योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०३४

← सर्गः ३३ योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)
सर्गः ०३४
अज्ञातलेखकः
सर्गः ३५ →

श्रीवसिष्ठ उवाच ।
अथ राज्ञां युयुत्सूनां भटानां मन्त्रिणामपि ।
नभसः प्रेक्षकाणां च तत्रेमाः प्रोदगुर्गिरः ।। १
चलत्पद्मं सर इव वहद्विहगमेव च ।
नभः शूरशिरःकीर्णं भाति तारकिताकृति ।। २
पश्य रक्तपृषत्पूरसिन्दूरारुणमारुतैः ।
सांध्या इव विभान्त्येते मध्याह्नेऽम्बुदभानवः ।। ३
किमिदं भगवन्व्योम पलालभरितं स्थितम् ।
नेदं पलालं वीराणामेते शरभराम्बुदाः ।। ४
यावन्तो भुवि सिच्यन्ते रुधिरे रणरेणवः ।
तावन्त्यब्दसहस्राणि भटानामास्पदं दिवि ।। ५
मा भैष्ट नैते निस्त्रिंशा नीलोत्पलदलत्विषः ।
अमी वीरावलोकिन्या लक्ष्म्या नयनविभ्रमाः ।। ६
वीरालिङ्गनलोलानां नितम्बे सुरयोषिताम् ।
मेखलाः शिथिलीकर्तुं प्रवृत्तः कुसुमायुधः ।। ७
लसद्भुजलतालोला रक्तपल्लवपाणयः ।
मञ्जरीमत्तनयना मध्वामोदसुगन्धयः ।। ८
गायन्त्यो मधुरालापैर्नन्दनोद्यानदेवताः ।
तवागमनमाशङ्क्य प्रवृत्ताः परिनर्तितुम् ।। ९
प्रत्यनीकं भिनत्त्यन्तः कुठारैः कठिनैरियम् ।
सेना ग्राम्येव वनिता दयितं दृष्टिचेष्टितैः ।। १०
हा पितुर्मम भल्लेन शिरो ज्वलितकुण्डलम् ।
सूर्यस्य निकटं नीतं कालेनेवाष्टमो ग्रहः ।। ११
आपादशृङ्खलाप्रोतभ्रमत्स्थूलोपलद्वयम् ।
भ्रामयंश्चित्रदण्डाख्यं चक्रमूर्ध्वभुजो जवात् ।। १२
योधो यम इवाभाति याम्यादायाति दिक्तटात् ।
सर्वतः संहरन्सेनामेहि यामो यथागतम् ।। १३
सद्यश्छिन्नशिरश्वभ्रमज्जत्कङ्ककुलाकुलाः ।
कबन्धाः परिनृत्यन्ति तालोत्ताला रणाङ्गणे ।। १४
गीर्वाणगणगोष्ठीषु प्रवृत्ताः संकथा मिथः ।
कदा लोकान्तरं धीराः कथं यास्यन्ति के कुतः।। १५
निगिरत्यागताः सेनाः स्रवन्तीरिव सागरः ।
समत्स्यमकरव्यूहा अहो नु विषमो भटः ।। १६
कटेषु करिणां कीर्णा धारानाराचराजयः ।
पतिता इव संपूर्णाः शृङ्गसंघेषु वृष्टयः ।। १७
हा कुन्तेन शिरो नीतं ममेत्येव विवक्षतः ।
शिरसाऽजीवमित्येवं खे खगेनेव वाशितम् ।। १८
यन्त्रपाषाणवर्षेण यैषास्मान्परिषिञ्चति ।
सेनानुशृङ्खलाजालवलना क्रियतां बलात् ।। १९
वलीपलितनिर्मुक्तं पूर्वभार्याप्सराः सती ।
अङ्गीकरोति भर्तारं परिज्ञाय रणे हतम् ।। २०
आदिवं रचिताकाराः कुन्तकाननकान्तयः ।
वीराणां स्वर्गमारोढुमिव सोपानपङ्क्तयः ।। २१
कान्तकाञ्चनकान्ताङ्गे भटस्योरसि कामिनी ।
दृष्टा देवपुरन्ध्रीयं भर्तुरन्वेषणान्विता ।। २२
हा हतं सैन्यमस्माकं भटैऽरुद्धतमुष्टिभिः ।
महाप्रलयकल्लोलैः सुरशैलस्थलं यथा ।। २३
युध्यध्वमग्रतो मूढा नयतार्धमृतान्नरान् ।
निजान्पादप्रहारेण मैतान्दारयताधमाः ।। २४
धम्मिल्लवलनाव्यग्रे घनोत्कण्ठेऽप्सरोगणे ।
भटो दिव्यशरीरेण पार्श्वप्राप्तो निरीक्ष्यताम् ।। २५
फुल्लहेमारविन्दासु च्छायाशीतजलानिलैः ।
स्वर्गनद्यास्तटीष्वेनं दूरायातं विनोदय ।। २६
विविधायुधसंघट्टखण्डितोग्रास्थिकोटयः ।
