योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०८१


एकाशीतितमः सर्गः ८१

राक्षस्युवाच ।
अहो नु परमार्थोक्तिः पावनी तव मन्त्रिणः ।
राजा राजीवपत्राक्ष इदानीमेव भाषताम् ।। १
राजोवाच ।
जागतप्रत्ययाभावो यस्याहुः प्रत्ययं परम् ।
सर्वसंकल्पसंन्यासश्चेतसा यत्परिग्रहः ।। २
यत्संकोचविकासाभ्यां जगत्प्रलयसृष्टयः ।
निष्ठा वेदान्तवाक्यानामथ वाचामगोचरः ।। ३
कोटिद्वयान्तरालस्थं मध्ये कोटिद्वयीमयम् ।
यस्य चित्तमयी लीला जगदेतच्चराचरम् ।। ४
यस्य विश्वात्मकत्वेऽपि खण्ड्यते नैकपिण्डता ।
सन्मात्रं तत्त्वया भद्रे कथ्यते ब्रह्म शाश्वतम् ।। ५
एषोऽणुर्वेदनाद्वायुः स्वभ्रान्तिर्दृगदृश्यत ।
अतो न किंचिद्वाय्वादि केवलं शुद्धचेतनम् ।। ६
शब्दसंवेदनाच्छब्दः शब्दस्य भ्रान्तिदर्शनम् ।
ततोऽत्र शब्दशब्दार्थदृष्टेर्दूरतरं गतः ।। ७
सोऽणुः सर्वं न किंचिच्च सोऽहं नाहं स एव च ।
सर्वशक्यात्मनोऽस्यैव प्रतिभैकात्र कारणम् ।। ८
आत्मा यत्नशतप्राप्यो लब्धेऽस्मिन्न च किंचन ।
लब्धं भवति तच्चैतत्परमं वा न किंचन ।। ९
तावज्जन्म वसन्तेषु संसृतिव्रततिश्चिरम् ।
विकसत्युदितो यावन्न बोधो मूलकाषकृत् ।। 3.81.१०
अणुनानेन रूपत्वं दृश्यतामिव गच्छता ।
तापेनाम्बुधियेवेदं स्वस्थेनैवापहारितम् ।। ११
अनेन संविदणुना मेरुस्त्रिभुवनं तृणम् ।
वमित्वा बहिरन्तस्थं मायात्मकमवेक्ष्यते ।। १२
चिदणोरन्तरे यद्यदस्ति तद्दृश्यते बहिः ।
संकल्पेष्टालिङ्गनादिदृष्टान्तोऽत्र हि रागिणः ।। १३
आदिसर्गे सर्वशक्तिश्चिद्यथैवोदितात्मना ।
तथाशु पश्यत्यखिलं संकल्पे पर्वतः स्वतः ।। १४
अभिजातस्य यस्यान्तर्यद्यथा प्रतिभासते ।
तत्तथा पश्यतीवासौ दृष्टान्तोऽत्र शिशोर्मनः ।। १५
परमाणुतयैवापि चिन्मात्रेणाणुनामुना ।
परिसूक्ष्मतमेनैव विष्वग्विश्वं प्रपूरितम् ।। १६
अणुरेव न मात्येष योजनानां शतेष्वपि ।
सर्वगत्वादनादित्वादरूपत्वादनाकृतिः ।। १७
यथा धूर्तेन खिङ्गेन पुंसा बालः प्रतार्यते ।
सुभ्रूविकारनयननिरीक्षणविचेष्टितैः ।। १८
चिदालोकेन शुद्धेन सपर्वततृणं जगत् ।
नाट्यतेऽविरतं तद्वद्विवृत्त्याभिनयं सदा ।। १९
तेनैवानन्तरूपत्वादणुना वाससा यथा ।
संविदा तद्भवद्बाह्ये कृत्वा मेर्वादिवेष्टितम् ।। 3.81.२०
दिक्कालाद्यनवच्छिन्नरूपत्वान्मेरुतो बृहत् ।
वालाग्रशतभागात्माप्येष सूक्ष्मः परोऽणुकः ।। २१
