योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०२९

← सर्गः २८ योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)
सर्गः ०२९
अज्ञातलेखकः
सर्गः ३० →

श्रीवसिष्ठ उवाच ।
तत्र ते पेततुर्देव्यौ ग्रामेऽन्तःशीतलात्मनि ।
भोगमोक्षश्रियौ शान्ते पुंसीव विदितात्मनि ।। १
कालेनैतावता लीला तेनाभ्यासेन साभवत् ।
शुद्धज्ञानैकदेहत्वात्त्रिकालामलदर्शिनी ।। २
अथ सस्मार सर्वास्ताः प्राक्तनीः संसृतेर्गतीः ।
सा स्वयं स्वरसेनैव प्राग्जन्ममरणादिकाः ।। ३
लीलोवाच ।
देवि देशमिमं दृष्ट्वा त्वत्प्रसादात्स्मराम्यहम् ।
इह तत्प्राक्तनं सर्वं चेष्टितं चेष्टितान्तरम् ।। ४
इहाभूवमहं जीर्णा शिरालाङ्गी कृशा सिता ।
ब्राह्मणी शुष्कदर्भाग्रमे(भे)दरूक्षकरोदरा ।। ५
भर्तुः कुलकरी भार्या दोहमन्थानशालिनी ।
माता सकलपुत्राणामतिथीनां प्रियंकरी ।। ६
देवद्विजसतां भक्ता सिक्ताङ्गी घृतगोरसैः ।
भर्जनी चरुकुम्भादिभाण्डोपस्करशोधिनी ।। ७
नित्यमन्नलवाक्तैककाचकम्बुप्रकोष्ठका ।
जामातृदुहितृभ्रातृपितृमातृप्रपूजनी ।। ८
आदेहं सद्मभृत्यैव प्रक्षीणदिनयामिनी ।
वाचं चिरं चिरमिति वादिन्यनिशमाकुला ।। ९
काहं क इव संसार इति स्वप्नेऽप्यसंकथा ।
जाया श्रोत्रियमूढस्य तादृशस्यैव दुर्धियः ।। १०
एकनिष्ठा समिच्छाकगोमयेन्धनसंचये ।
म्लानकम्बलसंवीतशिरालकृशगात्रिका ।। ११
तर्णकीकर्णजाहस्थकृमिनिष्कासतत्परा ।
गृहशाकायनासेकसत्वराहूतकर्परा ।। १२
नीलनीरतरङ्गान्ततृणतर्पिततर्णिका ।
प्रतिक्षणं गृहद्वारकृतलेपनवर्णका ।। १३
नीत्यर्थं गृहभृत्यानामादीनकृतवाच्यता ।
मर्यादानियमादब्धेर्वेलेवानिशमच्युता ।। १४
जीर्णपर्णसवर्णैककर्णदोलाधिरूढया ।
काष्ठताड्यजराभीतजीववृत्त्येव चिह्निता ।। १५
श्रीवसिष्ठ उवाच ।
इत्युक्त्वा संचरन्ती सा शिखरिग्रामकोटरे ।
संचरन्त्याः सरस्वत्या दर्शयामास सस्मयम् ।। १६
इयं मे पाटलाखण्डमण्डिता पुष्पवाटिका ।
इयं मे पुष्पितोद्यानमण्डपाशोकवाटिका ।। १७
इयं पुष्कीरणीतीरद्रुमाऽऽग्रन्थिततर्णका ।
इयं सा कर्णिकानाम्नी तर्णिका मुक्तपर्णिका ।। १८
इयं सा मेऽलसाकीर्णा वराकी जलहारिका ।
अद्याष्टमं दिनं बाष्पक्लिन्नाक्षी परिरोदिति ।। १९
इह देवि मया भुक्तमिहोषितमिह स्थितम् ।