खे कवन्त्यः कणत्कारैः प्रसृतास्तारका इव ।। २७
व्योम्नि जीवनदीवाहे वहत्सायकवारिणि ।
चक्रावर्तिनि गच्छन्ति गिरयोऽप्यणुपङ्कताम् ।। २८
भ्रमद्भिर्ग्रहमार्गेषु शिरोभिर्वीरभूभृताम् ।
आयुधांशुलतानाललग्नासिदलकण्टकैः ।। २९
केतुपट्टंमृणालाङ्गदलैर्लब्धशिलीमुखैः ।
वहद्वातचलत्पद्मं नभः पद्मसरः कृतम् ।। ३०
मृतमातङ्गसंघाते गिराविव पिपीलिकाः ।
भीरवः परिलीयन्ते स्त्रियः पुंवक्षसीव च ।। ३१
अपूर्वोत्तमसौन्दर्यकान्तसंगमशंसिनः ।
वान्ति विद्याधरस्त्रीणामलकोल्लासिनोऽनिलाः ।। ३२
छत्रेषूड्डीयमानेषु स्थितेषु व्योम्नि चन्द्रता ।
इन्दुनेव यशोमूर्त्या कृता शुभ्रातपत्रता ।। ३३
भटो मरणमूर्च्छान्ते निमेषेणामरं वपुः ।
स्वकर्मशिल्पिरचितं प्राप्तः स्वप्नपुरं यथा ।। ३४
शूलशक्त्यृष्टिचक्राणां वृष्टयो मुक्ततुष्टयः ।
व्योमाब्धौ मत्स्यमकरसंकुलावयवाः स्थिताः ।। ३५
शरोत्कृत्तसितच्छत्रकलहंसैर्नभःस्थलम् ।
भाति संचितपूर्णेन्दुबिम्बलक्षैरिवावृतम् ।। ३६
क्रियते गगनोड्डीनैश्चामरैश्चारुघर्घरैः ।
वातावधूतसंरोधतरङ्गनिकरद्युतिः ।। ३७
दृश्यन्ते हेतिदलिताश्छत्रचामरकेतवः ।
आकाशक्षेत्रविक्षिप्ता यशःशालिलता इव ।। ३८
वहद्भिर्व्योम्नि सक्षेम पश्य नीता क्षयं शरै ।
शक्तिवृष्टिरुपायान्ती सस्यश्रीः शलभैरिव ।। ३९
एषा प्रसृतदोर्दण्डभटखड्गच्छटात्कृतिः ।
कठिनात्कंकटाज्जाता मृत्योरेवोग्रहुंकृतिः ।। ४०
हेतिकल्पानिलक्षुण्णा दन्तनिर्झरवारयः ।
जनताक्षयकालेऽस्मिन्भग्ना नागा नगा इव ।। ४१
सचक्रनाथसूताश्वं व्यूढं रक्तमहाहृदे ।
हाहाभिभूतगतिकं चेष्टते रथपत्त्नम् ।। ४२
करकंकटकुट्यङ्कखड्गसंघट्टटांकृतैः ।
कालरात्र्या प्रनृत्यन्त्या रणवीणेव वाद्यते ।। ४३
नरेभखरवाजिभ्यो ये च्युता रक्तनिर्झराः ।
पश्य तद्बिन्दुसिक्तेन वायुनारुणिता दिशः ।। ४४
शस्त्रांशुजलदे व्योम्नि कालीचिकुरमेचके ।
शरकोरकभारस्रङ्मेघे विद्युदिवोदिता ।। ४५
अनन्तरक्तसंसक्तसन्नावनितलायुधैः ।
भुवनं भात्यभिज्वालमग्निलोक इवाकुलम् ।। ४६
भुशुण्डीशक्तिशूलासिमुसलप्रासवृष्टयः ।
अन्योन्यच्छेदभेदाभ्यां करप्रकरतोऽपतन् ।। ४७
अक्षोभैकप्रहरणाद्यातुधान्योऽन्यचेष्टितम् ।
संरम्भावेक्षणप्रज्ञं रणं स्वप्नमिव स्थितम् ।। ४८
अनन्यशब्दाविरतहताहतिरणज्झणैः ।
गायतीव क्षतक्षोभमुदितो रणभैरवः ।। ४९
अन्योन्यरणहेत्युग्रचूर्णपूर्णो रणार्णवः ।
वालुकामय एवाभूच्छिन्नच्छत्रतरङ्गकः ।। ५०
सरभसरसवद्विसारितूर्य-
प्रतिरवपूरितलोकपाललोकः ।
रणगिरिरयमुग्रपक्षदक्ष-
प्रतिसृतिवृत्त इवाम्बरे युगान्ते ।। ५१
हा हा धिक्प्रविकटकङ्कटाननोद्य-
त्प्रोड्डीनप्रकटतडिच्छटाप्रतप्ताः ।
क्रेङ्कारस्फुरितगुणेरिता रणन्तो
नाराचाः शिखरिशिलागणं वहन्ति ।। ५२ ।
छिन्नेच्छाच्छमिति न यावदङ्गभङ्गं
कुर्वन्तो ज्वलदनलोज्ज्वलाः पृषत्काः ।
तावद्द्राग्द्रुतमित एहि मित्र यामो
यामोऽयं प्रवहति वासरश्चतुर्थः ।। ५३

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने रणप्रेक्षकजनोक्तिवर्णनं नाम चतुस्त्रिंशः सर्गः ।। ३४ ।।