योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०६१


एकषष्टितमः सर्गः ६१

श्रीराम उवाच ।
अहं जगदिति भ्रान्तिः परस्मात्कारणं विना ।
यथोदेति तथा ब्रह्मन्भूयः कथय साधु मे ।। १
श्रीवसिष्ठ उवाच ।
समस्ताः समतैवान्ताः संविदो बुध्यते यतः ।
सर्वथा सर्वदा सर्वं सर्वात्मकमजस्ततः ।। २
सर्वा हि शब्दार्थदृशो ब्रह्मैवैताः पृथङ्ग तत् ।
सर्वार्थशब्दार्थकलारूपमासां न विद्यते ।। ३
कटकत्वं पृथग्हेम्नस्तरङ्गत्वं पृथग्जलात् ।
यथा न संभवत्येवं न जगत्पृथगीश्वरात् ।। ४
एष एव जगद्रूपं जगद्रूपं तु नेश्वरे ।
हेमैव कटकादित्वं कटकत्वं न हेमनि ।। ५
यथावयविनो रूपमनेकावयवात्मकम् ।
तथाऽनवयवायास्तु चितः सर्वात्मकं च यत् ।। ६
यत्तुल्यकालमखिलं तन्मात्रावेदनं परे ।
अन्तस्थं तदिदं भाति जगदित्यहमित्यपि ।। ७
लेखौघानां यथा भेदसंनिवेशः शिलोदरे ।
तथानन्यज्जगदहं चेत्यन्तश्चिद्धने घनम् ।। ८
स्थितास्तरङ्गाः सलिले यथान्तरतरङ्गिते ।
सृष्टिशब्दार्थरहितास्तथान्तः सृष्टयः परे ।। ९
न सर्गे तिष्ठति परं सर्गस्तिष्ठति नो परे ।
अवयवावयविवत्सत्तानवयवैस्तयोः ।। १०
चिद्रूपेण स्वसंवित्त्या स्वचिन्मात्रं विभाव्यते ।
स्वमेव रूपहृदयं वातेन स्पन्दनं यथा ।। ११
तत्कालमेष शब्दाणुश्चिच्चमत्काररूपधृक् ।
चेतते खमिवैवान्तः संकल्प इव चेतसा ।। १२
तदेवानिलतां वेत्ति निजसत्तात्मिकां स्वयम् ।
अन्तर्गतस्पर्शरसां पवनस्पन्दतामिव ।। १३
तदेवाभासतामेति निजसत्तात्मिकां स्वयम् ।
कोशस्थितालोकलवां तेजः प्रगटतामिव ।। १४
तदेवं जलतां याति निजसत्तात्मिकां स्वयम् ।
अन्तःस्थितास्वादलवां सलिलं द्रवतामिव ।। १५
तदेदावनितां वेत्ति स्वचित्तैकात्मतामयीम् ।
अन्तःस्थगन्धतन्मात्रामुर्वी स्थैर्यकलामिव ।। १६
तुल्यकालनिमेषांशलक्षभागप्रतीति यत् ।
निजं विदः प्रकचनं तत्सर्गौघपरम्परा ।। १७
शुद्धं सकृत्प्रभातान्तर्दृश्यमध्यमनामयम् ।
उदयास्तमयोन्मुक्तं ब्रह्म तिष्ठत्यनिष्ठितम् ।। १८
बुद्धं सदपवर्गं तत्ससर्गमपि सत्समम् ।
अबुद्धं सर्गरूपात्म विसर्गमपि तत्सदा ।। १९
चिद्रह्म यद्यथा येन बुध्यते स्वात्मनात्मनि ।
तत्तत्तथा नु भवति सर्वं सर्वाङ्गशक्तिमत् ।। २०
तत्सत्यं चिद्विलासत्वान्नित्यानुभवरूपतः ।
तदसत्यं मनः षष्ठात्सर्वाख्या निगतं यतः ।। २१
यथैतत्सरणं वायौ तथा सर्गः स्थितः परे ।
असत्कल्पेऽपि संकल्पः सत्येऽसत्य इवापि च ।। २२
अन्यरूपा यथानन्या तेजस्यालोकतोदरे ।
तथा ब्रह्मणि विश्वश्रीः सत्यासत्यात्मिका चिति ।। २३
अनुत्कीर्णा यथा पङ्के पुत्रिका चाथ दारुणि ।
यथा वर्णा मषीकल्के तथा सर्गाः स्थिताः परे ।। २४
अनन्यान्येव कचति ब्रह्मतत्त्वमरुस्थले ।
असत्यात्मनि सत्येव त्रिजगन्मृगतृष्णिका ।। २५
ब्रह्मणा चिन्मयेनात्मा सर्गात्मैव विभाव्यते ।
न भाव्यते चानन्यत्वाद्बीजेनान्तरिव द्रुमः ।। २६
यथा क्षीरस्य माधुर्यं तीक्ष्णत्वं मरिचस्य च ।
द्रवत्वं पयसश्चैव स्पन्दनं पवनस्य च ।। २७
स्थितोऽनन्यो यथान्यः सन्नास्ति तत्र तथात्मनि ।
सर्गो निर्गलचिद्रूपः परमात्मात्मरूपभृत् ।। २८
कचनं ब्रह्मरत्नस्य जगदित्येव यत्स्थितम् ।
तदकारणकं यस्मात्तेन न व्यतिरिच्यते ।। २९
वासना चित्तजीवादिवेदनं वेदनोदितम् ।
नोदेत्यवेदनादेव यतनादेव पौरुषात् ।। ३०
नास्तमेति न चोदेति क्वचित्किंचित्कदाचन ।
सर्वं शान्तमजं ब्रह्म चिद्धनं सुशिलाघनम् ।। ३१
पराणुं प्रति सर्गौघाश्चिताद्भान्तिसहस्रशः ।
तेष्वप्यणावणावन्तः कैवात्रावासना कथम् ।। ३२
यथा जलान्त ऊर्म्याद्या गुप्तागुसाश्च शक्तयः ।
जाग्रत्स्वप्नसुषुप्ताद्यास्तथा जीवेऽन्तरास्थिताः ।। ३३
जाता चेदरतिर्जन्तोर्भोगान्प्रति मनागपि ।
तदसौ तावतैवोच्चैः पदं प्राप्त इति श्रुतिः ।। ३४
यतो यतो विरज्यते ततस्ततो विमुच्यते ।
अतोऽहमित्यसंविदन्क एति जन्मसंविदम् ।। ३५
चितिं परापरामजामरूपिकामनामिकाम् ।
चराचराऽधरामयीं विदन्ति ये जयन्ति ते ।। ३६
परे चितिः स्वप्रकटाद्वितीया-
स्वावर्तलेखेव जले द्रवान्तः ।
साहं तयेमानि जगन्ति धत्ते
न सन्ति नासन्ति परात्मकानि ।। ३७
अहंमयी पद्मजभावना चित्
संकल्पभेदाद्वितनोति विश्वम् ।
अन्तर्मुखैवानुभवत्यनन्त-
निमेषकोट्यंशविधौ युगान्तम् ।। ३८

इत्यार्षे श्रीवासिष्ठमहारामायणे उत्पत्तिप्रकरणे लीलो० जगत्स्वरूपवर्णनं नामैकषष्टितमः सर्गः ।। ६१ ।।