इह सुप्तमिहापीतमिह दत्तमिहाहृतम् ।। २०
एष मे ज्येष्ठशर्माख्यः पुत्रो रोदिति मन्दिरे ।
एषा मे जङ्गले धेनुर्दोग्ध्री चरति शाद्वलम् ।। २१
गृहे वसन्तदाहाय रूक्षक्षारविधूसरम् ।
स्वदेहमिव पञ्चाक्षं पश्येमं प्रघणं मम ।। २२
तुम्बीलताभिरुग्राभिः पुष्टाभिरिव वेष्टितम् ।
महानसस्थानमिदं मम देहमिवापरम् ।। २३
एते रोदनताम्राक्षा बन्धवो भुवि बन्धनम् ।
अङ्गदार्पितरुद्राक्षा आहरन्त्यनलेन्धनम् ।। २४
अनारतं शिलाकच्छे गुच्छाच्छोटनकारिभिः ।
तरङ्गैः स्थगिताकारं स्पृष्टतीरलतादलैः ।। २५
सीकराकीर्णपर्यन्तशाद्वलस्थलसल्लतैः ।
शिलाफलहकास्फालफेनिलोत्पलसीकरैः ।। २६
तुषारीकृतमध्याह्नदिवाकरकरोत्करैः ।
फुल्लपुष्पोत्करासारप्रणादोत्कतटद्रुमैः ।। २७
विद्रुमैरिव संक्रान्तफुल्लकिंशुककान्तिभिः ।
व्याप्तया पुष्पराशीनां समुल्लासनकारिभिः ।। २८
उह्यमानफलापूरसुव्यग्रग्रामबालया ।
महाकलकलावर्तमत्तया ग्रामकुल्यया ।। २९
वेष्टितस्तरलास्फालजलधौततलोपलः ।
घनपत्रतरुच्छन्नच्छायासततशीतलः ।। ३०
अयमालक्ष्यते फुल्ललतावलनसुन्दरः ।
दलद्गुलुच्छकाच्छन्नगवाक्षो गृहमण्डपः ।। ३१
अत्र मे संस्थितो भर्ता जीवाकाशतयाऽकृतिः ।
चतुःसमुद्रपर्यन्तमेखलाया भुवः पतिः ।। ३२ ।
आ स्मृतं पूर्वमेतेन किलासीदभिवाञ्छितम् ।
शीघ्रं स्यामेव राजेति तीव्रसंवेगधर्मिणा ।। ३३
दिनैरष्टभिरेवासौ तेन राज्यं समृद्धिमत् ।
चिरकालप्रत्ययदं प्राप्तवान्परमेश्वरि ।। ३४
अत्रासौ भर्तृजीवो मे स्थितो व्योम्नि गृहे नृपः ।
अदृश्यः खे यथा वायुरामोदो वानिले यथा ।। ३५
इहैवाङ्गुष्ठमात्रान्ते तद्व्योम्न्येव पदं स्थितम् ।
मद्भर्तृराज्यं समवगतं योजनकोटिभाक् ।। ३६
आवां खमेव स्वस्थं च भर्तृराज्यं ममेश्वरि ।
पूर्णं सहस्रैः शैलानां महामायेयमातता ।। ३७
तद्देवि भर्तृनगरं पूनर्गन्तुं ममेप्सितम् ।
तदेहि तत्र गच्छावः किं दूरं व्यवसायिनाम् ।। ३८
श्रीवसिष्ठ उवाच ।
इत्युक्त्वा प्रणता देवीं सा प्रविश्याशु मण्डपम् ।
विहंगीव तया साकं पुप्लुवे सिनिभं नमः ।। ३९
भिन्नाञ्जनचयप्रख्यं सौम्यैकार्णवसुन्दरम् ।
नारायणाङ्गसदृशं भृङ्गपृष्ठामलच्छवि ।। ४०
मेघमार्गमतिक्रम्य वातस्कन्धावनिं तथा ।
सौरमार्गमथाक्रम्य चन्द्रमार्गमतीत्य च ।। ४१
