योगवासिष्ठः/प्रकरणम् ३ (उत्पत्तिप्रकरणम्)/सर्गः ०८९

एकोननवतितमः सर्गः ८९

भानुरुवाच ।
मनो हि जगतां कर्तृ मनो हि पुरुषः परः ।
मनःकृतं कृतं लोके न शरीरकृतं कृतम् ।। १
सामान्यब्राह्मणा भूत्वा मनोभावनया किल ।
ऐन्दवा ब्रह्मतां याता मनसः पश्य शक्तताम् ।। २
मनसा भाव्यमानो हि देहतां याति देहकः ।
देहभावनयाऽयुक्तो देहधर्मैर्न बाध्यते ।। ३
बाह्यदृष्टिर्हि नियतं सुखदुःखादि विन्दति ।
नान्तर्मुखतया योगी देहे वेत्ति प्रियाप्रिये ।। ४
मनःकारणकं तस्माज्जगद्विविधविभ्रमम् ।
इन्द्रस्याहल्यया सार्धं वृत्तान्तोऽत्र निदर्शनम् ।। ५
श्रीब्रह्मोवाच ।
काहल्या भगवन्भानो को वात्रेन्द्रस्तमोनुद ।
ययोरुदन्तश्रवणे पावनी दृष्टिरेति हि ।। ६
भानुरुवाच ।
श्रूयते हि पुरा देव मागधेषु महीपतिः ।
इन्द्रद्युम्न इति ख्यात इन्द्रद्युम्न इवापरः ।। ७
तस्येन्दुबिम्बप्रतिमा भार्या कमललोचना ।
अहल्या नाम तत्रासीच्छशाङ्कस्येव रोहिणी ।। ८
तस्मिन्नेव पुरे षिङ्गः षिङ्गप्रकरशेखरः ।
इन्द्रनामा परः कश्चिद्धीमान्विप्रकुमारकः ।। ९
अहल्या पूर्वमिन्द्रस्य बभूवेष्टेत्यहल्यया ।
श्रुतं राजमहिष्याथ कथाप्रस्तावतः क्वचित् ।। 3.89.१०
आकर्ण्यैवमहल्या सा बभूवेन्द्रानुरागिणी ।
अहल्यां मां स नो कस्मात्सक्तोऽभ्येतीत्यथोत्सुका ११
मृणालभारकदलीपल्लवास्तरणेषु सा ।
अतप्यत भृशं बाला लता लूना वनेष्विव ।। १२
खेदमाप समग्रासु तासु भूपविभूतिषु ।
मत्सी निदाघतप्तासु परिलोला स्थलीष्विव ।। १३
अयमिन्द्रोऽयमिन्द्रश्चेत्येवं जातप्रलापया ।
लज्जापि हि तया त्यक्ता वैवश्यमनुयातया ।। १४
इत्यार्तया घनस्नेहमथ तस्या वयस्यया ।
उक्तं तया प्रियेऽविघ्नमिन्द्रमभ्यानयाम्यहम् ।। १५
इष्टं तवानयामीति श्रुत्वा विकसितेक्षणा ।
पपात पादयोः सख्या नलिन्या नलिनी यथा ।। १६
ततः प्रयाते दिवसे समायाते निशागमे ।
सा वयस्या तमिन्द्राख्यं ययौ द्विजकुमारकम् ।। १७
बोधयित्वा यथायुक्तं सा तमिन्द्रमथाङ्गना ।
अहल्यानिकटं रात्र्यामानयामास सत्वरम् ।। १८
ततः सा तेन षिङ्गेन सहेन्द्रेण रतिं ययौ ।
कस्मिंश्चित्सदने गुप्ते बहुमाल्यविलेपना ।। १९
हाराङ्गदमनोज्ञेन तरुणी तेन सा तदा ।
रतेनावर्जिता वल्ली रसेन मधुना यथा ।। 3.89.२०
ततस्तदनुरक्ता सा पश्यन्ती तन्मयं जगत् ।
न समस्तगुणाकीर्णं भर्तारं बह्वमन्यत ।। २१
केनचित्त्वथ कालेन तस्या इन्द्रानुरागिता ।
सा ज्ञाता राजसिंहेन तन्मुखव्योमचन्द्रिका ।। २२
इन्द्रं ध्यायति सा यावत्तावत्तस्या विराजते ।
मुखं पूर्णेन चन्द्रेण प्रबुद्धमिव कैरवम् ।। २३
इन्द्रोऽपि च तदासक्तसमस्तकरणाकुलः ।
न तिष्ठति क्षणमहो तया विरहितः क्वचित् ।। २४
अथातिसुघनस्नेहनिरावरणचेष्टयोः ।
तयोरनयवृत्तान्तो राज्ञाकर्णि कटुव्यथः ।। २५
एवमन्योन्यमासक्तं भावमालक्ष्य भूपतिः ।
चकार बहुभिर्दण्डैः स द्वयोरथ शासनम् ।। २६
तावुभावपि संत्यक्तौ हेमन्ते सलिलाशये ।
तुष्टौ जहसतुस्तत्र न खेदं समुपागतौ ।। २७
अपृच्छत ततो राजा खिन्नौ स्थो न तु दुर्मती ।
तावूचतुर्महीपाल जलाशयसमुद्धृतौ ।। २८
संस्मृत्यावामिहान्योन्यमुखकान्तिमनिन्दिताम् ।
आत्मानं न विजानीवो रूढभावं परस्परम् ।। २९
