योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०८४
चतुरशीतितमः सर्गः ८४
श्रीवसिष्ठ उवाच ।
एतत्ते कथितं सर्वं मयाख्यानमनिन्दितम् ।
कर्कट्या हिमराक्षस्या यथावदनुपूर्वशः ।। १
श्रीराम उवाच ।
हिमवद्गह्वरे प्रोत्था सा कथं कृष्णराक्षसी ।
बभूव कर्कटी नाम्ना यथावद्वद मे प्रभो ।। २
श्रीवसिष्ठ उवाच ।
कुलानि सन्त्यनेकानि राक्षसानां स्वभावतः ।
तानि शुक्लानि कृष्णानि हरितान्युज्ज्वलानि च ।। ३
कर्कटप्राणिसादृश्यात्कर्कटो नाम राक्षसः ।
बभूव तज्जा सा कृष्णा कर्कटी कर्कटाकृतिः ।। ४
कर्कटीप्रश्नसंस्मृत्या मयैषा कथिता तव ।
अध्यात्मोक्तिप्रसङ्गेन विश्वरूपनिरूपणे ।। ५
संपन्नमेव मे कस्मादसंपन्नमिव स्फुटम् ।
इदं जगदनाद्यन्तात्पदात्परमकारणात् ।। ६
प्लाविन्यो वीचयो वारिण्यन्यानन्याः स्थिता यथा ।
वर्तमाना अपि परे सृष्टयः संस्थितास्तथा ।। ७
अज्वलन्नेव काष्ठेषु वह्निरर्थक्रियां यथा ।
करोति मर्कटादीनां शीतापहरणादिकम् ।। ८
समं सौम्यत्वमजहदेव नित्योदयस्थिति ।
तथा ब्रह्म करोतीदं नाना कर्तेव सज्जगत् ।। ९
अप्यनागत एवायमेवं सर्ग उपागतः ।
भोः शालभञ्जिकासंविद्दारुण्येव मुधोदिता ।। 3.84.१०
बीजे यथाऽनन्यदपि फलाद्यन्यदिवोदितम् ।
चितौ तथाऽनन्यदपि चेत्यमन्यदिवोदितम् ।। ११
अच्छेदादेकसत्ताया न भेदः फलबीजयोः ।
चिच्चेत्ययोश्च वार्यूर्म्योरिव वस्तुनि कश्चन ।। १२
अविचारात्कुतो भेदो नैतयोरुपपद्यते ।
यतःकुतश्चिदुदितः स विचारेण नश्यति ।। १३
भ्रान्तिरेषा यथाऽऽयाता तथा यातु रघूद्वह ।
ज्ञास्यसे तत्प्रबुद्धस्त्वमेनां केवलमुत्सृज ।। १४
भ्रान्तिग्रन्थौ वित्रुटिते मदुक्तिश्रवणात्ततः ।
ज्ञानशब्दार्थभेदानां वस्तु ज्ञास्यस्यलं स्वयम् ।। १५
चित्तादियमनर्थश्रीस्तच्च सा चेतरा च ते ।
मदुक्तिश्रवणादेव शान्तिमेष्यत्यसंशयम् ।। १६
ब्रह्मणः सर्वमुत्पन्नं सर्वं ब्रह्मैवमेति च ।
मद्गीर्भिः संप्रबुद्धः सन् ज्ञास्यस्यलमनिन्दितम् ।। १७
श्रीराम उवाच ।
तस्मादियमिति ब्रहन्व्यतिरेकार्थपञ्चमी ।
ननु किं विद्धि देवेशादभिन्नं सर्वमित्यपि ।। १८
श्रीवसिष्ठ उवाच ।
उपदेशाय शास्त्रेषु जातः शब्दोऽथवार्थजः ।
प्रतियोगिव्यवच्छेदसंख्यालक्षणपक्षवान् ।। १९
भेदो दृश्यत एवायं व्यवहारान्न वास्तवः ।
वेतालो बालकस्येव कार्यार्थं परिकल्पितः ।। २०
द्वैतैक्यमपि नो यस्यां तथा भूतार्थसंस्थितौ ।
अस्ति तस्यामीदृशः स्यात्कुतः संकल्पविप्लवः ।। २१
कार्यकारणभावो हि तथा स्वस्वामिलक्षणम् ।
हेतुश्च हेतुमांश्चैवावयवावयविक्रमः ।। २२
व्यतिरेकाव्यतिरेकौ परिणामादिविभ्रमः ।
तथा भावविलासादि विद्याविद्ये सुखासुखे ।। २३
एवमादिमयी मिथ्यासंकल्पकलना मिता ।
अज्ञानामवबोधार्थं नतु भेदोऽस्ति वस्तुनि ।। २४
अविबोधादयं वादो ज्ञाते द्वैतं न विद्यते ।
