योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०६९



एकोनसप्ततितमः सर्गः ६९
श्रीवसिष्ठउवाच ।
अथ वर्षसहस्रेण तां पितामह आययौ ।
दारुणं हि तपः सिद्ध्यै विषाग्निरपि शीतलः ।। १
मनसैव प्रणम्यैनं सा तथैव स्थिता सती ।
को वरः क्षुच्छमायालमिति चिन्तान्विताभवत् ।। २
आ स्मृतं प्रार्थयिष्येऽहं वरमेकमिमं विभुम् ।
अनायसी चायसी च स्यामहं जीवसूचिका ।। ३
अस्योक्त्या द्विविधा सूचिर्भूत्वालक्ष्या विशाम्यहम्।
प्राणिनां सह सर्वेषां हृदयं सुरभिर्यथा ।। ४
यथाभिमतमेतेन ग्रसेयं सकलं जगत् ।
क्रमेण क्षुद्विनाशाय क्षुद्विनाशः परं सुखम् ।। ५
इति संचिन्तयन्तीं तामुवाच कमलालयः ।
अन्यादृश्यास्तथा दृष्ट्वा स्तनिताभ्रारवोपमम् ।। ६
ब्रह्मोवाच ।
पुत्रि कर्कटिके रक्षःकुलशैलाभ्रमालिके ।
उत्तिष्ठ त्वं तु तुष्टोऽस्मि गृहाणाभिमतं वरम् ।। ७
कर्कट्युवाच ।
भगवन्भूतभव्येश स्यामहं जीवसूचिका ।
अनायसी चायसी च विधेऽर्पयसि चेद्वरम् ।। ८
श्रीवसिष्ठ उवाच ।
एवमस्त्विति तामुक्त्वा पुनराह पितामहः ।
सूचिका सोपसर्गा त्वं भविष्यसि विषूचिका ।। ९
सूक्ष्मया मायया सर्वलोकहिंसां करिष्यसि ।
दुर्भोजना दुरारम्भा मूर्खा दुःस्थितयश्च ये।। 3.69.१०
दुर्देशवासिनो दुष्टास्तेषां हिंसां करिष्यसि ।
प्रविश्याऽऽहृदयं प्राणैः पद्मप्लीहादिबाधनात् ।। ११
वातलेखात्मिका व्याधिर्भविष्यसि विषूचिका ।
सगुणं विगुणं चैव जनमासादयिष्यसि ।। १२
गुणान्वितचिकित्सार्थं मन्त्रोऽयं तु मयोच्यते ।
ब्रह्मोवाच ।
हिमाद्रेरुत्तरे पार्श्वे कर्कटी नाम राक्षसी ।। १३
विषूचिकाभिधाना सा नाम्नाप्यन्यायबाधिका ।
तस्या मन्त्रः ।
'ॐह्रींह्रांरींरां विष्णुशक्तये नमः ।
ॐनमो भगवति विष्णुशक्तिमेनां ॐहरहर नयनय पचपच
मथमथ उत्सादय दूरेकुरु स्वाहा हिमवन्तं गच्छ जीव सः सः सः चन्द्रमण्डलगतोऽसि स्वाहा ।'
इति मन्त्री महामन्त्रं न्यस्य वामकरोदरे ।
मार्जयेदातुराकारं तेन हस्तेन संयुतः ।। १४
हिमशैलाभिमुख्येन विद्रुतां तां विचिन्तयेत् ।
कर्कटीकर्कशाक्रन्दां मन्त्रमुद्गरमर्दिताम् ।। १५
आतुरं चिन्तयेच्चन्द्रे रसायनहृदि स्थितम् ।
अजरामरणं युक्तं मुक्तं सर्वाधिविभ्रमैः ।। १६
साधको हि शुचिर्भूत्वा स्वाचान्तः सुसमाहितः ।
क्रमेणानेन सकलां प्रोच्छिनत्ति विषूचिकाम् ।। १७
इति गगनगतस्त्रिलोकनाथो
गगनगसिद्धग्रहीतसिद्धमन्त्रः ।
गत उपगतशक्रवन्द्यमानो
निजपुरमक्षयमायमुज्ज्वलश्रीः ।। १८
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्ति० सूच्युपाख्याने विषूचिकामन्त्रकथनं नामैकोनसप्ततितमः सर्गः ।। ६९ ।।