शुद्धसंवेदनाकाशरूपस्य परमाणुना ।
शोभते नहि साम्योक्तिर्मेरुसर्षपयोरिव ।। २२
मायाकलापिनाणुत्वं निर्माय परमात्मनि ।
हेम्नीव कटकत्वेन नानात्र समता भवेत् ।। २३
प्रकटोऽनेन दीपेन प्रकाशोऽनुभवात्मना ।
स्वसत्तानाशपूर्वो हि विनानेन भवेत्ततः ।। २४
यदि सूर्यादिकं सर्वं जगदेकं जडं भवेत् ।
ततः किमात्मकं रूपं प्रकाशः स्यात्क्व वाथ किम् ।। २५
शुद्धसन्मात्रचित्त्वं यत्स्वतः स्वात्मनि संस्थितम् ।
तदेतदणुना तेजो दृष्टं बहिरवस्थितम् ।। २६
तेजांस्यर्केन्दुवह्नीनां न भिन्नानि तमोघनात् ।
एतावानेव भेदोऽस्ति यद्वर्णे शौक्ल्यकृष्णते ।। २७
यादृक्कज्जलनीहारे मेघनीहारयोर्भवेत् ।
तादृक्प्रकाशतमसोर्भेदो नेति तयोः स्थितिः ।। २८
जडयोरुपलम्भाय चिदादित्यः किलैतयोः ।
यदा तपति तेनैते लब्धसत्तैकतां गते ।। २९
तपत्येकश्चिदादित्यो रात्रिंदिवमतन्द्रितः ।
अन्तर्बहिः शिलाद्यन्तरप्यनस्तमयोदयः ।। 3.81.३०
त्रिलोकी भाति तेनेयं जीवस्य प्रथितात्मनः ।
नानोपलम्भभाण्डाढ्या कुटी कठिनकोटरा ।। ३१
तमस्त्वं तमसो देहमविनाशयतामुना ।
तप्यतेऽभासया भासा सर्वमाभास्यते तमः ।। ३२
पद्मोत्पले यथार्केण तपता प्रकटीकृते ।
प्रकाशतमसोः सत्ते चितैवं प्रकटीकृते ।। ३३
अर्कः कुर्वन्नहोरात्रे दर्शयत्याकृतिं यथा ।
चितिः सदसती कृत्वा दर्शयत्याकृतिं तथा ।। ३४
चिदणोरन्तरे सन्ति समग्रानुभवाणवः ।
यथा मधुरसस्यान्तः पुष्पपत्रफलश्रियः ।। ३५
उद्यन्ति चिदणोरेते समग्रानुभवाणवः ।
मधुमासरसाच्चित्रा इव खण्डपरम्पराः ।। ३६
परमात्माणुरत्यन्तनिःस्वादुः सूक्ष्मतावशात् ।
समग्रस्वादुसत्तैकजनकः स्वदते स्वयम् ।। ३७
यो यो नाम रसः कश्चित्समस्तोऽप्यप्स्यवस्थितः ।
प्रतिबिम्बमिवादर्शे तं विना नास्त्यसौ स्वतः ।। ३८
त्यजता संस्थितं सर्वं चिन्मात्रपरमाणुना ।
त्यक्तं जगदसंवित्त्या संवित्त्या सर्वमाश्रितम् ।। ३९
अशक्तया स्वात्मगुप्तौ सर्वमाच्छादितं जगत् ।
चित्ताणुतामेव परां संप्रसार्य वितानवत् ।। 3.81.४०
आत्मगुप्तौ न शक्नोति परमात्माम्बराकृतिः ।
मनागपि क्षणमपि गजो दूर्वावने यथा ।। ४१
तथाप्याक्रान्तवान्विश्व ज्ञातो गोपायति क्षणात् ।
जगद्धानाकणं बाल इवाहो घनमायिता ।। ४२
चिन्मात्रानुनयेनेदं जगत्सन्नपि जीवति ।
वसन्तरसबोधेन विचित्रेव वनावली ।। ४३
चित्तसत्तैवमखिलं स्वतो जगदिवोदितम् ।
