योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०५८

← सर्गः ५७ योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)
सर्गः ०५८
अज्ञातलेखकः
सर्गः ५९ →

श्रीवसिष्ठ उवाच ।
एतस्मिन्नन्तरे ज्ञप्तिर्जीवं वैदूरथं पुनः ।
संकल्पेन रुरोधाशु मनसः स्पन्दनं यथा ।। १
लीलोवाच ।
वद देवि कियान्कालो गतोऽस्यामिह मन्दिरे ।
समाधौ मयि लीनायां महीपाले शवे स्थिते ।। २
ज्ञाप्तिरुवाच ।
इह मासस्त्वतिक्रान्त इह दास्याविमे तव ।
रक्षार्थं वासगृहके स्वपतोऽवहिते स्थिते ।। ३
शृणु देहस्य किंवृत्तं तवेह वरवर्णिनि ।
शरीरं तव पक्षेण तत्क्लिन्नं बाष्पतां गतम् ।। ४
निर्जीवं पतितं भूमौ संशुष्कमिव पल्लवम् ।
काष्ठकुड्योपमो जातः शवस्तु हिमशीतलः ।। ५
ततो मन्त्रिभिरागत्य मृतैवेयमिति स्वयम् ।
क्लेदालोकाद्विनिर्णीय भूयो निष्कासितं गृहात् ।। ६
बहुनात्र किमुक्तेन नीत्वा चन्दनदारुभिः ।
चितौ संक्षिप्य सघृतं सहसा भस्मसात्कृतम् ।। ७
ततो राज्ञी मृतेत्युच्चैः कृत्वा रोदनमाकुलम् ।
परिवारस्तवाशेषं कृतवानौर्ध्वदेहिकम् ।। ८
इदानीं त्वामिहालोक्य सशरीरामुपागताम् ।
परलोकादागतेति महच्चित्रं भविष्यति ।। ९
त्वं तु तेन शरीरेण सत्यसंकल्पतः सुते ।
दृश्यसे स्ववदातेन चित्रं तत्र तवोपरि ।। १०
यद्वासना त्वमभवो देहं प्रति तदेव ते ।
रूपमभ्युदितं बाले तेन प्राक्सदृशं तव ।। ११
स्ववासनानुसारेण सर्वः सर्वं हि पश्यति ।
दृष्टान्तोऽत्राविसंवादी बालवेतालदर्शनम् ।। १२
आतिवाहिकदेहासि संपन्ना सिद्धसुन्दरि ।
विस्मृतस्त्वेव देहोऽसौ प्राक्तनोऽनपवासनः ।। १३
रूढातिवाहिकदृशः प्रशाम्यत्याधिभौतिकः ।
बुधस्य दृश्यमानोऽपि शरन्मेघ इवाम्बरे ।। १४
रूढातिवाहिकीभावः सर्वो भवति देहकः ।
निर्जलाम्भोदसदृशो निर्गन्धकुसुमोपमः ।। १५
सद्वासनस्य रूढायामातिवाहिकसंविदि ।
देहो विस्मृतिमायाति गर्भसंस्थेव यौवने ।। १६
एकत्रिंशेऽद्य दिवसे प्राप्ता वयमिहाम्बरे ।
प्रभाते मोहिते दास्यौ मयैते निद्रयाधुना ।। १७
तदेहि यावल्लीलायै लीले संकल्पलीलया ।
आत्मानं दर्शयावोऽस्यै व्यवहारः प्रवर्तताम् ।। १८
श्रीवसिष्ठ उवाच ।
आवां तावदिमे लीला पश्यत्वित्येव चिन्तिते ।
ज्ञप्त्या देव्या ततस्तत्र दृश्ये दीप्ते बभूवतुः ।। १९
सा विदूरथलीलाथ समाकुलविलोचना ।
गृहमालोकयामास तत्तेजःपुञ्जभास्वरम् ।। २०
चन्द्रबिम्बादिवोत्कीर्णं धौतं हेमद्रवैरिव ।
ज्वालाया द्रवशीतायास्तत्प्रभाद्रवभित्तिमत् ।। २१
गृहमालोक्य पुरतो लीलाज्ञप्ती विलोक्य ते ।
उत्थाय संभ्रमवती तयोः पादेषु सापतत् ।। २२
मज्जयायागते देव्यौ जयतां जीवनप्रदे ।
इह पूर्वमहं प्राप्ता भवत्योर्मार्गशोधिनी ।। २३
इत्युक्तवत्यां तस्यां ता मानिन्यो मत्तयौवनाः ।
उपाविशन्विष्टरेषु लतामेरुशिरःस्विव ।। २४
ज्ञप्तिरुवाच ।
सुते वद कथं प्राप्ता त्वमिमं देशमादितः ।
किं वृत्तं ते त्वया दृष्टं किमिवाध्वनि कुत्र वा ।। २५
विदूरथलीलोवाच ।
देवि तस्मिन्प्रदेशे सा जातमूर्च्छा तदाभवम् ।
