यं सुविलक्षणमम्बिके ।
अम्ब्वादातुमशक्ता मृद्धटस्तज्जस्तदास्पदम् ।। १९
श्रीदेव्युवाच ।
संपद्यते हि यत्कार्यं कारणैः सहकारिभिः ।
मुख्यकारणवैचित्र्यं किंचित्तत्रावलोक्यते ।। 3.18.२०
वद तद्भर्तृसर्गस्य किं पृथ्व्यादिषु कारणम् ।
तद्भूमण्डलतो भूतिर्जाता तत्र वरानने ।। २१
गतं चेदित उड्डीय कुतः स्यादिह भूतलम् ।
सहकारीणि कानीव कारणान्यत्र कारणे ।। २२
कारणानामभावेऽपि योदेति सहकारिता ।
तत्पूर्वकारणान्नान्यत्सर्वेणेत्यनुभूयते ।। २३
लीलोवाच ।
स्मृतिः सा देवि मद्भर्तुस्तथा स्फारत्वमागता ।
स्मृतिस्तत्कारणं वेद्मि सर्गोऽयमिति निश्चयः ।। २४
श्रीदेव्युवाच ।
स्मृतिराकाशरूपा च यथा तज्जस्तथैव ते ।
भर्तुः सर्गोऽनुभूतोऽपि स व्योमैव तथाबले ।। २५
लीलोवाच ।
स्मृत्याकाशमयः सर्गो यथा भर्तुर्ममोदितः ।
तथैवेममहं मन्ये स सर्गोऽत्र निदर्शनम् ।। २६
श्रीदेव्युवाच ।
एवमेतदसत्सर्गो भर्तुस्तैर्भाति भासुरः ।
तथैवायमिहाभाति पश्याम्येतदहं सुते ।। २७
लीलोवाच ।
यथा पत्युरमूर्तोऽस्मात्सर्गात्सर्गो भ्रमात्मकः ।
जातस्तथा कथय मे जगद्भ्रमनिवृत्तये ।। २८
श्रीदेव्युवाच ।
प्राक्स्मृतेर्भ्रान्तिमात्रात्मा सर्गोऽयमुदितो यथा ।
स्वप्नभ्रमात्मको भाति तथेदं कथ्यते शृणु ।। २९
अस्ति क्वचिच्चिदाकाशे क्वचित्संसारमण्डपः ।
आकाशकाचदलवत्संस्थानाच्छादिताकृतिः ।। 3.18.३०
मेरुस्तम्भस्थलोकेशपुरन्ध्रीशालभञ्जिकः ।
चतुर्दशापवरकस्त्रिगर्तो भानुदीपकः ।। ३१
कोणस्थभूतवल्मीकव्याप्तपर्वतलोष्टकः ।
अनेकपुत्रजरठप्रजेशब्राह्मणास्पदम् ।। ३२
जीवौघकोशकाराढ्यो व्योमोर्ध्वतलकालिमा ।
नभोनिवाससिद्धौघमशकाहितघुंघुमः ।। ३३
पयोदगृहधूमोग्रजालावलितकोणकः ।
वातमार्गमहावंशस्थितवैमानकीटकः ।। ३४
सुरासुरादिदुर्बाललीलाकलकलाकुलः ।
लोकान्तरपुरग्रामभाण्डोपस्करनिर्भरः ।। ३५
सरःस्रोतोब्धिसरसीजलोक्षितमहीतलः ।
पातालभूतलस्वर्गभागभासुरकोटरः ।। ३६
तत्र कस्मिंश्चिदेकस्मिन्कोणेष्वम्बरकोटरे ।
शैललोष्टतलेष्वेको गिरिग्रामकगर्तकः ।। ३७
तस्मिन्नदीशैलवनोपगूढे साग्निः सदारः सुतवानरोगः ।
गोक्षीरवान् राजभयाद्विमुक्तः सर्वातिथिर्धर्मपरो द्विजोऽभूत् ।। ८
इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे लीलो० जगद्भान्तिप्रतिपादनं नामाष्टादशः सर्गः ।। १८ ।।