मधुमासरसोल्लासाच्चित्रो हि वनखण्डकः ।। ४४
सत्यं चिन्मयमेवेदं जगदित्येव विद्ध्यलम् ।
वसन्तरसमेव त्वं विद्धि पल्लवगुल्मकम् ।। ४५
सर्वावयविसारत्वात्सहस्रकरलोचनः ।
परमाणुरसावेव नित्यानवयवोदयः ।। ४६
निमेषांशावबोधो हि चिदणोः प्रतिभासते ।
यतः कल्पसहस्रौघः स्वप्ने वार्धकबाल्यवत् ।। ४७
ततः सोऽपि निमेषोणुः कल्पकोटिशतान्यलम् ।
सर्वसत्ताविलासेन प्रतिभैका विजृम्भते ।। ४८
अभुक्तवत्येव यथा भुक्तवानहमित्यलम्।
जायते प्रत्ययस्तद्वन्निमेषे कल्पनिश्चयः ।। ४९
अभुक्त्वा भुक्तवानस्मीत्येवं प्रत्ययशालिनः ।
दृश्यन्ते वासनाविष्टाः स्वप्ने स्वमरणं यथा ।। 3.81.५०
जगन्ति परितिष्ठन्ति परमाणौ चिदात्मनि ।
प्रतिभासाः प्रवर्तन्ते तत एव हि जागताः ।। ५१
यदस्ति यत्र तत्तस्मात्समुदेति तदेव तत् ।
आकारिणि विकारादि दृष्टं न गगनेऽमले ।। ५२
चिति भूतानि भूतानि वर्तमानानि संप्रति ।
भविष्यन्ति च भूतानि सन्ति बीजे द्रुमा इव ।। ५३
निमेषकल्पावेतेन तुषेणान्नकणाविव ।
वलिता वेषचेत्याभ्यामणुः स्वात्माङ्गकं श्रितः ।। ५४
उदासीनवदासीनो न संस्पृष्टो मनागपि ।
एष भोक्तृत्वकर्तृत्वैः स्वात्मा सर्वजगत्यपि ।। ५५
जगत्सत्तोदिते यं हि शुद्धचित्परमाणुतः ।
परमाणोश्च भोक्तृत्वकर्तृत्वे केवलं स्थिते ।। ५६
जगन्न किंचित्क्रियते सर्वदैव न केनचित् ।
विलीयते च नो किंचिन्मानुष्याद्दृश्यखण्डनम्।। ५७
सर्वं समसमाभासमिदमाकाशकोशकम् ।
जगत्तयोपशब्दं च विद्ध्यनाद्यं निशाचरि ।। ५८
चिदणुर्दृश्यसिद्ध्यर्थमान्तरीं चिच्चमत्कृतिम् ।
बहीरूपतया धत्ते स्वात्मनि परिसंस्थिताम् ।। ५९
एतद्बहिष्ठमन्तस्थमस्ति शब्दे न वस्तुनि ।
उपदेशाय सत्त्वानां चिद्रूपत्वाज्जगत्त्रये ।। 3.81.६०
द्रष्टाऽदृष्टपदं गच्छन्नात्मानं संप्रपश्यति ।
नेत्रदृश्याभिपातीव सदेवासदिव स्थितम् ।। ६१
न च गच्छति दृश्यत्वं द्रष्टा?ह्यसदवास्तवम् ।
आत्मन्येव न यत्किंचित्तत्तामेति कथं परः ।। ६२
दृगेव लोचने सा च वासनान्तं निजं वपुः ।
बहीरूपतया दृश्यं कृत्वा द्रष्टृतयोदिता ।। ६३
न विना द्रष्टतामस्ति दृश्यसत्ता कथंचन ।
पितृतेव विना पुत्रं द्वितेवैक्यपदं विना ।। ६४
द्रष्टैव दृश्यतामेति न द्रष्टृत्वं विनास्ति तत् ।
विना पित्रेव तनयो विना भोक्त्रेव भोग्यता ।। ६५
द्रष्टुर्दृश्यविनिर्माणे चित्त्वादस्त्वेव शक्तता ।