धुवमार्गोत्तरं गत्वा साध्यानां मार्गमेत्य च ।
सिद्धानां समतीत्योर्वीमुल्लङ्घ्य स्वर्गमण्डलम् ।। ४२
ब्रह्मलोकोत्तरं गत्वा तुषितानां च मण्डलम् ।
गोलोकं शिवलोकं च पितृलोकमतीत्य च ।। ४३
विदेहानां सदेहानां लोकानुत्तीर्य दूरगम् ।
दूराद्दूरमथो गत्वा किंचिद्बुद्धा बभूव सा ।। ४४
पश्चादालोकयामास समतीतं नभस्थलम् ।
यावन्न किंचिच्चन्द्रार्कताराद्यालक्ष्यते ह्यधः ।। ४५
तमस्तिमितगम्भीरमाशाकुहरपूरकम् ।
एकार्णवोदरप्रख्यं शिलोदरघनं स्थितम् ।। ४६
लीलोवाच ।
तद्देवि भास्करादीनां क्वाधस्तेजो गतं वद ।
शिलाजठरनिष्पन्दं मुष्टिग्राह्यं तमः कुतः ।। ४७
श्रीदेव्युवाच ।
एतावतीमिमां व्योम्नः पदवीमागतासि भोः ।
अर्कादीन्यपि तेजांसि यतो दृश्यन्त एव नो ।। ४८
यथा महान्धकूपाधः खद्योतो नावलोक्यते ।
पृष्ठगेन तथेहातो नाधः सूर्योऽवलोक्यते ।। ४९
लीलोवाच ।
अहो नु पदवीं दूरमावामेतामुपागते ।
सूर्योऽप्यधोणुकणवन्न मनागपि लक्ष्यते ।। ५०
इत उत्तरमन्या स्यात्पदवी का नु कीदृशी ।
कथं च मातरेतव्या कथ्यतामिति देवि मे ।। ५१
श्रीदेव्युवाच ।
इत उत्तरमग्रे ते ब्रह्माण्डपुटकर्परम् ।
यस्य चन्द्रादयो नाम धूलिलेशाः समुत्थिताः ।। ५२
श्रीवसिष्ठ उवाच ।
इति प्रकथयन्त्यौ ते प्राप्ते ब्रह्माण्डकर्परम् ।
भ्रमर्याविव शैलस्य कुड्यं निबिडमण्डपम् ।। ५३
अक्लेशेनैव ते तस्मान्निर्गते गगनादिव ।
निश्चयस्थं हि यद्वस्तु तद्वज्रगुरु नेतरत् ।। ५४
निरावरणविज्ञाना सा ददर्श ततस्ततम् ।
जलाद्यावरणं पारे ब्रह्माण्डस्यातिभासुरम् ।। ५५
ब्रह्माण्डाद्दशगुणतस्तोयं तत्र व्यवस्थितम् ।
आस्थितं वेष्टयित्वा तु त्वगिवाक्षोटपृष्ठगा ।। ५६
तस्माद्दशगुणो वह्निस्तस्माद्दशगुणोऽनिलः ।
ततो दशगुणं व्योम ततः परममम्बरम् ।। ५७
तस्मिन्परमके व्योम्नि मध्याद्यन्तविकल्पनाः ।
न काश्चन समुद्यन्ति वन्ध्यापुत्रकथा इव ।। ५८
केवलं विततं शान्तं तदनादि गतभ्रमम् ।
आद्यन्तमध्यरहितं महत्यात्मनि तिष्ठति ।। ५९
आकल्पमुत्तमबलेन शिला पतेच्चे-
त्तस्मिन्बलात्पतगराडपि चोत्पतेच्चेत् ।
तद्योजनं न लभते विमलेऽम्बरेऽन्त-
र्माकल्पमेकजवगोऽप्यथ मारुतोऽपि ।। ६०
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० परमाकाशवर्णनं नामैकोनत्रिंशः सर्गः ।। २९ ।।