शासनेषु च यत्सङ्गो निःशङ्कस्तेन हर्षितौ ।
मुह्यावो न महीपाल स्वाङ्गैरपि विकर्तितैः ।। 3.89.३०
ततो भ्राष्ट्रे परिक्षिप्तावखिन्नावेवमेव तौ ।
ऊचतुर्मुदितात्मानावन्योन्यस्मृतिहर्षितौ ।। ३१
ग्रथितौ गजपादेषु न खिन्नावेव संस्थितौ ।
एवमेवोचतुर्भूपमन्योन्यस्मृतिहर्षितौ ।। ३२
कशाहतावखिन्नौ तावेवमेव किलोचतुः ।
अन्यस्माच्छासनाद्राज्ञा कल्पिताच्च पुनः पुनः ।। ३३
उद्धृतावूचतुः पृष्टौ तमेवार्थं पुनः पुनः ।
उवाचेन्द्रो महीपालं जगन्मे दयितामयम् ।। ३४
न शातनानि दुःखानि बाधन्ते किंचिदेव मे ।
अस्याश्चैव जगद्राजन्सर्वं मन्मयमेव च ।। ३५
तेनान्यशासनाद्दुःखं किंचिदेव न विद्यते ।
मनोमात्रमहं राजन् मनो हि पुरुषः स्मृतः ।। ३६
प्रपञ्चमात्रमेवायं देहो दृश्यत एव हि ।
समकालप्रयुक्तेन सहसा दण्डराशिना ।। ३७
वीरं मनो भेदयितुं मनागपि न शक्यते ।
का नाम ता महाराज कीदृश्यः कस्य शक्तयः ।। ३८
याभिर्मनांक्त भिद्यन्ते दृष्टनिश्चयवन्त्यपि ।
वृद्धिमायातु वा देहो यातु वा विशरारुताम् ।। ३९
भावितार्थाभिपतितं मनस्तिष्ठति पूर्ववत् ।
इष्टेऽर्थे चिरमाविष्टं दधानं तत्स्थितं मनः ।। 3.89.४०
भावाभावाः शरीरस्था नृप शक्ता न बाधितुम् ।
भावितं तीव्रवेगेन मनसा यन्महीपते ।। ४१
तदेव पश्यत्यचलं न शरीरविचेष्टितम् ।
न काश्चन क्रिया राजन्वरशापादिका अपि ।। ४२
तीव्रवेगेन संपन्नं शक्ताश्चालयितुं मनः ।
तीव्रवेगेन संयुक्तं पुरुषा ह्यभिवाञ्छितात् ।। ४३
मनश्चालयितुं शक्ता न महाद्रिं मृगा इव ।
ममेयमसितापाङ्गी मनःकोशे प्रतिष्ठिता ।। ४४
देवागारे महोत्सेधे देवी भगवती यथा ।
न दुःखमनुगच्छामि प्रियया जीवरक्षया ।। ४५
गिरिर्ग्रीष्मदशादाहं लग्नयेवाब्दमालया ।
यत्र यत्र यथा राजंस्तिष्ठाम्यभिपतामि वा ।। ४६
तत्रेष्टसंगमादन्यत्किंचिन्नानुभवाम्यहम् ।
अहल्यादयितानाम्ना मनसेन्द्राभिधं मनः ।। ४७
संसक्तमिदमायाति न स्वभावादृते परम् ।
एककार्यनिविष्टं हि मनो धीरस्य भूपते ।। ४८
न चाल्यते मेरुरिव वरशापबलैरपि ।
देहो हि वरशापाभ्यामन्यत्वमिव गच्छति ।
ननु धीरं मनो राजन्विजिगीषुतया स्थितम् ।। ४९
एतानि चात्र मनसां न च कारणानि
राजञ्शरीरशकलानि वृथोत्थितानि ।
चेतो हि कारणममीषु शरीरकेषु
वारीव सर्ववनखण्डलतारसेषु ।। 3.89.५०
आद्यं शरीरमिह विद्धि मनो महात्म-
न्संकल्पितो जगति तेन शरीरसङ्घः ।
आद्यं शरीरमधितिष्ठति यत्र यत्र
तत्तद्भृशं फलति नेतरदस्य पुंसः ।। ५१
मुख्याङ्कुरं सुभग विद्धि मनो हि पुंसो
देहास्ततः प्रविसृतास्तरुपल्लवाभाः ।
नष्टेऽङ्कुरे पुनरुदेति न पल्लवश्री-
र्नैवाङ्कुरः क्षयमुपैति दलक्षयेषु ।। ५२
देहे क्षते विविधदेहगणं करोति
स्वप्नावनाविव नवं नवमाशु चेतः ।
चित्ते क्षते तु न करोति हि किंचिदेव
देहस्ततः समनुपालय चित्तरत्नम् ।। ५३
दिशि दिशि हरिणाक्षीमेव पश्यामि राजन्
प्रिययुवतिमनस्त्वान्नित्यमानन्दितोऽस्मि ।
तव पुरप्रकृतीनां यत्फलं दुःखदायि
क्षणमथसुचिरं तत्तन्न पश्यामि किंचित्।। ५४
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० उत्पत्तिप्रकरणे कृत्रिमेन्द्राहल्यानुरागो नामैकोननवतितमः सर्गः ।। ८९ ।।