कनकस्यावदातस्य कटकादिकृताविव ।। ६६
दृश्यस्य द्रष्ट्टृनिर्माणे जडत्वान्नास्ति शक्तता ।
कटकस्य तु हैमस्य यथा कनकनिर्मितौ ।। ६७
चेतनादृश्यनिर्माणं चित्करोत्यसदेव सत् ।
अकारणं मोहहेतुं हेमेव कटकभ्रमम् ।। ६८
कटकत्वावभासे हि यथा हेम्नो न हेमता ।
सत्येव प्रकचत्येवं द्रष्ट्टदृश्यस्थितौ वपुः ।। ६९
द्रष्टा दृश्यतया तिष्ठन्द्रष्ट्टतामुपजीवति ।
सत्यां कटकसंवित्तौ हेम काञ्चनतामिव ।। 3.81.७०
एकस्मिन्प्रतिभासे हि न स? द्रष्टृदृश्ययोः ।
पुंप्रत्ययप्रकचने क्व पशुप्रत्ययोदयः ।। ७१ ।।
दृश्यं पश्यन्त्यमात्मानं न द्रष्टा संप्रपश्यति । ।
द्रष्टुर्हि दृश्यतापत्तौ सत्ताऽसत्तेव तिष्ठति ।। ७२ ।
बोधाद्गलितदृश्यस्य द्रष्टुः सत्तेव भासते । !।
अबुद्धे कटके स्वस्य हेम्नोऽकटकता यथा ।। ७३
दृश्ये सत्यस्ति वै द्रष्टा दृश्यं द्रष्टरि भासते ।
द्वयेन च विना नैकं नैकमप्यस्ति चानयोः ।। ७४
सर्वं यथावद्विज्ञाय शुद्धसंविन्मयात्मना ।
वाचामविषयं स्वच्छं किंचिदेवावशिष्यते ।। ७५
आत्मानं दर्शनं दृश्यं दीपेनेवावभासितम् ।
कृतं च सर्वमेतेन चिन्मात्रपरमाणुना ।। ७६
मातृमानप्रमेयाख्यं बुधो निगिरति त्रयम् ।
हेमेव कटकादित्वमसन्मयमुपस्थितम् ।। ७७
यथा न जलभूम्यादेः पृथक्किंचिन्मनागपि ।
तथैतस्मात्स्वभावाणोर्न किंचित्पृथगस्ति हि ।। ७८
सर्वगानुभवात्मत्वात्सर्वानुभवरूपतः ।
एकत्वानुभवन्याये रूढे सर्वैकतास्य हि ।। ७९
अस्येच्छया पृथङ्नास्ति वीचितेव महाम्भसः ।
इच्छानुरूपसंपत्तेर्भावितार्थैकता किल ।। 3.81.८०
दिक्कालाद्यनवच्छिन्नः परमात्मास्ति केवलः ।
सर्वात्मत्वात्स सर्वात्मा सर्वानुभवत. स्वतः ।। ८१
सन्नेष चेतनात्मत्वाद्दर्शनानवबोधतः ।
द्वैतैक्ये नात्र विद्येते सर्वरूपे महात्मनि ।। ८२
यदि कश्चिद्द्वितीयः स्यात्तदैकस्यैकता भवेत् ।
द्वैतैक्ययोर्मिथः सिद्धिरातपच्छाययोरिव ।। ८३
यत्र नास्ति द्वितीयो हि तत्रैकस्यैकता कथम् ।
एकतायामसिद्धायां द्वयमेव न विद्यते ।। ८४
एवं स्थिते तु यस्तिष्ठंस्तत्तादृक्तदिवास्ति हि ।
तस्मान्न व्यतिरिक्तं तद्रूपं द्रव इवाम्भसः ।। ८
नानारम्भविभासं च साम्येनाक्षुब्धरूपिणः ।
बीजस्यान्तस्तरुरिव ब्रह्मणोऽन्तः स्थितं जगत् ।। ८६
द्वैतमप्यपृथक्तस्माद्धेम्नः कटकता यथा ।
सम्यग्बुद्धावबोधो हि द्वैतं तच्च न सन्मयम् ।। ८७
यथा द्रवत्वं पयसः स्पन्दनं मातरिश्वनः ।
