योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०४५

← सर्गः ४४ योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)
सर्गः ०४५
अज्ञातलेखकः
सर्गः ४६ →

श्रीसरस्वत्युवाच ।
विदूरथस्ते भर्तैष तनुं त्यक्त्वा रणाङ्गणे ।
तदेवान्तःपुरं प्राप्य तादृगात्मा भविष्यति ।। २
श्रीवसिष्ठ उवाच ।
इत्याकर्ण्य वचो देव्या लीला सा तत्पुरास्पदा ।
पुरः प्रह्वा स्थितोवाच वचनं विहिताञ्जलिः ।। २
द्वितीयलीलोवाच ।
देवी भगवती ज्ञप्तिर्नित्यमेवार्चिता मया ।
स्वप्ने संदर्शनं देवी सा ददाति निशासु मे ।। ३
सा यादृश्येव देवेशि तादृश्येव त्वमम्बिके ।
तन्मे कृपणकारुण्याद्वरं देहि वरानने ।। ४
श्रीवसिष्ठ उवाच ।
इत्युक्ता सा तदा ज्ञप्तिः स्मृत्वा तद्भक्तिभावनम् ।
इदं प्रसन्ना प्रोवाच तां लीलां तत्पुरास्पदाम् ।। ५
श्रीदेव्युवाच ।
अनन्यया भावनया यावज्जीवमजीर्णया ।
परितुष्टास्मि ते वत्से गृहाणाभिमतं वरम् ।। ६
तद्देशलीलोवाच ।
रणाद्देहं परित्यज्य यत्र तिष्ठति मे पतिः ।
अनेनैव शरीरेण तत्र स्यामेतदङ्गना ।। ७
श्रीदेव्युवाच ।
एवमस्तु त्वयाऽविघ्नं पूजितास्मि सुते चिरम् ।
अनन्यभावया भूरि पुष्पधूपसपर्यया ।। ८
श्रीवसिष्ठ उवाच ।
अथ तद्देशलीलायां फुल्लायां तद्वरोदयात् ।
पूर्वलीलाब्रवीद्देवीं संदेहलुलिताशया।। ९
पूर्वलीलोवाच ।
ये सत्यकामाः सन्त्येवंसंकल्पा ब्रह्मरूपिणः ।
त्वादृशाः सर्वमेवाशु तेषां सिद्ध्यत्यभीप्सितम् ।। १०
तत्तेनैव शरीरेण किमर्थं नाहमीश्वरि ।
लोकान्तरमिदं नीता तं गिरिग्रामकं वद ।। ११
श्रीदेव्युवाच ।
न किंचित्कस्यचिदहं करोमि वरवर्णिनि ।
सर्व संपादयत्याशु स्वयं जीवः स्वमीहितम् ।। १२
अहं हितं रटे ज्ञप्तिः संविन्मात्राधिदेवता ।
प्रत्येकमस्ति चिच्छक्तिर्जीवशक्तिस्वरूपिणी ।। १३
जीवस्योदेति या शक्तिर्यस्य यस्य यथा यथा ।
भाति तत्फलदा नित्यं तस्य तस्य तथा तथा ।। १४
मां समाराधयन्त्यास्तु जीवशक्तिस्तवोदिता ।
तदा भवद्यदीह स्यां मुक्तास्मीति चिरं तदा ।। १५
तेन तेन प्रकारेण त्वं मया संप्रबोधिता ।
तया युक्त्यामलं भावं नीतासि वरवर्णिनि ।। १६
अनयैव भावनया बोधितासि चिरं तदा ।
तमेवाऽर्थं प्राप्तवती सदा स्वचितिशक्तितः ।। १७
यस्य यस्य यथोदेति स्वचित्प्रयतनं चिरम् ।
फलं ददाति कालेन तस्य तस्य तथा तथा ।। १८
तपो वा देवता वापि भूत्वा स्यैव चिदन्यथा ।
फलं ददात्यथ स्वैरं नभःफलनिपातवत् ।। १९
स्वसंविद्यतनादन्यन्न किंचिच्च कदाचन ।
फलं ददाति तेनाशु यथेच्छसि तथा कुरु ।। २०
चिद्भाव एव ननु सर्गगतोऽन्तरात्मा
यच्चेतति प्रयतते च तदैति तच्छ्रीः ।
रम्यं ह्यरम्यमथवेति विचारयस्व
यत्पावनं तदवबुध्य तदन्तरास्स्व ।। २१

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे ली० सत्यकामसत्यसङ्कल्पास्तिता नाम पञ्चत्वारिंशः सर्गः ।। ४५ ।।