योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०३९

← सर्गः ३८ योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)
सर्गः ०३९
अज्ञातलेखकः
सर्गः ४० →

श्रीवसिष्ठ उवाच ।
अथ वीर इवारक्तः कालेनास्तमितो रविः ।
अस्त्रतेजःपरिम्लानप्रतापोऽब्धौ समुज्झितः ।। १
रणरक्तरुचिर्व्योमदर्पणप्रतिबिम्बिता ।
जहौ सूर्यशिरश्छेदे संध्यालेखोदभूत्क्षणम् ।। २
भूपातालनभोदिग्भ्यः प्रलयब्धिजलौघवत् ।
समाजग्मुस्तनत्ताला वेताला वलया इव ।। ३
मृष्टध्वान्तासिवलिते दिननागेन्द्रमस्तके ।
संध्यारागारुणं कीर्णं तारानिकरमौक्तिकम् ।। ४
निःसत्त्वेषु तमोन्धेषु रसनारसशालिषु ।
संकोचमाययुः पद्मामृतानां हृदयेष्विव ।। ५
मीलत्पक्षाः क्षणात्सुप्ताः कृच्छ्रप्रोच्छ्रितकन्धराः ।
कुलायेषु खगा आसञ्छवाङ्गेष्विव हेतयः ।। ६
आसन्नचन्द्रसुभगा लोकाः कुसुमपङ्क्तयः ।
उल्लसद्धृदया जाता वीरपक्षेष्विव श्रियः ।। ७
रक्तवारिमयी सायमङ्गगुप्तशिलीमुखा ।
संकुचद्वक्त्रपद्माभूद्रणभूमिरिवाब्जिनी ।। ८
उपर्यभूद्व्योमसरस्ताराकुमुदमण्डितम् ।
अधस्त्वभूद्वारिसरः स्फुरत्कुमुदतारकम् ।। ९
तमस्यपेतभीतानि भूतानि मिलितान्यलम् ।
पयांसीव विसेतूनि प्रसृतानि दिशं प्रति ।। १०
आसीद्रणाङ्गणं गायद्वेतालकुलसंकुलम् ।
क्वणत्कङ्कालकाङ्कस्थकङ्ककाकोलकेलिमत् ।। ११
अथ काष्ठचिताज्वालसताराम्बरभास्वरम् ।
पचत्पचपचाशब्दिमेदोमांसमयानलम् ।। १२
सर्वाङ्गास्थिस्फुटास्फोटस्फुटच्चितिचयोन्मुखम् ।
वेतालललनारब्धजललीलातिरोहितम् ।। १३
श्वकाकयक्षवेतालतालकोलाहलोल्बणम् ।
गमागमेन भूतानां समुड्डीनवनोपमम् ।। १४
रक्तमांसवसामेदोहरणव्यग्रडाकिनि ।
चर्वितासृग्वसामांसस्रवत्सृक्किपिशाचकम् ।। १५
मध्यमध्यचितालोकप्रकटासृक्शवव्रजम् ।
विरूपिकानीयमानस्वांसन्यस्तमहाशवम् ।। १६
उत्ताण्डवोग्रकुम्भाण्डमण्डलोड्डामरोदरम् ।
छमिच्छमित्प्रलापान्तं मेदोसृग्वाष्पसाम्बुदम् ।। १७
वहद्रक्तनदीरंहोरूढभूचररूपिकम् ।
वेतालकुलकङ्कालकर्षणाकुलकाकलम् ।। १८
मृतेभोदरमञ्जूषासुप्तवेतालबालकम् ।
विविक्तैकरणोद्देशपानक्रीडास्थराक्षसम् ।। १९
मत्तवेतालकलहचितालातरणोज्ज्वलम् ।
वहद्रक्तवसामिश्रगन्धबन्धुरमारुतम् ।। २०
रूपिकापेटिकावान्तारणद्रटरटारवम् ।
अर्धपक्वशवास्वादलुब्धयक्षोल्लसत्कलि ।। २१
तुङ्गवङ्गकलिङ्गाङ्गतङ्गणाङ्गलगत्खगम् ।
तारापातोपमहसत्संमुखज्वालरूपिकम् ।। २२
पतद्वेतालसोल्लासमध्यस्थासृग्विरूपिकम् ।
पिशाचाकर्णिताभ्यर्णयोगिनीगणनायकम् ।। २३
प्रसृतान्त्रमहातन्त्रीप्रायसंपन्नवादनम् ।
पिशाचवासनोत्क्रान्तपिशाचीभूतमानवम् ।। २४
रूपिकालोकनापूर्वत्रासार्धमृतसद्भटम् ।
क्वचिद्वेतालरक्षोभिरपरीपूर्णमद्रकम् ।। २५
स्वरूपिकास्कन्धपतच्छवत्रस्तनिशाचरम् ।
नभःसंघट्टितापूर्वभूतपेटकसंकटम् ।। २६
अतिप्रयत्नापहृतम्रियमाणनरामिषम् ।
स्वभक्ष्यापेक्षपक्षेषु विक्षिप्तशवराशिवत् ।। २७
शिवामुखानलशिखाखण्डोत्थमितिरक्तगैः ।
समुड्डीननवाशोकपुष्पगुच्छमिवाभितः ।। २८
कबन्धकन्धराबन्धव्यग्रवेतालबालकम् ।
यक्षरक्षःपिशाचादिकचदाकाशगोल्मुकम् ।। २९
आकाशभूधरनिकुञ्जगुहान्तराल-
पिण्डोपमण्डिततमोम्बुदपीठपूरम् ।
व्यालोलभूतरभसाकुलकल्पवात-
व्याधूतलोककरकाण्डकपेटकल्पम् ।। ३०
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे ली० निशाचराकुलरात्रिरणाङ्गणवर्णनं नामैकोनचत्वारिशः सर्गः ।।३९।।