व्योम्नः शून्यत्वमेवं हि न पृथग्द्वैतमीश्वरात् ।। ८८
द्वैताद्वैतोपलम्भो हि दुःखायैव क्रियात्मने ।
निपुणोऽनुपलम्भो यस्त्वेतयोस्तत्परं विदुः ।। ८९
मातृमानप्रमेयादिद्रष्टृदर्शनदृश्यता ।
एतावज्जगदेतच्च परमाणौ चिति स्थितम् ।। 3.81.९०
अयं जगदणुर्नित्यमेतेनाणुसुमेरुणा ।
स्पन्दनं पवनेनेव स्वाङ्ग एव कृताकृतः ।। ९१
अहो नु भीमा मायेयमथवा मायिनां परा ।
परमाण्वन्तरेवास्ति यत्त्रैलोक्यपरम्परा ।। ९२
अथासंभवमायित्वमेवैतत्सर्वदा स्थितम् ।
चिन्मात्रपरमाणुत्वमात्रमेव जगत्स्थितिः ।। ९३
अन्तर्गतजगज्जालोऽप्येषोऽणुः साम्यमत्यजन् ।
स्थितोऽन्तस्थबृहद्वृक्षं बीजं भाण्डोदरे यथा ।। ९४
बीजेऽन्तर्वृक्षविस्तारः स्थितः सफलपल्लवः ।
परया दृश्यते दृष्ट्या जगच्च चिदणूदरे ।। ९५
स शाखाफलपुष्पं स्वमजहद्बीजकोटरे ।
यथा तरुः स्थितस्तद्वद्विकासि चिदणोर्जगत् ।। ९६
संस्थितं द्वैतमद्वैतं बीजकोश इव द्रुमः ।
जगच्चित्परमाण्वन्तर्यः पश्यति स पश्यति ।। ९७
न द्वैतं नैव चाद्वैतं न च बीजं न चाङ्कुरः ।
न स्थूलं न च वा सूक्ष्मं नाजातं जातमेव च ।। ९८
न चास्ति न च नास्तीदं न सौम्यं क्षुभितं न च ।
त्रिजगच्चिदणोरन्तः खवाय्वपि न किंचन ९९
न जगन्नाजगच्चास्ति विद्यते चित्परा शुभा ।
सर्वात्मिका यदा यत्र सा यथोदेति तत्तथा ।। 3.81.१००
उदेत्यनुदितोऽप्येष स्वयंवेदनजृम्भितः ।
परमात्माणुरेकात्मा समग्रात्मतयैव खे ।। १०१
द्रुमो भूमौ स्वबीजत्वमिवोदेत्यनुदेत्यपि ।
परं तत्त्वं जगद्भक्त्या जगत्तां स्वोदयेन च ।। १०२
द्रुमो बीजतयैवाशु न संत्यक्तसमस्थितिः ।
तिष्ठत्यपगतस्पन्दस्त्यागात्यागपरोऽणुकः ।। १०३
बिसतन्तुर्महामेरुः परमाणोरपेक्षया ।
दृश्यं किल विशेत्तन्तुरदृश्याक्ष्णा पराणुता ।। १०४
बिसतन्तुर्महामेरुः परमाणोः किलात्मनः ।
तस्यैव तद्घनाः स्वान्तः स्थिता मेर्वादिकोटयः ।। १०५
एकेन तेन महता परमाणुना च व्याप्तं ततं विरचितं जनितं कृतं च ।
दृश्यं प्रपञ्चरचितं नभसेव विश्वं शून्यत्वमच्छमभितः परिलब्धमेव ।। १०६
द्वैतेन सुन्दरतरं स्वमनुज्झितेन रूपं सुषुप्तसदृशेन यथावबोधात् ।
ऐक्यं गतं स्थितिगमागममुक्तमेवमित्थं स्थितं तनु जगत्परमार्थपिण्डः ।। १०७

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे कर्क० परमार्थापिण्डीकरणं नामैकाशीतितमः सर्गः ।। ८१ ।।