योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०६५


पञ्चषष्टितमः सर्गः ६५

श्रीवसिष्ठ उवाच ।
परस्मात्कारणादेव मनः प्रथममुत्थितम् ।
मननात्मकमाभोगि तत्स्थमेव स्थितिं गतम् ।। १
भावाभावलसद्दोलं तेनायमवलोक्यते ।
सर्गः सदसदाभासः पूर्वगन्ध इवेच्छया ।। २
न कश्चिद्विद्यते भेदो द्वैतैक्यकलनात्मकः ।
ब्रह्मजीवमनोमायाकर्तृकर्मजगद्दृशाम् ।। ३
अपारावारविस्तारसंवित्सलिलवल्गनैः ।
चिदेकार्णव एवायं स्वयमात्मा विजृम्भते ।। ४
असत्यमस्थैर्यवशात्सत्यं संप्रतिभासतः ।
यथा स्वप्नस्तथा चित्तं जगत्सदसदात्मकम् ।। ५
न सन्नासन्न संजातश्चेतसो जगतो भ्रमः ।
अथ धीसमवायानामिन्द्रजालमिवोत्थितः ।। ६
दीर्घः स्वप्नः स्थितिं यातः संसाराख्यो मनोबलात् ।
असम्यग्दर्शनात्स्थाणाविव पुंस्प्रत्ययो मुधा ।। ७
अनात्मालोकनाच्चित्तं चित्तत्वं नानुशोचति ।
वेतालकल्पनाद्बाल इव संकल्पिते भये ।। ८
अनाख्यस्य स्वरूपस्य सर्वाशातिगतात्मनः .।
चेत्योन्मुखतया चित्तं चित्ताज्जीवत्वकल्पनम् ।। ९
जीवत्वादप्यहंभावस्त्वहंभावाच्च चित्तता ।
चित्तत्वादिन्द्रियादित्वं ततो देहादिविभ्रमाः ।। १०
देहादिमोहतः स्वर्गनरकौ मोक्षबन्धने ।
बीजाङ्कुरवदारम्भसंरूढे देहकर्मणोः ।। ११
द्वैतं यथा नास्ति चिदात्मजीवयो-
स्तथैव भेदोऽस्ति न जीवचित्तयोः ।
यथैव भेदोऽस्ति न जीवचित्तयो-
स्तथैव भेदोऽस्ति न देहकर्मणोः ।। १२
कर्मैव देहो ननु देह एव
चित्तं तदेवाहमितीह जीवः ।
स जीव एवेश्वरचित्स आत्मा
सर्वः शिवस्त्वेकपदोक्तमेतत् ।। १३

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने जीवविचारो नाम पञ्चषष्टितमः सर्गः ।। ६५ ।।