द्वितीयेन्दोः कलेवाहं कल्पान्तज्वालया हता ।। २६
न चेतितं मया किंचित्समं विषममेव च ।
ततस्तरलपक्ष्मान्ते विनिमील्य विलोचने ।। २७
ततो मरणमूर्च्छान्ते पश्यामि परमेश्वरि ।
यावदभ्युदितास्म्याशु प्लुता च गगनोदरे ।। २८
भूताकाशेऽनिलरथं समारूढास्म्यहं ततः ।
आनीता गन्धलेखेव तेनाहमिममालयम् ।। २९
देवि पश्यामि सदनं नायकेनाभ्यलंकृतम् ।
दीप्तदीपं विविक्तं च महार्हशयनान्वितम् ।। ३०
पतिमालोकयामीमं यावदेष विदूरथः ।
शेते कुसुमगुप्ताङ्गो मधुः पुष्पवने यथा ।। ३१
अथ संग्रामसंरम्भश्रमार्तोऽयं स्वपित्यलम् ।
इति निद्रा मया सेयं देवेश्वरि न वारिता ।। ३२
अनन्तरमिमं देशं प्राप्ते देव्याविमे त्विति ।
यथानुभूतं कथितं मदनुग्रहकारिणि ।। ३३
ज्ञप्तिरुवाच ।
हे हंसहारिगामिन्यौ लीले ललितलोचने ।
उत्थापयामो नृपतिं शवतल्पतलादिमम् ।। ३४
इत्युक्त्वा मुमुचे जीवमामोदमिव पद्मिनी ।
ससमीरलताकारस्तन्नासानिकटं ययौ ।। ३५
घ्राणकोशं विवेशान्तर्वंशरन्ध्रमिवानिलः ।
स्ववासनाशतान्यन्तर्दधदब्धिर्मणीनिव ।। ३६
अन्तस्थजीवं वदनं तस्य तत्कान्तिमाययौ ।
पद्मस्यावग्रहे पद्मं सुवृष्ट इव वारिणि ।। ३७
क्रमादङ्गानि सर्वाणि सरसानि चकाशिरे ।
तस्य पुष्पाकर इव लताजालानि भूभृतः ।। ३८
अथाबभौ कलापूर्णः स राकायामिवोडुराट् ।
भासयन्भुवनं भूरि वदनेन्दुमरीचिभिः ।। ३९
स्फुरयामास सोऽङ्गानि रसवन्ति मृदूनि च ।
कनकोज्वलकान्तीनि पल्लवानीव माधवः ।। ४०
उन्मीलयामास दृशौ विमलालोलतारके ।
हारिण्यौ सुभगाभोगे चन्द्रार्कौ भुवनं यथा ।। ४१
उत्तस्थौ प्रोल्लसत्कायो विन्ध्याद्रिर्वृद्धिमानिव ।
उवाच कः स्थित इति घनगम्भीरनिःस्वनम् ।। ४२
लीलाद्वयमथास्याग्रे प्रोवाचादिश्यतामिति ।
स ददर्श पुरो नम्रं लीलाद्वयमवस्थितम् ।। ४३
समाचारं समाकारं समरूपं समस्थिति ।
समवाक्यं समोद्योगं समानन्दं समोदयम् ।। ४४
का त्वं केयं कुतश्चेयमित्याह स विलोकयन् ।
तस्मै लीलाह हे देव श्रूयतां यद्वदाम्यहम् ।। ४५
महिला तव लीलाहं प्राक्तनी सहधर्मिणी ।
वागर्थस्येव संपृक्ता स्थिता संश्लेषशालिनी ।। ४६
इयं लीला द्वितीया ते महिला हेलया मया ।
उपार्जिता त्वदर्थेन प्रतिबिम्बमयी शुभा ।। ४७
शिरोभागोपविष्टेयं पाहि हैममहासने ।
एषा सरस्वती देव त्रैलोक्यजननी शिवा ।। ४८
अस्माकं पुण्यसंभारैरिह साक्षादुपागता ।
अनयेमे पराल्लोकादिहानीते महीपते ।। ४९
इत्याकर्ण्य समुत्थाय राजा राजीवलोचनः ।
लम्बमाल्याम्बरधरः पपात ज्ञप्तिपादयोः ।। ५०
सरस्वति नमस्तुभ्यं देवि सर्वहितप्रदे ।
प्रयच्छ वरदे मेधां दीर्घमायुर्धनानि च ।। ५१
इत्युक्तवन्तं हस्तेन पस्पर्श ज्ञप्तिदेवता ।
सरस्वत्युवाच ।
त्वं पुत्राभिमतार्थाढ्यो भवेति भवनान्वितः ।। ५२
सर्वापदः सकलदुष्कृतदृष्टयश्च
गच्छन्तु वः शममनन्तसुखानि सम्यक् ।
आयान्तु नित्यमुदिता जनता भवन्तु
राष्ट्रेस्थिराश्च विलसन्तु सदैव लक्ष्म्यः ।।५३
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने पद्मजीवनं नामाष्टपञ्चाशः सर्गः ।। ५८ ।।