ज्ञाते संशान्तकलनं मौनमेवावशिष्यते ।। २५
सर्वमेकमनाद्यन्तमविभागमखण्डितम् ।
इति ज्ञास्यसि सिद्धान्तं काले बोधमुपागतः ।। २६
विवदन्ते ह्यसंबुद्धाः स्वविकल्पविजृम्भितैः ।
उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते ।। २७
वाच्यवाचकसंबोधो विना द्वैतं न सिद्ध्यति ।
नच द्वैतं संभवति मौनं वापादयत्यलम् ।। २८
महावाक्यार्थनिष्ठान्तां बुद्धिं कृत्वा रघूद्वह ।
वचोभेदमनादृत्य यदिदं वच्मि ते श्रृणु ।। २९
यतःकुतश्चिदुच्छ्रायं गन्धर्वपुरवन्मनः ।
भ्रान्तिमात्रं तनोतीदं जगदाख्यं स्वजृम्भणम् ।। ३०
यथा चेतस्तनोतीमां जगन्मायां तथानघ ।
श्रृणु त्वं कथयामीदं दृष्टान्तं दृष्टिवेदनम् ।। ३१
यं श्रुत्वा सर्वमेवेदं भ्रान्तिमात्रमिति स्वयम् ।
राम निश्चयवान्भूत्वा दूरे त्यक्ष्यसि वासनाम् ।। ३२
मनोमनननिर्माणमात्रमेव जगत्त्रयम् ।
सर्वमुत्सृज्य शान्तात्मा स्वात्मन्येव निवत्स्यसि ।। ३३
मद्वाक्यार्थावधानस्थो मनोव्याधिचिकित्सने ।
विवेकौषधलेशेन प्रयत्नं च करिष्यसि ।। ३४
एवं स्थिते जगद्रूपं चित्तमेवेह जृम्भते ।
न विद्यते शरीरादि सिकतान्तरतैलवत् ।। ३५
चित्तमेव हि संसारो रागादिक्लेशदूषितम् ।
तदैव तैर्विनिर्मुक्तं भवान्त इति कथ्यते ।। ३६
चित्तं साध्यं पालनीयं विचार्यं कार्यमार्यवत् ।
आहार्यं व्यवहार्यं च संचार्यं धार्यमादरात् ।। ३७
सर्वमभ्यन्तरे चित्तं बिभर्ति त्रिजगन्नभः ।
अहमापूरमिव तद्यथाकालं विजृम्भते ।। ३८
योऽयं चित्तस्य चिद्भागः सैषा सर्वार्थबीजता ।
यश्चास्य जडभागश्च तज्जगत्सोऽङ्ग संभ्रमः ।। ३९
अविद्यमानमेवेदमादिसर्गे धरादिकम् ।
निराकृतिरजः स्वप्नं पश्यतीव न पश्यति ।। ४०
सर्गादिदीर्घसंवित्या शैलादिजडसंविदा ।
सूक्ष्मं सूक्ष्मविदा चेति देहं शून्यं न वास्तवम् ।। ४१
सर्वगेनात्मना व्याप्तं स्वचेत्यात्मवपुर्मनः ।
आततं सौम्य विमलं वारीव रवितेजसा ।। ४२
चित्तबालो जगद्यक्षं मिथ्या पश्यत्यबोधतः ।
बोधितोऽसौ परं रूपं स्वं पश्यति निरामयम् ।। ४३
यथात्मा दृश्यतामेति द्वित्वैक्यभ्रमदायिनीम् ।
श्रृणु तत्ते प्रवक्ष्यामि वक्ष्यमाणकथागमैः ।। ४४
यत्कथ्यते हि हृदयंगमयोपमान-
युक्त्या गिरा मधुरयुक्तपदार्थया च ।
श्रोतुस्तदङ्ग हृदयं परितो विसारि
व्याप्नोति तैलमिव वारिणि वार्य शङ्काम् ।। ४५
त्यक्तोपमानममनोज्ञपदं दुरापं
क्षुब्धं धराविधुरितं विनिगीर्णवर्णम् ।
श्रोतुर्न याति हृदयं प्रविनाशमेति
वाक्यं किलाज्यमिव भस्मनि हूयमानम् ।। ४६
आख्यानकानि भुवि यानि कथाश्च या या
यद्यत्प्रमेयमुचितं परिपेलवं वा ।
दृष्टान्तदृष्टिकथनेन तदेति साधो
प्राकाश्यमाशु भुवनं सितरश्मिनेव ।। ४७
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे सूच्युपाख्याने मनोङ्कुरोत्पत्तिकथनं नाम चतुरशीतितमः सर्गः ।। ८४ ।।